सामग्री पर जाएँ

बृहद्दैवज्ञरञ्जनम्/ग्रहणप्रकरणम्

विकिस्रोतः तः

अथ त्रयस्त्रिंशं ग्रहणप्रकरणं प्रारभ्यते ।
तन्निर्णयलक्षणम्—
द्विर्द्वादशेपि यामित्रे समराशिगतेथवा ।
तथा षट्काष्ठकराहुग्रहणं चन्द्रसूर्ययोः ॥ १ ॥
अस्यार्थः - सूर्याच्चन्द्राद्वा द्विर्द्वादशे यामित्रे सप्तमषष्ठाष्टके वा तुल्यराशौ वा राहुर्भवति तदा पादवेधं विचार्य ग्रहणसंभवासंभवौ बोद्धव्यौ । यदा पादचतुष्टयांतरितो राहुर्भवति तदा चन्द्रस्य स्वल्पं ग्रहणं भवति । सूर्यस्य न भवति । यादत्रयाच्चंद्रस्याधिकं सूर्यस्य स्वल्पं ग्रहणं भवति पादद्वयाच्चन्द्रस्य सर्वग्रासः । सूर्यस्यार्द्धाधिकखंडग्रहणमिति ज्ञातव्यम् । एकस्मिन्पादे सूर्यस्य सर्वग्रासो बोद्धव्यः चन्द्रस्य खग्रासः । ज्योतिःसारे-
भानोः पंचदशे ऋक्षे चंद्रमा यदि तिष्ठति ।
पौर्णमास्यां निशाशेषे चंद्रग्रहणमादिशेत् ॥ १ ॥
माघोनं ग्रहनक्षत्रात्षोडशं यदि सूर्यभम् ।
अमावास्या दिवाशेषे सूर्यग्रहणमादिशेत् ॥ २ ॥
विश्वरूपे—
दिवा चंद्रग्रहो रात्रौ सूर्यपर्वं न पुण्यजम् ।
संधिस्थं पुण्यदं ज्ञेयं यावद्दर्शनगोचरम् ॥ ३ ॥
तदुक्तं निगमे –
सूर्यग्रहो यदा रात्रौ दिवा चंद्रग्रहो यदि ।
तत्र स्नानं न कुर्वीत दद्याद्दानं न च क्वचित् ॥ ४ ॥
तादृशे ग्रहणे दुष्टेपि दौस्थ्यं नास्तीत्यपि सूच्यते ।
मेघाच्छन्ने ग्रहे स्नानाद्यधिकारो न विद्यते ।
इति यत्कीर्तितं तच्च निर्मूलत्वादुपेक्षितम् ॥ ५ ॥
यथा वृक्षादिभिश्छन्ने स्नानाद्यं क्रियते ग्रहे ।
घनैराच्छादिते तद्वत् स्नानाद्यं नैव बाधकम् ॥ ६ ॥
स्पर्शमुक्तिनिमित्तं तु स्नानं च गणितागम ।
काले कुर्वीत सूर्यैंद्वोर्मेघच्छादितयोर्ग्रहे ॥ ७ ॥
यावन्मुक्तं रवेर्बिंबं विधोर्वापि न दृश्यते ।
तावन्न क्रियते स्नानं मौक्तिकं मनुरब्रवीत् ॥ ८ ॥
ग्रस्तोदिते ग्रहे ग्रस्तं दृष्ट्वा स्नानं समाचरेत्।
ग्रस्तास्ते मौक्तिकस्नानं मुक्तं दृष्ट्वा रविं विधुम् ॥ ९ ॥
स्पर्शे स्नानं जपं कुर्यान्मध्ये होमं सुराचर्नम् ।
मुच्यमाने सदा दानं विमुक्तौ स्नानमाचरेत् ॥ १० ॥
गर्गोपि-
स्पर्शे स्नानं भवेद्धोमो ग्रस्तयोर्मुच्यमानयोः ।
दानं स्यान्मुक्तये स्नानं ग्रहे चन्द्रार्कयोर्विधिः ॥ ११ ॥
मुक्तौ यस्तु न कुर्वीत स्नानं ग्रहणसूतके ।
स सूतकी भवेत्तावद्यावत्स्यादपरो ग्रहः ॥ १२ ॥
ग्रहणे भोजननिषेधः ।
चन्द्रग्रहे त्रियामार्वाक् सूर्ये यामचतुष्टयम् ।
अन्नपानादिकं वर्ज्यं बालवृद्धातुरैर्विना ॥ १३ ॥
सूर्यग्रहे तु नाश्नीयात्पूर्वे यामचतुष्टयम् ।
चन्द्रग्रहे तु यामांस्त्रीन् वृद्धबालातुरैर्विना ॥ १४ ॥
विवाहे च तथा श्राद्धे राहुग्रस्ते निशाकरे ।
महानिशो च भोक्तव्यमन्यथा पतितो भवेत् ॥ १५ ॥
सेवासूर्योदये –
