बृहद्दैवज्ञरञ्जनम्/चतुर्विंशं नक्षत्रप्रकरणम्

विकिस्रोतः तः

अथ चतुर्विंशं नक्षत्रप्रकरणं प्रारभ्यते ।
संहिताप्रदीपे –
सर्वत्र कार्येषु हि शोभनेषु नक्षत्रशुद्धिं मृगयंति पूर्वाः ।
यत्कर्म यस्मिन्करणीयमुक्तं तत्र प्रदेयं विदुषा विदित्वा ॥ १ ॥
गुरुः-
नक्षत्राणां प्रवक्ष्यामि रूपताराश्च संख्यया ।
देवताश्च तथा गोत्रं स्वभावं तद्भवं ततः ॥ २ ॥
[१]कृत्तिका क्षुरसंस्थाना षट्तारा चाग्निदेवता ।
अग्निवेश्यश्च गोत्रेण विज्ञेया मृदुदारुणा ॥ ३ ॥
अग्न्याधानादिकर्माणि पाकयज्ञक्रतुक्रियाम् ।
आरामविषघातांश्च चुह्लिकर्म च कारयेत् ॥ ४ ॥
इष्टिं च पशुबंधं च चौलोपनयनानि च ।
यावंति चोग्रकर्माणि पशूनामर्चनानि च ॥ ५ ॥
तेजस्विनां च कर्माणि आयुधानि च कारयेत् ।
ऋणं दद्यान्न गृह्णीयात्तेजस्वी चात्र कथ्यते ॥ ६ ॥
इति कृत्तिका ।
रोहिणी शकटाकारा संस्थाना पंचतारका ।
नक्षत्रं स्थावरं विद्धि दैवतं च प्रजापतिः ॥ ७ ॥
गोत्रेण गौतमी ज्ञेया बंधनानि प्रकारयत् ।
आरामं च विवाहं च गोपुराट्टालिकानि च ॥ ८ ॥
यावंति ध्रुवकर्माणि मंगलानि च कारयेत् ।
प्राकाराणि च कुर्वीत प्रासादभवनानि च ॥ ९ ॥
पत्तनं नगरग्रामं स्थापयेद्देशमेव च ।
क्षेत्रारंभं च कुर्वीत आरामं चाभिषेचयेत् ॥ १० ॥
ऋणं तद्वन्न गृह्णीयात्षुरारकर्म न कारयेत् ।
कल्याणानि प्रकुर्वीत नाशुभाश्चात्र जायते ॥११॥
इति रोहिणी ।
त्रितारं सोमदैवत्यं मृदुं मृगशिरो विदुः ।
कात्यायनीति गोत्रेण गार्हस्थ्यं चात्र कारयेत् ॥ १२ ॥
राज्याभिषेकं कुर्वीत शयनान्यासनानि च ।
अंजनं कारयेत्तत्र गोदानं पौष्टिकानि च ॥ १३ ॥
वाहनानि च कर्माणि शुभदान्य- शुभानि च ।
गतास्वानां गृहारंभे प्रवेशादीनि कारयेत् ॥ १४ ॥
यथोक्तं कर्म रोहिण्यां सर्वमस्मिन् प्रकारयेत् ।
धर्मकर्मादिदानानि विद्यारंभादि कारयेत् ॥ १५ ॥
कर्मशीलश्च दानी च मृदुश्चैवात्र जायते ॥ १६ ॥
इति मृगशिरा ।
एकतारा भवेदार्द्रा रुद्रश्चैवात्र देवता ।
घातयेन्नगरं ग्रामं पुरदेशं तथैव च ॥ १७ ॥
यावंति पापकर्माणि दारुणानि च कारयेत् ।
गोष्ठागारादि कुर्वीत कृषिकर्म च कारयेत् ॥ १८ ॥
यावंति धान्यकर्माणि यशस्वी चात्र जायते ।
शीद्यपि चैव गोत्रेण मेधावी चात्र जायते ॥ १९ ॥
इत्यार्द्रा ।
पुनर्वसु द्वितारा च कुंडल्याभ्यामिबालवत् ।
अदितिर्देवता चात्र मंत्रयोगं च कारयेत् ॥ २० ॥
पुनर्भवाय' युंज्याना मंगलानि तथा शुभम् ।
पुनः कर्माणि यावंति चिकित्सा चात्र कारयेत् ॥ २१ ॥
इंद्राणीं स्थापयेच्चात्र इंद्रस्थानं च कारयेत् ।
वात्स्यायनी च गोत्रेण मेधावी चात्र जायते ॥ २२ ॥
इति पुनर्वसुः ।
त्रितारामिषुसंस्थानामिष्टां क्षिप्रपदं शुभम् ।
पुरोहितमुपाध्यायं दैवज्ञं नागवं तथा ॥ २३ ॥
एवमादौ निमित्तानि यात्रां चैवात्र कारयेत् ।
यावद्विषोग्रकर्माणि पुष्ये प्राकारमंडपान् ॥ २४ ॥
पौष्टिकानि च कर्माणि चौलोपनयनानि च ।
