बृहद्दैवज्ञरञ्जनम्/कृषिप्रकरणम्

विकिस्रोतः तः


अथ सप्तसप्ततितमं [१]कृषिप्रकरणं प्रारभ्यते !
बृहस्पतिः–
अथातः संप्रवक्ष्यामि संपूर्त्या कृषये नृणाम् ।
क्रियाणामपि सत्कालमुहूर्ते च विशेषतः ॥ १ ॥
गृहस्थाचारधर्मस्य मूलं कृषिरुदाहृता ।
अन्येषामाश्रमाणां तु गृहस्थाश्रमतः फलम् ॥ २ ॥
तस्मात्कृषिविधानेन बीजनिर्वापणेन च ।
पुरुषार्थप्रसिद्धिः स्यादतस्तत्काल उच्यते ॥ ३ ॥
प्रथमं संप्रवक्ष्यामि समयं कृषिकर्मणः ।
शुभो वज्रिन्नृणां चैव देवानां च विशेषतः ॥ ४ ॥
प्रकीर्णके कृषीमूले सर्वत्र प्राणिनां समा ।
कृष्यभावे न संपत्स्यात्तस्मात्संप्रारभेत्कृषिम् ॥ ५ ॥
पूर्वं सुभूप्रवेशः स्यान्निमित्तं चावलोकयेत् ।
मैत्राश्विवस्विरोहिण्यां साहिर्बुध्न्यं कुजाह्निभुक् ॥ ६ ॥
स्वात्युत्तरे च पुष्ये च रौद्रे याम्ये च पैतृभे ।
कुर्यात्प्रवेशनं भूमेः प्रथमस्वीकृतासु च ॥ ७ ॥
एतेषु कौजः श्रेष्ठोत्र मध्यमौ बुधजीवयोः ।
शेषा वारा विवर्ज्याः स्युः सोमवारे कदाचन ॥ ८ ॥
शुक्रज्ञजीवलग्ने वा राशौ चेष्टा शुभावहाः ।
प्रवेशो गोनराणां च गवां संपदमिच्छताम् ॥ ९ ॥
एवं प्रवेशनं कृत्वा वनच्छेदनमेव च ।
दहनादिकमप्येवं कृत्वा कृषिमथारभेत् ॥ १० ॥
रोहिण्यादित्यमूलाश्विपौष्णहस्तोत्तरात्रयम् ।
मृगवस्वानुराधाश्च कृषिकर्मणि पूजिताः ॥ ११ ॥
अथ वज्रिन्प्रवक्ष्यामि बीजनिर्वापणाय च ।
कालः सर्वामराणां च नराणां च हितेभयोः ॥ १२ ॥
यदा स्यादार्तवो भूमेस्तदा बीजानि वापयेत् ।
बीजानां तु विशेषेण धरार्तवविशेषतः ॥ १३ ॥
यस्य बीजस्य यः कालो भूमेरार्तव संभवः ।
तस्मिन्काले तु तद्बीजं शुभं निर्वापयेद्बुधः ॥ १४ ॥
ज्येष्ठाख्ये मासि मूलाख्ये आषाढे च विशेषतः ।
सर्वेषां बीजजातीनां धरायामार्तवो भवेत् ॥ १५ ॥
वारुणं वैष्णवं स्वाती पुष्ये सार्पोत्तरा त्रयः ।
रोहिणीमूलमैत्राश्च हस्तपूषाभगास्तथा ॥ १६ ॥
चतुर्दशैताः तारास्युर्बीजनिर्वापने तथा ।
वासवादित्यसौम्याश्विताराः स्युर्मध्यमावहाः ॥ १७ ॥
अन्याश्च नव ताराः स्युर्वर्ज्या बीजनिवापने ।
वर्ज्येष्वपि च योगेषु शुभं स्याद्वीजवापने ॥ १८ ॥
ओजाश्च तिथयः श्रेष्ठाः पक्षयोरुभयोरपि ।
प्रथमां नवमीं युग्माममावास्यां च वर्जयेत् ॥ १९ ॥
