बृहद्देवता/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search

आह चैवास्य द्वौ स्तोमाव् आश्रयौ शाकटायनः ।
यश्च पञ्चदशो नाम्ना संख्यया त्रिणवश्च यः ।। १ ।।
संस्तुतश्चैव पूष्णा च विष्णुना वरुणेन च ।
सोमवाय्वग्निकुत्सैश्च ब्रह्मणस्पतिनैव च ।। २ । ।
बृहतस्पतिना चैव नाम्ना यश्चापि पर्वतः ।
कासुचित्केचिदित्याहुर् निपाता स्तुतिषु स्तुताः ।। ३ ।।
मित्रश्च श्रूयते देवो वरुणेन सहासकृत् ।
रुद्रेण सोमः पूष्णा च पुनः पूषा च वायुना ।। ४ ।।
वातेनैव च पर्जन्यो लक्ष्यतेऽन्यत्र वै क्वचित् ।
ऋक्ष्वर्धर्चेषु पादेषु सूक्तेष्वेषु तु कृत्स्नशः ।। ५ ।।
रसादानं तु कर्मास्य वृत्रस्य च निबर्हणम् ।
स्तुतेः प्रभुत्वं सर्वस्य बलस्य निखिला कृतिः ।। ६ ।।
इत्यैन्द्रो मध्यमस्थानो गणः सम्यगुदाहृतः ।
यः परस्तु गणः सौर्यो द्युस्थानस्तं निबोधत ।। ७ ।।
तस्य मुख्यतमौ देवाव् अश्विनौ सूर्यमाश्रितौ ।
वृषाकपायी सूर्योषाः सूर्यस्यैव तु पत्नयः ।। ८ ।।
अमुतोऽर्वाङ् निवर्तन्ते प्रतिलोमास्तदाश्रयाः ।
पुरोदयात्तामुषसं सूर्यां मध्यंदिने स्थिते ।। ९ । ।
वृषाकपायीं सूर्यस्य तामेवाहुस्तु निम्रुचि ।
तस्याश्रये सरण्यूश्च भगः पूषा वृषाकपिः ।। २.१० ।।
यमो वैश्वानरो विष्णुर् वरुणश्चैकपादजः ।
पृथिवी च समुद्रश्च देवाः सप्तर्षयश्च ये । । ११ । ।
आदित्याः केशिसाध्याश्च सविता वसुभिर्मनुः ।
दध्यङ्ङथर्वा विश्वे च वाजिनो देवपत्नयः ।। १ २।।
असौ तृतीयं सवनं लोकः साम च रैवतम् ।
वैरूपं चैव वर्षाश्च शिशिरोऽथ ऋतुस्तथा ।। १३ ।।
त्रयस्त्रिंशश्च य स्तोमः क्लृप्त्या सप्तदशश्च यः ।
छन्दश्च जगती नाम्ना तथातिछन्दसश्च याः ।। १४ ।।
पौरुषं चाहुरस्यैतत् सर्वमेव ते पौरुषम् ।
एतस्यैव तु विज्ञेया देवाः संस्तविकास्त्रयः ।। १५ ।।
चन्द्रमाश्चैव वायुश्च यं च संवत्सरं विदुः ।
केचित्तु निर्वपन्त्यस्य सौर्यवैश्वानरं हविः ।। १६ ।।
सौर्यवैश्वानरीयं हि तत्सूक्तमिव दृश्यते ।
ऋगर्धर्चोऽथवा पादो द्वृचो वा यदि वा तृचः ।। १७ ।।
अनेन तु प्रवादेन दृष्टा मूर्धन्वता स्तुतिः ।
सूर्यवैश्वानराग्नीनाम् ऐकात्म्यमिह दृश्यते ।। १८ ।।
हरणं तु रसस्यैतत् कर्मामुत्र च रश्मिभिः ।
येन नातिविजानन्ति सर्वभूतानि चक्षुषा ।। १९ ।।
विभागमिममेतेषां विभूतिस्थानसंभवम् ।
संयग्विजानन्मन्त्रेषु तं तु कर्मसु योजयेत् ।। २.२० ।।
