बृहदारण्यकोपनिषद्भाष्यम्

विकिस्रोतः तः
बृहदारण्यकोपनिषद्भाष्यम्
श्रीशङ्करः

बृहदारण्यकोपनिषद्


अध्याय १[सम्पाद्यताम्]

प्रथममश्वमेधब्राह्मणम्[सम्पाद्यताम्]

ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ओं शान्तिः ! शान्तिः !! शान्तिः !!!

ओं नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो वंशऋषिभ्यो नमो गुरुभ्यः ।
ऽउषा वा अश्वस्यऽइत्येवमाद्या वाजसनेयिब्राह्मणोपनिषत् ।
तस्या इयमल्पग्रन्था वृत्तिरारभ्यते संसारव्याविवृत्सुभ्यः संसारहेतुनिवृत्तिसाधनब्रह्मात्मैकत्वविद्याप्रतिपत्तये ।
सेयं ब्रह्मविद्या उपनिषच्छब्धवाच्यातत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् ।
उपनिषूवस्यसदेस्तदर्थत्वात् ।
तादर्थ्याद्ग्रन्थोऽप्युपनिषदुच्यते ।
सेयं षडध्यायी अरण्येऽनूच्यमानत्वादारण्यकम्,बृहत्त्वात्परिमाणतो बृहदारण्यकम् ।
तस्यास्य कर्मकाण्डेन सम्बन्धोऽभिधीयते ।
सर्वोऽप्ययं वेदः प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपाय प्रकाशनपरः सर्वपुरुषां निसर्गत एव तत्प्राप्तिपरिहारयोरिष्टत्वात् ।
दृष्टविषये चेष्टानिष्टष्टप्राप्तिपरिहारोपाय ज्ञानस्य प्रत्यक्षानुमानाभ्यामेव सिद्दत्वान्नागमान्वेषणा ।
न चासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टष्टप्राप्तिपरिहारेच्छा स्यात्स्वभाववादिदर्शनात् ।
तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रवर्तते ।
"येयं प्रेते विचिकित्सा मानुष्येऽस्तीत्येके नायमस्तीति चैके" (क.उ. १ । १ । २०) इत्युपक्रम्य"अस्तीत्येवोपलब्धव्यः" (क.उ. २ । ३ । १३) इत्येवमादिनिर्णयदर्शनात् ।
"यथा च मरणं प्राप्य" (क.उ.२ । २ । ६) इत्युपक्रम्य"योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्"(क.उ.२ । २ । ७) इति च ।
"स्वयञ्ज्योतिः" (बृ.उ. ४ । ३ । ९) इत्युपक्रम्य"तं विद्याकर्मणि समन्वारमेते"( ४ । ४ । २ ) "पुण्यो वै पुणेन कर्मणा भवति पापः पापेन"( ३ । २ । १३ ) इति च ।
"ज्ञपयिष्यामि"(बृ.उ.२ । १ । १५) इत्युपक्रम्य"विज्ञानमयः"(२ । १ । १६) इति च व्यतिरिक्तात्मास्तित्वम् ।
तत्प्रत्यक्षविषयमेवेति चेन्न, वादिविप्रतिपत्तिदर्शनात् ।
न हि देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकायतिका बौद्धाश्च नः प्रतिकूलाः स्युनास्त्यात्मेति वदन्तः ।
न हि घटादौ प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते नास्ति घट इति ।
स्थाण्वादौ पुरुषादिदर्शनान्नेति चेन्न निरूपिते स्थाण्वादौ विप्रतिपत्तिर्भवति ।
वैनाशिकास्त्वहमितिप्रत्यये जायमानेऽपि देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते ।
तस्मात्प्रत्यक्षविषयवैलक्षण्यात्प्रत्यक्षान्नात्मास्तित्वसिद्धिः ।
तथानुमानादपि ।
श्रुत्या आत्मास्तित्वे लिङ्गस्य दर्शित्वाल्लिङ्गस्य च प्रत्यक्षविषयत्वान्नेति चेन्न, जन्मान्तरसम्बन्धस्याग्रहणात् ।
आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिकलिङ्गविशेषैश्च तदनुसारिणो मीमांसकास्तार्किकाश्च अहम्प्रत्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवाणीति कल्पयन्तो वदन्ति प्रत्यक्षश्चानुमेयश्चात्मेति ।
सर्वथाप्यस्त्यात्मा देहान्तरसम्बन्धीत्येवं प्रतिपत्तुर्देहान्तरगतेष्टानिष्टप्राप्तिपरिहारोपायविशेषार्थिनस्तद्विशेषज्ञापनाय कर्मकाण्डमारब्धम् ।
न त्वात्मन इष्टानिष्टप्राप्तिपरिहारेच्छाकारणमात्मविषयमज्ञानं कर्तृभोक्तृस्वरूपाभिमानलक्षणं तद्विपरीतब्रह्मात्मस्वरूपविज्ञानेनापनीतम् ।
यावद्धि तन्नापनीयते तावदयं कर्मफलरागद्वेषादिस्वाभाविकदोषप्रयुक्तः शास्त्रविहितप्रतिषिद्धातिक्रमेणापि वर्तमानो मनोवाक्कायैर्दृष्टादृष्टानिष्टसाधनानि अधर्मसंज्ञकानि कर्माण्युपचिनोति बाहुल्येन, स्वाभाविकदोषबलीयस्त्वात् ।
ततः स्थावरन्ताधोगतिः ।
कदाचिच्छास्त्रकृतसंस्कारबलीयस्त्वम्, ततो मनआदिभिरिष्टसाधनं बाहुल्येनोपचिनोति धर्माख्यम् ।
तद्द्विविधम्ज्ञानपूर्वकं केवलञ्च ।
तत्र केवलं पितृलोकादिप्राप्तिफलम् ।
ज्ञानपूर्वकं देवलोकादिब्रह्मलोकान्तप्राप्तिफलम् ।
तथा च शास्त्रम्"आत्मयाजि श्रेयान्देवयाजिनः"(शत.ब्राह्म.) इत्यादि ।
स्मृतिश्च"द्विविधं कर्म वैदिकम्"(मनु.१२ । ८८) इत्याद्या ।
साम्ये च धर्माधर्मयोः मनुष्यत्वप्राप्तिः ।
एवं ब्रह्मान्द्या स्थावरान्ता स्वाभाविकाविद्यादिदोषवती धर्माधर्मसाधनकृता संसारगतिर्नामरूपकर्माश्रया ।
तदेवेदं व्याकृतं साध्यसाधनरूपं जगत्प्रागुत्पत्तेरव्याकृतमासीत् ।
स एष बीजाङ्कुरादिवदविद्याकृतः संसार आत्मनि क्रियाकारकफलाध्यारोपलक्षणोऽनादिरनन्तोऽनर्थः, इत्येतस्माद्विरक्तस्याविद्यानिवृत्तये तद्विपरीतब्रह्मविद्याप्रतिपत्त्यर्थोपनिषदारभ्यते ।
अस्य त्वश्वमेधकर्मसम्बन्धिनो विज्ञानस्य प्रयोजनं येपामश्वमेधे न अधिकारस्तेषामस्मादेव विज्ञानात्फलप्राप्तिः ।
ऽविद्यया वा कर्मणा वाऽ "तद्धैतल्लोकजिदेव"(बृ.उ.१ । ३ । २८) इत्येवमादिश्रुतिभ्यः ।
कर्मविषयत्वमेव विज्ञानस्येति चेन्न,"योऽश्वमेधेन यजते य उ चैनमेवं वेद"इति विकल्पश्रुतेः ।
विद्याप्रकरणे चाम्नानात्कर्मान्तरे च सम्पादनदर्शनाद्विज्ञानात्तत्फलप्राप्तिरस्तीत्यवगम्यते ।
सर्वेषां च कर्मणां परं कर्माश्वमेधः समष्टिव्यष्टिप्राप्तिफलवत्वात्तस्य चेह ब्रह्मविद्याप्रारम्भ आम्नानं सर्वकर्मणां संसारविषयत्वप्रदर्शनार्थम् ।
तथा च दर्शयिष्यति फलमशनायामृत्युभावम् ।
न नित्यानां संसारविषयफलत्वमिति चेन्न, सर्वकर्मफलोपसंहारश्रुतेः ।
सर्वं हि पत्नीसम्बद्धं कर्म ।
"जया मे स्यात्........एतावान्वै कामः"(बृ.उ.१ । ४ । १७) इति निसर्गत एव सर्वकर्मणां काम्यत्वं दर्शयित्वा, पुत्रकर्मापरविद्यानां च"मनुष्यलोकः पितृलोको देवलोकः"(बृ.उ.१ । ५ । १६) इति फलं दर्शयित्वा, त्र्यन्नात्मकतां चान्ते उपसंहरिष्यति"त्रयं वा इदं नाम रूपं कर्म"(बृ.उ.१ । ६ । १) इति ।
सर्वतर्मणां फलं व्याकृतं संसार एवेति ।
इदमेव त्रयं प्रागुत्पत्तेस्तर्ह्यव्याकृतमासीत् ।
तदेव पुनः सर्वप्राणिकर्मवशाद्व्याक्रियते बीजादिव वृक्षः ।
सोऽयं व्याकृताव्याकृतरूपः संसारोऽविद्याविषयः॑क्रियाकारकफलात्मकतया आत्मरूपत्वेनाध्यारोपितः अविद्ययैव मूर्तामूर्ततद्वासनात्मकः ।
अतो विलक्षणोऽनामरूपकर्मात्मकोऽद्वयो नित्यशुद्धबुद्धमुक्तस्वभावोऽपि क्रियाकारकफलभेदादिविपर्ययेणावभासते ।
अतोऽस्मात्क्रियाकारकफलभेदस्वरूपादेतावदिदमिति साध्यसाधनरूपाद्विरक्तस्य कामादिदोषकर्मबीजभूताविद्यानिवृत्तये रज्ज्वामिव सर्पविज्ञानापनयाय ब्रह्मविद्या आरभ्यते ।
तत्र तावदश्वमेधविज्ञानायऽउषा वा अश्वस्यऽइत्यादि ।
तत्राश्वविषयमेव दर्शनमुच्यते प्राधान्यादश्वस्य ।
प्राधान्यं च तन्नामाङ्कितत्वात्क्रतोः प्राजापत्यत्वाच्च ।

_______________________________________________________________________

१,१.१

उषा वा अश्वस्य मेध्यस्य शिरः ।
सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माश्वस्य मेध्यस्य ।
द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिशः पार्श्वे अवान्तरदिशः पर्शव ऋतवोऽङ्गानि मासाश्चार्धमासाश्च पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि नभो मांसानि ।
ऊवध्यं सिकताः सिन्धवो गुदा यकृच्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि ।
उद्यन् पूर्वार्धो निम्लोचञ्जघनार्धः ।
यद्विजृम्भते तद्विद्योतते ।
यद्विधूनुते तत्स्तनयति ।
यन्मेहति तद्वर्षति ।
वागेवास्य वाक् ॥ _१,१.१ ॥

__________

शा.भा._१,१.१ उषा इति, ब्राह्मो मुहूर्त उषाः ।
वैशब्दः स्मरणार्थः प्रसिद्धं कालं स्मारयति ।
शिरः प्राधान्यात् ।
शिरश्च प्रधानं शरीरावयवानाम् ।
अश्वस्य मेध्यस्य मेधार्हस्ययज्ञियस्योपाः शिरः इति सम्बन्धः ।
कर्माङ्गस्य पशोः संस्कर्तव्यत्वात्कालादिदृष्टयः शिर आदिषु क्षिप्यन्ते ।
प्राजापत्यत्वं च प्रजापतिदृष्ट्यध्यारोपणात् ।
काललोकदेवतात्वाध्यारोपणं च प्रजापतित्वकरणं पशोः ।
एवंरूपो हि प्रजापतिः, विष्णत्वादिकरणमिव प्रतिमादौ ।
सूर्यश्चक्षुः शिरसोऽनन्तरत्वात्सूर्याधिदैवतत्वाच्च ।
वातः प्राणो वायुस्वाभाव्यात् ।
व्यात्तं विवृतं मुखमग्निर्वैश्वानरर्ः ।
वैश्वानर इत्यग्नेर्विशेषणर्म् ।
वैश्वानरो नामाग्निर्विवृतं मुखमित्यर्थो मुखस्याग्निदैवतत्वात् ।
संवत्सर आत्मा, संवत्सरो द्वादशमासस्त्रयोदशमासो वा,आत्माशरीरम् ।
कालावयवानां च संवत्सरः शरीरं चात्मा "मध्यं ह्यषामङ्गानामात्मा"इति श्रुतेः ।
अश्वस्य मेध्यस्येति सर्वत्रानुपङ्गार्थं पुनर्वचनम् ।
द्यौः पृष्ठमूर्ध्वत्वसामान्यात् ।
अन्तरिक्षमुदरं सुषिरत्वसामान्यात्पृथिवी पाजस्यं पादस्यं पाजस्यमिति वर्णव्यत्ययेन, पादासनस्थानमित्यर्थः ।
दिशश्चतस्रोऽपि पार्श्वे पार्श्वेन दिशां सम्बन्धात् ।
पार्श्वयोर्दिशां च सङ्ख्यावैषम्यादयुक्तमिति चेन्न, सर्वमुखत्वोपपत्तेरश्वस्य पार्श्वाभ्यामेव सर्वदिशां सम्बन्धाददोषः ।
अवान्तरदिश आग्नेय्याद्याः पर्शवः पार्श्वास्थीनि ।
ऋतवोऽङ्गानि संवत्सरावयवत्वादङ्गसाधर्म्यात् ।
अहोरात्राणि प्रतिष्ठाः ।
बहुवचनात्प्राजापत्यदैवपित्र्यमानुषाणि, प्रतिष्ठाः पादाः प्रतितिष्ठत्येतैरिति ।
अहोरात्रैर्हि कालात्मा प्रतितिष्ठत्यश्वस्य पादैः ।
नक्षत्राण्यस्थीनि शुक्लत्वसामान्यात् ।
नभो नभःस्था मेघा अन्तरीक्षस्योदरत्वोक्तेः, मांसान्युदकरुधिरसेचनसामान्यात् ।
ऊवध्यं उदरस्थमर्धजीर्णमशनं सिकता विश्लिष्टावयवत्वसामान्यात् ।
सिन्धवः स्यन्दनसामान्यन्नद्यो गुदा नाड्यो बहुवचनाच्च ।
यकृच्चक्लोमानश्च हृदयस्याधस्थाद्दक्षिणोत्तरौ मांसखण्डौ ।
क्लोमान इति नित्यं बहुवचनमेकस्मिन्नेव ।
पर्वताः काठिन्यादुच्छ्रितत्वाच्च ।
ओषधयश्च क्षुद्राः स्थावरा वनस्पतयो महान्तो लोमानि केशाश्च यथासम्भवम् ।
उद्यन्नुद्गच्छन्भवति सविता आमध्याह्नादश्वस्य पूर्वार्धो नामेरूर्ध्वमित्यर्थः ।
निम्लोचन्नस्तं यन्नामध्याह्नाज्जघनार्धोऽपरार्धः पूर्वापरत्वसाधर्म्यात् ।
यद्विजृम्भते गात्राणि विनामयति विक्षिपति तद्विद्योतते विद्योतनं मुखघनविदारणसामान्यात् ।
यद्विधूनुते गात्राणि कम्पयति तत्स्तनयति गर्जनशब्धसामान्यात् ।
यन्मेहति मूत्रं करोत्यश्वस्तद्वर्षति वर्षणं तत्सेचनसामान्यात् ।
वागेव शब्द एवास्याश्वस्य वागिति, नात्र कल्पनेत्यर्थः ॥१॥

अहर्वा इति ।
सावर्णराजतौ महिमाख्यौ ग्रहावश्वस्याग्रतः पृष्ठतश्च स्थाप्येते तद्विषयमिदं दर्शनम्

______________________________________________________________________

१,१.२

अहर्वा अश्वं पुरस्तान्महिमान्वजायत ।
तस्य पूर्वे समुद्रे योनिः ।
रात्रिरेनं पश्चान्महिमान्वजायत ।
तस्यापरे समुद्रे योनिर् ।
एतौ वा अश्वं महिमानावभितः सम्बभूवतुः ।
हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वासुरानश्वो मनुष्यान् ।
समुद्र एवास्य बन्धुः समुद्रो योनिः ॥ _१,१.२ ॥

__________


शा.भा._१,१.२ अहः सौवर्णो ग्रहो दीप्तिसामान्याद्वै ।
अहरश्वं पुरस्तान्महिमान्वजायतेति कथम्? अश्वस्य प्रजापतित्वात् ।
प्रजापतिर्ह्यादित्यादिलक्षणोऽह्ना लक्ष्यते ।
अश्वं लक्षयित्वाजायत सौवर्णो महिमा ग्रहो वृक्षमनु विद्योतते विद्युदिति यद्वत् ।
तस्य ग्रहस्य पूर्वे पूर्वः समुद्रे समुद्रो योनिर्विभक्तिव्यत्ययेन ।
योनिरित्यासादनस्थानम् ।
तथा रात्री राजते ग्रहो वर्णसामान्याज्जघन्यत्वसामान्याद्वा ।
एनमश्वं पश्चात्पृष्टतो महिमान्वजायत, तस्यापरे समुद्रे योनिः ।
महिमा महत्त्वात् ।
अश्वस्य हि विभूतिरेषा यत्सौवर्णो राजतश्च ग्रहावुभयतः स्थाप्येते ।
तावेतौ वै महिमानौ महिमाख्यौ ग्रहावश्वमभितः सम्बभूवतुरुक्तलक्षणावेव सम्भूतौ ।
इत्थमसावश्वो महत्वयुक्त इति पुनर्वचनं स्तुत्यर्थम् ।
तथा च हयो भूत्वेत्यादि स्तुत्यर्थमेव ।
हयो हिनोतेर्गतिकर्मणो विशिष्टगतिरित्यर्थः ।
जातविशेषो वा ।
देवानवहद्देवत्वमगमयत्प्रजापतित्वात् ।
देवानां वा वोढाभवत् ।
नतु निन्दैव वाहनत्वम् ।
नैष दोषः, वाहनत्वं स्वाभाविकमश्वस्य ।
स्वाभाविकत्वादुच्छ्रायप्राप्तिर्देवादिसम्बन्धोऽश्वस्येति स्तुतिरेवैषा ।
तथा वाज्यादयो जातिविशेषाः ।
वाजी भूत्वा गन्धर्वानवहदित्यनुषङ्गः ।
तथार्वा भूत्वासुरान् ।
अश्वो भूत्वा मनुष्यान् ।
समुद्र एवेति परमात्मा बन्धुबन्धनं बध्यतेऽस्मिन्निति ।
समुद्रो योनिः कारणमुत्पत्तिं प्रति ।
एवमसौ शुद्धयोनिः शुद्धस्थितिरिति स्तूयते ।
अप्सु योनिर्वा अश्वः इति श्रुतेः प्रसिद्ध एव वा समुद्रो योनिः ॥२॥

इति प्रथमाध्याये प्रथममश्वमेधब्राह्मणम् ॥१॥

द्वितीयमग्निब्राह्मणम्[सम्पाद्यताम्]

अथाग्नेरश्वमेधोपयोगिकस्योत्पत्तिरुच्यते ।
तद्विषयदर्शनविवक्षयैवोत्पत्तिः स्तुत्यर्था ।


_______________________________________________________________________

१,२.१

नैवेह किं चनाग्र आसीत् ।
मृत्युनैवेदमावृतमासीदशनायया ।
अशनाया हि मृत्युः ।
तन्मनोऽकुरुतात्मन्वी स्यामिति ।
सोऽर्चन्नचरत् ।
तस्यार्चत आपोऽजायन्त ।
अर्चते वै मे कमभूदिति ।
तदेवार्क्यस्यार्कत्वम् ।
कं ह वा अस्मै भवति य एवमेतदर्क्यस्यार्कत्वं वेद ॥ _१,२.१ ॥