विवाहकर्मवर्ज्यानि शुभकर्माणि कारयेत् ॥ २५ ॥
अंजनं प्रेषयेदत्र दैवतं च बृहस्पतिः ।
राज्याभिषेकः कर्तव्यः प्रासादादीनि कारयेत् ॥ २६ ॥
आयुष्मान्धनवांश्चात्र पुण्यकर्मा च जायते ॥ २७ ॥
इति पुष्यम् ।
आश्लेषा सार्पदैवत्या षट्तारा तु विसंस्थिता ।
आग्रायणीति गोत्रेण शकटादीनि कारयेत् ॥ २८ ॥
पुनर्भवाय युंज्याना तडागादीनि कारयेत् ।
यावंति चोग्रकर्माणि शत्रुनाशादि कारयेत् ॥ २९ ॥
विषवृद्ध्या निमंत्राणि धनवांश्चात्र जायते ।
मेधावी बहुपुत्रश्च वसुमान् जायते नरः ॥ ३० ॥
गोगणं वाधिकं कुर्यात्कल्याणादीनि संपदम् ।
यावंति धान्यकर्माणि पितृकर्माणि कारयेत् ॥ ३१ ॥
इत्याश्लेषा ।
चतुस्तारा मघा ज्ञेया कुट्टाकारं च यष्टिवत् ।
पितरो देवताश्चात्र कार्याण्याश्लेषवद्भवेत् ॥ ३२ ॥
इति मघा ।
द्वितारा फाल्गुनी पूर्वा उग्रा च भगदेवता ।
पर्यंकसंस्थिता वापि गोत्रं विद्यात्पराशरम् ॥ ३३ ॥
उग्रकर्माणि कुर्वीत उग्रं चैवात्र जायते ।
मघायामुदितं सर्वमस्यामपि विधीयते ॥ ३४ ॥
इति पूर्वाफाल्गुनी ।
द्वितारोत्तरफाल्गुन्या स्थिराख्यार्यमदेवता ।
पर्यंकसंस्थिता चात्र गोत्रेण च पराशरः ॥ ३५ ॥
कन्यासुवर्णविद्यान्नपुष्टिस्थानं तथैव च ।
नपुंसकानि वस्त्राणि वेश्यावादं च कारयेत् ॥ ३६ ॥
यावंति भगकार्याणि मंगलानि च कारयेत् ।
चौलोपनयनं कार्यं स्थावराणि च कारयेत् ॥ ३७ ॥
गोगणं निगडं चैव शयनान्यासनानि च ।
भवंति पुष्टिमाप्नोति गृहकर्माणि कारयेत् ॥ ३८ ॥
खादसत्यं च गोत्रेण दंति चैवात्र जायते ॥ ३९ ॥
इत्युत्तराफाल्गुनी ।
सावित्रं पंचतारा स्याद्धस्तं हस्तांगसंस्थितम् ।
कुंडिनी चैव गोत्रेण क्षिप्रकर्मात्र कारयेत् ॥ ४० ॥
सदा सव्यं च कुर्वीत महातंत्रं तथैव च ।
सारस्वतादिकर्माणि विद्यादानं गृहाणि च ॥ ४१ ॥
वाहनानां च कर्माणि गृहारंभप्रवेशने ।
गजाश्वरथशस्त्राणां पूजाकर्माणि कारयेत् ॥ ४२ ॥
यावंति वज्रकर्माणि मंगलानि च कारयेत् ।
चौलोपनयनं चैव विवाहादीनि वाससाम् ॥ ४३ ॥
आच्छादनं च वाप्यां च मेधावी चात्र जायते ॥ ४४ ॥
इति हस्तः ।
एकतारा भवेच्चित्रा त्वष्टा चैवात्र देवता ।
पत्यन्नासंस्थितं चापि अत्रिगोत्रं च गोत्रतः ॥ ४५ ॥
कर्णयोर्वेधनं कुर्यात्सेतूनां चैव बंधनम् ।
पानभूमिं च कुर्वीत गोपुरास्थानमंडपान् ॥ ४६ ॥
गवां निलयरक्षां च मंगलानि च कारयेत् ।
विचित्राणि च वस्त्राणि क्षुरकर्माणि कारयेत् ॥ ४७ ॥
यावंति शस्त्रकर्माणि सपण्यानि च कारयेत् ।
भांडागारादि कुर्वीत औषधानि शुभानि च ॥ ४८ ॥
गोष्ठागारायुधागारान्गृहरक्षादि कारयेत् ।
राजप्रसादान् गृह्णीयाच्छत्रवाहन पूर्वकान् ॥ ४९ ॥
रोगी स्नानादि कुर्वीत सुभगश्चैव जायते ॥ ५० ॥
इति चित्रा ।
प्रत्येकं संस्थिता स्वाती वायव्यां चैकतारकी ।
मांडव्येति च गोत्रेण प्रस्थाने चापि गर्हिता ॥ ५१ ॥
नावारंभं च कुर्वीत नावप्रस्थानमेव च ।
अश्ववन्याश्च पुण्यांश्च कारयेद्भेरितूर्यकान् ॥ ५२ ॥