'अध्यापयन्नधीयानो मन्त्रं चैवानुकीर्तयन् ।
स्थानं सालोक्यं सायुज्यम् एतेषामेव गच्छति ।। २१ ।।
अग्नेस्तु यानि सूक्तानि पञ्च नामानि कारवः।
षड्विंशतिस्तथेन्द्रस्य प्राहुः सूर्यस्य सप्त च ।। २२ ।।
तेषां पृथङ्निर्वचनम् एकैकस्येह कर्मजम् ।
उच्यमानं यथान्यायं शृणुध्वमखिलं मया ।। २३ ।।
जातो यदग्रे भूतानाम् अग्रणीरध्वरे च यत् ।
नाम्ना संनयते वाङ्गं स्तुतोऽग्निरिति सूरिभिः ।। २४ ।।
द्रविणं धनं बलं वापि प्रायच्छद्येन कर्मणा ।
तत्कर्म दृष्ट्वा कुत्सस्तु प्राहैनं द्रविणोदसम् ।। २५ ।।
अयं तनूनपादग्निर् असौ हि तननात्तनुः ।
ततस्तु मध्यमो जज्ञे स्थानेऽयं मध्यमात्ततः ।। २६ ।।
अनन्तरां प्रजामाहुर् नपादिति कृपण्यवः ।
नपादमुष्य चैवायम् अग्निस्तेन तनूनपात् ।। २७ ।।
पृथक्त्वेन समासैस्तु यज्ञे यच्छस्यते नृभिः ।
स्तुवन्त्याप्रीषु तेनेमं नराशंसं तु कारवः ।। २८ ।।
पुनाति यदिदं विश्वम् एवाग्निः पार्थिवोऽथ च ।
वैखानसर्षिभिस्तेन पवमान इति स्तुतः ।। २९ ।।
भूतानि वेद यज्जातो जातवेदाथ कथ्यते ।
यच्चैष जातविद्योऽभूद् वित्तं जातोऽधिवेत्ति वा ।। २.३० ।।
विद्यते सर्वभूतैर्हि यद्वा जातः पुनः पुनः ।
तेनैष मध्यभागेन्द्रो जातवेदा इति स्तुतः ।। ३ १ ।।
अणिष्ठ एष यत्तु त्रीन् व्याप्यैको व्योम्नि तिष्ठति ।
तेनैनमृषयोऽर्चन्तः कर्मणा वायुमब्रुवन् ।।३२।।
त्रीणीमान्यावृणोत्येको मूर्तेन तु रसेन यत् ।
तयैनं वरुणं शक्त्या स्तुतिष्वाहुः कृपण्यवः ।। ३३ ।।
अरोदोदन्तरिक्षे यद् विद्युद्वृष्टिं ददन्नृणाम् ।
चतुर्भिर्ऋषिभिस्तेन रुद्र इत्यभिसंस्तुतः ।। ३४ ।।
चतुर्विधानां भूतानां प्राणो भूत्वा व्यवस्थितः ।
ईष्टे चैवास्य सर्वस्य तेनेन्द्र इति स स्मृतः ।। ३५ ।।
इरां दृणाति यत्काले मरुद्भिः सहितोऽम्बरे ।
रवेण महता युक्तस् तेनेन्द्रमृषयोऽब्रुवन् ।। ३६ ।।
यदिमां प्रार्जयत्येको रसेनाम्बरजेन गाम् ।
कालेऽत्रिरौर्वशश्चर्षी तेन पर्जन्यमाहतुः ।। ३७ ।।
तर्पयत्येष यल्लोकाञ् जन्यो जनहितश्च यत् ।
परो जेता जनयिता यद्वाग्नेयस्ततो जगौ ।। ३८ ।।
बृहन्तौ पाति यल्लोकाव् एष द्वौ मध्यमोत्तमौ ।
बृहता कर्मणा तेन बृहस्पतिरितीळितः ।। ३९ ।।
ब्रह्म वाग् ब्रह्म सत्यं च ब्रह्म सर्वमिदं जगत् ।
पातारं ब्रह्मणस्तेन शौनहोत्र स्तुवञ्जगौ ।। २.४० ।।
