सामग्री पर जाएँ

बृहद्देशी

विकिस्रोतः तः
; अनन्तशयनसंस्कृतग्रन्थावलिः १४
; श्रीमतङ्गमुनिप्रणीता बृहद्देशी 

%% ed. K. साम्बशिवशास्त्रि
%% Keyed in by : Vidya Jayaraman
%% bṛhaddeśī verses numbered serially
%% quotations numbered Q1 through Qn
%% the prose sections numbered V1 through Vn 


श्रीः
श्रीमतङ्गमुनिप्रणीता  बृहद्देशी
 *------------------------
 
१कख नानाविधेशु देशेषु जन्तूनां सुखदो भवेत् 
१गघ ततः प्रभृति लोकानां नरेन्द्राणां यद्रुच्चया 
२कख देषे देषे प्रव्ṟत्तोऽसौ ध्वनिर्देशीति संज्ञितः
२गघ मतङ्गस्य वचः श्रुत्वा नारदो मुनिरब्रवीत्
३कख ननु ध्वनेस्तु देशीत्वं कथं जातं महामुने
३गघ अमूर्तत्वाच्च तेषां हि इति मे वक्तुमर्हसि 
 
मतंग उवाच -
४कख यथानुभूतदेशाच्च ध्वनेः स्थानानुगादपि
४गघ ततो बिन्दुस्ततो नादस्ततो मात्रास्त्वनुक्रमात्
५कख वर्णस्तु मात्रकोदभूता मत्रका द्विविधा मताः
५गघ स्वरव्यञ्जनरूपेण जगज्ज्योतिरिहोच्यते 
६कख स्व(र्यु?र्य) ते देशभाषायामादिक्शान्तं यथाविधि
६गघ तेन स्वराः समाख्याता अन्ये षद्जादयः स्वराः
७कख व्यञ्जनत्वं तु सर्वेशां कादिवर्गेशु संस्थितम्
७गघ षक्त्यभिर्व्यक्तिमात्रेण व्यञ्जनं शिवतां गतम्
८कख पदवाक्यस्वरूपेण वाक्यार्थवहनेन यत्
८गघ वर्णा यत्र(?) जगत् सर्वं तेन वर्णाः प्रकीर्तिताः
९कख वर्णपूर्वकमेतद्धि पदं ज्ञेयं सदा बुधैः
९गघ पदैस्तु निर्मितं वाक्यं क्रियाकारकसंयुतम्
१०कख ततो वाक्यान्महावाक्यं वेदाः साङ्गा ह्यनुक्रमात्
१०गघ व्यक्तास्ते ध्वनितः सर्वे ततो गान्धर्वसम्भवः
११कख ध्वनिर्योनिः परा ज्ञेया ध्वनिः सर्वस्य कारणम्
११गघ आक्रान्तं ध्वनिना सर्वं जगत् स्थावरजङ्गमम्
१२कख ध्वनिस्तु द्विविधः प्रोक्तो व्यक्ताव्यक्तविभागतः
१२गघ वर्णोपलम्भनाद् व्यक्तो देशीमुखमुपागतः

इति देश्युत्पत्तिप्रकरणम्

१३कख अबलाबालगोपालैः क्शितिपालैर्निजेच्चया
१३गघ गीयते सानुरागेण स्वदेशे देशिरुच्यते 
१४कख निबद्धश्चानिबद्धश्च मार्गोऽयम् द्विविधो मतः
१४गघ आलापादि(?) निबन्धो यः स च मार्गः प्रकीर्तितः 
१५कख एवम्प्रकारो देशी यः ज्ञातव्या गीतकोविदैः
१५गघ एवमेतन्मया प्रोक्तं देश्या उत्पत्तिलक्̲षणम् 

इति देशीलक्षणम्
१६कख इदानीं सम्प्रवक्ष्यामि नादलक्षणमुत्तमम्
१६गघ न नादेन विना गीतं न नादेन विना स्वराः 
१७कख न नादेन विना न्ṟत्तं तस्मान्नादात्मकं जगत्
१७गघ नादरूपः स्म्ṟतो ब्रह्मा नादरूपो जनार्दनः 
१८कख नादरूपा परा शक्तिर्नादरूपो महेस्वरः

Q१.१८गघ यदुक्तं ब्रह्मणः स्थानम् ब्रह्मग्रन्थिश्च यः स्मृतः
Q१.१९कख तन्मध्ये संस्थितः प्राणः प्राणाद् वह्निसमुद्गमः
Q१.२०कख वह्निमारुतसंयोगान्नादः समुपजायते
Q१.२०गघ नादादुत्पद्यते बिन्दुर्नादात् सर्वं च वाङ्ग्मयम्
इति केचित् ।
Q२.२१कख कन्दस्थानसमुत्थो हि स च पन्चविधो भवेत्
Q२.२१गघ सूक्श्मश्चैवातिसूक्श्मश्च समीरः सन्चरन्नधः
Q२.२२कख ऊर्ध्वं च कुरुते सर्वां नादपद्धतिमुद्धतां
इत्यन्ये वदन्ति 

२२कख नकारः प्राण इत्याहुर्दकारश्चानलो मतः
२२गघ नादस्य द्विपदार्थोऽयम् समीचीनो मयोदितः
२३कख नादोऽयम् नदतेर्धातोः स च पञ्चविधो भवेत् 
२३गघ सूक्श्मश्स्चैवातिसूक्श्मश्च व्यक्तोऽव्यक्तश्च क्र्त्रिमः
२४कख सूक्श्मो नादो गुहावासी हृदये चातिसूक्श्मकः
२४गघ कण्ठमध्ये स्थितो व्यक्तः अव्यक्तस्तालुदेशके

२५कख क्र्त्रिमो मुखदेशे तु ज्ञेयः पञ्चविधो बुधैः
२५गघ इति तावन्मया प्रोक्ता नादोत्पत्तिर्मनोहरा
इति नादोत्पत्तिः ।

२६कख इदानीम् तु प्रवक्ष्यामि श्रुतीनां च विनिश्चयम्
२६गघ श्रु श्रवणे चास्य धातोः क्तिप्रत्ययसमुद्भवः
२७कख श्रुतिशब्दः प्रसाध्योऽयं शब्दज्ञैर्भावसाधनः

V१.१श्रूयन्त इति श्रुतयः । V१.२ सा चैकानेका वा । 
V१.३ तत्रैकैव श्रुतिरिति । V१.४ तद्यथा - तत्रादौ तावादिहाग्निपवनसंयोगात् पुरुषप्रयत्नप्रेरितोर्ध्वं नाभेर् ऊर्ध्वाकारदेशमाक्रमद् धूमवत् सोपानपदक्रमेण पवनेच्चया आहाहरोहन्नतर्भूतपूरणप्रातिनिपार्यापाद्यतया(?)  श्रुत्यादिभेदभिन्नः प्रतिभास इति मामकीयं मतम् ।

V२.१ अन्ये पुनर्द्विप्रकाशः श्रुर्मन्यन्ते कथम् स्वरान्त(र)विभागात् । V२.३ तथाच विस्व्हावसुः - 

Q३.१कख "श्रवणेन्द्रियग्रह्यत्वाद् ध्वनिरेव श्रुतिर्भवेत् ।
Q३.१गघ  सा चैकापि द्विधा ज्ञेया स्वरान्तरविभागतः 
Q३.२कख नियतश्रुतिसंस्थानाद् गीयन्ते सप्त गीतिषु
Q३.२गघ तस्मात् स्वरगता ज्ञेयाः श्रुतयः श्रुतिवेदिभिः
Q३.३कख अन्तःश्रुति विवत्रिन्यो ह्यन्तरश्रुतयो मताः
Q३.३गघ एतासामपि चैश्वर्यं क्रियाग्रामविभागतः "

V३.१ केचित् स्थानत्र(यं? य) योगात् त्रिविधां श्रुतिं प्रतिपद्यन्ते ।
V३.२ अपरे त्विन्द्रियवैगुण्यात् त्रिविधां श्रुतिं मन्यन्ते ।
V३.३ इन्द्रियवैकुण्यं च त्रिविधं - सहजं दोषजं अभिघातजं चेति ।

V४.१ अपरे तु वातपित्तकफसन्निपातभेदभिन्नां चतुर्विधां श्रुतिं प्रतिपेदिरे ।
V४.२ तथाचाह चतुरः (?) - 

Q४.१कख "उच्चौस्तरो ध्वनी रूक्षो विज्ञेयो वातजो बुधैः ।
Q४.१गघ गम्भीरो घन(नी?शी)लश्च ज्ञातव्यः पित्तहो ध्वनिः ॥
Q४.२कख स्निग्धश्च सुकुमारश्च मधुरः कफजो ध्वनिः ।
Q४.२गघ त्रयाणां गुणसंयुक्तो विज्ञेयः सन्निपातजः ॥

V५.१ अपरे तु ......ंधादयो नवधा श्रुतिं प्रतिपद्यन्ते
V५.२ तथाहि -- 
Q५.१कख द्विश्रुतिस्त्रिश्रुतिश्चैव चतुःश्रुतिक एव च
Q५.१गघ स्वरप्रयोगः कर्तव्यो वंशे छिद्रगतो बुधैः

V५.३ भरतेनाप्युक्तं -- 
Q६.१कख"द्विक(स्त्रि ?त्रि) कचतुष्कास्तु ज्ञेया वंशगता स्वराः ।
Q६.१गघ इति तावन्मया प्रोक्ताः सवंशश्रुतयो नव" ॥

V६.१ तत्र केचिन्मीमांसामांसलितधियो धीरा द्वाविंशतिश्रुती(यो?)र्मन्यन्ते । V६.२ केचन पुनः  (षट्) षष्टिभेदभिन्नाः श्रुतय 
इति मन्यन्ते । V६.३ अन्ये पुनरान्नन्त्यं वर्णयन्ति श्रुतीनाम् । V६.४ यथाचाह कोहलः --

Q७.१कख द्वाविंशतिं केचिदुदाहरन्ति (श्रुतिः) श्रुतिज्ञानविचारदक्षाः ।
Q७.१गघषट्षष्टिभिन्नाः खलु केचिदासामानन्त्यमेव प्रतिपादयन्ति ॥"

V७.१ ननु श्रुतेः किं मानम्  उच्यते  पङ्चमस्य श्रुत्युत्कर्षापकर्षाभ्यां मार्दवादायतत्वाद्वा V७.२ यदन्तरं (तु ? तत्) प्रमा (णां ?णम्) श्रु (ति?ते) रिति 

V८.१ इदानीं द्वाविंशतिप्रकारतया निदर्शनं यथा - द्वे वेणी तुल्यप्रमाणे तन्त्र्युपपादन दण्डमूर्छनासमे कृत्वा षड्जमाश्रिते कार्ये । 
V८.२ तयोरन्यतरस्यां मध्यम ग्रामिकी श्रुतिं कृत्वा पञ्चमस्यापकर्षात् तामेव श्रुतिं पञ्चमवशात् शड्जग्रामिकीं कुर्यात् । V८.३ एवं श्रुतपकृष्टा भवति, परं विशेषलाभो नास्ति, उच्चनीचमात्रप्रतीतेः । V८.४ पुनरपि 
तद्वदेवापकर्षयेत् । V८.५ यथा गान्धाṟअनिषादौ कर्तारौ पुनरन्यतरस्यां स्थि(त? र) वीणायां धैवतर्षभौ कर्मतामापन्नौ (प्र) वेक्ष्य (तद्विश्रुत्येद्भ्याः सिकलात् ?) पुनरपि तद्वदेवापकृष्टायां चलवीणायां धैवतर्षभौ इतरस्यां पञ्चमषड्जौ प्रवेक्ष्यतत् त्रिश्रुत्य(भि?भ्य) धिकत्वात् पुनरपु तद्वदेवापकृष्टायां पञ्चमध्यमशड्जा इति अस्यां मध्यमगान्धारनिषादा (न् ? ॒) प्रविशन्ति चतुःश्रुत्य (भि ? भ्य) धिकत्वात् । 

V९.१ एवमनेन निदर्शनेन द्वाविंशतिश्रुतयो भवन्ति । V९.२ एवं मध्यमग्रामे द्रष्टव्यम् । V९.३ प्रस्तारो यथा - 

च 	ध्रु 
ल    	व
वी    	वी 
णा	णा
-----------------------------------------------------------------------------------------------
।   ।   ।   । स।   ।   ।रि।    । ग। ग।    ।म।म।   ।प।    ।प।    ।ध।ध।   । नि  ।
-----------------------------------------------------------------------------------------------
।   ।   ।स।    ।   ।   ।रि।    । ग। ग।    ।म।म।   ।प।    ।प।ध।ध।      । नि ।   ।
-----------------------------------------------------------------------------------------------
।   ।स।   ।  ।   ।   ।रि।    । ग। ग।    ।म।म।   ।प।    ।प।   ।ध।ध।   । नि  ।
------------------------------------------------------------------------------------------------
।   ।   ।   । स।   ।   ।रि।    । ग। ग।    ।म।म।   ।प।    ।प।   ।ध।ध।   । नि  ।
-----------------------------------------------------------------------------------------------

V१०.१ चलवीणायाः प्रथमापकर्षे श्रुतिलाभो नास्ति । द्वितीये च 
(दण्डम ? तु) श्रुतिलाभः । V१०.२ (चतुर्थे द्वादशश्रुतिलाभः । 
एवं द्वाविंशतिभेदभिन्नाः श्रुतयस्त्रिषु स्थानेषु प्रत्येका वा 
द्वाविंशतिप्रकारतया श्रुतिलाभः । V१०.३ तृतिये षट्श्रुतिलाभः चतुर्थ्ĕ द्वादशश्रुतिलाभः ।
एवं द्वाविंशतिभेदभिन्नाः श्रुतयो दर्शिताः । 

V११.१ इदानीं षट्षष्टिभेदभिन्नाः श्रुतयः कथ्यन्ते । मन्द्रमध्यमतारेषु उरः कण्ठश्रस्सु त्रिषु स्थानेषु प्रत्ये (का ? कं) द्वाविंशतिप्रकारतया भिद्यमानेषु श्रुतयो हि षट्षष्टिभेदभिन्ना भवन्तीति केचिन्मन्यन्ते । V११.२ अधुना श्रुतीनामानन्त्यं दर्शयामः ।

२९कख आनन्त्यं तु श्रुतीनां तु दर्शयन्ति विपश्चितः
२९गघ यथा ध्वनिविशेषाणामानन्त्यं गगनोदरे 
३०कख उ (क्तारुग ? च्चण्ड) पवनोद्वेगजलराशिसमुद्भवाः
३०गघ (कि) यन्तः प्रतिपद्यन्ते न तरङ्गपरम्पराः
V११.३ इति श्रुतीनामानन्त्यं दर्शितम् । V११.४ इदानीं श्रुतीनां तादाद्म्यादिविकल्पः कथ्यते 

३१कख तादात्म्यं च विवर्तत्वं कार्यत्वं परिणामिता
३१गघ अभिव्यञ्जकता चापि  श्रुतीनां परिकथ्यते

V११.५ इदानीमेव विवृणोति -- 

३२कख विशेषस्पर्शशून्यत्वाच्च्रवणेन्द्रियग्राह्यता
३२गघ स्वरश्रुत्योस्तु तादात्म्यं जातिव्यक्त्योरिवानयोः
३३कख नराणाम् च मुखं यद्वद् दर्पणे तु विवर्तितम् 
३३गघ प्रतिभाति स्व(रन्त ? रस्त) द्द्वच्च्रुतिष्वेव विवर्तितः

३४कख श्रुतीनाम् श्रुतिकार्यत्वमिति केचिद् वदन्ति हि
३४गघ मृत्पिण्डदण्डकार्यत्वं घटस्येह यथा भवेत्
३५कख श्रुतयः स्वररूपेण परीणमति (?) न संशयः
३५गघ परिणमेत (?) यथा क्षीरं दधिरूपेण सर्वथा
३६कख षड्जादयः स्वराः सप्त व्यज्यन्ते श्रुतिभिः सदा
३६गघ अन्धकारस्थिता यद्वत् प्रदीपेन घटादयः
३७कख इति तावन्मया प्रोक्तं श्रुतीनां च विकल्पनम्
३७गघ इदानीं संप्रवक्ष्यामि विकल्पस्य च दूषणम्
३८कख भेदः स्वरलक्षणानां (?) सामान्येनानयवस्तुवत् सिद्धः
३८गघ तद्धि विशेषैः शून्यं भवति नभःपुष्पसङ्काशम् 
३९कख नानाबुद्धिप्रसाध्यत्वात् स्वरश्रुत्योस्तु भिन्नता
३९गघ आश्रयाश्रयिभेदाच्च तादात्म्यं नैव सिध्यति
४०कख यदभाणि विवर्तत्वं श्रुतीनां तदसङ्गतम्
४०गघ विवर्तत्वे स्वराणां हि भ्रान्तिज्ञानं प्रसज्यते
४१कख कार्यकारणभावस्तु स्वरश्रुत्योर्न सम्भवेत्
४१गघ श्रुतीनामिह सद्भावे प्रमाणं नैव विद्यते
४२कख अर्थापत्त्या(य ?) यदिवा व्याप्तिग्रहणपूर्वकप्रमाणबलात् (? )
४२गघ सिद्धस्वरजनकानां गगनगुणानां स्वरो भेदः

V११.६ सत्यम् ।

४३कख कार्यकारणभेदोऽस्ति यद्यपि स्फुटमेव हि 
४३गघ तथापि कारणत्वं च श्रुतीनां नैव सम्भवेत् 
४४कख कार्येषु विद्यमानेषु कारणस्योपलम्भनात् 
४४गघ घटदौ विद्यमाने (पु ? तु) मृत्पिण्डो नोपलभ्यते 
४५कख परिणामोऽभिव्यक्तिरस्त्य् (ना ? न्या) य्यः पक्षः सतां मतः ।
४५गघ इति तावन्मया प्रोक्तं तादात्म्यादिविकल्पनम् 

V१२.१ न (तु ? नु) श्रुतिनां द्वाविंशतिप्रकारता यत् त(दाप ? दप्य) सङ्गतं, श्रुतीनां 
श्रुत्यवयवानां चानुलम्भात् । V१२.२ तदुक्तं ---

४६कख कथं प्रतीतिश्च भवेद्मुष्या नादौ नभोद्याकुलितश्रुतित्वात्
४६गघ भवेदलक्ष्यावयवा श्रुतिस्तु +++नैवावयवी प्रतीता(?) 
४७कख तासां भवतीताः स्युः (क्य? क्रिय)त्यो मात्रकाः प्रती(?)
४७गघ यदि द्वाविंशतिस्तासां व्यापारः कः क्रमोत्क्रमात् 
४८कख श्रुतीनां यद्यनन्त्यं च + निवार्यं प्रसज्यते (?) 
४८गघ एकत्वं वा भवेत् तस्यां मात्रकाणामसंशयम्
४९कख मात्रका एव नौ सन्ति कथं तासां विकल्पनम्
४९गघ सति धर्मिणि धर्माणाम् (चाते ? सत्ते) त्याहुर्मनीषिणः 
५०कख +++++ धर्माणः सन्तोऽप्याहुर्मनीषिणः 
५०गघ सत्त्वासत्त्वे सदा गुणदोषाणां गुणौ तु यदा (?)
५१कख विनैव कारणं ता(ता? स्ताः) स्वराणां कारणं यदि
५१गघ भवेयुः श्रुतयस्तासामादिर्नेष्येत कारणम् 
५२कख किञ्च प्रमाणगम्यत्वे समेऽपि यदि मात्रकाः 
५२गघ निह्नोतव्या(त ? स्त) दा रक्षा श्रुतीनामपि दुर्ल(भाः ? भा)
अत्रोच्यते ----

५३कख अर्थापत्त्यानुमानेन प्रत्यक्षज्ञानतोऽपि वा 
५३गघ गृह्यन्ते श्रुतयस्तावत् स्वराभिव्यक्तिहेतवः 

V१३.१ एतदेव स्पष्टीकरणार्थं प्रस्तारेण दर्शयामि । तत्र
केचिद् दण्डप्रस्तारेण दर्शयन्ति द्Vअविंशतयः श्रुतयो रेखाणामिति । अन्ये तु वीणाप्रस्तार्यमाहुः । वयं पुर्नर्मण्डलप्रस्तारं ब्रूमः । तथाहि - तिर्यगूर्ध्वं च पञ्च षड् रेखा इत्येकादश । उभयतो द्वाविंशतिः । एवं ग्रामद्वयेऽप्युपयोगिन्यः श्रुतय इति दर्शिताः । तद्यथा 
त्रिश्रुतिरिति क्रम्यादौ(?) देयः षड्जश्चतुःश्रुतिः तदूर्ध्वं द्वे श्रु (तित्वा?ती त्यक्त्वा) तॄतीय ऋषभो मत(म्?ः) ततश्चैकां श्रुतिं त्यक्त्वा गान्धारो द्विश्रुतिः स्मृतः

५५गघ तदनु त्रिश्रुतीस्त्यक्त्वा कर्तव्यो मध्यमस्वरः 
५६कख तदूर्ध्वं पञ्चमः कार्यः परित्यज्य श्रुतित्रयम् 
५६गघ श्रुतिद्वयं परित्यज्य कर्तव्य्ŏ धैवतस्ततः
५७कख एकां श्रुतिं परित्यज्य निषादस्तदनन्तरम्
५७गघ षड्जग्रामसमुद्भूत उक्तोऽसौ श्रुतिमण्डलः 

तद्यथा षड्जग्रामे श्रुतिमण्डलम् -----

५८कख इदानीं सम्प्रवक्ष्यामि मध्यमश्रुतिमण्डलम्
५८गघ (क्रे ? ज्ञे)यस्तिस्रो ह्यतिक्रम्य मध्य(मा?मो)ऽयं चतुःश्रुतिः 
५९कख श्रुतिद्वयमतिक्रम्य तृतीयः पञ्चमो भवेत्
५९गघ ततस्तिस्रो ह्यतिक्रम्य चतुर्थो धैवतो भवेत्
६०कख ज्ञेय(ःस्व ? स्त्वे) कामतिक्रम्य निषादस्तु द्वितीयकः
६०गघ श्रुतित्रयमतिक्रम्य ततः षड्जश्चतुर्थकः 
६१कख ऋषभस्तु द्वयं त्यक्त्वा तृतीयः परतो भवेत् 
६१गघ श्रुतिमेकामतिक्रम्य गान्धारः स्याद् द्वीतीयकः 

मध्यमग्रामे श्रुतिमण्डलम्

V१४.१ भरतस्तु पुनरृषभादिश्रुतिमण्डलं दर्शयति । किमत्र कारणम् । उच्यते ।
ग्रामद्वयेऽप्यन्तर्मूर्छनाप्रतिपादनार्थम् । यद्वा ग्रामद्वयेऽपि षड्जमध्यपरौ ग्रामण्यौ भवतः । अन्यस्वरा (स्ते ? स्त) दग्रेसरा इति । इति तावन्मया प्रोक्ताः श्रुतयो ग्रामसंश्रिताः । इति श्रुतिप्रकरणम् ।

६२कख इदानीं सम्प्रवक्ष्यामि स्वराणां च विनिश्चयम् 
६२गघ तत्रादौ स्वरशब्दस्य व्युत्पत्तिरिह कथ्यते 
६३कख राजृ दीप्ताविति धातोः स्वशब्दपूर्वकस्य च 
६३गघ स्वयं यो राजते यस्मात् तस्मादेष स्वरः स्मृतः

V१५.१ (तद ? न) नु स्वर इति किम् । उच्यते । रागजन (रो ? को) ध्वनिः स्वर इति । तथाचाह कोहलः 
Q८.१कख "आत्मेच्चया महितलाद् वायुरुद्यन्निधार्यते 
Q८.१गघ नादीभितौ तथाकाशे ध्वनिरक्तः स्वरः स्मृतः "

V१६.१ ननु स्वर एव स्या(न्ने? दे ) कोऽनेको वा व्यापकोऽव्यापको वा नित्योऽनित्यो वा (स्यात् ?)
अत्रोच्यते --  एकोऽनेको व्यापको नित्यश्चेति । तत्र निष्कलरूपेणैकः स्वरः षड्जादिरूपेणानेकः स्वरः 
। तथाचाह कोहलः ॒ - 

Q९.१कख "जातिभाषादिसंयोगादनन्तः कीर्तितः स्वरः ।
Q९.१गघ नदैर्युक्तस्तालमिति (क्र ? कृ) तौ योज्यो रसेष्वपि ॥

इति । नित्योऽविनाशी । व्यापकः सर्वगतः । तथाचाह कोहलः ॒- 

Q१०.१कख "ऊर्ध्वनाडीप्रयत्नेन सर्वभित्तिनिघट्टनात् ।
Q१०.१गघ मूर्चितो ध्वनिरामूर्ध्नः स्वरोऽसौ व्यापकः परः"

V१७.१ ननु षड्जादीनां कथं स्वरत्वं व्यञ्जनत्वात् । यदि व्यञ्जनानां स्वरत्वमभिधीयते , तदानीं कादीनामेवास्तु स्वरत्वम् । अत्रोच्यते । असाधारणत्वात् षड्जादीनामेव स्वरत्वं न कादीनामिति ।
ननु षद्जादीनामसाधारणत्वं कथम् । आप्तोपदेशात् षड्जादीनामसाधारणत्वम् । तथाचाह कोहलः,
महेश्वरः ॒ - 

Q११.१कख "षड्जं *वदति मयूर ऋषभं चातको वदेत् 
Q११.१गघ अजा वदन्ति गान्धारं क्रौञ्चो वदति मध्यमम् 
Q११.२कख पुष्पसाधारणे काले कोकिलः पञ्चमं वदेत् 
Q११.२गघ प्रावृट्काले तु सम्प्राप्ते धैवतं दुर्दुरो वदेत्
Q११.३कख सर्व(ता ? दा) च तथा देवि! निषादं वदते गजः"

यद्वा (दू ? ऊ) र्ध्वध्वनिगामित्वेन षड्जादीनामेव साधारणत्वम् इति अथवा षद्जादयः स्वरा न भवन्ति, आकारादय एव स्वराः । षड्जादयस्तु तेषामाकारादीनामुच्चारणार्थम् 
इति । 

V१८.१ ननु चतुर्दशानां स्वराणां मध्ये आकारादीनां कथं ग्रहणम् ।
सत्यमुक्तम् । एतेषामसाधारणत्वेन ग्रहणं कृतम् । असाधारणत्वं 
चैतेषामूर्ध्वध्वनिगामित्वेन । यद्वा षड्जादीनां व्यञ्जनानां स्वरत्वमुक्तम् ।
न (नु ? तु ) सङ्केतमात्रमेतदुक्तं भवति । आचार्याणां परिभाषेत्यर्थः ।

V१९.१ इदानीमवसरप्राप्तं चा (युनु?) तुर्विध्यं स्वराणां दर्शयामि ।
तद्यथा - वदनात् वादी  स्वामिवत् । संवादनात् संवादी अमात्यवत् । अनुवादनादनुवादी पर्जनवत् । विवदनाद् विवादी शतृवत् । 

V२०.१ ननु वदनादिकं प्रणिधर्मः कथमचेतनानां स्वराणां सम्भवति । सत्यमुक्तम् । वदनं हि नामात्र प्रतिपादिकत्वं विवक्षितं , न वचनमिति । किं तत् प्रतिपादयति । रागस्य रागत्वं जनयति । त्रि (ते ? के) च वादिनः स्वराः सप्तैव । स च वाद्यंशवत् (दा ? दश) विधो बोद्धवयः ।
वादिमण्दलं यथा - सरिगमपधनी । 

V२१.१ संवादिनस्तु पुनः समश्रुतिकत्वे सति त्रयोदश नवान्तरत्वेनावबोद्धव्याः । किं तत् संवादि(नी?) त्वं नाम । यद् वादिस्वरेण रागस्य रागत्वं जनितं तन्निर्वाहकत्वं नाम संवादित्वम् । संवादिभण्डलं (मण्डलं?) यथा - 

V२२.१ इति संवादिमण्डलम् । संवादिप्रयोगे यथा - यस्मिन् गीते योऽम्शत्वेन परिकल्पितः षड्जस्तस्य स्थाने मध्यमः क्रियमाणे रागहा न भवेत् । यस्मिन् स्थाने मूर्छनावशान्मध्यमः प्रयुक्तः अस्मिन् स्थाने क्रियमाणः षड्जो जातिरागहा न भवेत् । षड्जपञ्चमयोः स्थाने पञ्चमषड्जौ प्रयुज्यमानौ जातिरागहानिकरौ न भवतः । एवम् ऋषभधैवतयोः स्थाने धैवतर्षभौ प्रयुज्यमानौ  जातिरागविनाशकरौ न भवतः । एवं गान्धारनिषादयोः स्थाने निषादगान्धारौ ।
(ककु? ऋष) भस्य धैवतांशत्वेन (रेवगुप्त ? धैवत) स्य ऋषभाम्षत्वेन तदुभ्यरागजनन्याश्चर्षभजातेरृषभांशपरिग्रहात् परस्परसम्बद्धौ च 
प्रयुज्यमानौ जातिरागविनाशकरौ न भवतः । 

V२३.१ अनुवादित्वं च पुनरेकश्रुत्यन्तरहीनत्वेन स्यात् । ननु कि(न्त्वन ? न्तद) नुवादित्वम् । यत् संवादिना रागस्य रागत्वं संपादितं तत्प्रतिपा(दि ? दकं) नामानुवादित्वम् । यथा ---

V२४.१ अनुवादिप्रयोगो यथा -- षड्जस्थाने ऋषभः ऋषभस्थाने षड्जः प्रयुज्यमानः
स्वरूपं भजन् जातिरागहा न भवति । पञ्चमस्थाने ऋषभः प्रयुज्यमानः ऋषभस्थाने पञ्चमः प्रयुज्यमानो जातिरागहा न भवेत् । 

V२५.१ इदानीं गान्धारनिषादयोरेकश्रुत्यन्तरहीनत्वानुवादित्वे प्राप्ते द्व्यन्तरत्वाद् विवादित्वमुक्तम् । किं तद् विवादित्वं नाम । वाद्यादिभिः स्वरैर्यद् रागस्य वादित्वं संवादित्वमनुवादित्वं प्राप्तं, तद्विनाशकत्वं नाम विवादित्वम् । विवादिमण्डलम् यथा ---

V२६.१ विवादिप्रयोगे यथा - ऋषभस्थाने गान्धारः प्रयुज्यमानो गान्धारस्थाने पञ्चम ऋषभः प्रयुज्यमानो जातिरागहानिकरो भवेत् । धैवतस्थाने निषादः प्रयुज्यमानो (जा) तिरागहानिकरो भवेत् । इति षड्जग्रामे ।

V२७.१ इदानीं मध्यमग्रामे वादित्वं संवादित्वमनुवादित्वं च प्रदर्श्यते । तत्र वादिनो मध्यमादिस्वराः । सप्तनवकत्रयोदशान्ताः संवादिनः । एकश्रुत्यन्तरहीनादनुवादिनः ।
द्व्यन्तरौ तु स्वरौ विवादिनौ  । मध्यमग्रामे वादिमण्डलं  - म प ध नि स रि ग । संवादिमण्डलं यथा ---

मध्यमग्रामे अनुवादिमण्डलं यथा ---

मध्यमग्रामे विवादिमण्डलम् यथा ---

V२८.१ इदानीं सप्तविधस्वरयोगस्य नामानि कथ्यन्ते । आर्चिकं, गाडिकं,
सामिकं, स्वरान्तरम्, औडवं, षाडवं, सम्पूर्णं चेति । तथाचाह नारदः ॒ --

Q१२.१ अब्॒ "आर्चिको गडिकश्चैव सामिकश्च स्वरान्तरः ।
Q१२.१ च्द्॒ औडवं षादवश्चैव सम्पूर्णश्चेति सप्तमः ॥
Q१२.२ अब्॒ एकस्वरप्रयोगे  (भि ? हि) आर्चिकः सोऽभिधीयते ।
Q१२.२ च्द्॒ गाडिको द्विस्वरो ज्ञेयस्त्रिस्वरश्चैव सामिकः ॥
Q१२.३ अब्॒ चतुःस्वरप्रयोगे हि कथितस्तु स्वरान्तरः ॥"
Q१२.४गघ औडवः *पञ्चमेन धृतो यस्मात् तेनासौ धैवतौ मतः । 

ललाटे धैवत इत्यर्थः (?) ।

६४गघ निषीदन्ति स्वराः सर्वे निषादस्तेन कथ्यते
६५कख चतुःश्रुतिस्वरा विप्रास्त्रिश्रुती क्षत्रियो मतौ 
६५गघ वैश्यो द्विश्रुतिकौ ज्ञेयौ शूद्रौ चान्तरकौ स्वरौ
६६कख वर्गाष्टकम् तु सम्प्राप्य अकारादियशान्तकम्
६६गघ वर्णमात्रसमायुक्तमुद्धरेत् स्वरसप्तकम् 
६७कख अष्टमस्य तृतीयं तु हरिबीजसमन्वितम् 
६७गघ आद्यं स्वरं स्वरज्ञस्तु उद्धरेत् तु प्रयत्नः 
६८कख सप्तमस्य द्वितीयं तु कामबीजसमन्वितम् 
६८गघ द्विईतीयं तु स्वरम् विद्धि ब्रह्मस्थानसमुद्भवम्
६९कख द्वीतीयस्यापि वर्गस्य तृतीयं विष्णुसंयुतम्
६९गघ उद्धरेच्च स्वरं नित्यं स्वरभेदमनोहरम्
७०कख षष्ठस्यापि हि वर्गस्य अन्ति(मश्चा? मं चा)दिसंयुतम्
७०गघ अविनष्टं विजानीयान्मधयमं स्वरस(प्त ? त्त)मम्
७१कख तथादिप्रथमोपेतं स्व(र ? रं) संविद्धि शोभनम्
७१गघ व्योमसङ्ख्यासमायुक्तमोष्ठस्थानसमुद्भवम्
७२कख पञ्चमस्यापि वर्गस्य चतुर्थं चा (ति ? दि) संयुतम्
७२गघ कोदण्डद्वयसम्भूतमुद्धरेत् स्वरमुत्तमम्
७३कख आकारान्तातसम्भिन्नं पञ्चमान्तं समुद्धरेत्
७३गघ ब्रह्मस्थानसमुद्भूतं सुतारध्वनिसंयुतम्
७४कख आगमस्थं स्वरोद्धारमि(?)ति तावत् प्रदर्शितम्
७४गघ अधुना सम्प्रवक्ष्यामि कुलवर्णादिनिर्णयम्
७५कख देवकुलसमुत्पन्नाः षड्जगान्धारमध्यमाः
७५गघ पितृवंशसमुत्पन्नौ स्वरा(दि ? वृ) षभधैवतौ
७६कख असुराणां कुले जातो नि(षसा ? षा)दः स(नि)संज्ञितः
७६गघ शूद्रजातिसमुत्पन्नौ तत् काकलस्यन्तरौ स्वरौ (?)
७७कख पद्मपत्रपभः षड्ज ऋषभः शुकवर्णकः
७७गघ कनकाभास्तु गान्धारो मध्यमः कुन्दसन्निभः
७८कख पञ्चमस्तु भवेत् कृष्णः पीत्वर्णस्तु धैवतः
७८गघ निषादः सर्ववर्णोऽयं विज्ञेयः स्वरवर्णकः
७९कख षड्जस्य धैवतं ब्रह्मा ऋषभो वह्निदैवतः
७९गघ गान्धारो भारतीदेवो मध्यमो (भि?हर)दैवतः
८०कख पञ्चमः शतयज्ञस्तु धैवतो गणनायकः
८०गघ निषादो भानुदेवस्तु इत्येते स्वरदेवताः
८१कख अग्निगीतः स्वरः षड्ज ऋषभो ब्रह्मणोदितः
८१गघ सोमेन गीतो गान्धारो विष्णुना मध्यमः स्वरः
८२कख पञ्चमस्तु स्वरो गीतो नारदेन महात्मना
८२गघ धैवतश्च निषादश्च गीतौ तुम्बुरुणा स्वरौ 
८३कख हास्यश्रिन्गारयोः का(र्ये ? र्यौ) स्वरौ मध्यमपञ्चमौ
८४कखषड्जर्षभौ तथा ज्ञेयौ वीररौद्राद्भुतेषु च
८४गघ गान्धारस्च निषादस्च कर्तव्यौ करुणे रसे
८५कख धैवतस्चापि कर्त्वयो बीभत्से सभनायके
८५गघ कण्ठादुत्तिष्ठते गान्धार उरसो मध्यमः स्वरः
८६कख नासायश्चैव गान्धार उरसो मध्यमः स्वरः
८६गघ उरसः शिरसः कण्ठादुत्थितः पञ्चमः स्वरः
८७कख तालुदेशात् समुत्पन्नो धैवतस्तु यशस्विनि!
८७गघ निषादस्तु समुत्पन्नो विज्ञेयः सर्वसन्धितः
८८कख एवं स्वरान् विजानीयादुत्पन्नान् गीतसागरे
८८गघ महादेवमुखोद्भूतन् देशीमार्गे च संस्थितान् 

V३०.१ अथ किमुच्यते ग्रमशब्देन । ननु कति ग्रामा भवन्ति । कस्माद्त्पद्यते ग्रामः किं वा तस्य प्रयोजनम् अत्रोच्यते

८९गघ समूहवाचिनौ ग्रामौ स्वरश्रुतियादिसंयुतौ
९०कख यथा कुटुम्बिनः सर्व ĕकिभूत्वा वसन्ति हि
९०गघ सर्वलोकेषु स ग्रामो यत्र नित्यं व्यवस्थितः
९१कख षड्जमध्यमसंज्ञौ तु द्वौ ग्रामौ विश्रुतौ किल
९१गघ गान्धारं नारदो ब्रूते स तु मत्र्यैर्न गीयते
९२कख सामवेदात् स्वरा जाताः स्वरेभ्यो ग्रामसम्भवः
९२गघ द्वावेतौ च इमौ ज्ञेयौ षड्जमध्यमलक्षितौ 

V३१.१ प्रयोजनं च यथा - स्वरश्रुतिमूर्छनातानजातिरागाणां व्यवस्थापनत्वं
नाम प्रयोजनम् । 

V३२.१ ननु कथं षड्जमध्यमस्वराभ्यां ग्रामव्यपदेशः
उच्यते । असाधारणत्वेन ताभ्यां ग्रामव्यपदेशः । असाधारणत्वं च 
देवकुलसमुत्पन्नत्वेन । तथाचाह नारदः --

Q१३.१कख"देवकुलसमुत्पन्नाः षड्जगान्धारमध्यमाः
Q१३.१गघ एतेषां देवता ज्ञेया ब्रह्मविष्णुमहेश्वराः 
Q१३.२कख उभयोर्ग्रामयोर्मध्ये मुख्यत्वं कस्य गम्यते
Q१३.२गघ षड्जवाहि च मुख्यत्वं गम्यते वचनान्मुनेः"