__________


शा.भा._१,२.१ नैवेह किञ्चनाग्र आसीत् ।
इह संसारमण्डले किञ्चन किञ्चिदपि नामरूपप्रविभक्तविशेषं नैवासीद्न बभूव अग्रे प्रागुत्पत्तेर्मनादेः ।
किं शून्यमेव स्यात्"नैवेह किञ्चन"इति श्रुतेः ।
न कार्यं कारणं वासीत् ।
उत्पत्तेश्च, उत्पद्यते हि घटः, अतः प्रागुत्पत्तेर्घटस्य नास्तित्वम् ।
ननु कारणस्य न नास्तित्वं मृत्पिण्डादिदर्शनात् ।
यन्नोपलभ्यते तस्यैव नास्तिता ।
अस्तु कार्यस्य न तु कारणस्य, उपलम्पमानत्वात् ।
नः प्रागुत्पत्तेः सर्वानुपलम्भात् ।
अनुपलब्धिश्चेदभावहेतुः सर्वस्य जगतः प्रागुत्पत्तेर्न कारणं कार्यं वोपलभ्यते ।
तस्मात्सर्वस्यैवाभावोऽस्तु ।
नः"मृत्युनैवेदमावृतमासीत्"इति श्रुतेः ।
यदि हि किञ्चिदपि नासीद्येनाव्रियते यच्चाव्रियते तदा नावक्ष्यत्ऽमृत्युनैवेदमावृतम्ऽइति ।
न हि भवति गगनकुसुमच्छन्नो वन्ध्यापुत्र इति ।
ब्रवीति चऽमृत्युनैवेदमावृतमासीत्ऽइति, तस्माद्येनावृतं कारणेन, यच्चावृतं कार्यं प्रागुत्पत्तेस्तदुभयमासीत्, श्रुतेः प्रामाण्यादनुमेयत्वाच्च ।
अनुमीयते च प्रागुत्पत्तेः कार्यकारणयोरस्तित्वम्॑कार्यस्य हि सतो जायमानस्य कारणे सत्युत्पत्तिदर्शनात्, असति चादर्शनात् ।
जगतोऽपि प्रागुत्पत्तेः कारणास्तित्वमनुमीयते घटादिकारणास्तित्ववत् ।
घटादिकारणस्याप्यसत्त्वमेव, अनुपमृद्य मृत्पिण्डादिकं घटाद्यनुत्पत्तेरिति चेत्? न॑मृदादेः कारणत्वात् ।
मृत्सुवर्णादि हि तत्र कारणं घटरुचकादेः, न पिण्डाकारविशेषः, तदभावे भावात् ।
असत्यपि पिण्डाकारविशेषे मृत्सुवर्णादिकारणद्रव्यमात्रादेव घटरुचकादिकार्योत्पत्तिर्दृश्यते ।
तस्मान्न पिण्डाकारविशेषे घटरुचकादिकारणम् ।
असति तु मृत्सुवर्णादिद्रव्ये घटरुचकादिर्न जायत इति मृत्सुवर्णादिद्रव्यमेव कारणम्, न तु पिण्डाकारविशेषः ।
सर्वं हि कारणं कार्यमुत्पादयत्पूर्वोत्पन्नस्यात्मकार्यस्य तिरोधानं कुर्वत्कार्यान्तरमुत्पादयति, एकस्मिन्कारणे युगपदनेककार्यविरोधात् ।
न च पूर्वकार्योपममर्दे कारणस्य स्वात्मोपमर्दे भवति ।
तस्मात्पिण्डाद्युपमर्दे कार्योत्पत्तिदर्शनमहेतुः प्रागुत्पत्तेः कारणासत्त्वेः ।
पिण्डादिव्यतिरेकेण मृदादेरसत्त्वादयुक्तमिति चेत्पिण्डादिपूर्वकार्योपमर्दे मृदादिकारणं नोपमृद्यते, घटादिकार्यान्तरेऽप्यनुवर्तते इत्येतदयुक्तम्॑पिण्डघटादिव्यतिरेकेण मृदादिकारणस्यानुपलम्भादिति चेत्? न, मृदादिकारणानां घटाद्युत्पत्तौ पिण्डादिनिवृत्तावनुवृत्तिदर्शनात् ।
सादृश्यादन्वयदर्शनं न कारणानुवृत्तेरिति चेन्न, पिण्डादिगतानां मृदाद्यवयवानामेव घटादौ प्रत्यक्षत्वेऽनुमानाभासात्सादृश्यादिकल्पनानुपपत्तेः ।
न च प्रत्यक्षानुमानयोर्विरुद्धाव्यभिचारिता,प्रत्यक्षपूर्वकत्वादनुमानस्य सर्वत्रैवानाश्वासप्रसङ्गात् ।
यदि च क्षणिकं सर्वं तदेवेदमिति गम्यमानं तद्बुद्धेरप्यन्यतद्बुद्ध्यपेक्षत्वे तस्या अप्यन्यतद्बुद्ध्यपेक्षत्वमित्यनवस्थायां तत्सदृशमिदमित्यस्या अपि बुद्धेर्मृपात्वात्सर्वत्रानाश्वासतैव ।
तदिदम्बुद्ध्योरपि कर्त्रभावे सम्बन्धानुपपत्तिः ।
सादृश्यात्तत्सम्बन्ध इति चेन्न, तदिदम्बुद्ध्योरितरेतरविषयत्वानुपपत्तेः ।
असति चेतरेतरविषयत्वे सादृश्यग्रहणानुपपत्तिः ।
असत्येव सादृश्ये तद्बुद्धिरिति चेन्न, तदिदम्बुद्ध्योरपि सादृश्यबुद्धिवदसद्विषयत्वप्रसङ्गात् ।
असद्विषयत्वमेव सर्वबुद्धीनामस्त्विति चेन्न, बुद्धिबुद्धेरप्यसद्विषयत्वप्रसङ्गात् ।
तदप्यस्त्विति चेन्न, सर्वबुद्धीनां मृषात्वेऽसत्यबुद्ध्यनुपपत्तेः ।
तस्मादसदेतत्सादृश्यात्तद्बुद्धिरिति ।
अतः सिद्धः प्राक्कार्योत्पत्तेः कारणसद्भावः ।
कार्यस्य चाभिव्यक्तिलिङ्गत्वात् ।
कार्यस्य च सद्भावः प्रागुत्पत्तेः सिद्धः ।
कथमभिव्यक्तिलिङ्गत्वादभिव्यक्तिलिङ्गमस्येति ।
अभिव्यक्तिः साक्षाद्विज्ञानालम्बनत्वप्राप्तिः ।
यद्वि लोके प्रावृतं तम आदिना घटादिवस्तु तदालोकादिना प्रावरणतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत्प्राक्सद्भावं न व्यभिचरति ।
तथेदमपि जगत्प्रागुत्पत्तेरित्यवगच्छामः ।
न ह्यविद्यमानो घट उदितेऽप्यादित्ये उपलभ्यते ।
न तेऽविद्यमानत्वाभावादुपलभ्येतैवेति चेत् ।
न हि तव घटादिकार्यं कदाचिदप्यविद्यमानमित्युदिते आदित्ये उपलभ्येतैव मृत्पिण्डेऽसन्निहिते तमाद्यावरणे चासति विद्यमानत्वादिति चेत्? न, द्विविधत्वादावरणस्य ।
घटादिकार्यस्य द्विविधं ह्यावरणं मृदादारविभक्तस्य तमःकुड्यादि प्राङ्मृदोऽभिव्यक्तेर्मृदाद्यवयवानां पिण्डादिकार्यान्तररूपेण संस्थानम् ।
तस्मात्प्रागुत्पत्तेर्विद्यमानस्यैव घटादिकार्यस्य आवृतत्वादनुपलब्धिः ।
नष्टोत्पन्नभावाभावशब्दप्रत्ययभेदस्तु अभिव्याक्ततिरोभावयोर्द्विविधत्वापेक्षः ।
पिण्डकपालादेरावरणवैलक्षण्यादयुक्तमिति चेत्? तमःकुड्यादि हि घटाद्यावरणं घटादिभिन्नदेशं दृष्टं न तथा घटादिभिन्नदेशे दृष्टे पिण्डकपाले ।
तस्मात्पिण्डकपालसंस्थानयोर्विद्यमानस्यैव घटस्यावृतत्वादनुपलब्धिरित्ययुक्तमावरणधर्मवैलक्षण्यादिति चेत्? न क्षीरोदकादेः क्षीराद्यावरणेनैकदेशत्वदर्शनात् ।
घटादिकार्ये कपालचूर्णाद्यवयवानामन्तर्भावादनावरणत्वमिति चेन्न, विभक्तानां कार्यान्तरत्वादावरणत्वोपपत्तेः ।
आवरणाभाव एव यत्नः कर्तव्य इति चेत्? पिण्डकपालावस्थयोर्विद्यमानमेव घटादिकार्यमावृतत्वान्नोभलभ्यत इति चेद्घटादिकार्यार्थिना तदावरणविनाश एव यत्नः कर्तव्यो न घटाद्युत्पत्तौ? न चैतदस्ति, तस्मादयुक्तं विद्यमानस्यैवावृतत्वादनुपलब्धिरिति चेत्? न अनियमात् ।
न हि विनाशमात्रप्रयत्नादेव घटाद्यभिव्यक्तिर्नियता ।
तमाद्यावृते घटादौ प्रदीपाद्युत्पत्तौ प्रयत्नदर्शनात् ।
सोऽपि तमोनाशायैवेति चेत्? दीपाद्युत्पत्तावपि यः प्रयत्नः सोऽपि तमस्तिरस्करणाय तस्मिन्नष्टे घटः स्वयमेवोपलभ्यते ।
न हि किञ्चिदाधीयते इति चेत्? न, प्रकाशवतो घटस्योपलभ्यमानत्वात् ।
यथा प्रकाशविशिष्टो घट उपलभ्यते न तथा प्राक्प्रदीपकरणात् ।
तस्मान्न तमस्तिरस्कारायैव प्रदीपकरणं किं तर्हि? प्रकाशवत्त्वय ।
प्रकाशवत्त्वेनैवोपलभ्यमानत्वात् ।
क्वचिदावरणविनाशेऽपि यत्नः स्यात्, यथा कुड्यादिविनाशे ।
तस्मान्न नियमोऽस्त्यभिव्यक्तर्थिनावरणविनाश एव यत्नः कार्य इति ।
नियमात्मर्थवत्त्वाच्च ।
कारणे वर्तमानं कार्यं कार्यान्तराणामावरणमित्यवोचाम ।
तत्र यदि पूर्वाभिव्यक्तस्य कार्यस्यपिण्डस्यव्यवहितस्य वा कपालस्य विनाश एव यत्नः क्रियेत, तदा विदलचूर्णाद्यपि कार्यं जायेत ।
तेनाप्यावृतो घटो नोपलभ्यत इति पुनः प्रयत्नान्तरपेक्षैव ।
तस्माद्घटाद्यभिव्यक्त्यर्थिनो नियत एव कारकव्यापारोर्ऽथवान् ।
तस्मात्प्रागुत्पत्तेरपि तदेव कार्यम् ।
अतितानागतप्रत्ययभेदाच्च ।
अतीतो घटोऽनागतो घट इत्येतयोश्च प्रत्ययोर्वर्तमानघटप्रत्ययवन्न निर्विषयत्वं युक्तम्॑नागतार्थिप्रवृत्तेश्च ।
न ह्यसत्यर्थितया प्रवृत्तिर्लोके दृष्टा ।
योगिनां चातीतानागतज्ञानस्य सत्यत्वात् ।
असंश्चेद्भविष्यद्घट ऐश्वरम्भविष्यद्घटविषयं प्रत्यक्षज्ञानं मिथ्या स्यात्न च प्रत्यक्षमुपचर्यते ।
घटसद्भावेह्यनुमानमवोचाम ।
विप्रतिषेधाच्च ।
यदि घटो भविष्यतीति कुलालादिषु व्याप्रियमाणेषु घटार्थं प्रमाणेन निश्चितं येन च कालेन घटस्य सम्बन्धो भविष्यतीत्युच्यते, तस्मिन्नेव काले घटोऽसन्निति विप्रतिषिद्धमभिधीयते ।
भविष्यनघटोऽसन्निति, न भविष्यतीत्यर्थः ।
अयं घटो न वर्तत इति यद्वत् ।
अथ प्रागुत्पत्तेर्घटोऽसन्नित्युच्येत, घटार्थ प्रवृत्तेषु कुलालादिषु तत्र यथा व्यापाररूपेण वर्तमानास्तावत्कुलालादयः, तथा घटो न वर्तत इत्यसच्छब्दस्यार्थश्चेन्न विरुध्यते ।
कस्मात्? स्वेन हि भविष्यद्रूपेण घटो वर्तते ।
न हि पिण्डस्य वर्तमानता कपालस्य वा घटस्य भवति ।
न च तयोर्भविष्यत्ता घटस्य ।
तस्मात्कुलालादिव्यापारवर्तमानतायां प्रागुत्पत्तेर्घटोऽसन्निति न विरुध्यते ।
यदि घटस्य यत्स्वं भविष्यत्ताकार्यरूपं तत्प्रतिपिध्येत, तत्प्रतिपेधे विरोधः स्यात् ।
न तु तद्भवान्प्रतिषेधति ।
न च सर्वेषां क्रियावतां कारकाणामेकैव वर्तमानता भविष्यत्त्वं वा ।
अपि च चतुर्विधानामभावानां घटस्येतरेतराभावो घटादन्यो दृष्टो यथा घटाभावः पटादिरेव न घटस्वरूपमेव ।
न च घटाभावः सन्पटोऽभावात्मकः, किं तर्हि? भावरूप एव ।
एवं घटस्य प्राक्प्रध्वंसात्यन्ताभावनामपि घटादन्यत्वं स्यात् ।
घटेन व्यपदिश्यमानत्वाद् घटस्येतरेतराभाववत् ।
तथैव भावात्मकताभावानाम् ।
एवं च सति घटस्य प्रागभाव इति न घटस्वरूपमेव प्रागुत्पत्तेर्नास्ति ।
अथ घटस्य प्रागभाव इति घटस्य यत्स्वरूपं तदेवोच्येत घटस्येतिव्यपदेशानुपपत्तिः ।
अथ कल्पयित्वा व्यपदिश्येत शिलापुत्रकस्य शरीरमिति यद्वत्, तथापि घटस्य प्रागभाव इति कल्पितस्यैवाभावस्य घटेन व्यपदेशो न घटस्वरूपस्यैव ।
अथार्थान्तरं घटाद्घटस्याभाव इति, उक्तोत्तरमेतत् ।
किञ्चान्यत्प्रागुत्पत्तेः शशविषाणवदभावभूतस्य घटस्य स्वकारणसत्तासम्बन्धानुपपत्तिः, द्विनिष्ठत्वात्सम्बन्धस्य अयुतसिद्धानामदोष इति चेन्न, भावाभावयोरयुतसिद्धत्वानुपपत्तेः ।
भावाभूतयोर्हि युतसिद्धतायुतसिद्धता वा स्यान्न तु भावाभावयोरभावयोर्वा ।
तस्मात्सदेव कार्यं प्रागुत्पत्तेरिति सिद्धम् ।
किंल्लक्षणेन मृत्युनावृतमित्यत आहअशनायया अशितुमिच्छा अशनाया सैव? मृत्योर्लक्षणं तया लक्षितेन मृत्युनाशनायया ।
कथमशनाया मृत्युः? इत्युच्यते अशनाया हि मृत्युः ।
हिशब्देन प्रसिद्धं हेतुमवद्योतयति ।
यो ह्यशितुमिच्छति सोऽशनायानन्तरमेव हन्ति जन्तून्, तेनासावशनायया लक्ष्यते मृत्युरित्यशनाया हीत्याह ।
बुद्ध्यात्मनोऽशनाया धर्म इति स एष बुद्ध्यवस्थो हिरण्यगर्भो मृत्युरित्युच्यते ।
तेन मृत्युनेदं कार्यमावृतमासीत् ।
यथा पिण्डावस्थया मृदा घण्टादय आवृताः स्युरिति तद्वत् ।
तन्मनोऽकुरुत ।
तदिति मनसो निर्देशः ।
स प्रकृतो मृत्युर्वक्ष्यमाणकार्यसिसृक्षया तत्कार्यालोचनक्षमं मनःशब्दवाच्यं संकल्पादिलक्षणमन्तःकरणमकुरुत कृतवान् ।
केनाभिप्रायेण मनोऽकरोत्? इत्युच्यतेआत्मन्वी आत्मवान् स्यां भवेयम् ।
अहमनेनात्मना मनसा मनस्वी स्यामित्यभिप्रायः ।
स प्रजापतिरभिव्यक्तेन मनसा समनस्कः सन्नर्चन्नर्चयन्पूजयनात्मानमेव कृतार्थोऽस्मीत्यचरच्चरणमकरोत् ।
तस्य प्रजापतेरर्चतः पूजयत आपो रसात्मिकाः पूजाङ्गभूता अजायन्तोत्पन्नाः ।
अत्राकाशप्रभृतीनां त्रयाणामुत्पत्त्यनन्तरमिति वक्तव्यम्, श्रुत्यन्तरसामर्थ्याद्विकल्पासम्भवाच्च सृष्टिक्रमस्य ।
अर्चते पूजां कुर्वते वै मे मह्यं कमुदकमभूदित्येवममन्यत यस्मान्मृत्युः, तदेव तस्मादेव हेतोरर्कस्य अग्नेरश्वमेधक्रत्वौपयोगिकस्यार्कत्वमर्कत्वे हेतुरित्यर्थः ।
अग्नेरर्कनामनिर्वचनमेतेत् ।
अर्चनात्सुखहेतुपूजाकरणादप्सम्बन्धाच्च अग्नेरेतद्गौणं नामार्क इति ।
य एवं यथोक्तमर्कस्यार्कत्वं वेद जानाति कमुदकं सुखं वा नामसामान्यात् ।
ह वा इत्यवतारणार्थौ ।
भवत्येवेति ।
अस्मै एवंविदे एवंविदर्थं भवति ॥१॥



कः पुनरसावर्कः? इत्युच्यते



_______________________________________________________________________

१,२.२

आपो वा अर्कः ।
तद्यदपां शर आसीत्तत्समहन्यत ।
सा पृथिव्यभवत् ।
तस्यामश्राम्यत् ।
तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः ॥ _१,२.२ ॥

__________



शा.भा._१,२.२ आपो वै या अर्चनाङ्गभूतास्ता एवार्कोऽग्नेरर्कस्य हेतुत्वात् ।
अप्सु चाग्निः प्रतिषिठित इति ।
न पुनः साक्षादेवार्कस्ताः, तासामप्रकरणात्, अग्नेश्च प्रकरणम् ।
वक्ष्यति चऽअयमग्निरर्कःऽ(बृह.उ.१ । २ । ७) इति ।
तत्तत्र यदपां शर इव शरो दध्न इव मण्डभूतमासीत्तत्समहन्यत सङ्गातमापद्यत तेजसा बाह्यान्तःपच्यमानम् ।
लिङ्गव्यत्ययेन वा योऽषां शरः समहन्यतेति ।
सा पृथिव्यभवत्स संघातो येयं पृथिवी साभवत् ।
ताभ्योऽद्भयो अण्डमभिनिर्वृत्तमित्यर्थः ।
तस्यां पृथिव्यामुत्पादितायां स मृत्यु प्रजापतिरश्राम्यच्छ्रमयुक्तो बभूव ।
सर्वो हि लोकः कार्य कृत्वा श्राम्यति ।
प्रजापतश्चतन्महत्कार्यं यत्पृथिवीसर्गः ।
किं तस्य श्रान्तस्य? इत्युच्यते तस्य श्रान्तस्य तप्तस्य खिन्नस्य तेजोरसस्तेज एव रसस्तेजोरसो रसः सारो निरवर्तत प्रजापतिशरीरान्निष्क्रान्त इत्यर्थः ।
कोऽसौ निष्क्रान्त? अग्निः ।
सोऽण्डस्यान्तर्विराट्प्रजापतिः प्रथमजः कार्यकरणसंघातवान् जातः ।
स वै शरीरि प्रथमः इति स्मरणात् ॥२॥




_______________________________________________________________________

१,२.३

स त्रेधात्मानं व्यकुरुतादित्यं तृतीयं वायुं तृतीयम् ।
स एष प्राणस्त्रेधाविहितः ।
तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मौ ।
अथास्य प्रतीची दिक्पुच्छमसौ चासौ च सक्थ्यौ ।
दक्षिणा चोदीची च पार्श्वे ।
द्यौः पृष्ठमन्तरिक्षमुदरमियमुरः ।
स एषोऽप्सु प्रतिष्ठितः ।
यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ॥ _१,२.३ ॥

__________



शा.भा._१,२.३ स च जातः प्रजापतिस्त्रेधा त्रिप्रकारमात्मानं स्वयमेव कार्यकरणसंघातं व्यकुरुत व्यभजदित्येतत् ।
कथं त्रेधा? इत्याह आदित्यं तृतीयमग्निवाय्वपेक्षया त्रयाणां पूरणमकुरुतेत्यनुवर्तते ।
तथाग्न्यादित्यापेक्षया वायुं तृतीयम् ।
तथा वाय्वादित्यापेक्षयाग्निं तृतीयमिति द्रष्टव्यम् ।
सामर्थ्यस्य तुल्यत्वात्त्रयाणां संख्यापूरणत्वे ।
स एष प्राणः सर्वभूतानामात्माप्यग्निवाय्वादित्यरूपेण विशेषतः स्वेनैव मृत्य्वात्मना त्रेधा विहितो विभक्तो न विराट्स्वरूपोपमर्दनेन ।
तस्यास्य प्रथमजस्याग्नेरश्वमेधोपयोगिकस्यार्कस्य विराजश्चित्यात्मकस्य अश्वस्येव दर्शनमुच्यते ।
सर्वा हि पूर्वोक्तोत्पत्तिरस्य स्तुत्यर्थेत्यवोचामैत्थमसौ शुद्धजन्मेति ।
तस्य प्राची दिक्शिरो विशिष्टत्वसामान्यात् ।
असौ चासौ चैशान्याग्नेय्यौ ईर्मौ बाहू ।
ईरयतेर्गतिकर्मणः ।
अथास्याग्नेः प्रतीची दिक्पुच्छं जघन्योभागः, प्राङ्मुखस्य प्रत्यग्दिक्सम्बन्धाद् ।
असौ चासौ च वायव्यनैरृत्यौ सक्थ्यौसक्थिनी पृष्ठकोणत्वसामान्यात् ।
दक्षिणा चोदीची च पार्शे उभयदिक्सम्बन्धसामान्यात् ।
द्यौः पृष्ठमन्तरिक्षमुदरमिति पूर्ववत् ।
इयमुरः अधोभागसामान्यात् ।
स एषोऽग्नि प्रजापतिरूपो लोकाद्यात्मकोऽग्निरप्सु प्रतिष्ठितः"एवमिमे लोका अप्स्वन्तः"इति श्रुतेः ।
यत्र क्क च यस्मिन्कस्मिंश्चिदेति गच्छति तदेव तत्रैव प्रतितिष्ठति स्थितिं लभते ।
कोऽसौ? एवं यथोक्तमप्सु प्रतिष्ठितत्वमग्नेविद्वान्विजानन् गुणफलमेतत् ॥३॥



योऽसौ मृत्युः सोऽबादिक्रमेणात्मनात्मानमण्डस्यान्तः कार्यकरणसंघातवन्तं विराजमग्निमसृजत, त्रेधा चात्मानमकुरुतेत्युक्तम् ।
स किंव्यापारः सन्नसृजत? इत्युच्यते




_______________________________________________________________________

१,२.४

सोऽकामयत द्वितीयो म आत्मा जायेतेति ।
स मनसा वाचं मिथुनं समभवदशनाया मृत्युः ।
तद्यद्रेत आसीत्स संवत्सरोऽभवत् ।
न ह पुरा ततः संवत्सर आस ।
तमेतावन्तं कालमबिभर्यावान्त्संवत्सरः ।
तमेतावतः कालस्य परस्तादसृजत ।
तं जातमभिव्याददात् ।
स भाणकरोत् ।
सैव वागभवत् ॥ _१,२.४ ॥