नाद्याच्चतुस्त्रीन्प्राक् यामान् रवींदुग्रहयामयोः ।
ग्रहकाले च नाश्नीयात् स्नात्वाश्नीयाच्च मुक्तयोः ॥ १६ ॥
ग्रस्तास्तेन्यदिने दृष्ट्वाऽश्नीयाद्वृद्धातुरं विना ।
वेधो वृद्धातुरस्त्र्यर्भपुत्रिणां यामयुग्मकम् ॥ १७ ॥
न सूतकादि दोषोत्र दानहोमजपादिषु ।
ग्रस्ते स्नायादुदक्यापि तीर्थादुद्धृतवारिणा ॥ १८ ॥
मन्वर्थमुक्तावल्याम् –
अन्नं पक्कमिह त्याज्यं स्नानं सवसनं ग्रहे ।
वारितक्रारनालादि तिलैर्दर्भैर्न दुष्यते ॥ १९ ॥
धर्मदर्पणे-
आरनालं पयस्तक्रं दधि स्नेहाज्यपाचितम् ।
मणिकस्थोदकं चैव न दुष्येद्राहुसूतके ॥ २० ॥
सूतकेपि च संप्राप्ते यदि स्याद्राहुसूतकम् ।
न सूतकं भवेत्तावद्यावद्राहुर्न मुंचति ॥ २१ ॥
ग्रहणदानप्रशंसा । दानखण्डे –
सर्वं भूमिसमं दानं सर्वे ब्रह्मसमा द्विजाः ।
सर्वं गंगासमं तोयं ग्रहणे चन्द्रसूर्ययोः ॥ २२ ॥
इंदोर्लक्षगुणं पुण्यं रवेर्दशगुणं तु तत् ।
गंगादि तीर्थसंप्राप्तौ प्रोक्तं कोटिगुणं भवेत् ॥ २३ ॥
गंगायां पुण्यतीर्थे वा ग्रहणे स्नानमुत्तमम् ।
कूपे वाप्यां तडागे वा तथैवोद्धृतवारिणा ॥ २४॥
शंखः-
वापीकूपतडागेषु गिरिप्रस्रवणेषु च ।
नद्यां नदे देवखाते सरसीषूद्धृताम्बुषु ॥ २५ ॥
मार्कण्डेयः—
भूमिस्थमुद्धृतात्पुण्यं ततः प्रस्रवणोदकम् ।
ततो हि सारसं पुण्यं ततः पुण्यं नदीजलम् ॥ २६ ॥
तीर्थतोयं ततः पुण्यं महानद्यां च यामुनम् ।
ततस्ततोपि गंगांबु पुण्यं गंगाब्धिसंगमम् ॥ २७ ॥
मत्स्यपुराणे –
दशजन्मकृतं पापं गंगासागरसंगमे ।
जन्मांतरसहस्रेषु यत्पापं समुपार्जितम् ॥ २८ ॥
तत्तन्नश्येत्सन्निहत्यां राहुग्रस्ते दिवाकरे ॥ २९ ॥
व्यासः –
चन्द्रसूर्यग्रहे चैव योवगाहेत जाह्नवीम् ।
स स्नातः सर्वतीर्थेषु किमर्थमटते महीम् ॥ ३० ॥
मत्स्यपुराणे –
गंगा कनखले पुण्या प्रयागं पुष्करं गयाम् ।
कुरुक्षेत्रं तथा पुण्यं राहुग्रस्ते दिवाकरे ॥ ३१ ॥
व्याघ्रः—
रविवारेऽर्कसंक्रांतौ ग्रहणेषु शशिक्षये ।
व्रतेषु चैव षष्ठीषु न स्नायादुष्णवारिणा ॥ ३२ ॥
निबन्धसारेपि-
दर्शे पातेर्कसंक्रांतौ उपाकर्मण्युपप्लवे ।
न स्नायादुष्णतोयेन नास्पृशं स्पर्शयेत्तथा ॥ ३३ ॥
आदित्यकिरणैः पूतं पुनः पूतं तु वह्निना ।
अतो व्याध्यातुरः स्नायात् ग्रहणेप्युष्णवारिणा ॥ ३४ ॥
शीतमुष्णोदकात्पुण्यं अपारक्यं परोदकात् ।
उष्णोदकेपि च स्नायात् ग्रहणे चन्द्रसूर्ययोः ॥ ३५ ॥
उष्णोदकस्नानं आतुरविषयम् । हारीतस्मृतौ-
सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।
सचैलं तु भवेत् स्नानं शृतमन्नं विवर्जयेत् ॥ ३६ ॥
जाबाल:-
चक्षुरोगी शिरोरोगी कर्णरोगी कफात्मकः ।
कंठस्नानं प्रकुर्वीत शिरस्नानं समं हि तत् ॥ ३७ ॥
षट्त्रिंशन्मते –
सर्वेषामेव वर्णानां सूतकं राहुदर्शने ।
