बृहद्दैवज्ञरञ्जनम्/ग्रहाणां योगकथनप्रकरणम्

विकिस्रोतः तः

अथ ग्रहाणां योगकथनं नाम सप्तमं प्रकरणं प्रारभ्यते । मयूरचित्रके –
रौद्रनक्षत्रगावेतौ यदि सूर्यमहीसुतौ ।
मासे महर्घतां यांति धान्यानि स्वस्थतां पुनः ॥ १ ॥
भानुकेतू च भरणीं मृगं वा यदि चास्थितौ ।
लवणं महर्घतां याति सिंधुदेशोद्भवं विडम् ॥ २ ॥
बुधशुक्रमहीपुत्रा भुजंगर्क्षे समाश्रिताः ।
नंदंति लोकाः सुखिनः सुभिक्षं जनयंति च ॥ ३ ॥
स्वातीं याति यदा भौमो रेवतीं याति भास्करः ।
चलचित्ता महीपालाः प्रजा नाशं प्रयांति च ॥ ४ ॥
अनुराधां गतः सौरिर्ज्येष्ठायां च बृहस्पतिः ।
पश्चिमायां तदा युद्धं प्रजानाशं प्रयाति च ॥ ५ ॥
मूले मंदो बुधः स्वात्यां मघायां चंद्रमा यदि ।
संग्रहे सर्वधान्यानां लाभो भवति नान्यथा ॥ ६ ॥
विश्वभे च गतो मंदः सप्तमर्क्षे यदा रविः ।
तदा जलविनाशः स्यात्प्रजानां कदनं तथा ॥ ७ ॥
श्रवणर्क्षे यदा क्रूरो ग्रहः कश्चित्समाश्रितः ।
अन्नं महर्घतां याति गोधूमाश्च विशेषतः ॥ ८ ॥
वासवर्क्षे यदा सौरिर्भूमिपुत्रेण संयुतः ।
न वर्षंति जलं मेघाः सस्यहानिश्च जायते ॥ ९ ॥
वारुणे च यदा जीवश्चित्रायां धरणीसुतः ।
तदा नश्यंति गोधूमाः सस्यहानिर्महर्घता ॥ १० ॥
भानुर्भौमो भृगुश्चैव शनिक्षेत्रे समाश्रिताः ।
यदा निशापतिस्तत्र तदा दुर्भिक्षतो भयम् ॥ ११ ॥
वृषे राहुर्यदा भौमो षष्ठे मासि महद्भयम् ।
भवत्यत्र न संदेहस्तदा दुर्भिक्षपीडनम् ॥ १२ ॥
मिथुनर्क्षे सूर्यपुत्रो राहुर्वा यदि संस्थितः ।
दुर्भिक्षं जायते तत्र पश्चिमायां नृपक्षयः ॥ १३ ॥
रविराहुमहीपुत्राः शशिशुक्रशनैश्चराः ।
एकराशिं गता ह्येते तदा पृथ्वी भयाकुला ॥ १४ ॥
पूर्वदेशे महापीडा नृपाणां संक्षयो भवेत् ।
प्रजानाशो व्याधिभयं तस्मिन्काले न संशयः ॥ १५ ॥
सूर्यचंद्रारमंदाश्च राहुश्चंद्रसुतो यदि ।
एकराशिं गता ह्येते दक्षिणस्यां भयप्रदाः ॥ १६ ॥
एकराशिगता ह्येते कुजार्कशनिराहवः ।
शुक्रो गुरुश्च तत्रैव तदा भयविवर्द्धनाः ॥ १७ ॥
उत्तरे छत्रभंगः स्यान्नात्र कार्या विचारणा ।
रविचंद्रकुजा जीवमंदचंद्रसुता यदि ॥ १८ ॥
समाश्रिता ह्येकराशिं तदा पृथ्वी भयाकुला ।
राज्ञां नाशो व्याधिभयं प्रजानां संक्षयो भवेत् ॥ १९ ॥
कुजार्कजीवशुक्राश्च यदैकत्र समाश्रिताः ।
भयं व्याधिं प्रकुर्वंति सर्वधान्यमहार्घता ॥ २० ॥
कुजार्केंदुज्ञजीवाश्च सिंहराशिं समाश्रिताः ।
छत्रभंगः प्रजानाशो भयभीता च मेदिनी ॥ २१ ॥
एकराशिस्थिता ह्येते सौम्यशुक्रदिनाधिपाः ।
सर्वधान्यमहर्घत्वं मेघाः स्वल्पजलप्रदाः ॥ २२॥
एकनक्षत्रगा ह्येते तदा भयविवर्द्धनाः ।
यदा जीवयुतो मंदो जीवाद्वा सप्तमे स्थितः ।
तदा प्रजा विनश्यंति भूपाश्चान्नपरिक्षयः ॥ २३ ॥
कर्कमीनमृगस्त्रीषु शनिभौमौ यदा स्थितौ ।
तदा युद्धाकुला पृथ्वी धनधान्यविवर्जिता ॥ २४ ॥