मृदंगपणवाद्यांश्च कवचादीनि कारयेत् ।
वाहनं च विवाहं च सफलं चात्र जायते ॥ ५३ ॥
इति स्वाती ।
विशाखेंद्राग्निदैवत्यां मृदंगफणमेव च ।
कौशिकी च चतुस्तारा संस्थानं तोरणोपमम् ॥ ५४ ॥
स्थापयेत्सर्वबीजानि मंगलानि च कारयेत् ।
इष्टं च पशुबंधं च चौलोपनयनानि च ॥ ५५ ॥
यावंति मिश्रकर्माणि तेजस्वी चात्र जायते ।
मेधावी तीक्ष्णवीर्यश्च विषमं चात्र जायते ॥ ५६ ॥
इत्येतत्समवर्गं च दक्षिणद्वारसंस्थितम् ।
यदि पीडा भवेदत्र पीड्यते च यदि स्वयम् ॥ ५७ ॥
इति विशाखा ।
षट्तारा तु भवेन्मैत्रं रथानामिव संस्थितः ।
अपरद्वारकं श्रेष्ठं विवाहकरणे शुभः ॥ ५८ ॥
आयुषः कर्म कुर्वीत ऐन्द्राग्निस्थावराणि च ।
मैत्रमुक्तानि सर्वाणि गंधकर्म च कारयेत् ॥ ५९ ॥
लेख्यकर्म च कुर्वीत अक्ष वेलां च कारयेत् ।
विशेषस्वामिसन्मानं कर्मणा स्वामिदर्शने ॥ ६० ॥
श्रेष्ठमेतत्परिज्ञेयं मुहूर्ते मैत्रसाह्वये ।
अश्वोष्ट्रगजकर्माणि शाला तेषां प्रवेशनम् ॥ ६१ ॥
कुर्यात्त्वगस्थिविद्यादीन्यारभेन्मैत्रदेवते ।
अत्र पावकगोत्रेण जायते मनुजाधिपः ॥ ६२ ॥
इत्यनुराधा।
त्रितारं चेंद्रदैवत्यं ज्येष्ठा कुंडलसंस्थिता ।
राज्याभिषेकं कुर्वीत सेनापत्यं तथैव च ॥ ६३ ॥
स्थापयेन्नगरग्रामाधिपत्या नायकादिका ।
दर्शनं स्वामिभूपानां ज्येष्ठा श्रेष्ठासु कर्मणाम् ॥ ६४ ॥
वाहनानां च कार्याणां खर्वटाद्वास्तुमेव च ।
अभिचाराणि कार्याणि मघा स्यात्तद्वदेव हि ॥ ६५ ॥
काश्यपी चैव गोत्रेण दारुणा चात्र जायते ॥ ६६ ॥
इति ज्येष्ठा ।
तारा द्वादश मूलोग्रा निर्ऋतिस्तत्र देवता ।
कौशिकी चैव गोत्रेण संगविक्रयकर्मणि ॥ ६७ ॥
यावंति भेदकर्माणि स्थैर्याणि च शुभानि च ।
स्थितानि वाहनादीनां स्वामिदर्शनपूर्वकम् ॥ ६८ ॥
यावंति चोग्रकर्माणि दारुणानि च कारयेत् ।
विवाहं चाभिषेकं च चौलोपनयनानि च ॥ ६९ ।।
स्वामिकर्म च कुर्वीत मंगलानि तथैव च ।
मूलका मूलकर्माणि शास्त्रविद्यादि कारयेत् ॥ ७० ॥
नगरग्रामराष्ट्रादिप्रवेशं च विशेषतः ।
एतत्कार्यं बुधाः श्रेष्ठमुग्रं चैवात्र जायते ॥ ७१ ॥
इति मूलम् ।
पूर्वाषाढं चतुस्तारामापश्चैवात्र देवता ।
दाक्षायणं च गोत्रेण सिंहपुच्छसदृक् तनुः ॥ ७२ ॥
नवारंभं च कुर्वीत जलकर्म तथैव च ।
हुडयानश्च देवाश्च तडागादीनि कारयेत् ॥ ७३ ॥
यावंति चोग्रकर्माणि तावंत्यत्र शुभप्रदम् ।
अग्निकर्माणि कुर्वीत कूपांश्चैवात्र खानयेत् ॥ ७४ ॥
निगडत्वबंधनागारदारुणाश्चात्र जायते ॥ ७५ ॥
इति पूर्वाषाढा ।
आषाढा ह्युत्तरा ज्ञेया विश्वेदेवा द्वितारका ।
गजापीतसमास्थाना गार्गी गोत्रं च स्थावरम् ॥७६॥
छत्रध्वजपताकाश्च मुकुटं कुंडलानि च ।
यानभूमिं च कुर्वीत शालिव्रीहींश्च वापयेत् ॥७७॥
स्थावराणि च कुर्वीत शांतिहोमं च कारयेत् ।
यानि राजन्ययोग्यानि राज्ञां चैवाभिषेचनम् ॥ ७८ ॥
गोगणं नृगणं कुर्यात् दैवतस्थावराणि च ।
सर्वाणि शुक्लशालानि हस्तिबंधं च कुर्वते ॥ ७९ ॥
गजाश्वनरवत्कर्म कौतुकी चापि जायते ॥ ८० ॥