स्नात्वा कर्माणि कुर्वीत शृतमन्नं विवर्जयेत् ॥ ३८ ॥
स्मृतिरत्नावल्याम् –
अन्त्येष्ट्यां शवचांडालस्पर्शने खरकाकयोः ।
राहुग्रस्ते विमुक्ते वा कुर्यात्स्नानममंत्रकम् ॥ ३९ ॥
जाबालि: -
संक्रांतौ पुण्यकालस्तु षोडशोभयतः कलाः ।
चन्द्रसूर्योपरागे तु यावद्दर्शनगोचरः ॥ ४० ॥
वृद्धवसिष्ठः –
ग्रहणे संक्रमे चैव न स्नायाद्यदि मानवः ।
सप्तजन्मनि कुष्ठी स्याद्दुःखभागी न संशयः ॥ ४१ ॥
लिंगपुराणेपि –
चंद्रसूर्यग्रहे स्नायात्सूतके मृतकेपि च
। अस्नायी मृत्युमाप्नोति स्नायी पापं न विंदति ॥ ४२ ॥
ग्रहणोद्वाहसंक्रांतिव्यापत्तिप्रसवेषु च ।
स्नानं नैमित्तिकं कार्यं रात्रावपि न दुष्यति ॥ ४३ ॥
वसिष्ठः –

पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः ।
राहोश्च दर्शने कार्यं प्रशस्तं नान्यथा निशि ॥ ४४ ॥
शंखायनः –
दिवा यदाहृतं तोयं कृत्वा स्वर्णयुतं तु तत् ।
रात्रिस्नाने तु संप्राप्ते स्नायादनलसंन्निधौ ॥ ४५ ॥
पराशरः –
खलयज्ञे विवाहे तु संक्रांतौ ग्रहणे तथा ।
शर्वर्यां दानमस्त्येव नान्यत्र तु विधीयते ॥ ४६ ॥
मरुतो वसवो रुद्राः आदित्याश्चाथ देवताः ।
सर्वे सोमेन लीयंते तस्माद्दानं तु संग्रहे ॥ ४७ ॥
निबंधसारे –
आदित्यहनि संक्रांतौ ग्रहणे चन्द्रसूर्ययोः ।
पारणं चोपवासं च न कुर्यात्पुत्रवान् गृही ॥ ४८ ॥
अशुचे रजस्वलायाः स्नानम् ।
स्नाने नैमित्तिके प्राप्ते नारी यदि रजस्वला ।
पात्रांतरिततोयेन स्नानं कृत्वा व्रतं चरेत् ॥ ४९ ॥
सिक्तमात्रा भवेदद्भिः सांगोपांगा कथंचन ।
न वस्त्रपीडनं कुर्यान्नान्यद्वासांश्च धारयेत् ॥ ५० ॥
पांचभौतिकस्नानम् । पराशरः –
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च ।
आग्नेयं भस्मना स्नानं वारुण्यामवगाहनम् ॥ ५१ ॥
आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ।
यत्तु सातपवर्षेण तत्स्नानं दिव्यमुच्यते ॥५२॥
स्मृतिरत्नावल्याम्-
ग्रहपर्युषितं चान्नं भुक्त्वा चान्द्रायणं चरेत् ।
पीत्वा तथोदकं विप्रः पश्चात्कृच्छ्रं समाचरेत् ॥ ५३ ॥
पराशरः-
नवश्राद्धे च यच्छेषं ग्रहपर्युषितं तथा ।
दंपत्योर्भुक्तशेषं च भुक्त्वा चान्द्रायणं चरेत् ॥ ५४ ॥
संग्रहे-
चंद्रसूर्यग्रहे यस्तु स्नानं दानं सुरार्चनम् ।
न करोति पितुः श्राद्धं स नरः पतितो भवेत् ॥ ५५ ॥
विष्णुस्मृतौ-
सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस्तु तच्छ्राद्धं पंके गौरिव सीदति ॥ ५६ ॥
सर्वेषां स्वेन जीवनेन जलेनापीत्यर्थः । अकिंचनविषयम् । शातातपः-
सैंहिकेयो यदार्केंदू ग्रसते पर्वसंधिषु ।
गजच्छायेति सा ज्ञेया पितॄणां दत्तमक्षयम् ॥ ५७ ॥
वायुपुराणे-
घृतेन भोजयेद्विप्रान् घृतं भूमौ समुत्सृजेत् ।
ग्रहणाख्ये गजच्छाये कृत्वा श्राद्धं न शोचति ॥ ५८ ॥