द्वितीया दशमी षष्ठी मध्यमास्तिथयः परे ।
वर्ज्यास्युस्तिथयो युग्मा बीजनिर्वापणे बुधैः ॥ २० ॥
चन्द्रज्ञजीवशुक्राणां वारा वर्गादयः शुभाः ।
उदयांशदृशश्चैषां वर्ज्यकेष्वपि शोभनाः ॥ २१ ॥
अर्कारार्कजयातॄणां वारा वर्गीशकादयः ।
उदयाश्च दशाश्चैव प्रोक्तर्क्षेष्वपि वर्जित ॥ २२ ॥
मृगगोकर्किसिंहाः स्युर्मीनश्च शुभदा सदा ।
तुला मिथुन कुंभास्युर्मध्यमा वर्जिता परे ॥ २३ ॥
सहजारिभवे क्रूरा शुभा सौम्या न शोभना ।
विभवे वानवे सौम्य ववर्गा बहुपादृते ॥ २४ ॥
चन्द्रो भातृसुतायस्त्रीबंधुधर्मार्थगः शुभः ।
अष्टमस्था ग्रहाः सर्वे नेष्टा शुक्रश्च कामगः ॥ २५ ॥
अर्किवारश्च मध्यार्के बीजान् कृष्णान्प्रवापयेत् ।
शततारासु तल्लग्ने कृष्ण धान्यानि वापयेत् ॥ २६
॥ पर्यदाये गुरौ लग्ने रक्तबीजान्प्रवापयेत् ।
इंदुभे शालि जातीनां जीवलग्ने शुभावहम् ॥ २७ ॥
भौमवारे कुजे लग्ने निर्वपेत्कोद्रवान्बुधः ।
कोद्रवान्निर्वपेद्वृद्ध्यै कुजवारे यमोदये ॥ २८ ॥
माहेयवारे सौम्यर्क्षे क्रियलग्न प्रियंगवः ।
निर्वाप्यो वृष्टिरिक्ताभिर्वर्जितैस्तिथिभिर्युतैः ॥ २९ ॥
त्वाष्ट्रभं मुद्गसंज्ञानां जीवलग्ने शुभावहम् ।
मंत्रिवारेंदुगे लग्ने बीजान्युक्तानि वापयेत् ॥ ३० ॥
हस्तपौष्णाश्विसौम्याश्च पुष्यमैत्रानिलानलाः ।
रोहिणी च प्रशस्ताः स्युः सर्वबीजानिवापने ॥ ३१ ॥
मूले तुतुकजातीनां जीवलग्न शुभावहम् ।
तुलांत्यपादगे चन्द्रे विलग्नस्येऽतिशोभनः ॥ ३२ ॥
निष्पापबीजं निर्वाप्यो महाधान्यविवृद्धिदः ।
सितवारे युते सौम्ये शुक्रलग्ने शुभे तिथौ ॥ ३३ ॥
अरण्यांश्च कृषिं कुर्यान्नवच्छेदनपूर्वकान् ।
इक्षुशालियवमुद्गमाषैर्भग्नशैलतिलबिल्वगव्यकैः ।
पद्मपत्रनिहितं ग्रहेक्षणान्नागयोगविहितं श्रियावहम् ॥ ३४ ॥
सार्पे मुहूर्ते सार्पर्क्षे करणे सर्पसंज्ञके ।
संयोगो नागयोगोयमथवा करणक्षये ॥ ३५ ॥
कन्याकन्यांशके जीवे लग्नस्थे विनियोजयेत् ।
भुवि नागतले स्थातुं चिरकालं यदिच्छसि ॥ ३६ ॥
तं केतुपंचमांशस्थे जीवलग्ने विनिक्षिपेत् ।
इक्षुखंडा महावृद्ध्यै शुभयोगेथवा समम् ॥ ३७ ॥
अथ हलप्रवाहमुहूर्तः । ज्योतिःसारे-
मृदुध्रुवक्षिप्रचरेषु मूलभे मघाविशाखासहितेषु भेषु ।
हलप्रवाहं प्रथमं विदध्यान्नीरोगमुष्कान्वितसौरभेयैः ॥ ३८ ॥