अन्नं क्षितिभ्यो विदधद् यदृतुष्वविशत्क्षितौ ।
तेनैनमाह क्षेत्रस्य वामदेव स्तुवन्पतिम् ।। ४१ ।।
मनसेमं तु यद्दृश्यं मध्यमं लोकमाश्रितम् ।
शंसत्सत्येन सत्ये वै स एष स्तुतवानृतम् ।। ४२ ।।
रवेणान्तारसैः क्षिप्तै स्थितो व्योम्न्येष मायया ।
ऋतस्य श्लोक इत्येष पुनश्चैनं ततोऽब्रवीत् ।। ४३ ।।
वास्तुप्रयच्छंल्लोकस्य मध्यमः स तु पाति यत् ।
तेन वास्तोष्पतिं प्राह चतुर्भिरिममौर्वशः ।। ४४ ।।
वाचा वेदा ह्यधीयन्ते वाचा छन्दांसि तत्र ह ।
अथो वाक् सर्वमेवेदं तेन वाचस्पति स्तुतः ।। ४५. ।।
न कुतश्चन यद्दीनो वृत्वा तिष्ठति मध्यमः ।
राहूगण ऋषिस्तेन प्राहैनं गोतमोऽदितिम् ।। ४६ ।।
प्रजाभ्यस्त्वेष यच्छर्म कमिच्छन्मनसा सुखम् ।
हिरण्यगर्भस्तेनैनम् ऋषिरर्चन्नुवाच कम् ।। ४७ ।।
इह प्रजाः प्रयच्छन्स संगृहीत्वा प्रयाति च ।
ऋषिर्विवस्वतः पुत्रं तेनाहैनं यमो यमम् ।। ४८ ।।
मित्रीकृत्य जना विश्वे यदिमं पर्युपासते ।
मित्र इत्याह तेनैनं विश्वामित्र स्तुवन्स्वयम् ।। ४९ ।।
निदाघमासातिगमे यदृतेनावति क्षितिम् ।
विश्वस्य जनयन्कर्म विश्वकर्मैष तेन सः ।। २.५० ।।
सरांसि घृतवन्त्यस्य सन्ति लोकेषु यत्त्रिषु ।
सरस्वन्तमिति प्राह वाचं प्राहुः सरस्वतीम् ।। ५१ ।।
प्राणभूतस्तु भूतेषु यद्वेनत्येषु तिष्ठति ।
तेनैनं वेनमाहर्षिर् वेनो नामेह भार्गवः ।। ५२ ।।
ससृजे मासि मास्येनम् अभिमत्य तपोऽग्रजम् ।
तेनैनं मन्युरित्याह मन्युरेव तु तापसः ।। ५३ ।।
यदन्तकाल भूतानाम् एक एव नयत्यसून् ।
तेनासुनीतिरुक्तोऽयं स्तुवता श्रुतबन्धुना ।। ५४ ।।
निदाघमासातिगमे जन्म मध्ये भवत्यपाम् ।
नप्तारमाह तेनैनम् ऋषिर्गृत्समद स्तुवन् ।। ५५ ।।
अपामम्बरगर्भौघम् आदधत्सोऽष्टमासिकम् ।
यत्क्रन्दत्यसकृन्मध्ये दधिक्रास्तेन कथ्यते ।। ५६ ।।
मासेन संभृतं गर्भं नवमेनाथ मासिकम् ।
स्वयं क्रन्दन्दधात्युर्व्यां धातेत्यृग्भिः स गीयते ।। ५७ ।।
स्तीर्णेऽन्तरिक्षे क्षियति यद्वा तूर्णं क्षरत्यसौ ।
अरिष्टनेमिस्तार्क्ष्यर्षिस् तार्क्ष्यं तेनैवमुक्तवान् ।। ५८ ।।
रुवन्व्योम्न्युदयं याति कृन्तत्राद्विसृजन्नपः ।
पुरूरवसमाहैनं स्ववाक्येनोरुवासिनी । । ५९ ।।
यत्तु प्रच्यावयन्नेति घोषेण महता मृतम् ।
तेन मृत्युमिमं सन्तं स्तौति मृत्युरिति स्वयम् ।। २.६० ।।
नाम्ना संकुसुको नाम यमपुत्रो जघन्यजः ।
संवर्तयंस्तमः सूर्याद् उषसं च प्रवर्तयन् ।। ६१ ।।