__________



शा.भा._१,२.४ स मृत्युरकामयत कामितवान् ।
किम्? द्वितीयो मे ममात्मा शरीरं येनाहं शरीरी स्यां स जायेतोत्पद्येत इत्येवमेतदकामयत ।
स एवं कामयित्वा मनसा पूर्वोत्पन्नेन वाचं लक्षणां मिथुनं द्वन्द्वभावं समभवत्सम्भवनं कृतवान्मनसा त्रयीमालोचितवान् ।
त्रयीविहितं सृष्टिक्रमं मनसान्वालोचयदित्यर्थः ।
कोऽसौ? अशनायया लक्षितो मृत्युः ।
अशनाया मृत्युरित्युक्तम् ।
तमेव परामृशत्यन्यत्र प्रसङ्गो मा भूदिति ।
तद्यद्रेत आसीत्तत्तत्र मिथुने यद्रेत आसीत्, प्रथमशरीरिणः प्रजापतेरुत्पत्तौ कारणं रेतो बीजं ज्ञानकर्मरूपम्,त्रय्यालोचनायां यद्दृष्टवानासीज्जन्मान्तरकृतम्॑तद्भावभावितोऽपः सृष्ट्वा तेन रेतसा बीजेनाप्स्वनुप्रविश्य अण्डरूपेण गर्भीभूतः स संवत्सरोऽभवत्, संवत्सरकालनिर्माता संवत्सरः प्रजापतिरभवत् ।
न ह, पुरा पूर्वम्, ततस्तस्मात्संवत्सरकालनिर्मातुः प्रजापतेः, संवत्सरः कालो नाम नास न बभूव ह ।
तं संवत्सरकालनिर्मातारमन्तर्गर्भप्रजापतिम्, यावानिह प्रसिद्धः काल एतावन्तमेतावत्संवत्सरपरिमाणं कालमबिभः भृतवान्मृत्युः ।
यावान्संवत्सर इह प्रसिद्धः, ततः परस्तात्किं कृतवान्? तमेतावतः कालस्य संवत्सरमात्रस्य परस्तादूर्ध्वमसृजत सृष्टवान्, अण्डमभिनदित्यर्थः तमेवं कुमारं जातमग्निं प्रथमशरीरिणम्, अशनायवत्त्वान्मृत्युरभिव्याददान्मुखविदारणं कृतवानत्तुम्॑स च कुमारो भीतः स्वाभाविक्याविद्यया युक्तो भाणित्येवं शब्दमकरोत् ।
सैव वागभवत्, वाक्शब्दोऽभवत् ॥४॥




_______________________________________________________________________

१,२.५

स ऐक्षत यदि वा इममभिमंस्ये कनीयोऽन्नं करिष्य इति ।
स तया वाचा तेनात्मनेदं सर्वमसृजत यदिदं किञ्च ऋचो यजूंषि सामानि छन्दांसि यज्ञान् प्रजां पशून् ।
स यद्यदेवासृजत तत्तदत्तुमध्रियत ।
सर्वं वा अत्तीति तददितेरदितित्वम् ।
सर्वस्यात्ता भवति सर्वमस्यान्नं भवति य एवमेतददितेरदितित्वं वेद ॥ _१,२.५ ॥

__________


शा.भा._१,२.५ स ऐक्षतस एवं भीतं कृतरवं कुमारं दृष्ट्वा मृत्युरैक्षतेक्षितवानशनायावानपियदा कदाचिद्वा इमं कुमारमपिमंस्येअभिपूर्वोमन्यतिर्हिंसार्थःहिंसिष्य इत्यर्थः॑कनीयोऽन्नं करिष्ये कनीयोऽल्पमन्नं करिष्य इति ।
एवमीक्षित्वा तद्भक्षणादुपरराम बहु ह्यन्नं कर्तव्यं दीर्घकालभक्षणाय नः कनीयः ।
तद्भक्षणे हि कनीयोऽन्नं स्याद्बीजभक्षण इव सस्याभावः ।
स एवम्प्रयोजनमन्नबाहुल्यमालोच्य तय्यैव त्रय्या वाचा पूर्वोक्तया तेनैव चात्मना मनसा मिथुनीभावमालोचनमुपगम्योपगम्येदं सर्वं स्थावरं जङ्गमं चासृजत यदिदं किञ्चयत्किञ्चेदम् ।
किं तत्? ऋचो यजूंषि सामानि छन्दांसि च सप्तगायत्र्यादीदीनि स्तोत्रशस्त्रादिकर्माङ्गभूतांस्त्रिविधान्मन्त्रान्गायत्र्यादिच्छन्दोविशिष्टान् यज्ञांश्च तत्साध्यान्प्रजास्तत्कर्त्रीः पशूंश्च ग्राम्यानारण्यान्कर्मसाधनभूतान् ।
ननु त्रय्या मिथुनीभूतयासृजतेत्युक्तम्, ऋगादीनेह कथमसृजतेति? नैष दोषः, मनसस्त्वव्यक्तोऽयं मिथुनीभावस्त्रय्या, बाह्यस्तु ऋगादीनां विद्यमानानामेव कर्मसु विनियोगभावेन व्यक्तीभावः सर्ग इति ।
स प्रजापतिरेवमन्नवृद्धिं बुद्ध्वा यद्यदेव क्रियासाधनं फलं वा किञ्चिदसृजत तत्तदत्तुं भक्षयितुमध्रियत धृतवान्मनः ।
सर्वं कृत्स्नं वै यस्मादत्तीति तत्तस्माददितेरदितिनाम्नो मृत्योरदितित्वं प्रसिद्धम् ।
तथा च मन्त्रः"अदितिर्द्यैरदितिरन्तरिक्षमदितिर्माता स पिता"(यजुः.सं.२५ । २३) इत्यादिः ।
सर्वस्यैतस्य जगतोऽन्नभूतस्यात्ता सर्वात्मनैवभवत्यन्यथा विरोधात् ।
न हि कश्चित्सर्वस्यैकोऽत्ता दृश्यतेतस्मात्सर्वात्मा भवतीत्यर्थः ।
सर्वमस्यान्नं भवति॑त एव सर्वात्मनो ह्यत्तुः सर्वमन्नं भवतीत्युपपद्यते ।
य एवमेतद्यथोक्तमदितेर्मृत्योः प्रजापतेः सर्वस्य अदनाददितित्वं वेद तस्यैतत्फलम् ॥५॥




_______________________________________________________________________

१,२.६

सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति ।
सोऽश्राम्यत् ।
स तपोऽतप्यत ।
तस्य श्रान्तस्य तप्तस्य यशो वीर्यमुदक्रामत् ।
प्राणा वै यशो वीर्यम् ।
तत्प्राणेषूत्क्रान्तेषु शरीरं श्वयितुमध्रियत ।
तस्य शरीर एव मन आसीत् ॥ _१,२.६ ॥

__________


शा.भा._१,२.६ सोऽकामयतेत्यश्वाश्वमेधयोर्निर्वचनार्थमिदमाह भूयसा महता यज्ञेन भूयः पुनरपि यज्ञेयेति ।
जन्मान्तरकरणापेक्षया भूयः शब्दः ।
स प्रजापतिः जन्मान्तरेऽश्वमेधेनायजत ।
स तद्भावभावित एव कल्पादौ व्यावर्तत ।
सोऽश्वमेधक्रियाकारकफलात्मत्वेन निर्वृत्तः सन्नकामयत भूयसा यज्ञेन भूयो यजेयेति ।
एवं महत्कार्यं कामयित्वा लोकवदश्राम्यत् ।
स तपोऽतप्यत ।
तस्य श्रान्तस्य तप्तस्येति पूर्ववत्, यशो वीर्यमुदक्रामदिति ।
स्वयमेव पदार्थमाह प्राणाश्चक्षुरादयो वै यशो यशोहेतुत्वात्तेषु हि यत्सुख्यातिर्भवति, तथा वीर्यं बलमस्मिञ्शरीरे ।
तदेवं प्राणलक्षणं यशो वीर्यमुदक्रामदुत्क्रान्तवत् ।
तदेवं यशोवीर्यभूतेषु प्राणेषूत्क्रान्तेषु शरीरान्निष्क्रान्तेषु तच्छरीरं प्रजापतेः श्वयितुमुच्छूनभावं गन्तुमध्रियतामेध्यं चाभवत्तस्य प्रजापतेः शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीद्यथा कस्यचित्प्रिये विषये दूरं गतस्यापि मनो भवति तद्वत् ॥६॥



स तस्मिन्नेव शरीरे गतमनाः सन्किमकरोत्? इत्युच्यते




_______________________________________________________________________

१,२.७

सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति ।
ततोऽश्वः समभवत् ।
यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् ।
एष ह वा अश्वमेधं वेद य एनमेवं वेद ।
तमनवरुध्यैवामन्यत ।
तं संवत्सरस्य परस्तादात्मन आलभत ।
पशून् देवताभ्यः प्रत्यौहत् ।
तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते ।
एष वा अश्वमेधो य एष तपति ।
तस्य संवत्सर आत्मा ।
अयमग्निरर्कः ।
तस्येमे लोका आत्मानः ।
तावेतावर्काश्वमेधौ ।
सो पुनरेकैव देवता भवति मृत्युरेव ।
अप पुनर्मृत्युं जयति ।
नैनं मृत्युराप्नोति ।
मृत्युरस्यात्मा भवति ।
सर्वमायुरेति ।
एतासां देवतानामेको भवति ॥ _१,२.७ ॥

__________



शा.भा._१,२.७ सोऽकामयत, कथम्? मेध्यं मेधार्ह यज्ञियं मे ममेदं शरीरं स्यात् ।
किञ्च आत्मन्व्यात्मवांश्चानेन शरीरेण शरीरवान्स्यामिति प्राविवेश ।
यस्मात्तच्छरीरं तद्वियोगाद्गतयशोर्वीर्यं सदश्वदश्वयत्ततस्तस्मादश्वः समभवत् ।
ततोऽश्वनामा प्रजापतिरेव साक्षादिति स्तूयते ।
यस्माच्च पुनस्तत्प्रवेशाद्गतयशोवीर्यत्वादमेध्यं सन्मेध्यमभूत्तदेव तस्मादेवाश्वमेधस्याश्वमेधनाम्नः क्रतोरश्वमेधत्वमश्वमेधनामलाभः ।
क्रियाकारकफलात्मको हि क्रतुः ।
स च प्रजापतिरेवेति स्तूयते ।
क्रतुनिर्वर्तकस्याश्वस्य पजापतित्वमुक्तम्ऽउषा वा अश्वस्य मेधस्यऽइत्यादिना ।
तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूपस्याग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं विधातव्यमित्यारभ्यते ।
पूर्वत्र क्रियापदस्यविधायकस्याश्रुतत्वात्क्रियापदापेक्षत्वाच्च प्रकरणस्य अयमर्थोऽवगम्यते ।
एष ह अश्वमेधं क्रतुं वेद य एनमेवं वेद, यः कश्चिदेनमश्वमग्निरूपमर्कं च यथोक्तमेवं वक्ष्यमाणेन समासेन पदर्श्यमानेन विशेषणेन विशिष्टं वेद, स एषोऽश्वमेधं वेद नान्यः ।
तस्मादेवं वेदितव्य इत्यर्थः ।
कथम्? तत्र पशुविषयमेव तावद्दर्शनमाह ।
तत्र प्रजापतिर्भूयसा यज्ञेन भूयो यजेयेति कामयित्वा आत्मानमेव पशुं मेध्यं कल्पयित्वा तं पशुमनवरुध्यैवोत्सृष्टं पशुमवरोधमकृत्यैव मुक्तप्रग्रहममन्यताचिन्तयत् ।
तं संवत्सरस्य पूर्णस्य परस्तादूर्ध्वमात्मने आत्मार्थमालभत प्रजापतिदेवताकत्वेनेत्येततालभतालम्भं कृतवान् ।
पशूनन्यान्ग्राम्यानारण्यांश्च देवताभ्यो यथादैवतं प्रत्यौहत्प्रतिगमितवान् ।
यस्माच्चैवं प्रजापतिरमन्यत तस्मादेवमन्योऽप्युक्तेन विधिनात्मानं पशुमश्वं मेध्यं कल्पयित्वा सर्वदेवत्योऽहं प्रोक्ष्यमाण आलभ्यमानस्त्वहं मद्देवत्य एव स्याम्, अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एव इतिविद्यात् ।
अत एवेदानीं सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते याज्ञिकाः ।
ऽएवमेव ह वा अश्वमेधो य एष तपतिऽ यस्त्वेवं पशुसाधनकः क्रतुः स एष साक्षात्फलभूतो निर्दिश्यत एष ह वा अश्वमेधः ।
कोऽसौ? य एव सविता तपति जगदवभासयति तेजसा ।
तस्यास्य क्रतुफलात्मनः संवत्सरः कालविशेषः, आत्मा शरीरं तन्निर्वर्त्यत्वात्संवत्सरस्य ।
तस्यैव क्रत्वात्मनः, अग्निसाध्यत्वाच्च फलस्य क्रतुत्वरूपेणैव निर्देशः, अयं पार्थिवोऽग्निरर्कः साधनभूतः ।
तस्य चार्कस्य क्रतौ चित्यस्येमे लोकास्त्रयोऽयोप्यात्मानः शरीरावयवाः ।
तथा च व्याख्यातंऽतस्य प्राची दिक्ऽइत्यादिना ।
तावग्न्यादित्यावेतौ यथाविशेषितावर्काश्वमेधौ क्रतुफले ।
अर्को यः पार्थिवोऽग्निः स साक्षात्क्रतुरूपः क्रियात्मकः ।
क्रतोरग्निसाध्यत्वात्तद्रूपेणैव निर्देशः ।
क्रतुसाध्यत्वाच्च फलस्य क्रतुरूपेणैव निर्देश आदित्योऽश्वमेध इति ।
तौ साध्यैसाधनौ क्रतुफलभूतावग्न्यादित्यौ, सा उ पुनर्भूय एकैव देवता भवति ।
का सा? मृत्युरेव ।
पूर्वमप्येकैवासीत्क्रियासाधनफलभेदाय विभक्ता ।
तथा चोक्तम्"स त्रेधात्मानं व्यकुरुत" (बृ.उ.१ । २ । ३) इति ।
सा पुनरपि क्रियानिर्वृत्त्युत्तरकालमेकैव देवता भवति मृत्युरेव फलरूप ।
यः पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेद ।
अहमेव मृत्युरस्म्यश्वमेध एका देवता मद्रूपा अश्वाग्निसाधनसाध्येति सोऽपजयति पुनर्मृत्युं पुनर्मरणं सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः ।
अपजितोऽपि मृत्युरेनं पुनराप्नुयादित्याशङ्क्याह नैनं मृत्युराप्नोति ।
कस्मात्? मृत्युरस्य एवंविद आत्मा भवति ।
किञ्च मृत्युरेव फलरूपः सन्ने तासां देवतानामेको भवति ।
तस्यैतत्फलम् ॥७॥

इति प्रथमाध्याये द्वितीयमग्निब्राह्मणम् ॥२॥

तृतीयमुद्गीथब्राह्मणम्[सम्पाद्यताम्]

द्वया हेत्याद्यस्य कः सम्बन्धः? कर्मणां ज्ञानसहितानां परा गतिरुक्ता मृत्य्वात्मभावोऽश्वमेधगत्युक्त्या ।
अथेदानीं मृत्य्वात्मभावसाधनभूतयोः कर्मज्ञानयोर्यत उद्भवस्तत्प्रकाशनार्थमुद्गीथब्राह्मणमारभ्यते ।
ननु मृत्य्वात्मभावः पूर्वत्र ज्ञानकर्मणोः फलमुक्तम् ।
उद्गीथज्ञानकर्मणोस्तुमृत्य्वात्मभावातिक्रमणं फलं वक्ष्यति अतो भिन्नविषयत्वात्फलस्य न पूर्वकर्मज्ञानोद्भवप्रकाशनार्थमिति चेत् ।
नायं दोषः॑ग्न्यादित्यात्मभावत्वादुद्गीथफलस्य ।
पूर्वत्राप्येतदेव फलमुक्तम्ऽएतासां देवतानामेको भवतिऽइति ।
ननुऽमृत्युमतिक्रान्तःऽइत्यादि विरुद्धम्॑न स्वाभाविकपप्मासङ्गविषयत्वादतिक्रमणस्य ।
कोऽसौ स्वाभाविकः पप्मासङ्गो मृत्युः? कुतो वा तस्योद्भवः? केन वा तस्यातिक्रमणम्? कथं वा? इत्येतस्यार्थस्य प्रकाशनायाख्यायिकारभते ।
कथम्




_______________________________________________________________________

१,३.१

द्वया ह प्राजापत्या देवाश्चासुराश्च ततः कानीयसा एव देवा ज्यायसा असुराः ।
त एषु लोकेष्वस्पर्धन्त ।
ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्ययामेति ॥ _१,३.१ ॥