एतदुक्तं भवति --
९३कख द्वौ ग्रामौ विश्रुतौ लोके षड्जमध्यमसंज्ञितौ 

V३३.१ ननु कथम् द्वावेव ग्रामौ । उच्यते । इह हि द्विस्वरप्रयोगमूलप्रयोगवशाद्
द्वौ ग्रमवुपन्यस्तौ । 
९३गघ जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः 

V३४.१ तत्र जातिभिः सुद्धाभिः श्रुतिभिश्चैव नातिकाभिः(?) । तस्मात् सुद्धासु जातिषु विकृतासु
च ये स्वराः सन्ति तेषां स्वराणां श्रुतिवैकल्यात् किं स्यादुत्कर्षाभ्यां संकीर्णत्वेन च स्वरा ग्रामत्वमागताः । तत्र शुद्धाभिः षड्जो विकृताभिर्मध्यम इति द्वाभ्यां च संकीर्णा जाताः । ताभ्यो तागसंभवेति (?) ग्रामन्यत्वाज्जातिरागान्यत्वम् ।

V३५.१ इदनीमिव स्वराः प्राप्ता*(?) मूर्छनाः कथ्यन्ते । ननु मूर्छनाशब्दस्य व्युत्पत्ति कीदृशी । लक्षणम् च कीदृशं तस्य । उच्यते । मूर्छना -- (ना ?) व्युत्पत्तिः - ऽमूर्चा मोहसमुच्चाययोःऽ,

९४कख मूर्छते (?) येन रागो हि मूर्छनेत्यभिसंज्ञिता 
९४गघ आरोहणावरोहणक्रमेण स्वरसप्तकम् 
९५कख मूर्छनाशब्दवाच्यं हि विज्ञेयं तद्विचक्षणैः 

V३६.१ सा च मूर्छना द्विविधा सप्तस्वरमूर्छना द्वादशस्वरमूर्छना चेति ।
तत्र सप्तस्वरमूर्छना चतुर्विधा , पूर्णा षाडबा औडुबिता साधारणा चेति 
षड्भिः स्वरैर्या गीत्यते सा षाडबा । पञ्चभिः स्वरैर्या गीयते सा औडुबिता ।
काकल्यैरन्तरस्वरैर्या गीयते सा साधारणा ।

V३७.१ इदानीं मूर्छनामण्दलमुच्यते । तत्र परिपाट्याहितत्वेन प्रवृ(त्तास्ता? त्तत्वा)त्
सप्तस्वराणां मूर्छनानां प्रतिग्राममेकोनपञ्चशत् स्वराः कोष्टाश्च भवन्ति । तदथा ---

९५गघेकोना खण्डु(?) पञ्चाशत् कर्तव्याः स्वरसंयुताः 
९६कख तिर्यगूर्ध्वं च रेखाभिरष्टभिश्चैव कोष्टकाः

V३८.१ तत्र स नि ध प म ग रीत्याद्याः सप्त षड्जग्रामे । मगरिसनिधपाद्याः
सप्त मध्यमग्रामे । (ति?) तिर्यगूर्ध्वगा अपि स्वरास्तिर्यक् कार्याः । तद्यथा निधपमगरिसा इति षड्ज ग्रामे । गरिसनिधपमा ऊर्ध्वा मध्यमग्रामे । एवं तावदुभयग्रामिक्यश्वतुर्दश मूर्छनाः सम्पूर्णाः - सरिगमपधनि । 
निसरिगमपध । धनिसरिगमप । पधनिसरिगम । मपधनिसरिग ।
गमपधनिसारि । रिगमपधनिस इति षड्जग्रामे । मपधनिसरिग । गमपधनिसरि ।
रिगमपधनिस । सरिगमपधनि । निसरिगमपध । धनिसरिगमप ।
पधनिसरिगम । इति मध्यमग्रामे । मूर्छनामण्डलम् --

--------------------------------------------------------------
नि    ध प   म  ग  रि     स
--------------------------------------------------------------
ध प   म  ग   रि    स    नि
--------------------------------------------------------------
प   म  ग   रि     स  नि     ध
--------------------------------------------------------------
म  ग   रि    स    नि   ध   प
--------------------------------------------------------------
ग   रि     स   नि   ध  प    म
--------------------------------------------------------------
रि     स   नि    ध प   म    ग
--------------------------------------------------------------
स   नि    ध  प  म  ग     रि
--------------------------------------------------------------

इति षाद्जग्रामे मूर्छनामण्डलम् ।

--------------------------------------------------------------
ग   रि     स   नि   ध  प    म
--------------------------------------------------------------
रि     स   नि    ध प   म    ग
--------------------------------------------------------------
स   नि    ध  प  म  ग     रि
--------------------------------------------------------------
नि    ध प   म  ग   रि       स
--------------------------------------------------------------
ध प   म  ग   रि    स      नि
--------------------------------------------------------------
प   म  ग   रि     स  नि     ध
--------------------------------------------------------------
म  ग   रि    स    नि   ध   प
--------------------------------------------------------------

इति मध्यमग्रामे मूर्छनामण्डलम् 

V३९.१ एवं तावदुभयग्रामिक्यश्चतुर्दशमूर्छनाः सम्पूर्णाः कथिताः । इदानीं तासां नामानि कथ्यन्ते ---

९६गघ षड्जे चोत्तरमदा स्यन्निषादे रजनी स्मृता 
९७कख धैवते चोत्तरा ज्ञेया शुद्धषड्जा च पञ्चमे
९७गघ मध्यमे मत्सरी ज्ञेया गान्धारे चाश्वक्रान्तिका
९८कख ऋषभेण च विज्ञेयाः सप्तमी च भिरुद्गता च (?)
९८गघ षड्जग्रामाश्रिता तोयं (?) विज्ञेयाः सप्त मूर्छनाः 
९९कख अतः परं प्रवक्ष्यामि मध्यमग्राममूर्छनाः 
९९गघ मध्यमेन च सौवीरि गान्धारे हरिणाह्वया
१००कख मूर्छना शुद्धमध्य*(?)षड्जे स्यान्निषादे चैव मार्जिका 
१००गघ पौरवी धैव(तो?ते) ज्ञे(यो?या) हृष्यका पञ्चमे तथा
१०१कख इति तावन्मया प्रोक्ता मध्यमग्राममूर्छनाः 
१०१गघ स्यात् कलोपनता चैव ऋषभेणैव +++
१०२कख षट्स्वरैः षाडवा ज्ञेया औडुवा पञ्चभिः स्वरैः
१०२गघ षाडवौष्ठी च ता (नां ? सां) च (?) व्युत्पत्तिश्च निगद्यते

V४०.१ षट्स्वरा अवन्ति रक्षन्ति ये ते (?) । 
१०३कख इदानीं सम्प्रवक्ष्यामि षाडवौडवमूर्छनाः ।

V४१.१ उडवो नक्षत्राणि गच्चन्ति यस्मिन्नाकाशे तदाकाशमौडवम् ।
तेन पञ्चसंख्या लक्ष्यते । 
१०३गघ पञ्चमं हि महाभूतं तत्स्था संख्या च विद्यते 

यस्य तदौडुवितं षाडवस्वराः तेषां प्रयोगः षादवः ।
तारकादिच् प्रत्ययः ।

१०४कख षाडवं षट्स्वरं ज्ञेयं लक्षणं सप्तधा मतम् ।
१०४गघ (इत्ये?ए) कोनपञ्चशत्सं(ख्या?ख्यं) तज्ञेयं गीतवेदिभिः 

१०५कख पञ्चमस्वरमौडुवितं पञ्चधा लक्षणम् स्मृतम्
१०५गघ पञ्चत्रिंशच्च संख्यं हि आचार्यैर्यदुदाहृतम् 

V४२.१ षड्जऋषभौ मध्यमग्रामे षाडवाः 

V४३.१ संवादिलोपादौडुवितत्वमिऽति वचनात् संवादिस्वराभ्यामौडुवित्वं प्राप्तमिति प्रायिकं । 
कदाचिदनुवादिस्वराभ्यामौडुवित्वं प्राप्तमिति प्रायिकं । (कदाचिदनुवादिस्वराभ्यामौडुवित्वं प्राप्तमिति प्रायिकं?) कदाचिदनुवादिस्वराभ्यामौडुवित्वं भवत्येव । यथा पञ्चऋषभयोः षडजग्रामे मध्यमग्रामे धैवतृशभयोरिति पञ्चमषड्जविहीनो द्विश्रुतिकाभ्यां तथा विहीनाश्च 
पञ्चमऋषभविहीनं चौडुवितौ भवति । षड्जग्रामे धैवत
ऋषभविहीनो द्विश्रुतिकाभ्यां विहीने ता ज्ञेया पञ्चमस्वरकर्ता स्थाना (?) भवन्ति खलु मध्यमग्रामे । 

V४४.१ इदानीमे(व ? त) देव प्रस्तारेण दर्शयति । तद्यथा - षड्जहीनाः षाडवाः 

निधपमगरि । 
धपमगरिनि ।
पमगरिनिध । 
मगरिनिधप ।
गरिनिधपम ।
रिनिधपमग । 
निधपमगरि । 

ऋषभहीनाः ॒ ---
निधपमगस । 
धपमगसनि । 
पमगसनिध । 
मगसनिधप । 
गसनिधपम ।
सनिधपमग । 
निधपमगस । 
सगमपधनि ।

निरिगमध । 
धनिरिगम । 
मधनिरिग । 
गमधनिरि । 
रिगमधनि । (स्वर ? सप)-हीनाः ।

सरिमपध । 
धसरिमप । 
पधसरिम । 
मपधसरि । 
रिमपधस । निगहीना । 

सगमधनि । निसगमध । धनिसगम । मधनिसग । गमधनिस । परिहीना योगाः ।
मध्यमग्रामेवत्वात् (?) । मपधनिरिग । गमपधनिरि । रिगमपधनि । निरिगम्पध 
। धनिरिमप । (पधनिरिगम) षड्जहीनाः । मपधनिसग । गमपधनिस । सगमपधनि । निसगमपध । धनिसगमप । पधनिसगम । रिहीनाः । मपधनिसरि । रिमपधनिस । सरिमपधनि । निसरिमपध । धनिसरिमप । पधनिसरिम । गहीनाः । मपनि(ध?स) ग । गमपनिस । सगमपनि । निसगमप । पनिसगम । धरिहीनाः । मपधसरि । रिमपधस । सरिमपध । सरिमपध । धसरिमप । पधसरिम । निगहीनाः । इत्यौडुविताः ।

V४५.१ ननु मूर्छनातानयोः को भेदः ? उच्यते । मूर्छनातानयोनुनत्वान्तरत्वमिति 
विशाङ्खिल (?) एतच्चासङ्गतम् । संग्रहश्लोके तु मूर्छनात् (आन) योर्भेद(स्य)
प्रतिपादितत्वात् । तत् कथम् । मूर्छनारोहक्रमेण तानोऽवरोहक्रमेण भवतीति भेदः ।
अधुना तनानां यज्ञनामानि कथ्यन्ते - 

१०६कख अग्निष्टोमोऽत्यग्निष्टोमो वाजपेयोऽथ षोडशी 
१०६गघ पुण्डरीकोऽश्वमेधश्च राजसूयश्च सप्तमः
इति षड्जहीनषाडवताननामानि स्वरसृष्टिः (?) ।

१०७कख तृड्बहुः +सुवर्णश्च गोसवश्च महाव्रतः
१०७गघ विश्वजिद् बहुयज्ञश्च प्राजापत्यस्तथैव च 
१०८कख अश्वक्रान्तो रथाक्रान्तो विष्णुक्रान्तस्तथैव च 
१०८गघ सूर्यक्रान्तो गजक्रान्तो वलतीनामवज्रकौ

इति पञ्चमहीनषाडवता(न)नामानि ।


१०९कख चातुर्मासिकसंज्ञश्च शास्त्रश्चैकोत्थकस्तथा 
१०९गघ सौत्रामणिश्च पित्रा च उद्भिद्यागश्च सप्तमः

इति निषादहीनषाडवताननामानि । इति षड्जग्रामे षाडवताननमानि अष्टाविंशतिः


११०कख सावित्री चाद्यसावित्री सर्वतोभद्र एव च ।
११०गघ सर्पो यजनसंज्ञस्च तथा वैकुण्थवायनः

इति मध्यमग्रामे षड्जहीनताननामानि ।

१११कख अग्निचिद् द्वादशाहश्च उपांशुः सोम एव च ।
१११गघ अश्वप्रतिग्राहोद्वहीस्थाभ्युदय इत्यपि (?) 

इति ऋषभहीन(तान) नामानि ।

११२कख सर्वस्वदक्षिणो दीक्षा सोमः समिधषंज्ञकः 
११२गघ स्वाहाकारश्च नूनश्च तथा गोदोहनस्तथा 


इति गन्धारहीनताननामानि । इति मध्यमग्रामे एकविंशतिः षाडव(तान)नामानि । इत्येवमुभयग्रामाश्रिता(ह्ये न्ये)कोनपञ्चशत्ताननामानि ।

११३कख इडख्यः पुरुषमेधश्च श्येनो यज्ञ इषुस्तथा ।
११३गघ अङ्गिराः कंससंज्ञश्च षड्जग्रामेऽपि चौडवाः ॥ 

(इति) षड्जपञ्चमहीनताननामानि ।

११४कख अग्निष्टोमोऽथ दर्शश्च नादी वै पूर्णमासिकः
११४गघ अश्वप्रतिग्रहो रात्रिस्तथा कौभरतो मतः 

इति गान्धारनिषादहीनताननामानि

११५कख सौभागय्स्च शरीरी शारिकृ पुष्टिकृत् तथा ।
११५गघ वैनतेयो भवेदेव उच्चाटनवशीकृतौ 

इति पञ्च(म) ऋषभहीनताननामानि । इति षड्जग्रामे औडुवितताननामानि एकविंशतिः ।

११६कख त्रैलोक्यमोहनो धीरः कन्दर्पबलशासनः 
११६गघ शङ्खपूगो गजच्चायो रौद्रोऽसौ विष्णुविक्रमः

(इति) मध्यमग्रामे धैवतऋषभहीनौडुवितताननामानि ।

११७कख भैरवः कामदश्चैव आकुष्टोऽब्जश्च पालकः 
११७गघ सृष्टिकृद् वर्षकान्तारः सप्तमो रक्षितः स्मृतः 

इति मध्यमग्रामे औडुवितताननामानि चतुर्दश । 

V४६.१ उभयग्रामिक्यौडिविताः पञ्चत्रिंशद् भवन्ति । षाडवा औडुविताश्च मिलित्वा चोभयग्रामिकास्तानचतुरशीतिर्भवन्ति ।

V४७.१ इदानीं साधारणकृता मूर्छनास्तु ख्यातुमाह  - साधारणस्वरौ निषादगान्धारवन्तौ । 
तदादिकृता तत्रिवान्तर्भूता साधारणमूर्छना भवति । कुतः । स्वरात्मकत्वान्मूर्छनानां तानसाधारणतापि साधारणेनैव गतार्था ।

इत्येवं च मया प्रोक्ता मूर्छनास्तु चतुर्विधाः ।

V४८.१ कथमेषां तानानां प्रयोगः कार्य इति । उच्यते 
द्विविधस्तानप्रयोगः प्रवेशेन निग्रहेण च । प्रवेशो ऋषभाप्रेक्षया षड्जस्याधरीभूतस्य लोपनीयस्य विप्रकर्षपीडनम् । ऋषभापावदानम् इति यावत् ।
इति विप्रकर्षेण प्रवेशेन । मार्दवेन यथा - तस्यैव षड्जस्य निषादापेक्षया उत्तरीभूतस्य मार्दवं शिथिलीकरणम् निषादपादानं (?) प्रवेश इति द्विविधं प्रवेशनम् । 

V४९.१ निग्रहस्व्त्वनन्तरः स्वपरित्यागास्पदं दर्शनम् । प्रयोगस्तु यथा - सासागरिपापापामारि । तथाचाह भरतः ॒ ---
Q१४.१कख "द्विविधा तानक्रिया तन्त्र्याः प्रवेशनं निग्रहस्तथा

तत्र प्रवेशनम् अधरस्वरप्रकर्षादुत्तरस्वरमार्दवाद्वा । निग्रहश्चाह संस्पर्शः "

कुतः मध्यमसप्तकस्याविनाशित्वादित्यर्थः । ननु त्रिषु स्थानेषु स्वरप्रयोग इत्युक्तम् । कारिपिधाने तत्र कतमं  स्वरसप्तकमवलम्ब्य मूर्छना कार्येति ये संशेरते तान् प्रत्याह 
-- मध्यमसप्तकेन मूर्छनानिर्देशो ताव (?) मन्द्रतारसंसिद्ध्यर्थम् ।
दत्तिलेनाप्युक्तं --- 

Q१५.१कख "तानक्रिया द्विधा तन्त्र्यां प्रवेशान्निग्रहात् तथा ।
Q१५.१गघप्रवेशो ध्वनिसादृश्यसंस्पर्शस्तु निग्रहः ॥"

भरतेनाप्युक्तम् -- 
Q१६.१॒ मध्यमस्वरेण मूर्छनानिर्देशे भवत्यविनाशित्वान्मध्यमस्य
निग्रहे परिग्रहे वा । 

V५२.१ ननु षाडवौडुविते क्रियमाणे मूर्छनाप्रत्यभिज्ञानमस्ति वा नवा ।
अस्त्येव मूर्छना-प्रत्यभिज्ञामिति । तथाचाह दत्तिलः --

Q१७.१कख "एवं कृतेऽपि तानत्वे गणयित्वा विनाशनम् ।
Q१७.१गघ विद्यते तावतिथ्येषा मूर्छनेत्यवधारयेत् ॥"

V५४.१
इदं तु प्रयोक्तृसुखार्थमेव मूर्छनातानान्यत्वस्मुक्तम् । 
मानाप्रयोज्यनमपि त्रिस्थानप्राप्त्यर्थमित्युक्तम् । 

V५१.१
ननु मध्यमसप्तकेन मूर्छनानिर्देशः क्रियते यदि तदा किमुक्तं मध्यमेन स्वरेणेति । सत्यमुक्तम् । स्वरजात्यपेक्षया एकवचनम् । कर्ण्ये स्वरे मूर्छना कार्येपि भावः ।
वैणग्रहणं च शरीरे अप्रकीर्तितः तस्यापि स्थानस्य लाभार्थम् । 

V५३.१ ननु प्रथमायां सप्तम्यां च मूर्छनायां षड्जलुप्ते रिगमपधनीति एकमेव रूपं भवति । तत्र न ज्ञायते विशेषः । सत्यं , भेदो नास्ति वस्तुगणने पुनरस्त्येव भेदः ।
मन्द्रतारकृतो भेदः । 

V५५.१ ननु मूर्छनास्तावत् जातिरागेषूपयोगिन्य इति युक्तं तासां कथनम् । तानास्तु कुत्रोपयुज्यन्ते  । उच्यते । द्वयोर्ग्रामयोर्जातिरागान्यत्वप्रतिपादनार्थं प्रयोगस्तानानाम् । यद्वा नष्टोत्रन्द्रष्टसंख्यासिद्ध्यर्थं (?) प्रयोगस्तानानाम् । 

V५६.१ कूटतानानां सहस्राणि पञ्चमस्त्रिंशदधिकानि (?) निष्प्रद्यन्ते । दत्तिलेनाप्युक्तं ---
Q१८.१कख पूर्णः पञ्चमसहस्राणि त्रयस्त्रिंशच्च संख्यया ।
Q१८.१गघ कथयन्ति प्रतिग्राममुपयोगेण नैधुनाः ॥"
गणमात्रपरेण तानप्रयोगेण पूर्वस्तानप्रयोगो हन्यते । तथाचाह दत्तिलः --
Q१९.१कख "हन्यादननन्तरायेण पूर्वा यस्य क्रमोत्क्रमात् ।
Q१९.१गघ गुणकारसमास्तत्र क्रमाच्चेषाः स्युरुत्तमाः ॥ "

V५७.१ इदानीं गुणनोपायं कथयति - द्वाभ्यां पराभ्यामेकः पूर्वो ह(रे?न्ये)त । द्वावेव भवतः । तौ च द्वौ त्रिभिर्हत्वा षड् भवन्ति । ते चतुर्हताश्चतुर्विंशतिर्भवन्ति । सा चतुर्विंशतिः पञ्चभिर्हता शतं विंशत्यधिकं भवति । विंशत्यधिकं शतं षड्भिर्हतं शतानि सप्त विंशत्यधिकानि भवन्ति । तानि सप्तभिर्हतानि पञ्चसहस्राणि चत्वारिंशदधिकानि भवन्ति । 

V५८.१ तत्र क्रमकृतांस्तान् संस्फोटयित्वा ह्युत्क्रृतानि कूटतानानां सप्तसप्तस्वरप्रयोगात् पञ्चसहस्राणि त्रयश्त्रिंशदधिकानि भवन्ति । प्रस्तारो यथा - तत्र षड्जस्वरस्य स इत्येकः क्रमः । सा ऋषभस्य सरित्येक एव क्रमः । सरिसर इति च व्युत्क्रमे द्वितीयः रीसः गान्धारस्य सरिगेत्यतः क्रमः । सरिगगरि(के? से) त्यादयो व्युत्क्रमाः पञ्च । गरिस रिगस गसरि सगरि इति व्युत्क्रमेण कूटतानाः पञ्चमः (?) । तदेवं गान्धारस्य षट्तानाः । एवं मध्यमस्य सरिगमेत्येकं रक्रमः (?) । सगरिसेत्येवमादयोः विंशतिरुक्त्रमाः । तद्यथा - सरिगम मसरिग गमसरि गसरिम सगरिम सरिमग रिसमग रिगसम रिमसग समगरि मरिसग समगरि सरिगम इति मध्यमपूर्वाः षट् ताना व्युत्क्रमकृताः । एवं गान्धारऋषभषड्जानां प्रत्येकं षट्तना भवन्ति । मिलित्वा चतुर्विंशतिर्भवन्ति । एवं पञ्चमस्य सरिगमपेत्येक एव क्रमः । पमगरिसेत्यादिव्युत्क्रमकृतानां शतमेकोनविंशतिर्भवन्ति । तद्यथा - सरिगमप पमगरिस । पमगरिसानां प्रत्येकं चतुर्विंशतिर्भवन्ति । मिलित्वा विंशत्यधिकं शतं भवति । एवं धैवतस्य सरिगमपधेत्येकः क्रमः । धपमगरिसेति व्युत्क्रमः ।
धपमगरिसानां प्रत्येकं विंशत्यधिकं भवति । मिलित्वा सप्त शतानि विंशत्यधिकानि भवन्ति । एवं निषादस्यापि सरिगमपधनीत्येकः क्रमः । निधपमगरिसेति व्युत्क्रमः । निधपमगरिसानां प्रत्येकं सप्तशतानि विंशत्यधिकानि भवन्ति । मिलित्वा पञ्चमसहस्राणि चत्वारिंशच्च भवन्ति । 
V५९.१ तदेवमेतेषां स्वरान्तानविधाना षषष्टितन्त्र्यां शततन्त्र्यां चोपलभ्यते । तयोः स्वभावा (ऋ ? म) ध्यमादीनां कुटतानभेदप्रदर्शनमिह न कृतमतिप्रसङ्गनिवृत्यर्थमेतेनैव क्रमेण बुद्धुमद्भिः स्वयमेव लक्षनीयमिति । 

V६०.१ तदेषां तानानां प्रयोजनं प्राप्त्यर्थमुक्तं स्थानानि त्रीण्युक्तानि कारुविन्धोख्यस्तानि षट्षष्टिं विद्यामन्द्रादिसिद्धये । तस्मात् यत्किञ्चिद् गीयते तन्मध्यमध्वनिविशेषैः कण्ठध्वनिभिर्मन्द्रतारव्यवस्थासिद्ध्यर्थमेव । वतुर्विधा मया प्रोक्ता मूर्छनाः सप्तस्वरात्मिकाः ।

११८कख इदानीं तु प्रवक्ष्यामि द्वादशस्वरमूर्छनाम्

V६१.१ तत्र मूर्छनानिर्देशः स्थानत्रितयप्राप्त्यर्थमिति वचनाच्च द्वादशस्वरसम्पन्ना मूर्छना द्रष्टव्याः प्रयोगकाले । तथाचाह कोहलः ॒---

Q२०.१कख "योजनीयो बुधैर्नित्यं क्रमो लक्ष्यानुसारतः ।
Q२०.१गघ संस्थाप्य मूर्छना जातिरागभाषादिसिद्धये ॥

नन्दिकेश्वरेणाप्युक्तं --
Q२१.१कख "द्वादशस्वरसम्पन्ना ज्ञातव्या मूर्छना बुधैः ।
Q२१.१गघ जातिभाषादिसिद्ध्यर्थं तारमन्द्रादिसिद्धये"

V६२.१ यद्वाप्याचार्यैः सप्तस्वरमूर्छनाः प्रतिपादिताः स्थानत्रितयप्राप्त्यर्थं द्वादशस्वरिरेव मूर्छनाः प्रयुक्ता इति । अन्यथा चोक्षषाडवेरिता इति प्रयोगो न स्यात् । एवञ्च सति 
सरागसिद्ध्यान्त(?) । षड्जजातौ रिगमधनिप्रयोगस्तारमन्द्रको न स्यात् । अन्येषामपि रागाणां नाशंकरः प्रयोगः स्यात् । तेन सरिगमधनि अन्या मूर्छना धनिगमपाद्यास्त्रिय मूर्छना द्रष्टव्या (?) । तद्यथा - धनिसरिगमपधनि सरिग । उत्तरमन्द्रा । निसरिगमपधनिसरिगम । रजनी । सरिगमपधनिसरिगमप । उत्तारयत् रिगमपधनि सरिगमपध । शुद्धशड्जा गमपधनि सरिगमपधनि । मत्सरीकृताः मपधनी सरिगमपधनिसा । अश्वक्रान्ता पधनि सरिगमपधनिसरि । अभीरुद्गताः इति षड्जग्रामे ।

V६३.१ मध्यमग्रामेऽप्येवमेव पधनिसैर्गाद्या मूर्छना निसरिगमपधनिर्युगाद्या(?) रागकाले द्वादशस्वामूर्छना अवगन्तव्याः । ताश्च षड्जग्रामे मूर्छनासु अन्तर्गता ज्ञेयाः । तद्यथ - निसरिगमपधनिसरिगम । सोमरी  । सरिगमपधनि सरिगमप । हरिणश्वा । रिगमपधनि सरिगमपध । कालेवनता । गमपधनि सरिगमपधनि । तुसमध्या । मपधनि सरिगमपधनिसा । मार्गी । पधनिसरिगम पधनिसरि । पौरवी । धनि सरिगमपधनिसरिग  । हृष्यका ।

अतः परं प्रदर्श्यन्ते वर्णाश्चत्वार एव हि ॥ ११९च्द् ॥
स्थायिसञ्चारिणौ चैव तथारोह्यवरोहिणौ 

V६४.१ ननु वर्णशब्देन किमुच्यते । वर्णशब्देन गानमभिधीयते ।
यत्र समाः स्वरा अनुपहतरूपास्तिष्ठन्ति तेभ्यो यद्गीतं वर्णाभिव्यक्तिकृत् यत्र पदे स 
वर्णः स्थायीत्युच्यते । यथा षा४ज्जा सारीसा सारीसा४ । मध्यमायां तु मामामामा इति । यत्र गीते 
सञ्चरन्ति स्वराः परस्परमन्तसहिता एकैकशो वा स सञ्चारी वर्ण उच्यते । 

V६५.१ यथा मालवकौशीके सासासनि पनिपनि साधरी पापनिनिनीत्येवमादिप्रकारेषु परस्परसञ्चाराद् 
आरोहन्तीयादि (?) 

V६६.१ यत्र गेयाः स्वरा आरोहन्ति एकैकशः सान्तरा वा स(र्व?)वर्ण आरोहीत्युच्यते । यथा 
मालवपञ्चमे पापसधरी समगरी पमपम पधमामा पसारिसा सममा पारिगा साधनि 
पारिम्मधनीनीनी पारिम्मधनी पाधनि रिरिपा इति परस्परैकान्तरह्यन्तरस्वरारोहणादारोहि ।
-----------------
१.र्य २.श्या ३.शु ४.षद्जास् ५.स ६ंी ख पाथः

अवरोहन्ती स्वरा यत्रैकेनैव क्रमेण तु ॥ १२० ॥
स चावरोही शब्दे तु समनन्तर+स्वरः ।

पामामध्यमम गागगगमम रिरिरिप्रमा ममप्रपा पप प्रमाममम्मि१निनि
धधृ पपप म्रगगारिरिनिनाद्धृपापा इति परस्परैकान्तरह्यन्तरस्वरावरोहादवरोहीति ।
अत एवोक्तं -
Q२२.१कख "शरीरस्वरसम्भूतास्त्रिस्थानगणशोभिताः ।
Q२२.१गघ अमी वर्णास्तु विज्ञेया (द ? अ)लङ्कारादिसिद्धये ॥"

V६७.१ ननु कथं वर्णनिष्पत्तिः । उच्यते  । यदा हि स्वरा वर्णकर्षमाकर्षयन्ति 
गीतवशात् स्थायित्वेन सञ्चारित्वेन आरोहित्वेन अवरोहित्वेन (त)दा वर्णस्य निष्पत्तिः ।
यथा षा२ज्जा स्थायी वर्णी (?) - सासासा । सञ्चारी यथा । धैवता । धधनीनीपधा ।
अरोही नन्दयन्त्यां गागागागा पापाधपानरिरिरिरि पनिसधनिनिधा । अवरोही३ तत्रैव 
समनन्तरस्वरैः पापापापापापापापा धनीमापागागागागागा४दारप्पवं भवषति (?)
यदर्थमुक्तं यथा एवमेते प्रवर्तन्ते प्रवर्तयन्तीत्यर्थः । शरीरस्वरे ।
वीणावर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः ।

V६८.१ इदानीं सुप्रसिद्धास्त्रयस्त्रिशदलङ्कारापादेना(?) ततः प्रयोगतश्च कथ्यन्ते । तत्रालङ्कारशब्देन किमुच्यते । अलङ्कारशब्देन मण्डलमुच्यते । 
यथा कटकेयूरादिनालङ्कारेण नारी पुरुषो वा ंण्डितः शोभाभावहेत्, तथा एतैरलङ्कारैः 
प्रसन्ना(द्या)दिभिरलङ्खृता वर्णाश्रया गीतिर्गातृश्रोतृणां सुखावाहा भवतीति । 
व्युत्पत्तिश्च यथा - ऽडुकृञ् करणेऽ धातु 
---------------
१.ऽम्रि २ षड्जांस्या ख. पाठः ३इ क पाठः ४.गागादा ख. पाठः

रलं(कृत?) शब्दपूर्वः अलङ्कृतमलङ्कारः धञन्तोऽयमलङ्कारशब्द इति ।

V६९.१ तत्रालङ्काराणां नामानि कथ्यन्ते - प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्तः 
प्रसन्नमध्यमः समः बिन्दुः निवृतः प्रवृतः व्युत्पत्तिश्च तथा वर्णा(?) कम्पितः 
कुहरितः रेचितः प्रेङ्खोलितः तारमन्द्रप्रमन्द्रतारः प्रसन्ननिसनः ह्रस्वारप्रसादः(?)
उद्वोहितः उपलोलकः क्रमः निष्कूजितः (प्रा? ह्ना) दमानः रञ्जितः आवर्तकः परिवर्तकः 
उद्घटितः आक्षिप्तकः सम्प्रदानः हसितः हुङ्कारः सन्धिप्रच्चादनः वि(धिन ? धुत)ः
उद्गीतः गात्रवर्णश्चेति ।

V७०.१ इदानीमेतेषामलङ्काराणाम् लक्षणमुच्यते । तद्यथा - मन्द्रादारभ्य मेसारोहणं तारगतिं यावदसौ प्रसन्नादिः । मन्द्रशब्देन प्रसन्नध्वनिरुच्यते । सारिगामापाधानीसा इति प्रसन्नादिः ।

V७१.१ तारदाराभ्यावरोहक्रमेण प्रसन्नान्तह् । यथा - सानिधपमगरीसा इति प्रसन्नान्तः ।

V७२.१ यत्राद्यन्तयोः प्रसन्नः मध्ये च तारः (स) प्रसन्नाद्यन्तः । यथा - सरिगमपधनि (सा) 
सानिधपमगरिसा इति प्रसन्नाद्यन्तः

V७३.१ ननु यत्र मन्द्रो मध्ये आद्यन्तयोश्च तारः स प्रसन्नमध्यः । यथा - सा२निधापमागरीसा 
सा३रिगमपधनीसा इति प्रसन्नमध्यः । ( इति । )

--------
१.लि क पाठः २.सनीधपमगरिसा ३.सरिगमपधनिसा ख. पाठः


V७४.१ स्थानत्रयेऽपि सदृशध्वनिः सप्तस्वरोच्चारणः समः । एतदुक्तं भवति - यस्य याव(न्तः ? त्यः) श्रुतयः स्वस्थानत्रितयेषु तावत् श्रुतिकमेव(?) कार्याः । यथा - सरिगमपधनिनी द्वयोर्द्वयोः स्वरयोः संवादिनोरुच्चारणात् समः । तद्यथा - सम सप रिधगनी । ग्रामभेदे तु रिपजयिति (?) विशेषः । इति समः । नि चिरमेकस्मिन् स्वरे षड्जादिरूपे स्थित्वा तदीयतारमग्निवत् (पृ? स्पृ)ष्ट्वा कलामे(न्यः?) कां१ च स्थित्वा यत्र पुनरपि समा सा मन्द्रया गम्यते स बिन्दुः । सा सा इति बिन्दुः ।
एककलान्तरं स्पृष्ट्वा बिन्दोरेव विपर्ययोच्चारणाप्रवृत्तौ विनिवृत्तत्वाद् निवृत्ताख्यः । यथा - सां सासा निवृत्तः प्रवृत्तः (?) । स्थानत्रयेऽपि सदृशध्वनिः सप्तस्वरोच्चारणः समः ।
एतदुक्तं भवति  - यस्य याव(न्तः ? त्यः) श्रुतयः स्वस्थानत्रितयेषु तावत् श्रुतिक्रमेव(?) कार्याः । यथा - सरिगम पधनिनी द्वयोर्ध्वयोः स्वरयोः संवादिनोरुच्चारणात् समः ।
तद्यथा - सम सप रिधगनी । ग्रामभेदे तु रिपजयिति(?) विशेषः । इति समः । नि ।

V७५.१ चिरमेकस्मिन् स्वरे षड्जादिरूपे स्थित्वा तदीयतारमग्निवत् (पृ? स्पृ) ष्ट्वा कलामे(न्यः?) कां च स्थित्वा यत्र पुनरपि समा सा मन्द्रया गम्यते स बिन्दुः । सा सा इति बिन्दुः ।

V७६.१ एककलान्तरं स्पृष्ट्वा बिन्दोरेव विपर्ययोच्चारणाप्रवृत्तौ विनिवृत्तत्वाद् निवृत्ताख्यः । यथा  - सां सासा निवृत्तः प्रवृत्तयः (?) । 

V७७.१ आक्रीडितवदारोहादवरोहक्रमेण ष(ष्क ? ट्क) लो वेणुः । यथा - सरिगमपधनि निधपमगरिसा  । वेणुः । 

V७८.१ मन्द्रसप्तममध्ये पवनी(?)रोधेन द्विश्रुतेः कम्पनात् कम्पितस्त्रिकलः । यथा - सरिगमपधनिस कम्पितः । 

V७९.१ मध्यमसप्तके त्रिश्रुतेः कम्पनात् त्रिकलः कुहरितः । यथा - सरिगमपधनिष् कुहरितः । 
V८०.१ तारसप्तके त्रिश्रुतेः कम्पनात् त्रिकलो रेचितः । सरिगमपधनिस (र ? रे) चितः ।  
-----
१.ऽक्तांऽ ख. पाथः 

V८१.१ (तद्?) द्वयोः स्वरयोर्बहूनां च स्वगणां समकलगमागमाच्चतुर्देशकलः प्रेङ्खोलितः । यथा - सरिरि सरिग गरिगम मपप्रपपपत्पनि१निनिध नीससनि । प्रेङ्खोलितः ।

V८२.१ अंषाच्चतुर्थं पञ्चमं वा स्वरं गत्वा यत्र मन्द्रे पुनरागम्यते तारमन्द्रप्रसन्नः । यथा सरिगमप । सरिगमप । रिरिगमपधनिगमपधग । गमपधनिग । मपधनिम । मपधनिसम । अथवा मन्द्रस्वरात् तारं गत्वा पुनः सहसा मन्द्र (व) शाद्वा गम्यते स तारः मन्द्रप्रसन्नः । सरिगमपधनि सासा तारः । 

V८३.१ मन्द्रप्रसन्ना मन्द्रात् सहसा तारः प्राप्य मन्द्रत्वेन क्रमेणावरोहा मन्द्रतारः प्रसन्नः(?) । सपः मग२रिसः रिध पमगरि गनि धपमग समनिधप । अथवा मन्द्रस्वराद्वा वर्तारः स्वरानुच्चार्य क्रमेणावरुह्य च मन्द्रेण वा गम्यते मन्द्रतारप्रसन्नः । यथा सासा । निधपमगरिस३ । मन्द्रतारप्रसन्नाः 

V८४.१ विरूपश्च प्रस्तारस्थायीत्यारोहणी च तत्र स्थायिन्येकस्वरः स्वस्य(?) क्रमशस्तारमन्द्रावरोहणेन मन्द्रतारारोहणेन स्वरेण प्रस्तारः । सरिरिस । सरिग । गरिस । सरिगमप । पमगरिस । सरिगमपध । ध४पमगरिस । सरिगमप्धनि । निधपमगरिस । सरिगमप्धनिस । सनिधपमगरिस । अथवा वेलषड्जग्रामे षड्जाद्याः सप्त मूर्छनाः प्रत्येकं चतुर्धा भवन्ति । शुद्धा करकलिकलिता सान्तरा तद्द्वयोपेता चेति । एकैकस्या मूर्छना 
-------
१ंीनीनीध २ंारि ३.स ४.धा ख.पाठः

यास्चतुर्विधत्वात् षड्ज पञ्चचचत्वारिंशद्युतानि पञ्चसहस्राणि कूटकूटतानाम् (?)