हंत्यष्टमी बलीवर्दान्नवमी सस्यघातिनी ।
चतुर्थी कीटजननी पशून्हंति चतुर्दशी ॥ ३९ ॥
मेषलग्ने पशून्र्हंति कर्कटे च जलाद्भयम् ।
सिंहेशस्य भयं प्रोक्तं तुलायां हलसंशयः ॥ ४० ॥
मकरे सस्यनाशाय कुंभे चौरभयं भवेत् ।
शेषाणि शुभलग्नानि कृषिकर्मम् उदाहृतम् ॥ ४१ ॥
बीजवापने राहुचक्र श्रीपतिः –
मूर्ध्नि त्रीणि गले त्रयं च जठरे धिष्णानि च द्वादश स्यात्पुच्छे भचतुष्टयं बहिरतो भानां स्थितं पंचकम् ।
कीटं कज्जलमत्तवृद्धिरधिकानिस्तंदुलत्वं क्रमात्स्यादीतिप्रभवं भयं च फणिभाद्बी जोप्तिकाले स्फुटम् ॥ ४२ ॥
रामः –
द्वीशाजपान्निर्ऋतिधातृशतार्यमर्क्षे।
सस्यस्य रोपणमिहार्किकुजैा विना सत् ॥ ४३ ॥
शस्यरक्षार्थं बृहस्पतिः –
विश्वाभर्क्षांशगे चन्द्रे शशिवारे विधूदये ।
रक्षार्थं सर्वसस्यानामुटजा कार्यविचक्षणैः ॥ ४४ ॥
मघाविष्णोश्चतुर्थांशे चाहिर्बुध्न्यस्य मध्यमे ।
रौद्रस्य प्रथमे कुर्यात्सिंहचापोदये मतम् ॥ ४५ ॥
सिंहचापोदये स्थाणुस्थातव्यो मृगभीतिदः ।
सस्यमध्येथवारामे रौद्रर्क्षे मध्यमांशयोः ॥ ४६ ॥
अदिते तु चतुर्थांशे चन्द्रजीवसिता यदि ।
उद्यंति चेत्तदा कुर्याद्धान्यकामी सुरक्षणः ॥ ४७ ॥
खली वाली च संस्थाप्य सोम्यर्क्षे शीतगूदये ।
सोमवारयुते स्वातौ रोहिण्यां वापि पूर्वकृत् ॥ ४८ ॥
प्राजापत्यमघा ज्येष्ठाश्लेषाया हस्तयुक्तयोः ।
अर्कींदुतनये लग्ने धान्यप्रच्छेदनं शुभम् ॥ ४९ ॥
याम्यवैष्णववैशाखा लग्ने कर्कटवृश्चिके ।
प्रथमं लंबनं कुर्याच्छत्रुबुद्धिविनाशने ॥ ५० ॥
रामः –
तीक्ष्णाजपादकरवह्निवसुश्रुतींदुस्वातीमघोत्तरजलांतकतक्षपुष्ये ।
मंदाररिक्तरहिते दिवसेतिशस्ता धान्याच्छिदा निगदिता स्थिरभे विलग्ने ॥ ५१ ॥
भाग्यार्यमश्रुतिमघेंद्रविधातृमूलमैत्रांत्यभेषु गदित कणमर्दनं सत् ॥ ५२ ॥
मिश्रोग्ररौद्रभुजगेंद्रविभिन्नधिष्णे कर्काजतौलिरहिते च तनौ शुभाहे ।
धान्यस्थितिः शुभकरी गदिता ध्रुवेज्यद्वीशेंद्रदास्रचरभेषु च धान्यवृद्धिः ॥ ५३ ॥
अथनवयज्ञान्नभक्षणविधिः ।
नवयज्ञाधिकारस्याच्छामाका व्रीहयो यवाः ।
नाश्नीयात्तानहुत्वैवमन्येष्वनियमः स्मृतः ॥ ५४ ॥
ऐक्षवः सर्वशूगाश्च नीवाराश्चणकास्तिलाः ।
अकृताग्रयणोश्नीयात्तेषां नोक्ता हविर्गुणाः ॥ ५५ ॥