इत्युत्तराषाढा ।
अभिजिद्ब्रह्मदैवत्यं त्रीणि ताराणि कारयेत् ।
यात्रागारसमुद्दिश्य ब्रह्मणो वचनं यथा ॥ ८१ ॥
इत्यभिजित् ।
वैष्णवं श्रवणं विद्याद्वर्तुलं त्रीणि तारकम् ।
अगस्त्यं चैव गोत्रेण सर्वकर्माणि कारयेत् ॥ ८२ ॥
यज्ञशालां च कुर्वीत चौलोपनयनानि च ।
क्षेत्रारंभं च कुर्वीत विवाहं च विवर्जयेत् ॥ ८३ ॥
प्रत्यक् द्वाराणि सप्तैते नक्षत्राणि विभागशः ।
यदि पीडयत चैव सार्वदिक् च मनीषिणः ॥ ८४ ॥
इति श्रवणम् ।
धनिष्ठा वसुदैवत्या चतुस्तरास्तु सा स्मृता ।
मृदंगसंस्थिता चैव गोत्रं संख्यानकं स्मृतम् ॥ ८५ ॥
यात्रापेक्षं च कुर्वीत चौलोपनयनानि च ।
यज्ञारंभं च कुर्वीत विवाहं च विवर्जयेत् ॥ ८६ ॥
स्वामिदर्शनसन्मानं कारयेद्ग्राहयेत्क्रमात् ।
सर्वविद्यासमारंभवाहनानि प्रजानि च ॥ ८७ ॥
कुर्वीत गोवृषं चात्र जायते बीजवापने ।
कर्माणि चात्र मुख्यं च जायते कुलसंभवः ॥ ८८ ॥
इति धनिष्ठा ।
उदग्द्वारं शतभिषक् वारुणं चात्र दैवतम् ।
कात्यायनी च गौत्रेण ताराश्चैव शतं भवेत् ॥ ८९ ॥
आदानं संप्रदानं च मधुमेधं तथैव च ।
गोगराणि च कुर्वीत नानारंभं च कारयेत् ॥ ९० ॥
बीजवापनकार्याणि यात्राक्षेत्रं तथैव च ।
मित्रदर्शनसन्मानं स्वामिदर्शनपूर्वकान् ॥ ९१ ॥
गोशाला चाश्वशाला च गजशालादि कारयेत् ।
एषां भैषज्यकर्माणि शुभं चैषां च कारयेत् ॥९२॥
जयप्रवचनं कुर्यात्तेजस्वी चात्र जायते ।
मत्या च शौर्यसंपन्नो गुणवान्नृपसंयुतः ॥ ९३ ॥
इति शतभिषा ।
अजैकपाद्द्वितारं च पूर्वं प्रोष्ठपदं स्मृतम् ।
गोत्रेण हारितश्चैव सर्वं चैवात्र जायते॥ ९४ ॥
तोयदैवतनक्षत्रे यान्युक्तान्यत्र कारयेत् ॥ ९५ ॥
इति पूर्वाभाद्रपदा ।
अहिर्बुध्न्यं द्वितारं च उत्तरप्रोष्ठपाद्विदुः ।
आरंभाणि च कुर्वीत गोत्रेण विषमाणि च ॥ ९६ ॥
परित्यागं च गेहानि वानप्रस्थालयानि च ।
कुर्याच्चाश्वनिकांश्चैव वाहनानि च कारयेत् ॥ ९७ ॥
स्वामिदर्शनसन्मानं कारयेद्ग्राहयेत्क्रमात् ।
अश्वोष्ट्रगजशालादीन् कारयेद्वै समानि च ॥ ९८ ॥
गोत्रेण काश्यपी चैव अश्वशालादि कारयेत् ।
कर्म कुर्वीत यात्रादि लेपनानि शुभानि च ॥ ९९ ॥
विवाहमैत्रसंबंधं स्वामिदर्शनमेव च ।
एवमादीनि कर्माणि शुभान्यत्र प्रयोजयेत् ॥ १०० ॥
हस्ते पुष्ये च मूले च श्रवणे कथितान् शुभान् ।
सर्वाण्यत्र प्रयुंजीत अहिर्बुध्न्ये सुराधिप ॥ १०१ ॥
इत्युत्तराभाद्रपदा ।
रेवती पौष्णदैवत्या द्वात्रिंशत्तारका विदुः ।
मनीषिणं व्रजं कुर्याद्विवाहकरणानि च ॥ १०२ ॥
पौष्णमैत्रमुहूर्ते च ब्राह्मे वा पैतृकानले ।
स्वामिदर्शनसन्मानं शुभं राज्याभिषेचनम् ॥ १०३ ॥
वर्जयेद्याम्यदिग्यानं शवदाहं च वर्जितम् ।
मृदुं च मर्दलाकारं गर्गगोत्रं च भं तथा ॥ १०४ ॥
स्थावराणि च कुर्वीत देवस्थानान्यनुग्रहात् ।
प्रतिष्ठादीनि कुर्वीत विशेषात्स्थावराणि च ॥ १०५ ॥
क्षेत्रारंभं च कुर्वीत यात्रारंभं तथैव च ।
