बृहद्दैवज्ञरञ्जनम्/ताराप्रकरणम्

विकिस्रोतः तः

अथाष्टाविंशं ताराप्रकरणं प्रारभ्यते ।
जन्मभाद्दिननक्षत्रं गणयेत्क्रमतो बुधः ।
हरेद्भागं ग्रहेणैव शेषं तारा भवेदिति ॥१॥
जन्मसंपद्विपत्तारा क्षेमा पापा शुभा पुनः ।
कष्टा मैत्रातिमैत्रा च नव तारा उदाहृताः ॥ २ ॥
तारा सर्वा शुभा प्रोक्ता सप्त पंच त्रिवर्जिता ।
यात्रा क्षौरविवाहेषु भैषज्ये च परा हिता ॥ ३ ॥
अन्यत्रापि –
जन्मऋक्षं गणेत्यादौ दिनऋक्षावधिं किल ।
नवभिश्च हरेद्भागं शेषं तारा विनिर्दिशेत् ॥ ४ ॥
जन्मतारा द्वितीया च षष्ठी चैव चतुर्थिका ।
अष्टमी नवमी तारा षट् तारा च शुभावहा ॥ ५ ॥
बृहस्पतिः –
जन्मसंपद्विपत्क्षेम प्रत्यरिः साधको वधः ।
मैत्रं परममैत्रं च भवेत्संज्ञास्तु कर्मणाम् ॥ ६ ॥
विपदि प्रत्यरे वैधे प्रथमांत्ये त्रिभागतः ।
विनान्येशा शुभाः सर्वे सर्वेषु शुभकर्मसु ॥७॥
कृष्णे बलवती तारा शुक्ले चंद्रः प्रशस्यते ।
शुक्ले तारा न शुभदा कृष्णे चंद्रो न शस्यते ॥ ८ ॥
दद्याद्द्विजातये दानमशुभाय शुभाय च ।
गुडं च लवणं चैव कांचनं सतिलं क्रमात् ॥ ९ ॥
गर्गः –
विपत्तारे गुडं दद्याच्छाकं दद्याद्द्विजन्मसु ।
प्रत्यरेलवणं दद्यान्नैधने तिलकांचनम् ॥ १० ॥
लल्लः-
न कृष्णपक्षे शशिनः प्रभावो ताराबलं तत्र शुभं प्रदिष्टम् ।
देशांतरस्थे विकले च पत्यौ सर्वाणि कार्याणि करोति नारी ॥ ११ ॥
 अत्रापि तारापतिवीर्यमेव वदंति पक्षद्वितयेपि केचित् ।
केचिच्च तासां बलयुक्तमिंदोर्बलं सदा देयमिति ब्रुवंति ॥ १२ ॥
ज्योतिःप्रकाशे –
विहाय ताराबलमौषधीशो पक्षद्वयेपीष्टफलं न यस्मात् ।
अप्राप्य जायानुमतं हि लोके न कार्यसिद्धौ पुरुषः समर्थः ॥ १३ ॥
वसिष्ठमांडव्यमतादिहोत्थं बलाबलं तारकशीतभान्वोः ।
विचारितं सम्यगमी तदर्थाः श्लोकास्तुरीयाः सुरसंहितायाम् ॥ १४ ॥
तिथयः पंच शुक्लाद्याश्चन्द्रतारायुतो बली ।
तनुत्वाद्वर्द्धमानोपि प्रौढस्त्रीको यथा पतिः ॥ १५ ॥
परतश्चंद्रमा एव यावत्कृष्णाष्टमीदलम् ।
प्रौढस्तु पुरुषो यद्वत्स्वतंत्रः स्याद्विना स्त्रियम् ॥ १६ ॥
कृष्णाष्टम्यूर्ध्वतो यावद्दिनं पैत्र्यं निशाकरः ।
क्षीणत्वाद्दुर्बलत्वेन प्रधानं तारकाबलम् ॥ १७ ॥
विकलांगौ यथा पत्यौ कार्येषु प्रभवः स्त्रियः ।
एवं चंद्रे च विकले तारा बलवती भवेत् ॥ १८ ॥
जन्माद्यं दशमं कर्म संघातर्क्षे च षोडशम् ।
अष्टादशं सामुदायं त्रयोविंशद्विनाशनम् ॥ १९ ॥
मानसं पंचविंशर्क्षं नाचरेच्छुभभेषु तु ।
अभिषेकेभिषेकर्क्षं दशमं जन्मभागतः ।
जातिभे जातिनक्षत्रं पापैर्युक्तं न शोभनम् ॥ २० ॥
भूपालः –
केत्वर्काकियुतं भौमवक्रभेदेन दूषितम् ।
हतमुल्कापरागाभ्यां स्वभावान्यत्वमागतम् ॥ २१ ॥
पीडितो जन्मभे मृत्युः कर्मनाशश्च कर्मणि ।
संघाते बंधुपीडा स्यात्समुदाये सुखक्षयम् ॥ २२ ॥
वैनाशिके देहनाशो मनस्तापस्तु मानसे ।
कुलदेशश्रियां नाशो जातिदेशाभिषेकभे ॥ २३ ॥
दुष्टतारापवादः ज्योतिःसागरे-
शशिनि परिपुष्टकिरणे स्वतुंगभवने स्वकीयवर्गे वा ।
क्षौरादिकेपि कार्ये तारादोषो न दोषाय ॥ २४ ॥
राजमार्तंडे –
सौम्य सुहृन्निजभवने चंद्रे तुंगर्क्षसंस्थे च ।
अणुतामपि संप्राप्ते तारादौष्ट्यं न दोषाय ॥ २५ ॥
च्यवनः-
यदि चेज्जन्मनक्षत्रं भौमार्काकिंतमोयुतम् ।
तस्य सर्वौषधिस्नानं गुरुविप्रसुरार्चनम् ॥ २६ ॥
वाग्भटः-
मुरा मांसी वचा कुष्ठा शैलेयं रजनीद्वयम् ।
सठी चंपकमुस्ता च सर्वौषधिगणाः स्मृताः ॥ २७ ॥
वृद्धवसिष्ठः-
बला च शंखपुष्पी च कुष्ठी चैव तथा वचा ।
नागकेशरचूर्णं च सर्वौषाधिगणो भृगौ ॥ २८ ॥
छांदोग्य परिशिष्टे –
कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचंदनम् ।
वचा चंपकमुस्ते च सर्वौषध्यो दश स्मृताः ॥ २९ ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्दैवज्ञरंजने ताराकथनं नाम अष्टाविंशं प्रकरणं समाप्तम् ॥ २८ ॥