१२१गघ षट्पञ्चाशन्मूर्छनास्ताः पूर्णकूटास्तु योजिताः
१२२कख लक्षद्वयं (स्या?) सहस्राणि द्व्यसीतिर्द्वे शते तथा
१२२गघ चत्वारिंशास्च संख्याता अथापूर्णा(त् ? न्) प्रचक्ष्महे 
१२३कख एकैकाद्यग्निविरहाद् गभजा षड्जादयः स्वराः 
१२३गघ एकस्वरोऽत्र निर्भेदोऽप्युक्तो नष्टोदिसिद्धये 

क्रमादकूटतानत्वे युक्तास्तेषूपयोगिनः ।
सप्तस्थानानि - आधारस्वाधिष्टानानाहतमणिपूरक (अनाहत?) विशुद्धयाज्ञाब्रह्मरन्ध्रेषु 
गमपधनिस । रि । सरिगरिगामग१ । मपपमधपपधनिधनिधनिस । प्रस्तारः ।

V८५.१प्रस्वस्तारः पवि२परितः (?) प्रसादः । यथा - सनि । निस । सनिध । धनिसा । स३निप । पधनिसा । स४निधपम । मपधनिसा । सनिधपमग । गमपधनिसा । सनिधपमगरि । रिगमपधनिसा । स५निधपमगरिसा६ । सरिगमपधनिसा । अथवा - सनिनिसानिधाधनिपधा । धपा  । पमा । मपा । मागरिरिसः । प्रसादः । 

V८६.१ द्वौ द्वौ स्वरौ विकलौ सञ्चरन्तावारोहक्रमेणा(रोह-क्रमेणा?) वरोहादुद्वाहितः । सरि । रिसरि । ग । गमप । पध । धनि । नीस । सनिधा धपपमामगागरि । रीसा (?) उद्वाहितः ।
---------------------
१.गा २.पि ३.सा ४., ५.सानीधाप ख पाठः ६.स क पाठः

V८७.१ अयमेक द्विरभ्यस्तौरुपलोलकः । सरिसरि । रिगरिग । गमगम । मपमप । पधपध । धनिधनि । निसनिस । सनिसनि । निधनिध । धपधप । पमपम । मगमग । गरिगरि । रिसरिस । उपलोलकः । 

V८८.१ एकादिक्रमेणान्तरस्वरेष्वारुह्य पुनर(व)रोहणक्रमेण स्थायिनं स्वरं गत्वा परिवारक्रमेणैव एकैकाभिवृद्धया यत्र स्वरा उच्चार्यन्ते स क्रमः  । अयमेकरूपत्वात् प्रस्ता(र ? रे) भिद्यते । सरिरिस । सरिगा । गरिस । सरिगमा । मगरिसा । सरिगमपा । पमगरिसा । सरिगमपधा । धपमगरिसा । सरिगमपधनी । नीधपमगरिस । सरिगमपधनिस सनिधपमगरिस । क्रमः । अ (था ? थवा)नतर्स्वरमारुह्य काके१लीम् गत्वा तेनैव क्रमेणावरुह्य स्थायिन्यगम्यते स क्रमः । सगनि निगस । क्रमः ।

V८९.१ आद्यं तृतीयं ततो द्वितीयं त(ततो?)तश्च चतुर्थमनेनैव क्रमेणान्यानप्यारोह्य मन्द्रान्निष्कूजितः । कोहलमते च एकान्तरस्वरारोहान्निष्कूजितः । सगारिगमपा । मधापनी । धसा । 

V९०.१ तारादेकान्तरस्वरारोहा(त्) त्रिरावृत्या कलात्रयकरणात् सर्वेषां क (ल ?ला) त्रकरणात् (प्रा ? ह्ना) दमानः । साधासाधासाधा । नीपानीपानीपा । धा२माधा३माधामा । पागापागापागा । मारीमारीमारी । गासागासागासा । ह्रादमानः । (साधासाधासाधा । नीपा४नीपा५नीपा६ । धा७माधा८माधामा ।
पागापागापागा । मारीमारीमारी । गासगासागासा ह्लादमानः । ?)
---
१.कि २., ३.ध क पाठः ४, ५, ६. प ख पाठः ७, ८ ध क पाठः 

V९१.१ समनन्तरस्वरमारुह्य द्वैकले स्थित्वा पुनः स्वरोऽन्तरे अर्ककलामारोह(व?)ति । पुनश्चानन्तरमेवाद्यकलामवरोहति स रञ्जितः । सरि । रिग । रिगमग । गमपम । मपधप । धपनिध । पनिधनी । 

V९२.१ आरोहावरोहाभ्यामादौ स्वर(य?) मुच्चार्य प्राक्स्वरोच्चारणान्ते क्रमशोऽष्टकल आवर्तकः । सरिगम । पधनिस । सनिधप । मगरिस । आवर्तकः  । अथवा सग । गपपनि । सधासधा । नीपा१पगा । गसा । आवर्तकः ।

V९३.१ पुनरेकस्वरं चतुर्थं लङ्घयित्वा पञ्चमं स्वरं प्राप्य पुनरप्यन्तरान् त्रिस्वरानवरोहन् चतु२(र्थं) लङ्घयन्नाद्यं स्वरं षड्जं गच्चेत् । आरोहाअरोहाभ्यां क(लोऽ ? ला) ष्टकेन तयैवं तारादारभ्य सर्वस्वरानामारोहानवरोहं(?) षोडशकलः परिवर्तकः ।
स च लो (को ? के) ओहाडीत्युच्यते । सरिगपा । पमगसा । रिगमध । धपमरि । गमपनि । निधपगा । मपसधा । सनिधमा । मपधसा। निधपगा३ । गमनिध । पमरिरि । गमधा । मपसगा । सरिगपा । इति परिवर्तकः ।

V९४.१ स्वरद्वये हि ककलयः आरोहक्रमेण तृतीयस्वरं परिहरन्नारोहक्रमेणैवोपरितनद्वस्वरद्वयमाक्रमानेनैव क्रमेणावरोहः(?) शेषानपि स्वराननेनैव क्रमेणारोहन्नवरोहन्नष्टादशकल उद्धटितः । सरिमपा । पमरिसा । रिगपधा । ध४पगरी । गमधनी । नीधमगा । मपनिसा । स५निपमा । मपनिसा । निधमगा ।
-------------
१.पपागा २.तुर्लङ्घ ३.ग ४.धा ५.सानीप ख पाठः 
मधनी । धपगरी । रिगपधा१ । पमरिसा । सरिमपा । मगरि२सा । उ(द्वाहि ? द्धटि) तः ।

V९५.१ त्रिभिः स्वरैरारोहक्रमेण वा एककलादारभ्य यावत् षट्कलमित्येवं कलामानादाक्षिप्तकः । सरिगा । नु । रिगमा। नु । मप । नु । पधनी । नु । सनीसा । नु । धपमा । नु  । मगरी । नु । गरिसा । नु । इत्याक्षिप्तिकः ।

V९६.१ प्रथमात् स्वरान्तरं परित्यज्य स्वरद्वये च गत्वा तेनैव क्रमेणारोहणादेककलादवरोहणेऽपि चैककल इति द्विकलसंप्रदानश्च द्वाविंशतिकलः (सम्प्रदानः) । सिगमम । मरिस । रिमप । पगरिग । पगध । धमग । मधनीनिपम । पनिसा । धधपा । धनिसा । पनिसानिपमपा । मधनी३समगा । गपधा । पगरी । रिपमा । मरिसा । सगमा । गरिसा । सम्प्रदानः । अथवा - सगम । मगसा । रिमपा । पमरी । गपधा । धपगा । मधनी  । निधमा । पनिसा४ । सनिपा । सम्प्रदानः ।

V९७.१ सम्प्रदानस्यैव द्विकलयोगेन हसनाद्धसितः । सगमा । मरिसा । रिमप । पगरि । गपध । धमग । मधनि । निपम । पनिस । सधप । सनिध । निपम । मधनि । सधप । पनिसनिप । मधनि । धमगा । गमपधा । पगरि५ । रिमपा । मरिसा । सगमा । गरिसा। हसितः । 

V९८.१ हसितवत् स्वरत्रयारोहणेन चतुष्टयारोहणेन वा उभयथाप्येककलो हुङ्कारः । सरिग । गरिसा । रिगमा ।
-----------
१.धा । मपरिसा ख पाठः २.री क पाठः ३ंि ४.सा । समनि ५.री ख पाठः
मगरी । गमपा । पमगा । मपधा । धपमा। पधनी । निधपा। धनि१सा । सनिधा । पधनी । नि२धपा । पधनी । धपमा। नि३धपा । पमगा। मगरी । रिगमा। गरिसा। सरिगा।  अथवा -
सरीगम । मगरिस  । गमप । पमगरि । गमपध । धपमग । मपधनि । निधपम । पधनिसा।
सनिधप । नि४धपम५ । मपधनि । निधपमागा। गमपधा । पमगरि । रिगमपा । मगरिसा। 
सरिगम । अष्टादशकलो हुङ्कारः ।

V९९.१ तारात् सप्तमं स्वरं गत्वा पुनस्तत्र्त्रैवमागत्यावरोहक्रमेण स्वरद्वयोच्चारणेन कलाचतुष्टयकारणात् (?) सन्धिप्रच्चादनः । सनिसनिसनि (सनि) । निधनिधनिध (निध) । धपधपधपधप । पमपमपमपम । मगमगमगमग । गरिगरिगरिगरि । रिसरिसरिसरिस । सरिसरिसरिसरि । रिगरिगरिगरिग । गमगमगमगम । मपमपमपमप । धपधपधपधप ।
धनिधनिधनिधनि । निसनिसनिसनिस । सन्धिप्रच्छादनः ।

V१००.१ अंशस्वरं चतुरुच्चार्य तदनन्तरस्वरद्यस्य दृṟओतोच्चारणादनेनैव क्रमेणारोहणादेककलो विधुतः । सासासासासा । रिग । रीरीरीरी । गम । गागागागा । मप । मामामामा । पध । पापापापा । धनि । धाधाधाधा । रिस । विधुतः । 

V१०१.१ तारादेकान्तरस्वरावरोहात् क्रमेणोद्गीतिः । सध । निपध । मपग । मरिग । स । उद्गीतः । 

V१०२.१ ओङ्कारवत् समन्तरं संयुक्तद्विस्वराक्षरमारोहतः (?) । ततो द्वौ द्वौ स्वकम्पनयुक्तौ कलान्तरयो(गे ? गा)देव प्रसन्नौ
---------------------
१, २, ३, ४ नी ५ मा क पाठः
मन्द्रौ कार्यौ । इत्येककलस्वरयोगात् गात्रवर्णः  । धानीसा । नीधा। पाधानी धप । मापाधा । मग ।
गमपा । गरि । सारीगा । रिपा इति गात्रवर्णः । नन्दयत्यलङ्कारः(?) ।

१२४गघ यस्मिन् वर्णे स्थिता ये च अलङ्कारा मनोहराः 
१२५कख तानि (इ ?)दानीं प्रवक्ष्यामि भरतोक्तविधानतः 
१२५गघ प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त(मे ? ए)व च 
१२६कख तथा प्रसन्नमध्यस्तु समो (र ?रे)चित (मे ?ए) व 
१२६गघ प्रसाद+ प्रसादश्च स्थायिवर्णाः समाश्रया
१२७कख ज्ञेयाद्येतदलञ्कारादमौलक्षणलक्षिताः (?)
१२७गघ अथ सञ्चारिणौ भूतकृत्यमाना निबोधतः (?) 
१२८कख मन्द्रतारप्रसन्नश्च बिन्दुः प्रेङ्खोलितस्तथा
१२८गघ रुहरश्चैव वेणुश्च रञ्जितश्चोपलालकः
१२९कख आवर्तकह् परावर्त इति सञ्चारिसम्भवाः
१२९गघ अलङ्कारास्तु विज्ञेया ए(का) (दे ?द)श मनोहराः 
१३०कख निष्कूजितश्चकोरो हसितो न (?) बिन्दुरेव च 
१३०गघ प्रेङ्खोलितस्तथोत्क्षिप्तो विधुतोद्वाहितौ तथा
१३१कख प्रा१द(ना ? मा) नः सम्प्रदानः  सन्धिप्रच्छादनस्तथा 
१३१गघ प्रसन्नादिः प्रसन्नान्त आरोहिणी त्रयोदश
१३२कख वि२धृतो गात्रवर्णाश्च उद्गीतोद्वाहितो वेणुः
१३२गघ पङ्चैते चाप्यलङ्कारा विज्ञेयाश्चावरोहिणी
१३३कख प्रसन्नादिः प्रसन्नान्तः तोबिन्दुः (?) कम्पितरेचितौ 
१३३गघ प्रेङ्खोलितस्तारमन्द्रो मन्द्रता(स्स ? रस) मस्तथा 
----------
१लादमान २. विधुतः इति पूर्व पटितौ

१३४कख सन्निवृत्तः प्रवृत्तश्च उपलोलकवेणुकौ 
१३४गघ द्वादशैतेऽप्यलङ्काराः सर्ववर्णाश्रयाः स्मृताः 
१३५कख मन्द्रो(त?) मध्यश्च तारश्च अवलोकितमेव च 
१३५गघ अपमाख्यस्तयोभिश्च सर्ववर्णनताः (?) स्मृताः 
१३६कख सप्तरूपगतज्ञेया(?)दलङ्कारा बुधैरिमे
१३६गघ नैतेषां तु ध्रुवास्विष्ट अतिवर्णा प्रकर्षणा(?)
१३७कख धनाहिवर्णप्रकर्षस्तु ध्रुवाणा(? संप्रशस्यते 
१३७गघ सतेमावाप्यथवा बिन्दुः रेचान्ये (?) प्रतिकर्षणाः
१३८कख ध्रुवाणां च प्रयो(ने ? गे) तु कार्याश्चारोहणस्वराः 
१३९कख गुरुः सा++++भिर्ध्रुवा कार्यार्थदर्शिभिः
१३९गघ वर्णा(ना)न्तु पुनः का(र्यः ? र्यं) कृशत्वं च ध्रुवास्वलम्
१४०कख स्थायिवर्णादृते चैषां सम्प्रवक्ष्यामि लक्षणम्
१४०गघ क्रमशो दी१प्यते यस्तु प्रसन्नादिः स कथ्यते
१४१कख व्यस्तोच्चारित(मे? ए)वैष प्रसन्नान्तोऽभिधीयते
१४१गघ आद्यन्तयोः प्रसन्नत्वात् प्रसन्नाद्यन्त (मि ? इ) ष्यते
१४२कख प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः 
१४२गघ सर्वसामात्(?) समा ज्ञेया स्थितश्चैकस्वरेऽपि हि
१४३कख बिन्दुरेककलं तारं स्पृष्ट्वा तु पुनरागतः
१४३गघ स्यान्निवृत्तः प्रवृत्तश्च मन्द्रां (ग) त्वा समागतः
१४४कख आक्रीडनीलयो (?) यस्तु स च वेणुः प्रकीर्तितः
१४४गघ उरोगतः कम्पितः स्यात् कम्पनाच्च कलात्रयः
--------
१. दि क पाठः

१४५कख कण्ठे निरुद्धः पवनो रुहरो नाम जायते
१४५गघ त्रिकला कम्पना तद्व(?) रेचिराख्यः शिरोगतः
१४६कख गतागतप्रवृत्तो यः सप्रेङ्खोलित (मु ? उ) च्यते
१४६गघ क्रमागतस्तु यस्ताश्चेत् ततः पञ्चतुमोऽपि (?) वा
१४७कख तारमन्द्रप्रसन्नास्तु ज्ञेयो मन्द्रगतो बुधैः
१४७गघ लङ्घयित्वा परं म(न्द्र? न्द्रं) क्रमात् तारगतिं गतः
१४८कख मन्द्रतारप्रसन्नस्तु विज्ञेयारोहणा बुधैः 
१४८गघ एकस्वराधिरूढः क्रमशः प्रस्तारसं(ज्ञि ? ज्ञ) को ज्ञेयः
१४९कख समनन्तरो द्वौपत्युद्वाहितो द्विक लेव(?)
१४९गघ आरोहत्येककलां ++++ प्रसाध१यति 
१५०कख उद्वाहित एव स्यादुपलोलकसंज्ञको द्विरभ्यस्वना(?)
१५०गघ एकं (द्वौ ? द्वे) त्रीणि गच्चन् स्वरक्रमेण क्रमो ज्ञेयः
१५१कख एकान्तरमारुह्य प्रत्येकान्तरस्वरो यस्तु (?)
१५१गघ निष्कूजितसंज्ञोऽसौ ज्ञेयः सूरिभिरलङ्कारः
१५२कख क्रमयोगेनासौ ज्ञेयः संचार्यमकान्तरस्वरे (?)
१५२गघ त्रिकलस्वपरषड्जमेवमारोहि (?) ह्लादमानः स्यात्
१५३कख अथ रञ्जितस्तु समनन्तरस्वरे द्वे कले पुनः स्थित्वा
१५३गघ अर्थकलामारोहि पुनरेतत् चापको(?) हि स्यात् 

आरोहतः

१५४कख आवर्तकश्चतुर्षु स्वरेषु समनन्तरेषु सम्भवति
१५४गघ आरोहणावरोहणविधिना चैकान्तरेष्वपि वा
------------
१.द ख पाठः

१५५कख ज्ञेयो निरन्तररूर्ध्वष्टकलः सान्तस्वस्थ (?) कार्यः
१५५गघ प्राज्ञैः कलाश्चतस्रः स्वहृत्यावर्ततो नित्यः
१५६कख अधिरुह्य च स्वरांस्त्रीन् स्वरान्तरं लङ्घ्यतति च निवृत्ते
१५६गघ पुनरपिच परावृत्त्या परीवर्तेषु कलो(?) ज्ञेयः
१५७कख यः स्वरापतितौ तथा पस्वन्तरस्वरो भवति
१५८गघ एककलश्च तथा भव तदुद्वाहितो नित्या(?)
१५९कख  आक्षिप्तवच्चतुर्भिः स्वरैस्त्रिस्वरैः कलान्तरोपेतैः
१५९गघ एकान्तरस्वरक्रम इह गदितः संप्रदानस्तु
१६०कख द्विरपि द्विकलं गदितं हसितमिहोच्चारितततोऽपहसितम्
१६०गघ समन्तरस्वरकृतं चाक्षिप्तमिव बुधैर्ज्ञेयम्
१६१कख समनन्तरस्वरेषु हसितवद्यपरश्चतुः परो (?) वापि
१६१गघ आरोहत्येककलो हुङ्काराख्यः स विज्ञेयः
१६२कख स्थानान्तरमारुह्य प्रत्येकद्वयस्चतुष्कलो ज्ञेयः
१६२गघ क्रम्नोर्ध्वपरिक्षेपः (?) सन्धिप्रच्चादनो नाम
१६३कख आदौ पदमुच्चार्य यः स्याद् द्विस्वरो लघुनि वर्णः
१६३गघ समनन्तरमारोहत्येककला तद् विधूतं तु
१६४कख आदा ++वरोही स्यात् प्रस्तारोऽन्तेऽवरोहते यत्र
१६४गघ प्रमाणतश्च कलासु च वान्त्याकार(?) मुद्गीतम्
१६४कख हुङ्कारवदारोहे अनन्तरांस्तु स्वरान् कलान्तरयोः
१६५गघ द्वौ द्वौ च कम्पमतौ (?) स्वरौ च तस्य प्रसन्नु द्वौ
१६६कख वर्णालङ्कारविधौ विज्ञ्ĕयो गात्रवर्ण इत्येवम्
१६६गघ आकारोकारतया दीर्घाक्षरमन्यदपि योज्यम्
१६७कख गीतालङ्काराणां करणविधिरयं समुद्दिष्टः
१६७गघ एभिरलङ्कर्तव्या गीतिर्नामाविरोधेन
१६८कख स्थाने चालङ्कार कुर्याद् गाभ्युरसि किञ्चित् उदावेध(?)
१६८गघ बहवोऽलङ्काराः स्युर्वर्णविहीनाः प्रयोक्तव्याः
१६९कख शशिविरहितेव रजनी विजलेव नदी लता ह्यपुष्पेव
१६९गघ अनलङ्कृतेव नारी गीतिरलङ्कारहीना स्यात् 
१७०कख अलङ्कारास्त्र्यस्त्रिंशदेवमेते मयोदिताः
१७०गघ नोदीयोऽपि (?) तेऽप्यत्र प्रत्येतव्या मनीषिभिः

V १०३.१ 
तत्र प्रस्ताṟओ यथा - षड्जादिषु 
सरिगमपधनिसा प्रसन्नादिः । 
सनिधपमगरिसा प्रसन्नान्तः । 
सरिगमपधनिसा निधपमगरिसा प्रसन्नाद्यन्तः । 
सनिधपमगरिसा सरिगमपधनिसा प्रसन्नमध्यमः । 
सरिगमपधनिसा । समं 
स स्यात्(?) स बिन्दुः । 
सा द स सा निवृत्तः प्रवृत्तः (?) 
सरिगमपधनि । निधपमगरिस । वेणुः ।
सरिगमपधनिसा । कम्पितः । 
सनिरिगमप धनिसा । (कु) हरितः । 
सरि नु । गमपधनिसा । रोचितः । 
सरिरिस । रिगागरी । गमामगा । मपापमा । पधाधपा । धनिधा । निसासनी । संप्रेङ्खोलितः । 
सरिगमप । निरिगमप । रिगमपधरि । गमपध । गागम । पधनिग । मपधनि । म । मपधनिसम । तारमन्द्रप्रसन्नः । 
सप । मगरिसरिधमपगरिगनि । धप । मग । सस । निधपम । मन्द्रतारप्रसन्नः । 
सरिरिस । रिगगरिस । सरिगम । मगरिस । सरिगमप । पमगरिस । सरिगमपध । धपमगरिस । सरिगमपधनि । निधपमगरिस । सरिगमपधनिसा । सनिधपमगरिसा । प्रस्तारः । 
सनिनिस । सनिध । धनिस । सनिधप । पधनिस । सनिधपम । मपधनिसा । सनिधपमगरी । रिगमपधनिसा । सनिधपमगरिस । रिगमपधनिस । प्रसादः । 
सरिगमपधनि । निसधनिनिधधप । पमगम । गरिरिसा । उद्वाहितः । 
सरिसरि । रिगरिग । गमगम । निधनिध  । धपधप पमपम । मगमग । गरिगरि । रिसरिस । उपलोलकः । 
सरिरिस । सरिग । गरिस । सरिगम  । मगरिस । सरिगमप । पमगरिस । सरिगमपध । धपमगरिस । सरिगमपधनि । निधपमगरिस । क्रमा । 
सगरिम । गमपध । पनिसध । निष्कूजितः । 
सधस । धनिपनिप । धमधम । पगपग । मरिमरि । गसगस । ह्लादमानः । 
सरिगरि । रिगम । पग । गम । पम । मप । धप । पध । निध । धनि । सरिनि । रञ्जितः । 
सरिगमपधनिसा । सैधपमगरिसा । आवर्तकः । 
सरि । गप । पम । गस । रिग । मधा । इध । धनि । सरिनि । रञ्जितः । 
सरिगमप्धनिसा । सनिधपमगरिसा । आवर्तकः । 
सरि । गप । पम । गस । रिग । मधा । धप । मरि । गम । पनि । निध । पगा मपधसा । सनि । धमा । इध । पगा । गम । धनि । धम । परि । मधा । पम । गसा । सरि । गपा । परिवर्तकः । 
सरि । मपा । पम । रिसा । रिग । मपधा । धप । गरि । गमधनि । निधमगा । मपनिसा । पनिपमा । पधनिसा । सनिपमा । मपनिसा । निधमगा । गमधनि । धपगरि । रिगपध । पमरिसा । उद्वाहितः । 
सरिगा री गामा । गामापा । मापाधा । पधनि१ । धनिस । सनिध । निधप । धपम । पमग । मगरि । गरिसा । आक्षिप्तिकः । 
सगमा मरिसा । रिमपा । पगरी । गमधा । धमगा  । मधनी । नि२पमा । पनिसा । सधप । धनिसा । सधपा । पनिसा । निपमा । मधनी । धमगा । गपधा । पगरी । रिपमा । मरिसा । सगमा । गरिसा । सम्प्रदानम् । 
मगम । मरिस । रिमप । पगरि । दक्षिणे अतीतः चित्रवृत्तौ अगतः जातिप्रयोगात् समन्विता(?)

१७३कख *अलङ्कारा मया प्रोक्ता यथावन्मुनिसत्तम !
१७३गघ अथ गीतिं प्रवक्ष्यामि छन्दोऽक्षर ++++
१७१कख प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी 
१७१गघ सम्भाविता (स्तृ ? तृ) तिया च चतुर्थी पृथुला स्मृता 
१७२कख त्रिर्निवृत्ता च या गीतीः सा (मा गतिः ? गीतिर्मागधी स्मृता 
१७२गघ अर्धकालनिवृत्ता च विज्ञेया त्वर्धमागधी (सम्भाविताः ?)
१७४कख (सम्भाविता) च विज्ञेया गुर्वक्षरसमन्विता
१७४गघ पृथुलाख्या च विज्ञेया लघ्वक्षरसमन्विता 

V१०४.१ दक्षिणे मार्गपृथुला गीति वार्त्तिके मार्गे सम्भाविता चित्रैर्मार्गे मागधिः अष्टौ कला (?) । ताल३प्रयोगक्रमेण ।
-----------------
१ंि । पधनि । धनिसा क पाठः २ंी ३.लक्र ख पाठः 
*अस्थानस्थमिदं पद्यं दक्षिणे अतीतः इत्यतः पूर्वं निवेशनीचमिति भाति  

१७५कख चित्रे चैककले ताले विज्ञेया गीतिर्मागधी
१७५गघ वार्तिके द्विकला ज्ञेया गीतिः सम्भाविता बुधैः
१७६कख दक्षि(णो ? णे) पृथुला गीतिस्तालैर्ज्ञेया चतुष्कले
१७६गघ अनेनैव विधानेन गातव्या गीतयो बुधैः 

V१०५.१ चित्रे चैककले एव तालः (र्क (?) तं द्विमात्रिकप्रयोगात् वार्तिके द्विकल१ एव तालः चतुर्मात्रिकप्रयोगाद् दक्षिणे चतुष्कल२ एव तालः अष्टमा(त्र ? त्रिक) प्रयोगाद् (द्वि ?) ।

१७७कख द्विगुरुद्विनिवृत्ता च चित्रे गीतस्तु मागधिः
१७७गघ लघुप्लुतकृता चैव तदर्धे चार्धमागधिः
१७८कख सम्भाविता गुरुर्वृत्तौ पृथुला दक्षिणे लघु

यथा - मागधी । अथ सम्भाविता पृथुला 

V१०६.१ वार्त्तिके सङ्ग्रहाद् दक्षिणे अधीतः चित्रवृत्तौ अगतः । जातिप्रयोगाः (?) व्३ऋत्तिर्नाम चिकथितम् । तथा दक्षिणो वृ४त्तिश्चेति त्रेतिमात्रा अष्टौ चतु चतुर्द्वि५क्रमेण (?) यथा  -

१७८गघ (धू ? ध्रु) वका सर्पिणी कृष्टया वर्तिन्यथ विसर्जिता
१७९कख विक्षिप्ता च पताका च पतिता चाष्टमी स्मृता(ः?)
१७९गघ तत्र ध्रुवकाचशब्दस्याः(?) सर्पिणी वामगा भवेत् 
१८०कख कृष्टया दक्षिणतो या (ना ? ता) वर्तिनी चाप्यधोगता(ः?)
१८०गघ विवर्तिता बहिर्याता विक्षिप्ता कूर्चिता भवेत् 

१८१कख पताका चोर्ध्व (का ? गा) ज्ञेया वनितां भ्रम्मिगा(?) भवेत् ।

वार्तिके च । 
---------------
१.ला २.ले ख पाठः ३. ४.विर्ति ५.द्विः क  क पाथः ६.ब ७.त ख पाठः

"दक्षिणा चोर्ध्वगा चित्रे द्वे तु ध्रुवकासर्पिणी ।
कृष्टया पद्मिनी +++++++++++(?) ॥
अथवा 
१८१गघ प्रथमे मध्यमाङ्गुलीचो (?) द्वितीये सार्धनि ++ 
१८२कख तृतीये मुष्टिमोक्षश्च (च)तुर्थे करपातना 
१८२गघ ध्रुवका सर्पिणी चित्रे दक्षिणाविति चित गीता (?)

V१०८.१ उभयवाद्यप्रवर्तनवशात् प्रतीतिश्चागीतप्रधानदक्षिणा वृत्तिः उभयप्रधाना वृत्तिः म१बित्ति(?) वाद्यप्रधाना चित्रवृत्तिः ।

V१०९.१ इदानीं प्राधान्यं ज्ञापयति पाणिकृतं विवर्तितम् । तदुक्ता तालयतिमार्गप्रा२धा(न?)न्यादासां यथासंख्यं स्वरंव्यञ्जकानि (?) भवन्ति । चित्रे समायाति + द्रुतो लयः उपरिपाणिः मागधी धनामुखोऽवयवः वार्तिके स्रोतोगता यतिमध्यो लयः समपाणिः सम्भाविता । अत्र गवोवलयवः उदग्द३क्षिणे गोपुच्चा यदि(?) विलम्बितो लयः अधमपाणिः पृथुला गीतितत्त्वं
चावयवः 

V११०.१ वृत्ती४आं च वाद्या समानासमानागततीतग्रहैः कार्यम्(?) तत्र चित्रे अनागतोग्रहः अभिप्तर्वो(?) वाद्यप्रयोगः पश्चात् कलाचतुष्टयेऽतीते सति वाद्यग्रहयोग५ सोऽधःपाणिरुच्तते । तन्मागधी नाम गीतं विपरीतयोजन (त?)या दृश्यते  । तद्यथा - दक्षिणे मार्गे प्रवृत्ता गीतिर्यथा चित्रे प्रयुज्यते , तथा पृथुला गीति (मना? र्मा) गधीत्युच्यते । वृत्तिमार्गे च चित्रे यदा प्रयुज्यते तदा सा मागधी सम्भाविताः शब्दाः वाद्याव्या(?) द्विः६ परिवृत्तक्रमेण योज्यते । यावद्दक्षिणा च चित्रो
---------
१ंां २.प्र ३.द ४.त्ति ५. गं ६. द्वीः ख पाठः
मार्गः प्रयुज्यते । आवापादिक्रमेणाष्टध चतुर्धा चेति । 

V१११.१ एवमुक्तं भवति । चित्रे च द्विमात्रा काला(?) सैव मागधी गीतिः सम्भावितया१ गीत्या प्रयुज्यते । तदा चतुर्मात्रिकवृत्तिशब्देनोच्यते । यदा तु चित्रे माग(धीं ? धी) गीतिः सम्भावितशब्दवाच्या द्विगुणिता अष्टमात्रा पृथुलशब्दवाच्या दक्षिणमार्गे भवति । त्रीत्रीन्निवृत्तिस्त्रिरावृत्तिमागधी यथा भवमीशं(?) पदं गीत्वा प्रथमे कलां निर्वाप्य विलम्बितलयेन यदा द्वितीया कला मध्यमवयेन(?) देवमित्यनेन वरदेन शर्वमिति सहितेन गायति । तत्रापि च तृतीयां कलाद्रुतवयेन देवशर्वपदद्वये वन्दे इति पदद्वयेन वन्दे इति प२दान्तरसहितेन निर्वाहयति कलावयव्यापातनाद्(?) । यथा - मामासासा । मासाषाम । ससमासम । मरिरिनि । 

V११२.१ मगधदेशोद्भवत्वान्मागधी । अन्न्ये तु निवृत्ता मागधीं पठन्ति अर्धमिति पद(स्स ? स) म्बन्ध्यर्धपादत्वेनार्धमागधी  । नच पादाद्यन्निवृत्तिनिवृत्तावर्धः प्रवृत्तिनिवृत्तिगः हेतुर्मन्तव्याः(?) । यतः सामवेदगीतप्रथादेव आवृत्तिष्वर्थ आद्रियत इति । तदुक्तं - य उ वृत्त्यात्मा जातवेदसमिति । अत्र वेदशब्दपर्यवसिता सम्भाविताः लघुप्रयाव(?)पृथुलाभूयस्त्वात् पदग्रामस्य पृथुलेत्युक्त्वा स्वरतानु इति मार्गलया 

V११३.१ मार्गत्रयो गीतिः विधौ लयः प्रयोगे नवधा द्रष्टव्याः(?) । लयसम्प्रयोगं दर्शयति - दक्षिणो मार्गो वार्त्तिको मार्गस्चित्रमार्ग इति । दक्षिणावृत्तौ लयत्रयं वार्तिकमार्गस्चित्रमार्गोध्रुवमार्गश्चेति वृत्तिमार्गप्रवृत्तौ लयत्रयं चित्रमार्गो ध्रुवमार्गः
---------------
१.यां २.पा ख. पाठः
शून्यमार्गश्चेति । चित्रे लयत्रयमेवं नवधा ल(य)योगास्चित्रादिमार्गेषु द्रष्टव्यः । इति गीत्यध्याये प्रतिपादितम् । यथाचित्र एको गुरुः एको लघुः एको द्रुतम् ।

१८३कख एकद्विगुणो वृत्तौ तद्द्विगुणे तथा
१८३गघ द्विमात्रा स्यात् कलाचित्रचतुर्मात्रा तु वार्तिके 
१८४कख अष्टमात्रा तु विद्वद्व्हिर्दक्षिणे समुदाहृता(ः ?)
वार्तिके दक्षिणे इति (?) ॥

V११४.१ इदानीमवसरप्राप्तानां जातीनामुद्देशमाह - तत्र जातयोऽष्टादशैव । एता(ः) समांशभेदेन शतं चत्वारिंशदधिकं सङ्ख्यया भवन्ति । तत्र स्वरे - 

१८४गघ साधारणकृतास्त्रिस्रो विज्ञेया जातयो बुधैः
१८५कख मध्यमा मत्सरी चैव तथा वै षड्जमध्यमा 
इति सप्त षड्जग्रामाश्रयाः म(?)