मिथुनस्त्रीधनुर्मीनराशौ मंदो यदा भवेत् ।
तदा भूपा विनश्यंति पृथ्वी शोणितपूरिता ॥ २५ ॥
रविशुक्रसुराचार्या यदेकत्र समाश्रिताः ।
राज्यभ्रंशः प्रजानाशः सर्वसस्यमहर्घता ॥ २६ ॥
रविभार्गवभौमाश्च राशिमेकं समाश्रिताः ।
घृततैलमसूरान्नं महर्घति महाभयम् ॥ २७ ॥
सुरेज्यकविमंदाश्च राहुरेकत्र संस्थिताः ।
मेघा जलं प्रमुचंति सर्वधान्यमहर्घता ॥ २८ ॥
रविज्ञगुरुमंदाश्च राहुयुक्ता यदा स्थिताः ।
सुभिक्षं क्षेममारोग्यं तस्मिन्काले न संशयः ॥ २९ ॥
एकराशिगता ह्येते भौमभार्गवसूर्यजाः ।
तदा भूपा विनश्यंति प्रजानां संक्षयो भवेत् ॥ ३० ॥
शुक्रमंदारजीवाश्च यदैकत्र समाश्रिताः ।
मेघा जलं न मुंचंति दुर्भिक्षं जायते तदा ॥ ३१ ॥
गुरुमंदारशुक्राश्च यदा सौम्यसमन्विताः ।
देशभ्रंशः प्रजानाशो वस्त्रधात्वोर्महर्घता ॥ ३२ ॥
दिननाथेंदुगुरवो यदेकत्र समाश्रिताः ।
उत्तरस्यां दिशि भयं प्रजाः क्रंदंति नित्यशः ॥ ३३ ॥
यवान्नमुद्गवस्त्राणां संग्रहे च कृते सति ।
मासे सप्तमके चैव लाभो भवति पुष्कलः ॥ ३४ ॥
रवींदुशुक्रेज्यशशांक पुत्रा यदैकराशौ सहिता भवंति ।
मेघाः प्रवर्षंति महर्घता स्यात्प्रजाविनाशो दिशि निर्ऋतेः स्यात् ॥ ३५ ॥
जीवार्कशुक्रार्कसुता यदैकराशिं गता भूमिसुतेन युक्ताः ।
भूपालपीडान्नमहर्घता स्यात् क्रंदंति लोकास्त्रभयाभितप्ताः ॥ ३६ ॥
शनिराहू यदैकत्र भवेतां सहितौ तदा ।
सर्वधान्यमहर्घत्वं राजानो भयविह्वलाः॥ ३७ ॥
एकराशिगतावेतौ धरापुत्रांगिरःसुतौ ।
तदा मेघा न वर्षंति वर्षाकाले न संशयः ॥ ३८ ॥
महीसुतो दैत्यपुरोहितो गुरुर्यदैकनक्षत्रसमाश्रिता ग्रहाः ।
तदा सुभिक्षं च यवान्नसंग्रहे मासे चतुर्थे विपुलो हि लाभः ॥ ३९ ॥
सप्त ग्रहा यदैकस्था गोलयोगस्तदा भवेत् ।
दुर्भिक्षं राष्ट्रपीडा च तस्मिन् योगे न संशयः ॥ ४० ॥
अग्रे याति दिवानाथः पृष्ठे च भृगुनंदनः |
मध्ये सोमसुतो याति भवत्यन्नमहर्घता ॥ ४१ ॥
गच्छतोग्रे शुक्रशनी बुधः षष्ठं समाश्रितः ।
धनधान्याकुला पृथ्वी प्रजा नंदंति सर्वशः ॥ ४२ ॥
भौमस्य पृष्ठतो याति भानुश्चेज्जलशोषकः ।
भवत्यत्र न संदेहो विपरीतो जलप्रदः ॥ ४३ ॥
मेषे समाश्रितो भानुर्वृषे च धरणीसुतः ।
भयव्याधियुता लोका नृपाणां विग्रहो महान् ॥ ४४ ॥
मेषे शनैश्चरो भानुर्भार्गवो भूमिजस्तथा ।
दुर्भिक्षं लोकपीडा च भवेत्पृथ्वी भयाकुला ॥ ४५ ॥
वृषराशिं यदा प्राप्ताः शनिभार्गवभूमेजाः ।
दुर्भिक्षं राष्ट्रभंगश्च लोकानां भयमादिशेत् ॥ ४६ ॥
वृषे भानुः कुजः सौरिस्तदा युद्धं समादिशेत् ।
न वर्षंति जलं मेघा दुर्भिक्षं लोकपीडनम् ॥ ४७ ॥
मीनराशिगते मंदे कर्कटस्थे बृहस्पतौ ।
तुलाराशिगते भौमे तदा दुर्भिक्षमादिशेत् ॥ ४८ ॥
शुक्रार्किभूमिपुत्रा हि तुलाराशिसमाश्रिताः ।
तदा युद्धं महाघोरं राज्ञां चैव परस्परम् ॥ ४९ ॥