__________


शा.भा._१,३.१ द्वया द्विप्रकाराः ।
हेति पूर्ववृत्तावद्योदको निपातः ।
वर्तमान प्रदापतेः पूर्वजन्मनि यद्वृत्तं तदवद्योदयति हशब्देन ।
प्राजापत्याः प्रजापतेर्वृत्तजन्मावस्थस्यापत्यानि प्राजापत्याः ।
के ते? देवाश्चासुराश्च ।
तस्यैव प्रजापतेः प्राणा वागादयः ।
कथं पुनस्तेषां देवासुरत्वम्? उच्यते शास्त्रजनितज्ञानकर्मभाविता द्योदनाद्देवा भवन्ति ।
त एव स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः ।
स्वेष्वेवासुषु रमणात्सुरेभ्यो वा देवोभ्योऽन्यत्वात् ।
यस्माच्च दृष्टप्रयोजनज्ञानकर्मभाविता असुराः, ततस्तस्मात्कानीयसाः, कानीयांस एव कानीयसाः, स्वार्थेऽणि वृद्धिः ।
कनीयांसोऽल्पा एव देवाः ।
ज्यायसा असुराज्यायानसोऽसुराः ।
स्वाभाविकी हि कर्मज्ञानप्रवृत्तिर्महत्तरा प्राणानां शास्त्रजनितायाः कर्मज्ञानप्रवृत्तेर्दृष्टप्रयोजनत्वात् ।
अत एव कनीयस्त्वं देवानां शास्त्रजनितप्रवृत्तेरल्पत्वात् ।
अत्यन्तयत्नसाध्या हि सा ।
ते देवाश्चासुराश्च प्रजापतिशरीरस्था एषु लोकेषु निमित्तभूतेषु स्वाभाविकेतरकर्मज्ञानसाध्येषु अस्पर्धन्त स्पर्धा. कृतवन्तः ।
देवानां चासुराणां च वृत्त्युद्भवाभिभवौ स्पर्धा ।
कदाचिच्छास्त्रजनितकर्मज्ञानभावनारूपा वत्तिः प्राणानामुद्भवति ।
यदा चोद्भवति तदा दृष्टप्रयोजना प्रत्यक्षानुमान जनितकर्मज्ञानभावनारूपा तेषामेव प्राणानां वृत्तिरासुर्यभिभूयते ।
स देवानां जयोऽसुराणां पराजयः ।
कदाचित्तद्विपर्ययेण देवानां वृत्तिरभिभूयत आसुर्या उद्भवः ।
सोऽसुराणां जयो देवानां पराजयः ।
एवं देवानां जये धर्मभूयस्त्वादुत्कर्ष आ प्रजापतित्वप्राप्तेः ।
असुरजयेऽधर्मभूयस्त्वादपकर्ष आ स्थावरत्वप्राप्तेः ।
उभयसाम्ये मनुष्यत्वप्राप्तिः ।
त एवं कनीयस्त्वादभिभूयमाना असुरैर्देवा बाहुल्यादसुराणां किं कृतवन्तः? इत्युच्यते ते देवा असुरैरभिभूयमाना ह किलोचुरुक्तवन्तः ।
कथम्? हन्तेदानीमस्मिन्यज्ञे ज्योतिष्टोमे, उद्गीथेन उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणेन आत्ययामातिगच्छामः ।
असुरानभिभूय स्वं देवभावं शास्त्रप्रकाशितं प्रतिपत्यामह इत्युक्तवन्तोऽन्योन्यम् ।
उद्गीथकर्मपदार्थकर्तृस्वरूपाश्रयणं च ज्ञानकर्मभ्याम् ।
कर्म वक्ष्यमाणं मन्त्रजपलक्षणं विधित्स्यमानं"तदेतानि जपेत्"इति ।
ज्ञानं त्विदमेव निरूप्यमाणम् ।
नन्विदमभ्यारोहजपविशेषोर्ऽथवादौ न ज्ञाननिरूपणपरम् ।
न॑ऽय एवं वेदऽइति वचनात् ।
उद्गीथप्रस्तावे पुराकल्पश्रवणादुद्गीथविधिपरमिति चेन्न, अप्रकरणात् ।
उद्गीथस्य चान्यत्र विहितत्वात् ।
विद्याप्रकरत्वाच्चास्य ।
अभ्यारोहजपस्य चानित्यत्वात्, एवं विप्रयोज्यत्वात्॑विज्ञानस्य च नित्यवच्छ्रवणात् ।
"तद्धैतल्लोकजिदेव"(बृ. उ.१ । ३ । २८) इति च श्रुतेः॑प्राणस्य वागादीनां शुद्ध्यशुद्धिवचनात् ।
न ह्यन्युपास्यते प्राणस्य शुद्धिवचनं वागादीनां च सहोपान्यस्तानामशुद्धिवचनम् ।
वागादिनिन्दया मुख्यप्राणस्तुतिश्चाभिप्रेता उपपद्यते ।
ऽमृत्युमतिक्रान्तो दीप्यतेऽइत्यादि फलवचनं च ।
प्राणस्वरूपापत्तेर्हि फलं तद्यद्वागाद्यग्न्यादिभावः ।
भवतु नाम प्राणस्योपासनम्, न तु विशुद्ध्यादिगुणवत्तेति ।
ननु स्याच्छ्रुतत्वात्॑न स्यात्॑ुपास्यत्वे स्तुत्यर्थत्वोपपत्तेः ।
न॑विपरीतार्थप्रतिपत्तेः श्रेयःप्राप्त्युपपत्तेर्लोकवत् ।
यो ह्यविपरीतमर्थं प्रतिपद्यते लोके स इष्टं प्राप्नोत्यनिष्टाद्वा निवर्तते, न विपरीतार्थप्रतिपत्त्या ।
तथेहापि श्रौतशब्दजनितार्थप्रतिपत्तौ श्रेयःप्राप्तिरुपपन्ना न विपर्यये ।
न चोपासनार्थश्रुतशब्दोत्थविज्ञानविषयस्य अयथार्थत्वे प्रमाणमस्ति ।
न च तद्विज्ञानस्यापवादः श्रूयते ।
ततः श्रेयःप्राप्तिदर्शनाद्यथार्थतां प्रतिपद्यामहे॑विपर्यये चानर्थप्राप्तिदर्शनात् ।
यो हि विपर्ययेणार्थं प्रतिपद्यते लोके, पुरुषं स्थाणुरित्यमित्रं मित्रमिति वा, सोऽनर्थं प्राप्नुवन्दृश्यते ।
आत्मेश्वरदेवतादीनामपि अयथार्थानामेव चेद्ग्रहणं श्रुतितः, अनर्थप्राप्त्यर्थं शास्त्रमिति ध्रुवं प्राप्नुयाल्लोकवदेव, न चैतदिष्टम्॑तस्माद्यथाभूतानेव आत्मेश्वरदेवतादीन् ग्राहयत्युपासनार्थं शास्त्रम् ।
नामादौ ब्रह्मदृष्टिदर्शनादयुक्तमिति चेत्स्फुटं नामादेरब्रह्मत्वम्, तत्र ब्रह्मदृष्टिं स्थाण्बादाविव पुरुषदृष्टिं विपरीतां ग्राहयच्छास्त्रं दृश्यते ।
तस्माद्यथार्थमेव शास्त्रतः प्रतिपत्तेः श्रेयः इत्युक्तमिति चेत्? न, प्रतिमावद्भेदप्रतिपत्तेः ।
नामादवब्रह्मणि ब्रह्मदृष्टिं विपरीतां ग्राहयति शास्त्रं स्थाण्बादाविव पुरुषदृष्टिं, इति नैतत्साध्ववोचः ।
कस्म्तात्? भेदेन हि ब्रह्मणो नामादिवस्तुप्रतिपन्नस्य नामादौ विधीयते ब्रह्मदृष्टिः प्रतिमादाविव विष्णुदृष्टिः ।
आलम्बनत्वेन हि नामादिप्रतिपत्तिः प्रतिमादिवदेव, न तु नामाद्येव ब्रह्मेति ।
यथा स्थाणावनिर्ज्ञाते न स्थाणुरिति, पुरुष एवायमिति प्रतिपद्यते विपरीतम्, न तु तथा नामादौ ब्रह्मदृष्टिर्विपरीता ।
ब्रह्मदृष्टिरेव केवला नास्ति ब्रमेति चेत् ।
एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिदृष्टीनां तुल्यता ।
न॑ृगादिषु पृथिव्यादिदृष्टिदर्शनात् ।
विद्यमानपृथिव्यादिवस्तुदृष्टीनामेव ऋगादिविषये क्षेपदर्शनात् ।
तस्मात्तत्सामान्यान्नामादिषु ब्रह्मादिदृष्टीनां विद्यमानब्रह्मादिविषयत्वसिद्धिः ।
एतेन प्रतिमाब्राह्मणादिषु विष्ण्वादिदेवपित्रादिबुद्धीनां च सत्यवस्तुविषयत्वसिद्धिः ।
मुख्यापेक्षत्वाच्च गौणत्वस्य ।
पञ्चाग्न्यादिषु चाग्नित्वादेर्गौणत्वाद्मुख्याग्न्यादिसद्भाववन्नामादिषु बह्मत्वस्य गौणत्वान्मुख्यब्रह्मसद्भावोपपत्तिः ।
क्रियार्थैश्चाविशेषाद्विद्यार्थानां यथा च दर्शपौर्णमासादिक्रियेदम्फला विशिष्टैतिकर्तव्यताका एवङ्क्रमप्रयुक्ताङ्गा च इत्येतदलौकिकं वस्तु प्रत्यक्षाद्यविषयं तथाभूतं च वेदवाक्यैरेव ज्ञाप्यते ।
तथा, परमात्मेश्वरदेवतादिवस्तु अस्थूलादिधर्मकमशनायाद्यतीतं चेत्येवमादिविशिष्टमिति वेदवाक्यैरेव ज्ञाप्यते, इत्यलौकिकत्वात्तथाभूतमेव भवितुमर्हतीति ।
न च क्रियार्थैर्वाक्यैर्ज्ञानवाक्यानां बुद्ध्युत्पातकत्वे विशेषोऽस्ति ।
न चानिश्चिता विपर्यस्ता वा परमात्मादिवस्तुविषया बुद्धिरुत्पद्यते ।
अनुष्ठेयाभावादयुक्तमिति चेत्क्रियार्थैर्वाक्यैस्त्र्यंशाभावनानुष्ठेया ज्ञाप्यतेऽलौकिक्यपि ।
न तथा परमात्मेश्वरादिविज्ञानेऽनुष्ठेयं किञ्चितस्ति ।
अतः क्रियार्थैः साधर्म्यमित्ययुक्तमिति चेत्? न, ज्ञानस्य तथाभूतार्थविषयत्वात्न ह्यनुष्ठेयत्वात्तथात्वम्, किं तर्हि? प्रमाणसमधिगतत्वात् ।
न च तद्विषयाया बुद्धेरनुष्ठेयविषयत्वात्तथार्थत्वम्, किं तर्हि? वेदवाक्यजनितत्वादेव ।
वेदवाक्याधिगतस्य वस्तुनस्तथात्वे सत्यनुष्ठेयत्वविशिष्ठं चेदनुतिष्ठति ।
नो चेदनुष्ठेयत्वविशिष्ठं नानु तिष्ठति ।
अननुष्ठेयत्वे वाक्यप्रमाणत्वानुपपत्तिरिति चेत् ।
न ह्यनुष्ठेयेऽसति पदानां सहतिरुपपद्यते ।
अनुष्ठेयत्वे तु सति तादर्थ्येन पदानि संहन्यन्ते ।
तत्रानुष्ठेयनिष्ठं वाक्यं प्रमाणं भवति इदमनेनैवं कर्तव्यमिति ।
न त्विदमनेनैवमित्येवं प्रकाराणां पदशतानामपि वाक्यत्वमस्तिऽकुर्यात्क्रियेत कर्तव्यं भवेत्स्यादिति पञ्चमम्ऽइत्येवमादीनामन्यतमेऽसति ।
अतः परमात्मेश्वरादीनामवाक्यप्रमाणत्वम्, पदार्थत्वे च प्रमाणान्तरविषयत्वम् ।
अतोऽसदेतदिति चेत्? न,ऽअस्ति मेरुर्वर्णचतुष्टयोपेतःऽइत्येवमाद्यननुष्ठेयेऽपि वाक्यदर्शनात् ।
न चऽमेरुर्वर्णचतुष्टयोपेतःऽइत्येवमादिवाक्यश्रवणे मेर्वादावनुष्ठेयत्वबुद्धिरुत्पद्यते ।
तथा अस्तिपदसहितानां परमात्मेश्वरादिप्रतिपादकवाक्यपदानां विशेषण विशेष्यभावेन संहतिः केन वार्यते ।
मेर्वादिज्ञानवत्परमात्मज्ञाने प्रयोजनाभावादयुक्तमिति चेत्? न,"ब्रह्मविदाप्नोति परम्"(तै.उ.२ । १ । १) "ब्रह्मविदाप्नोति परं भिद्यते हृदयग्रन्थिः"(मु.उ.२ । २ । ८) इति फलश्रवणात्, संसारबीजाविद्यादिदोषनिवृत्तिदर्शनाच्च ।
अनन्यशेषत्वाच्च तज्ज्ञानस्य, जुह्वामिव फलश्रुतेरर्थवादत्वानुपपत्ति ।
प्रतिषिद्धानिष्टफलसम्बन्धश्च वेदादेव विज्ञायते ।
न चानुष्ठेयः सः ।
न च प्रतिषिद्धविषये प्रवृत्तक्रियस्य अकरणादन्यदनुष्ठेयमस्ति ।
अकर्तव्यताज्ञाननिष्ठतैव हि परमार्थतः प्रतिषेधविधीनां स्यात् ।
क्षुधार्तस्य प्रतिषेधज्ञानसंस्कृतस्य अभक्ष्येऽभोज्ये वा प्रत्युपस्थिते कलज्जाभिशस्तान्नादौऽइदं भक्ष्यमदो भोज्यम्ऽइति वा ज्ञानमुत्पन्नम्, तद्विषयया प्रतिषेधज्ञानस्मृत्या बाध्यते ।
मृगतृष्णिकायामिव पेयज्ञानं तद्विषययाथात्म्यविज्ञानेन ।
तस्मिन्बाधिते स्नाभाविकनर्थकरीतद्भक्षणभोजनप्रवृत्तिर्न भवति ।
विपरीतज्ञाननिमित्तायाः प्रवृत्तेर्निवृत्तिरेव, न पुनर्यत्नः कार्यस्तदभावे ।
तस्मात्प्रतिषेधविधीनां वस्तुयाथात्म्यज्ञाननिष्ठतैव, न पुरुषव्यापारनिष्ठतागन्धोऽप्यस्ति ।
तथेहापि परमात्मादियाथात्म्यज्ञानविधीनां तावन्मात्रपर्यवासनतैव स्यात् ।
तथा तद्विज्ञानसंस्कृतस्य तद्विपरीतार्थज्ञाननिमित्तानां प्रवृत्तीनामनर्थार्थत्वेन ज्ञायमानत्वात्परमात्मादियाथात्म्यज्ञानस्मृत्या स्वाभाविके तन्निमित्तविज्ञाने बाधितेऽभावः स्यात् ।
ननु कलञ्जादिभक्षणादेरनर्थार्थत्ववस्तुयाथात्म्यज्ञानस्मृत्या स्वाभाविके तद्भक्ष्यत्वादिविषयविपरीतज्ञाने निवर्तिते तद्भक्षणाद्यनर्थप्रवृत्त्यभाववदप्रतिषेधविषयत्वाच्छास्त्रविहितप्रवृत्त्यभावो न युक्त इति चेत् ।
न, विपरीतज्ञाननिमित्तत्वानर्थार्थत्वाभ्यां तुल्यत्वात् ।
कलञ्जभक्षणादिप्रवृत्तेः मिथ्याज्ञाननिमित्तत्वम् ।
अनर्थार्थत्वं च यथा, तथा शास्त्रविहितप्रवृत्तीनामपि ।
तस्मात्परमात्मयाथात्म्यविज्ञानवतः शास्त्रविहितप्रवृत्तीनामपि मिथ्याज्ञाननिमित्तत्वेन अनर्थार्थत्वेन च तुल्यत्वात्परमात्मज्ञानेन विपरीतज्ञाने निवर्तिते युक्त एवाभावः ।
ननु तत्र युक्तः, नित्यानां तु केवलशास्त्रनिमित्तत्वात्, अनर्थार्थत्वाभावच्चाभावो न युक्त इति चेत्? न अविद्यारागद्वेषादिदोषवतो विहितत्वात् ।
यथा स्वर्गकामादिदोषवतो दर्शपूर्णमासादीनि काम्यानि कर्माणि विहितानि तथा सर्वानर्थबीजाविद्यादिदोषवतस्तज्जनितेष्टानिष्टप्राप्तिपरिहाररागद्वेषादिदोषवतश्च तत्प्रेरिताविशेषप्रवृत्तेरिष्टानिष्टप्राप्तिपरिहारार्थिनो नित्यानि कर्माणि विधीयन्ते, न केवलं शास्त्रनिमित्तान्येव ।
न चाग्निहोत्रदर्शपूर्णमासचातुर्मास्यपशुबन्धसोमानां कर्मणां स्वतः काम्यनित्यत्वविवेकोस्ति ।
कर्तृगतेन हि स्वर्गादिकामदोषेण कामार्थता ।
तथा अविद्यादिदोषवतः स्वभावप्राप्तेष्टानिष्टप्राप्तिपरिहारार्थिनः तदर्थान्येव नित्यानि इति युक्तम्, तं प्रति विहितत्वात् ।
न परमात्मयाथात्म्यविज्ञानवतः शमोपायव्यतिरेकेण किञ्चित्कर्म विहितमुभलभ्यते ।
कर्मनिमित्तदेवतादिसर्वसाधनविज्ञानोपमर्देन ह्यात्मज्ञानं विधीयते, न चोपमर्दितक्रियाकारकादिविज्ञानस्य कर्मप्रवृत्तिरुपपद्यते ।
विशिष्टक्रियासाधनादिज्ञानपूर्वकत्वात्क्रियाप्रवृत्तेः ।
न हि देशकालाद्यनवच्छिन्नास्थूलद्वयादिब्रह्मपत्ययधारिणः कर्मावसरोऽस्ति ।
भोजनादिप्रवृत्त्यवसरवत्स्यादिति चेत्? न, अविद्यादिकेवलदोषनिमित्तत्वाद्भोजनादि प्रवृत्तेरावश्यकत्वानुपपत्तेः ।
न तु तथानियतं कदाचित्क्रियते कदाचिन्न क्रियते चेति नित्यं कर्मोपपद्यते ।
केवलदोषनिमित्तत्वात्तु भोजनादिकर्मणोऽनियतत्वं स्यात् ।
दोषोद्भवाभिभवयोरनियतत्वात्कामानामिव काम्येषु ।
शास्त्रनिमित्तकालाद्यपेक्षत्वाच्च नित्यानामनियतत्वानुपपत्तिः ।
दोषनिमित्तत्वे सत्यपि यथा काम्याग्निहोत्रस्य शास्त्रविहितत्वात्सायंप्रातः कालाद्यपेक्षत्वमेवम् ।
तद्भोजनादिपवृत्तौ नियमवत्स्यादिति चेत्? न, नियमसाक्रियत्वात्क्रियायाश्चप्रयोजकत्वान्नासौ ज्ञानस्यापवादकरः ।
तस्मात्परमात्मायाथात्म्यज्ञानविधेरपि तद्विपरीतस्थूलद्वैतादिज्ञाननिवर्तकत्वात्सामर्थ्यात्सर्वकर्मप्रतिषेधविध्यर्थत्वं सम्पद्यते॑कर्मप्रवृत्त्यभावस्य तुल्यत्वाद्यथा प्रतिषेधविषये ।
तस्मात्प्रतिषेधविधिवच्च वस्तुप्रतिपादनं तत्परत्वं च सिद्धं शास्त्रस्य ॥१॥




_______________________________________________________________________

१,३.२

ते ह वाचमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो वागुदगायत् ।
यो वाचि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं वदति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं वदति ।
स एव स पाप्मा ॥ _१,३.२ ॥

__________



शा.भा._१,३.२ ते देवा हैवं विनिश्चित्य, वाचं वागभिमानिनीं देवतामुचुरुक्तवन्तः ।
त्वं नोऽस्मभ्यमुद्गायौद्गात्रं कर्म कुरुष्व ।
वाग्देवतानिर्वर्त्त्यमौगात्रं कम दृष्टवन्तः, तामेव च देवतां जपमन्त्राभिधायाम्"असतो मा सद्गमय"(बृ.उ.१ । ३ । २८) इति ।
अत्र चोपासनायाः कर्मणश्च कर्तृत्वेन वागादय एव विवक्ष्यन्ते ।
कस्मात्? यस्मात्परमार्थतस्तत्कर्तृकस्तद्विषय एव च सर्वो ज्ञानकर्मसंव्यवहारः ।
वक्ष्यति हि"ध्यायतीव लेलायतीव"इत्यात्मकर्तृकत्वाभावं विस्तरतः षष्टे ।
इहापि चाद्यायान्ते उपसंहरिष्यति अव्याकृतादिक्रियाकारकफलजातम्,"त्रयं वा इदं नाम रूपं कर्म"(१ । ६ । १) इति अविद्याविषयम् ।
अव्याकृतात्तु यत्परं परमात्माख्यं विद्याविषयमनामरूपकर्मात्मकम्"नेति नेति"(२ । ३ । ६) इति इतरप्रत्याख्यानेनोपसंहरिष्यति पृथक् ।
यस्तु वागादिसमाहारोपाधिपरिकल्पितः संसार्यात्मा तं च वागादिसमाहारपक्षपातिनमेव दर्शयिष्यति"एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति"(२ । ४ । १२) इति ।
तस्माद्युक्ता वागादीनामेव ज्ञानकर्मकर्तृत्वफलप्राप्तिविवक्षा ।
तथेति तथास्त्विति देवैरुक्ता वाक्तेभ्योऽर्थिभ्योर्ऽथाय उदकायदुद्गानं कृतवती ।
कः पुनरसौ देवेभ्योर्ऽथाय उद्गानकर्मणा वाचा निर्वर्तितः कार्यविशेषः? इत्युच्यते यो वाची निमित्तभूतायां वागादिसमुदायस्य य उपकारो निष्पद्यते वदनादिव्यापारेण, स एव ।
सर्वेषां ह्यसौ वाग्वदनाभिनिर्वृत्तो भोगः फलम् ।
तं भोगं सा तृषु पवमानेषु कृत्वा अवशिष्टेषु नवसु स्तोत्रेषु वाचनिकमार्त्विज्यं फलं यत्कल्याणं शोभनं वदति वर्णानभिनिर्वर्तयति तदात्मने मह्यमेव ।
तद्ध्यसाधारणं वाग्देवतायाः कर्म यत्सम्यग्वर्णानामुच्चारणम् ।
अतस्तदेव विशेष्यते यत्कल्याणं वदतीति ।
यत्तु वदनकार्यं सर्वसंघातोपकारात्मकं तद्याजमानमेव ।
तत्र कल्याणवदनात्मसम्बन्धासङ्गावसरं देवताया रन्ध्रं प्रतिलम्य ते विदुरसुराः, कथम्? अनेनोद्गात्रानोऽस्मान्स्वाभाविकं ज्ञानं चाभिभूयातीत्य शास्त्रजनितकर्मज्ञानरूपेण ज्योतिषोद्गात्रात्मना अत्येष्वन्त्यतिगमिष्यन्ति ।
इत्येवं विज्ञाय समुद्गातारमभिद्रुत्याभिगम्य स्वेन आसङ्गलक्षणेन पाप्मनाविध्यंस्ताडितवन्तः संयोजितवन्त इत्यर्थः ।
स यः स पाप्मा प्रजापतेः पूर्वजन्मावस्थस्य वाचि क्षिप्तः स एष प्रत्यक्षीक्रियते ।
कोऽसौ? यदेवमप्रतिरूपमननुरूपं शास्त्रप्रतिषिद्धं वदति येन प्रयुक्तोऽसभ्यबीभत्सानृताद्यनिच्छन्नपि वदति ।
अनेन कार्येणाप्रतिरूपवदनेन अनुगम्यमानः प्रजापतेः कार्यभूतासु प्रजासु वाचि वर्तते ।
स एवाप्रतिरूपवदनेनानुमितः स प्रजापतेर्वाचि गतः पाप्मा, कारणानुविधायि हि कार्यमिति ॥२॥




_______________________________________________________________________

१,३.३६

अथ ह प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः प्राण उदगायत् ।
यः प्राणे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं जिघ्रति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं जिघ्रति ।
स एव स पाप्मा ॥ _१,३.३ ॥


अथ ह चक्षुरूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यश्चक्षुरुदगायत् ।
यश्चक्षुषि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं पश्यति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा यदेवेदमप्रतिरूपं पश्यति ।
स एव स पाप्मा ॥ _१,३.४ ॥


अथ ह श्रोत्रमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्यः श्रोत्रमुदगायत् ।
यः श्रोत्रे भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं शृणोति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं शृणोति ।
स एव स पाप्मा ॥ _१,३.५ ॥


अथ ह मन ऊचुस्त्वं न उद्गायेति ।
तथेति तेभ्यो मन उदगायत् ।
यो मनसि भोगस्तं देवेभ्य आगायत् ।
यत्कल्याणं संकल्पयति तदात्मने ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविध्यन् ।
स यः स पाप्मा ।
यदेवेदमप्रतिरूपं संकल्पयति ।
स एव स पाप्मा ।
एवमु खल्वेता देवताः पाप्मभिरुपासृजन् ।
एवमेनाः पाप्मनाविध्यन् ॥ _१,३.६ ॥

__________


शा.भा._१,३.३६ तथैव घ्राणादिदेवता उद्गीथनिर्वर्तत्वाज्जपमन्त्रप्रकाश्या उपास्याश्चेति कमेण परीक्षितवन्तः ।
देवानां चैतन्निश्चितमासीत्वागादिदेवताः कमेण परीक्ष्यमाणाः कल्याणविषयविशेषात्मसम्बन्धासङ्गहेतोरासुरपाप्मसंसर्गादुद्गीथनिर्वर्तनासमर्थाः ।
अतोऽनभिधेयाः"असतो मा सद्गमय"इत्यनुपास्याश्च, अशुद्धत्वादितराव्यापकत्वाच्चेति ।
एवमु खल्वनुक्ता अप्येतास्त्वगादिदेवताः कल्याणाकल्याणाकार्यदर्शनादेवं वागादिदेव, एनाः पाप्मनाविध्यन्पाप्मना विद्धवन्त इति यदुक्तं तत्पाप्मभिरुपासृजन्पाप्मभिः संसर्गं कृतवन्त इत्येतत् ॥३६ ॥


वागादिदेवता उपासीना अपि मृत्यतिगमनायाशरणाः सन्तो देवाः क्रमेण



_______________________________________________________________________

१,३.७

अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति ।
तथेति तेभ्य एष प्राण उदगायत् ।
तेऽविदुरनेन वै न उद्गात्रात्येष्यन्तीति ।
तमभिद्रुत्य पाप्मनाविव्यत्सन् ।
स यथाश्मानमृत्वा लोष्टो विध्वंसेतैवं हैव विध्वंसमाना विष्वञ्चो विनेशुः ।
ततो देवा अभवन्, परासुरा ।
भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद ॥ _१,३.७ ॥