१८५गघ गान्धारी मध्यमा चैव पञ्चमी च तथैव हि
१८६कख गान्धारोदीच्यवा चैव तथा गान्धारपञ्चमी
१८६गघ ततश्च रक्तगान्धारी मध्यमोदीच्यवा तथा
१८७कख अङ्क्घ्री च नन्दयन्ती च क१र्मारव्यथ कैशिकी
१८७गघ एवमेकादश ज्ञेया मध्यमग्रामसंश्रयाः 

V११५.१
आभ्योऽष्टादशजातिभ्यः सप्तस्वराख्यास्चोक्ता द्विधा शुद्धा विकृताश्चेति । 
तत्र शुद्धा अन्यूनस्वरा स्वरवरग्राहा न्यासाश्च(?) एभ्यो लक्षणेभ्योऽन्यतमेन द्वाभ्यां बहुमिर्वा लक्षणैर्वाय्यापि तुष्टा(?) न्यासवर्जं विकृतसं२ज्ञा भवन्ति । 

--------------
१.का क पाठः २.वर्जा भ ख पाठः

V११६.१ तत्र न्यासवलमाह - 
तत्र न्यासविधौ यज्जातयः शुद्धाः तासु नामकारि(?) यो न्यासः नियमेन मन्द्रो 
भवति । विकृतासु च नामकविकारी(?) वा मन्द्रो भवतीत्यनियमः ।

V११७.१ तत्र शुद्धानां जातीनां शुद्धत्वं विकृतत्वं च रूपद्वयमस्ति । एकादशानां जातीनां विकृतोद्भवत्वाद् विकृतत्वमेव रूपं भवति । ननु शुद्धत्वमिति कुत एतत् । ता हि परस्परसंसर्गाज्जाय(ते ? न्ते) । तथाचाह भरतः -
Q२३.१कख "शुद्धा विकृताश्चैव हि समवायाज्जातयस्तु जायन्ते ।
Q२३.१गघ पुनरेवाशुद्धकृता भवन्य्तैकादशपरास्तु ॥

तासां यास्तु निवृत्ताः स्वरेष्वथांशेषु जातिषु च ।
जातीस्ता वक्ष्यामः संक्षेपेण क्रमेण चैवात्र ॥
षड्जाया मध्यमायाश्च संसर्गाट् षड्जमध्यमा ।
षड्जायाश्चैव गान्धार्या जायते षड्जकैशिकी ।
तयोरेव सधैवत्योः षड्जोदीच्यवा भवेत् ॥
गान्धार्या मध्यमायाश्च पञ्च(मीं ? भ्या)श्चैव सङ्करात् ।
सधैवतीनामासां तु मध्यमोदीच्यवा भवेत् ॥
आसां स्याद् रक्तगन्धारी नैषादी चेच्चतुर्थिका  ।
आर्शभ्यास्तु भवेद्यन्ध्री२ गान्धार्याश्चैव सङ्करात् ॥
अनयोस्तु सपञ्चम्योर्नन्दयन्ती प्रजायते ।
सन्निषादा स्वगान्धार्याः कुर्युः कार्मारवीमिमामम् ॥
----------
१.वृ क पाठः २.ध्री ख पाठः

जातयः 

गान्धारी पञ्चमी चैव तथा गान्धारपञ्चमी ।
आर्षभी धैवती वर्ज्याः कैशिकीमीति सङ्कराः(?) ॥"

इदानीं विभागमाहुः -

१८८कख चतस्रो जातयो नित्यं ज्ञेयाः सप्त स्वरा बुधैः ।
१८८गघ चतस्रः षट्स्वराश्चाद्या दश पञ्चस्वराः स्मृताः 

एतदेवं स्फुटं भवति ।

१८९कख मध्यमोदीच्यवा चैव तथा वै षड्जकैशिकी 
१८९गघ कार्मारवी च सम्पूर्णा तथा गान्धारपञ्चमी 
१९०कख षड्(ज्य ? जा१)न्ध्री नन्दयन्ती च गान्धारोदीच्यवा तथा
१९०गघ चतस्रः षट्स्वरा ह्येता ज्ञेताः पञ्चस्वरा(॒) परा 
१९१कख निषादवत्यार्षभी + धैवती षड्जमध्यमा
१९१गघ षड्जोदीच्यवती चैव पञ्चषड्जा त्रिधा स्मृताः(?)
१९२कख गान्धारी रक्तगान्धारी मध्यमा पञ्चमी तथा 
१९२गघ कैशिकी चेति विज्ञेयाः पञ्चैते मध्यमाश्रिताः
१९३कख षड्जग्रामे तु विज्ञेया गान्धारोदीच्यवा बुधैः
१९३गघ अन्ध्री च नन्दयन्ती च मध्यमग्रामस्ंश्रया(ः)
१९४कख एवमेता बुधैर्ज्ञेया द्वौ ग्रामी को(?) विभागतः
१९४गघ यास्ता(ः) सप्त स्वरा ज्ञेया याश्चैताः षट्स्वराः स्मृताः  
१९५कख क्वचित् षाडवितास्तास्तु पक्षे चौडव्तीकृताः

V ११८.१
इदानीं लक्षणमाह  - श्रुतिग्रहस्वरादिसमूहज्जायन्ते जातयः । अतो जातय इत्युच्यन्ते । यस्माज्जायते रसप्रतीतिरारभ्यत इति जा(यतः ? तयः) । अथवा सकलस्य रागादे
------------
१.ज ख पाठः

र्जन्महेत्वाज्जातय इति । यद्वा जातय इति जातयः । यथा नराणां ब्राह्मणत्वादयो जातयः । शुद्धाश्च विकृ१ताश्चैवमत्रापि जातिलक्षणम् ।

इदानीं विशेषलक्षणमाह - 

१९५गघ ग्रहांशौ तारमन्द्रौ च षडवौड२विते तथा
१९६कख अल्पत्वं च बहुत्वं च न्यास्योऽपन्यास एव च 
१९६गघज्ञेयते तद्यथा जाति देशजातीयलक्षणा(?) 
१९७कख लक्षणं दशकस्यास्य संक्षेपेणाभिधीयते 

V११९.१
तत्रादौ जात्यादिप्रयोगो गृह्यते येनासौ ग्रहः । अंशवतत्रीषष्टिभेदभिन्नो बोद्धव्यः । (तद्वे ? नन्वे) ग्रहांशयोः को भेदः । उच्यते । अंसो वाद्येव परं ग्रहस्तु वाद्यादिभेदभिन्नश्चतुर्विधः । यद्वा प्रधानाप्रधानकृतो भेदः । ग्रहो ह्यपरधानभूतः । ननु कथमंशस्यैव प्राधान्यमुच्यते । रागजनकत्वाद् व्यापकत्वाच्चांशस्यैव प्राधान्यम् । यद्यपि सर्वजातीनां ग्रहोऽंशश्च प्रधानीभूत इत्य्युत्सर्गसिद्धम् ।  तथापि संवाद्यनुवादिविधिना चोद्यते । तथापि प्रथमचतुर्तषष्ठगीतेषु मन्द्रप्रकृतो विशेषः नियमः प्रथमे संवादित्वात् कथं भेदप्रयोगः । षड्ज्ŏदीच्यवामध्यमोदीच्यवारक्तगान्धारीगान्धारीपञ्चमीनां तु ग्रहा विवादि द्वेन(?) ग्रहस्तु आर्षभी धैवती निषादवत्यन्ध्री षड्जकैशिकी षड्जमध्यमा चेति । एवं नन्दयन्त्यामिति ग्रहविधि(ः) । तथाचाह
------
१.प्र २र्̤उम्बिते ख 

भरतः - 
Q२४.१कख "ग्रहस्तु सर्वजातीनामंशवत् परिकीर्तितः।
Q२४.१गघ यत्प्रवृत्तो भवेद् गेयः सोऽम्शो ग्रहविकल्पकः"

V१२०.१ अ(थवांशख ? थांशः क) थ्यते । अंशविभागः स दशविधो 
बोद्धव्यः । यस्मिन्नंशे क्रियमाणे रागाभिव्यक्ति(भि ?)र्भवति सोऽम्शः । 
यस्मा१द्वारस्य गीतः प्रवर्तते । न ग्रहस्वरितः (स्वं ? स्वां) शो द्वितीया 
तारमन्द्राभिव्यक्तिहेतुः स्वांशस्तृतीयः पञ्चमस्वरमारोहणं तारं 
कदाचित् षष्ठस्वरारोहणं पितारः । तथा गान्धार्याः षड्जस्तारः । 
निधनि२ध सा । तथा तारनियामकमन्द्रनियामकस्वरोऽप्३यंशसप्तस्वरावरोहणा । 
यथा मन्द्रांशायाः षड्जासं४स्थाने - सासासाधा इति । 
यश्च बहुप्रयोगतरः । सोऽप्यंशः । यो रागस्य विषयत्वेनावस्थितः स्वरः सोऽप्यंशः । 

V१२१.१ यत्र गीतमिति समाप्तिरिति सम्भाव्यते सोऽपन्यासः । सर्वविदारी मध्यमो भवति । 
सा च विदारी द्विविधा - गीतविदारी पदविदारी चेति । ननु विदारीशब्देन किमुच्यते ।
पादानां स्यादित्यादि विदारणा खण्डनमिति यावत्  । गीतकेशी गीतखण्डमिति यावत् ।

V१२२.१ इदानीं स न्यासोऽभिधीयते । तत्र प्रथम५विदारी मध्ये न्यासस्वराः प्रयुक्ताः । 
संन्यासः सोऽभिधीयते । अंशस्य विवादी यथा न भवति प्रथमविदार्यान्तेर्यादि 
प्रवृत्तो यदा भवति, तदासौ सन्यास इत्यर्थः ।

V १२३.१ इदानीं विन्यासमाह - एष एव तु संन्यासस्वरः पदान्ते विन्यस्ते तदा विन्यासः । अत्च्व तदुक्तं भवति । 
----------
१.ला २ंो ३.प्यां ४.स्र ५ मवि ख पाठः
 
अंशस्य संवादी वा भवति यस्मा१च्चैव प्रवर्तते
१९७गघ नेता च तारमन्द्राणां यो,अत्यर्थमुपलभ्यते
१९८कख ग्रहापन्यासविन्याससंन्याससन्यासगोचरः
अनुवृत्तश्च यश्चेह सोऽम्शः स्या(दं? द् द) शलक्ष(णं ? ण) ॥ इति  ।

V१२४.१ इदानीं तारलक्षणमुच्यते  - बलवति च श्रुतिकेऽंशे दुर्वेर्बलेशांशो 
अंशस्वरप्रयोगादारभ्य पञ्चस्वरपरा तारगतिः । किमुक्तं भवति । 
पञ्चमस्वरमारोहणं तार इति चतुस्वरमारोहणम् तार इति । नन्दयन्ती यथा 
- सासरिगसा । इति पञ्चमांशत्वात् षड्जस्तारः । आपञ्चमादिति योजना । 
अष्टम्या विदार्या बोद्धव्यः । पञ्चस्वरं यावत् तारविधिं यथा गान्धार्या  - निधनिसा । 
इति । बाशब्दात् सप्तस्वरस्यापि ताṟअता भवति । चतुर्धा तार(गी ? ग) तिः तथाचाह भरतः -
Q२५.१कख "अंशात् तार(गीतं? गतिं) विद्यादाचतुर्थ२स्वरादिभिः ।
Q२५.१गघ आपञ्चमात् सप्तमाद्वा नातः परमिहेष्यते ॥"

V१२५.१ इदानीं म(न्द ? न्द्र) मुच्यते - मृदुस्वरो म(न्दः ? न्द्रः) । सा च मन्द्रगस्त्रिधा - 
(आं ? अं)शपरा न्यासपरा३ (तप ? तत्प) रा चेति । अंशस्वरस्य४ परो (यः५ स्या ? यस्मा)
दिति बहुव्रीहौ तस्मात् पूर्वो यः स्वरः स मन्द्रः । यथा धैवत्यां - धाध निधम 
पधमा । मामामा । एवमत्रा६पि न्यासस्वर इति । न्यासस्वरोऽप्येवंमेव ।
----------
१.स्नात्यैव २. र्थ ३.रा चे ४.स्या ५.रा ६. त्र वि ७.व । ख पाठः 

V१२६.१ इदानीं षाडवमुच्यते - षट्स्वरं१ षाडवमिति । 
चतुर्दशजातिविषयत्वाच्चतुर्दशवि(धि ? ध)ः । चतसृणां जातीनां नित्यसम्पूर्णत्वे२
(न) तदभावाज्जात्यंशभेदेन तु सप्तचत्वारिंशत्प्रकारं च तद् भवति । 
तथाचाह भरतः - षट्स्वरं षाड(व ? वं) चतुर्दशविधं 
सप्तचत्वारिंशत्प्रकारं पूर्वोक्तं लक्षणम्चास्य । 

V१२७.१ चतुःस्वरात् प्रभृति न मार्गः शबरपुलिन्गकाम्बोजवङ्गा(ङ्ग) 
किरातबाह्ली(कर ? का)न्ध्रद्रविडवनादिषु प्रयुज्यते । 
अनियमाच्च्रुतिमात्रमत्र ग्राह्यम् । यदा चतुःस्वरप्रयो(ग? गोऽपि) 
स्वरान्तर (महा ? माह) अवकृष्टध्रुवास्वेव वेदितव्यम् । (तम३ ?) ध्रुवं मध्ये४ ये 
स्फुटीकरिष्यामः । तथाचाह भरतः - 

Q२६.१कख "षट्स्वरस्य प्रयोगोऽस्ति तथा पञ्चस्वरस्य च ।
Q२६.१गघ चतुःस्वरप्रयोगोऽपु ह्यवकृष्टध्रुवास्वपि ॥"

अपिशब्दादत्र संपूर्णोऽपि ग्राह्यः । एवं चतुर्विधः प्रयोगो ध्रुवाणां वेदितव्यः ।

V१२८.१ इदानीमल्पत्वबहु (ते ? त्वे) ब्रवीमी । तत्र स्वराणामल्पशः प्रयोगादल्पत्वं, 
बहुशः प्रयोगाद् बहुत्वम् । तथाल्पत्वं बहुत्वं च द्विविधं सन्यासादिगतो भवेत् 
तदान्तरमार्गेणोति । अन्तरमार्गस्य लक्षणम् यथा जातिषु क्वचिद्वा अनंशो 
विनाल्पः । तथाच कार्मारव्यां गान्धारस्य सर्वम्बरसङ्गत्या बहुत्वेनान्तरमार्गप्रयोग इति वक्ष्यते ।गान्धारस्य विशेषेण सर्वतो गमनं  भवेत् ।
----------
१.श ख पाठः २.त्व क पाठ ३अǣ ४.ध्य ख पाठः
इति  । 

V.१२९ 
अथ बहुत्वमाह - अल्पवदत्र बहुत्वमिति । लक्ष्येदिति विशेषः । कथमित्याः - 
बलवदबलवतोर्विपर्यासो बलमल्पं तद्विपर्यये बलवद्तिति बलवल्लक्षणं 
गम्यते एव । अत एवाह - 

१९९गघ जातिस्वरैस्तु नित्यं (स्यात्) जात्यल्प (त्व ? त्वं) द्वि विधं ? धा) च तत् 
२००कख सञ्चा(रस्य ? रोऽम्श) बलस्थानमल्पत्वं दुर्बलासु च 
२००गघ द्विविधान्तरमार्गस्तु जातीनां व्यक्तिकार(कम् ? कः) 

V.१३० इदानीं न्यासमाह - न्यस्यते त्यज्यते यस्मिन् येन वा गीतं तन्न्यास इति । स न्यासः स 
एकविंशतिसंख्य इति तद्यथा षड्जाया एकषड्जो नाम न्यासः । एवमादि 
बोद्धव्यम् । अष्टादशजातिषु च न्यासाः । अंशः समाप्तौ कार्य इत्यर्थः ।

V १३१ इदानीमपन्यासमाह - अपन्यासोऽन्ते प्रयोगसमाप्तौ अपन्यासः । सच 
षट्पञ्चाशद्भेदभिन्नो भवति गीतानां मध्ये बोद्धव्यः । यथा यत्र समाप्तमिव 
गीतं प्रतिभासते सोऽपन्यासः स च विदारीमध्ये भवति । गीतशरीरमध्यम 
इत्यर्थः यथा षड्जग्रामे षड्जमध्यायाः सप्तापन्यासा भव(ति ? न्ति) 
षड्जोदीच्यवायाश्च द्वौ पञ्चानां प्रत्येकं त्रयं त्रयमिति चतुर्विंशतिः 
शेषास्तु मध्यमग्रामे । तथाचाः भरताः - 

Q२७.१कख "न्यासो ह्यंशसमाप्तौ स चैकविंशतिविधो विधातव्यः ।
Q२७.१गघ षट्पञ्चाशत्संख्यो भवेदपन्याससंज्ञोऽसौ ॥"

दशविधजातिलक्षणमिति ।

२०१कख अंशाः स्युः पञ्चषड्जायां निषादर्शभवर्जिताः 
२०१गघ अपन्यासस्तु गान्धा(रा? रः) पञ्चमश्चाथ स (ङ्ग)तिः 
२०२कख षड्जगान्धारयोस्तु स्याद् षड्जधैवतयोस्तथा
२०२गघ षाडवं च निषादे स्याद् नास्यादौडुवितं भवेत्
२०३कख आर्शभ्यास्तु स्मृता अंशा निषार्षभधैवताः
२०३गघ षड्जपञ्चमहीने च षाडवोरद्विते क्रमात्
२०४कख धैवत्यां गुरुभिः प्रोक्तवंशावृषभधैवतौ
२०४गघ समध्यमा (चवना ? वपन्या)सौ प्रागु(प्ता ? क्तौ) हीनतोत्क्रमात्
२०५कख अंशो निषादवत्यास्तु द्विश्रुती सर्षभौ स्मृतौ
२०५गघ धैवतीवद् भवेच्चेषो न्यासो नामकृदेव तु 
२०६कख अंशास्तु षड्जकैशि(क्यात् ? क्यो) षड्जगान्धारपञ्चमाः 
२०६गघ सनिषादा अगान्धारा अपन्यासत एव तु
२०७कख ऋषभोऽल्पप्रयोगः चेयमाचार्यः परिकीर्ति(ताः ? ता)
२०७गघ नित्यं पूर्नस्वरा चेयमार्चार्यैः परिकीर्ति(ताः ? ता)
२०८कख स्यात् षड्जोदिच्यवत्यंशैः षड्जमध्यमधैवतैः
२०८गघ सनिषादैरपन्यासौ विज्ञेयै षड्जधैवतैः 
२०९कख ऋशभेण विहीने (यां ? यं) द्वाभ्यां द्वे पञ्चमेन च
२०९गघ मन्द्रगान्धारभूयस्त्वमपन्यासस्तु मध्य(मा मः)
२१०कख सर्वांशान्नामकृन्न्यासां विज्ञेया षड्जमध्यमा
२१०गघ स्यातां निषादगान्धारावस्यां गीतत्वकारिणौ 

२११कख यथेष्टं स्यात्तु सञ्चारो यथा ग्रामाविरोधकृत्
२११गघ षड्जग्रामे तु सप्तै(नाः ? ताः) शेषा मध्यमजातयः
२१२कख गान्धार्या द्वावनंशौ च (गेआ ? हेया) वृषभधैवतौ 
२१२गघ क्रमान्नित्यं त्वपन्यासौ विज्ञेयौ षड्जपञ्चमौ 
२१३कख धैवतादृषभं गच्चेदे(व ? वं) स्यात् सर्वमेव तत्
२१३गघ प्रायशो रक्तगान्धार्यामपन्यासस्तु मध्य(मा ? म) 
२१४कख बहुप्रयोगः कर्तव्यो धैवतोऽथ निषादवान्
२१४गघ षड्(जं ? ज) गान्धारसञ्चा( र ? रः) का (र्यं चा ?र्यश्चा) स्याः 

प्रयोक्तृभिः 
२१५कख गान्धारोदीच्यवा प्रा(य?यः) षड्ज्ŏदीच्यवतीसमा
२१५गघ षड्जश्च मध्यमश्चांशो न चौडुविभमिष्यते
२१६कख पञ्चांशा मध्यमायास्तु ज्ञेया द्विश्रुतिवर्जिताः
२१६गघ क्रमात् ताभ्यां च हीनत्वं बहुलौ षड्जमध्य(मौ)
२१७कख गान्धारोदीच्यवा (तुल्या मध्यमोदीच्यवा) भवेत्
२१७गघ साप्तस्वर्यं तु नित्यं स्यादन्यादंशस्तु पञ्चमः
२१८कख पञ्चम्यां गुरुभिः प्रोक्तावंशावृषभधैवतौ
२१८गघ समध्यमावपन्यासौ मध्यमर्षभसङ्गतिः
२१९कख षड्जमध्यमगान्धारा अल्पाश्च परिकीर्तिताः
२१९गघ स्यान्निषादाच्च गान्धारो अल्पस्य परिकीर्तिता
२२०कख स्यान्निषादाच्च +++मध्यमा चच्च हीनता(?)
२२०गघ ज्ञेयो गान्धारपञ्चभ्याः पञ्चमोऽंशः प्रयोक्तृभिः
२२१कख सर्षभः स्यादपन्यासो (नासौ? न्यासो) गान्धार इष्यते 
२२१गघ गान्धार(मथ) पञ्चम्या स्वत्सञ्चारादि कीर्तितः
२२२कख तदस्यामपि विज्ञेयं किन्तु पूर्णस्वरा सदा
२२२गघ अन्ध्र्यामनंशा विज्ञेयाः षड्जमध्यमधैवताः
२२३कख षादवम् षड्जहीनं स्यान्न्यासो गान्धार इष्यते
२२३गघ नन्दयन्त्यामपन्यासो ज्ञेयौ मध्यमपञ्चमौ
२२४कख ग्रहो न्यासश्च गान्धारः पञ्चमोऽम्शः प्रकीर्तितः
२२४गघ अन्ध्रीवत् षोडवं ज्ञेयमनोडुबितमेव च
२२५कख स्यान्म(न्द ? न्द्र) र्षभसञ्चारो लङ्घनीयश्च स क्वचित्
२२५गघ कार्मारव्यामनंशास्तु षड्जगान्धारमध्यमाः
२२६कख पूर्णता पञ्चमो न्यासो गान्धारगमनं बहु
२२६गघ कैशिक्यामृषभोऽनंशो न्यासौ तु द्विश्रुतौ++
२२७कख ऋषभो धैवत्श्चैव हेयावस्या यथाक्रमम्
२२७गघ पञ्चमोऽपि भ(व ? वे)न्या )(सौ ? सो) निषादेऽंशेऽथ धैवते
२२८कख ऋषभः स्यादपन्यासः कैश्चिदुक्तोऽम्शवत् तथा

अस्मद्गुरुमते ऋषभस्तावदपन्यासो भवति । अनंशत्वात् ।
२२८गघ कैश्चित् पुनः अंश्वद् (वृ ? ऋ) षभोऽप्यपन्या(सवी ? सः स्वी) कृ(तम् ? 
तः) 
२२९कख पञ्चमो बलवा न स्यात् स्यान्निषादस्तथैव च
२२९गघ इति त्रिषष्टीरंशा ये तेषामेकैकशोऽम्शताम्
२३०कख प्रकल्प्यापोद्यते प्राप्तषाडवोडुबितं क्वचित् अषाडवा एते ।
२३०गघ त्रिष्टष्टिरंशा एतेषामंशो न जाति+++++
२३१कख अंशवच्च ग्रहा ज्ञेया सर्वासामेव नित्यशः
२३१गघ सर्वासामेव जातीनां त्रि(षष्टि ? जाति) स्तु गणः स्मृतः
२३२कख लक्षणात् स च विज्ञेयो वर्धमानः स्वरो बुधैः
२३२गघ एकस्वरो द्विस्वरश्च त्रिस्वरश्च चतुःस्वरः
२३३कख पञ्चस्वरश्चतुर्धा च एकधा सप्त षट्स्वराः

V १३३.१ अस्यार्थः - त्रिजातिको (गु ? ग) ण इति संख्या निदर्शनं तत्रैकस्वरांशास्तिस्रः 

मध्यमोदीच्यवा गान्धारपञ्चमी नन्दयन्ती चेति । पपप । द्विस्वरांशास्तिस्रः । 

धैवती गान्धारोदीच्यवा पञ्चमी चेति । धरि सम परि । त्रिस्वरांशास्तिस्रः आर्षभी 

नैषादी षड्जकैशिकी चेति । धनिसागरिससग(पः ? पाः) । चतुःस्वरांशास्तिस्रः । षड्जोदीच्यव(त्य ? त्या)न्ध्री कार्मारवी चेति । समधनि निगपनि । 

परिधनि । पञ्चस्वरांशाश्चतस्रः । षड् (ज ? जा) गान्धारी रक्तगान्धारी मध्यमा चेति । सगमपध । सगमपनि सरिगमपध । सरिमपध । षड्जस्वरांशा कैशिकी । 

समगपधनि । सप्तस्वरांशा षड्जमध्यमा । सरिगमपधनि । एवं 

तिषष्टिरंशा व्याख्याताः ।

२३३गघ मध्यमोदीच्यवा चैव तथा गान्धारपञ्चमी
२३४कख नन्दयन्ती च तिस्रस्ताः पञ्चमैकांशतः स्मृताः
२३४गघ धैवती पञ्चमी चैव ज्ञेये धरिदिवांशके 
२३५कख गान्धारोदीच्यवा द्वाभ्यां मध्या (म)र्षभ इत्यपि
२३५गघ आर्षभ्यां (तिरि ? निरि) धा अंशा नैषाद्यां निरिगास्त्रयः
२३६कख सग(लाः ? पाः) षड्जकैशिक्यां त्रिस्रस्त्र्यंशाः प्रकीर्तिताः
२३६गघ चतुरंशा समनिधैः षड्जोदीच्यवती स्मृता
२३७कख कार्मारवी रिपनिधैरान्ध्री (च?) गपनिपैरपि
२३७गघ सगमपधैः षाड्जी स्यात् पञ्चभिश्चापि मध्यमा
२३८कख सरिमपधैरंशैः स्याद् गान्धारी सगमानिपैः
२३८गघ तद्वत् स्याद् रक्तगान्धारी पूर्वैरंशैश्च पञ्चभिः
२३९कख कैशिक्येक षडंशा स्यात् सगमपनिधैः स्मृता
२३९गघ षड्जमध्यमा तु सप्तांशा त्रिषष्टिरिति तेऽंशकाः
२४०कख अंशकै(ग्रा ? र्ग्रा) मरागांस्तु जनयन्तीति जातयः
२४०गघ आसां प्रयोगकाले तु युग्मायुग्माश्रयो विधिः
२४१कख मार्गैस्त्रिभिः प्रयोक्तव्यास्चित्रवार्तिकदक्षिणैः
२४१गघ पूर्वरङ्गे कृते शुद्धा कर्तव्यं गीतयोक्तृभिः 
२४२कख आसारिकं वाणिकादि ततो वात्यंशकल्पनम् 
२४२गघ स्वराणामङ्गहारैर्यत एवासारितक्रमैः
२४३कख वर्धमानपदे तासां कार्या स्यादंशकल्पना
२४३गघ इति त्रिषष्टिरंशा ये तेषामेकैकशोऽम्शाताम् 
२४४कख प्रकल्यापोद्यते प्राप्तं षाड(वो ? वौ) डुबितं क्वचित् 

V १३४.१ इति त्रिषष्टिरंशा ये उक्तास्तेषां मध्ये ये अनंशास्तेषामनंशानां जातिविषये अपोद्यते । एतदेव स्फुटयति 

२४४गघ अषाडबा निषादेऽम्शे सनि स्यात् षड्जमध्यमा
२४५कख गान्धारे च यतो लोपो नांशसंवादिनो म(तं ? तः)

V १३५.१ अस्यार्थः - निषादेऽंशे षड्जमध्या जातिरषाडवा । कथम् ।
षड्जग्रामे षडवविधौ गान्धारस्य लोपो नास्ति । 
गान्धारेऽम्शे निषादेन अषाडवा बोद्धव्याः । अंश(सञ्चा ? संवा)
दिनो लोपाभावात् ।

२४५गघ कैशिकी रक्तगान्धारी गान्धारी चैव पञ्चमे
२४६कख तथा षाडवा तु गान्धारे धैवता तदादीच्यवा
निश ऋषभेण षड्जोदीच्यवा..शे अषाडवा विज्ञेया ।

V १३६.१ इदानीमौडुबितं प्राप्तमपोद्यते -

२४६गघ गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः
२४७कख सनिषादाः स्मृता अंश अनौडुबितभागिनः

V १३७.१ एतच्चासङ्गतम् । औडुबितप्राप्तेरभावात् । सत्यमुक्तम् । औडुबितनिषेढवचनानि विधेश्चाप्राप्तमेवौडुबितत्वं
निषिध्यते । 

२४७गघ षड्जमध्यमजातौ तु गान्धारोऽथ निषादवान्
२४८कख कैशिक्यामथ पञ्चम्यां क्रमा वृषभधैवतौ

गान्धारोऽथ निषादवानौडुबितभागी । कैशिक्यामृषभः पञ्चम्यां धैवतश्चानौडुबितभागी स्यात् । तत्र प्राप्तमेवानौडुबितत्वं निषिध्यते अंशता चाप्राप्तैव कल्प्यते ।

V १३८.१ इदानीं ये अपवादीभूता स्वराः षाडवौडुबितविधौ तानुदस्यति ।
२४८गघ योज्याः सप्ताधिकाश्चैव चत्वारिंशच्च षाडवे

V १३९.१ अस्यार्थः - षाडवे विधौ क्रियमाणे सप्ताधिकश्चैवं चत्वारिंशच्च षाडवे अस्यार्थविधौ क्रियमाणे सप्ताधिकाश्चत्वारिंशदंशका अपवादस्वररहिता योजनीया इत्यर्थः । चतसृणां जातीनां नित्यसम्पूर्णानां नवांशाः पातनीयाः त्रिषष्टिमध्ये । तद्यथा - रिपधनिपसग । पध । एषु नवांशेषु पातितेषु चतुष्पञ्चाशदंश वशिष्यन्ते । तत्रापि षड्जमध्यमा षड्जोदीच्यवा कैशिकी गान्धारी रक्तगान्धारी धैवती आसां षड्जातीनां सप्तांशाः पातनीयाः । तेषु सप्तांशेषु पातितेषु सप्तचत्वारिंशदंशा भवन्ति । तद्यथा -

२४९कख मध्यमोदीच्यवायां वा तथा गान्धारपञ्चमि
२४९गघ कार्मारवी रिपनिधैः सगपैः षड्जकैशिकी

सगमपधैः स्मृता +++++++++
नन्दयन्ती भवेत् पागा गान्धारोदीच्यवासमा

V १४०.१ तेषु चत्वारिंशदंशेषूक्तपरैः षाडबविधिः कर्तव्यः
इदानीमौडुबितविधौ येषु अनपवादिनः स्वरास्तान् दर्शयति 
२५०गघ तथापवादनिर्मुक्तस्त्रिंशदौडुबिते भवेत्

V १४१.१ अस्यार्थः - तथा तेन प्रकारेन अपवादनिर्मुक्तस्त्रिंशत्प्रका(रं ? रो) बोद्ध(व्यम् ? व्यः) । तद्यथा - त्रिषष्टिमध्ये नित्यसंपूर्णानां चतसृणां जातीनां नवांशाः पातनीयाः । तेषु पातितेषु चतुष्पञ्चाशदंशास्तत्रावशिष(स्त ?न्ते) । तत्रापि चतुष्पञ्चाशन्मधे चतसृणां जातीनां नित्यसंपूर्णषाडबानां द्वादश सप्तांशाः पातनीयाः । तेषु पातितेषु द्विचत्वारिंशदंशेषूक्तस्वरैरौडुबितविधिर्भवतीति । 
तथाचाह भरतः - 
Q२८.१कख "षट्स्वरा सप्तमे त्वंशे नेष्यते षड्जमध्यमा ।
Q२८.१गघ संवाद्यलोपाद् गान्धारे तद्वद् धैवतहीनता ॥
Q२८.२कख गान्धारीरक्तगान्धारीकैशिकीनं च पञ्चमः ।
Q२८.२गघ षड्जायाश्चैव गान्धारमंशो मध्यमषाडबौ ॥
Q२८.३कख षाडवं धैवते नास्ति षड्ज्ŏदीच्यंशके द्विजाः ।
Q२८.३कख गान्धारीरक्तगान्धार्योः षड्जमध्यमपञ्चमाः ॥
Q२८.४कख सप्तमश्चैव विज्ञेयो यैः स्वनौडुबितं भवेत् ।
Q२८.४कख द्वौ षड्जमध्यमांशौ तु गान्धारः स निषादवान्॥
Q२८.५कख ऋषभश्चैव पञ्चम्यां कैशिक्यां धैवतस्तथा ।
Q२८.५गघ एवं च द्वादशैवैते व(र्गाः ? र्ज्याः) पञ्चस्वरे सदा ।
Q२८.६कख सर्वस्वराणां नाशोऽत्र विहितः सर्वजातिषु ।
Q२८.६गघ न मध्यमस्य लोपो हि कर्तव्यस्तु कदाचन ॥
Q२८.७कख सर्वस्वराणां प्रवर अनाशी मध्यमस्वरः ।
Q२८.७गघ गान्धर्वकल्पो विहितः सामस्वापि च मध्यमः ॥"

V १४२.१ इदानीं षाडबौडुबितविधिस्तु उत्सर्गापवादविधिस्तु विकृतास्वेव जातिषु बोद्धव्यः । 
ननु शुद्धासु जातिषु तासां शुद्धानामन्यजात्युत्पत्तौ मूलत्वाद् एता एव शुद्धा विकृता भवन्ति । 
कथं - 

२५१कख तद्ग्रहा तदपन्यासा तदंशा च यदा भवेत् 
२५१गघ मन्द्रन्यासा च पूर्णा च शुधा जातिस्तथोच्यते

इति शुद्धलक्षणमुक्तम् ।

V १४३.१ 
एतेन लक्षणेनैकेन द्वाभ्यां वा विकृता भवन्ति । पुनर्न्यासवर्ज्यामिति । 
न्यासेन विकृतं च नास्ति न्यासवर्ज्यमिति वचनात् । 

V १४४.१ विकृता षाड्जी(द्वि)विधा नित्यसम्पूर्णा षाडवचेति । नामांशेन षाड्जी शुद्धविकृता 
षाड्जी गान्धारांशेन सम्पूर्णा अंशसंवाद्यलोपात् । मध्यमपञ्चमधैवतांशे 
निषादेन षाडबा 

V १४५.१ यथा तु षाड्जी शुद्धा गीयते तदा पञ्चमस्यांशत्वेन शेषाणां 
स्वराणां बहुत्वम् । बहुत्वेन षड्जपञ्चमयोस्त्रिंशदंशा भवन्ति । षड्भिश्चतुर्दशविधो भवति  । गान्धारश्चैकोनविंशतिविधः । मध्यम्श्चतुर्धशविधः । मिलित्वा सप्तस्वरा अष्टाविंशत्याधिकं शतं भवतीत्यलम् ॥

V१४६.१ इदानीं दशलक्षणमध्ये यद्यस्यां जातौ भवति तत् तस्या दर्शयति । 

तत्र षाड्ज्याः षड्जग्रामसम्बन्धाया अंशा ग्रहाः पञ्च भवन्ति  । 
तद्यथा षड्जगान्धारमध्यमपञ्चमधैवता (ग्रहाः अंशाः ?) 
ग्रहा अंशाश्च । गान्धारपञ्चमावपन्या(सो ? सौ) । 
निषादहीना षाडबो षड्जो न्यासः । षड्जगान्धारयोः षड्जधैवतयोश्च सङ्गतिः ।
गान्धारोऽतिवेलापादित्वात् परस्परगमनं च सङ्गतिः । 
गान्धारोऽतिवेलापादित्वात् परस्परगमणं
च सङ्गतिः । षड्जधैवतोश्च औडुबितत्वं च सर्वथैव नास्ति । 
सम्पूर्णा षाडबा । 
यदा सम्पूर्णा गीत्यते तदा ऋषभपञ्चमयोर्निषादपञ्चमयोरल्पत्वं कार्यम् । 
कुतः - 
२९.१अब्॒ यं विना हीनता यस्यां स्यात् चेत्तस्यां तु सोऽल्पकः
इति वचनात् । 

य(था ? दा) षाडबा गीयते तदा ऋषभस्याल्पत्वं कार्यं । शेषाणां स्वराणां बहुत्वम् । 

V १४७.१ अस्याश्च दशांशकाः । तद्यथा । शुद्धा विकृताश्च पञ्च पूर्णाश्चत्वारः षाडबाः 
गान्धारेऽम्शे षाडबापवादात् तेनांशाः स्फुटयन्ते 
तेन लिखिताः षड्जांशेन शुद्धत्वं षड्जश्चापन्यासः 
संपूर्णावस्थायामष्टविधलक्षणम् । 
षाडबावस्थायां न(य ? व) विधत्वम् । 
शुद्धं परित्यज्य चतुर्विधा षाड्जी विकृता बोद्धव्या । 
अस्याश्च धैवतादिमूर्छना पञ्चपाणिश्चित्रे मार्गे मागधी 
गीतिः पञ्चपाणिद्विकलः वार्तिकमार्गे सम्भाविता 
गीतिश्चतुष्कलः पञ्चपाणिः दक्षिणे मार्गे पृथुला गीतिः । 
अनेन क्रमेण सर्वासां जातीनां बोद्धव्यम् । 
वीररौद्राद्भुता रसाः कार्याः । प्रथमोपक्षेपगे 
ध्रुवागाने विनियोगः ॥

आर्षभी शुद्धा गीयते । 
V १४८.१ निषादपञ्चमाल्पत्वं ऋषभान्धारमध्यमपञ्चमधैवतनिषादाः 
षड्जषड्जः मिलित्वा...षभ्याम् । ऋषभधैवतनिषादाः ग्रहाः स्वयमेवांशाः । त एवापन्यासाः । 
पञ्चस्वरपरसतारः निषादः ऋषभो न्यासः न्यासपरस्तत्परो वामन्द्रः षड्जधैवतपञ्चमः 
ऋषभगान्धारयोश्च सङ्गतिः । षड्जहीनं षाडबम् । षड्जपञ्चमहीनम् औडुबितम् । 
पूर्णावस्थायां षड्जगान्धारपञ्चमानामल्पत्वम् । औडुबि गान्धारमध्यमयोरल्पत्वं 
शेषाणां च बहुत्वम् । 

V १४९.१ दशविधत्वं चास्याः दशांशाः शुद्धविकृताः पूर्णास्त्रयः । पञ्चमादिमूर्छना चच्चत्पुटस्तालः । एककलेन चित्रेण मागधी । द्विकलेन वार्तिकेन सम्भाविता । 
चतुष्कलेन दक्षिणेन पृथुला मात्रा ॥ दक्षिणे कला । वीररौद्राद्भुता रसाः । 
प्रथमप्रेक्षणके नैष्क्ṟअमिकी ध्रु(वं ? वा) गाने विनियोगः । 

V१५०.१ धैवतादिमूर्चना धैव(न्या ? त्या) धैवतं महौ ग्रहौ अंशौ च । शुद्धावस्थायां 
धैवत्येव न्यासः । विकृतावस्थायां च धैवत्र्षभमध्यमा अपन्यासाः । धैवतो न्यासः । 
पञ्चमहीनं षाडबं । पञ्चमषड्जहीनं षाडबं पञ्चमषड्जहीनमौडुबितम् । 
तावेव षड्जपञ्चमस्वरौ तु बलौ कर्त(व्य ? व्यौ) । क्वचिल्लङ्घनीयौ । पञ्चस्वरप्रस्तारः । 
न्यासपरस्तत्परो वा मन्द्रः । 

V१५१.१ पूर्णावस्थायां षड्जगान्धारमध्यमपञ्चमनिषादानामल्पत्वं 
पञ्चमषड्जवर्जं च । एतेषामौ(डु)बिते अल्पत्वम् । शेषाणां च बहुत्वम् । विविधत्वमस्याः 
सप्तांशकाः शुद्धा विकृताः पूर्णा ऋषभादिमूर्चना तालः पञ्चपाणिः एककलश्चित्रो मार्गः 
मागधी गीतिः । द्विकलो (वा)र्तिकः सम्भाविता । चतुष्कलो दक्षिणः पृथुला कला (धतर?) 
दक्षिणे कलाः द्वादश वार्तिके कला अष्टचत्वारिंशद् । रसा वीरबीभत्सभयानकाः । 
ध्रुवगाने प्रथमे प्रेक्षणके विनियोगः । 

V१५२.१ निषादवत्याः निषदर्षभगान्धारा ग्रहाः अं(शा)श्च । अपन्यासाश्च निषादगन्धारर्षभाः । 
निषाड एको न्यासः । पञ्चमहीनं षादबं पञ्चमषड्जहीनमौडुबितम् । पूर्णावस्थायां 
षड्जगान्धारमध्यमपञ्चमानामल्पत्वम् । औडुबिते मध्यमधैवतयोरल्पत्वम् । 
पञ्चमस्वरपरा तारगतिः । न्यास(प) रस्तत्परो वा मन्द्रः । 

V१५३.१ गान्धारादिमूर्छना तालश्चच्चत्पुटः दक्षिणे कला चतुष्षष्टिः चित्रेऽष्टौ । दशविधत्वं 
चास्याः दशांशाः शुद्धास्त्रयो विकृताः पूर्णा । रसश्च करुणः । ध्रुवागाने प्रथमप्रेक्षणके 
विनियोगः ॥ 

V१५४.१ षड्जकैशिक्या षड्जगान्धारपञ्चमा ग्रहाः अंशाश्च पञ्चस्वरपरस्तारः । 
न्यासपरस्तत्परो वा मन्द्रः । नित्यसम्पूर्णा च । धैवतनिषादग्रहा । 
मध्यमानामल्पत्वम् । ऋषभस्याल्पतरत्वं शेषाणां बहुत्वम् । 
(ना ? न्या) सस्तु गा(मागा ? न्धा) रः षड्जनिषादपञ्चमाः अष्टधैव 

V १५५.१ अस्याः शुद्धत्वमंशकाः पूर्णाश्चच्चत्पुटस्तालः । एककले चित्रे मागधी गीतिः । 
द्विकले वार्तिके सम्भाविता । चतुष्कले दक्षिणे पृथुला । रसश्च करुणः । प्रथमप्रवेशगीते 
द्वितीयप्रेक्षणके विनियोगः ।

V१५६.१ षड्जोदी(व्य ? च्य) वायाः षड्जमध्यमधैवतनिषादा ग्रहाः अंशाश्च । पञ्चस्वरपरस्तारः । 
न्यासप्रसतत्परो वा मन्द्रः । ऋषभहीनं षाडबं ऋषभपञ्चमहीनमौडुबितम्  । 
पूर्णावस्थायामृ....षड्जगान्धारपञ्चमयोरल्पत्वं गान्धारस्यांशत्वे प्राप्तौ बाहुल्यं 
षाडबे पञ्चमस्याल्पत्वं औडुबिते न कस्याप्यल्पत्वमशेषाणां बहुत्वं मध्यमो न्यासः । 
ऋषभधैअतावपन्यासौ । अंशानां परस्पर गमनम् । 

V१५७.१ दशविधत्वमस्याः सप्तांशक....तत्र सप्त पूर्णा पञ्चषाडवाः पञ्च 
औडुबगान्धारमूर्चनातालः पञ्चपाणिः । एककलेन चित्रेण मागधी । द्विकलेन वार्तिकेन सम्भाविता । 
चतुष्कलेन दक्षिणेन पृथुला । रसौ शृङ्गारहास्यौ । ध्रुवागाने द्वितीयप्रेक्षणके विनियोगः । 