ऋष्यशृंगः –
राहुग्रस्ते विधौ सूर्ये यस्तु श्राद्धं प्रकल्पयेत् ।
तेनैव सकला पृथ्वी दत्ता विप्रस्य वै करे ॥ ५९ ॥
मत्स्यपुराणे –
चंद्रसूर्यग्रहे चैव मरणे पुत्रजन्मनि ।
मलमासेपि देयं स्याद्दत्तमक्षयकारकम् ॥ ६० ॥
चूडामणियोगः | अर्कपुराणे –
सूर्यग्रहः सूर्यवारे यदा स्यात्पाण्डुनंदन |
चूडामणिरिति ख्यातं सोमे सोमग्रहस्तथा ॥ ६१ ॥
अन्यवारे यदा भानोरिंदोर्वा ग्रहणं भवेत् ।
तत्फलं कोटिगुणितं ज्ञेयं चूडामणौ ग्रहे ॥ ६२ ॥
ग्रहणे दानफलम् । महाभारते –
भूमिर्ग्रामः सुवर्णं च धान्यं च यद्यदीप्सितम् ।
तत्सर्वं ग्रहणे देयमात्मनः श्रेयमिच्छता ॥ ६३ ॥
दानखण्डे-
गोदानात्सूर्यलोकं व्रजति शिवपुरं धेनुपुत्रस्य दानादैश्वर्यं हेमदानात्सकलवसुमतीनायको नागदानात् ।
वैकुंठं चाश्वदानाद् व्रजति हि मनुजो नागदो ब्रह्मलोकं भूदानाद्भूपतित्वं सकलसुखयुतो जायते चान्नदानात् ॥ ६४ ॥
दाननिर्णये -
वश्यार्थी चंदनं दद्यात् सुगंधिद्रव्यमेव च ।
रौप्यदानात्सुरूपत्वं वस्त्रदानान्महद्यशः ॥ ६५ ॥
अन्नदानात्समृद्धिः स्याद्गोदानादीप्सितं फलम्
। शिवलोके सुखं चैव वृषदानात्तथा धनम् ॥ ६६ ॥
फलदानात्सुतप्राप्तिर्घृतं सौभाग्यवर्द्धनम् ॥
लवणं दुर्जनान्हंति सुवर्णं सर्वकामदम् ॥ ६७ ॥
भूदानाद्भूपतित्वं च गजदानात्तथैव च ।
अश्वदानात्स्वर्गसुखमारोग्यार्थे स्वमौषधम् ॥ ६८ ॥
अथ ग्रहणे चतुर्विंशद्वर्ज्यम् । चिन्तामणौ –
छेद्यं न पत्रं तृणदारुपुष्पं कार्यं न केशांबरपीडनं च ।
दंता न शोध्या पुरुषंः न वाच्यं भोज्यं च वर्ज्यं मदनो न सेव्यः ॥ ६९
॥ वाह्यं न वाजी द्विरदादि किंचिद्दोह्यं न गावो महिषीसमाजम् ।
यात्रां न कुर्याच्छ्यनं च तद्वद् ग्रहे निशाभर्तुरहर्पतेश्च ॥ ७० ॥
निद्रायां जायते अन्धः विण्मूत्रे ग्रामसूकरः ।
मैथुने च भवेत्कुष्ठी वधूर्वंध्या द्विभोजने ॥ ७१ ॥
अथ शुभाशुभग्रहणमाह । वसिष्ठः –
यस्यैव जन्मनक्षत्रे ग्रयस्ये ते शशिभास्करौ ।
तस्य व्याधिभयं घोरं जन्मराशौ धनक्षयः ॥ ७२ ॥
भार्गवीये-
यस्ये राज्यस्य नक्षत्रे स्वर्भानुरुपयुज्यते ।
राज्यनाशं सुहृन्नाशं मरणं चात्र निर्दिशेत् ॥ ७३ ॥
राज्यस्य नक्षत्रे राज्याभिषेकनक्षत्रे । वराहः-
अभिभवति सैंहिकेयः चन्द्रार्कौ यस्य जन्मनक्षत्रे ।
तस्यांतकारिभयं लक्ष्मीनाशो मनस्तापः ॥ ७४ ॥
होरायां गृह्यते यस्य नक्षत्रेऽथो दिवाकरः ।
प्राणसंदेहमाप्नोति अथवा मरणमृच्छति ॥ ७५ ॥
अन्यः –
जन्मभे जन्मराशौ च भवेद्ग्रहणसंभवः ।
तस्योद्वेगप्रवासं च भयं मृत्युरुपद्रवम् ॥ ७६ ॥
अष्टधा मृत्युः । यथा
दुःखं भयं लज्जा रोगः शोकस्तथैव च ।
मरणं चापमानं च मृत्युरष्टविधः स्मृतः ।
इति पंचस्वरायाम् ॥ ७७ ॥
हारीतः –