__________


शा.भा._१,३.७ अथानन्तरं ह इममित्यभिनयप्रदर्शनार्थम् ।
आसन्यमास्ये भवमासन्यं मुखान्तर्बिलस्थं प्राणमूचुस्त्वं न उद्गायेति ।
तथेत्येवं शरणमुपगतेभ्यः स एष प्राणो मुख्य उदगायदित्यादि पूर्ववत् ।
पाप्मनाविव्यत्सन्वेधनं कर्तुमिष्टवन्तस्ते च दोषासंसर्गिणं सन्तं मुख्यं प्राणम् ।
स्वेन आसङ्गदोषेण वागादिषु लब्धप्रसरास्तदभ्यासानुवृत्त्या संस्रक्ष्यमाणा विनेशुर्विनष्टा विध्वस्ताः ।
कथमिव? इति दृष्टान्त उच्यते स यथा स दृष्टान्तो यथा लोकेऽश्मानं पाषाणमृत्वा गत्वा प्राप्य, लोष्टः पांसुपिण्डः पाषाणचूर्णनायाश्मनि निक्षिप्तः स्वयं विध्वंसेत विस्त्रंसेत विचूर्णीभवेत्, एवं हैव यथायं दृष्टान्त एवमेव, विध्वंसमाना विशेषेण ध्वंसमाना विष्वञ्चो नानागतयो विनेशुर्विनष्टा यतः, ततस्तस्मादासुरविनाशाद्देवत्वप्रतिबन्धभूतेभ्यः स्वाभाविकासङ्गजनितपाप्मभ्यो वियोगादसंसर्गधर्मिमुख्यप्राणाश्रयबलाद्देवा वागादयः प्रकृता अभवत् ।
किमभवन्? स्वं देवतारूपमग्न्याद्यात्मकं वक्ष्यमाणम् ।
पूर्वमष्यग्न्याद्यात्मन एव सन्तः स्वाभाविकेन पाप्मना तिरस्कृतविज्ञानाः पिण्डमात्राभिमाना आसन् ।
ते तत्पाप्मवियोगादुज्झित्वा पिण्डमात्राभिमानं शास्त्रसमर्पितवागाद्यग्न्याद्यात्माभिमाना बभूवुरित्यर्थः ।
किञ्च ते प्रतिपक्षभूता असुराः पराभवन्नित्यनुवर्तते ।
पराभूता विनष्टा इत्यर्थः ।
यथा पुराकल्पेन वर्णितः पूर्वयजमानोऽतिक्रान्तकालिकः एतामेवाख्यायिकारूपां श्रुतिं दृष्ट्वा तेनैव क्रमेण वागादिदेवताः परीक्ष्य, ताश्चापोह्यासङ्गपाप्मास्पददोषवत्त्वेनादोषास्पदं मुख्यं प्राणमात्मत्वेनोपगम्य वागाद्याध्यात्मिकपिण्डमात्रपरिच्छिन्नात्माभिमानं हित्वा वैराजपिण्डाभिमानं वागाद्यग्न्याद्यात्मविषयं वर्तमानप्रजापतित्वं शास्त्रप्रकाशितं प्रतिपन्नः, तथैवायं यजमानस्तेनैव विधिना भवति प्रजापतिस्वरूपेणात्मना ।
परा चास्या प्रजापतित्वप्रतिपक्षभूतः पाप्मा द्विषन्भ्रातृव्यो भवति ।
यतोऽद्वेष्टापि भवति कश्चिद्भ्रातृव्यो भरतादितुल्यः, यस्त्विन्द्रियविषयासङ्गजनितः पाप्मा भ्रातृव्यो द्वेष्टा च, पारमार्थिकात्मस्वरूपतिरतिरस्करणहेतुत्वात्स च पराभवति विशीर्यते लोष्टवात्प्राणपरिष्वङ्गात् ।
कस्यैतत्फलम्? इत्याह य एवं वेद ।
यथोक्तं प्राणमात्मत्वेन प्रतिपद्यते पूर्वयजमानवदित्यर्थः ॥७॥



फलमुपसंहृत्याधुनाख्यायिकारूपमेवाश्रित्याह कस्माच्चहेतोर्वागादीन्मुक्ता मुख्य एव प्राण आत्मत्वेनाश्रयितव्यः? इति तदुपपत्तिनिरूपणाय यस्मादयं वागादीनां पिण्डादीनां च साधारण आत्मा, इत्येतमर्थमाख्यायिकया दर्शयन्त्याह श्रुतिः



_______________________________________________________________________

१,३.८

ते होचुः क्व नु सोऽभूद्यो न इत्थमसक्तेति ।
अयमास्येऽन्तरिति ।
सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ॥ _१,३.८ ॥

__________



शा.भा._१,३.८ ते प्रजापतिप्राणा मुख्येन प्राणेन परिप्रापितदेवस्वरूपा होचुरुक्तवन्तः फलावस्थाः ।
किम्? इत्याह क्व न्विति वितर्के ।
क्व नु कस्मिन्नु सोऽभूत् ।
कः? यो नोऽस्मानित्थमेवमसक्त सञ्जितवान्देवभावमात्मत्वेनोपगमितवान् ।
स्मरन्ति हि लोके केनचिदुपकृता उपकारिणम् ।
लोकवदेव स्मरन्तो विचारयमाणाः कार्यकरणसंघाते आत्मन्येवोपलब्धवन्तः ।
कथम्? अयमास्येऽन्तरिति, आस्ये मुखे य आकाशस्तस्मिन्नन्तरयं प्रत्यक्षो वर्तत इति ।
सर्वो हि लोको विचार्याध्यवस्यति, तथा देवाः ।
यस्मादयमन्तराकाशे वागाद्यात्मत्वेन विशेषमनाश्रित्य वर्तमान उपलब्धो देवैः, तस्मात्सप्राणोऽयास्यो विशेषानाश्रयाच्च असक्त सञ्जितवान्वागादीन् ।
अत एवाङ्गिरस आत्मा कार्यकरणानाम् ।
कथमाङ्गिरसः? प्रसिद्धं ह्येतदङ्गानां कार्यकरणलक्षणानां रसः सार आत्मेत्यर्थः ।
कथं पुनरङ्गरसत्वम्? तदपाये शोषप्राप्तेरिति वक्ष्यामः ।
यस्माच्चायमङ्गरसत्वाद्विशेषामाश्रितत्वाच्च कार्यकरणानां साधारण आत्मा विशुद्धश्च, तस्माद्वागादीनपास्य प्राण एवात्मत्वेनाश्रयितव्य इति वाक्यार्थः ।
आत्मा ह्यात्मत्वेनोपगन्तव्योऽविपरीतबोधाच्छ्रेयःप्राप्तेः, विपर्यये स्वानिष्टप्राप्तिदर्शनात् ॥८॥



स्यान्मतं प्राणस्य विशुद्धिरसिद्धेति ।
ननु परिहृतमेतद्वागादीनां कल्याणवदनाद्यासङ्गवत्प्राणस्य आसङ्गास्पदत्वाभावेन ।
वाढम्, किं त्वाङ्गिरसत्वेन वागादीनामात्मत्वोक्त्या वागादिद्वारेण शवसृष्टितत्स्पृष्टेरिवाशुद्धता शङ्क्यते इत्याह शुद्ध एव प्रणः ।
कुतः?




_______________________________________________________________________

१,३.९

सा वा एषा देवता दूर्नाम ।
दूरं ह्यस्या मृत्युर् ।
दूरं ह वा अस्मान्मृत्युर्भवति य एवं वेद ॥ _१,३.९ ॥

__________



शा.भा._१,३.९ सा वा एषा देवता दूर्नाम ।
यं प्राणं प्राप्याश्मानमिव लोष्टवद्विध्वस्ता असुरास्तं परामृशति सेति ।
सैवैषा येयं वर्तमानयजमानशरीरस्था देवैर्निर्धारिता"अयमास्येऽन्तः"इति ।
देवता च सा स्यात्, उपासनक्रियायाः कर्मभावेन गुणभूतत्वात् ।
यस्यात्मा दूर्नाम दूरित्येवं ख्याता ।
नामशब्दः ख्यापनपर्यायः ।
तस्मात्प्रसिद्धास्या विशुद्धिदूर्नामत्वात् ।
कुतः पुनर्दूर्नामत्वम्? इत्याह दूरं दूरेः हि यस्मादस्याः प्राणदेवतायाः मृत्युरासङ्गलक्षणः पाप्मा ।
असंश्लेषधर्मित्वात्प्राणस्य समीपस्थास्यापि दूरता मृत्योस्तस्माद्दूरित्येवं ख्यातिः, एवं प्राणस्य विशुद्धिर्ज्ञापिता ।
विदुषः फलमुच्यते दूरं ह वा अस्मान्मृत्युर्भवति ।
अस्मादेवंविदः, य एवं वेद तस्मादेवमिति प्रकृतं विशुद्धिगुणोपेतं प्राणमुपास्त इत्यर्थः ।
उपासनं नाम उपास्यार्थवादे यथा देवतादिस्वरूपं श्रुत्या ज्ञाप्यते तथा मनसोपगम्य आसनं चिन्तनं लौकिकप्रत्ययाव्यवधानेन यावत्तद्देवतादिस्वरूपात्माभिमानाभिव्यक्तिरिति लौकिकात्माभिमानवत् ।
"देवो भूत्वा देवानप्येति" (बृ.उ.४ । १ । २) "किन्देवतोऽस्यां प्राच्यां दिश्यसि" (बृ.उ.३ । ९ । २०) इत्येवमादिश्रुतिभ्यः ॥९॥



सा वा एषा देवता दूरं ह वा अस्मान्मृत्युर्भवतीत्युक्तम् ।
कथं पुनरेवंविदो दूरं मृत्युर्भवति? इत्युच्यते एवंवित्त्वविरोधात् ।
इन्द्रियविषयसंसर्गासङ्गजो हि पाप्मा प्राणात्माभिमानिनो हि विरुध्यते, वागादिविशेषात्माभिमानहेतुत्वात्स्वाभाविकाज्ञानहेतुत्वाच्च ।
शास्त्रजनितो हि प्राणात्माभिमानः ।
तस्मादेवंविदः पाप्मा दूरं भवतीति युक्तं विरोधात् ।
तदेतत्प्रदर्शयति




_______________________________________________________________________

१,३.१०

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयां चकार ।
तदासां पाप्मनो विन्यदधात् ।
तस्मान्न जनमियान्नान्तमियान्नेत्पाप्मानं मृत्युमन्ववायानीति ॥ _१,३.१० ॥

__________



शा.भा._१,३.१० सा वा एषा देवतेत्युक्तार्थम् ।
एतासां वागादीनां देवतानां पाप्मानं मृत्युं स्वाभाविकाज्ञानप्रयुक्तेन्द्रियविषयसंसर्गासङ्गजनितेन हि पाप्मना सर्वो म्रियते, स ह्यतो मृत्युः, तं प्राणात्माभिमानमात्रतयैव प्राणोऽपहन्तेत्युच्यते ।
विरोधादेव तु पाप्मैवंविदो दूरं गतो भवति ।
किं पुनश्चकार देवतानां पाप्मानं मृत्युमपहत्य? इत्युच्यते यत्र यस्मिन्नासां प्राच्यादीनां दिशामन्तोऽवसानं तत्तत्र गमयाञ्चकार गमनं कृतवानित्येतत् ।
ननु नास्ति दिशामन्तः कथमन्तं गमितवान्? इत्युच्यते श्रौतविज्ञानवज्जनावधिनिमित्तकल्पितत्वाद्दिशां तद्विरोधिजनाव्युषित एव देशो दिशामन्तः, देशान्तोऽरण्यमिति यद्वदित्यदोषः ।
तत्तत्र गमयित्वा आसां देवतानाम्, पाप्मन इति द्वितीयाबहुवचनम्, विन्यदधाद्विविधं न्यग्भावेनदधात्स्थापितवती प्राणदेवता ।
प्राणात्माभिमानशून्येषु अन्त्यजनेष्विति सामर्थ्यात् ।
इन्द्रियसंसर्गजो हि स इति प्राण्याश्रयतावगम्यते ।
तस्मात्तमन्त्यं जनं नेयान्न गच्छेत्सम्भाषणदर्शनादिभिर्न संसृजेत् ।
तत्संसर्गे पाप्मना संसर्गः कृतः स्यात्पाप्माश्रयो हि सः ।
तज्जननिवासं चान्तं दिगन्तशब्दवाच्यं नेयाज्जनशून्यमपि, जनमपि तद्देशवियुक्तमित्यभिप्रायः ।
नेदिति परिभयार्थे निपातः ।
इत्थं जनसंसर्गे पाप्मानं मृत्युमन्ववायानीति ।
अनु अव अयानीत्यनुगच्छेयमिति, एवं भीतो न जनमन्तं चेयादिति पूर्वेण सम्बन्धः ॥१०॥




_______________________________________________________________________

१,३.११

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्याथैना मृत्युमत्यवहत् ॥ _१,३.११ ॥

__________


शा.भा._१,३.११ सा वा एषा देवता, तदेतत्प्राणात्मज्ञानकर्मफलं वागादीनामग्न्याद्यात्मत्वमुच्यते ।
अथैना मृत्युमत्यवहत्तस्मादाध्यात्मिकपरिच्छेदकरः पाप्मा मृत्युः प्राणात्मविज्ञानेनपहतस्तस्मात्सप्राणोऽपहन्ता पाप्मनो मृत्योः ।
तस्मात्स एव प्राण एना वागादिदेवताः प्रकृतं पाप्मानं मृत्युमतीत्य अवहत्प्रापयत्स्वं स्वमपरिच्छिन्नमग्न्यादिदेवातात्मरूपम् ॥११॥




_______________________________________________________________________

१,३.१२

सा वै वाचमेव प्रथमामत्यवहत् ।
सा यदा मृत्युमत्यमुच्यत सोऽग्निरभवत् ।
सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ॥ _१,३.१२ ॥

__________



शा.भा._१,३.१२. स वै वाचमेव प्रथमामत्यवहत् ।
स प्राणो वाचमेव प्रथमां प्रधानामित्येतत् ।
उद्गीथकर्मणीतरकरणापेक्षया साधकतमत्वं प्राधान्यं तस्याः ।
तां प्रथमामत्यवहद्वहनं कृतवान् ।
तस्याः पुनर्मृत्युमतीत्योढायाः किं रूपम्? इत्युच्यते सा वाग्यदा यस्मिन्काले पाप्मानं मृत्युमत्यमुच्यतातीत्यामुच्यत मोचिता स्वयमेव, तदासोग्निरभवत् ।
सा वाक्पूर्वमप्यग्निरेव सती मृत्युवियोगेऽप्यग्निरेवाभवत् ।
एतावांस्तु विशेषो मृत्युवियोगे ।
सोयमतिक्रान्तोऽग्निः परेणमृत्युं परस्तान्मृत्योर्दीप्यते ।
प्राङ्मोक्षान्मृत्युप्रतिबद्धो अध्यात्मवागात्मना नेदानीमिव दीप्तिमानासीत्, इदानीं तु मृत्युं परेण दीप्यते मृत्युवियोगात् ॥१२॥




_______________________________________________________________________

१,३.१३

अथ प्राणमत्यवहत् ।
स यदा मृत्युमत्यमुच्यत स वायुरभवत् ।
सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ॥ _१,३.१३ ॥

__________



शा.भा._१,३.१३ तथा प्राणो घ्राणं वायुरभवत् ।
स तु पवते मृत्युं परेणातिक्रान्तः ।
सर्वमन्यदुक्तार्थम् ॥१३॥




_______________________________________________________________________

१,३.१४

अथ चक्षुरत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् ।
सोऽसावादित्यः परेण मृत्युमतिक्रान्तस्तपति ॥ _१,३.१४ ॥

__________



शा.भा._१,३.१४ तथा चक्षुरादित्योऽभवत्स तु तपति ॥१४॥




_______________________________________________________________________

१,३.१५

अथ श्रोत्रमत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत ता दिशोऽभवन् ।
ता इमा दिशः परेण मृत्युमतिक्रान्ताः ॥ _१,३.१५ ॥
__________



शा.भा._१,३.१५ तथा श्रोत्रं दिशोऽभवत् ।
दिशः प्राच्यादिविभागेनावस्थिताः ॥१५॥



_______________________________________________________________________

१,३.१६

अथ मनोऽत्यवहत् ।
तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा अभवत् ।
सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति ।
एवं ह वा एनमेषा देवता मृत्युमतिवहति य एवं वेद ॥ _१,३.१६ ॥

__________



शा.भा._१,३.१६ मनश्चन्द्रमा भाति ।
यथा पूर्वयजमानं वागाद्यग्न्यादिभावेन मृत्युमत्यवहत्, एवमेनं वर्तमानयजमानमपि ह वा एषा प्राणदेवता मृत्युमतिवहति वागाद्यग्न्यादिभावेन ।
एवं यो वागादिपञ्चकविशिष्टं प्राणं वेद ।
"तं यथा यथोपासते तदेव भवति"इति श्रुतेः ॥१६॥




_______________________________________________________________________

१,३.१७

अथात्मनेऽन्नाद्यमागायत् ।
यद्धि किञ्चान्नमद्यतेऽनेनैव तदद्यते ।
इह प्रतितिष्ठति ॥ _१,३.१७ ॥

__________



शा.भा._१,३.१७ यथा वागादिभिरात्मार्थमागानं कृतं तथा मुख्योऽपि प्राणः सर्वप्राणसाधारणं प्राजापत्यफलमागानं कृत्वा त्रिषु पमानेषु, अथानन्तरं शिष्टेषु नवसु, स्तोत्रेषु, आत्मने आत्मार्थमन्नाद्यमन्नं च तदाद्यं चान्नाद्यमागायत् ।
कर्तुः कामसंयोगो वाचनिक इत्युक्तम् ।
कथं पुनस्तदन्नाद्यं प्राणेनात्मार्थमागीतमिति गम्यते? इत्यत्र हेतुमाह यत्किञ्चेति सामान्यान्नमात्रपरामर्शार्थः ।
हीति हेतौ ।
यस्माल्लोके प्राणिभिर्यद्किञ्चिदन्नमद्यतेभक्ष्यते तदनेनैव ।
अन इति प्राणस्याख्या प्रसिद्धा अनः शब्दः सान्तः शकटवाची, यस्त्वन्यः स्वरान्तः स प्राणपर्यायः ।
प्राणेनैव तदद्यत इत्यर्थः ।
किञ्च न केवलं प्राणेनाद्यत एवान्नाद्यम्, तस्मिञ्छरीराकारपरिणतेऽन्नाद्य इह प्रतितिष्ठति प्राणः ।
तस्मात्प्राणेनात्मनः प्रतिष्ठार्थमागीतमन्नाद्यम् ।
यदपि प्राणेनान्नादनं तदपि प्रतिष्ठार्थमेवेति न वागादिष्विव कल्याणसङ्गजपात्मसम्भवः प्राणेऽस्ति ॥१७॥



नन्ववधारणमयुक्तं प्राणेनैव तदद्यत इति, वागादीनामपि अन्ननिमित्तोपकारदर्शनात् ।
नैष दोषः, प्राणद्वारत्वात्तदुपकारस्य ।
कथं प्राणद्वारकोऽन्नकृतौ वागादीनामुपकार इत्येतमर्थं प्रदर्शयन्नाह



_______________________________________________________________________

१,३.१८

ते देवा अब्रुवन् ।
एतावद्वा इदं सर्वं यदन्नम् ।
तदात्मन आगासीः ।
अनु नोऽस्मिन्नन्न आभजस्वेति ।
ते वै माभिसंविशतेति ।
तथेति तं समन्तं परिण्यविशन्त ।
तस्माद्यदनेनान्नमत्ति तेनैतास्तृप्यन्ति ।
एवं ह वा एनं स्वा अभिसंविशन्ति भर्ता स्वानां श्रेष्ठः पुरएता भवत्यन्नादोऽधिपतिर्य एवं वेद ।
य उ हैवंविदं स्वेषु प्रतिर्बुभूषति न हैवालं भार्येभ्यो भवति ।
अथ य एवैतमनुभवति यो वैतमनु भार्यान् बुभूर्षति स हैवालं भार्येभ्यो भवति ॥ _१,३.१८ ॥

__________



शा.भा._१,३.१८ ते वागादयो देवाः, स्वविषयद्योतनाद्देवाः, अब्रुवन्नुक्तवन्तो मुख्यं प्राणमिदमेतावन्नातोऽधिकमस्ति ।
वा इति स्मरणार्थः ।
इदं तत्सर्वमेतावदेव, किम्? यदन्नं प्राणस्थितिकरमद्यते लोके तत्सर्वमात्मन आत्मार्थमागासीः आगीतवानसि आगानेनात्मसात्कृतमित्यर्थः ।
वयं चान्नमन्तरेण स्थातुं नोत्सामहे ।
अतोऽनु पश्चान्नोस्मानस्मिन्नन्ने आत्मार्थे तवान्ने आभजस्व आभाजयस्व ।
णिचोऽश्रवणं छान्दसम् ।
अस्मांश्चान्नभागिनः कुरु ।
इतर आह ते यूयं यद्यन्नार्थिनो वै, मा मामभिसंविशत समन्ततो मामाभिमुख्येन निविशत ।
इत्येवमुक्तवति प्राणे तथेत्येवमिति, तं प्राणं परिवेष्ट्य निविष्टवन्त इत्यर्थः ।
तथा निविष्टानां प्राणानुज्ञया तेषां प्राणे नैवाद्यमानं प्राणस्थितिकरं सदन्नं तृप्तिकरं भवति न स्वातन्त्र्येण ।
तस्माद्युक्तमेवावधारणमनेनैव तदद्यत इति ।
तदेव चाह तस्माद्यस्मात्प्राणाश्रयतयैव प्राणानुज्ञयाभिसन्निविष्टा वागादिदेवताः तस्माद्यदन्नमनेन प्राणेनात्ति लोकस्तेनान्नेनैता वागाद्यास्तृप्यन्ति ।
वागाद्याश्रयं प्राणं यो वेद वागादयश्च पञ्च प्राणाश्रया इति तमप्येवमेवं ह वै स्वा ज्ञातस्य अभिसंविशन्ति वागादय इव प्राणम् ।
ज्ञातीनामाश्रयणीयो भवतीत्यभिप्रायः ।
अभिसन्निविष्टानां च स्वानां प्राणवदेव वागादीनां स्वान्नेन भर्ता भवति ।
तथा श्रेष्ठः पुरोऽग्रत एता गन्ता भवति वागादीनामिव प्राणः ।
तथान्नादोऽनामयावीत्यर्थः ।
अधिपतिरधिष्ठाय च पालयिता स्वतन्त्रः पतिः प्राणवदेव वागादीनाम् ।
य एवं प्राणं वेद तस्यैतद्यथोक्तं फलं भवति ।
किञ्च य उ हैवंविधं प्राणविदं प्रति स्वेषु ज्ञातीनां मध्ये प्रतिः प्रतिकूलो बुभूर्षति प्रतिस्पर्धी भवितुमिच्छति, सोसुरा इव, प्राणप्रतिस्पर्धिनो न हैवालं न पर्याप्तो भार्येभ्यो भरणीयेभ्यो भवति भर्तुमित्यर्थः ।
अथ पुनर्य एवं ज्ञातीनां मध्ये एवंविदं वागादय इव प्राणमनु अनुगतो भवति, यो वैतमेवंविदमन्वेवानुवर्तयन्नेव आत्मीयान्भार्यान् बुभूर्षति भर्तुमिच्छति, यथैव वागादयः प्राणानुवृत्त्यात्मबुभूर्षव आसन् ।
स हैवालं पर्याप्तो भार्येभ्यो भरणीयेभ्यो भवति भर्तुं नेतरः स्वतन्त्रः ।
सर्वमेतत्प्राणगुणविज्ञानफलमुक्तम् ॥१८॥