V१५८.१ षड्जमध्यमाया ग्रहाः अंशाश्च सप्तैव स्वराः । पञ्चस्वरपरस्तारः । न्यासपरस्तत्परो 
वा मन्द्रः । निषादहीना षाडबा । निषादगान्धार्हीना औडुबिता । ग्रामा विरोधेन यथेष्टं सञ्चारः । 
पूर्णावस्थायां निषादगान्धारयोरल्पत्वम् । षड्जमध्यमो न्यासौ । सप्तस्वरापन्या (सः ? सा) 

V१५९.१ दशबिधत्वम् अस्या एतदंशकश्चत्वारः षाडबाः । तथैव  धैवतेऽम्शे षाडबानां 
औडुवितांश्च शुद्धत्वं नास्ति । मध्यमादिमूर्च्चना तालः पञ्चपाणिः एककलेन चित्रेण 
मागधी द्विकले(न) वार्तिकेन सम्भाविता चतुष्कलेन दक्षिणेन पृथुला सर्वरसात्मिका 
ध्रुवागाने द्वितीये प्रेक्षणके विनियोगः । एताः षड्जग्रामसम्बन्धाः सप्त जातयः । 

V१६०.१ इदानीं मध्यमग्रामसंबन्धा जातयः उच्यन्ते । तत्र गान्धार्या 
गान्धारषड्जमध्यमपञ्चमनिषादा ग्रहाः त एवांशाः । पञ्चस्वरपरस्तारः 
न्यासपरस्तत्परो वा मन्द्रः । ऋषभहीनं षाडवम् ऋषभहीनं षाडवम्, 
ऋषभधैवतहीनमौडुबितम् । पूर्णावस्थायामृषभधैवतयोरल्पत्वं शेषाणां बहुत्वम् । 
स्वरजातित्वाद् गान्धारो न्यासः षड्जमध्यमावपन्यासौ । धैवतर्षभयोः सङ्गतिः । 
तद्यथा - गान्धारी यदा संपूर्णा गीयते तदा माधारिगा इति गायन्ति इति प्रयो(गि ? गः) स्यात् । 
यदा ऋ(ष) भहीना गीयते धरस्वरपवेशनं(?) माधाधागा इति प्रयोगः स्यात् । 
यदा औडुबिता गीयन्ते तदा उत्तर(स्वर?) स्वरप्रवेशे मागागा इति प्रयोगः स्यात् , मापरिध इति प्रयोगः 
कदाचिदपि न स्यात् । 

V१६१.१ दशविधत्वमस्याः एकादशांशकाः शुद्धा विकृताः पूर्णाः पञ्च चत्वारः 
षाडबाः औडुबित एकः मूर्चना धैवतादिः चच्चत्पुटस्तालः एककलविधः चित्रमार्गे मागधी 
द्विकले वार्तिके सम्भाविता चतुष्कले दक्षिणे पृथुला रसः करुणः मात्रा दक्षिणे वार्तिके चित्रे कला 
ध्रुवगाने तृतीयप्रेक्षणके विनियोगः ।

V१६२.१ रक्तगान्धा(र्यप्व ? र्याष्ष) ड्जमध्यमपञ्चमगान्धारनिषादा ग्रहा अंशाश्च । 
पञ्चस्वरपरस्तारः न्यासपरस्तत्परो वा मन्द्रः । ऋषभहीनं षाडबम् 
ऋषभधैवतहीनमौडुबितम् । पूर्णावस्थायामृषभधैवतयोरल्पत्वं शेषाणां बाहुल्यम् । 
निषादस्यांशत्वादबहुत्वे प्राप्ते वचनादबहुत्वं (?) , धैवतस्यानंशत्वादल्पत्वे प्राप्ते 
वचनाद् बाहुल्यं, षाडवे धिअवतस्याबाहुल्यम् । ऋषभस्य न कदाचिदपि  । औडुबिते 
सर्वेषामंशत्वान्न तस्याल्प(श ?)त्वम् । उक्तभङ्ग्या शेषाणां बाहुल्यम् । न्यासो गान्धार एव च । 
अपन्यासस्तु मध्यम एव । षड्जगान्धारयोस्तु सञ्चारः 

V१६३.१ दशविधत्वमस्याः द्वादशांशक्रमः पूर्णाः पञ्चचत्वारः षाडबे 
पञ्चप्यंशो,अपवाद(?) । ऋषभादि मूर्चना । करुणो रसः । तालः 
पञ्चपाणिः । एककले चित्रे मागधी । द्विकले वार्तिके सम्भाविता*।


२५२गघ (षट् ? अंशाः) सप्त स्वराः षड्जमध्यमाया मिश्रश्च ते
२५३कख सङ्गच्चन्ते न्निरल्पोऽंशा(गा? ङ्गा)दृते वा (नि?दि) तां विना
२५३गघ निलोपे नीगलोपे च षादवौडुबिते मते 
२४४कख षाडबौडुबयोः स्यातां द्विश्रुती तु विरोधिनौ
२४४गघ मध्यमादीरिह ज्ञेया पूर्ववद् विनियोजनम्

अस्यां षड्जमध्यमौ न्यासौ । सप्तवरा अपन्यासाः । प्रस्तारः - सागासगप (धप) 
सानिधनिमा (१) । गामासरीगरिनि(ध)पधापा (२) । मागारीगा मामासासा (३) । 
धागधपरिरिगगरिगसधसधा । रिगरिगसासा । सासारिगरिग(५) (?) ।
-------------
* इत परमादर्शे ४ पत्राणि लुप्तानि

निधरीमम मामामामा (६) । मांमांमगमम पपधपनिमग (७) । धापधपरिगम गारिगस + सग (८) । मामाधनिधस धपपमपापा (९) । मामगमामा पधपमगमगस (१०) । धागधपरिरिगगरिगशधस (११) । निधसरिसगममामामामा । षड्जमध्यमा । स ॥

२५५गघ गान्धारोदीच्यवायां तु द्वावंशौ षड्जमध्यमौ
२५६कख रिलोपात् षाडवं ज्ञेयं पूर्णत्वेऽं (शोन्तरात्मना ? शेतराल्पता)
२५६गघ अल्पा निधपगान्धाराः षाडबत्वे प्रकीर्तिताः
२५७कख रिधयोः स(गनिज्ञाइ ? ङ्गतिर्ज्ञै) या धैवतादिश्च मूर्चना
२५७गघ तालश्चच्चत्पुटो ज्ञेयः कला षोडश कीर्तिताः
२५८कख विनियोगो ध्रुवागाने चतुर्थप्रेक्षणे मतः

अस्यां म(ध्य)मो न्यासः । षड्जधैवतावपन्यासौ। प्रस्तारः - सासापामा पाधपमामा (१) । धापामामा सासासासा (२) । धानीसासा मामापापा (३) । नीनीनीनी नीनीनीनी (४) । मामाधानिस नीनीनीनी (५) । मापामापरि गागासासा(६) । गागमपापध माधनिपापा (७) । रिगसासाध नीनीधाधा 
(८) । (गारिगसासनि) गारिगसासा (९) । सासासामा मनिधनीनीनी (१०) । धामा पापापरि गागासासा (११) । गासागासा मापामापरिगा (१२) । गागागागा गागागासासा (१३) । नीनिपाधा नीगागागा (१४) । नीनीधापा धापामापा (१५) । धापामामा मामामामा (१६) । गान्धारोदीच्यवती । म ॥

२५८गघ अंशाः स्यू रक्तगान्धार्यां पञ्च (म ? ध)र्षभ (पूजि?वर्जि)ताः
२५९कख रीमतिक्रम्य सगयोः कार्ये सन्निधिमेलने
२५९गघ रिलोपरिधलोपाभ्यां षादबौडुबमिष्यते 
२६०कख बहुत्वं निधयोरंशः पञ्चमो द्वेष्टि षादबम् 
२६०गघ द्विष(ज्जौ ? न्त्यौ) डुबितं षड्जनिमपाः सङ्गतौ सगौ
२६१कख पञ्चपाण्यादि षाड्जीवदृषभादिस्तु मूर्चना
२६१गघ तृतीयप्रेक्षणगतं ध्रुवायां विनियोजनम्

(तस्या?) तस्या गान्धारो (न्यासः , मध्यमोऽ)पन्यासः । प्रस्तारः - पानीसासा गासापानी (१) । सांसांपापा  मामागागा (२) । मापाधापा मापाधप(म)ग (३) । मामामामामा मामामामा (४) । धानीपापधधानीपापा (५) मां पा मां पा पापा पामा (६) रीगांांपा पापामापा (७) । रीगामापा पापामापा (८) । पापापापा पापापापापा (९) । रीगांधाधा रीगागागा (१०)। गापापाधं धानिधपापा (११) । मापरिमागा गागागागा (१२) । रक्तगान्धारी ॥

२६२कख कैशिक्यामृषभन्यांशा निधावंशौ (प ? य) दा तदा 
२६२गघ न्यासः पञ्चम एव स्यादन्यदा(वि ? द्वि) श्रुती मतौ 
२६३कख अन्ये तु निगपन्यासा(न्) निधयोरंशयोर्विदुः
२६३गघ रिलोपरिधलोपेन षाडबौडुबितं मतम्
२६४कख रिरल्पो निपबाहुल्यमंशानां सङ्गतिर्मिथः
२६४गघ षाडबौडुबिते (दृ ? द्वि) ष्टः क्रमात् पञ्चमधैवतौ
२६५कख षाड्जीवत् पञ्चपाण्यादि गान्धारादिस्तु मूर्चना
२६५गघ पञ्चम(प्रो ? प्रे)क्षणगतं ध्रुवायां विनियोजनम् 

अस्या (गान्धा) रपञ्चमनिषादा न्यासाः रिवर्जाः षट्जप्त वा स्वरा अपन्यासाः । प्रस्तारः - 

पाधनिपाधनि गागामागा (१) । पापामाधनि निधपापापा (२) । धानिसासा रीरीरी (३) । सासासारी गामामामा (४) । माधानीधा (मा)धामापा (५) । निगरीसाधनि रीरीरीरी (६) । गारीसासा पाधामामा (७) । गागागामा मानीधनीनी (८) । गागानीनी गागागागा (९) । गागानीनी धापापापा (१०) । मापामापा पापामामा (११) । धामागानिधानीनीगागा (१२) । कैशिकी । म । 
२६६कख पञ्च (माः ? मां) शा (सादना ? सदा) पूर्णा मध्यमोदीच्यवा मता
२६६गघ लक्ष्म शेषं विजानीयाद् गान्धारोदीच्यवागत(म्)
२६७कख मध्यमादि (र्मरीण ? र्मूर्चना) स्यात् तालश्चच्चत्पुटो मतः
२६७गघ चतुर्थस्य प्रेक्षणके ध्रुवायां विनियोजनम् 

अस्या मध्यमो न्यासः । षड्जधैवतावपन्यासौ । 
प्रस्तारः - पाधनिनीनी मामानीपा (१) रीरीरीगा सारिगगागा (२) । नीनीनीनी (नीनीनीनी) (३) । नीनिधपमा निधनिधपापा (४) । पापारीरीर् रीरीरीरी (५) । मारिगसासध नीनीनीनी (६) । सापानीमा पापागागा (७) । गापामानि धानीनीसासा (८) । पापामाधनि पापापा (९) । मापामारिग गागागागा (१०) । गापामापा । नीनीनीनी (११) । मापामापरि गागागागा (१२) । गागागामा मनिधनीनी (१३) । नीनीधपमा निधनिधपापा (१४) । रीगासागा मानिधनीनी (१५) । नीनीधापा धापामामा (१६) । मध्यमोदीच्यवा । म ॥ 

२६८कख कार्मारव्यां भवन्त्यंशा निषादरिपधैवताः
२६८गघ बहवोऽन्तरमार्गत्वादनंशाः परिकीर्तिताः
२६९कख गान्धारोऽत्यन्तबहुलः सर्वांशस्वं (?) स्वसङ्गतैः
२६९गघ चच्चत्पुटः षोडशात्र कलाः षड्(जा)दि मूर्चनाः 
२७०कख पञ्चमस्य प्रेक्षणस्य ध्रुवायां विनियोजनम्

अस्यां पञ्चमो न्यास, अंशा ए (व ? वा) पन्यासः । प्रस्तारः - रीरीरीरीरीरीरीरी (१) मां गां सां गां सा नीनीनीनी (२) । नीमानीमा पा (पागागा) (३) । गापामा नीनीनीनी (४) । रींगांसानी रींगांरींगां (५) रीगारीसा निधनीपापा (६) मापामापरि गागागागा (७) रींरींगांसम मामापापा (८) । मापामापरि गागागागा (९) धानीपामा धानीसासा (१०) । नीनीनीनी नीनीनीनी (११) । मामाधानी नीधापापा (१२) । मापामापरि गागागागा (१३) । नीनीपाधनि गागागागा (१४) । सारीसासा नीनीनीनी (१५) । नीनीधापा पापापापा (१६)  । कार्मारवी । म ॥

२७०गघ अंशो गान्धारपञ्चम्यां पञ्चमः स(ङ्ग)तिः पुनः
२७१कख कर्तव्यात्रापि गान्धारीपञ्चम्योरिव सूरिभिः 
२७१गघ चच्चत्पुटः षोडशात्र कला गादिश्च मूर्चना
२७३कख तुर्यप्रेक्षणसम्बन्धि ध्रुवागाने नियोजनम्

अस्यां गान्धारो न्यासः । ऋषभपञ्चमावपन्यासौ । प्रस्तारः - पामपमधन धपमाधानी (१) । सनिधापापा 
पापापापा (२) । धानीसासा मामापापा (३) । नीनीनीनी नीनीनीनी  (४) । नीनीधपमा निधनिधपापा (५) । पापारीरी रीरीपापा (६) । सआरिगसासध नीनीनीनी (७) । नीरीसारिस रीरीरीरी (८) । नीगासानिग सानीनीनी (९) । नीमाम् नीमां पापागांगां (१०) । गांपामांपा नीनीनीनी (११) । मापामापरि गागागागा (१२) । नीनीपाधा नीगांगांगां (१३) । नीनीनीनी नीनीनीनीनी (१४) । सांसांधानी सनिधपापा (१५) । मांपांसांपरि । गांगांगांगां (१६) । गान्धारपञ्चमी ॥

२७२गघ अन्ध्य्रा (मङ्गा ? मंशा) निरगपा रिगयोर्निधयोस्तथा
२७३कख सङ्गतिर्न्यासपर्यन्तमंशानुक्रमतो व्रजेत्
२७३गघ षाडवं षड्जलोपेन मध्यमादिश्च मूर्चना
२७४कख पूर्वावत् तु कलातालविनियोगाः प्रकीर्तिताः

अस्यामन्ध्र्यां गान्धारो न्यासः । अंशा एवापन्यासाः । प्रस्तारः  - गारीरीरी रीरीरीरी (१) रीगारीगा रीरीरीरी (२) । 
रीरीगागा रीरीमामा (३) । रीगासाधनि नीनीनीनीनी (४) । नीरीनीरी धनिधनिपापा (५) मापामारिग गागागागा (६) 
रीरीगासम मामा पापा (७) । मापामारिग गागागागा (८) । धानीगागा गागागागा (९) । पापामारिग गागागागा (१०) । नीनीनीनी रीरीरीरी (११) रीरीमानि सासानीनी (१२) । पपामागरि गागागागा (१३) । रीरीगासम मामापापा (१४) । मामानीनी सारीगापा (१५)  । रिगगागागा गागागागा (१६) । अन्ध्री । म ॥


२७४गघ नन्दयन्त्या पञ्चमोऽम्शो गान्धारस्तु ग्रहः स्मृतः
२७५कख कैश्चित्तु पञ्चमः प्रोक्तो ग्रहोस्यां गीतवेदिभिः
२७५गघ (मन्द्र)र्षभस्य बाहुल्यं षाडवं षड्जलोपतः 
२७६कख हृष्यना मूर्छना तालः पूर्ववद् द्विगुणाः कलाः
२७६गघ विनियोगो ध्रुवगाने प्रथमप्रेक्षणे भवेत्

अस्यां गान्धारो न्यासः । मध्यपञ्चमावपन्यासौ । प्रस्तारः
- गागागागा पापाधपम (१) । धाधाधाधा धनिसनिधा (२) । 
पापापापापा पापापा (३) । धानीमापा गांगांगांगां (४) । 
मारीगागा गागागागा (५) । मापामापा धाधनिपापा (६) । 
धानीमापा गागागागा (७) मापापापा मामागागा (८) । धानीमापा 
गागागागा (९) । मामामामा मामामामा (१०) । रीगामापा 
पामपापानी (११) । रीरीरीरी पापामामा (१२) । धानीसनिधा पापापापा 
(१३) । धानीमापा गागागागा (१४) । गापापापा धामागामा (१५) । 
धाधानिधा पापापापा (१६) । रीगामापा पमापापाम (१७) । रीरीरीरी 
पापापापा (१८) । पापापापा धामामामा (१९) । निपागागम 
गांगांगागां (२०) । रींरींगागा मामामामा (२१) । नीपानीमा 
नीधापापा (२२) । सासाधनिधा पापापापा (२३) । मापा (मा)पा 
(रिग) गागासांसां (२४) । रीरीगागा मामापामा (२५) । रींरींरींगा 
मारिगमा (मा) (२६) ।  मानीपानी गागागागा (२७) । मामापापा 
धाधनिनिधमा (२८) । धाधासानी धानीपाप (२९) । रींरींरींरीं 
मापाधामा (३०) । नीनीनीनी धापामामा (३१) । 
मापरिगागागागागागा (३२) । नन्दयन्ती । म ॥

२७७कख भं ज्योतिस्तद्रतो हंसतस्मात् तं भरतं विदुः
२७७गघ तद्भ(वं) भरतज्ञानं तद्भवा भारती शुभा
२७८कख किमुच्यते रागशब्देन किंवा रागस्य लक्षणम् 
२७८गघ व्युत्पत्तिलक्षणं तस्य यथावद् वक्तुमर्हसि

मतङ्ग उवाच - 

२७९कख रागमार्गस्य यद् रूपं यन्नोक्तं भरतादिभिः
२७९गघ निरूप्यते तदस्माभिर्लक्ष्य(ते ? ल)क्षणसंयुतम् 
तत्रादौ
२८०कख स्वरवर्णविशेषेण ध्वनिभेदेन वा पुनः
२८०गघ रज्यते येन यः कश्चित् स रागः संमतः सतां 
अथवा
२८१कख योऽसौ ध्वनिविशेषस्तु स्वरवर्णविभूषितः
२८१गघ रञ्जको जनचित्तानां स च राġअ उदाहृतः
२८२कख सामान्यं च विसेषश्च लक्षणम् द्विविधं मतम्
२८२गघ चतुर्विधं तु सामान्यं विशेषश्चांशकादिकम्
२८३कख इत्येवं रागशब्दस्य व्युत्पत्तिरभिधीयते
२८३गघ रञ्जनाज्जायते रागो व्युत्पत्तिः समुदाहृता
२८४कख अश्वक्रर्णादिवद् रूढो योगिको वापि वाचकः
२८४गघ योगरूढोऽथवा रागा ज्ञेयः पङ्कजशब्दवत्

२८५कख इदानीं सम्प्रवक्ष्यामि सप्त गी(ति?ती)र्मनोहराः
२८५गघ प्रथमा शुद्धगी(त? तिः) स्यात् द्वितीया भिन्नका भवेत्
२८६कख तृतीया गौडिका चैव रागगीतिस्चतुर्थिका
२८६गघ साधारणी तु विज्ञेया गी(त? ति) ज्ञाइः पञ्चमी तथा 
२८७कख भाषागीतिस्तु षष्ठी स्याद् विभाषा चैव सप्तमी
२८७गघ सप्तगीत्यो मया प्रोक्ता इदानीं भेद उच्यते

२८८कख गीतयः पञ्च विज्ञेयाः शुद्धा भिन्नाथ वेसरा
२८८गघ गौडा साधारिता प्रोक्ता याष्टिकेन महात्मना

इति तेषां लक्षणमुच्यते दुर्गाशक्तिमतम्।

Q२९.१कख "प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी ।
Q२९.१गघ सम्भाविता तृतीया च चतुर्थी पृथुला स्मृता ॥"

इति भरतमते ।

२८९कख भाषा चैव विभाषा च तथा चान्तरभाषिका
२८९गघ तिस्रस्तु गीतयः प्रोक्ता याष्टिकेन महात्मना
२९०कख भाषागीतिर्विभाषा च मतङ्गेनाप्युदाहृता
२९०गघ भाषागीतिस्तथैकेव शार्दूलमतसम्मता
२९१कख इदानीं सम्प्रवक्ष्यामि रागलक्षणमुत्तमम्
२९१गघ मन्द्रा मन्द्रैश्च तारैश्च ऋजुभिर्ललितैः समैः
२९२कख स्वरैश्च श्रुतिभिः पूर्णा चोक्षा गीतिरुदाहृता
२९२गघ सूक्ष्मैश्च पञ्चलैर्व्वक्रैरुल्लासीत (?) प्रसारितैः
२९३कख ललितैस्तारमन्द्रैश्च भिन्ना गीतिरिदाहृता
२९३गघ ओहाललितैश्चापि त्रयो गौडाश्च (भो ? शो) भनाः
२९४कख हकारोकारयो(र्या ? र्यो) गादोहाली परिकीर्तिता
२९४गघ चिबुकं हृदये न्यस्य ओहाडी मन्द्रजा भवेत्
२९५कख द्रुता द्रुततरा कार्या सह कम्पेन पीडिता
२९५गघ ओहाडी ललिता चापि दृषादृष्टेन पाणिना
२९६कख त्रिस्थानकरणैर्युक्ता स्वस्थानचलनाकुला
२९६गघ चतुर्विधा तथोहादी कर्तव्या गेयवेदिभिः
२९७कख समाक्षरा समा चैव कार्यारो(गा? हा)वरोहिण्ŏ
२९७गघ अविश्रामेण त्रिस्थाने गौडी गीतिरुदाहृता
२९८कख प्रयोगैस्च द्रुतैः कार्या मिश्रामिश्रैश्च 
२९८गघ ईषत्प्रकम्पितैः किञ्चिद्वलितैस्तारदीपितैः
२९९कख सोच्च्वासैः खण्डखण्दैश्च भिन्ना गीतिरुदाहृता
२९९गघ ++++++++ ओहाडी परिगीयते
३००कख ललितैर्गमैश्चित्रैः प्रसन्नैरौरसैः समैः
३००गघ रञ्जकैः सुरसन्दर्भै रागगीतिरुदाहृता
३०१कख चतुर्णामपि वर्णानां यो रागः शोभनो भवेत्
३०१गघ स सर्वो दृश्यते येषु तेन रागा इति स्मृताः
३०२कख ऋजुभिर्ललितः किञ्चित् सूक्ष्मासूक्ष्मैश्च सुश्रवैः
३०२गघ ईषद्रुतैश्च कर्तव्या मृदुभिर्ललितैस्तथा
३०३कख प्रयोगैर्मसृणैः सूक्ष्मैः काकुनिश्रेः सुयोजितैः
३०३गघ (सु ? स्व)रैः साधारणा गीतिर्गीतिज्ञैः समुदाहृता
३०४कख एवं साधारणा ज्ञेया सर्वगीतिसमाश्रया
३०४गघ प्रयोगैर्गात्रजैः श्लक्षणैः काकुरक्तैः सुयोजितैः
३०५कख कम्पितैः कोमलैर्दीप्तैर्मालवी काकुनान्वितैः
३०५गघ ललितैः सुकुमारैश्च प्रयोगैश्च सु(सीं ? सं)यतैः
३०६कख भाषागीतिः समाख्याता एषा गीतिविचक्षणैः
३०६गघ यथा वै रज्यते लोकस्तथा वै संप्रयुज्यते
३०७कख ललितैर्बहुभिर्दीप्तैः कम्पितै(र ? रौ) रसैः समैः
३०७गघ तारातितारैर्मसृणैर्मध्ये मध्यदीपितैः
३०८कख गमकैः श्रोत्रसुखदैर्ललितैस्तु यद्रुच्चया
३०८गघ विभाषागीतिस्तु संयोज्या यथा लोकोऽनुरज्यते
३०९कख गीतानां लक्षणं प्रोक्तं रागसंख्योच्यतेऽधुना
३०९गघ पञ्चचोक्षाः समाख्यातास्तत्प्रमाणाश्च भिन्नकाः
३१०कख गौडास्त्रयस्तु कथिता रागास्चाष्टौ प्रकीर्तिताः
३१०गघ सप्त साधारणाः प्रोक्ता भाषाश्चैवात्र षोडश
३११कख द्वादशैव विभाषाः स्युर्नामानि च निबोध मे
३११गघ षाडबः पञ्चमश्चैव तथा कैशिकमध्यमः
३१२कख चोक्षसाधारितस्चैव चोक्षकैशिक इत्यपि
३१२गघ एते चोक्षास्तु विज्ञेया भिन्नकान् साम्प्रतं श्रुणु
३१३कख भिन्नषड्जश्च तानश्च भिन्नकैशिकमध्यमः
३१३गघ भिन्नपञ्चम इत्युक्तस्त्रयो गौडाः प्रकीर्तिताः
३१४कख टकुरागश्च सौवीरस्तथा मालवपञ्चमः
३१४गघ षाडबो बोट्टरागश्च तथा हिन्दोलकः परः
३१५कख टककैशिक इत्युक्तस्तथा मालवकैशिकः
३१५गघ एते रागाः समाख्याता नामतो मुनिपुङ्गवैः
३१६कख (गर्तः) शकाख्यः ककुभस्तथा हर्माणपञ्चमः
३१६गघ रूपसाधारितश्चैव तथा गान्धारपञ्चमः
३१७कख षड्जकैशिकसंज्ञश्च सप्त साधारणाः स्मृताः
इदानीं शुद्धानां लक्षणमाह -
३१७गघ निरपेक्षान्यजातीर्ये स्वजा(?) स्वजातिमनुवर्तकाः
३१८कख स्वजात्यन्त्यतमाश्चैव ते शुद्धाः पर्कीर्तिताः
तत्र षाडब इति कस्मात् । किं षड्भिः स्वरैर्गीयत इति षाडबः, 
यद्वा षट्सु रागेषु मुख्य इति षाडबः । तत्र नायमाद्यः 
पक्षः । कुतः । सम्पूर्णत्वादमुष्य रागस्य । 
तस्मादुत्तरपक्ष एव ज्यायान् । ननु (कथनुकथन ? कथं) न 
षट्सु रागेषु मुख्योऽयमुच्यते । पूर्वे शुद्धषाडबः 
प्रयोक्तव्य इति वचनात् । पूर्वरङ्गे प्रचुरप्रयोगत्वादस्य 
शुद्धषाडबस्यादौ निर्देशः । 

३१९गघ विकारमध्यमाजातेः सम्भूतः शुद्धषाडबः
३२०कख (गर्तः शकाख्यः ककुभस्तथा हम्मार्(लव) ण पङ्चमः 
रूपसाधारितश्चैव तथा गान्धारपञ्चमः षड्जकैशिकसंज्ञाश्च ++++++++ ?)
न्यासोऽस्य मध्यमांश्च गान्धारेण च (तु ? दु)र्बलः
अस्यार्थः - शुद्धषादबो मध्यमग्रामसंबन्धः । तारमध्यमोग्रहः । मध्यमोऽम्शो न्यासश्च । गान्धारस्य चाल्पत्वम् । निषादगारयोरल्पत्वम् । पूर्णाश्रयम्  । गर्भसन्धौ विनियोगः । वीररौद्रादिको रसः । षड्जा (ति ? दि) मूर्चना । अवरोही वर्णः । प्रसन्नान्तोऽलङ्कारः । दक्षिणे 
कला वृत्तौ कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।

३२०गघ कैशिकीषड्जमध्याभ्यां शुद्धकैशिकमध्यमः
३२१कख षड्जांशो मध्यमन्यासत्युक्त(स्त्रि ? त्रि) 
श्रुतिपञ्चमः
अस्यार्थः - शुद्धकैशिकमध्यमो रागः 

षड्जग्रामसम्बन्धः । कैशिकीषड्जमध्यमाजात्योः समुत्पन्नत्वात् । (ननु ?) कैशिकी मध्यमग्रामसम्बद्धा, षड्जमध्यमा षड्जग्रामसम्बन्धा, अत उभयग्रामतास्तीति 
भावः । तारषड्जोऽस्य ग्रहोऽंशश्च । मध्यमो न्यासः । निषादगान्धारयोरल्पत्वम् । पञ्चमर्षभयोर्लोपः । निषादोऽत्र काकलिषाडवश्च । निर्वहणे चास्य प्रयोगः । 
षड्जादिमूर्छना । रौद्रवीरादिको रसः । प्रसन्नान्तोऽलङ्कारः । 

३२१गघ षड्जांशैः पञ्चमो न्यासः कैशिकीजातिसम्भवः 
३२२कख तथा कार्मारवीजातेः स्वरैः पूर्णैश्च कैशिकः
अस्यार्थः - शुद्धकैशिको नाम मध्यमग्रामसम्बन्धः । कैशिकीकार्मारवीजात्योः समुत्पन्नत्वात् । तारषड्जोऽस्य ग्रहः अंश(स्व? श्च) । पञ्चमोन्यासः । निषादोऽत्र काकली । पूर्णस्वरस्चायम् । चित्रस्याषातदश्ङ्गस्य निर्वहणे विनियोगः । वीररौद्रादिको रसः । षड्जादिमूर्छना  । आरोही 
वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वृत्तौ कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः । ननु एते ग्रामविशेषसम्बन्धाः । कु (तोऽ) यं विशेषलाभः । उच्यते । भरतवचनादेवासौ विशेषो लभ्यते । तथाचाह भरतमुनिः - "जातिसम्भूतत्वाद् ग्रामरागाणामि" ति । यत् किञ्चिदेतद् गीयते लोके 
तत् सर्वजातिषु स्थितमिति वचनात् । तथा काश्य्पेनाप्युक्तं -
"षाडबे मध्यमग्रामे पञ्चमः ककुभस्तथा ।
षड्जे साधारितस्चैव तथा कैशिकमध्यमः ॥"

ननु अ(यं ? मी) विनियोगविशेषाः कस्माल्लभ्यन्ते । वचनादेव लभ्यन्ते । तथाचाह भरतः -
"मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे भवेत् ।
गर्भे साधारितश्चैवावमर्शे +तु पञ्चमः ॥
संहारे कैशिकः प्रोक्तः पूर्वरङ्गे तु षाडबः ।
चित्रस्त्याष्टादशाङ्गस्य त्वन्ते कैशिकमध्यमः ।
शुद्धानां विनियोगेऽयं ब्राह्मणा समुदाहृतः ।" 

इदानीं भिन्नानां लक्षणमाह -

३२२गघ श्रुतिभिन्नो जातिभिन्नः शुद्धभिन्नः स्वरैस्तथा
३२३कख चतुर्भिर्भिद्यते यस्मात् तस्माद् भिन्नक उच्यते
ननु भिन्नशब्देन किमभिधीयते । किं विदारितोऽर्थः , एतस्मादयं व्यतिरिक्त इत्यर्थो वा भिन्नशब्दः । एतन्न वाच्यम् । भिन्नोऽत्र विकृत उच्यते । विकृतत्वं च पूर्वोक्तश्रुतिभिन्नोत्यादिलक्षणात्  । ननु पञ्चसु रागेषु मधे भिन्नषड्जस्य लक्षणमुच्यते । 

"यदा वादी गृहीतः स्यात् संवादी च विमोक्ष्यते । "इत्यादावेवाभिधानं कुतः । सत्यमुक्तं मुख्यत्वादस्य । मुख्यत्वं च यथा शुद्धगीतिषु शुद्धषाडबस्य एवं भिन्नगीतिषु भिन्नषड्जस्येति तद्भेदादस्येति । इदानीं भिन्नानां प्रागुक्तलक्षण प्रकटनार्थं तत्रादौ 
स्वरभिन्नस्य लक्षनमुच्यते - 

३२३गघ यदा वादी गृहीतः स्यात् संवादी च विमोक्ष्यते 
३२४कख विवादी वानुवादी वा स्वरभिन्नः स उच्यते 

अस्यार्थः  - मध्यमग्रामाश्रितस्य शुद्धषाडबस्य योऽसा मध्यमो ग्रहांशः तत्स्थाने धैवतोऽपि वादित्वे(न?) नानुवादित्वेन वा गृहितो भवति । मध्यमस्वरस्य संवादी 
त्यज्यते न्यस्यते वा तदासौ स्वरभिन्न उच्यते । भिन्नषड्जः अत्र वचनाद् वादी धैवतः पुनर्बहुप्रयोगो भवति ।

३२४गघ धैवतांशो मध्यमान्तः पञ्चमर्षभवर्जितः
३२५कख षड्जोदीच्यवती (जमा ? जातो) भिन्नषड्जः स्मृतो बुधैः 
भिन्नषड्जः (षड्जः ?) षड्जग्रामसंबन्धः षड्जोदीच्यवतीजातेर्जातत्वात् । धैवतो ग्रहोऽंशश्च । मध्यमो न्यासः । ऋषभपञ्चमहीन औडुबितः । निषादगान्धारौ काकल्यन्तरौ । सर्वोपकरणप्रवृत्तस्य विजातीयो निरणानिवृत्तस्य(?) मृगयायां प्रवृत्तस्य नायकस्य 
प्रवेशादिकासु अस्य विनियोगः । बीभत्सभयानकौ रसौ । धैवतादिमूर्चना । सञ्चारी वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वृत्तौ कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितलः । पञ्चमस्य स्थाने स्थाने विवादित्वेन गृहीतो भवति  । पञ्चमस्य स्चसंवादित्वेन(?) वर्ज्यते कदाचिदसौ 
भिन्नपञ्चमः स्वरभिन्नोऽभिधीयते । लक्षणं च तद्यथा - 

३२५गघ शुद्धपञ्चमवत् प्रोक्तः स्वर(न्धरै ? ज्ञै) र्भिन्नपञ्चमः
३२६कख धैवतांशः पञ्चमान्तह् सूत्रधारप्रवेशने

अस्यार्थः - भिन्न(सं?) पञ्चमो मध्यमग्रा(म)संबन्धः षड्जोदीच्यवतीजातेः मध्यमा (पञ्चमी ) जात्योर्जातत्वात् । ग्रहोऽंशश्च धैवतः । पञ्चमोन्यासः । निषादोऽत्र काकली 
। क्वचिन्निषादस्यापि प्रयोगः । सम्पूर्णस्चायम् । 

सूत्रधारप्रवेशेऽस्य विनियोगः । बीभत्सभयानकौ रसौ । धैवतादि मूर्चना । सञ्चारि वर्णः । प्रसन्नादिरलञ्कारः । दक्षिणे कला वृत्तौ कला चित्र कला । स्वरपदगीते चच्चत्पुटादितालः ।

इदानीं जातिभिन्नस्य लक्षणमाह - 

३२६गघ जातीनामंशकं स्थाय(?) स्वकल्पस्तु बहुस्तथा
३२७कख अल्पत्वं च बहुत्वं च प्रयोगाल्पबहुत्वतः
३२७गघ सूक्षामतिसूक्ष्मैर्वक्रैश्च जातिभिन्नः स उच्यते

अस्यार्थः - शुद्धकैशिकमध्यो हि कैशिकीषड्जमध्यमाजात्योर्जात(य?)ः । भिन्नकैशिकमध्यस्तु 
षड्जमध्यमजातेर्जातत्वात् तदंशग्राहित्वेन मस्थायिवर्णग्राहित्वेन च सूक्ष्मा(ति)सूक्ष्मैः रयोगैश्च जातिभिन्नो भवे(दि)त्यर्थः । लक्षणं चास्य यथा -

३२८कख स्यात् षड्जमध्यमाजा(तै ? ते) र्भिन्नकैशिकमध्यमः
३२८गघ षड्जांशो मध्यमन्यासो मन्द्रैस्तु गमकैर्युतः 

भिन्नकैशिकमध्यमः षड्जग्रामसंबन्धः षड्जमध्यमजातेरुत्पन्नत्वात् । षड्(जोऽंश ? जो) 
स्यग्रहोऽंशश्च । मध्यमो न्यासः । मन्द्रगमकश्च । निषादोऽत्र काकली । पूर्णश्चायम् । दानवीरे चास्य प्रयोगः । वीररौद्रादिको रसः । षड्जादि मूर्छना । वर्णः सञ्चारी । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्तिके कला चित्रे कला । चच्चत्पुटादितालः । शुद्धभिन्नस्य लक्षणमाह -

३२९कख परित्यजन्नन्यजातिं स्वजातिकुलभूषणः
३२९गघ स्वकं कुलं तु संगृह्णञ् शुद्धभिन्नः प्रकीर्तितः 

अस्यार्थः - अन्यां जातिं परिहरन् स्वजातिकुलभूषितं स्वमूलं तु संगृह्णन्निति । शुद्धस्य लक्षणं समग्रं भिन्नकैशिकस्यापि विद्यते । तर्हि को भेदः । (कटी ? गी)तिकृतो भेदः । शुद्धकैशिको हि शुद्धगीत्या गीयते , भिन्नकैशिकस्तु भिन्नगीत्या गीयते । एतदुक्तं भवति - येन संस्थानेन रागियन्ते 

शुद्धकैशिकेन तेन (स्थं ?) संस्थानेन भिन्नकैशिके रागीयत (?) इति । लक्षणं चास्य यथा - 

३३०कख शुद्धकैशिकवद् रूपस्वरज्ञैर्भिन्नकैशिकः
३३०गघ षड्जांशः पञ्चमन्यासः सम्पूर्णः सप्तभिः स्वरैः

अस्यार्थः - भिन्नकैशिको मध्यमग्रामसम्बन्धः कैशिकीकार्मारवीजात्युत्पन्नत्वात् । ग्रहोऽंशश्च षड्जः । पञ्चमो न्यासः । निषादोऽत्र काकलिः । पूर्णश्चायम् । शुद्धकैशिक उदयं (?) यद्यपि रागः तथापि भेदोऽस्ति । मन्द्रबहुलोऽयम् । येन संस्थाने(न) शुद्धकैशिके स्वरालापः क्रियते तत्संस्थानं विहा(य) तैरेव स्वरैरालापः कर्तव्यः । विभिन्नकैशिके हि तारस्वररिरालापः कर्तव्य इति । 
रूपान्यत्वेनायं भिद्यते । दानवीरे चास्य विनियोगः । वीररौद्रादिको रसः । षद्जादिमूर्छना । वर्णः सञ्चारी । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
साम्प्रतं भिन्नतानस्य लक्षणमाह - 
चतुश्श्रुतिस्वरो यत्र भिन्नो द्विश्रुतिकेन तु ।
(आद्या ? गान्धा) रो द्विश्रुतिश्चैव श्रुतिभिन्नः स उच्यते ॥