उदितो भासयंल्लोकान् इमांश्चैष स्वरश्मिभिः ।
स्वयं वसिष्ठस्तेनैनम् ऋषिराह स्तुवन्भगम् ।। ६२ ।।
१२-पूषन्, विष्णु, केशिन्, विश्वानर, वृषाकपिं
पुष्यन् क्षितिं पोषयति प्रणुदन् रश्मिभिस्तमः ।
तेनैनमस्तौत्पूषेति भरद्वाजस्तु पञ्चभिः ।। ६३ ।।
त्रीणि भान्ति रजांस्यस्य यत्पदानि तु तेजसा ।
तेन मेधातिथिः प्राह विष्णुमेनं त्रिविक्रमम् ।। ६४ ।।
कृत्वा सायं पृथग्याति भूतेभ्यस्तमसोऽत्यये ।
प्रकाशं किरणैः कुर्वंस् तेनैनं केशिनं विदुः । । ६५ ।।
संप्रत्येकैकशस्त्वेनं यन्मन्यन्ते पृथङ्नराः ।
विश्वे विश्वानरस्तेन कर्मणा स्तुतिषु स्तुतः ।। ६६ ।।
वृषैष कपिलो भूत्वा यन्नाकमधिरोहति ।
वृषाकपिरसौ तेन विश्वस्मादिन्द्र उत्तरः ।
रश्मिभिः कम्पयन्नेति वृषा वर्षिष्ठ एव सः ।। ६७ ।।
सायाह्नकाले भूतानि स्वापयन्नस्तमेति यत् ।
वृषाकपिरितो वा स्याद् इति मन्त्रेषु दृश्यते ।। ६८ ।।
त्रिषु धन्वेति हीन्द्रेण प्रयुक्तो वारिषाकपे ।
विष्णातेर्विशतेर्वा स्याद् वेवेष्टेर्व्याप्तिकर्मणः ।
विष्णुर्निरुच्यते सूर्यः सर्वं सर्वान्तरश्च यः ।। ६९ ।।
पञ्च षड्विंशतिश्चैव यानि नामानि सप्त च ।
सम्यगग्नीन्द्रसूर्याणां तान्युक्तानि यथाक्रमम् ।। २.७० ।।
नैपातिकानां नाम्नां तु प्रागुक्तैर्नामलक्षणैः ।
संपन्नानां पृथक्त्वेन परिसंख्या न विद्यते ।। ७१ ।।
पार्थिवी मध्यमा दिव्या वागपि त्रिविधा तु या ।
तस्याः सूक्तानि नामानि यथास्थानं निबोधत ।।।७२।।
कृत्स्नं तु भजते सूक्तम् एषा नद्य स्तुता भुवि ।
यदा चैनं भजन्त्यापो यदा चौषधयो यदा ।। ७३ ।।
अग्नायी नामतोऽप्येषा भूत्वाग्नेयेषु केषुचित् ।
स्तुता निपातमात्रेण तत्र तत्रेह दृश्यते ।। ७५ ।।
मध्ये सत्यदितिर्वाक् च भूत्वा चैषा सरस्वती ।
समग्रं भजते सूक्तं त्रिभिरेव तु नामभिः ।। ७६ ।।
एषैव दुर्गा भूत्वर्चं कृत्वा स्यात्सूक्तभागिनी ।
तन्नामानि यमीन्द्राणी सरमा रोमशोर्वशी ।
भवत्यग्र५या सिनीवाली राका चानुमतिः कुहूः ।। ७७ ।।
गौर्धेनुर्देवपत्न्योऽघ्न्या पथ्या स्वस्तिश्च रोदसी ।
नैपातिकानि ऋग्भाञ्जि येषां नामानि कानिचित् ।। ७८ ।।
यदा तु वाग्भवत्येषा सूर्यामुं लोकमाश्रिता ।
तथा सूक्तमुषा भूत्वा सूर्या च भजतेऽखिलम् । । ७९ ।।
वृषाकपाय्यृचं भूत्वा सरण्यूर्द्वे च ते ध्रुवम् ।
निपातमात्रं भजते द्युवच्च पृथिवी सती ।। २.८० ।।