कार्यकरणानामात्मत्वप्रतिपादनाय प्राणस्याङ्गिरसत्वमुपन्यस्तं सोऽयास्य आङ्गिरस इति ।
अस्माद्धेतोरयमाङ्गिरस इत्याङ्गिरसत्वे हेतुर्नोक्तः ।
तद्धेतुसिद्ध्यर्थमारभ्यते, तद्धेतुसिद्ध्यायत्तं हि कार्याणात्मत्व प्राणस्य ।
अनन्तरं च वागादीनां प्राणाधीनतोक्ता सा च कथमुपपादनीया? इत्याह




_______________________________________________________________________

१,३.१९

सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः ।
प्राणो वा अङ्गानां रसः ।
प्राणो हि वा अङ्गानां रसः ।
तस्माद्यस्मात्कस्माच्चाङ्गात्प्राण उत्क्रामति तदेव तच्छुष्यति ।
एष हि वा अङ्गानां रसः ॥ _१,३.१९ ॥

__________



शा.भा._१,३.१९ सोऽयास्य आङ्गिरस इत्यादि यथोपन्यस्तमेवोपादीयते उत्तरार्थम्ऽप्राणो वा अङ्गानां रसःऽइत्येवमन्तं वाक्यं यथाव्याख्यार्थमेव पुनः स्मारयति ।
कथम्?ऽप्राणो वा अङ्गानां रसःऽइति ।
ऽप्राणो हिऽहिशब्दः प्रसिद्धौ अङ्गानां रसः ।
प्रसिद्धमेतत्प्राणस्याङ्गरसत्वं न वागादीनाम् ।
तस्माद्युक्तं प्राणो वा इति स्मारणम् ।
कथं पुनः प्रसिद्धत्वम्? इत्यत आह ।
तस्माच्छब्द उपसंहारार्थ उपरित्वेन सम्बध्यते ।
यस्माद्यतोऽवयवात्कस्मादनुक्तविशेषात्, यस्मात्कस्माद्यतः कुतश्चिच्च अङ्गाच्छरीरावयवादविशेषितात्प्राण उत्क्रामत्यपसर्पति तदेव तत्रैव तदङ्गं शुष्यति नीरसं भवति शोषमुपैति ।
तस्मादेष हि वा अङ्गानां रसः इत्युपसंहारः ।
अतः कार्यकरणानामात्मा प्राण इत्येतत्सिद्धम् ।
आत्मापाये हि शेषो मरणं स्यात्तस्मात्तेन जीवन्ति प्राणिनः सर्वे ।
तस्मादपास्य वागादीन्प्राण एवोपास्य इति समुदायार्थः ॥१९॥



न केवलं कार्यकरणयोरेवात्मा प्राणो रूपकर्मभूतयोः ।
किं तर्हि? ऋग्यजुःसाम्नां नामभूतानामात्मेति सर्वात्मकतया प्राणं स्तुवन्महीकरोत्युपास्यत्वाय




_______________________________________________________________________

१,३.२०
एष उ एव बृहस्पतिः ।
वाग्वै बृहती ।
तस्या एष पतिस्तस्मादु बृहस्पतिः ॥ _१,३.२० ॥

__________



शा.भा._१,३.२० एष उ एव प्रकृत आङ्गिरसो बृहस्पतिः ।
कथं बृहस्पतिः? इत्युच्यते वाग्वै बृहती बृहतीच्छन्दः षट्त्रिंशदक्षरा ।
अनुष्टुप्च वाक् ।
कथम्? "वाग्वा अनुष्टुप्"(नृसि.पू.१ । १) इति श्रुतेः ।
सा च वागनुष्टुब्बृहत्यां छन्दस्यन्तर्भवति ।
अतो युक्तं वाग्वै बृहतीति प्रसिद्धवद्वक्तुम् ।
बृहत्यां च सर्वा ऋचोऽन्तर्भवन्ति प्राणसंस्तुतत्वात् ।
"प्राणो बृहती प्राण ऋच इत्येव विद्यात्"इति श्रुत्यन्तरात् ।
वागात्मत्वाच्चर्चा प्राणेऽन्तर्भावः ।
तत्कथम्? इत्याह तस्या वाचो बृहत्या ऋच एष प्राणः पतिः ।
तस्या निर्वर्तकत्वात् ।
कौष्ठ्याग्निप्रेरितमारुतनिर्वर्त्या हि ऋक् ।
पालनाद्वा वाचः पतिः ।
प्राणेन हि पाल्यते वाक् ।
अप्राणस्य शब्दोच्चारणसामर्थ्याभावात् ।
तस्मा बृहस्पतिरृचां प्राण आत्मेत्यर्थः ॥२०॥



तथा यजुषाम् ।
कथम्?


_______________________________________________________________________

१,३.२१

एष उ एव ब्रह्मणस्पतिः ।
वाग्वै ब्रह्म ।
तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ _१,३.२१ ॥
__________



शा.भा._१,३.२१ एष उ एव ब्रह्मणस्पतिः ।
वाग्वै ब्रह्म, ब्रह्म यजुः, तच्च वाग्विशेष एव ।
तस्या वाचो यजुषो ब्रह्मण एष पतिस्तस्मादु ब्रह्मणस्पतिः पूर्ववत् ।
कथं पुनरेतदवगम्यते बृहतीब्रह्मणोरृग्यजुष्ट्वं न पुनरन्यार्थत्वम्? इत्युच्यते वाचोऽन्ते सामसामानाधिकरण्यनिर्देशात्"वाग्वै साम"(१ । ३ । २२) इति ।
तथा चऽवाग्वै बृहतीऽऽवाग्वै ब्रह्मऽइति च वाक्समानाधिकरणयोरृग्यजुष्ट्वं युक्तम् ।
परिशेषाच्च साम्नि अभिहिते ऋग्यजुषी एव परिशिष्टे ।
वाग्विशेषत्वाच्च वाग्विशेषो हि ऋग्यजुषी ।
तस्मात्तयोर्वाचा समानाधिकरणता युक्ता ।
अविशेषप्रसङ्गाच्च सामोद्गीथ इति च स्पष्टं विशेषाभिधानत्वम्, तथा बृहतीब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम् ।
अन्यथा अनिर्धारित विशेषयोरानर्थक्यापत्तेश्च विशेषाभिधानस्य वाङ्मात्रत्वे चोभयत्र पौनरुक्त्यात् ।
ऋग्यजुःसामोद्गीथशब्दानां च श्रुतिष्वेवङ्क्रमदर्शनात् ॥२१॥




_______________________________________________________________________

१,३.२२

एष उ एव साम ।
वाग्वै सामैष सा चामश्चेति तत्साम्नः सामत्वम् ।
यद्वेव समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण तस्माद्वेव साम ।
अश्नुते साम्नः सायुज्यं सलोकताम् ।
य एवमेतत्साम वेद ॥ _१,३.२२ ॥

__________



शा.भा._१,३.२२ एष उ एव साम ।
कथम्? इत्याह वाग्वै सा यत्किञ्चित्स्त्रीशब्दाभिधेयं सा वाक् ।
सर्वस्त्रीशब्दाभिधेयवस्तुविषयोऽमः शब्दः ।
"केन मे पैंस्नानि नामान्याप्नोषीति, प्राणेनेति ब्रूयात्केन मे स्त्रीनामानीति वाचा"(कौषी.उ १ । ७) इति श्रुत्यन्तरात्वाक्प्राणाभिधानभूतोऽयं सामशब्दः, तथा प्राणनिर्वर्त्यस्वरादिसमुदायमात्रं गितिः सामशब्देनाभिधीयते॑तो न प्राणवाग्व्यतिरेकेण सामनामास्ति किञ्चित्, स्वरवर्णादेश्च प्राणनिर्वर्त्यत्वात्प्राणतन्त्रत्वाच्च ।
एष उ एव प्राणः साम ।
यस्मात्साम सामेति वाक्प्राणात्मकं सा चामश्चेति, तत्तस्मात्साम्नो गीतिरूपभ्य स्वरादिसमुदायस्य सामत्वं तत्प्रगीतं भुवि ।
यदु एव समस्तुल्यः सर्वेण वक्ष्यमाणेन प्रकारेण, तस्माद्वा सामेत्यनेन सम्बन्धः ।
वाशब्दः सामशब्दलाभनिमित्तप्रकारान्तरनिर्देशसामर्थ्यलभ्यः ।
केन पुनः प्रकारेण प्राणस्य तुल्यत्वम्? इत्युच्यते समः प्लुषिणा पुत्तिकाशरीरेण समो मशकेन मशकशरीरेण, समो नागेन हस्तिशरीरेण, सम एभिस्त्रिभिर्लोकैस्त्रैलोक्यशरीरेण प्राजापत्येन, समोऽनेन जगद्रूपेण हैरण्यगर्भेण ।
पुत्तिकादिशरीरेषु गोत्वादिवत्कार्त्स्न्येन परिसमाप्त इति समत्वं प्राणस्य॑न पुनः शरीरमात्रपरिमाणेनैव, अमूर्तत्वात्सर्वगतत्वाच्च ।
न च घटप्रासादादिप्रदीपवत्संकोचविकासितया शरीरे तावन्मात्रं समत्वम् ।
"त एते सर्व एव समाः सर्वेऽनन्ताः"(बृह.उ.१ । ५ । १३) इति श्रुतेः ।
सर्वगतस्य तु शरीरपरिमाणवृत्तिलाभो न विरुध्यते ।
एवं समत्वात्सामाख्यं प्राणं वेद यःश्रतिप्रकाशितमहच्वं तस्पैतत्फलमश्नुते व्याप्नोति साम्नः प्राणस्य सायुज्यं सयुग्भावं समानदेहेन्द्रियाभिमानत्वम्, सालोक्यं समानलोफतां वा भावनाविशेषतः, य एवमेतद्यथोक्तं साम प्राणं वेदआ प्राणात्माभिमानाभिव्यक्तेरुपास्ते इत्यर्थः ॥२२॥




_______________________________________________________________________

१,३.२३

एष उ वा उद्गीथः ।
प्राणो वा उत्प्राणेन हीदं सर्वमुत्तब्धम् ।
वागेव गीथा ।
उच्च गीथा चेति ।
स उद्गीथः ॥ _१,३.२३ ॥

__________



शा.भा._१,३.२३ एष उ वा उद्गीथः ।
उद्गीथो नाम सामावयवो भक्तिविशेषो नोद्गानम्, सामाधिकारात् ।
कथमुद्गीथः प्राणः? प्राणो वा उत्प्राणेन हि यस्मादिदं सर्वं जगदुत्तब्धमूर्ध्वं स्तब्धमुत्तम्भितं विधृतमित्यर्थः ।
उत्तब्धार्थावद्योतकोऽयमुच्छब्दः प्राणगुणाभिधायकः, तस्मादुत्प्राणः ।
वागेव गीथाशब्दविशेषत्वादुद्गीथभक्तेः ।
गायतेः शब्दार्थत्वात्सा वागेव ।
न ह्युद्गीथभक्तेःशब्दव्यतिरेकेण किञ्चिद्रूपमुत्प्रेक्ष्यते ।
तस्माद्युक्तमवधारणं वागेव गीथेति ।
उच्च प्राणो गीथा च प्राणतन्त्रा वागित्युभयमेकेन शब्देनाभिधीयते स उद्गीथः ॥२३॥



_______________________________________________________________________

१,३.२४

तद्धापि ब्रह्मदत्तश्चैकितानेयो राजानं भक्षयन्नुवाच ।
अयं त्यस्य राजा मूर्धानं विपातयताद्यदितोऽयास्य आङ्गिरसोऽन्येनोदगायदिति ।
वाचा च ह्येव स प्राणेन चोदगायदिति ॥ _१,३.२४ ॥

__________



शा.भा._१,३.२४ तद्धापि तत्तत्रैतस्मिन्नुक्तेर्ऽथे हाप्याख्यायिकापि श्रूतये हस्म ।
ब्रह्मदत्तो नामतः चिकितानस्यापत्यं चैकितानस्तदपत्यं युवा चैकितानेयः, राजानं यज्ञे सोमं भक्षयन्नुवाच ।
किम्? अयं चमसस्थो मयाभक्ष्यमाणो राजा त्यस्य तस्य ममानृतवादिनो मूर्धानं शिरो विपातयताद्विस्पष्टं पातयतु ।
तोरयं तातङ्ङादेशः आशिपि लोट्, विपातयतादिति ।
यद्यहमनृतवादी स्यामित्यर्थः ।
कथं पुनरनृतवादित्वप्राप्तिः? इत्युच्यतेयद्यदीतोऽस्मात्प्रकृतात्प्राणाद्वाक्संयुक्तात्, अयास्यःमुख्यप्राणाभिधायकेन अयास्याङ्गिरसशब्देनाभिधीयते विश्वसृजां पूर्वर्षीणां सत्रे उद्रातासोऽन्येन देवतान्तरेण वाक्प्राणव्यतिरिक्तेनोदगायदुद्गानं कृतवान्, ततोऽहमनृतवादी स्याम्, तस्य मम देवता विपरीतप्रतिपत्तुर्मूर्धानं विपातयतु, इत्येवं शपथं चकारेति विज्ञाने प्रत्ययदार्ढ्यकर्तव्यतां दर्शयति ।
तमिममाख्यायिकानिर्धारितमर्थं स्वेन वचसोपसंहरति श्रुतिःवाचा च प्राणप्रधानया प्राणेन च स्वस्यात्मभूतेन सोऽयास्य आङ्गिरस उद्गातोदगायदित्येषोर्ऽथो निर्धारितः शपथेन ॥२४॥




_______________________________________________________________________

१,३.२५

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् ।
तस्य वै स्वर एव स्वम् ।
तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत ।
तया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् ।
तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव ।
अथो यस्य स्वं भवति ।
भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेद ॥ _१,३.२५ ॥

__________


शा.भा._१,३.२५ तस्येति प्रकृतं प्राणमभिसम्वध्नाति ।
हैतस्येति मुख्यं व्यपदिशत्यभिनयेन ।
साम्नः सामशब्दवाच्यस्यप्राणस्ययःस्वं धनं वेद, तस्य ह किं स्यात्? भवति हास्यस्वम् ।
फलेन प्रलोभ्याभिमुखीकृत्य शुश्रूषवे आहतस्य वै साम्नः स्वर एव स्वम् ।
स्वर इति कण्ठगतं माधुर्यं तदेवास्य स्वं विभूषणम् ।
तेन हि भूषितमृद्धिमल्लक्ष्यतौद्गानम् ।
यस्मादेवं तस्मादार्त्विज्यं ऋत्विक्कर्मोद्गानं करिष्यन्वाचि विषये वाचि वागाश्रितं स्वरमिच्छेत इच्छेत्साम्नो धनवत्तां स्वरेण चिकीर्षुरुद्गाता ।
इदं तु प्रासङ्गिकंविधीयते॑साम्नः सौस्वर्येण स्वरवच्वप्रत्ययेकर्तव्ये इच्छामात्रेण सौस्वर्यं न भवतीति दन्तधावनतैलपानादि सामर्थ्यात्कर्तव्यमित्यर्थः ।
तथैवं संस्कृतया वाचा स्वरसम्पन्नयार्त्विज्यं कुर्यात् ।
तस्माद्यस्मात्साम्नः स्वभूतः स्वरस्तेन स्वेन भूषितं साम अतो यज्ञे स्वरवन्तमुद्गातारं दिदृक्षन्त एव द्रष्टुमिच्छन्त एव धनिनामव लौकिकाः ।
प्रसिद्धं हि लोकेऽथो अपि यस्य स्वं धनं भवति तं धनिनं दिदृक्षन्ते इति सिद्धस्य गुणविज्ञानफलसम्बन्धस्य उपसंहारः क्रियते भवति हास्य स्वं य एवमेतत्साम्नः स्वं वेदेति ॥२५॥



अथान्यो गुणः सुवर्णवत्तालक्षणो विधीयते ।
असावपि सौस्वर्यमेव ।
एतावान्विशेषः पूर्वं कण्ठगतमाधुर्यमिदं तु लाक्षणिकं सुवर्णशब्दवाच्यम् ।




_______________________________________________________________________

१,३.२६

तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् ।
तस्य वै स्वर एव सुवर्णम् ।
भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेद ॥ _१,३.२६ ॥

__________


शा.भा._१,३.२६ तस्य हैतस्य साम्नो यः सुवर्णं वेद भवति हास्य सुवर्णम् ।
सुवर्ण शब्दसामान्यात्स्वरसुवर्णयोः लोकिकमेव सुवर्णं गुणविज्ञानफलं भवतीत्यर्थः ।
तस्य वै स्वर एव सुवर्णम् ।
भवति हास्य सुवर्णं य एवमेतत्साम्नः सुवर्णं वेदेति पूर्ववत्सर्वम् ॥२६॥


तथा प्रतिष्ठागुणं विधित्सन्नाह




_______________________________________________________________________

१,३.२७

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति ह तिष्ठति ।
तस्य वै वागेव प्रतिष्ठा ।
वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते ।
अन्न इत्यु हैक आहुः ॥ _१,३.२७ ॥

__________


शा.भा._१,३.२७ तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद ।
प्रतितिष्ठत्यस्यामिति प्रतिष्ठा वाक्तां प्रतिष्ठां साम्नो गुणं यो वेद स प्रतितिष्ठति ह ।
"तं यथा यथोपासते"इति श्रुतेस्तद्गुणत्वं युक्तम् ।
पूर्ववत्फलेन प्रतिलोभिताय का प्रतिलोभिताय का प्रतिष्ठेति शुश्रूपवे आह तस्य वै साम्नो वागेव, वागिति जिह्वामूलीयादीनां स्थानानामाख्या, सैव प्रतिष्ठा, तदाह वाचि हि जिह्वामूलीयादिषुहि यस्मात्प्रतिष्ठितः सन्नेष प्राण एतद्गानं गीयते गीतिभावमापद्यते तस्मात्साम्नः प्रतिष्ठा वाक् ।
अन्ने प्रतिष्ठितो गीयत इत्यु हैकेऽन्ये आहुः ।
इह प्रतितिष्ठतीति युक्तम् ।
अनिन्दितत्वादेकीयपक्षस्य विकल्पेन प्रतिष्ठागुणविज्ञानं कुर्याद्वाग्वा पतिष्ठान्नं वेति ॥२७॥



एवं प्राणविज्ञानवतो जपकर्म विधित्स्यते ।
यद्विज्ञानवतो जपकर्मण्यधिकारस्तद्विज्ञानमुक्तम् ।



_______________________________________________________________________

१,३.२८

अथातः पवमानानामेवाभ्यारोहः ।
स वै खलु प्रस्तोता साम प्रस्तौति ।
स यत्र प्रस्तुयात्तदेतानि जपेत् ।
असतो मा सद्गमय, तमसो मा ज्योतिर्गमय, मृत्योर्मामृतं गमयेति ।
स यदाहासतो मा सद्गमयेति ।
मृत्युर्वा असत्सदमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
तमसो मा ज्योतिर्गमयेति ।
मृत्युर्वै तमो ज्योतिरमृतं मृत्योर्मामृतं गमयामृतं मा कुर्वित्येवैतदाह ।
मृत्योर्मामृतं गमयेति ।
नात्र तिरोहितमिवास्ति ।
अथ यानीतराणि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत् ।
तस्मादु तेषु वरं वृणीत ।
यं कामं कामयेत्तम् ।
स एष एवंविदुद्गातात्मने वा यजमानाय वा यं कामं कामयते तमागायति ।
तद्धैतल्लोकजिदेव ।
न हैवालोक्यताया आशास्ति य एवमेतत्साम वेद ॥ _१,३.२८ ॥