अंजनं वस्त्रमांगल्यं विद्यारंभं च कारयेत् ॥ १०६ ॥
तेजस्वी वा विशुभ्रश्य पंडितश्चात्र जायते ।
अहिर्बुध्ये्र तु यत्प्रोक्तं तत्सर्वं चात्र कारयेत् ॥ १०७ ॥
इति रेवती ।
अश्विनी दैवतं क्षिप्रं आश्विनद्वित्रितारकम् ।
क्षिप्रकर्माणि सर्वाणि चौलोपनयनानि च १०८ ॥
अश्विनी दैवतं क्षिप्रं आश्विनद्वित्रितारकम् ।
क्षिप्रकर्माणि सर्वाणि चौलोपनयनानि च १०८ ॥
स्वामिदर्शनसन्मानं कर्माण्यत्र प्रयोजयेत् ।
यात्रान्नप्राशनादीनि गजाश्वानां शुभानि च ॥ १०९ ॥
एषां स्थानानि चारंभः प्रवेशादीनि कारयेत् ।
ज्येष्ठः श्रेष्ठश्च सूरश्व मेधावी चात्र जायते ॥ ११० ॥
इत्यश्विनी ।
याम्यं त्रितारं चोग्रं च भरणीयमदैवतम् ।
मौद्गल्याय च गोत्रेण क्रूरकर्माणि कारयेत् ॥ १११ ॥
जायते वरुणश्चात्र सर्वकर्माणि कारयेत् ।
विषनाड्यां भरण्यां च क्रूरवारेण संयुते ॥ ११२ ॥
रिक्तातिथियुते तत्र क्रूरकर्माणि कारयेत् ।
जायते अभिकुर्वन्ति सर्वकर्माणि साधयेत् ॥ ११३ ॥
त्रिपूर्वे चैव नक्षत्रे पूर्वोक्तं कर्म दारुणम् ।
तत्सर्वं याम्यनक्षत्रे कुर्वीत मघवन् क्रमात् ॥ ११४ ॥
उदग्द्वाराणि सर्वाणि सप्तैतानि न संशयः ।
उद्भक्तश्चैव पीड्यते उत्तराश्वदिशस्तथा ॥ ११५ ॥
इति भरणी ।
एवं कर्मगुणं प्रोक्तं तारायाश्चानुसंख्यया ।
देवताश्चैव गोत्रेण नक्षत्राणां समासतः ॥ ११६ ॥
अथ नक्षत्रे वृक्षोत्पत्तिः । तदाह [२]नारदः –
वृक्षोश्विभाद्याम्याधिष्ण्यजो मकरस्तरुः ।
उदुंबरश्चाग्निधिष्ण्ये रोहिण्यां जंबुकस्तरुः ॥ ११७ ॥
इंदुभात्खदिरो जातः कृष्णपक्षस्तु रौद्रभात् ।
संभूतो दितिभाद्वीशः पिप्पलः पुष्पसंभवः ॥ ११८ ॥
सार्पधिष्ण्यान्नागवृक्षो वटः पितृभसंभवः ।
पलाशो भाग्यभाज्जातः प्लक्षश्चार्यमसंभवः ॥ ११९ ॥ ॥
अरिष्टवृक्षो रविभाच्छ्रीवृक्षस्त्वाष्ट्रसंभवः ।
स्वात्यर्क्षजोर्जुनो वृक्षो द्विदैवत्याद्विकंकतः ॥ १२० ॥
मित्रभाद्बकुलो जातोरिष्टः पौरंदरर्क्षजः ।
सर्ववृक्षो मूलभाच्च जंबुश्चांबुनिधिः स्मृतः ॥ १२१ ॥
पनसो वैश्वभाज्जातश्चार्कवृक्षश्च विष्णुभात् ।
वसुधिष्ण्याच्छमीजातः कदंबो वरुणर्क्षजः ॥ १२२ ॥
अजैकपाच्चूतवृक्षोहिबुध्याः दव मडुकः ॥
मधुवृक्षः पौष्ण्यधिष्ण्याद्धिष्णवृक्षं प्रपूजयेत् ॥ १२३ ॥
अथ नक्षत्रव्यूहः । वाराहीसंहितायाम् –
आग्नेय सितकुसुमाहिताग्निमंत्रज्ञसूत्रभाष्यज्ञाः ।
आकरिकनापितद्विजघटकार पुरोहिताब्दज्ञाः ॥ १२४ ॥
रोहिण्यां सुव्रतपुण्यभूपधनियोगयुक्तशाकटिकाः ।
गोवृषजलचरकर्षकशिलोच्चयैश्वर्यसंपन्नाः ॥ १२५ ॥
मृगशिरसि सुरभिवस्त्राब्जकुसुमफलरत्नवनचरविहंगाः ।
मृगसोमपीथिगांधर्वकामुकालेहहाराश्च ॥ १२६ ॥
रौद्रे वधबंधानतपरदारस्तेयशाठ्यभेदरताः ।
तुषधान्यतीक्ष्णमंत्राभिचारवेतालकर्मज्ञाः ॥ १२७ ॥
आदित्ये सोत्यौदार्यशौचकुलरूपधीयशोर्थयुताः ।
उत्तमधान्यं वणिजः सेवाभिरताः सशिल्पिजनाः ॥ १२८ ॥
पुष्ये यवगोधूमाः शालीक्षुवनानि मंत्रिणो भूपाः ।