सूर्यामेव सतीमेतां गौरीं वाचं सरस्वतीम् ।
पश्यामो वैश्वदेवेषु निपातेनैव केवलाः ।। ८१ ।।
घोषा गोधा विश्ववारा अपालोपनिषन्निषत् ।
ब्रह्मजाया जहूर्नाम अगस्त्यस्य स्वसादितिः ।। ८२ ।।
इन्द्राणी चेन्द्रमाता च सरमा रोमशोर्वशी ।
लोपामुद्रा च नद्यश्च यमी नारी च शश्वती ।। ८३ ।।
श्रीर्लाक्षा सार्पराज्ञी वाक् श्रद्धा मेधा च दक्षिणा ।
रात्री सूर्या च सावित्री ब्रह्मवादिन्य ईरिताः ।। ८४ ।।
नवकः प्रथमस्त्वासां वर्गस्तुष्टाव देवताः ।
ऋषिभिर्देवताभिश्च समूदे मध्यमो गणः ।। ८५ ।।
आत्मनो भाववृत्तानि जगौ वर्गस्तथोत्तमः ।
उत्तमस्य तु वर्गस्य य ऋषिः सैव देवता ।। ८६ ।।
आत्मानमस्तौद्वर्गस्तु देवतां यस्तथोत्तमः ।
तस्मादात्मस्तवेषु स्याद् य ऋषिः सैव देवता ।। ८७ ।।
संवादेष्वाह वाक्यं यः स तु तस्मिन्भवेदृषिः ।
यस्तेनोच्येत वाक्येन देवता तत्र सा भवेत् ।। ८८ ।।
उच्चावचेषु चार्थेषु निपाताः समुदाहृताः ।
कर्मोपसंग्रहार्थे च क्वचिच्चौपम्यकारणात् ।। ८९ ।।
ऊनानां पूरणार्था वा पादानामपरे क्वचित् ।
मिताक्षरेषु ग्रन्थेषु पूरणार्थास्त्वनर्थकाः ।। २.९० ।।
कमीमिद्विति विज्ञेया ये त्वनेकार्थकाश्च ते ।
इव न चिन्नु चत्वार उपमार्था भवन्ति ते ।। ९१ ।।
उपमार्थे नकारस्तु क्वचिदेव निपात्यते ।
मिताक्षरेषु ग्रन्थेषु प्रतिषेधे त्वनल्पशः ।। ९२ ।।
इयन्त इति संख्यानं निपातानां न विद्यते ।
वशात्प्रकरणस्यैते निपात्यन्ते पदे पदे ।। ९३ ।।
उपसर्गास्तु विज्ञेयाः क्रियायोगेन विंशतिः ।
विवेचयन्ति ते ह्यर्थं नामाख्यातविभक्तिषु ।। ९४ ।।
अद्य श्रदन्तरित्येतान् आचार्यः शाकटायनः ।
उपसर्गान् क्रियायोगान् मेने ते तु त्रयोऽधिकाः ।।९५।।
त्रीण्येव लोके लिङ्गानि पुमान् स्त्री च नपुंसकम् ।
नामसूक्तप्रयोगेषु वाच्यं प्रकरणं तथा ।। ९६ ।।
तेषां तु नामभिर्लिङ्गैर् ग्रहणं सर्वनामभिः ।
कृताकृतस्य सदृशो गृहीतस्य पुनर्ग्रहः ।। ९७ ।।
पादसूक्तऋगर्धर्चनामान्यन्यानि यानि च ।
सर्वे नामानि चैवाहुर अन्ये चैवं यथा कथा ।। ९८ ।।
प्रधानमर्थः शब्दो हि तद्गुणायत्त इष्यते ।
तस्मान्नानान्वयोपायैः शब्दानर्थवशं नयेत् ।। ९९ ।।
अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् ।
विप्रकृष्टं च संदध्याद् आनुपूर्वीं च कल्पयेत् ।। २.१०० ।।
लिङ्गं धातुं विभक्तिं च संनमेत्तत्र तत्र च ।