ग्रहणं जन्मनक्षत्रे जायते चन्द्रसूर्ययोः ।
यस्य तस्याशुभं हानिं वैरं रोगः पराभवः ॥ ७८ ॥
संग्रहे –
यस्मिन् राशौ तपनशशिनोः सिंहिकासूनुमर्दः तद्राश्यानां भवति नियतं ग्रामपुंसां विनाशः ।
तस्माच्छान्तिं मुनिभिरुदिता तत्पटालोकपूर्वं कुर्याद्दानादिभिरिह नृणां नाशमायात्यरिष्टम् ॥ ७९ ॥
उक्तं च रामः –
जन्मर्क्षे निधनं ग्रहे जनिभतो घातः क्षतिः श्रीर्व्यथा चिंतासौख्यकलत्रदौस्थ्यमृतयः स्युर्माननाशः सुखम् ।
लाभोपाय इति क्रमात्तदशुभध्वस्त्यै जपः स्वर्णगोदानं शांतिरथो ग्रहं त्वशुभदं नो वीक्ष्यमाहुः परे ॥ ८० ॥
दैवज्ञमनोहरेपि –
घातं हानिमथ श्रियं जननभाद्ध्वस्तिं च चिन्तां क्रमात् सौख्यं दारवियोजनं च कुरुते व्याधिं च मानक्षयम् ।
सिद्धिं लाभमपायमर्कशशिनोः षण्मासमध्यग्रहे दुष्टं सुष्ठुतरं ददाति च फलं गर्गादिभिः कीर्तितम् ॥ ८१ ॥
लल्लस्तु-
ग्रासात्तृतीयेष्टमगश्चतुर्थस्तथायसंख्याशुभदः स्वराशिः ।
सुतांकदिक्द्वादशगश्च मध्या तथाधमश्चाद्यरिपुद्विसप्त ॥ ८२ ॥
गर्गोपि –
शुभाष्टायचतुस्त्रीणि मध्योंत्येषु नवास्तगः ।
निन्द्योरीदशपक्षैकं ग्रासाद्राशिं वदेद्बुधः ॥ ८३ ॥
पैतामहासिद्धांते-
सर्वे पट्टस्थितं वीक्ष्य खस्थं तैलांबुदर्पणे ।
ग्रहणं गुर्विणी जातु न पश्येत्तु पटं विना ॥८४॥
ग्रस्तास्ते विष्णुधर्मोत्तरे –
अहोरात्रं न भोक्तव्यं सूर्यचन्द्रग्रहो यदा ।
मुक्तिं दृष्ट्वा तु भोक्तव्यं स्नानं कृत्वा ततः परम् ॥ ८५ ॥
ग्रस्तास्तविषये । भृगुः-
ग्रस्तगौ वास्तमानं तु रवींदू प्राप्नुतौ यदि ।
तयोः परेद्युरुदये स्नात्वाभ्यवहरेन्नरः॥८६॥
ग्रस्ते चास्तगते त्विंदौ ज्ञात्वा मुक्तावधारयेत् ।
स्नानहोमादिकं कार्यं भुंजीतेन्दूदये पुनः ॥ ८७ ॥
मेघमालादिदोषेण यदि मुक्तिर्न दृश्यते ।
आकलय्य ततः कालं स्नात्वा भुंजीत वाग्यतः ॥ ८८ ॥
अथ दुष्टग्रहे स्नानार्थमौषधमाह । भृगुः-
दूर्वांकुरोशीरसमाशिलाजित्सिद्धार्थसर्वौषधिदारुलोध्रैः ।
स्नानं विदध्याद्ग्रहणे रवीन्द्वोः पीडाहरं राशिगते शुभे चेत् ॥ ८९ ॥
वस्त्रपट्टे लिखेन्मंत्रं खे राहोस्तमो विधोः
। वेदोक्तं च ततो वस्त्रमाच्छाद्य स्नानमाचरेत् ॥ ९० ॥
सुवर्णनिर्मितं नागं सतिलं ताम्रभाजनम् ।
सदक्षिणं सवस्त्रं च श्रोत्रियाय निवेदयेत् ॥ ९१ ॥
दुष्टग्रहणे दानम् ।
सौवर्णं राजतं वापि बिंबं कृत्वा स्वशक्तितः ।
उपरागोद्भवक्लेशच्छिदे विप्राय कल्पयेत् ॥ ९२
॥ दानमंत्रः ।
तमोमय महाभीम सोमसूर्यविमर्दन ।
हेमनाग प्रदानेन मम शान्तिप्रदो भव ॥ ९३ ॥
स्कंदपुराणे-
गोदानं भूमिदानं च स्वर्णदानं विशेषतः ।
ग्रहणे क्लेशनाशाय दैवज्ञाय निवेदयेत् ॥ ९४ ॥
यस्यैव जन्मनक्षत्रे ग्रस्येते शशिभास्करौ ।
इति यत्पूर्वं लिखितम् ।
द्रव्यमन्त्रविधानेन तस्य दोषापनुत्तये ॥९५॥