सलिलोपजीवनः साधवश्च यज्ञेष्टिसक्ताश्च ॥ १२९ ॥
अहिदेवे कृत्रिमकंदमूलफलकीटपन्नगविषाणि ।
परधनहरणाभिरतास्तुषधान्यं सर्व- भिषजश्च ॥ १३० ॥
पित्र्ये धनधान्याढ्याः कोष्ठागाराणि पर्वताश्रयिणः ।
पितृभक्तिवणिक्सूराः क्रव्यादाः स्त्रीद्विषो मनुजाः ॥ १३१ ॥
प्राक् फाल्गुनीषु नटयुवतीसुमनगांधर्वशिल्पिपण्यानि ।
कार्पासलवणमाक्षिकतैलानि कुमारकाश्चापि ॥ १३२ ॥
अर्यम्णो मार्दवशौचविनयपाखंडिदानशास्त्ररत: ।
शोभनधान्यमहाधनधर्मानुरताः समनुजेंद्राः ॥ १३३ ॥
हस्ते तस्करकुंजररथिकमहामंत्रशिल्पिपण्यानि ।
तुषधान्यं श्रुतयुक्ता वणिजस्तेजोयुताश्चात्र ॥ १३४ ॥
त्वाष्ट्र भूषणरागलेख्यगांधर्वगंधियुक्तज्ञाः ।
गणितपटुतंतुवायाः शालक्या राजधान्यानि ॥ १३५ ॥
स्वातौ खरमृगतुरगा वणिजो धान्यवातबहुलानि ।
अस्थिरसौहृदलघुसत्वतापसाः पण्यकुशलाश्च ॥ १३६ ॥
इंद्राग्निदैवते रक्तपुष्पफलशाखिनः सतिलमुद्गाः ।
कार्पासमाषचणका: पुरंदरहुताशभक्ताश्च ॥ १३७ ॥
मैत्रे शौर्यसमेता गणनायकसाधुगोष्ठियानरताः ।
ये साधवश्च लोके सर्वं च शरत्समुत्पन्नम् ॥ १३८ ॥
पौरंदरेतिशूराः कुलवित्तयशोन्विताः परस्वहृताः ।
विजिगीषवो नरेंद्राः सेनानां चापि नेतारः ॥ १३९ ॥
मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ।
बीजान्यतिधनयुक्ताः फलैर्मूलैर्ये च वर्तंते ॥ १४०॥
आप्ये मृदवो जलमार्गगामिनः सत्यशौचधनसंयुक्ताः ।
सेतुकरवारिजीवकफलकुसुमान्यंबुजातानि ॥ १४१ ॥
विश्वेश्वरे महामात्रे मल्लकरितुरगदेवताभक्ताः ।
स्थावरयोधा भोगान्विताश्वजे चौजसा युक्ताः ॥ १४२ ॥
श्रवणे मायापटवो नित्यो- द्युक्ताश्च कर्मसमर्थाः ।
उत्साहिनः सधर्मा भागवताः सत्यवचनाश्च ॥ १४३ ॥
वसुभे मानोन्मुक्ताः क्लीबाश्चलसौहृदाः स्त्रियां द्वेष्याः ।
दानाभिरता बहुवित्तसंयुताः शमपराश्च नराः ॥ १४४ ॥
वरुणेशे पाशिकमत्स्यध्वजबंधजलजानि जलचरा जीवाः ।
सौकरिकरजकशौंडिकशाकुनिकाश्चापि वर्गेऽस्मिन् ॥ १४५ ॥
आजे तस्करपशुपालहिंस्रकनाशनीचशठचेष्टाः ।
धर्मव्रतैर्विरहिता नियुद्धकुशलाश्च ये मनुजाः ॥ १४६ ॥
आहिर्बुध्न्ये विप्राः ऋतुदानतपोयुता महाविभवाः ।
आश्रमिणः पाखंडा नरेश्वराः सारधान्यं च ॥ १४७ ॥
पौष्ण्ये सलिलजफलकुसुमलवणमणिशंखमौक्तिकाब्जानि ।
सुरभिकुसुमानि गंधा वणिजो नौकर्णधाराश्च ॥ १४८ ॥
अश्विन्यामहिश्वारा सेनापतिवैद्यसेवकास्तुरगाः ।
तुरगारोहाश्च वणिग्रूपोपेतास्तुरगरक्षाः ॥ १४९ ॥
याम्येसृकूपीडितभुजाः क्रूरा वधबंधताडनासक्ताः ।
तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्वेन ॥ १५० ॥
पूर्वात्रयं सानलमग्रजानां राज्ञां तु पुष्येण सहोत्तराणि ।
सपौष्णमैत्रं पितृदैवतं च प्रजापतेर्भं च कृषीवलानाम् ॥ १५१ ॥
आदित्यहस्ताभिजिदाश्विनानि वणिग्जनानां प्रवदंति भानि ।
मूलत्रिनेत्रानिलवारुणानि भान्युग्रजातेः प्रभविष्णुतायाः ॥ २५२ ॥
सौम्येंद्रचित्राव सुदैवतानि सेवाजनस्वाम्यमुपागतानि ।