यद्यत्स्याच्छान्दसं मन्त्रे तत्तत्कुर्यात्तु लौकिकम् ।। १०१ ।।
यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् ।
अर्थश्चाप्यभिधेयः स्यात् तावद्भिर्गुणविग्रहः ।। १ ०२।।
धातूपसर्गावयवगुणशब्दं द्विधातुजम् ।
बह्वेकधातुजं वापि पदं निर्वाच्यलक्षणम् ।। १०३ ।।
धातुजं धातुजाज्जातं समस्तार्थजमेव वा ।
वाक्यजं व्यतिकीर्णं च निर्वाच्यं पञ्चधा पदम् ।। १०४।।
द्विगुर्द्वन्द्वोऽव्ययीभावः कर्मधारय एव च ।
पञ्चमस्तु बहुव्रीहिः षष्ठस्तत्पुरुषः स्मृतः ।। १०५ ।।
विग्रहान्निर्वचः कार्यं समासेष्वपि तद्धिते ।
प्रविभज्यैव निर्भूयाद् दण्डार्हो दण्ड्य इत्यपि ।। १० ६।।
भार्या रूपवती चास्य रूपवद्भार्य इत्यपि ।
इन्द्रश्च सोमश्चेत्येवम् इन्द्रासामौ निदर्शनम् ।। १०७ ।।
शब्दरूपं पदार्थश्च व्युत्पत्तिः प्रकृतिर्गुणः ।
सर्वमेतदनेकार्थं दशानवगमे गुणाः ।। १०८ ।।
सामान्यवाचिनः शब्दा विशेषे स्थापिताः क्वचित् ।
पलायने यथा वृत्तिः को नु मर्या इतीषते ।। १ ०९।।
विशेषवाचिनस्त्वन्ये सामान्ये स्थापिताः क्वचित् ।
हिमेनाग्निमिति मन्त्रे हिमशब्दो निदर्शनम् । । २.११० ।।
पदमेकं समादाय द्विधा कृत्वा निरूक्तवान् ।
पूरुषादः पदं यास्को वृक्षेवृक्ष इति त्वचि ।। १११ ।।
अनेकं सत्तथा चान्यद् एकमेव निरुक्तवान् ।
अरुणो मा सकृन्मन्त्रे मासकृद्विग्रहेण तु ।। ११ २।।
पदव्यवायेऽपि पदे एकीकृत्य निरुक्तवान् ।
गर्भं निधानमित्येते न जामय इति त्यृचि ।। ११३ ।।
पदजातिरविज्ञाता त्वः पदेऽर्थः शितामनि ।
स्वरानवगमोऽधायि वने नेत्यृचि दर्शितः ।। ११ ४।।
शुनःशेपं नराशंसं द्यावा नः पृथिवीति च ।
निरस्कृतेतिप्रभृतिष्व् अर्थादासीत्क्रमो यथा ।। ११५ ।।
वर्णस्य वर्णयोर्लोपो बहूनां व्यञ्जनस्य च ।
अत्राणीति कपिर्नाभा दनो यामीत्यघासु च ।। ११ ६।।
अर्थात्पदं स्वाभिधेयं पदाद्वाक्यार्थनिर्णयः ।
पदसंघातजं वाक्यं वर्णसंघातजं पदम् ।। ११७।।
अर्थात्प्रकरणाल्लिङ्गाद् औचित्याद्देशकालतः ।
मन्त्रेष्वर्थविवेकः स्याद् इतरेष्विति च स्थितिः ।। ११ ८।।
इति नानान्वयोपायैर् नैरुक्ते यो यतेत सः ।
जिज्ञासुर्ब्रह्मणो रूपम् अपि दुष्कृत्परं व्रजेत् ।।१ १ ९।।
यथेदमग्रे नैवासीद् असदप्यथवापि सत् ।
जज्ञे यथेदं सर्वं तद् भाववृत्तं वदन्ति तु ।। २.१२०।।
भावप्रधानमाख्यातं षड्विकारा भवन्ति ते ।