__________


शा.भा._१,३.२८ अथानन्तरं यस्माच्चैवं विदुषा प्रयुज्यमानं देवभावायाभ्यारोहफलं जपकर्म, अतस्तस्मात्तद्विधीयत इह ।
तस्य चोद्गीथसम्बन्धात्सर्वत्र प्राप्तौ पवमानानामिति वचनात्पवमानेषु त्रिष्वपि कर्तव्यतायां प्राप्तायां पुनः काल संकोचं करोति स वै खलु प्रस्तोता साम प्रस्तौति ।
स प्रस्तोता यत्र यस्मिन्काले साम प्रस्तुयात्प्रारभेत तस्मिन्काल एतानि जपेत् ।
अस्य च जपकर्मण आख्या अभ्यारोह इति ।
आभिमुख्येनारोहत्यनेन जपकर्मणैवंविद्देवभावात्मानमित्यभ्यारोहः ।
एतानीति बहुवचनात्त्रीणि यजूंषि ।
द्वितीयानिर्देशाद्ब्राह्मणोत्पन्नत्वाच्च यथापठित एव स्वरः प्रयोक्तव्यो न मान्त्रः ।
याजमानं जपकर्म ।
एतानि तानि यजूंषिऽअसतो मा सद्गमयऽऽतमसो मा ज्योतिर्गमयऽऽमृत्योर्मामृतं गमयऽइति ।
मन्त्रामर्थस्तिरोहितो भवतीति स्वयमेव व्याचष्टे ब्राह्मणं मन्त्रार्थं स मन्त्रो यदाह यदुक्तवान्कोऽसावर्थः? इत्युच्यतेऽअसतो मा सद्गमयऽइति मृत्युर्वा असत्स्वाभाविककर्मविज्ञाने मृत्युरित्युच्येते, असदत्यन्ताधोभावहेतुत्वात् ।
सदमृतं सच्छास्त्रीयकर्मविज्ञाने अगरणहेतुत्वादमृतम् ।
तस्मादसतो असत्कर्मणोऽज्ञानाच्च मा मां सच्छास्त्रीयकर्मविज्ञाने गमय देवभावसाधनात्मभावमापादयेत्यर्थः ।
तत्र वाक्यार्थमाह अमृतं मा कुर्वित्येवैतदाहेति ।
तथा तमसो मा ज्योतिर्गमयेति मृत्युर्गमयेति ।
मृत्युर्वै तमः सर्वं ह्यज्ञानमावरणात्मकत्वात्तमः तदेव च मरणहेतुत्वान्मृत्युः ।
ज्योतिरमृतं पूर्वोक्तविपरीतं दैवं स्वरूपम् ।
प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः, तदेवामृतमविनाशात्मकत्वात् ।
तस्मात्तमसो मा ज्योतिर्गमयेति पूर्ववन्मृत्योर्मामृतं गमयेत्यादि ।
अमृतं मा कुर्वित्येवैतदाह दैवं प्राजापत्यं फलभावमापादयेत्यर्थः ।
पूर्वो मन्त्रोऽसाधनस्वभावात्साधनभावमापादयेति ।
द्वितीयस्तु साधनभावादपि अज्ञानरूपात्साध्यभावमापादयेति ।
मृत्योर्मामृतं गमयेति पूर्वयोरेव मन्त्रयोः समुचितोर्ऽथस्तृतीयेन मन्त्रेणोच्यत इति प्रसिद्धार्थतैव ।
नात्र तृतीये मन्त्रे तिरोहितमन्तर्हितमिवार्थरूपं पूर्वयोरिव मन्त्रयोरस्ति, यथाश्रुत एवार्थः ।
याजमानमुद्गानं कृत्वा पवमानेषु त्रिषु, अथानन्तरं यानीतराणि शिष्टानि स्तोत्राणि तेष्वात्मनेऽन्नाद्यमागायेत्प्राणविदुद्गाताप्राणभूतः प्राणवदेव ।
यस्मात्स एव उद्गातैवं प्राणं यथोक्तं वेत्ति, अतः प्राणवदेव तं कामं साधयितुं समर्थः ।
तस्माद्यजमानस्तेषु स्तोत्रेषु प्रयुज्यमानेषु वरं वृणीत, यं कामं कामयेत तं कामं वरं वृणीत प्रार्थयेत ।
यस्मात्स एष एवंविदुद्गातेति तस्माच्छब्दात्प्रागेव सम्बध्यते ।
आत्मने वा यजमानाय वा यं कामं कामयते इच्छत्युद्गाता तमागायत्यागानेन साधयति ।
एवं तावज्ज्ञानकर्मभ्यां प्राणात्मापत्तिरित्युक्तम् ।
तत्र नास्त्याशङ्कासम्भवः ।
अतः कर्मापाये प्राणापत्तिर्भवति वा न वा? इत्याशङ्कते ।
तदाशङ्कानिवृत्त्यर्थमाह तद्धैतलोकजिदेवेति ।
तद्धतदेतत्प्राणदर्शनं कर्मवियुक्तं केवलमपि, लोकजिदेवेति लोकसाधनमेव ।
न ह एवालोक्यतायै अलोकार्हत्वाय आशा आशंसनं प्रार्थनं नैवास्ति ह ।
न हि प्राणात्मनि उत्पन्नात्माभिमानस्य तत्प्राप्त्याशंसनं सम्भवति ।
न हि ग्रामस्थः कदा ग्रामं प्राप्नुतामित्यरण्यस्थ इवाशास्ते ।
असन्निकृष्टविषये ह्यनात्मन्याशंसनम्, न तत्स्वात्मनि सम्भवति ।
तस्मान्नाशास्ति कदाचित्प्राणात्मभावं न प्रपद्येयमिति ।
कस्यैतत्? य एवमेतत्साम प्राणं यथोक्तं निर्धारितमहिमानं वेद अहमस्मि प्राण इन्द्रियविषयासङ्गैरासुरैः पाप्मभिरधर्षणीयो विशुद्धः, वागादिपञ्चकं च मदाश्रयत्वादग्न्याद्यात्मरूपं स्वाभाविकविज्ञानोत्थेन्द्रियविषयासङ्गजनितासुरपाप्मदोषवियुक्तं सर्वभूतेषु च मदाश्रयान्नाद्योपयोगबन्धनम्, आत्मा चाहं सर्वभूतानामाङ्गिरसत्वात्, ऋग्यजुः सामोद्गीथभूतायाश्च वाच आत्मा तद्वयाप्तेस्तन्निर्वर्तकत्वाच्च, मम साम्नो गीतिभावमापद्यमानस्य बाह्यं धनं भूषणं सौस्वर्यं ततोऽप्यान्तरं सौवर्ण्यलाक्षणिकं सौस्वर्यम्, गीतिभावमापद्यमानस्य
मम कण्ठादिस्थानानि प्रतिष्ठा ।
एवं गुणोऽहं पुत्तिकादिशरीरेषु कार्त्स्न्येन परिसमाप्तोऽमूर्तत्वात्सर्वगतत्वाच्च इति आ एवमभिमानाभिव्यक्तेर्वेदोपास्त इत्यर्थः ॥२८॥

इति प्रथमाध्याये तृतीयमुद्गीथब्राह्मणम् ॥३॥

चतुर्थं सृष्ट्यादिसर्वात्मताब्राह्मणम्[सम्पाद्यताम्]

ज्ञानकर्मभ्यां समुचिताभ्यां प्रजापतित्वप्राप्तिर्व्याख्याता केवलप्राणदर्शनेन चऽतद्धैतल्लोकजिदेवऽइत्यादिना ।
प्रजापतेः फलभूतस्य सृष्टिस्थितिसंहारेषु जगतः स्वातन्त्र्यादिविभूत्युपवर्णनेन ज्ञानकर्मणोर्वैदिकयोः फलोत्कर्षो वर्णयितव्य इत्येवमर्थमारभ्यते ।
तेन च कर्मकाण्डविहितज्ञानकर्मस्तुतिः कृत्वा भवेत्सामर्थ्यात् ।
विवक्षितं त्वेतत्सर्वमप्येतज्ज्ञानकर्मफलं संसार एव, भयारत्यादियुक्तत्वश्रवणात्, कार्यकरणलक्षणत्वाच्च स्थूलव्यक्तानित्यविषयत्वाच्चेति ।
ब्रह्मविद्यायाः केवलाया वक्ष्यमाणाया मोक्षहेतुत्वमित्युत्तरार्थं चेति ।
न हि संसारविषयात्साध्यसाधनादिभेदलक्षणादविरक्तस्य आत्मैकत्व ज्ञानविषयेऽधिकारः, अतृषितस्येव पाने ।
तस्माज्ज्ञानकर्मफलोत्कर्षोपवर्णनमुत्तरार्थम् ।
तथा च वक्ष्यति"तदेतत्पदनीयमस्य"(बृ.उ.१ । ४ । ७) "तदेतत्प्रेयः पुत्रात्" (बृ.उ.१ । ४ । ८) इत्यादि ।




_______________________________________________________________________

१,४.१

आत्मैवेदमग्र आसीत्पुरुषविधः ।
सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् ।
सोऽहमस्मीत्यग्रे व्याहरत् ।
ततोऽहंनामाभवत् ।
तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाथान्यन्नाम प्रब्रूते यदस्य भवति ।
स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन औषत्तस्मात्पुरुषः ।
ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद ॥ _१,४.१ ॥

__________



शा.भा._१,४.१ आत्मैवात्मेति प्रजापतिः प्रथमोऽण्डजः शरीर्यभिधीयते ।
वैदिकज्ञानकर्मफलभूतः स एव किम्? इदं शरीरभेदजातं तेन प्रजापतिशरीरेणाविभक्तम् ।
आत्मैवासीदग्रे प्राक्शरीरान्तरोत्पत्तेः ।
स च पुरुषविधः पुरुषप्रकारः शिरःप्राण्यादिलक्षणो विराट् ।
स एव प्रथमः सम्भूतोऽनुवीक्ष्यान्वालोचनं कृत्वा, कोऽहं किंलक्षणो वास्मीति, नान्यद्वस्त्वन्तरम्, आत्मनः प्राणपिण्डात्मकार्यकरणरूपान्न अपश्यन्न ददर्श ।
केवलं त्वात्मानमेव सर्वात्मानमपश्यत् ।
तथा पूर्वजन्मश्रौतविज्ञानसंस्कृतः, सोऽहं प्रजापतिः सर्वात्माहमस्मीत्यग्रे व्याहरद्व्याहृतवान् ।
ततस्तस्माद्यतः पूर्वज्ञानसंस्कारादात्मानमेवाहमित्यभ्यधादग्रे तस्मादहंनामाभवत् ।
तस्योपनिषदमिति श्रुतिप्रदर्शितमेव नाम वक्ष्यति ।
तस्माद्यस्मात्कारणे प्रजापतावेवं वृत्तं तस्मात्, तत्कार्यभूतेषु प्राणिषु एतर्ह्येतस्मिन्नपि काल आमन्त्रितः कस्त्वमित्युक्तः सन्नहमयमित्येवाग्र उक्त्वा कारणात्माभिधानेन आत्मानमभिधायाग्रे पुनर्विशेषनामजिज्ञासवेऽथानन्तरं विशेषपिण्डाभिधानं देवदत्तो यज्ञदत्तो वेति प्रबूते कथयति यन्नामास्य विशेषपिण्डस्य मातापितृकृतं भवति तत्कथयति ।
स च प्रजापतिरतिक्रान्तजन्मनि सम्यक्कर्मज्ञानभावनानुष्ठानैः साधकावस्थायां यद्यस्मात्कर्मज्ञानभावनानुष्ठानैः प्रजापतित्वं प्रतिपित्सूनां पूर्वः प्रथमः सनस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्सर्वस्मादादौ औषददहत् ।
किम्? आसङ्गाज्ञानलक्षणान्सर्वान्पाप्मनः प्रजापतित्व प्रतिबन्धकारणभूतान् ।
यस्मादेवं तस्मात्पुरुषः, पूर्वमौषदिति पुरुषः ।
यथायं प्रजापतिरोषित्वा प्रतिवन्धकान्पाप्मनः सर्वान्पुरुषः प्रजापतिरभवत्, एवमन्योऽपि ज्ञानकर्मभावनानुष्ठानवह्निना केवलं ज्ञानबलाद्वौषति भस्मीकरोति ह वै स तम्॑कम्? योऽस्माद्विदुषः पूर्वः प्रथमः प्रजापतिर्बुभूषति भवितुमिच्छति तमित्यर्थः ।
तं दर्शयति य एवं वेदेति ।
सामर्थ्याज्ज्ञानभावनाप्रकर्षवान् ।
नन्वनर्थाय प्राजापत्यप्रतिपिप्सा, एवंविदा चेद्दह्यते ।
नैष दोषः, ज्ञानभावनोत्कर्षाभावात्प्रथमं प्रजापतित्वप्रतिपत्त्य भावमात्रत्वाद्दाहस्य ।
उत्कृष्टसाधनः प्रथमं प्रजापतित्वं प्राप्नुवन्न्यूनसाधनो न प्राप्नोतीति, स तं दहतीत्युच्यते ।
न पुनः प्रत्यक्षमुत्कृष्टसाधनेन इतरो दह्यते ।
यथा लोके आजिसृतां यः प्रथममाजिमुपसर्पति तेनेतरे दग्धा इवापहृतसामर्थ्या भवन्ति तद्वत् ॥१॥


यदिदं तुष्टूषितं कर्मकाण्डविहितज्ञानकर्मफलं प्राजापत्यलक्षणं नैव तत्संसारविषयमत्यक्रामदितीममर्थ प्रदर्शयिष्यन्नाह




_______________________________________________________________________

१,४.२

सोऽबिभेत्तस्मादेकाकी बिभेति ।
स हायमीक्षां चक्रे, यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति ।
तत एवास्य भयं वीयाय ।
कस्माद्ध्यभेष्यत् ।
द्वितीयाद्वै भयं भवति ॥ _१,४.२ ॥

__________



शा.भा._१,४.२ सोऽबिभेत्स प्रजापतिर्योयं प्रथमः शरीरि पुरुषविधो व्याख्यातः ।
सोऽबिभेद्भीतवानस्मदादिवदेवेत्याह ।
यस्मादयं पुरुषविधः शरीरकरणवानात्मनाशविपरीतदर्शनवत्वादबिभेत्, तस्मात्तत्सामान्यादद्यत्वेऽप्येकाकी बिभेति ।
किञ्चास्मदादिवदेव भयहेतुविपरीतदर्शनापनोदकारणं यथाभूतात्मदर्शनम् ।
सोऽयं प्रजापतिरीक्षामीक्षणं चक्रे कृतवान् ह ।
कथम्? इत्याह यद्यस्मान्मत्तोन्यदात्मव्यतिरेकेण वस्त्वन्तरं प्रतिद्वन्दीभूतं नास्ति, तस्मिन्नात्मविनाशहेत्वभावे कस्मान्नु बिभेमीति ।
तत एव यथाभूतात्मदर्शनादस्य प्रजापतेर्भयं वीयाय विस्पष्टमपगतवत् ।
तस्य प्रजापतेर्यद्भयं तत्केवलाविद्यानिमित्तमेव परमार्थदर्शनेऽनुपपन्नमित्याह कस्माद्ध्यभेष्यत्किमित्यसौ भीतवान्परमार्थनिरूपणायां भयमनुपपन्नमेवेत्यभिप्रायः ।
यस्माद्द्वितीयद्वस्त्वन्तरद्धि भयं भवति ।
द्वितीयं च वस्त्वन्तरमविद्याप्रत्युपस्थापितमेव॑न ह्यदृश्यमानं द्वितीयं भयजन्मनो हेतुः"तत्र को मोहः कः शोकः एकत्वमनुपश्यतः"(ईशा.७) इति मन्त्रवर्णात् ।
यच्चैकत्वदर्शनेन भयमपनुनोद तद्युक्तम् ।
कस्मात्? द्वितीयाद्वस्त्वन्तराद्वै भयं भवति, तदेकत्वदर्शनेन द्वितीयदर्शनमपनीतमिति नास्ति यतः ।
अत्र चोदयन्ति कुतः प्रजापतेरेकत्वदर्शनं जातम्? को वास्मै उपदिदेश? अथानुपदिष्टमेव प्रादुरभूत्, अस्मदादेरपि तथा प्रसङ्गः ।
अथ जन्मान्तरकृतसंस्कारहेतुकम्, एकत्वदर्शनानर्थक्यप्रसङ्गः ।
यथाप्रजापतेरतिक्रान्तजन्मावस्थस्य एकत्वदर्शनं विद्यमानमप्यविद्याबन्धकारणं नापनिन्ये, यतः अविद्यासंयुक्त एवायं जातोऽबिभेत्, एवं सर्वेषामेकत्वदर्शनानर्थक्यं प्राप्नोति ।
अन्त्यमेव निवर्तकमिति चेन्न, पूर्ववत्पुनः प्रसङ्गेनानैकान्त्यात् ।
तस्मादनर्थकमेवैकत्वदर्शनमिति ।
नैष दोषः, उत्कृष्टहेतूद्भवत्वाल्लोकवत् ।
यथा पुण्यकर्मोद्भवैर्विविक्तैः कार्यकरणैः संयुक्ते जन्मनि सति प्रज्ञामेधास्मृतिवैशारद्यं दृष्टम्, तथा प्रजापतेः धर्मज्ञानवैराग्यैश्वर्यविपरीतहेतुसर्वपाप्मदाहात्विशुद्धैः कार्यकरणै संयुक्तमुत्कृष्टं जन्म तदुद्भवं चानुपदिष्टमेव युक्तमेकत्वदर्शनं प्रजापतेः ।
तथा च स्मृतिः"ज्ञानमग्रतिधं यस्य वैराग्यं च जगत्पतेः ।
ऐश्वर्यं चैव धर्मस्य सहसिद्धं चतुष्टयम् ॥
"इति ।
सहसिद्धत्वे भयानुपपत्तिरिति चेत् ।
न ह्यादित्येन सह तम उदेति ।
न, अन्यानुपदिष्टार्थत्वात्सह सिद्धवाक्यस्य ।
श्रद्धातात्पर्यप्रणिपातादीनामहेतुत्वमिति चेत्स्यान्मतम्"श्रद्धावांल्लभते ज्ञानं तत्परः संयतेन्द्रियः"(गीता ४ । ३९) "तद्विद्धि प्रणिपातेन"(गीता ४ । ३४) इत्येवमादीनां श्रुतिस्मृतिविहितानां ज्ञानहेतूनामहेतुत्वम्, प्रजापतिरिव जन्मान्तरकृतधर्महेतुत्वे ज्ञानस्येति चेत्? न॑निमित्तविकल्पसमुच्चयगुणवदगुणवत्त्वभेदोपपत्तेः ।
लोके हि नैमित्तिकानां कार्याणां निमित्तभेदोऽनेकधा विकल्पते ।
तथा निमित्तसमुच्चयः ।
तेषां च विकल्पितानां समुच्चितानां च पुनर्गुणवदगुणवत्त्वकृतो भेदो भवति ।
तद्यथा रूपज्ञान एव तावन्नैमित्तिके कार्ये तमसि विनालोकेन चक्षूरूपसन्निकर्षो नक्तञ्चराणां रूपज्ञाने निमित्तं भवति ।
मन एव केवलं रूपज्ञाननिमित्तं योगीनाम् ।
अस्माकं तु सन्निकर्षालोकाभ्यां सह तथादित्यचन्द्राद्यालोकभेदैः समुच्चिता निमित्तभेदा भवन्ति ।
तथा आलोकविशेषगुणवदगुणवत्त्वेन भेदाः स्युः ।
एवमेव आत्मैकत्वज्ञानेऽपि क्वचिज्जन्मान्तरकृतं कार्म निमित्तं भवति, यथा प्रजापतेः ।
क्वचित्तपो निमित्तम्,"तपसा विजिज्ञासस्व"(छा.उ.३ । २ । १) इति श्रुतेः ।
क्वचित्"आचार्यवान्पुरुषो वेद"(छा.उ.६ । १४ । २) "श्रद्धावांल्लभते ज्ञानम्"(गीता.४ । ३९) "तद्विद्धि प्रणिपातेन"(गीता.४ । ३४) "आचार्याद्धैव"(छा.उ.४ । १ । ३) "द्रष्टव्यः श्रोतव्यः"(बृ.उ.२ । ४ । ५) इत्यादि श्रुतिस्मृतिभ्य एकान्तज्ञानलाभनिमित्तत्वं श्रद्धाप्रभृतीनामधर्मादिनिमित्तवियोगहेतुत्वात् ।
वेदान्तश्रवणमनननिदिध्यासनानां च साक्षाज्ज्ञेयविषयत्वात् ।
पापादिप्रतिबन्धक्षये चात्ममनसोर्भूतार्थज्ञाननिमित्तस्वाभाव्यात् ।
तस्मादहेतुत्वं न जातु ज्ञानस्य श्रद्धाप्रणिपातादीनामिति ॥२॥



इतश्च संसारविषय एव प्राजापतित्वम्, यतः ।



_______________________________________________________________________

१,४.३

स वै नैव रेमे ।
तस्मादेकाकी न रमते ।
स द्वितीयमैच्छत् ।
स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ ।
स इममेवात्मानं द्वेधापातयत् ।
ततः पतिश्च पत्नी चाभवताम् ।
तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यः ।
तस्मादयमाकाशः स्त्रिया पूर्यत एव ।
तां समभवत् ।
ततो मनुष्या अजायन्त ॥ _१,४.३ ॥

__________



शा.भा._१,४.३ स प्रापतिर्वै नैव रेमे रतिं नान्वभवत्, अरत्याविष्टोऽभूदित्यर्थः, अस्मादादिदेव यतः, इदानीमपि तस्मादेकाकित्वादिधर्मवत्त्वादेकाकी न रमते रतिं नानुभवति ।
रतिर्नामेष्टार्थसंयोगजा क्रीडा, तत्प्रसंगिन इष्टवियोगान्मनस्याकुलीभावोऽरतिरित्युच्यते ।
स तस्या अरतेरपनोदाय द्वितीयमरत्यपघातसमर्थं स्त्रीवस्त्वैच्छद्गृद्धिमकरोत् ।
तस्य चैवं स्त्रीविषयं गृध्यतः स्त्रिया परिष्वक्तस्येवात्मनो भावो बभूव ।
स तेन सत्येप्सुत्वादेतावानेतत्परिमाण आस बभूव ह ।
किंपरिमाणः? इत्याह यथा लोके स्त्रीपुमांसौ अरत्यपनोदाय सम्परिष्वक्तौ यत्परिमाणौ स्यातां तथा तत्परिमाणौ बभूवेत्यर्थः ।
स तथा तत्परिमाणमेव इयमात्मानं द्वेधा द्विप्रकारमपातयत्पातितवानियमेवेत्यवधारणं मूलकारणाद्विराजो विशेषणार्थम् ।
न क्षीरस्य सर्वोपमर्देन दधिभावापत्तिवद्विराट्सर्वोपमर्देनैतावानास॑किं तर्हि? आत्मना व्यवस्थितस्यैव विराजः सत्यसंकल्पत्वादात्मव्यतिरिक्तं स्त्रीपुंसपरिष्वक्तपरिसाणं शरीरान्तरं बभूव ।
स एव च विराट्तथाभूतः स हैतावानासेति सामानाधिकरण्यात् ।
ततस्तस्मात्पातनात्पतितश्च पत्नी चाभवतामिति दम्पत्योर्निर्वचनं लौकिकयोः ।
अत एव तस्मात्, यस्मादात्मन एवार्धः पृथग्भूतोयेयं स्त्री, तस्मादिदं शरीरमानोर्ऽधबृगलमर्धं च तद्बृगलं विदलं च तदर्धबृगलमर्धविदलमेवेत्यर्थः ।
प्राक्स्त्र्युद्वहनात्कस्यार्धबृगलम्? इत्युच्यते स्व आत्मन इति ।
एवमाह स्मोक्तवान्किल याज्ञवल्क्यः, यज्ञस्य वल्को वक्ता यज्ञवल्कस्तस्यापत्यं याज्ञवल्क्यो दैवरातिरित्यर्थः ।
ब्रह्मणो वापत्यम् ।
यस्मादयं पुरुषार्ध आकाशः स्त्र्यर्धशून्यः पुनरुद्वहनात्तस्मात्पूर्यते स्त्र्यर्धेन, पुनः सम्पुटीकरणेनेव विदलार्धः ।
तां स प्रजापतिर्मन्वाख्यः शतरूपाख्यामात्मनो दुहितरं पत्नीत्वेन कल्पितां समभवन्मैथुनमुपगतवान् ।
ततस्तस्मात्तदुपगमनाद्मनुष्या अजायन्तोत्पन्नाः ॥३॥