सार्पं विशाखा श्रवणो भरण्यश्चांडाल जातेरिति निर्दिशंति ॥१५३॥
रविरविसुतभागमागतं क्षितिसुतभेदकवक्रदूषितम् ।
ग्रहणगतमथोल्कया हतं नियतमुखाकरपीडितं च यत् ॥ १५४ ॥
तदुपहतामेति प्रचक्षते प्रकृतिविपर्ययपातमेव वा ।
निगदितपरवर्गदूषितं कथितविपर्ययगं समृद्धये ॥ १५५ ॥
विद्धं व्योमचरैर्विभिन्नमपि यल्लत्ताहतं राहुणा युक्तं क्रूरयुतं विमुक्तमथ यद्भोग्यं तथोपग्रहैः ।
दुष्टं यद्ग्रहणोपगं पशुपतेश्चंडायुधेनाहतं चोत्पातग्रहयुद्धपीडितमथो यद्धूमितं केतुना ॥ १५६ ॥
पश्चात् संध्याहतं चोल्काभिहितं पातदूषितम् ।
यच्चैकार्गलाविद्धं तत्पीडितं भं विनिर्दिशेत् ॥ १५७ ॥
वाराहः –
नक्षत्रजमुद्वाहे फलमब्दैस्तारकमितैः सदसत् ।
दिवसैर्ज्वरस्य नाशो व्याधेरन्यस्य वा वाच्यः ॥ १५८ ॥
अथ पुष्यस्यैव प्रशंसा । ज्योतिषतत्वे-
ग्रहेण विद्धोप्यशुभान्वितोपि विरुद्धतारोपि विलोमगोपि ।
करोति पुंसां सकलार्थसिद्धिं विहाय पाणिग्रहणं हि पुष्यः ॥ १५९ ॥
पुष्यः परकृतं हंति न च पुष्यकृतं .रः ।
अपि द्वादशगे चन्द्रे पुष्यः सर्वार्थसाधकः ॥ १६० ॥
परकृतमखिलं निहंति पुष्यो न खलु निहंति परस्तु पुष्यदोषम् ।
ध्रुवममृतकरेऽष्टमोपि पुष्ये विहितमुपैति सदैव कर्मसिद्धिः ॥ १६१ ॥
मुहूर्तगणपतौ –
पापैर्विद्धयुते हीने चन्द्रताराबलान्विते ।
पुष्ये सिद्ध्यंति कार्याणि सर्वाणि मंगलानि च ॥ १६२ ॥
सिंहो यथा सर्वचतुष्पदानां तथैव पुष्यो बलवानुडूनाम् ॥
चन्द्रे विरुद्धेप्यथ गोचरेपि सिद्ध्यंति कार्याणि कृतानि पुष्ये ॥ १६३ ॥
अथ शकटभेदः । ग्रहलाघवे ग्रहस्य रोहिणीशकटभेदं तत्फलं चाह-
गविन गकुलवे ( १७ ) खगोस्य चेद्यमदिगिषुः खशरांगुलाधिकः ।
कभशकटमसौ भिनत्त्यसृक्शनिरुडुपो यदि चेज्जनक्षयः ॥ १६४ ॥
अथ चन्द्रस्य शकटभेदसमयमाह ।
स्वर्भानावदितिभतोष्टऋक्षसंस्थे शीतांशुः कभशकटं सदा भिनत्ति ।
भौमार्क्योः शकटभिदा युगांतरे स्यात् सेदानीं नहि भवतीदृशि स्वपाते ॥ १६५ ॥
सूर्यसिद्धान्ते-
वृषे सप्तदशे भागे यस्य याम्योंशकद्भयात् ।
विक्षेप्योभ्यधिको भिंद्याद्रोहिण्याः शकटं तु सः ॥ १६६ ॥
रोहिणी शकटाकारा संस्थाना पंचतारका ।
इति बृहस्पतिः ॥ १६७ ॥
रोहिणीशकटं पंचतारात्मकं पंचाशदंगुलं यदस्ति तन्मध्ये ग्रहस्य प्रवेशः दक्षिणशरे पंचाशदधिक एव भवति यतो रोहिणीशरः शतांगुलो याम्यः अत्र योगतारा याम्यास्ति चन्द्रो वृषभो सप्तदशभागमितस्तस्य शरो दक्षिणः पञ्चाशदंगुलाधिकः पुनर्वस्वाद्यष्टनक्षत्रे राहोर्वेषं भवतीति प्रत्यक्षं मामशन्योरतादृशे पाते दक्षिणः शरः पंचाशदंगुलाधिको न भवत्येव ।
अथ धनिष्ठादिपंचकविचारः । दैवज्ञवल्लभे-
कुर्यान्न दारुतृणसंग्रहमंतकाशायानामृतस्य दहनं गृहगोपनं च ।
शय्यावितानमिह वासनपंचके च केचिद्वदंति परतो वसुदैवतर्द्धात् ॥ १६८ ॥
रत्नमालायाम् –
वासवोत्तरदलादिपंचके याम्यदिग्गमनगेहगोपनम् ।
प्रेतदाहतृणकाष्ठसग्रहं शय्यकावितननं च वर्जयेत् ॥ १६९ ॥
ज्योतिः सागरे-