जन्मास्तित्वं परीणामो वृद्धिर्हानं विनाशनम् ।। १२१ ।।
एतेषामेव षण्णां तु येऽन्ये भावविकारजाः ।
ते यथावाक्यमभ्यूह्याः सामर्थ्यान्मन्त्रवित्तमैः ।। १२२।।
देवानां च पितॄणां च नमस्कारैस्तथैव च ।
अथ व्यस्तं समस्तं वा शृणु व्याहृतिदैवतम् ।। १२३।।
व्याहृतीनां समस्तानां दैवतं तु प्रजापतिः ।
व्यस्तानामयमग्निश्च वायुः सूर्यश्च देवताः ।। १२४।।
वाग्देवत्योऽथवाप्यैन्द्रो यदि वा परमेष्ठिनः ।
ओंकारो वैश्वदेवो वा ब्राह्मो दैवः क एव वा ।। १२५ ।।
आग्नेयं प्रथमं सूक्तं मधुछन्दस आर्षकम् ।
ज्ञेयाः सर्वेऽन्यदेवत्यास् तृचाः सप्तात उत्तराः ।। १ २६।।
वायव्यः प्रथमस्त्वेषाम् एन्द्रवायव उत्तरः ।
मैत्रावरुणोऽथाश्विनोऽप्यैन्द्रोऽतो वैश्वदेवकः ।। १ २७।।
तन्नामा विश्वलिङ्गो वा गायत्रोऽन्त्यस्तु यस्तृचः ।
बहुदैवतमन्यत्तु वैश्वदेवेषु शस्यते ।। १ २८।।
लुशे दुवस्यौ शार्याते गोतमेऽथ ऋजिश्वनि ।
अवत्सारे परुच्छेपे अत्रौ दीर्घतमस्यृषौ ।।१२९।।
वसिष्ठे नाभानेदिष्ठे गये मेधातिथौ मनौ ।
कक्षीवति विहव्ये च बहुष्वन्येष्वथर्षिषु ।।२.१३०।।
अगस्त्ये बृहदुक्थे च विश्वामित्रे च गाथिनि ।
दृश्यन्ते विप्रवादाश्च तासु तासु स्तुतिष्विह ।।१३१।।
बह्वीनां संनिपातस्तु यस्मिन्मन्त्रे प्रदृश्यते ।
आचार्यौ यास्कशाण्डिल्यौ वैश्वदेवं तदाहतुः ।। १३२।।
पादं वा यदि वार्धर्चम् ऋचं वा सूक्तमेव वा ।
वैश्वदेवं वदेत्सर्वं यत्किंचिद्बहुदैवतम् ।। १३३ ।।
ऋषिभिर्देवताः सर्वा विश्वाभि स्तुतिभि स्तुताः ।
संज्ञा तु विश्वमित्येषा सर्वावाप्तौ निपातिता ।। १३४।।
सारस्वतस्तु सप्तम एताः प्रउगदेवताः ।
सरस्वतीति द्विविधम् ऋक्षु सर्वासु सा स्तुता ।। १३५।।
नदावद्देवतावश्च तत्राचार्यस्तु शौनकः ।
नदीवन्निगमाः षट् ते सप्तमो नेत्युवाच ह ।। १३६।।
अम्ब्येका च दृषद्वत्यां चित्र इच्च सरस्वती ।
इयं शुष्मेभिरित्येतं मेने यास्कस्तु सप्तमम् ।। १३७।।
पशोः सारस्वतस्यैतां याज्यां मैत्रायणीयके ।
प्राधान्याद्धविषः पश्यन् वाच एवैतरोऽब्रवीत् ।। १३८।।
सुरूपकृत्नुमित्यैन्द्रं सप्त चान्यान्यतः परम् ।
षळादह स्वधामनु मारुत्योऽनन्तरा ऋचः ।। १३९।।
एका वीळु चिदिन्द्राय मरुद्भिः सह गीयते ।
तस्या एकान्तरायास्तु अर्धर्चोऽन्त्यो द्विदेवतः ।। २.१४० ।।
मरुद्गणप्रधानो हीत्थं चेन्द्रो विचिकित्सितः ।