चंद्रभार्गवधरासुता यदा मीनराशिमुपयांति वै तदा ।
दुर्लभं भवति सर्वधान्यकं वारिदश्च न जलं प्रमुंचति ॥ ५० ॥
गुरुयुक्तः शनिर्वक्रं करोति च यदा तदा ।
नवमे मासि गोधूमतिलतैलमहर्घता ॥ ५१ ॥
गुरुशुक्रावेकराशिं गतौ दुर्भिक्ष- दुःखदौ ।
युद्धदौ शनिमाहेयौ तदा दुर्भिक्षकारकौ ॥ ५२ ॥
यदा शुभग्रहः कश्चिदतिचारं करोति च ।
तदा नृपाः क्षयं यांति दुर्भिक्षं तत्र दारुणम् ॥ ५३ ॥
अतिचारं यदा क्रूरो ग्रहः कश्चित्करोति च ।
तदा नंदंति राजानो धनधान्याकुला धरा ॥ ५४ ॥
यदातिचारगो मंदो वक्रीभूतोंगिरः सुतः ।
तदा नंदंति राजानो धन- धान्याकुला धरा ॥ ५५ ॥
यदा क्रूरग्रहो वक्री शुभश्चैवातिचारगः ।
तदा भवति दुर्भिक्षं राज्ञां युद्धं परस्परम् ॥ ५६ ॥
यस्मिन्मासे पूर्णिमायां यदा वर्षति वारिदः ।
गोधूमघृतधान्यानां तस्मिन्मासे महर्घता ॥ ५७ ॥
यदा मलिम्लुचे भौमोंगिरा राश्यंतरे व्रजेत् ।
गुरुर्वा महती वृष्टिरथवा लोकसंक्षयः ॥ ५८ ॥
कार्तिके मार्गशीर्षे च संक्रांतौ वारिवर्षणम् ।
तदा महर्घता पौषे सस्यवृद्धिश्च मध्यमा ॥ ५९ ॥
गुरुशुक्रार्किशशिजा यदैकत्र समाश्रिताः ।
घातयोगं विजानीयात्पांसुवृष्टिस्तदा भवेत् ॥ ६० ॥
सूर्याद्विधुः पंचमसप्तमः स्यात्क्षोणीसुतो याति तथारिगेहे ।
दिग्दाहयोगो मुनिना प्रदिष्टो संजातउल्कापतनादिकारी ॥ ६१ ॥
उपप्लवात्सप्तमगो महीजो महीसुतात्पंचमगो यदा बुधः ।
बुधाद्विधुः स्याच्च चतुष्टयस्थितः स चेह भूकंपनयोग ईरितः ॥ ६२ ॥
मेषे वृषे कुलीरार्द्धे यदोत्पाता भवंति हि ।
दक्षिणस्यां तदा युद्धं प्रजाः सुदुःखपीडिताः ॥ ६३ ॥
मिथुनेर्केऽन्ननाशः स्याद्विन्ध्ये सिंहलके भयम् ।
कान्यकुब्जे महापीडा कन्यायां संस्थिते रवौ ॥ ६४ ॥
तौलिन्यर्के च दुर्भिक्षं देशभंगोथ पिंगले ।
वृश्चिके च मृगे सूर्ये दुर्भिक्षं नर्मदातटे ॥ ६५ ॥
धनुष्यर्के विनश्यंति देशाः कालिंजरादयः ।
मद्रदेशस्य नाशः स्यात् कुंभेऽर्के सस्यपीडनम् ॥ ६६ ॥
शुक्रसौर्योर्द्वयोरस्तमेकराशौ यदा भवेत् ।
अन्नपीडा महायुद्धं देशे देशे च विग्रहाः ॥ ६७ ॥
चत्वारः पंचषाः खेटा बलिनस्त्वेकराशिगाः ।
राज्ञां बहुभयं दद्युररिभिर्दुःखदा मताः ॥ ६८ ॥
यदा प्रतीपगौ खेटौ नृपं क्षोभयतस्तदा ।
प्रतीपगास्त्रयः खेटा युद्धवृष्टिभयप्रदाः ॥ ६९ ॥
राज्यभंगं हि कुर्वंति चत्वारो यदि वक्रिणः ।
प्रतीपगाः पंच खेटा भंगदा राज्य राष्ट्रयोः ॥ ७० ॥
अर्कसौरी भौमसौरी तमस्सौरीज्यमंगलौ |
गुरुसौरी महायोगो महीनाशाय कल्पते ॥ ७१ ॥
पंच ग्रहा घ्नंति चतुष्पदानां ते षट् ग्रहा घ्नंति समस्तभूपान् ।
सप्तग्रहा घ्नंति समस्तदेशान् अष्टग्रहैः स्यात्खलु कूटयोगः ॥ ७२ ॥
इति श्रीज्योतिर्विद्गयादत्तात्मजरामदीनकृते संग्रहे बृहद्दैवज्ञरंजने ग्रहाणां योगकथनं नाम सप्तमं प्रकरणं समाप्तम् ॥ ७ ॥