छेदनं संग्रहं चैव काष्ठादीनां न कारयेत् ।
श्रवणादौ बुधः षट्कां न गच्छेद्दक्षिणां दिशि ॥ १७० ॥
अग्निदाहा भयं रोगो राजपीडा धनक्षयः ।
संग्रहे तृणकाष्ठानां कृते वस्वादिपंचके ॥ १७१ ॥
राजमार्तंडे –
गृहार्थे तृणकाष्ठादिसंग्रहादग्निभिः कलिः ।
रोगो दंडोर्थहानिः स्यात्क्रमाद्वस्वादिपंचके ॥ १७२ ॥
गर्गः –
धनिष्ठापंचके चन्द्रे सूर्ये पैत्र्यादिपंचके ।
छेदनानि न कर्तव्यं गृहार्थं तृणकाष्ठयोः ॥ १७३ ॥
पूर्वार्धे नातिदोषाय दाहतक्षणसंग्रहे ।
यानगोपनशय्यायां संपूर्णं वासवं त्यजेत् ॥ १७४ ॥
केप्याहुः संकटे घोरे पंचके पंच नाडिकाः ।
त्याज्याः क्रमात्तृतीयाद्यमंत्यपादावसानगः ॥१७५॥
अथेंधनकरणम् । निर्णयसिंधौ -
ब्रह्मानिलार्कमघमूलविशाखपूर्वारौद्रानुराधगुरुपौष्णश्रवर्क्षयुक्ते ।
वारे कुजार्कभृगुनंदनसोमजानां भेष्विंधनस्य करणं भवति प्रशस्तम् ॥ १७६ ॥
तत्स्थापनचक्रम् । रामदेवज्ञः –
सूर्यर्क्षाद्रसभैरधःस्थलगतैः पाको रसैः संयुतः शीर्षे युग्ममितैः शवस्य दहन मध्ये युगैः सर्पभिः ।
प्रागाशादिषु वेदभैः स्वसुहृदां स्यात्संगमो रोगभीः क्वाथादेः करणं सुखं निगदितं काष्ठादिसंस्थापने ॥ १७७ ॥
अथ त्रिपुष्करद्विपुष्करयोगौ तत्फलं चाह ।
भूपालवल्लभे-
रविमंदभौमवारे भद्रातिथित्रिपादके धिष्ण्ये ।
योगस्त्रिपुष्कराख्यो द्विपादके यमलनामा स्यात् ॥ १७८ ॥
रत्नकोशे –
गुरुभौममंदवारे भद्रायां विषमपादर्क्षे ।
योगस्त्रिपुष्करोयं त्रिगुणफलो यमलभे द्विगुणम् ॥ १७९ ॥
रामस्तु –
भद्रातिथी रविजभूतनयार्कवारे द्वीशार्यमाजचरणादितिवह्निविश्वे ।
त्रैपुष्करो भवति मृत्युविनाशवृद्धौ त्रैगुण्यदो द्विगुणकृद्भूसुतक्षचान्द्रे ॥ १८० ॥
गर्गः –
पंचके पंचगुणितं त्रिगुणं च त्रिपुष्करे ।
यमले द्विगुणं सर्वं हानिवृद्धयादिकं भवेत् ॥ १८९ ॥
ज्योतिःप्रकाशे -
नष्टं दृष्टं मृतं घातं कलहो डिंभ एव च ।
उपघातश्च योत्र स्यात्त्रिगुण सोनुवर्तते ॥ १८२ ॥
राम: -
गिरिशभुजगमित्रा पितृवस्वंबुविश्वेऽभिजिदथ च विधातापींद्र इंद्रानलौ च ।
निर्ऋतिरुदकनाथोप्यर्यमाथो भगः स्युः क्रमत इह मुहूर्ता वासरे बाणचंद्राः ॥ १ ॥
नारदः –
अह्नः पंचदशो भागस्तथा रात्रिप्रमाणतः ।
मुहूर्तमानं द्वावेव क्षणर्क्षाणि समे स्वराः ॥ २ ॥ १ ।२। ३ । ४ । ५ ६ ७ ८ ९ १०११ । १३ १४/१५
श्लेषा
अनुराधा
मघा
धनिष्ठा
पूवाषाढ
उत्तराषाढ । G अभिजित
रोहिणी
ज्येष्ठा
विशाख
मूल
शतमिष
उत्तराफा
पूर्वाफा
दिशा
मुहूत्तौः
शिवोजपादादष्टौ स्युर्भेशा अदितिजीवकौ ।
विष्ण्वर्कत्वष्टृमरुता मुहूर्ता निशि कीर्तिताः ॥ २ ॥
१ २ ३ । ४ । ५ । ६ ७ ८ ९ १० ११ १२ १३ १४/१५/
भरणी
कृत्तिका
सोहना
मृगशि
पुनर्वसु
पुष्य
श्रवण
चित्रा
स्वाती
इति श्रीमद्गयादत्तज्योतिर्विदात्मजरामदीनज्योतिर्वित्कृते संग्रहे बृहद्दैवज्ञरंजने नक्षत्रकथनं नाम चतुर्विंशं प्रकरणं समाप्तम् ।। २४ ॥


  1. द्र. तैब्रा.1.5.1
  2. नारदपुराणम् १.५६.२०४