मन्दू समानवर्चसा मन्दुना वा सवर्चसा ।। १४१ ।
मन्दू इति प्रगृह्णन्ति येषामेव द्विदेवतः ।
एकदेवत्यमाश्राव्यो विज्ञायाध्ययनात्पदम् ।। १४२ ।।
रोदसी देवपत्नीनाम् अथर्वाङ्गिरसे यथा ।
मरुद्गणप्रधानेयम् आचार्याणां स्तुतिर्मता ।। १४३।।
मरुद्गणप्रधानत्वाद् इन्द्रस्तु विचिकित्सितः ।
मरुद्गणं महेन्द्रस्य समांशं सकलं विदुः ।। १४४।।
अग्निमित्यग्निदैवत्यं पादस्तत्र द्विदेवतः ।
निर्मथ्याहवनीयार्थाव् अग्निनाग्निः समिध्यते ।। १४५।।
'पादो द्वधग्निदैवतो निर्मथ्याहवनीयौ' ।
द्वितीये द्वादशर्चे तु प्रत्यृचं यास्तु देवताः ।
स्तूयन्ते ह्यग्निना सार्धं तासां नामानि मे शृणु ।। १४६।।
प्रथमायां स्तुतश्चेध्मो द्वितीयायां तनूनपात् ।
नराशंसस्तृतीयायां चतुर्थ्यां स्तूयते त्विळः ।। १४७।।
बर्हिरेव तु पञ्चम्यां द्वारो देव्यस्ततोऽन्यया ।
नक्तोषासा तु सप्तम्याम् अष्टम्यां संस्तुतौ सह ।। १४८।।
दैव्याविति तु होतारौ नवम्यामृचि संस्तुताः ।
तिस्रो देव्यो दशम्यां तु ज्ञेयस्त्वष्टैव तु स्तुतः ।। १४९।।
एकादश्यां तु सूक्तस्य स्तुतं विद्याद्वनस्पतिम् ।
द्वादश्यां तु स्तुता देवीर् विद्यात्स्वाहाकृतीरिति ।। २.१५०।।
सूक्तेऽस्मिन्प्रत्यृचं यास्तु देवता परिकीर्तिताः ।
ता एव सर्वास्वाप्रीषु द्वितीया तु विकल्पते ।। १५१ ।।
प्रैषैः सहाप्रीसूक्तानि तान्येकादश सन्ति च ।
यजूंषि प्रैषसूक्तं वा दशैतानीतराणि तु ।। १५२।।
सौत्रामणानि तु त्रीणि प्राजापत्याश्वमेधिके ।
पुरुषस्य तु यन्मेधे यजुःष्वेव तु तानि षट् ।। १५३ ।।
अत्रैव प्रैषसूक्तं स्यान् न यजुःष्वाद्रियेत तत् ।
तेषां प्रैषगतं सूक्तं यच्च दीर्घतमा जगौ ।। १५४।।
मेधातिथौ यदुक्तं च त्रीण्येवोभयवन्ति तु ।
ऋषौ गृत्समदे यच्च वाध्र्यश्वे च यदुच्यते ।। १५५।।
नराशंसवदत्रेश्च ददर्श च यदौर्वशः ।
तनूनपादगस्त्यश्च जमदग्निश्च यज्जगौ ।। १५६ ।।
विश्वामित्र ऋषिर्यश्च जगौ वै काश्यपोऽसितः ।
मेधातिथेर्ऋचां यास्तु प्रोक्ता द्वादश देवताः ।। १५७ ।।
संपद्यन्ते यथाग्निं ताः संपदं तां निबोधत ।
इध्मो यः सर्वमेवाग्निर् अयं हीध्मः समिध्यते ।।
ध्मातेर्वै तत्कृतं रूपं ध्मातो हीध्मः समिध्यते ।। १५८।।
।। इति बृहद्देवतायां द्वितीयोऽध्यायः ।।

"https://sa.wikisource.org/w/index.php?title=बृहद्देवता/अध्यायः_२&oldid=137880" इत्यस्माद् प्रतिप्राप्तम्