चण्डेश्वरः-
दधिमधुरसयुक्तं चन्द्रभानानुमानं रजतकृतशशांक कांस्यपात्रांतरस्थम् ।
दधिमधुघृतपूर्णं ताम्रपात्रांतरस्थं' कनकरचितसूर्यं सूर्यबिंबानुमानम् ॥९६॥
सितकुसुमसहस्रैः पूजयेदिंदुबिंबं हरति दुरितसंघं पर्वकाले शशांकः ।
अरुण- कुसुमवस्त्रैः पूजयेत्सूर्यबिंबं हरति सकलदोषं सर्वदा तिग्मरोचिः ॥ ९७ ॥
दुष्टग्रहणे शांतिः ।
स्थापयेच्चतुरः कुंभान् ब्राह्मणान्सागरानिति ।
गजाश्वरथ्यावल्मीकसंगमाद्ध्रदगोकुलात् ॥ ९८ ॥
राजद्वारप्रदेशाच्च मृदमानीय निक्षिपेत् ।
पंचगव्ये च कुंभेषु शुद्धमुक्ताफलानि च ॥ ९९ ॥
रोचनापद्मशंखौ च पंचरत्नसमन्वितम् ।
षष्ठिकं चन्दनं श्वेतं तीर्थवारि च पल्लवान् ॥ १०० ॥
सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः ।
आयांतु मम शांत्यर्थं दुरितक्षयकारकाः ॥ १०१ ॥
तिलहोमं व्याहृतिभिः सहस्रं चाष्टसंयुतम् ।
एवं कृत्वा प्रयत्नेन स्नानकर्म समारभेत् ।
आमन्त्र्य नवभिर्मंत्रैः कुंभान् संकल्पपूर्वकम् ॥ १०२ ॥
योसौ वज्रधरो देव आदित्यानां प्रयत्नतः ।
सहस्रनयनः शक्रो ग्रहपीडा व्यपोहतु ॥ १०३ ॥
दुष्टग्रहणे स्तोत्रम् ।
चतुःशृंगः सप्तहस्तः त्रिपादो मेषवाहनः ।
अग्निश्चंद्रोपरागोत्थां ग्रहपीडां व्यपोहतु ॥ ४ ॥
यः कर्मसाक्षी लोकानां धर्मो महिषवाहनः ।
यमश्चंद्रोपरागोत्थां ग्रहपीडां व्यपोहतु ॥ ५ ॥
रक्षोगणाधिपः साक्षात्प्रलयानलसन्निभः ।
खड्गचर्मातिकायश्च रक्षःपीडां व्यपोहतु ॥ ६ ॥
नागपाशधरो देवः सदा मकरवाहनः ।
वरुणोंबुपतिः साक्षाद्ग्रहपीडां व्यपोहतु ॥ ७ ॥
प्राणरूपो हि लोकानां चारु कृष्णमृगप्रियः ।
वायुश्चंद्रोपरागोत्थग्रहपीडां व्यपोहतु ॥ ८ ॥
योसौ निधिपतिर्देवः खड् शूलगदाधरः ।
चंद्रोपरागकलुषं धनदोत्र व्यपोहतु ॥ ९ ॥
योसौ बिंदुधरो देवः पिनाकी वृषवाहनः ।
चंद्रोपरागजां पीडां स नाशयतु शंकरः ॥ १० ॥
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ।
ब्रह्मार्कविष्णुयुक्तानि तानि पाप दहंतु मे ॥ ११ ॥
एवमामंत्रितैः कुंभैरभिषिक्तो गुणान्वितः ।
ऋग्यजुःसाममंत्रैश्च शुद्धमाल्यानुलेपनैः ॥ १२ ॥
पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः ।
एतेनैव तता मंत्रान्विलिख्य कनकान्वितान् ॥ १३ ॥
वस्त्रे पट्टे तथा भूर्जे पंचरत्नसमन्वितान् ।
यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः ॥ १४ ॥
ततोपि वाहयेद्वेलामुपरागानुगामिनी ।
प्राङ्मुखं पूजयित्वा तु नत्वा चाभीष्टदेवताम् ॥ १५ ॥
चंद्रग्रहे निवृत्ते तु कृतशौचात्ममंगलम् ।
कृतस्नातश्च तत्सर्वं ब्राह्मणाय निवेदयेत् ॥ १६ ॥
अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् ।
न तस्य ग्रहपीडा स्यान्न च बन्धुधनक्षयः ॥ १७ ॥
सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत् ।
 य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः ॥ १८ ॥
सर्वपापविनिर्मुक्तः सर्वत्र सुखभाग्भवेत् ॥ १९ ॥
स्मृतिनिर्णये –
सूर्यग्रहे रवेर्जाप्यं दानं कुर्याद्यथाविधि ।
चन्द्रग्रहे तु तज्जाप्यं राहुदानं तथा जपः ॥ २० ॥
ग्रहणात्पूर्वापर दिवसाशुभे त्याज्याः । वसिष्ठः –
ग्रहे रवींद्वोरवनिप्रकंपे केतूदयोल्कापतनादिदोषे ।
वजेद्दशाहानि वदंति तज्ज्ञाः त्रयोदशाहानि वदंति केचित् ॥ २१ ॥
नारदः –
एकरात्रिं परित्यज्य कुर्यात्पाणिग्रहं गृही ।
प्रयाणे सप्त रात्रं च त्रिरात्रं व्रतबंधने ॥ २२ ॥
सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् ।
द्वि त्रि एकांगुलग्रासे दिनमेकं तु वर्जयेत् ॥ २३ ॥
अंगिरोपि –
सर्वग्रासे तु सप्ताहमर्धग्रासे दिनत्रयम् ।
त्रिद्व्येकांगुलतो ग्रासे दिनमेकं तु वर्जयेत् ॥ २४ ॥
हारीतः –
एकरात्रिं त्रिरात्रिं च सप्तरात्रं तथैव च ।
विवाहव्रतयात्रासु वर्जयेद्राहुदर्शनात् ॥ २५ ॥
निबन्धसारे –
राहुदर्शनादिनाद्दिनत्रयं वर्ज्येनायामति गर्गसंमतम् ।
पंच सप्त च वसिष्ठनारदौ त्रिचतुः खलु दिनानि शोभने ॥ २६ ॥
त्रिविक्रमः-
सप्ताहानि त्यजेत् ग्रासात् इति । दैवज्ञवल्लभे—
अनिष्टे त्रिविधोत्पाते सिंहिकासूनुदर्शने ।
सप्तरात्रं न कुर्वीत यात्रोद्वाहादि मंगलम् ॥ २७ ॥
सेवासूर्योदये-
त्रयोदश्यास्तु मांगल्ये दिनानि नवकं त्यजेत् ।
खण्डग्रहे ग्रहदिनं तथा पूर्वं परं दिनम् ॥ २८ ॥
नारदः –
ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्ग्रस्तोदये तथा ।
खण्डग्रासे त्रिदिनं निःशेषे सप्त सप्त च ॥ २९ ॥
कश्यपः—
ग्रस्तोदये परो दोषो ग्रस्तास्तेर्वाक् शशीनयोः ।
द्युनिशार्द्धे भयं स्यात्तु खण्डे खण्डव्यवस्थयोः ॥ ३० ॥
ज्योतिःप्रकाशे-
खग्राससर्वपादोन खण्डार्ध्यल्पे तु वासरा ।
राजाश्वेष्वब्धि रामाब्जा नेष्टा प्रोक्ता दलं ग्रहे ॥ ३१ ॥
तत्त्वविवेके - -
प्रागेकाहस्त्रयहं पश्चात् तद्दिनं ग्रहणस्य च ।
त्यजेद्गत्यंतराभावे सर्वग्रासेपि कर्मणाम् ॥ ३२ ॥
अथ ग्रहणफलम् ।
यद्येकस्मिन्मासे ग्रहणं रविसोमयोस्तदा क्षितिपाः ।
स्वबलक्षोभौ सक्षयमायांत्यतिकोशशस्त्रकोपश्च ॥ ३३ ॥
ग्रस्तावुदितास्तमितौ शारदधान्यावनीश्वरक्षयदौ ।
सर्वग्रस्तदुर्भिक्ष्यमरणकरौ पापसंदृष्टौ ॥ ३४ ॥
 सोमग्रहे निवृत्ते पक्षांते यदि भवेद्ग्रहोर्कस्य ।
तत्रानयोः प्रजानां दंपत्योर्वैरमन्योन्यम् ॥ ३५ ॥
अर्कग्रहात्तु शशिनो ग्रहणं दृश्यते ततो विप्राः ।
नैकऋतुफलमतो भवंति मुदिता प्रजाश्चैवं ॥ ३६ ॥
संहितासिद्धांते-
दशैव ग्रासभेदास्युर्मोक्षभेदास्तथा दश ।
न शक्ता वेदितुं देवाः किं पुनस्तं नराधमाः ॥ ३७ ॥
वाराहीये—