रामः –
नवान्नं स्याच्चरक्षिप्रमृदुभे सत्तनौ शुभम् ।
विनानन्दा विषघटी मधुपौषार्किभूमिजान् ॥ ५६ ॥
अथ कोल्हुचक्रम् ।
सूर्यर्क्षाद्गिरिपुत्रकस्य तलतो भूरिक्षुकण्ठे नगा ऊर्ध्वभ्रांतसुमिन्मये च नवकं गोस्कंधकाष्ठे त्रयम् ।
तिर्यक्भ्रान्तसुदारुके च गिरयो नष्टार्थवृद्ध्याग्निभीस्सौख्यं गोहतिरिज्यकानिलकरां स्यादित्यमैत्रश्रुतौ ॥ ५७ ॥
अथ प्रकारान्तरम्। अन्यत्रापि –
वेदद्विनेत्रभूभूतबाणहस्तरसाः क्रमात् ।
प्रथमे च भवेल्लक्ष्मी द्वितीये हानिमेव च ॥ ५८ ॥
तृतीये सर्वलाभं च चतुर्थे तु क्षयं तथा ।
पंचमे च भवेन्मृत्युः षष्ठस्थाने शुभं स्मृतम् ॥ ५९ ॥
सप्तमे चैव पीडा स्यादष्टमे धनधान्यदम् ।
सूर्यभाद्गणयेच्चान्द्रमिक्षुयंत्रे नियोजयेत् ॥ ६० ॥

तल कंठ ढेंका जुआ कातार
नेष्ट वृद्धि अग्नि सौख्य गोनाश

अथ कूपचक्रम् ।
अथाहं संप्रवक्ष्यामि कूपचक्रं समासतः ।
रोहिण्यादिश्च गणयेद्यत्र तिष्ठति चन्द्रमाः ॥ ६१ ॥
अथवा सूर्यनक्षत्राद्गणयेच्च त्रिकं त्रिकम् ।
मध्ये शीघ्रजलं स्वादु पूर्वे भूमिश्च खण्डकम् ॥ ६२ ॥
आग्नेय्यां सजलं प्रोक्तं याम्ये निर्जलता तथा ।
नैर्ऋते चामृतं वारि वारुण्यां शीतलं जलम् ॥ ६३ ॥
वायव्ये परिजनं हंति उत्तरे चोत्तमं जलम् ।
ईशाने कटुकं क्षारं भूमिरेव न संशयः ॥ ६४ ॥
अथ कूपारंभे नक्षत्रग्रहणम् । ज्योतिषसारे –
हस्तात्तिस्रो वासवं वारुणं च शैवं पित्र्यं त्रीणि चैवोत्तराणि ।
प्राजापत्यं चापि नक्षत्रमाहुः कूपारंभे श्रेष्ठमाद्या मुनींद्राः ॥ ६५ ॥
अथ तडागचक्रम् ।
तडागचक्रं वक्ष्यामि यदुक्तं ब्रह्मयामले ।
सूर्यर्क्षाच्चंद्रमा यावद्गणयेत्सततं बुधैः ॥ ३६ ॥
दिक्षु ऋक्षद्वयं न्यस्य मध्ये पंच नियोजयेत् ।
ऋक्षाणि वारिवाहे षट् फलं तत्र विचारयेत् ॥ ६७ ॥
पूर्वस्थाने भवेच्छोको आग्नेय्यां सलिलं बहु ।
दक्षिणे वारिनाशं च नैर्ऋते चामृतं जलम् ॥ ६८ ॥
पश्चिमे बहुभिर्वारि वायव्ये निर्जलं तथा ।
उत्तरे चोत्तमं वारि ईशाने कुत्सितं तथा ॥ ६९ ॥
मध्ये शीघ्रजलं प्रोक्तं वारिवाहेंबुनाशम् ॥ ७० ॥
इति श्रीज्योतिर्विद्गयादत्तात्मज रामदीनकृते संग्रहे बृहद्दैवज्ञरंजने सप्तसप्ततितमं कृषिप्रकरणं समाप्तम् ।

  1. द्र कृषिपराशरम्