अस्यार्थः - चतुश्श्रुतेः पञ्चमस्य यदा श्रुतिद्वयं गृह्णाति निषादः तदासौ श्रुतिभिन्नोऽभिधीयते । ननु मध्यमग्रामे पञ्चमस्य त्रिश्रु(ति)कत्वात् कथं श्रुतिद्वयं गृह्णाति निषादः । उच्यते । भूतपूर्वन्यायेन चतुश्श्रुतिरुच्यते । यथा भिन्नकैशिकरागे त्रिश्रुतिपञ्चमस्य चश्श्रुतित्वमाश्रित्य लोपः कृतः षड्जग्रामे एवमत्रापि भविष्यतीति न दोषः । लक्षणं चास्य तद्यथा -

३३२कख तानस्तु मध्यमन्यासः पञ्चमांशोऽप्लसप्तमः
३३२गघ मध्यमापञ्चमजात्योरृषभेण तु दुर्बलः

अस्यार्थः - भिन्ननासिका(?) मध्यमग्रामसंबन्धः , मध्यमापञ्चमीजात्युत्पन्नत्वात् । पञ्चमो ग्रहोऽंशश्च । मध्यमो न्यासः । मध्यमनिषादयोरल्पत्वम् (?) । निषादोऽत्र काकली । पूर्णश्चायम् । प्रौढकरुणेऽस्य प्रयोगः । पञ्चमादिमूर्चना । सञ्चारीवर्णः । प्रसन्नादिलङ्कारः । दक्षिणे कला वार्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः । भिन्नानां ग्रामविभागस्तु काश्यपेनोक्तः । तथाच -

"भिन्नषड्जस्तु षड्जे स्याद् भिन्नकैशिकमध्यमः ।
पञ्चमः कैशिकस्ताने मध्यमग्रामसंश्रितः ।"

इति भिन्नाः समाख्याता गौडकाञ् श्रुणु साम्प्रतम् । ननु गौडाः कथम् । उच्यते गौडगीतिसंबन्धत्वात् । किं लक्षणम् । उच्यते । तद्यथा -

ओहाडी मन्त्रजा(?) +तु प्रयोगै(र्दू ? र्द्रु) तकम्पितैः ॥
३३४कख अविश्रामेण त्रिस्थाने गौडगीतिरुदाहृता 

गौडपञ्चमस्य लक्षणं -
३३४गघ गौडपञ्चमनिष्पत्तौ धैवतीषड्जमध्यमे 
३३५कख धैवतांशो मध्यमान्तो (वि ? र) हितः पञ्चमेन तु
अस्यार्थः - गौडपञ्चमः षड्जग्रामसम्बन्धः , धैवतीषड्जमध्यमजात्योः समुत्पन्नत्वात् । धैवतोऽंशो ग्र(ह)श्च । मध्यमो न्यासः । निषादगान्धारौ काकल्यन्तरौ । पञ्चमरहितोऽयं षट्स्वरः । उद्भटनाट्ये विप्रलम्भशृङ्गारे चास्य विनियोगः । बीभत्सभयान(क) रसौ रसः । धैवतादिमूर्छना । आरोही वर्णः । प्रसन्नमध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला 
। स्वरपदगीते चच्चत्पुटतालः ।

३३५गघ उत्पन्नः कैशिकीषड्जमध्यमजातितो मतः
षड्जांशः पञ्चमन्या(सः) सम्प्रोक्तो गौडकैशिकः
अस्यार्थः - गौडकैशिको रा(मो ? गो) मध्यमग्रामसम्बन्धः । कैशिकीषड्जमध्यमाभ्यां जातः । षड्जोऽस्य ग्रहो.आंशश्च । पञ्चमो न्यासः। निषादोऽत्र काकली । पूर्णश्चायम् । तथा प्रयोगोऽस्ति । त्रिश्रुतिकत्वात् पञ्चमस्य चतुःश्रुतिकत्वाद् धैवतस्य मध्यमग्रामसम्बन्ध एवासौ रागः । यद्यपि ग्रामद्वयजातौ जातः तथापि षड्जोऽस्य ग्रामः न मध्यमः । तथा दर्शनात् । करुणे चास्य विनियोगः । वीरादिको रसः  । षड्जादिमूर्छना । आरोही वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः । 
षड्जांशो मध्यमन्यासः षड्जमध्यम(वा ? या) कृतः 
परिपूर्णस्वरः प्रोक्तो गौडकैशिकमध्यमः

अस्यार्थः - गौडकैशिकमध्यमः षड्जग्रामसंबन्धः । ष(ड्ज) मध्यमजाते(त?) र्जातत्वात् । षड्जोऽस्य ग्रहोऽंशश्च । मध्यमो न्यासः । निषादोऽत्र काकलिः । पूर्णश्चायम् । भयानकेचास्य विनियोगः । वीरादिको रसः । षड्जादिमूर्छना । आरोही वर्णः । प्रसन्नमध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः । 
इदानीं गौडानां ग्रामविभागमाह -
३३७गघ गौडकैशिकरागस्तु मध्यमग्रामसंश्रयः 
३३८कख त्रयो  गौडाः समाख्याता रागान् वक्ष्याम्यतः परम् 

ननु वेसराणां कथं रागशब्दः प्रवर्तते । आ(टो ? प्तो) पदेशात् । तथाचाह काश्यपः -

"चतुर्णामपि वर्णानां योगा रागः +शोभना ।
स सर्वो दृश्यते येन तेन इति स्मृताः ॥"

दुर्गशक्तिमते रागा एव वेसरा गण्यते । तथाचाह दुर्गशक्तिः - 
"स्वराः सरन्ति यद्वेगात् तस्माद् वेसरकाः स्मृताः"
दुर्गशक्तिमते वेसरषाडब एव मुख्यः , षाडबत्बेन क्रमायातत्वात् । कश्यपमते तु टक्कराग एव मुख्यः लक्ष्मीप्रितिकरत्वात् । तद्यथा - 

३३९कख षड्जांशन्याससंयुक्तष्टरागोऽल्पपञ्चमः 
३३९गघ कार(णा ? णम् चा)स्य निर्दिष्टे धवतीषड्जमद्यमे 

अस्यार्थः - टक्करागः षड्जग्रामसम्बन्धः , धैवतीषड्जमध्यआसमुत्पन्नत्वात् । षड्जोऽस्य ग्रहोऽंशश्च न्यासश्च । निषादपञ्चमयोरत्राल्पत्वम् । निषादगान्धारावत्र काकल्यन्तरौ । पूर्णश्चायम् । शुद्धवीरोऽस्य प्रयोगः । वीराद्भुतौ रसौ । षड्जादिमूर्चना । वर्णः सञ्चारी । प्रसन्नान्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।
 
३४०कख अंशश्च षड्जो न्यासश्च कारणं षड्जमध्यमा
३४०गघ सौवीरकस्य गान्धारो निषादश्चापि दुर्बलः

अस्यार्थः - सौवीरकः षड्जग्रामसम्बन्धः षड्जमध्यमजातेर्जातत्वात् । षड्जोऽस्य ग्रहोऽंशो न्यासश्च । गान्दारनिषादयोरल्पत्वम् । निषादः काकली । पूर्णश्चायम् । गृहमेधिनां संयमिनां च प्रवेशादिके चरिते शान्तरसेवास्य विनियोगः । वीरादिको रसः 

षड्जादिमूर्चना । आरोही वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटे तालः । 

३४१कख पञ्चमांशस्तदन्तश्च पञ्चमीमध्यमोद्भवः
३४१गघ स्वल्पद्विश्रुतिकश्चैव ज्ञेयो मालवपञ्चमः

अस्यार्थः - मालवपञ्चमो मध्यमग्रामसम्बन्धः , मध्यमापञ्चमीसमुत्पन्नत्वात् । पञ्चमोऽम्शो ग्रहो न्यासश्च । निषादोऽत्र काकली । पूर्णस्वरस्चायम् । विप्रलम्भशृङ्गारहास्यौ । आरोह्यादिवर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।

३४२कख मध्यमांशस्तथा न्यासः कारणं षड्जमध्यमा 
३४२गघ द्विश्रुतिभ्यां विहीनस्तु भवेद् वेसरषादबः

अस्यार्थः - वेसरषाडबः षड्जग्रामसम्बन्धः षड्जमध्यमजातत्वात् । मध्यमोऽंशो ग्रहो न्यासश्च । (गान्धार निषादयोरल्पत्वम् । ) गान्धारनिषादौ काकल्यन्तरौ । नित्यं पूर्णस्वरस्चायम् । गान्धारनिषादौ काकल्यन्तरौ । नित्यं पूर्णस्वरस्चायम् । शान्तरसे चास्य 

प्रयोगः । शृङ्गारहास्यौ रसौ । मध्यमादि मूर्छना । आरोही वर्णः । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादि तालः ।

३४३कख स्यात् षड्जमध्यमाजातेः पञ्चम्याश्च विनिर्गतः
३४३गघ बोट्टरागश्च विज्ञेय पञ्चमोऽंशो(ऽन्त)

मध्यमः 

अस्यार्थः - बोट्टरागः षड्जग्रामसंबन्धः षड्जमध्यमापञ्चमीजात्योर्जातत्वात् । 

यद्यप्युभ्यग्रामसंभूतजातिद्वयसमुत्पन्नः, तथापि पञ्चमस्य चतुःश्रुति (श्रुति?) कत्वात् 

षड्जग्रामसंबन्धः । पञ्चमो ग्रहोऽम्शश्च । मध्यमो न्यासः । निषादगान्दारयोरल्पत्वम् । निषादोऽत्र काकली । पूर्णश्चायम् । उत्सवे चास्य विनियोगः । शान्तादिको 

रसः । पञ्चमादिमूर्चना । आरोही वर्णः । प्रसन्नान्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके काला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः

३४४कख षड्जांशन्याससंयुक्तो धैवत(न्त?) र्ष(भ) वर्जितः
३४४गघ धैवत्यार्ष(भी ? भिका) त्युक्तो भिन्दोलः प्रेक्षके भवेत् 

अस्यार्थः - भिन्दोलको मध्यमग्रामसंबन्धः धैवत्यार्षभीरहितः । भयग्रामसंबन्धशेषस्वराख्यजातिसमुत्पान्नत्वादुभयग्रामिकत्वमेव युक्तम् । कथं मध्यम्ग्रामाश्रित इति । धैवतर्षभी(ही)नत्वान्मध्यमग्रामसंबन्ध एव । भरतकोहलादिभिराचार्यैः षड्जग्रामधैवतर्षभलोपस्यानिष्टत्वात् केचित् षड्जग्रामाश्रित एवायामिति मन्यन्ते । चतुःश्रुतिकस्य पञ्चमस्यत्रोपलम्भात् । धैवतस्य चानाशित्वं 

तानविषयमेव द्रष्टव्यं न सर्वत्रेति । एतचायुक्तम् । एवं हि सति ग्राममू(र्छ)नाभेदो न स्यादिति  । षड्जोऽस्य ग्रहोऽंशो न्यासश्च । निषादोऽत्र काकली । धैवतऋषभहीन(स्च?)मौडुबितम् । सम्भोगश्रृङ्गारेऽस्य विनियोगः । वीरादिरसः । मूर्छना (दि?) षड्जादिः । वर्ण आरोही । प्रसन्नादिरलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः 

३४५कख धैवतांशस्तदन्तश्च स्वल्पाद्विश्रुतिकस्वरः
३४५गघ धैवतीमध्यमाजात्योः सञ्जातष्टककैशिकः

अस्यार्थः - धैवतीमध्यमजात्योर्जातत्वाट्टककैशिकः षड्जग्रामसंबन्धः । ननु (यस्याज ? उभय) ग्रामसंबन्धिन्यो र्जा(न्यो ? त्योः) समुत्पन्नोऽयं रागः षड्जग्रामसंबन्ध इति (कथं) वक्तुं युक्तम् । अस्य प्रयोगे चतुःश्रुतिसंबन्धः पञ्चम उपलभ्यते । (पञ्चमे धैवतेन भिग्रामयोर्भेदकारिणौ) । अतः पङ्चमस्य चतुःश्रुतिकत्वात् षड्जग्रामसम्बन्ध एवायं रागः । ग्रहो.आंशो न्यासश्च धैवतः । निषादगान्धारौ चात्र काकल्यन्तरौ । पूर्णस्वरश्चायम् । कश्यपमते निषादगान्धारयोर्लोपादयमौडुबितः । उद्भटनाट्ये कामग्रस्ततत्कञ्चुकिप्रवेशे चास्य विनियोगः । बीभत्सादिरसः । मध्यमादिधैवता(?) मूर्छना । आरोही वर्नः । दक्षिणे 

कला वार्त्तिके कला चित्रे कला स्वरपदगीते चच्चत्पुटादितालः 

३४६कख कैशिकीजातिसम्भूतिः षद्जांशन्याससंयुतः
३४६गघ दुर्बलो धैवतेन स्याद् रागो मालवकैशिकः
३४७कख पञ्चमं केचिदिच्छन्ति हास्याद्या ++कर्मणि
३४७गघ गान्धारं च तथा चान्ये तद्धि लक्ष्ये न दृश्यते 

अस्यार्थः - मालकैशिके मध्यमग्रामसम्बन्धः कैशिकीजातेर्जातत्वात् । षड्जो ग्रहोऽंशो न्यासश्च । धैवतस्यात्राल्पत्वम् । प्रयोगो निषादोऽत्र काकलिः । पूर्णस्वरश्चायम् । वुप्रलम्भे शृङ्गारे चास्य विनियोगः । वीरादिको रसः  । षड्जादिमूर्छना । आरोही वर्णः । अलङ्कारः प्रसन्नमध्यमः । दक्षिणेकला वार्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादि तालः ।

इदानीं वेसराणां ग्रामविशेषो दृश्यते -

३४८कख टक्करागश्च सैवीरस्तथा वै टक्ककैशिकः
३४८गघ बोट्टरागश्च षड्जाख्ये भवेद् वेसरषाडवः
३४९कख हिन्दोलकस्तु विज्ञेयो मध्य(म) ग्रामसम्भवः
३४९गघ मालपञ्चमश्चैव मालवकैशिकस्तथा
३५०कख इति वेसरकाः प्रोक्ताः सर्वे निस्चितलक्षणाः
३५०गघ स्वराणां दृश्यते वेगस्तेन वेगस्वराः स्मृताः
३५१कख शुद्धा भिन्नाश्च गौडाश्च तथा वेगस्वराः परे
३५१गघ कथिताः साम्प्रतं वक्ष्ये सप्त साधारणांस्ततः

ननु साधारणा(नां) कथं साधारणत्वम् । उच्यते । पूर्वोक्तानां सर्वेषां रागाणां गीतयस्ताभि (र्जी ? र्जा) यमानत्वात् तेषां साधारणत्वम् । एतत् साधारणगीत्या गीयमानत्वात् । तथा चाह काश्यपः - 
"पञ्चसाधारणाः प्रोक्ताः सर्वगीतिसमाश्रयाः"

ननु काश्यपमुनिना न(क?)र्तरागस्य किमित्यादै निर्देशः कृतः । उच्यते । उद्भटचारिमण्डलादौ विनियुज्यमानत्वाद् मुख्यत्वमिति कश्यपमते । दुर्गशक्तिमते तु षड्जकैशिक एव मुख्यः । कुतः  । षाडबत्वेन क्रमायातत्वाट् । तद्यथा 

३५२कख पञ्चमांशो मध्यमान्तः पञ्चमीमध्यमोद्भवः
३५२गघ नर्तरागस्तु विज्ञेयः स्वल्प(वि ?द्वि) श्रुतिकस्वरः

अस्यार्थः - नर्तरागः मध्यमग्रामसम्बन्धः , पञ्चमीमध्यमोद्भवत्वात् । पञ्चमो ग्रहोऽंशश्च । मध्यमो न्यासः निषादगान्धारयोरत्राल्पत्वम् । निषादोऽत्र काकली । उद्भटचारिमण्डला (जौ ? दौ) चास्य विनियोगः । शृङ्गारादिरसः । पञ्चमादिमूर्छना अलङ्कारः प्रसन्नमध्यमः । वर्णः सञ्चारी इति कश्यपमते । दुर्गाशक्तिमते तु अयमेव रागः पञ्चमीधैवतीजात्योर्जायते । षड्जग्रामसम्बन्ध एव बोद्धव्यः । कुतः । पञ्चमस्य चतुःश्रुतिकत्वात्, धैवतस्य त्रिश्रुतिकत्वात् षड्जग्रामसबन्दहः ।

३५३कख स्यात् षा(जि ? ड्जी) धैवतीजात्योः षड्जन्यासांशसंयुतः
३५३गघ दुर्बलः पञ्चमो यत्र *काकल्यः (?) परिकीर्तितः

अस्यार्थः - शकः षड्जग्रामसम्बन्धः षाद्जीधैवतीसमुत्पन्नत्वात् । षड्जोऽस्य ग्रहोऽंशो न्यासश्च । (पञ्चमस्याल्पत्वम् । ) निषादगान्धारौ चात्र 
----
स शकः इति पाठ स्यात् ।
काकल्यन्तरौ । पूर्णस्वरश्चायम् । वीरादभु(तो ? ते) हास्ये निर्वःणे चास्य विनियोगः । वीरादिको रसः । षड्जादिमूर्छना । आरोही वर्णः । प्रसन्नमध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला स्वरपदगीते चच्चत्पुटादितालः ।

३५६कख मध्यमापञ्चमीजात्योर्धैवत्याश्च विनिरस्रुतः
३५६गघ ककुभः पञ्चमन्यासो धैवतांशस्तु निर्मितः 

अस्यार्थः - ककुभः षड्जग्रामसम्बन्धः मध्यमापञ्चमीधैवतीसमुत्पन्नोऽपि षड्जग्राम एव । कुतः । पञ्चमस्य चतुःश्रुतिकत्वाद् धैवतस्य श्रुतिकत्वाच्च धवतोऽस्यांशो ग्रहश्च । पञ्चमोन्यासः । पूर्णस्वरश्चायम् । मध्यमकरणेऽस्य विनियोगः । करुणोऽस्य रसः । धैवतादिमूर्छना । आरोही वर्णः । प्रसन्नमध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला स्वरपदगीते चच्चत्पुटादितालः ।

३५५कख षड्जांशो मध्यमन्यासः स्वलपद्विश्रुति(क)स्वरः
३५५गघ शुद्धमध्यमिकाजातेर्भवेद् भम्माणपञ्चमः
अस्यार्थः - भम्माणपञ्चमो मध्यमग्रामसम्बन्धः , शुद्धमध्यमजातेः समुत्पन्नत्वात् । षड्जो । ग्रहोऽंशश्च मध्यमो न्यासः । निषाडगान्धारयोरल्पत्वम् । निषादोऽत्र काकली । पूर्णस्वरश्चायम् । पथि ग्रीष्मे श्रान्तेष्वरण्येषु चास्य विनियोगः । वीरादीरसः । षड्जादिमूर्छना । आरोहि वर्णः । प्रसन्नमध्यमोऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।

३५६कख षड्जमध्यानिषादाभ्यां रूपसाधारितो भवेत् 
३५६गघ षड्जांशो मध्यमन्यासः पञ्चमर्षभस्वल्पकः

अस्यार्थः - रूपसाधारितः षड्जग्रामसम्बन्धः , षड्जमध्यमनिषादकाशादुत्पन्नत्वात् । षड्जोऽस्य ग्रहोऽंशश्च । मध्यमन्यासः । (पञ्चमर्षभयोरल्पत्वम् ) । निषादोऽत्र काकली । पूर्णश्चायम् । वीरकरुणेऽस्य प्रयोगः । वीरादिरसः । षड्जादिमूर्छना । आरोही वर्णः । अलङ्कारः प्रसन्नमध्यः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।

३५७कख गान्धारीरक्तगान्धार्योर्जातो गान्धारपञ्चमः
३५७गघ गान्धारोऽस्य भवेदंशो न्यासो गान्धार एव च

अस्यार्थः - गान्धारपञ्चमो मध्यमग्रमसम्बन्धः , गान्धारीरक्तगान्धारीसमुत्पन्नत्वात् । यद्यपि दुर्गशक्तिमते धैवती समुत्पन्नौऽसौ तथापि पञ्चमस्य त्रिश्रुतिकरत्वाद् उभयग्रामजातिजातोऽपि मध्यमसम्बन्ध एव । गान्धारोऽस्य ग्रहोऽंशो न्यासश्च । प्रयोक्तृप्रेक्षया गान्धारो धैवतो भवेत् । निषादोऽत्र काकली । पूर्णश्चायम् । अद्भुते(ऽस्य विनियोगः? ।) विस्मये हास्ये चास्य विनियोगः । करुणो र(सः) । गान्धारादिमूर्छना । सञ्चारी वर्णः । प्रसन्नमध्योऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।

३५८कख धैवत्यार्ष(भी ? भिका) जात्योर्जातः पञ्चमषाडबः
३५८गघ ऋषभां (श) समायुक्तो मध्यमो न्यास एव च


अस्यार्थः - पञ्चमषाड(बः) षड्जग्रामसंबन्धः । ऋषभोऽस्य ग्रहोऽंशश्च । मध्यमो न्यासः , प्रयो (क्त ? क्तृ) - प्रेक्षया क्वचिदंशोऽपि निषादोऽत्र काकली । पूर्णस्चायम् । उद्भटचारिमण्डला(जौ ? दौ) विनियोगः । वीरादिरसः । ऋषभादिमूर्छना । प्रसन्नाद्यन्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितालः ।

३५९कख ऋषभांशो मध्यमान्तः संपूर्णस्व(र) कस्तथा 
३५९गघ आर्षभीमध्यमाजात्यो रेवगुप्तः प्रकीर्तितः 

अस्यार्थः - रेवगुप्तः षड्जग्रामसंबन्धः । आर्षभीमध्यमजात्योरुत्पन्नोऽपि षड्जग्रामसंबन्ध एव । पञ्चमस्य चतुःश्रुतिकत्वात् । ऋषभोऽस्य ग्रहोऽंशश्च । न्यासो मध्यम एव च । निषादोऽत्र काकली । पूर्णस्वरस्चायम् । उद्भटचारिमण्डला (जौ ? दौ) विनियोगः । वीरादिरसः । ऋषभादिमूर्छना । आरोही वर्णः । प्रसन्नाद्यन्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वरपदगीते चच्चत्पुटादितलः ।

[इदानीं साधारणानां ग्रामविभागः प्रदर्श्यते - ३६०अब्॒ हर्माणपञ्चमे ज्ञेयो मध्यमग्रामसम्भवः 
३६०गघ गान्धारपञ्चमो नर्तः षड्(ज)कैशिक एव च 
रूपसाधारणः ?]

३६१कख स्यात् षाड्जीधैवतीजात्योष्टक्करागस्तु सैन्धवः
३६१गघ षड्जांशन्याससंयुक्तः पञ्चमेन तु दुर्बलः
अस्यार्थः  - टक्कसैन्धवरागः षड्जग्रामसंबन्धः, षाड्जीधैवतीसमुप्तन्नत्वात् । षड्जोऽस्य ग्रहोऽंशो न्यासश्च निषादगान्धारौ (चित्रे ? चात्र) काकल्यन्त(रेण ? रौ) पञ्चमस्याल्पत्वम् । पूर्णस्वरश्चायम् । शुद्धवी(र्य ? रे) ऽस्य विनियोगः । वीरादिको रसः । षड्जादिमूर्छना । आरोही वर्णः । प्रसन्नान्तोऽलङ्कारः । दक्षिणे कला वार्त्तिके कला चित्रे कला । स्वर पदगीते चच्चत्पुटादितालः ।

इदानीं साधारणानां ग्रामविभागः प्रदर्श्यते -
३६२कख भम्माणपञ्चमो ज्ञेयो मध्यमग्रामसम्भवः
३६२गघ गान्धारपञ्चमो नर्तः षड्जकैशिक एव च
३६३कख रूपसाधारितो रागः शकः ककुभः एव च
३६३गघ रेवगुप्तस्तु षड्जाख्ये ज्ञेयः पञ्च(म) षाडवः 
३६४कख सप्त साधारणाः प्रोक्ता ग्रामद्वयस(माश्र)याः

ननु पूर्वोक्तानां मूर्छनाविशेषनिर्देशः कस्माज्ज्ञायत इति । उच्यते । (आप्तवचनाद्) मूर्च्चनाविशेषो ज्ञायते तथाचाः काश्यपः -
"क्वचिदंशः क्वचिन्न्यासः षाडबौडुबिते क्वचित् ।
अल्पत्वं च बहुत्वं च ग्रहापन्याससंयुतम् ॥
मन्द्रतारौ तथा ज्ञात्वा योगनियं मनीषिभिः ।
ग्रामरागाः प्रयोक्तव्या विधिवद् दशरूपके ॥
प्रवेशाक्षे(म ? प) नि (षः ? ष्क्राम) प्रासादिकमथान्तरम् ।
गानं पञ्चविधं यत् तद् रागैरेभिः प्रयोजयेत् ॥
पूर्वरङ्गे (तु) शुद्धा स्याद् भिन्ना प्रस्तावनाश्रया ।
वेसरामुख्योः कार्या गर्भे गौडी विधीयते ॥
*साधारितावमर्शे स्य+हणे स्यात् + सर्वदा(?) । "

इति मतङ्गमुनिविरचितबृहद्देश्यां रागलक्षणं तृतीयं समाप्तम् ॥

अथ भाषालक्षणम् 

३६४गघ ग्रामरागा मया सर्वे कथिता लक्षणान्विताः 
३६५कख भाषाणां तु प्रवक्ष्यामि लक्षणं च ततह् शृणु 
३६५गघ भाषा चतुर्विधा प्रोक्ता मूलसङ्कीर्णदेशजाः
३६६कख छायामात्राश्रयाः प्रोक्ता ग्रामरागे व्यचस्थिताः

काश्यप उवाच ।
"कीदृशी तु भवेद् भाषा सङ्किर्णा देशजातरे(?) ।
छायामात्रानुगाः प्रोक्ता ग्रहांशन्याससंयुताः ॥
कतमा षाडबा तत्र कतमौडुबिता भवेत् ।
पूर्णा तु कतमा ज्ञेया साधारणकृता तु सा ॥
ग्रामरागेषु का कुत्र कीदृशी गी (तये ? यते) जनैः ।
कतमा प्राप्यते भाषा विभाषा कतमा भवेत् ॥
-----
* ऽसाधारितावमर्शे स्यात् सन्धौ निर्वहणे तथाऽ इति सङ्गीतरत्नाकरोद्धृतं भरतवाक्यं दृश्यते ।

कतमान्तरभाषा वै कतमा स्यादनुक्रमात् ।
एतन्मे ब्रूहि तत्त्वेन महत् कौतूहलं हि मे ॥"

याष्टिक उवाच ।
शृणुष्वावहितो भूत्वा भाषालक्षणमुत्तमम् ।
यत् प्रृथिव्यां प्रयत्नेन गीयते गीतवेदिभिः ॥
प्रकाशं नच लक्ष्यन्ते यत्नहीनैस्तु गायकैः ।
प्रगीतास्त्य् प्रसिध्यन्ति सुस्वराणां विशेषतः ॥
अहं ते कथयिष्यामि सर्वं तत्वेन लक्षणम् ।
पूर्वं ग्रामद्वयं प्रोक्तं ग्रामरागस्तदुद्भवाः ॥
ग्रामरागोद्भवा भाषा भाषाभ्यश्च विभाषिकाः ।
विभाषाभ्यश्च सञ्जातास्तथा चान्तरभाषिकाः ॥
टक्करागे दश द्वे च केचिदिच्छन्ति षोडश ।
तत ऊर्ध्वं निगद्यन्ते चाष्टौ मालवकैशिके ॥
ककु (भैः ? भे) सप्त चै प्रोक्ताः पञ्च हिन्दोलके स्मृताः ।
पञ्चमे दश विख्याता भिन्नषड्जे नव स्मृताः ॥
सौवीरके चतस्रस्तु चतस्रो भिन्नपञ्चमे ।
बोट्टरागे तथाप्येका तथा मालवपञ्चमे ॥
टक्ककैशिकजास्तिस्त्रो द्वे च वेसरषाडबे ।
भिन्नताने तथा ह्येका चैका गान्धारपञ्चमे ॥
पञ्च(मा ? म) षाडबे ह्येका इत्येतास्तु समासतः।
भाषा विभाषाः कथितास्तत्रयधिका सप्ततिर्बुधैः ॥
भाषाणां चैव नामानि लक्षणं च निबोधत ।
प्रथमा त्रवणा ज्ञेया द्वितीया त्रवणोद्भवा ॥
वेरञ्जिका तृतीया तु छेवाटी च चतुर्थिका ।
मालवेसरिका तत्र प्रयोक्तव्या तु पञ्चमी ॥
षष्ठी च गूर्जरी ज्ञेया सौराष्ट्री सप्तमी तथा ।
अष्टमी सैन्धवी चैव वेसरी नवमी तथा ॥
पञ्चमाख्या तु दशमी रविचन्द्रिका तथा भवेत् ।
अम्बाहीरी तु ललिता स्मृता कोलाहली ततः ॥
मध्यमग्रामदेशा च तथा गान्धारपञ्चमी ।
इत्येताः प्रकटा भाषाष्ट(क्क)रागस्य षोडश ॥
शुद्धा तु प्रथमा ज्ञेया चाद्यवेसरिका ततः ।
हर्षपुत्री तृतीया तु माङ्गाली च चतुर्थिका ॥
पञ्चमी सैन्धवी ज्ञेया आभीरि षष्टिका मता ।
खञ्जरी कुञ्जरी चैवमष्टौ मालवकैशिके ॥
काम्बोजा प्रथमा ज्ञेया मध्यमग्रामिका मता ।
सालवाहानिका चैव तदन्ते भोगवर्धनी ॥
पञ्चमी मुहरी ज्ञेया षष्टी च शकमिश्रिता ।
प्रयोक्तव्या प्रयत्नेन सप्तमी भिन्नपञ्चमी ॥
एतास्तु ककुभे सप्त भाषा ज्ञेया मनोहराः ।
प्रथमा वेसरी ज्ञेया द्वितीया चैव मञ्जरी ।
ततः कार्या च चेवाटी चतुर्थी षड्जमध्यमा ।
पञ्चमी मधुरी ज्ञेया पञ्च हिन्दोलकोद्भवाः  ॥
आभीरि भाविनी चैव माङ्गाली सैन्धवी तथा ।
गूर्जरी दाक्षिणात्या च आन्ध्री त्वान्नोद्भवा परा ॥
नवमी त्रावणि ज्ञेया कैशिकी दशमी स्मृता ।
एता भाषास्तु विज्ञेया गायकैः पञ्चमोद्भवाः ॥

विशुद्धा दक्षिणान्या तु गान्धारी तदनन्तरम् ।
श्रीकण्ठी चैव पौराली माङ्गाली सैन्धवी तथा ॥
कालिन्दी च पुलिन्दी च भिन्नषड्जोद्भवा नव ।
सौवीरि प्रथमा ज्ञेया द्वितीया वेगमध्यमा ॥
साधारिता तृतीया तु गान्धारी च चतुर्थिका ।
भाषा सैन्धविकी ज्ञेया ज्ञेयाः सौवीरकोद्भवाः ॥
शुद्धा भिन्ना तु वाराही तथा धैवतभूषिता ।
वराटी च ततः प्रोक्ता भिन्नपञ्चमसम्भवाः ।
मालवपञ्चमे जाता भाविनी लोकभाविनी ।
मङ्गल्याख्या तु या भाषा बोट्टरागोद्भवा तु सा ॥
टक्ककैशिकजा ज्ञेया तॄतीया वेगमध्यमा । 
मालवा भिन्नबालिका ++++++++ ॥
तॄतीया द्राविडी तत्र भाषा लक्षित्लक्षणा ।
बाह्यषाडनदाख्या +जाता वेसरषाडबे ॥
तानोद्भवा तु विज्ञेया भिन्नताने व्यवस्थिता ।
गान्धारपञ्चमे ह्येका भाषा ++++++ ॥
गान्धारी +++++ पञ्च + लोक्रञ्जिका ।
रेवगुप्ते शकाख्यैका प्रोक्ता पञ्चमषाडबे ॥
इत्येताः प्रकटा भाषाः प्रजायन्ते ह्येनकशः 
सोदाहरणमेतासां लक्षणम् चाधुना शृणु ॥
मध्यमांशा तु षड्जाता पञ्चमेन विवर्जिता ।
धैवतस्य निषादस्य षड्जस्येव तयोस्तथा ॥
परस्परं तु गमनं दृश्यतेऽत्र पुनः पुनः ।
स्यादियं षाडवा ज्ञेया मूलाख्या त्रवणा भवेत् ॥

उदाहरणम् - मासासासासानिधानिधानीधागासासा । धानिसामागागागामासातथासासासागामा
धानीधाधामारीगारीरीमरिगासासानिधासासा । नीधगासासानिधनिमामानिधासासानिधासगमा
गासानीधनीसा  । त्रिपणा ।

षड्जाता मध्यमांशा वै गान्धारबहुला सदा ।
पञ्चमेन विहीना तु मुहरी षड्जधैवतः ॥
सङ्कीर्णेयं सदा ज्ञेया षाडबा त्रवणोद्भवा ।
उदाहरणं - मानीनीनीसास । सारीरीरीगागागमाम  । मामारी । गरिनिनिधा । धाधामामगारिगा । 
सामागारी । सनिनिगागानिनिधासरिगारीमा । गामामानीनीससा त्रपणोद्भवा ।

(धे ? वे)रञ्जिका तु विज्ञेया गान्धारांशाल्पपञ्चमा ।
षड्जन्यासा तु कर्तव्या षड्जधैवतयोस्तथा ॥
गमनं संप्रयुज्या तु(?) गान्धारर्ष(भ)योस्तथा ।
एवं भाषा तु विज्ञेया षाडबा तु निगद्यते ॥

उदाहरणं - गानिगागाधरिमामागामामागारीगाससासानिगारीनिनिधाधाधनिगारीमागारिसनीधनी । 
सासागमामाधासासंगनिगानिगानिगधरीगरीरिगागिरीगमममधमममधरीगसासासासनीगारी
गानिनिधामाधानिधासनीगारीममरिसानिधानिसासा । वेरञ्जिका ।

षड्जाद्यन्तसमायुक्ता संपूर्णा मध्यमोज्ज्वला ।
षड्जमध्यम्संवादो द्विश्रुतीनां परस्परम् ॥
मूकभाषा तु विज्ञेया चोहारी गेयवेदिभिः।
उदाहरणं - सागागापा । वामबामगामामारागसासासासमागपापा । पाधनीधा । 
भवापामापामामामगाससारिधानिसासासधानीगारीगामावागनिसानीगारीनिसासा । निधावामागारीगासा । 
मानीधनीदासा । छेवाज षड्जन्यासा निषादांशा दुर्बला पञ्चमेन तु ।

षड्जगमारसंवादः षड्ज(मध्यमं) मध्यमयो तथा ॥
भाषेयं षा(ड)वा ज्ञेया मूलाख्या मालवेसरी ।
उदाहरणं - निधानिनीसदिसासागामागाधारिसमामासागासारिसासागधरिसा । गामाधामामागाधागा । 
सासासा । मालवेसरी ।

निषादर्षभषड्जान्ता सम्पूर्णा षड्जमध्यमा ।
संग+तत्र विज्ञेया पञ्चमर्षभयोस्तथा ॥
देशभाषात्र विख्याता गूर्जरी परमोज्ज्वला ।
उदाहरणं - निसासानिपापानीधानीनीसानीसासा । साṟइसारिरि । सामागा । रिरि । नीनीनी । वावावा । निधानि । नीगासा । 
गूर्जरी ।

नि(षा)दांशा तु षड्जान्ता संपूर्णा नित्यमेव हि ।
सौराष्ट्रिका तु भाषेयं देश्याख्या गीयते जनैः ॥

उदाहरणं - निनिधानिदेसासानिरिगासासासागागासाधनिनिनिधामामानिनिनिनिधासासागासासागासास धानिधानिधामामामारिगासासागासनीसासासा । सौराष्ट्री । (प सैवमी मध्यमा ?)