मुक्ते सप्ताहांतः पांसुनिपातोऽन्नसंक्षयं कुरुते ।
नीहारे रोगभयं भूकंपः प्रवरनृमृत्युः ॥ ३८ ॥
उल्कामंत्रिविनाशं नानावर्णाघनाश्वभयमतुलम् ।
स्तनितं गर्भविपत्तिं विद्युन्नृपदृष्टिपरिपीडाम् ॥ ३९ ॥
परिवेषो रुक्पीडां दिग्दाहो नृपभयं च साग्निभयम् ।
रूक्षो वायुः प्रबलश्चौरसमुत्थं भयं धत्ते ॥ ४० ॥
निर्घातः सुरचापं दंडश्च क्षुद्भयं सपरचक्रम् ।
ग्रहयुद्धं नृपयुद्धं केतुश्च तदैव संदृष्टः ॥ ४१ ॥
अविकृतसलिलनिपाते सप्ताहांतः सुभिक्षमादेश्यम् ।
यश्चाशुभं ग्रहणजं तत्सर्वं नाशमुपयाति ॥ ४२ ॥
संवत् मास तिथि ग्रहण स्पर्शघटी मोक्षघटी

संवत् मास तिथि ग्रहण स्पर्शघटी मोक्षघटी
१९५४ पौषशुक्ल माघकृष्ण १५ चंद्रे ३० शनौ चंद्रस्पर्श सूर्यस्पर्श ५४।२९ १३।५१ ५८।१९ २०।२६
१९५५ आषाढ मार्गशिर १५ रवौ १५ भौमे चंद्रस्पर्श चंद्रस्पर्श ५०।० ४८।२८ ५८।२२ ५७।१२
१९५६ ज्येष्ठशुक्ल मार्गशिर १५ भृगो १५ शनौ चंद्रस्पर्श चंद्रस्पर्श ३१।५८ ५३।४० ३५।३१ ५७।२६
१९५८ चैत्रकृष्ण ३० सूर्यस्पर्श ७।३२ १२।२७
१९५९ चैत्रशुक्ल १५ भौमे चंद्रस्पर्श ४०।२२ ४२।४८
१९६० चैत्रशुक्ल आषाढ १५ शनौ १५ शुक्रे ५५।२३ ३१।२ २।४५ ३९।१०
१९६१ मार्गशिर १५ रवौ चंद्र ४०।३९ ४६।५९
१९६२ श्रावण १५ चंद्र २७।० ३०।११
१९६३ कार्तिक मार्गशिर ३० १५ भौमे सूर्यस्पर्श चंद्रस्पर्श ९।३६ २५।२४ १४।२४ ३०।२४
१९६५ मार्गशुक्ल १५ शुक्रे चं ४८।२० ५१।३०
१९६६ ज्येष्ठशुक्ल १५ शुक्रे चं ५९।३ ७।४३
१९६७ कार्तिकशुक्ल १५ शुक्रे ५३।३७ ५६।३७
१९६८ कार्तिक ३० सू ५९।२६ ४।५०
१९६९ चैत्रशुक्ल चैत्रकृष्ण १५ सोमे ३० बुधे चं सू ५१।१९ २९।० ५६।० ३३।३१
१९७० भाद्रपद फाल्गुन १५ १५ चंद्र २४।९ ३२।५९
१९७१ भाद्रपदकृष्ण भाद्रपदशुक्ल ३० भृगौ १५ भृगौ सूर्य चंद्र ३०।३८ २५।१ ३५।२८ ३३।१६
१९७४ आषाढ १५ शुक्र चंद्र ४९।५५ ५९।२९
१९७७ वैशाखशुक्ल आषाढ १५ १५ बुधे चंद्र चंद्र ५८।३ ३२।९ ६।४७
१९७८ आश्विन् १५ रवौ ४९।३१ ५७।४९
१९७९ आश्विन् ३० गुरौ सूर्य ५।५ १०।११
१९८० माघशुक्ल १५ बुधे चंद्र ३२।३८ ४१।४८
१९८१ श्रावण माघशुक्ल १५ शुक्रे १५ रवौ चंद्र चंद्र ४५।४५ ४६।१ ५५।.
१९८२ श्रावणशुक्ल माघकृष्ण १५ भौमे ३० गुरौ चंद्र सूर्य दृष्टिर्नास्ति १२।१७ १५।३३
१९८५ ज्येष्ठकृष्ण ३० गुरौ चंद्र १६।३७ २१।२१
१९८६ वैशाखकृष्ण ३० गुरौ सूर्यग्रहणसंभव
१९८८ चैत्रशुक्ल भाद्रपदशुक्ल फाल्गुन १५ १५ १५ चंद्रग्रह चंद्र चंद्र ४४।३ ४०।० १५। ५३।० ४९।० २३
१९८९ भाद्रपद १५ बुधे चंद्र ५०।४४ ५३।०
१९९० भाद्रपदकृष्ण ३० सोमे सूर्य ७।० १४।३४
१९९१ आषाढशुक्ल पौषशुक्ल १५ १५ चंद्र चंद्र २७।० २९ ३५।० ३७।..
१९९२ पौषशुक्ल १५ बुधे चंद्र ३५।४३ ४४।०
१९९३ आषाढकृष्ण आषाढशुक्ल ३० १५ सूर्य चंद्र ९।४८ ४०।८ १४।० ४३।२