सै(वमी ? न्धवी) मध्यमांशा तु षड्जान्ता धैवतोज्ज्वला ।
सुसम्पूर्णस्वरा ह्येषा षड्जधैवतयोस्तथा ॥

ग्रामाṟअमथ्यमानां तु गमकं दृश्यते घनम् ।
देशभाषा तु देशाख्या सैन्धवी टक्करागजा ॥

उदाहरणं - सासासासा । सनीनीनीनी 
धाधासरीसानीधाधाधरिनिधाधा । धानिसा । गारीमामामा । गमागामासाधासारीमामा
मामासारिगामापापाधानिपधापामागारीरी निरिनिधाधाधनिसारीगामामागामामागामामामासासा 
। सैन्धवी ।

षड्जान्तसमायुक्ता पञ्चमेन विवर्जिता ।
धैवतनिषादयोश्च षड्जधैवतयोस्तथा ॥

परस्परं तु गमनं दृश्यते च क्षणे क्षणे ।
भाषेयं षाडबा ज्ञेया वेसरिका प्रयोक्तृभिः ॥

उदाहरणं - सासा । सधानी । धासासासासामामागामागामासाधामागारीसासासा । वेसरिका ।

पञ्चमांशा तु षड्जान्ता सम्पूर्णा लोकरञ्जिका ।
पञ्चमर्षभसंवादः षड्जमध्यमयोस्तथा ॥
भाषेयं पञ्चमाख्या तु सम्पूर्णा समुदाहृता ।

उदाहरणं - पापापारिपा । रिपापापावमापापामपमा सासासरीरिरि । निधाधपापा । 
पसामामागिरीगगरिसपासपाव गारिसागारिसारिपापारिरिगरि । गाधामागरिरि धवरिगसासा । 
पञ्चमाख्या । रद्वि च (?) ।

मध्यमन्द्रा तु षड्जान्ता गान्धारांशाल्पसप्तमा ।
+ र्षगान्धारयोस्तु +षड्जमध्यमयोस्तथा॥
परस्परं तु गमनं यत्र तत् सम्प्रयोजयेत् ।
सा सङ्कीर्णादयो ज्ञेया भाषा वै रविचन्द्रिका ॥
टक्करागजा  ।

उदाहरणं - मागागामा । सासा । मागामामागामासासासा ।
गागाधानिसासागाधनिसा धाधामारीमागारीगसासासासामासारी
धाधाधाधा धमागरीगागा धारीसासासा । मागामामागा ।
मासासामागा धाधाधापरीगमरीगमसासासामा गारीधाधमगरिगमधनी ।
सासागाधानिसासा । रविचन्द्रा ।

मध्यमांशा तु षड्जान्ता बाहुगान्धारधैवता ।
असम्पूर्णस्वरा नित्यम्बोहेरी प्रकीर्तिता ॥
भाषेयं कै++न्नित्यं देशाख्या सम्प्रकीर्तिता ।

उदाहरणं - सासासा । नीनी । निधाधानी तथानि । 
धानिधाधानी । सागागारी । सनीसनीधा । निधानिगागामागानिसासानि । 
साधानीगागानिसासा । सानिनीसनिधा धामानीमाधासनिनी । 
नीसाधानीमाधाधामागासानिसानिधा । माधाधा । 
साधानीधानीसासा । मामाधासासा । मामागारीमागासासा । 
मासामामामागारीमागासासा । मसानीनिनिमानि धाधानिधामागा । 
सानीमाधा । सासनीधा धनिसाधाधा । धनिधानीसा । अम्बोहरी ।

षड्जाद्यन्तसमायुक्ता बाहुलाद्यमधैवता ।
विश्रुतिभ्यां तु गमनं (भीत ? हीन)त्वमृषभेण तु ॥
भाषा औडुबिता ह्येषा सङ्कीर्णा ललिता भवेत् । 

उदाहरणं - सागागाधागामामागा । धमधानीसासा । निधागागा । सासासामापाधानी धापामासा  
साधापाधानी धाधासानीधागारीगाधनी सरसा ललिता ।

षड्जाद्यन्तसमायुक्ता सरसा ललिता ।
विनिहिता सप्तमेन तु षड्जे मध्यमसङ्गता ॥
भाषा औडुबिता ++सङ्कीर्णा टकरागजा ।
कोलाहली तु विख्याता गीयते गानवेदिभिः ॥

उदाहरणं - सामासामा । मामागाधामागारिसासा ।
धासागागारिसासा । माधसासारिरीरिगागामामागारीगाधामारीसासा । धानीसासामा धनीमाधनीनीधापागरीगासासामागारीसासागारीमागारीसाधाधामागारीसा । कोलाहली । 

मध्यमांशा तु षड्जान्ता षड्जमध्यमसङ्गता ।
असम्पूर्णा स्मृता नित्यं मध्यमग्रामिका मता।
सङ्कीर्णेयं सदा भिन्नटक्करागे व्यवस्थिता ।

उदाहरणं - माधानी । गाधानी । सानिधा । मामामाधानीमाधानीसासामाधानी । मा । धानीनी । 
धापागारी गासासा । गासासा ।
नीनीसानी । धाधा । निधामामामाधानीधामामा धनीमाधानीसासा । आलापाकं मध्यमदेहा (?) ।

धैवतांशा तु षड्जान्ता गान्धारस्वरभूषिता ।
गान्धारपञ्चमी ज्ञेया षड्जमध्यमसंयुता ॥
पूर्णा च++सङ्कीर्णा गीयते पालकिन्नरैः ।

उदाहरणं - पधापापाधामामा । धापामामा धापामागारी । गागा । धापमागासा । सामासानीधाधा । माधानीसासा । सागागसागागधरिधामामाधारीगागामाधापामागासानीधानी सासापासा । गान्धारपञ्चमीका ।

एताश्च याष्टिके प्रोक्ताः टक्करागस्य षोडश ।
अतः परं प्रवक्ष्यामि लक्षणं च समासतः ॥
पञ्चमांशा तु षड्जान्ता शुद्धा मध्यमभूषिता ।
विभाषा टक्करागोत्था भाशान्तेषु च गीयते ॥

उदाहरणं - पापानीसानीसरीमा धारीधापापामागागा ।

अथ मालवकैशिके -
षड्जाद्यन्तसमायुक्ता बाहुलौ षड्जमध्यमौ ।
+संपूर्णस्वरा ज्ञेया पौरालीदेशसम्भवा ॥
भाषेयं प्रथमा ज्ञेया मध्यमा मालवकैशिके ।

उदाहरणं - सागासागागाधरिगरिगरिमा । ममम्मग । गरिसानीधाधा सागागा । 
गारीगारी । सासागामानीधाधापामारीसासागानीधानी सासापासा । शुद्धाः । गमा । मागा ।
गागापापा । मामागागा । सामामामा । मामा । मामारीरी । रिगागारीसासासारी । मगसासामागारीसानी । 
सासा । पौराली ।

मध्यमांशा तु षड्जान्ता विभाषा पूर्णस्वरा ।
गीयतेर्ष +(?) संयुक्ता शुद्धमालवकैशिके ॥

उदाहरणं - मामाधासागरीसासा । निधासासाधानिमामाधानीसा । रिगामासा । साधामागारिगासासा । 
शुद्धा ।

मध्यमांशा तु षड्जान्तसंपूर्णा चाद्यवेसरी ।
दुर्बला च निषादेन बहुलौ षड्जमध्यमौ ॥
सङ्कीर्णेयं यदा ज्ञेया भाषा गान्धर्व वेदिभिः ।

उदाहरणं - मामागामासासा । सामापापाधासाधा । पापामामा । गमगमाग । 
सासासासा । गामापापाधपापाधम्मपामा । गमगमगारीसा धासासागागधरी । 
मामागरि । साधासासा । सरिरिरिगागारी । सासासधामगासससास ।
सासाधाधापापासपापञ्चमधाधापञ्चसापाधाधाधापा । पमागासा । 
सासागारीगारी गाधासासा । अद्यवेसरी ।

षड्जाद्यन्तसमायुक्ता मध्यमर्षभसंगता ।
द्विश्रुतिभ्यां तु रूढा तु काकल्यन्तरसङ्करः ॥
साधारणकृता ह्येषा देशाख्या हर्षपूरि(म)ता ।

उदाहरणं - सानीधानीसासामापा । मागाधामा । गासासागा । गधानी । सासाधासा । नीधापापागगामगामसासानीधासासा । पामागाधामागासासा । पामापापासरिसासासामागा । गपापानिधा । सरिनीपामागागानिधासासा सरीसरी । सासारिधापापा । मागारिसासासारीसासासासमा ।
गमागमागगपापामागारीसईर्सासा । सापामागारिसागग । सैर्मागारीसानीससा । हर्षपूरी ।

भाङ्गाली मध्यमांशा तु षड्जाता मध्यमोज्ज्वला ।
मध्यमर्षभसंपूर्णा +++लोकरञ्जिका ॥
एषा भाषा तु विज्ञेया भाङ्गाली गेयवेदिभिः ।

उदाहरणं - मागामा । गासामापमा । गमपापासनिसासानीपापापाम । गममगगगमामा । 
सगम । पापानीसानिसासासनीसासासनीपापा .......पाम । पापामपा । पमगापमगा । मामामग । 
सासागमापापासनीरीरी । मागारी । सनिससा । भाङ्गाली ।

सैन्धवी चैव कर्तव्या षड्जाद्यन्तविभूषिता ।
षड्जमध्यमबहुला निषादर्षभयोस्तथा ॥
सबन्धुविष्यसम्भूता देशाख्यां सैन्धवीं विदुः ।

उदाहरणं - सारी । मामा । माधापापापागा । पामागारी । पामागारी । सनी । साधासारीमरीमा । मामाधापापा । पाधमापाधापामागारीसनीसासा । सैन्धवी ।
 
षड्जाद्यन्तसमायुक्ता सम्पूर्णदेशसम्भवा ।
+++ षड्जासंवादो द्विश्रुतिचाल्परूपिणौ (?) ॥
साधारणकृता ह्येषा आभीरी गीयते जनैः ।

उदाहरणं - सासारीरी । सासारीरी । सासारीसारी । सासानीसारीरी । सारीसारीसासानीसरीरीगारीगारी । सनिसासा। गारीरी ।
गामागरी । गपापगारी । सनिसासा । सनीसासाधारीगगमासा । पमागारी । सनीसासा ।
धनीधानी । साधनिसा । रिरिगामा । गामारिरि । गापामापा । मागारीरी । साषरिसारी । सासानीसारी ।
रीरीसासासानिरीरिगारी । रिगागिरि । सनि । सासागारीरि । गामगारी । सानि । गारीरी । मागागारी । गापागारी ।
सनीसासासनी । सासा । रिगगमासा । पमागारी । सनिससा । सधनिसासा । सनिधानिधाधनिसारीरी ।
गामागमारिरी । गापामापा । मपमा । मगारिरी । मपागारि । सनिसासा । आभीरी ।

खण्डनी पञ्चमांशा तु षड्जान्ता धैवतोज्झिता ।
षड्जनिषादसंवादो मध्यमर्षभयोस्तथा ॥
सङ्कीर्णा षाडबा ज्ञेया सर्वलोकस्य रञ्जिका ।

उदाहरणं - पानीमारीसरि । सासासरीरि । सनि । रिरी । सनिसनि । रि । पापापानि । सरिसनि । सगससा ।
सनिरीसनीरीरी । मागारिगमा । नीपापानीसनीपापामग । पापा । नि । निमनिसरिसगसासा । खण्डनी ।

निषादांशा तु षड्जान्ता गूर्जरीदेशसम्भवा ।
निषादर्षभसंयोगो मध्यमर्षभयोस्तथा ॥
संपूर्णा चैव विज्ञेया षाडबा गेयवेदिभिः ॥

उदाहरणं - निधानीनी । रिगानिधा । निसासाधनि । धाग । रि । सागरी । सानीधानी ।
गधासारी । गारीमागारी } सनिधाधानिधासरिगारी । सनीसासा । निधासानीगरी ।
मगरि । मगारि । पापागारीमामा । रिधानिधानिधासरि । गरिसानीसासानीधासरीरि ।
निधासासा । धनीसागा । गारीरि । मगरीमगरि । मापागरि । मगरिसनी । धाधानिधासरिगरि ।
सनिसासा । एता याष्टिकेन प्रयुक्ताः ।

अथ ककुभे - 

धैवताद्यन्तसंयुक्ता काम्बोजा पूर्णसुस्वरा ।
षड्जधैवतसंवादः पञ्चमर्षभयोस्तथा ॥
एषा भाषा तु देशाख्या प्रथमा ककुभोद्भवा ।

उदाहरणं - धासागागा । मागारीसासासनिसासा । धापापा । धामासारिगा ।
मागारीसासा । सनिधाधापापा - मधानिरिसनिधाधा । काम्बोजा ॥

मध्यमांशा धैवतान्ता पूर्वमध्यमग्रामिका ।
परस्परं तु दृश्येत सहितावृषभधैवतौ ॥
एषा भाषा च सङ्कीर्णा रम्या ककुभसंभवा ।

उदाहरणं - मामा । गरिधासारीसामा । निगरिसनिसानिधा ।
साधासाधनिरिसा । धनिरिरि । मापापमागा । रिरिरिरि । गाम । गाम ।
धाधामापामागारीसासाधा धधध । मध्यमग्रामिका ।

ऋषभांशा धैवतान्ता विज्ञेया सातवाहिनी ।
परस्परं तु दृश्यन्ते मध्यमर्षभसङ्गतौ ॥
सप्तमं किञ्चिदिच्चन्ति केचित् तेनैव दुर्बलम् ।

उदाहरणं - गधरिरिमा । मामानिमाधाधधाधापमपममरिममासरि ।
मामपपामपपापापापमरिमरिमामासरि । पापपसससानि  । धाधारि ।
सासासासारीमनिधाधाधापधासाधपाधापमपापामरिमामासारिमापापामासानिधाधा ।
सातवाहिनी ।

मध्यमांशा निषादान्ता ऋषभेण तु दुर्बला ॥
सङ्गतिर्दृश्यते यत्र द्विश्रुत्योः पञ्चमस्य च ।
भाषेयं षाडबा ज्ञेया ककुभे भोगवर्धनी ॥

उदाहरणं  - निनी । गगमा । पामापमा । धाधा । सनिसनि ।
धपधाधपमापाम । गगगग । मपधाधानी । सससस ।
मागसानिधाधाधा । भोगवर्धनी ।

पञ्चमांशा तेन बहुला ++ मधुकरी शुभा ।
परस्परं तु संवादो गान्धारे पञ्चमस्य तु ॥
धैवत + निषाद + संयोगो दृश्यते यतः ।
एषा पूर्णा च सङ्कीर्णा भाषा ककुभसंभवा ॥

उदाहरणं - निनिनिनिपधपाधनिसासनिसनि ।
सपधानिधाधपाधरिसासागरिमगरिससम । गरिसानिनिनिधपापासागा । पापामाधा ।
माधाधामा । नीसासाधाधा । मधुकरी ।

निषादांशा तु षड्जान्ता ++++++++ ।
++ऋषभहीना तु विज्ञेया शकमिश्रिता।
निषादपञ्चमानां तु संवादः स्यत्तु धैवते ॥
मजुवत्यंशजा छाया छाया शकविमिश्रिता ।

उदाहरणं - नीसानिगधमागारि रिनिनिनिसाधाधानिधागमामामपासासनिसासाधाधामनी 
धाधामानीधापामाधानीसासासानीसा सासारिगारीसानीसानीसानिधाधामासानी मागारीरि ।
शकमिशिर्ता 

धैवतांशा मध्यमांशा विज्ञेया भिन्नपञ्चमी ।
निषादः काकली भूयो धैवतेन विमिश्रितः ॥
संयोगो दृश्यते यत्र काक(ल्योद्यै ? ल्या धै) वतस्य च ।
पञ्चमर्षभसंवादो यत्रैव संप्रयोजयेत् ॥
साधारणकृता ह्येषा पूर्णा छाया च काकली ।

उदाहरणं  - धनिधाधानिधापापामारिपापापपमाधा
धापासासनिसासनिरिरिसारी । धाधा । परिमापापा । 
पमधाधामानीधापापापरीधापापापाधाधासनिधा ।
भिन्नपञ्चमी ।

एता भा(षा)स्समुद्दिष्टा अथ भिन्दोलके ++ ॥
षड्जांशन्याससंयुक्ता धैवतेन च दुर्बला ।
षड्जगान्धारसञ्चारस्तत्र यो(न्य ? ज्यः) प्रयोक्तृभिः ॥

उदाहरणं - सासागासासनिपानि  । माधामागासमासासासा । समगासपमरिगासानिनिमास्ष्गासासा । 
धनिपापापनिसागा । वेसरी ।

गान्धारस्य प्रयोगेण भाषेयं तस्य वैसरी ।
पञ्चमांशा ऋषभहीना षड्जान्ता षाडबा भवेत् ॥

षड्जपञ्चमसञ्चारो द्विश्रुतीनां तथैव च ।
भाषा भिन्दोलके ह्येषा कथिता प्रथममञ्जरी ॥


उदाहरणं - पापापापाधमपानीसापञ्चमपाधनि 
धासासापापानिसासासागासापागामानिसनिपापानिसापानिसा
गानिसानिसासा । प्रथममञ्जरी ।

षड्जांशन्याससंयुक्ता संपूर्णा धेन दुर्बला ।
संवादश्चैव कर्तव्यः षड्जमध्यमयोस्तथा ॥

षड्जगान्धारयोर्नित्यं चेवाटी संप्रकीर्तिता।

उदाहरणं - सापासा । मागासासागामनिमापामासा 
सामामानीमामानीमामानीमामापापागामासासासागासनी ।
सागासानीसनिधामधामापापापाधामामाधमपमगरिसासानी
नीनीसागारीमामारीनीसासा । छेवादी 

षड्जांशा मध्यमान्ता च निषादर्षभदुर्बला ।
षड्जमध्यमसंवादस्तथा गान्धारपञ्चमे ॥
षाडबौडुबिता ज्ञेया प्रकृत्या षड्जमध्यमा ।
एषा भाषा तु कथिता किन्नरैरपि गीयते ॥

उदाहरणम्   सापापाधामामापागामगापधाधापाग 
मागापापापाधापासासापाधापमगामाम्गामसासासागागामा
गामामा । षड्ज+++ ।

मध्यमांशा तु षड्जान्ता दुर्बला पञ्चमेन तु ।
धैवतनिषादबाहुल्यं षड्जधैवतयोस्तथा ॥
भाषेयं षाडबा ज्ञेया प्रेक्षके मधुकरा भवेत् ।

उदाहरणं - मापापाधाधामाधनिनिपासानिधसासा
मापाधनिसनिसासामापानिसासारिरीगमगारीसासानिधापापा
पाधनिधा सासारिरीगमागरिसासा । मधु (क)री ॥

इति हिन्दोलके भाषा समाप्ता ।

अतः परं प्रवक्ष्यामि पञ्चमषाडबे भाषाः ।
पञ्चमांशा तदन्ता च निषादबहुला सदा ।
परस्परं तु दृश्येत षड्जधैवतसङ्गतिः।
पूर्णपञ्चमजा ह्येषा आभीरीदेशसम्भवा ।
एषा भाषा तु विज्ञेया प्रथमा पञ्चमोद्भवा ॥

उदाहरणं - पाधामाधनिधापापापापधनिधामामा
धानिसासासनिधनिसधानिसानिधासाधरिमामाधानिनिधापा
पापममधनिसासासनिनिसासासासनिगरिममममगरिससस
धनिपाधामामासरिमाधारिमपापा । आभीरि ।

भाविनी पञ्चमन्यासा गान्धारांशाल्पधैवता।
मध्यमपञ्चमयोर्यत्र गमनं दृश्यते घनम् ।
भाषा तु भाविनी ज्ञेया पूर्णा गान्धर्ववेदिभिः ।

उदाहरणं - गामापागमपानिधा । गमपामागागारी
रीगानीधापापापापा । मामागामापापामापापामाधारीसगग
मापामागारीरीपापा । भाविनी ।

भाङ्गाली पञ्चमान्ता च धैवतांशा प्रकीर्तिता।
षड्जधैवतसंवादो मध्यमर्षभयोस्तथा ।
सङ्कीर्णा च मता नित्यं ज्ञेया वैदेशसम्भवा ।
एषा भाषा च गीतज्ञैरुक्ता पञ्चमसम्भवा ॥  

उदाहरणं - सासासासधासारिरिधासारिरिधासाधासाधासासारिमारिमामामधमप्धपापापाधामपापमसासानिध
सारिरिमागरिसासारिमारिमाममधमपपापापामापापमसासानिधससारिरिगारिमारीसाधासासाधमासासासासाम । पमामापापा । भाङ्गाली ।

पञ्चमांशा तदन्ता च संपूर्णा पञ्चमोज्ज्वला ।
सैन्धवी षड्जसंभूतां विभाषां सैन्धवीं विदुः ॥
षड्जपञ्चमसंवादो दृश्यते च मुहुर्मुहुः ।

उदाहरणं - पापाधसारिगागागरिमारि । ससानिधाधासनिधाधामसरिगागागारिसाधाधापापा
धापाधसारिगारिपपारिगागारिरीसाधासाधापामापापाधापाधापामामामापाधाधासारीरिसाधापामापापा । 
सैन्धवी ।

गूर्जरी पञ्चमान्ता च गान्धारांशाल्पमध्यमा ।
षड्जमध्यमसंवादः संपूर्णा नित्यमेव हि ॥
विभाषेयं समाख्याता संपूर्णा पञ्चमोद्भवा ।
उदाहरणं  - गरीमामामधानिधापापाधाधानीधामा
मामाधागारीरीसरिगरिमाधामापाधपधनिधाधाधधपरीरीसारि
मागारिमामामाधानीधरिपधानीधापापानीधामामामधमधम 
गारिरीमामारीसासागारीमामापाधानीसनीसनीधामपापा । गूर्जरी 

पञ्चमाद्यन्तसंयुक्ता दाक्षिणात्या मनोरमा ।
संपूर्णरा++ह्येषा जाता गान्धारप(ञ्च)मे ॥
विभाषेयं सदा ज्ञेया देशाख्या पञ्चमोद्भवा ।

उदाहरणं - पापानीरी । निरिगारिगरिमामरिरिनिनिरि । धापापापपानिरिरिगरिगरिमगरिरिरि।
धनिधधनिधाधनिधापापानिरिरिगारिगाधामागारिरिसानिरिगामागारीनि धापा ।
दाक्षिणात्या ।

ऋष्यभाङ्गा पञ्चमान्ता विज्ञेया षड्जदुर्बला ।
निषादकाकलीरुपा कर्तव्या सा तु नित्यशः ॥
साधारणकृता ह्येषा विभाशा गीतवेदिभिः ।
अमाली विश्रुता लोके किन्नराणां च वल्लभा ॥

उदाहरणं - रीमामापाधाधाधाधापाधाधासापापापा
धानिनिपापासापाधापापामारीरीरिधाधापधपसाधाधापापा
धधपधपापाधापापामारिरिग? पापापापामपधगमारिधाध
पपाप । मामाधपपापममरिरिमपापाधपापापधपधसासारिगरिधपापापा ।
अन्धाली ।

मध्यमांशाल्पऋषभा पञ्चमन्याससंयुता ।
मधमधैवतसंवादस्तुल्यं स्यात् पञ्चमस्य तु ॥
संपूर्णषाद(बा) चेयं भाषा तानोद्भवा भवेत् ।

उदाहरणं - मामामगासारिरिनिसागरि । सानिनिगागागसानिपापापासानिसासासानिसानिनिधधनिनिसागरि
सासासानिनिसाधानिपापाधानिनिगगसासासासागासानीधामापापा ।

त्रापणी पञ्चमन्यासा पञ्चमर्षभदुर्बला ।
द्विश्रुतिनां तु रूपेण गमनं तत्प्रयोक्तृभिः ॥
षड्जमध्यमबाहुल्यं पञ्चमर्षभयोस्तथा ।
साधारणकृता ह्येषा त्रापणीदेशसम्भवा ॥

उदाहरणं  सासासापापापाधाधाधाधानीनीनीसा
सानिधानिधाधारिसासानीधानीधासाममरिमारिमागागारिसा
सनिपापापानिधानिसासनिसनिमधधसनिधामागामाधानीसा
साधानीसामधामागामाधानीसास । सससनिसासानिगासनिधामामामा
धारीसासासधानीधापा । त्रापणी ।

कैशिकी पञ्चनन्यासा मध्यमांशा निदुर्बला ।
मध्यमधैवतमात्रं बाहुल्यं पञ्चमस्य तु
एषा भाषा तु सङ्कीर्णा नित्यं पञ्चमसम्भवा ।

उदाहरणं - पामाधानिधापापापाधानीधाधाधामामामा धामाधाधानीसासारिरीपापामाधामाधमधधमामाधा ।
निरिपापा । कैशिकी ।

एषा वर्ष्टिकनिर्दिष्टा एकादश च पञ्चमे ।
अतः परं प्रवक्ष्यामि भाषा वै भि(न ? न्न)षड्जके ॥
धैवतांशा तदन्त च पञ्चमर्षभवर्जिता ।
षड्जगान्धारसञ्चारा पञ्चमस्य प्रयोक्तृभिः ।
एषा विशुद्धा विज्ञेया षड्जहीनौडुबा भवेत् ।

उदाहरणं - धाधामागामामागगसनसनिसनिधनि
धाधानिमामामागामागसानिधिनिनिधाधानिसापामागासनि
निनिधाधाधागामधमागासगसगामागमधमधसागासासामा
धामा(म्म ? म) धमगागमसासासागासानिनिनिसनिधाधाधा
निधाममधमधमसागामधामामासासानिधानिधानीगासानिधानिधा ।
विशुद्धा दक्षिणात्या ।

धैवतांशा धैवतान्ता षड्जधैवतसङ्गता।
षड्जधैवतयोस्तु +ऋषभमध्यमयोस्तथा ॥
विभाषा षाडबा चेयं देशाख्या षड्जसम्भवा ॥

उदाहरणम् - धाधासासागधरिगारिसागनिरीसासा
धासानीनीनीनी  । धाधाधानिधापापामाधासाधानिनिधाधा
पागागाधारिधामामाधानिनिधाधा । दाक्षिणात्या ।

धैवताद्यन्तसंयुक्ता गान्धाṟअस्वरभूषिता ।
गान्धारो धैवताश्चात्र गमनं दृश्यते घनम् ॥
भाषाहा +तु सङ्कीर्णा गान्धारी समुदाहृता ।

उदाहरणां - धाधागागागारिरिगमगामाधरिरिरिरि
गामापामा । मापामापामापासगरिरिगागागाधापाधागागारी
सासासा । निसासानिगामापासासानीगारीमागमागामामामा 
मानिनिनिनि । मधाधाधाधा । गान्धारी ।

धैवताद्यन्तसंयुक्ता षाडबा पञ्चमा हिता।
मध्यमर्षभसंवादो द्विश्रुतीनां च गीयते ॥
विभाषा चैव श्रीकण्ठे प्रयोगेललितास्तुते ।

उदाहरणं - धानिमागागाधारिमागागाधारिमाग
रिगारिरिगारिरिगामागारिगाधारिरिरीनिसानिनिधाधा  । श्रीकण्ठी ।

मध्यमांशा धैवतान्ता ऋषभेण (तु) दुर्बला ।
मध्यमर्षभपञ्चमगमनं दृश्यन्तेन्धनन् (?) ॥
एषा विभाषा पौराली रम्या चा (नि ? ति) मनोहरा ।
गीयते नागलोकेन गबकैर्मधुरस्वरा ।

उदाहरणं - पापाधानिनिसासामानिधापाधाधाधा
धानिसारिरिमागारिसारिमागासारिसारिमामारिगारिकासासा 
सासानिनिनिनीधाधामापामापापापानिनिरिरिसानिधापाधा
धानिनिधानिनिरिरिनिरिरि मगारिसानिरिसानिसासानिनिधा
धागमापाधानिनिसानिसानिधाधा । पौराली ।

धैवताद्यन्तसंयुक्ता संपूर्णा लोकरञ्जिका ।
धैवतनिषादसंवादि षड्ज??रयोस्तथा ॥
बङ्गालदेशसम्भूता वङ्काली दिव्यरूपिणी ।
एषा भाषा रसा च + धैवतस्यापि वल्लभा ॥
प्रयोगे श्लक्षणसूक्ष्मश्च गायकैः स्वरशोभितैः ।

उदाहरणं - धारीसारीगागाधारीसारीमानीसानीनीसासासारिधामापाधाधारि
सामाधानिधाधा । वङ्काली 

मध्यमांशा धैवतान्ता पञ्चमर्षभदुर्बला ।
षड्जमध्यमसंवादः षड्जगान्धारयोस्तथा ।
सिन्धुविष्यसंभूता देशाख्यां सैन्धवीं विदुः ।

उदाहरणं - नी । माधानीधानीसागासामासासागामागामागासानिसानि
धामापामामामासामाधामानिसासासा - सागारीधानिधाधासाधानीधा
माधाधाधा । सैन्धवी । (सैन्धवी ?) ।

गान्धारांशा तु कालिन्दी धैवतान्ता चतुःस्वरा ।
पञ्चमर्षभहीना च निषादेन च दुर्बला ॥
एषा ह्यन्तरभाषा वै कालिङ्गे सा तु गीयते ।
हृद्या मनोहरा ह्येषा पञ्चमादानुगीयते ॥

उदाहरणं - गासामागासागासासासासाधामासा
साधामानीमामासा सासासामाधामामाधासासाधानीगाधा ।
कालिन्दी ।

षड्जान्ता धैवतान्यासा हीनौ गान्धारपञ्चमौ ।
षड्ज++++++++धैवतयोस्तथा ॥
एषा ह्यन्तरभाषा वै पुलिन्देन तु गीयते ।
पुलिन्दके तु विख्याता षड्जाउडुबितास्तथा ॥

उदाहरणं - सासासाधानिसारिसाधानि । धाधाधारिरिसासासारिरिधाधाधारिसाधानि
सासारिसारिसाधनिपा । एता याष्टिकेन निर्दिष्टा भाषाः ।

अतः परं (रौरवीर? सौवीर)के भाषाः - 
षड्जाद्यन्तसमायुक्ता मूलभाषा मनोहरा ।
सुसंपूर्णस्वरा ह्येषा बहुलौ धनिपञ्चमौ ॥
षड्जधैवतसंवाद ऋषभधैवतयोस्तथा ।
एषा सौवीरके प्रोक्ता सौवीरी द्रव्यरूपिणी ॥

उदाहरणं  - सागासासासाधानीधापापापारीपाधा
मागममपापामाधाधासासासानिधानिगारिमामागारिसासाधा
निधासासा ।

मध्यमांशा तु षड्जान्ता संपूर्णा मध्यमोज्ज्वला ।
मध्यमपञ्चमानां तु वेगवत्वं न दृश्यते ॥
एषा भाषा तु विज्ञेया गीतज्ञैर्वेगपञ्चमा ।

उदाहरणं - पामामामधापापापमामानि । धासासानिम
सानिसानिधानिपापानिनिसानिसासारिगारिसासासा -
गासानिपापाधानिनिसासा । वेगमध्यमा ।

षड्जांशा मध्यमन्यासा ज्ञेया साधारि (धा ? ता) तु सा।
साधारिता ।

निषादांशा तु षड्जान्ता गान्धारी पूर्णसुस्वरा ।
भाषा सौवीरके ह्येषा गीयते करुणे सदा ॥

उदाहरणं - निनिगागापामामानिसामागानी । धासासा । गान्धारी ।

सौवीरकभाषाः समाप्ताः ॥

अतः परं भिन्नपञ्चमेऽस्य भाषाः कथ्यन्ते -
धैवतांशा तदन्ता च सम्पूर्णा शुद्धभिन्नके ।
धैवतर्षभसंवादः षड्जमध्यमयोस्तथा ।
भिन्नपञ्चमजा ह्येषा शुद्धभिन्ना प्रकीर्तिता ।
लोकस्य रञ्जकं दृष्ट्वा किन्नरैर्गीयते सदा ।

उदाहरणं - धानिधानिससधानीधानीसागासनिगानिधा
पापानिनिमपामापापमाधाधापाधावाधापाधाधा । 
शुद्धभिन्ना ।

मध्यमांशा धैवतान्ता ऋषभेण तु दुर्बला ।
षड्जधैवतसंवादो द्विश्रुतीनां सधैवतम् ॥
भाषा तु षाडबा ह्येषा बहुधैवतमध्यमा ।
वराती चेति विख्याता गीता विद्याधरैः किल ॥

उदाहरणं  - माधासधानिधापानिमामागासासागामा
गासाधानीधा । धाधाधाधासाधानीयापामागासासागामा ।
(वराटी)

मन्द्रेऽत्र ऋषभः कार्यो ++++मुहुर्मुहुः ।
स्फुरितं तत्र कर्तव्यं द्रुतं मध्यविलम्बितम् ॥
तारम(न्त्र ? न्द्र) गतिं कुर्यात् तथारोहावरोहणम् ।
तथा भाषा च विज्ञेया भिन्नपञ्चमसम्भवा ॥

उदाहरणं  - धाधानिधासासानिधाधानिधाधाधापामा
गारिरिरिगामपापाधापगारिरिधमाधापापाधापामरिगामानीधा
वाधाधाधामपाधापानिरिगरिसारिधारिधारिधारिपाधाधाधाधा
नि । सासारिगगामसामपमाधाधाधापाधासानिधैवतधाधा ।
धैवतभूषिता ।

विशाला पञ्चमांशा तु धैवतान्ता मनोहरा ।
सुसंपूर्णस्वरा ह्येषा सञ्चारो धैवतस्ततः।
एषा भाषा तु विग्ञेया किन्नरैर्गीयते सदा ।

उदाहरणं - पाधासासाधानीगासानिधाधा ।
पाधाधा । निसासानीधापामागानिनिनिरिगामामागामम
धानीधानिसारिगारिसासानिधारिगसासनिसानिधानिनी
धापधधधपापामागारिरिधारिरिममध्यमगमापापा
पापानिधधधधपानिनिनि । सासामधापाधानिधा ।
विशाला । एता याष्टिकप्रयोक्ता भिन्नप(ञ्च)मभाषा(ः) ।

अथ पोट्टरागे -

पञ्चमांशा मध्यमान्ता संपूर्णा मध्यमोज्ज्वला ।
धैवतनिषादःसञ्चारो दृश्यते बहुलः सदा ॥
एषा वङ्गालभाषा (तु) पोट्टरागे प्रगीयते ।
सर्वेषां मञ्गलानां च गायकैर्गीयते सदा ॥
मङ्गल्या च प्रशस्ता च तेनासौ मङ्गला स्मृता ।

उदाहरणं  - पाधापाधा । माधापामागारिरिरिगमपा
धासागासानिधापापामा । माङ्गाली 

अथ टक्ककैशिके -
धैवताद्यन्तसंयुक्ता ज्ञेया मालवप्ञ्चमी ।
षड्जऋषभसंवादो बहुधैव तयोस्तथा ॥
संपूर्णा सुस्वरा ह्येषा देशभाषा मनोहरा ।

उदाहरणं - धैवत । धापाधैवतधाधाधारिमामाधा ।
पामधाधापामागरिमाधापाधा । मालवा ।

षड्जांशा धैवतन्यासा विज्ञेया भिन्नलालिका ।
धैवतनिषादबाहुल्या दृश्यते च परस्परम् ॥
किञ्चिद् हृष्टं न दृष्टं च भिन्नपञ्चमसंज्ञिता ।
एषा तु कथिता लोके भाशा सङ्कीर्णशोभना ॥

उदाहरणं - सासासागासाधानीसासाधानीमधानि
धाधाधानिधामाधानिमधापाधाधाधा । भिन्नललिता ।

गान्धारांशा धैवतान्ता द्राविडी संप्रकीर्तिता।
द्विश्रुतीनां च गमनं षड्जधैवतयोस्तथा ॥
द्राविडविषये ह्येषा देशाख्या सुमनोहरा ।

उदाहरणं - धानिमधानिधाधाधानिधामधापाधाधा
धापामाधाधागामाधाधासागासानिधाधापामागाममनि ।
द्राविडी । एताष्टक्ककैशिकभाषास्तिस्रः ।

अथ वेसरषाडबे - 
मध्यमाद्यन्तसंयुक्ता विज्ञेया बाह्यषाड(बे ? बा) ।
(वि ? द्वि) श्रुतिभ्यां च संवादो मध्यमर्षभयोस्तथा ॥
सुसंपूर्णस्वरा ह्येषा क्रिया वै गीयते जनैः ।
बाह्यषाडबिका तत्र भाषा वेसरषाडबे ॥

उदाहरणं - सासासारिसारिगारिसासासारिमापाधैवत
धापासामागापामध्यमागागागारिगागगधरिमागानिसानि
साधपामामा । बाह्यषाडबम् ।

षड्जांशा मध्यमन्यासा गान्धा(रं ? रे) मन्द्रभूषिता ।
कर्तव्या षाडबा ह्येषा नादाख्या रागषाडबे ॥
पञ्चमेन विहीना तु षाडबा संप्रकीर्तिता ।
सङ्कीर्णेयं सदा ख्याता लोकिनी रञ्जिकामिका (?) ॥

उदाहरणं - सासानिमामासारिमामाधामामारिगारि
रिनिगासानिधामामा । नादाख्या ।
भावेसरषाडबे (?) ।

पञ्चमांशा तदन्त च भिन्नताने प्रकीर्तिता ।
ऋषभेण विहीना तु कर्तव्या साधारणा (उदा?) ॥
साधारणकृता ह्येषा भाषा तानोद्भवा मता ।

उदाहरणं - पासागममाधाधापामारीसानिसानि
सानिमगमामापाधामपामारीसानीसानिधापामहमामाधानीरिरि
रिसागारिऋषभारिरिषका । रेवगुप्ता ।

ऋषभांशा मध्यमांशा शकभाषा प्रकीर्तिता ।
सुसंपूर्णस्वरा ह्येषा बहुगान्धारपञ्चमा ॥
धैवतर्षभबाहुल्यं दृश्यते च मुहुर्मुहुह् ।
शकरागे तु संपूता भाषा पञ्चमषाडबे ॥

उदाहरणं - रिरिसानिनि । पानिनिरिरि  । शकभाषा पञ्चमषाडबे ।

इत्येताः प्रकटा लोके भाषा बहुमताः स्मृताः ।
यथा यथा प्रयुञ्जीत तस्य सा तु विवर्तिता ॥
तथा सर्वप्रयत्नेन गीयते लक्षणान्विता ।
श्रोतव्या गायकैर्नित्यं परिहासार्थकौशिलि (?) ॥
यत्किञ्चिदाह्वये ++समस्तं नाशयेत् +तत् ।
सर्व+न्त्रामरागेषु भाषाणामुपलभ्यते ॥

सर्वागमसंहितायां याष्टिकप्रमुख्यभाषा(ध्या लक्षणाध्याः चतुर्थः )॥


अतः परं प्रवक्ष्यामि शार्दूलमते भाषालक्षणं -
पञ्चमांशा तु षड्जा(ता? न्ता) भाषाभाषे प्रयोजयेत् ।
देवालवर्धनी पूर्णा भाष चैषामनुक्रमाट् ॥

उदाहरणं  - पापानीसासा । नीसारीरीधापापामामा 
मामाधासासासानिसाररिरीनिधमागापाधासासानीधानीधा
देवालवर्धनी ।

मध्यमांशा तु षड्जान्ता पौराली देशसम्भवा ।
संपूर्णा गीयते नित्यं भाषा वै टक्करागजा ॥

उदाहरणं - मामामामागारीरीरीसारिमारिगागारिग
रिगसासानिधामाधामामाधाधनिसानिगागागागानिधानिसा
सामानीगमापधानीनिधपधानि धापाममामामामागामागारिरि ।
गासानिसा । पौराली ।

(वैध ? धैव) तांशा तु षड्जान्ता पञ्चमर्षभवर्जिता ।
शकभाषा त्वौडुविता त्रावणी कामिनीषु च ॥

उदाहरणं - धामगाधामागमामागधानिसासा ।
गागामधामागसासा । मागा । सागा । मामामाधमागसासासा ।
त्रावणी ।

मध्यमांशा तु षड्जान्ता मानवलितिका विपा ।
विभाषा टक्करागस्यैषा गीयते मूडलालिता (?) ॥

उदाहरणं - मापाधापामासापधानीधापापा ।
मामागरिसा धामाधाधामाधाधामाधानी ।
सासा । रिरिधारिरिमा गामारीसासा । साधाधनिसासा ।
तानललितिका ।

साधारणा तु षड्जांशान्ता दोह्या पञ्चमस्वरा शुभा ।
पञ्चमर्षभहीनं तु ञ्च (?) देशाख्या टक्करागजा ॥

उदाहरणं  - गासानीधधानीसानीसाधाधा ।
मामाधानि । सामागामाधाधामागामानीसासा । दोह्या ।

निषादांशा तु षड्जेन वि(ही)ना पञ्चमस्वरा ।
टक्करागे (तु) शार्दूली ++ऋषभ दुर्वला (ज्ञेया)॥

उदाहरणं - नीनिनि । सारीरीमारीरीपानिधापानिसारिरिमधामारिधानिरिसा ।
शार्दूली ।

षड्जाद्यन्तसमायुक्ता अलघ्वी देशसम्भवा ।
संपूर्णा टक्करागजाया स्वपाणिनि गीयते(?) ॥

उदाहरणं - सासासासा । धसासासारीमामासानि
धासासानिधापासामामा । मापाधासासाधागारिसारिसानिधा
निसासा । अलघ्वी ।

टक्करागे शार्दूलमते भाषा समाप्ता ।

भिन्नवलितका रविचन्द्रा भिन्नपौराली द्राविडी पिञ्जरी पार्वती (चै ? च) हिन्दोलके भाषाः ।

गान्धारांशा तु षड्जान्ता षाडबा धैवतवर्जिता ।
हिन्दोले भिन्नवलिता गीयते विद्रुमैर्जनैः ॥

उदाहरणं - गागारीसनिनिधासनीपापापनीसासागासानी ।
सासापानीसागामापापानीपामासारीसानिनिनिनीनीमागागासानीनीनीनीसामागा
सानिसासा । भिन्नवलितका ।

निषादांशा तु +++षट्स्वरा धैवतान्विता ।
रविचन्द्रा तु +++++++++क्रमात् ॥

उदाहरणं - निनिपासामागारी । सागारीसासासामामा 
गानिनिनिसासानिसासानिपापापनीसानिसासानिगागा । पम
ममारीमापाधापापापममपारीमपानिसारिनिसासा ।
रविचन्द्रा ।

मध्यमांशा तु षड्जान्ता संपूर्णा प्रोक्षके स्मृता ।
भाषा सा भिन्नपौराली गीयते सुस्वरा सदा ॥

उदाहरणं - मामामध्यमामामामापामापानिसासाग
मगानिसाधाधागामामपरिसानिनिसामागरिसामागरिसानिसा ।
भिन्नपौराली ।

पञ्चमांशा तु षड्जान्ता पूर्णा द्राविडदे(शा ? शजा)
गीयते नित्यमेवेषा परिष्टस्य + गीयते(?) ॥

उदाहरणं - पानिनिधासासागारिमागारिसासानिरि
निपापानिसागरिमासरि । सासासानि रिमधापापानिनिनि
धासासा । द्राविडी । 

गान्धारांशा तु षड्जान्ता पूर्णा द्राविडदेशजा ।
गीयते नित्यमेवेषा विभाषा (विजरा ? पिञ्जरी) शुभा ॥
षट्स्वरा निषादहीना उमादेव्या च गीयते ।

उदाहरणं - 

गान्धारां(श ? शा) मध्यमान्ता गान्धारी मध्यमाश्रिता ।
एकान्तवासिभिर्गीता मूलभाषा तु षड्जगा ॥

उदाहरणं - गामापानीसासा । निधाधामामामागामाधा ।
निसारी । सापामामा । धानीसारी । गारीसानी । धामामा । गान्धारी ।

धैवताद्यन्तषड्जर्षभहीना षाडवस्वरा ।
++वलितगा एषा गीयते दृढमानसैः ॥

उदाहरणं - धाधामापा । गागामाधानिसानिधाधा
पापागामाधासनिधानिसासागामापापाधाधा । मधा
पामामागधगामधानिसासा । निसानिगागामासानीधाधापमा
मागाधा । सामाधानीससाधापामाधाधा । स्वरवलिता ।

धैवताद्यन्तललिता षड्जपञ्चमवर्जिता ।
पञ्चस्वरा तु गीयते प्रकृष्ट सा मता क्रमात् ॥

उदाहरणं - धासाधागासानिसामानि । मानिधामागा ।
गामाधानी । धामामागा । रिनिधाधा । ललिता ।

गागागारिसाधासासारिगागामागारिसा ।
धासापाधापगापाधासररिगापा ।
मागरिसामानिसाधरीसासारि । धासारिगागामामागरिसाṟइरिगारि
रीसारीसापा । धासपा । सारीमापा । धापासारिगामारिरिसा ।पिञ्जरी ।

षड्जांशन्याससंयुक्ता पूर्णा पर्वतदेशजा ।
गीयते त्रपवीराणां भाषा हिन्दोलके शुभा ॥

उदाहरणं - सासानिम । पामानिधानिधापामापा ।
रीसापानिनिमारिमागनिसानिनिसागापानिसासानिनिपामापानिमा ।
धानिधापामामारिमामापानिसामागा । रिसामागारिसानीसासासा ।
पार्वती ।

इति शार्दूलमते हिन्दोलिकभाषा समाप्ताः ।

विभाविनी तु *पो पापा वेगवन्ती तु पञ्चमा ।
अन्ध्री गान्धारिका चैव षट्स्युर्मालवपञ्चमे ॥
पञ्चमाद्यन्तसंपूर्णा +देशं भा(?)विभाधिनी ।
गीयते केशरचनाकामिनीमिति(?) सङ्गमे ॥

**[उदाहरणं - सासासासा धसासासासारीमामामासा 
नीधासासानीधापसामामामापाधा । सासा ।
धागारिसारिसा निधानि । सासा । अलघ्वी ।

टक्करागे शार्दूलमते भाषाः समाप्ताः ।

*पौराली इति स्याट् । + वलयान्तर्गतं वाक्यजातं लेखकप्रमादात् 
प्रक्षिप्तमिति भाति ।

भिन्नवलितिका रविचन्द्रा भिन्नपौरली द्राविडी ।
पिञ्जरी पार्वति चैव हिन्दोलके ?]

*षनिनिमागारिसानिरिनिसारिगामापापामागारिसानिनिधानीनीधामापापा ।
पौराली ।

पञ्चमांशा तु संपूर्णा ++++++++ ।
+भाषाकरणे चैवमुद्वारे चैव गीयते ॥

उदाहरणं - पापानिधाधानिधागासासासानिधाधानिनिपाधमा ।
गागाधामामापापाधानीसासारीगारी । सनिधापापा । वेगवती ।

पञ्चमार्धं तु संपूर्णा मूलभाषा तु पञ्चमा ।
प्रगल्भमनसे गीते भाषा मालवपञ्चमे ॥

उदाहरणं  - पापापामामारिरिगारिनिधाधा । धाधारिनिगारिमागरिनीधापापापा
धापामामापामाधानिरिमागामागारीसासानिसानिधापापा । पञ्चमा ।

मध्यमांशा पञ्चमान्ता भावनास्था ध्रुवेशजा ।
अन्ध्री तु विश्रुता लोके व्याधा दुष्टेषु (?) गीयते ॥

उदाहरणं  - सामपामापापानिधाधानिपापानिपमा 
रिसानिधापामा । सामाधानिधापापापासापानिगारिसानिनि
सानिसानिधामामानिधापापा । अन्ध्री ।

गान्धारांशा तु गान्धारी संपूर्णा पञ्चमानुगा ।
विभाषा च सानुना गीयते(?) मालवपञ्चमे ॥

उदाहरणां - गागानिनिधाधाधानिरिरिगापमागारिरिसनीसासा ।
धाधासाधानी । सागासानिधापापा  । गान्धारी ।
इति शार्दूलमते पञ्चमभाषाः समाप्ताः ॥
*विभावन्या उदाहरणां पौराल्या लक्षणं च न दृश्यते ।

त्रावणी षड्जभाषा च मालवी गुर्जरी तथा ।
बाह्य(षोडकैसन्ध्ये ? षाडबकौसल्यौ) गन्धारी परवन्दिता ॥
ललिता निषादवत्या च स्वरगान्धारवर्जिता ।
देशाख्या त्रावणी चैव नीपोमुप च(?) गीयते ॥

उदाहरणं - रिरिधाधानीनीधाधा । मधानिरिधा धानिनिसानिनिधाधानिधामाधा 
। निरिधाधामधाधानिरिरिनिगामागाधामारीसानिधानिधानिधामामधानिनिरिधाधा । त्रावणा ।

धैवताद्यन्तसंयुक्ता मूलभाषा तु दुर्बलम् ।
देवताराधने गीता षड्जभाषा तु षट्स्वरा ॥

उदाहरणं - पानिधाधा । सानिधाधा । समानिधा ।
मागागामा । निधाधा । गामागामा । गमाधाधा । गरिसानिधा ।
पमामा । पामाधानी । धाधा । षड्जभाषा ।

*मध्यमांशा धैवतान्ता षाडबा ऋषभान्विता ।
गीयते यज्ञकाले या सा ख्याता बाह्यषाडबा ॥

उदाहरणं - माधा । मानिनिपामापा । धाधा ।
माधामागा । गागागामा । ममनिध । मापापानि ।
धाधाधा । बाह्यषाडबा ।

निषादांशा धैवतान्ता षाडबा षड्जवर्जिता ।
कोसलदेशसम्भूता प्रतीहारेषु गीयते ॥

उदाहरणं - निनिधा । पामामा । मागमा । सासासासासा । मागमानिधाधा ।
कौसली 

मालवीगुर्जर्योर्लक्षणमुदाहरणम् न दृश्यते ।


निषादपतरख्याता(?) धैवताद्यन्तरा ++ ।
+++भ्या +भाषा च गीतान्त्येन विवर्जिता ॥

उदाहरणं - धामागापा । पासापापा । गमामापानिधावाधाधा ।
पामाधागागा । सनिधाधापापा । धासागमागाप 
निधाधानीसरिसामापानिधापामामागापसधानिधाधा ।
निषादवती । 

धैवताद्यन्तसंयुक्ता षाडबा तुम्बुरु स्मृता ।
ऋषभेण विहीना तु गीयते ब्रह्मवादिभिः ॥

उदाहरणं - धानिसागागामाधापामागरिसनीधाधा । तुम्बुरु

गान्धारललिता पूर्णा मध्यमांशाल्पधैवता ।
गीयते पितृकार्येषु षड्जधैवतमक्रमात् ॥

उदाहरणं - माधापा । पासासामगसासाकारीसानिधाधासासारिगामागारिरि ।
सागरीसारी । साधा । गान्धारवलिता । धाधाधापा । गरिरिधापधानिनिरिगापपानिधाधा 
रिगरिगधापधारिपागिरिनिधापाधापा ।

कलिङ्गा धैवतान्तरभाषा धैवतमध्यमा शुभा ।
मूलभाषा भिन्नषड्जे गीयते नारदतुम्बुरू (?) ॥

उदाहरणं - धापानिनिसानिधानिगामापापारिपापाधानिनि ।
धानीगारीगासागासासासासापापामापापा । गमसानिगागगम
सागासाधामागामामा । मध्यमा ।
पञ्चमांशा तु पार्वत्या धैवतान्ता च देशजा ।
हृष्टा क्षत्रपरिषदि गीयते पूर्णशड्जसमुद्भवा (?) ॥

उदाहरणं - पापापागामारिरिनिरिमधापापापासारिमा । पागारिरिसनिधापापाधा । पार्वती । "
इति शार्दूलमते भाषाः षोडश समाप्ताः

३६६गघ लक्ष्यलक्षणसंयुक्ताः प्रस्तारेण समन्विताः
३६७कख उक्ता भाषाः समीचीना विभाषा(पि ? भि)र्विभूषिताः
इति भाषालक्षणं समाप्तम्

बन्धूकाभां त्रिनेत्राममृतकरकलाशेखरां रक्तवस्त्रा
पीनोत्तुङ्गप्रवृत्तस्तनभरनमितां यौवनारम्भरूढाम्
सर्वालङ्कारभूषां सरसिजनिलयां बीजसङ्क्रान्तमूर्तिं
देवीं पाशाङ्कुशाभ्यामभयवरकरां विश्वयोनिं नमामि
३६८कख अतः परं प्रवक्ष्यामि द्ĕशीरागकदम्बकम्
३६८गघ रिपधामन्त्रमध्या(?) +++++++++
३६९कख मध्यमांशग्रहन्यासा रिमन्द्रा तारतत्परा
३६९गघ कच्चेल्लीगतिहीना च विġये(या) परिभूरिजा
३७०कख गान्धारग्रहन्यासा च षड्जांशा तारवर्जिता
३७०गघ समन्द्रा सस्वरा चैव परिहीनासिका भवेत्
३७१गघ समस्वरा च सम्पूर्णा माङ्गाली (पी ? गी) यते जनैः
३७२कख पञ्चमांशग्रहन्यासा गमन्द्रा षड्जतारका
३७२गघ रिहीना च धगस्वल्पा ज्ञेया हम्माणिका बुधैः
३७३कख षड्जांशा धैवतन्यासा गपहीना पुलिन्दिका
३७३गघ षड्जधैवतसंवादा धैवतर्षभयोस्तथा
३७४कखगान्धारसिन्धुषड्जन्यासग्रहा धांशधारिता
३७४गघ ++++++++++++मन्द्रमध्यमा
३७५गघ समस्वरा च सम्पूर्णीं कर्णाटी नामतो (द्भ ? भ)वेत्

इति मतङ्गमुनिविरचितबृहद्देश्यां भाषालक्ष(णो? णा)ध्यायो नाम पञ्चमः समाप्तः ॥

३७६कख देशिकारप्रबन्धोऽयं(?) हरवक्त्राभिनिर्गताः
३७६गघ असङ्ख्यातास्तु कथितो न ज्ञायन्तेऽल्पबुद्धिभिः
प्रबन्धः 
३७७कख तेषां मध्यात् समुद्धुत्थ युक्तलक्षणटक्षितान्
३७७गघ श्रीमतङ्गमुनिः प्राह मुनीनानुद्दिश्य तद्यथा
३७८कख *आद्य प्रबन्धः क(जा ? न्दा) ख्यो वृत्ता नाम द्वितीयकः
३७८गघ गद्यरूपस्तृतीयः स्याद् दण्दकः स्याच्चतुर्थकः
३७९कख स्पञ्चमो वर्णकः ख्यातः षष्ट आर्यापिधायकः
३७९गघ सप्तमी कर्शिता गाथा ततो द्विपथकोऽष्तमः
३८०कख वर्धटीं नवमीं प्राहुरद्धिला दशमी भवेत्
३८०गघ एकादश मयेस्थाते(?)गदिता सा चतुष्पदी
३८१कख दोथको द्वादशः प्रोक्तस्तोटकः स्यात् त्रयोदश
३८१गघ ततस्चतुर्द(शा ? शो) ज्ञेयो वस्त्वाख्यस्तु प्रबन्धकः
३८२कख ततः क्रौञ्चपदस्तूर्ध्वं हंसपात् षोडशः स्मृतः
३८२गघ सप्तदशः प्रबन्धस्तु शुकसारितसंज्ञकः
३८३कख अष्टादशस्चाश्मलीला एकोनो दशलीलकः (?)
३८३गघ द्वाविंशति सिंहलीलः शरभलीलैकविंशतिः (?)
३८४कख द्वाविंशति मः स्यात्तु शुकचुम्̐चुरितीह यः
३८४गघ त्रयोविंश् विचित्रः स्याच्चतुर्विंशस्त्रिभङ्गिकः 
३८५कख पञ्चविंशतिमस्थाने चतुरङ्ग उदाहृतः
३८५गघ जयवर्धनसंज्ञश्च ततः परतरो भवेत्
३८६कख सप्तविंशतिमा सा स्यदङ्कचारिणिका मता
३८६गघ + द्वात्रिंशतिमस्थाने +त्रिपदी षट्पदी क्वचित्
३८७कख त्रयस्त्रिंशत्तमं प्रोक्तं (तं ? तद्) बन्धकरणं पुनः
३८७गघ चतुस्त्रिंशत्तमः पाटकरणं समुदाहृतम्
३८८कख पञ्चत्रिंशत्तमः प्रोक्तः कैवाट इति दद्विधैः(?)
३८८गघ षट्त्रिंशत्तमसंज्ञस्तु द्विपदीति सतां मता
---
*अत्र प्रकरणे उद्दुष्टेषु केषाञ्चिल्लक्षणादर्शनं लक्षितेषु च केषाञ्चिदनुद्देशः उद्देशलक्षनवाक्येशु नामभेदश्च वर्तते । +अष्टाविंशादिकं लुप्तं स्यात् 

३८९कख सप्तत्रिंशत्तमा या तु मुनिना वर्तनी मता
३८९गघ अष्तत्रिंशत्तमा त्वेला बहुभेदप्रविस्तरा
३९०कख चत्वारिंशदथैकोना(?) मतो झोम(न्ध ? ड) कस्तथा
३९०गघ चत्वारिंशत् ततो ज्ञेया ततोऽथ ध्वनिकुट्टनी
३९१कख एकाधिको भवेड् डेङ्की द्यथेका (?) चैकतालिका
३९१गघ एतेषामधिकः ख्यातः प्रबन्धो मातृकाह्वयः
३९२कख चतुर्भिरधि +++ चत्वारिंशत्तमः पुनः
३९२गघ प्रबन्धोऽयं स्वरार्थः स्याद् ज्ञेयोऽसौ गीतवेदिभिः
३९३कख चत्वारिंशत्तमं प्रोक्तं करणं पञ्चभिर्युतम्
३९३गघ चत्वारिंशद्यु(ताः ? तः) षड्भिश्चासौ वर्णस्वरः स्मृतः
३९४कख चत्वारिंशत् सप्तयुता ज्ञेता मुक्तावलीति या
३९४गघ प्रतापवर्ध(त ? न) श्चाष्टचत्वारिंशत् प्रकीर्तितः
३९५कख पञ्चधा मुनिना ख्याता चत्वारिंशत् सुसंयुता
३९५गघ एतेषां लक्षणं चच्चिसमासाद् विदूषात्तमम्
३९६कख यथोक्तं चात्र नियमै++++++++
३९६गघ रागैरथावदुक्तैरस्तु गातव्या गीतकोविदैः
३९७कख तालशून्यादि तु यः पाटैर्विरुतैश्च समन्वि(ताः ? तः)
३९७गघ स कन्द इति कर्णाटभाषादिपदमिश्रितः
३९८कख क(दा ? न्दा) दिप्रबन्धा लक्ष्यतः प्रसिद्धा एव
३९८गघ आर्याया द्विपथे वृत्थे गाधाया जेथके तथा(?)
३९८चछ तोटकेन च तालस्य नियमो नास्ति कदाचन
३९९कख मुक्यता तेषु निर्दिष्टा मुनिभिश्छन्दसा स्फुटम्
३९९गघ अन्तःस्वर + विन्यासः ++++++++
४००कख +++++++++क्षोन्ति तदपि सम्मतः
४००गघ व्रातो यस्य भवेत् तालो वर्णनीयस्य संज्ञया
४०१कख गीयते यत् तदत्राहुर्गद्यं गीतविशारदाः
४०१गघ तालयुक्तं स्वरोपेतं मध्ये पाटविराजितम्
४०२कख पुनः पदसमायुक्तं गानं + दण्डको बुधैः (?)
४०२गघ विभूत्याग + सौभाग्यविरुतैः समलङ्कृ(तम् ? तः)
४०३कख तालेनापि च युक्तः स्याद् वर्णः कर्णाटभाषया
४०३गघ स्वरावाटसमायुक्ता तालेन तु समन्विता
४०४कख कया विभाषया युक्ता विरुतैः सा तु पाटली
४०४गघ यत्र स्यात् स्वरविन्यासः प्रतिपादान्त(दु ? मु) ज्ज्वलः
४०५कख तालेन च समायुक्तः अर्धिला   नाम सो भवेत्(?)
४०५गघ परूप्रतिपदार्थं तु गीतं तालयुतं भवेत्
४०६कख तातेन्तकैस्वासंयुक्तै स्वाचतुष्पीटिका भवेत् (?)
४०६गघ अर्थं गीत्वा परार्थं तु ततापरि ततस्वरा(?)
४०७कख ++++श्चतेन्नाश्च (?) शेषं भवेत् ततो वरी
४०७गघ देशीगीतेऽपि वस्तु स्यान्नाटकेऽपि प्रयुज्यते
४०८कख गीते तु प्रति(ना ? ता)लेन पदस्वरसमायुतः
४०८गघ मतः क्रौञ्चपदो नाम स तु गान्धर्ववेदिनाम्
४०९कख संकृतं पादमेकं तु द्वितीयं देशसंयुतम्
४०९गघ सप्रासं गीयते यत्र गीतं हंसपदं विदुः
४१०कख यस्तु तालद्वयोपेतपद्पाटविराजितः
४१०गघ प्रश्नोत्तरसमायु(क्तेः ? क्तः) सदोक्तः शुकसारितः
४११कख ++कर्णाटभाषायामयथवा मिश्रिता यदि
४११गघ संवादकपदोपेतः स भवेच्छुकशारिकः
४१२कख अ (र्थ ? र्धं) यत्र स्वरैर्गीत्वा यत्यास्तुरगलीलया
४१२गघ गीयते विरुतैर(र्थं ? र्धं) हयलीलेति सा स्मृता
४१३कख गजलीलाकृतं सर्वं तालोऽपि गजलीलकः
४१३गघ क्रियते यत्र सा ज्ञेया गजलीलेति नामतः
४१४कख छन्दसा सिंहलीलेति स्व(र ? रा)न्ते नत संयुतः
४१४गघ गीयते यस्तु विरुतैः स भवेत् सिंहलीलकः
४१५कख स्वरपाटैर्निबद्धं च भवेत् यत्र पदाष्टकम्
४१५गघ मतः शरभलीलोऽसु रागतालाष्टकान्वितः
४१६कख आदौ रागः स(ग)मकस्तालेन तु समन्वितः
४१६गघ स्वरपाटप्रगीतस्तु नानादेशादिभाषया
४१७कख गीयते यः स उद्दिष्टः शुकचञ्चुर्जनप्रियः
४१७गघ अनेकदेशभाषाभिः पादैर्विरुदतेनकैः
४१८कख चित्रितः स्वरतालैश्च विचित्र इति कीर्तितः
४१८गघ पदैः स्वरैस्तथा पादरिवृत्तत्रयपदेन च
४१९कख तालत्रयविभिश्रेण त्रिभाङ्गिरभिधीयते
४१९गघ रागतालचतुष्केण यत्र भाषाचतुष्टयम्
४२०कख गीयते गीतचतुरेश्चतुरङ्गः स उच्यते
४२०गघ जयमालापदैर्युक्त ++स्तु विजया जयः
४२१कख जयार्थं गीयते यत्र ज्ञेयोऽसौ जयवर्धनः
४२१गघ आदितालेन संयुक्तं यव खण्ड(श्च? च)तुष्टयम्
४२२कख पदपादाष्टकं स स्यात् सिंहविक्रान्तसंज्ञकः
४२२गघ एकं पादं पुरो गीत्वा गीयन्ते च स्वरास्ततः
४२३कख झंपादितालसंयुक्तः स भवेत् कलहंसकः
४२३गघ यत्रार्ध तेन्तकोपेतद्विपदीवद् भवेद्धलः
४२४कख पदमन्त्यं गृहीत्वा तु यमकस्थितिभूषितः
४२४गघ आवृत्या गीयते योऽसौ चक्रवालः प्रकीर्तितः
४२५कख तालेन येनकेनापि विरुत्तैः केवलैरपि
४२५गघ यद्यदापि तथाभूता यावृत्तया गीयते द्विधा
४२६कख तालेन करणस्यैव स्वरैः समुरजाक्षरैः
४२६गघ गन्धर्वैर्गीयते यत्तु तद् बन्धकरणं पुनः
४२७कख पादाख्यं करणं प्रोक्तं हस्तपाटस्वरान्वितम्
४२७गघ अक्षरैर्गीत्यते सम्यक् पाटैरेव हि केवलैः
४२८कख कैवाट इति स ज्ञेयो गन्धर्वैस्तालसंयुतः
४२८गघ (यः ? या) स्यात् करणतालेन द्विपदीवृत्तसङ्गता
४२९कख सा भवेद् द्विपदी नाम प्रोक्ता वस्तुविचक्षणैः
४२९गघ ग्रहस्त्वभिमतो यत्र न्यासस्चांशेन केवलम्
४३०कख वर्णनीयस्य गातुश्च तस्याद्वामप्रवेश्यते (?) 
४३०गघ कङ्गालः प्रतितालश्च द्रुतमठः कुटुक्ककम्
४३१कख विहाय गीयते या तु स्वरैः सा वर्तनी मता
४३१गघ आद्यं पादद्वयं यत्र स्यादनुप्रासवर्जितम्
४३२कख अनुप्रासस्तृतीयेऽपि चतुर्थे वा(द ? थ) गीयते
४३२गघ त+++++++सानुप्रासश्च पञ्चमः  

४३३कख चतस्रो गीतयो यत्र पादे पादे भवन्ति च
४३३गघ गीत्वा तदीयपादार्धमनुप्रासो विधीयते
४३४कख त्यागसाउभाग्यसौन्दर्यशौर्यधैर्यादिवर्णना
४३४गघ यस्यां भवति गीतज्ञास्तामेलां सम्प्रचक्षते
४३५कख स++वहि गातव्या गीतज्ञैर्गीतिवस्तुषु
४३५गघ म्हट्टेनाथ प्रतितालेन कर्तव्यैला मनीषिभिः
४३६कख संयुक्ता प्रतितालेन कर्तव्यैला मनीषिभिः
४३६गघ वर्णनीयसमायुक्ता मते केषाञ्चिदिष्यते
४३७कख रम्यगीतगुणैर्युक्ता चन्दोगणसमन्विता
४३७गघ अलङ्काररसोपेता कर्तय्वैला मनीषिभिः
४३८गघ आदौ नादवती प्रोक्ता ततो हंसावती मता
४३९कख नन्दावती तृतीया च तुर्या भद्रावती स्मृता
४३९गघ ऋग्वेदादिसमुद्भूता विचित्रध्वनिरञ्जिता
४४०कख इत्येला गणमार्गेण बुधैरुक्ता चतुर्विधा
४४०गघ एला नादावती रम्या वर्णालङ्कारशोभिता
४४१कख गीयते मट्टतालेन नादयुक्ता पदे पदे
४४१गघ टक्करागो भवेत् तत्र सर्वेषामनुरञ्जकः
४४२कख श्वेतो वर्णश्च विज्ञेयः शृङ्गारः कथितो रसः
४४२गघ कैशिकीवृत्तिराख्याता पाञ्चाली री(तिरिष्य) ते  
४४३कख भारती देवता तस्या ब्राह्मणानां कुलं तथा
४४३गघ यत्र चन्द्रगणाः पञ्च स्व(र्गे ? र्य) णेकेन संयुता
४४४कख एला नादावती नाम सा स्मृता पूर्वसूरिभिः
४४४गघ हंस्येव गतिं का सा(?) नादेन च पदेन च
४४५कख समं प्रवर्तते यस्मात् ततो हंसावती स्मृता
४४५गघ तालो द्वितीयकस्तत्र हिन्दोलेन तु गीयते
४४६कख रक्तो वर्णः समाख्यातश्चण्डिका देवता भवेत्
४४६गघ वृत्तिरारभटी प्रोक्ता लाटीया रीतिरिष्यते
४४७कख क्षत्रियाणां कुलं चैव रसो रौद्रः प्रकीर्तितः
४४७गघ यत्रानलगणाः पञ्च षष्टओ वायुगणस्तथा
४४८कख एला हंसावती हन्त स्मृता गीतपारगौः
४४८गघ लघुभिर्गमकैर्युक्ता रागा मालवकैशिके
४४९कख एला नन्दावती नाम प्रतितालेन गीयते
४४९गघ इन्द्राणी देवता वृत्तिः सात्वती तत्र कीर्तिता
४५०कख गौडीया कथ्यते रीतिः पीतो वर्णः स्मृतो बुधैः
४५०गघ रसो वीरः समाख्यातो वैश्यानां कुलसम्भवः
४५१कख (न ? ना) दावत्यमिव सर्वं कर्तव्यं रागपूर्वकम्
४५१गघ यत्राम्बरगणाः पञ्च मार्ताण्डगणसंयुताः
४५२कख एला नन्दावती सा तु विज्ञेया गीतवेदिभिः
४५२गघ एकैकपदसंयुक्ता मूर्चनाध्वनिसङ्कुला
४५३कख कङ्कालतालसंबन्धा ककुभेन प्रगीयते
४५३गघ एला भद्रावती नाम शूद्रजातिसमुद्भवा
४५४कख कृष्णवर्णा च विज्ञेया वैदर्भींरीतिशोभिता
४५४गघ भारतीवृत्तियुक्ता च बीभत्सरसभूषिता
४५५कख आराहिदेवतोपेता कथिता गीतकोविदैः
४५५गघ यत्र भूमिगणाः पञ्च षष्ठो कलगणास्तथा
४५६कख भद्रावतीति विख्याता सा स्मृता पुटपुङ्गवैः(?)
४५६गघ त्रिपदं पादसंख्यानमूर्छनाबिन्दुसङ्कुलम्
४५७कख य(त)स्थितं गमकं कुर्यादेतदेलासु लक्षणम्
४५७गघ ततश्च वर्ण्यमानस्य नाम सव्वत्(?) प्रवेशयेत्
४५८कख ललिता रससंयुक्ता स्वाभिधानमतःपरम्
इति गणैलाचतुष्टयम्
४५८गघ तृतीयपादवत् पादश्चतुर्थो यदि वर्धते
४५९कख एला सङ्करतामेति  मतङ्गमुनिभाषितम्
४५९गघ पञ्चमीद्वि(त)यं सङ्करनाम्नी एला +++
४६०कख रतिलेखा कामलेखा बाणलेखा तथैव च
४६०गघ कथ्यते चन्द्रलेखा च मात्रैलामाह वल्लभः
४६१गघ रुद्रहस्तमाश्चैव रत्याख्यगणसम्मिता(ः)
४६२कख भवन्तीति यतस्तज्ज्ञाइर्धातुसन्मातृभाभि च(?)
४६२गघ कथिता गीतशास्त्रज्ञैः रतिलेखेति नामतः
४६३कख द्विगुणितरुद्राः प्रथमे मात्रा युजि सम्भवन्ति ता एकः
४६३गघ विंशति विषमे(?) चरमे यस्याः सा कामलेखेति
४६४कख (द्वि) द्विगुणितकला यदि स्युर्मात्राः पादद्वयेऽपि + विशिष्टम्
४६४गघ ........ बाणगणोपेतं यस्यां सा बाणलेखेति
४६५कख चत्वारिंशत् त्रतधिका मात्रासंख्याङ्घ्रियुग्मेषु
४६५गघ एकोना सा विषमे यस्यां सा चन्द्रलेखेति 
इति मात्रैलाचतुष्टयम् 
४६६कख नैवात्र तालनियमो रसनियमो रागनियमस्तु
४६६गघ भवति++वर्णनियमो वर्णैला कथ्यते तस्मात्
४६७कख मदनवती शशिलेखा प्रभावती मालती (च) तथा
४६७गघ हेमवती कुसुमवती वर्णानिबन्ध भवन्ति सप्तैलाः
४६८कख एकादशादिवर्णैः सप्तदशान्तैः क्रमेण सप्तैताः
४६८गघ गीयन्ते गन्धर्वैरललितपदैर्जगति सन्नादैः
४६९कख अललितनामोपेता मदनवती लघुगणेन शशिलेखा
४६९गघ गुरुगणबहुला प्रभावती ........ भवति रम्यतरा
४७०कख एला गुरुलघु (वि?) रचिता मधुरध्वनिशोभिता तथा सरसा
४७०गघ बहुग(य?) म (का)लङ्कारा रमणीया मालती भवति
४७१कख गातव्या गन्धर्वैर्ललिता ललितेन वर्णनियमेन
४७१गघ प्रथममिव चरणयुगलं सयमकमथ बिन्दुमूर्चनायुक्तम्
४७२कख ललितपदं विरुतां कथं(?) तथाच यतिसंस्थितं गमकम्
४७२गघ चरणयुगत्रयमेवं नाम ततो भवति वर्णनीयस्य
४७३कख लघुवर्णपदनिबद्धं तत् पुनरपि गीयते गीत्वा
४७३गघ गातृजननामध्यं वीरविलासादिवर्णनापूर्वम्
४७४कख यस्यां वर्णैला सा कथिता क्रमतो मतङ्गेन
४७४गघ प्रतापोत्साहधैर्यादिवर्णनागुणगौरवम्
४७५कख क्रमशो दृश्यते यस्यां वर्णैला सा प्रकीर्तिता
४७५गघ मट्टद्वितीयं (कं) कालप्रतितालेन गीयते  
४७६कख प्रकारेणैकेन कथिता येनाधुना स्फुटम्
४७६गघ कथ्यते तु समरसेन वर्णैलसप्तकं पुनः
४७७कख रमणी चन्द्रिका लक्ष्मीः पद्मिनी रञ्जिनी तथा
४७७गघ मालती मोहिनी चेति वर्णैलासप्तकं तथा
४७८कख समा यत्र यतिः पादे प्रथमे द्विनिद्वितीयत्के(?)
४७८गघ पादे पादे च नाद्याढ्या षट्पदी रमणीति सा
४७९कख स्रोतोगता समा चैव यत्र पादद्वये भवेत्
४७९गघ बिन्दुभिर्गमकैर्युक्ता चन्द्रिणीति प्रकीर्तिता
४८०कख गोपुच्चा च समा स्रोता यत्र पादत्रयेऽपि च
४८०गघ मूर्चना नादसहिता सैला लक्ष्मीरिति स्मृता
४८१कख आद्ये पादे द्वितीये च तृतीये च चतुर्थके
४८१गघ वर्णध्वनिसमायुक्ता पद्मिन्येला निगद्यते
४८२कख प्रथमे च समा स्रोता द्वितीये च तृईयके
४८२गघ गोपुच्चा गमकाड्या च रञ्जिनी नाम सा भवेत्
४८३गघ लधुभिर्गुरुभिर्वर्णैर्या तु प्रासैर्विनिर्मिता
४८३गघ यदिष्टका(?) चतुष्पादा सा चैला मालती मता
४८४कख पञ्चपादसमायुक्ता मूर्चनागमकान्विता
४८४गघ मोहिनी नाम सा ज्ञेया वर्णैला सप्तमी शुभा
४८५कख लोकदुष्टं शास्त्रशास्त्र +++पञ्च वर्जयेत् 
४८५गघ +गोदुष्टम् तथा ग्राम्यं गतक्रमपार्थकम्
४८६कख पदं कापमसनदिग्धं कला चाभञ्चि भक्तकम्
४८६गघ प्रकारेण तताष्चोक्ता वर्णे तालचतुष्टयम्
४८७कख लाटकर्णाटगौडान्ध्रद्रविडानां स्वभाषया
४८७गघ पृथक् पृथग् भवन्त्येला मार्गयुक्ता मनोहरा
४८८कख अतः प्राससमायुक्ता मध्यादिप्रासवर्जिता
४८८गघ रसैर्भावैश्च संयुक्ता लटैला परिकीर्तिता
४८९कख प्रासैर्मनोहरैर्दिव्यैरादिमध्यान्तगोचरैः
४८९गघ एला कर्णाटका प्रोक्ता ललितध्वनिसंयुता
४९०कख सर्वत्र प्राससहिता गमकश्चैव विवर्जिता
४९०गघ (नदा ? नाद) बिन्दुरसोपेता एला सा गौडदेशजा
४९१कख एकेकगमकाकीर्णामनेकध्वनिमिश्रिताम्
४९१गघ अनेकरागसङ्कीर्णामेला(मद्रीं मान्ध्रीं) विदुर्बुधाः
४९२कख भावाभिनयतालाड्या विचित्रध्वनिरञ्जिता
४९२गघ प्रासहीना रसस्था च एला द्राविडदेशजा

इति देशाख्येलापञ्चकम्
४९३कख गणैला (क्त ? तु) चतु(र्थो ? र्धो) क्ता पञ्चमी सङ्करात्मिका
४९३गघ मात्रैला च चतुर्भेदः कथिता गीतकोविदैः
४९४कख चतुर्दशविभेदेन वर्णैला परिगीयते
४९४गघ पञ्चधा देशभेदेन (शैल्ष ? देशै)लाः समुदीरिताः
४९५कख एकत्र मिलितास्त्वेता अष्टाविंशतिसंख्यया
४९५गघ (वि) ज्ञाता गीतशास्त्रज्ञै(ः स्वस्व)लक्षणसंयुताः
४९६कख आ (वि ? वृ) त्तया यत्र पादा(र्थं ? र्धं) गीत्वा तदनुगीयते
४९६गघ अंध्र द्वीतीयपादस्य प्रासस्तु स्याद् द्वयोरपि
४९७कख एवमेव द्वितीयोऽपि अस्य पादः प्रगीयते
४९७गघ एवं (द्वि ? तृ) तीयपादश्च पादो यश्च चतुर्थकः  
४९८कख प्रत्येकं सर्वपादानामन्तेऽसौ यत्र गीयते
४९८गघ स तु झोंबडको नाम गीतज्ञैरभिधीयते
४९९कख कङ्कालो नाम तारश्च नैव झोंबडको भवेत्
४९९गघ अन्ये तु देशीसंबन्धास्तालाः सर्वे भवन्ति हि  
५००कख ताना+लङ्कृता भेदा झोंबडऽस्य भवन्ति हि
५००गघ मात्रा समा ध्वनिश्चात्र विरामोऽ(त?न)न्तरं क्वचित्
५०१कख अस्यैव यदि तालोऽसौ तदा सा ध्वनिकुट्ट(ति? नि)
५०१गघ (ये ? स्वे) च्छया गृह्यते यत्र नादोऽक्षरसमन्वितः
५०२कख तालशून्यस्ततस्तालो डेङ्गिका सा प्रकीर्तिता
५०२गघ निरन्तरमनुप्रासो यतिर्यत्र दृतो दृते 
५०३कख क्रियते गीततत्वज्ञैः सा स्मृता त्वेकतालिका
५०३गघ आदाय गीयते यस्यामेकैकं मातृकाक्षरम्
५०४कख इष्टेनार्थेन संोज्य मातृका सा प्रकीर्तिता
५०४गघ वाञ्छितार्थस्वरैरेव यत्र सम्यक् प्रगीयते
५०५कख वस्त्वात्मकेषु गीतेषु स स्वरार्थ इति स्मृतः
५०५गघ निरन्तरं स्वरैरेव यत्र खण्डद्वयं भवेत्
५०६कख तदत्र कारणं प्रोक्तं यत्या तु कारणाख्यया
५०६गघ निबन्धो हस्तपाटैर्यः संयुतैस्तैर्नकैः पुनः
५०७कख स्वरैः पदैश्च पाटैश्च तेन्तकैश्च समन्वितः
५०७गघ गीयते तालयुक्तो यः स वर्णासरकः स्मृतः
५०८कख देशीकारपदै रम्यैः सानुप्रासैः प्रगीयते
५०८गघ नामानुवर्णनीयस्य सा मुक्तावलिसंम्̐ज्ञिता
५०९कख उत्साहजननैः पादैः स्वरैश्च +सुसंयुतः
५०९गघ तेन्तकैर्विरुदैर्यते वर्णनीयस्य गीयते ॥
५१०कख प्रतापवर्ध(तो?नो) नाम प्रबन्धः परिकीर्तितः
५१०गघ अष्टाभिरधिका रम्याश्चत्वारिंशदिति स्फुटम् ॥ 
५११कख विबुधानां विनोदाय प्रबन्धा कथिता मया ।
५११गघ इदानीं कथयिष्यामि वाद्यस्य निर्णयो यथा

शुभं भूयात्
"https://sa.wikisource.org/w/index.php?title=बृहद्देशी&oldid=201371" इत्यस्माद् प्रतिप्राप्तम्