_______________________________________________________________________

१,४.४

सो हेयमीक्षां चक्रे कथं नु मात्मन एव जनयित्वा सम्भवति ।
हन्त तिरोऽसानीति ।
सा गौरभवद्वृषभ इतरः ।
तां समेवाभवत् ।
ततो गावोऽजायन्त ।
वडवेतराभवदश्ववृष इतरः ।
गर्दभीतरा गर्दभ इतरः ।
तां समेवाभवत् ।
तत एकशफमजायत ।
अजेतराभवद्बस्त इतरः ।
अविरितरा मेष इतरः ।
तां समेवाभवत् ।
ततोऽजावयो ऽजायन्त ।
एवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ _१,४.४ ॥

__________



शा.भा._१,४.४ सा शतरूपा उ ह इयं सेयं दुहितृगमने स्मार्तं प्रतिषेधमनुस्मरन्तीक्षाञ्चके ।
कथं न्विदमकृत्यं यन्मा मामात्मन एव जनयित्वोत्पाद्य सम्भवत्युपगच्छति ।
यद्यप्ययं निर्घृणोऽहं हन्तेदानीं तिरोऽसानि जात्यन्तरेण तिरस्कृता भवानि ।
इत्येवमीक्षित्वासौ गौरभवत् ।
उत्पाद्यप्राणिकर्मभिश्चोद्यमानायाः पुनः पुनः सैवमतिः शतरूपाया मनोश्चाभवत् ।
ततश्च ऋषभ इतरः ।
तां समेवाभदित्यादि पूर्ववत् ।
ततो गावोऽजायन्त ।
तथा बडवेतराभवदश्ववृष इतरः ।
तथा गर्दभीतरा गर्दभ इतरः ।
तत्र बडवाश्ववृषादीनां सङ्गमात्तत एकशफमेकग्वुरमश्वाश्वतरगर्दभाख्यं त्रयमजायत ।
तथा अजेतराभवद्वस्तश्छाग इतरः, तथा अविरितरा मेष इतरः, तां समेवाभवत् ।
तां तामिति वीप्सा ।
तामजां तामविञ्चेतिसमभवदेवेत्यर्थः ।
ततोऽजाश्वावयश्चाजावयोऽजायन्त ।
एवमेव यदिदं किञ्च यत्किंञ्चेदं मिथुनं स्रीपुंसलक्षणं द्वन्दम्, आ पिपीलिकाभ्यः पिपीलिकाभिः सहानेनैवन्यायेन तत्सर्वमसृजत जगत्सृष्टवान् ॥४॥




_______________________________________________________________________

१,४.५
सोऽवेदहं वाव सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ।
ततः सृष्टिरभवत् ।
सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ _१,४.५ ॥

__________



शा.भा._१,४.५ स प्रजापतिः सर्वमिदं जगत्सृष्ट्वा अवेत् ।
कथम्? अहं वावाहमेव सृष्टिः, सृज्यते इति सृष्टं जगदुच्यते सृष्टिरिति ।
यन्मयासृष्टं जगन्मदभेदत्वादहमेवास्मि न मत्तो व्यतिरिच्यते ।
कुत एतत्? अहं हि यस्मादिदं सर्वं जगदसृक्षि सृष्टवानस्मि तस्मादित्यर्थः ।
यस्मात्सृष्टिशब्देन आत्मानमेवाभ्यधात्प्रजापतिः, ततस्तस्मात्सृष्टिरभवत्सृष्टिनामाभवत् ।
सृष्ट्यां जगति, हास्य प्रजापतेगेतस्यामेतस्मिञ्जगति, स प्रजापतिवत्स्रष्टा भवति स्वात्मनोऽनन्यभूतस्य जगतः, कः? य एवं प्रजापतिवद्यथोक्तं स्वात्मनोऽनन्यभूतं जगत्साध्यात्मादिभूताधिदैवं जगदहमस्मीति वेद ॥५॥




_______________________________________________________________________

१,४.६

अथेत्यभ्यमन्थत् ।
स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत ।
तस्मादेतदुभयमलोमकमन्तरतः ।
अलोमका हि योनिरन्तरतः ।
तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिः ।
एष उ ह्येव सर्वे देवाः ।
अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत ।
तदु सोम ।
एतावद्वा इदं सर्वमन्नं चैवान्नादश्च ।
सोम एवान्नमग्निरन्नादः ।
सैषा ब्रह्मणोऽतिसृष्टिः ।
यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिर् ।
अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ _१,४.६ ॥

__________


शा.भा._१,४.६ एवं स प्रजापतिर्जगदिदं मिथुनात्मकं सृष्टा ब्रह्मणादिवर्णनियन्वर्देवताः सिसृक्षुरादौ, अयेति शब्दद्वयमभिनयप्रदर्शनार्थम्, अनेन प्रकारेण मुखे हस्तौ प्रक्षित्याभ्यमन्यदाभिमुख्येन मन्यनपकरोत् ।
स मुखहस्ताभ्यां मथित्वा मुखाच्च योनेर्हस्ताभ्यां च योनिभ्यामग्निं ब्राह्मणजातेरनुग्रहकर्तारमसृजत सृष्टवान् ।
यस्माद्दाहकस्याग्नेर्योनिरेतदुभयं हस्तौ मुखं च, तस्माद्भय मप्येतदलोमकं लोमविवर्जितम् ।
किं सर्वमेव? न, अन्तरतोऽभ्यन्तरतः॑स्ति हि योन्या सामान्यमुभयस्यास्य ।
किम्? अलोमका हि योनिरन्तरतः स्त्रीणाम् ।
तथा ब्राह्मणोऽपि मुखादेव जझे प्रजापतेः ।
तस्मादेकयोनित्वाज्जयेष्ठेनेवानुजोऽनुगृह्यते अग्निना ब्राह्मणः ।
तस्माद्ब्राह्मणोऽग्निदेवत्यो मुखवीर्यश्चेति श्रुतिस्मृतिसिद्धम् ।
तथा बलाश्रयाभ्यां बाहुभ्यां बलभिदादिकं क्षन्नियजातिनियन्तरां क्षन्नियं च ।
तस्मादैन्द्रं क्षत्रं बाहुवीर्यं चेति श्रुतौ स्मृतौ चावगतम् ।
तथोरुत ईहा चेष्टा तदाश्रयाद्वस्वादिलक्षणं विशो नियन्तारं विशं च ।
तस्मात्कृष्यादिपरो वस्वादिदेवत्यश्च वैश्यः ।
तथा पूषणं पृथ्वीदैवतं शूद्रं च पद्भ्यां परिचरणक्षममसृजतेति श्रुतिस्मृतिप्रसिद्धेः ।
तत्र क्षत्रादिदेवतासर्गमिहानुक्तं वक्ष्यमाणममप्युक्तवदुपसंहरति सृष्टिसाकल्यानुकीर्त्यै ।
यथेयं श्रुतिर्व्यवस्थिता तथा प्रजापतिरेव सर्वे देवा इति निश्चितोर्ऽथः ।
स्रष्टुरनन्यत्वात्सृष्टानाम् ।
प्रजापतिनैव तु सृष्टत्वाद्देवानाम् ।
अथैवं प्रकरणार्थे व्यवस्थिते तत्स्तुत्यभिप्रायेणाविद्वन्मतान्तरनिन्दोपन्यासः, अन्यनिन्दान्यस्तुतये ।
तत्तत्र कर्मप्रकरणे केवलयाज्ञिका यागकाले यदिदं वच आहुःऽअमुमग्निं यजासुमिन्द्रं यजऽइत्यादि नामशस्त्रस्तोत्रकर्मादिभिन्नत्वाद्भिन्नमेवाग्न्यादिदेवमेवैकं मन्यमाना आहुरित्यभिप्रायः ।
तन्न तथा विद्यात्, यस्मादेतस्यैव प्रजापतेः सा विसृष्टिर्देवभेदः सर्व एष उ ह्येव प्रजापतिरेव प्राणः सर्वे देवाः ।
अत्र विप्रतिपद्यन्ते पर एव हिरण्यगर्भे इत्येके ।
संसारीत्यपरे ।
परं एव तु मन्त्रवर्णात् ।
"इन्द्रं मित्रं वरुणमग्निमाहुः"इति श्रुतेः ।
"एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवाः"(ऐ.उ.५ । ३) इति च श्रुतेः ।
स्मृतेश्च "एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम्"(मनु.१२ । १२३) इति"योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ" ।
(मनु.१ । ७) इति ।
संसार्येव वा स्यात् ।
"सर्वैन्पाप्मन औपत्"(बृ.उ.१ । ४ । १) इति श्रुतेः ।
न ह्यसंसारिणः पाप्मदाहप्रसङ्गोऽस्ति ।
भयारतिसंयोगश्रवणात् ।
"अथ यन्मर्त्यः सन्नमृतानसृजत"(बृ.उ.१ । ४ । ६) इति च ।
"हिरण्यगर्भं पश्यति जायमानम्"(श्वे.उ.४ । १२) इति च मन्त्रवर्णात् ।
स्मृतेश्च कर्मविपाकप्रक्रियायाम् "ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
उत्तमां सात्विकीमेतां गतिमाहुर्मनीषिणः"(मनु.१२ । ५०) इति ।
अथैवं विरुद्धार्थानुपपत्तेः प्रामाण्यव्याघात इति चेत्? न, कल्पनान्तरोपपत्तेरविरोधात् ।
उपाधिविशेषसम्बन्धाद्विशेषकल्पनान्तरमुपपद्यते ।
"आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति"(क.उ.१ । २ । २१) इत्येवमादिश्रुतिभ्य उपाधिवशात्संसारित्वं न परमार्थतः ।
स्वतोऽसंसार्येव ।
एवमेकत्वं नानात्वं च हिरण्यगर्भस्य ।
तथा सर्वजीवानाम्, तत्त्वमसि (छा.उ.६ । ८ १६) इति श्रुतेः ।
हिरण्यगर्भस्तु उपाधिशुद्ध्यतिशयापेक्षया प्रायशः पर एवेति श्रुतिस्मृतिवादाः प्रवृत्ताः ।
संसारित्वं तु क्वचिदेव दर्शयन्ति ।
जीवानां उपाधिगताशुद्धिबाहुल्यात्संसारित्वमेव प्रायशोऽभिलप्यते ।
व्यावृत्तकृत्स्नोपाधिभेदापेक्षया तु सर्वः परत्वेनाभिधीयते श्रुतिस्मृतिवादैः ।
तार्किकैस्तु परित्यक्तागमबलैरस्ति नास्ति कर्ताकर्तेत्यादि विरुद्धं बहु तर्कपद्भिराकुलीकृतः शास्त्रार्थः, तेनार्थनिश्चयो दुर्लभः ।
ये तु केवलशास्त्रानुसारिणः शान्तदर्पास्तेषां प्रत्यक्षविषय इव निश्चितः शास्त्रार्थे देवतादिविषयः ।
तत्र प्रजापतेरेकस्य देवस्यात्राद्यलक्षणो भेदो विवक्षित इति तत्राग्निरुक्तोऽत्ता, आद्यः सोम इदानीमुच्यते अथ यत्किञ्चेदं लोक आर्द्रं द्रवात्मकं तद्रेतस आत्मानो बीजादसृजत॑रेतस आपः (ऐ.उ.१ । ४) इति श्रुतेः ।
द्रवात्मकश्च सोमः ।
तस्माद्यदार्द्रं प्रजापतिना रेतसः सृष्टं तदु सोम एव ।
एतावद्वै एतावदेव नातोऽधिकमिदं सर्वम् ।
किं तत्? अन्नं चैव सोमो द्रवात्मकत्वादाप्यायकम् ।
अन्नादश्चाग्निरौष्ण्याद्रूक्षत्वाच्च ।
तत्रैवध्रियते, सोम एवान्नं यदद्यते तदेव सोम इत्यर्थः ।
य एवात्ता स एवाग्निः अर्थबलाद्ध्यवधारणम् ।
अग्निरपि क्वचिधूयमानः सोमपक्षस्यैव ।
सोमोऽपीज्यमानोऽग्निरेवात्तृत्वात् ।
एवमग्नीषोमात्मकं जगदात्मत्वेन पश्यन्त केनचिद्दोषेण लिप्यते, प्रजापतिश्च भवति ।
सैषा ब्रह्मणः प्रजापतेरतिसृष्टिरात्मनोऽप्यतिशया ।
का सा इत्याह यच्छ्रेयसः प्रशस्यतरानात्मनः सकाशाद्यस्मादसृजत देवांस्तस्माद्देवसृष्टिरतिसृष्टिः ।
कथं पुनरात्मनोऽतिशया सृष्टिः इत्यत आह अथ यद्यस्मान्मर्त्यः सन्मरणधर्मा सन्नमृतानमरणधर्मिणो देवान् कर्मज्ञानवह्निना सर्वानात्मनः पाप्मन ओषित्वासृजत, तस्मादेतामतिसृष्टिं प्रजापतेरात्मभूतां यो वेद स एतस्यामतिसृष्ट्यां प्रजापतिरिव भवति प्रजापतिवदेव स्रष्टा भवति ॥६॥


सर्वं वैदिकं साधनं ज्ञानकर्मलक्षणं कर्त्राद्यनेककारकापेक्षं प्रजापतित्वफलावसानं साध्यमेतावदेव यदेतद्व्याकृतं जगत्संसारः ।
अथैतस्यैव साध्यसाधनलक्षणस्य व्याकृतस्य जगतो व्याकरणात्प्राग्बीजावस्था या तां निर्दिदिज्ञत्यङ्कुरादिकार्यानुमितामिव वृक्षस्य, कर्मबीजोऽविद्याक्षेत्रो ह्यसौ संसारवृक्षः समूल उद्धर्तव्य इति ।
तदुद्धरणे हि पुरुषार्थपरिसमाप्तिः ।
तथा चोक्तम् "ऊर्ध्वमूलोऽवाक्शाखः"इति काठके ।
गीतासु च"ऊर्ध्वमूलमधः शाखम्"इति ।
पुराणे च"ब्रह्मवृक्षः सनातनः"इति ।




_______________________________________________________________________

१,४.७

तद्धेदं तर्ह्यव्याकृतमासीत् ।
तन्नामरूपाभ्यामेव व्याक्रियतासौ नामायमिदंरूप इति ।
तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियत असौ नामायमिदंरूप इति ।
स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाये ।
तं न पश्यन्ति ।
अकृत्स्नो हि सः प्राणन्नेव प्राणो नाम भवति ।
वदन् वाक्पश्यंश्चक्षुः शृण्वञ्छ्रोत्रं मन्वानो मनः ।
तान्यस्यैतानि कर्मनामान्येव ।
स योऽत एकैकमुपास्ते न स वेद ।
अकृत्स्नो ह्येषोऽत एकैकेन भवति ।
आत्मेत्येवोपासीत ।
अत्र ह्येते सर्व एकं भवन्ति ।
तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा ।
अनेन ह्येतत्सर्वं वेद ।
यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ _१,४.७ ॥

__________



शा.भा._१,४.७ तद्वेदं तदिति बीजावस्थं जगत्प्रागुत्पत्तेस्तर्हि तस्मिन्काले॑परोक्षत्वासर्वनाम्नाप्रत्यक्षाभिधानेनाभिधीयते, भूतकालसम्बन्धित्वादव्याकृतभाविनो जगतः॑सुखग्रहणार्थमैतिह्यप्रयोगो ह शब्दः ।
एवं ह तदा आसीदित्युच्यमाने सुखं तां परोक्षामपि जगतो बीजावस्थां प्रतिपद्यते, युधिष्ठिरो ह किल राजासीदित्युक्ते यद्वत् ।
इदमिति व्याकृतनामरूपात्मकं साध्यसाधनलक्षणं यथावर्णितमभिधीयते ।
तदिदंशब्दयोः परोक्षप्रत्यक्षावस्थजगद्वाचकयोः सामानाधिकरण्यादेकत्वमेव परोक्षप्रतयक्षावस्थस्य जगतोऽवगम्यते ।
तदेवेदमिदमेव च तदव्याकृतमासीदिति ।
अथैवं सति नासत उत्पत्तिर्न सतो विनाशः कार्यस्येत्यवधृतं भवति ।
तदेवम्भूतं जगदव्याकृतं सन्नामरूपाभ्यामेव नाम्ना रूपेणैव च व्याक्रियत ।
व्याक्रियतेति कर्मकर्तृप्रयोगात्तत्स्वयमेवात्मैव व्याक्रियत, वि आ अक्रियत, विस्पष्टं नामरूपविशेषावधारणमर्यादं व्यक्तीभावमापद्यत सामर्थ्यादाक्षिप्तनियन्तृकर्तृसाधनक्रियानिमित्तम् ।
असौनामेति सर्वनाम्नाविशेषाभिधानेन नाममात्रं व्यपदिशति ।
देवदत्तो यज्ञदत्त इति वा नामास्य इत्यसौनामायम् ।
तथेदमिति शुक्लकृष्णादीनामविशेषः ।
इदं शुक्लमिदं कृष्णं वा रूपमस्येतीदं रूपः ।
तदिदमव्याकृतं वस्तु एतर्ह्येतस्मिन्नपि काले नामरूपाभ्यामेव व्याक्रियते असौनामायमिदं रूप इति ।
यदर्थः सर्वशास्त्रारम्भः. यस्मिन्नविद्यया स्वाभाविक्या कर्तृक्रियाफलाध्यारोपणा कृता॑यः कारणं सर्वस्य जगतः यदात्मके नामरूपे सलिलादिव स्वच्छान्मलमिव फेनमव्याकृते व्याक्रियेते, यश्च ताभ्यां नामरूपाभ्यां विलक्षणः स्वतो नित्यशुद्धबुद्धमुक्तस्वभावः स एषोऽव्याकृते आत्मभूते नामरूपे व्याकुर्वन्ब्रह्मादिस्तम्बपर्यन्तेषु देहेष्विह कर्मफलाश्रयेष्वशनायादिमत्सु प्रविष्टः ।
ननु अव्याकृतं स्वयमेव व्याक्रियतेत्युक्तम्, कथमिदमिदानीमुच्यते, पर एव तु आत्माव्याकृतं व्याकुर्वन्निह प्रविष्ट इति ।
नैष दोषः, परस्याप्यात्मनोऽव्याकृतजगदात्मत्वेन विवक्षितत्वात् ।
आक्षिप्तनियन्तृकर्तृक्रिया निमित्तं हि जगदव्याकृतं व्याक्रियतेत्यवोचाम ।
इदंशब्दसामानाधिकरण्याच्चाव्याकृतशब्दस्य ।
यथेदं जगन्नियन्त्राद्यनेककारकनिमित्तादिविशेषवद्व्याकृतम्, तथा अपरित्यक्तान्यतमविशेषवदेव तदव्याकृतम् ।
व्याकृताव्याकृतमात्रं तु विशेषः ।
दृष्टश्च लोके विवक्षातः शब्दप्रयोगो ग्राम आगतो ग्रामः शून्य इति ।
कदाचिद्ग्रामशब्देन निवासमात्रविवक्षायां ग्रामः शून्य इति शब्दप्रयोगो भवति, कदाचिन्निवासिजनविवक्षायां ग्राम आगत इति, कदाचिदुभयविवक्षायामपि ग्रामशब्दप्रयोगो भवति, ग्रामं च न प्रविशेदिति यथा ।
तद्वदिहापि जगदिदं व्याकृतमव्याकृतं चेत्यभेदविवक्षायामात्मानात्मनोर्भवति व्यपदेशः ।
तथेदं जगदुत्पत्तिविनाशात्मकमिति केवलजगद्वयपदेशः ।
तथा महानज आत्मा (बृ.उ.४ । ४ । २२) अस्थूलोऽनणुः स एष नेति नेति (बृ.उ.३ । ९ । २६) इत्यादि केवलात्मव्यपदेशः ।
ननु परेण व्याकर्त्रा व्याकृतं सर्वतो व्याप्तं सर्वदा जगत्, स कथमिह प्रविष्टः परिकल्प्यते? अप्रविष्टो हि देशः परिच्छिन्नेन प्रवेष्टुं शक्यते, यथा पुरुषेण ग्रामादिः ।
नाकाशेन किञ्चिन्नित्यप्रविष्टत्वात् ।
पाषाणसर्पादिवद्धर्मान्तरेणेति चेत् ।
अथापि स्यात्, न पर आत्मा स्वेनैव रूपेण प्रविवेश, किं तर्हि? तत्स्थ एव धर्मान्तरेणोपजायते, तेन प्रविष्ट इत्युपचर्यते ।
यथा पाषाणे सहजोऽन्तःस्थः सर्पो नालिकेरे वा तोयम् ।
न,"तत्सृष्ट्वा तदेवानुप्राविशत्"इति श्रुतेः ।
यः स्रष्टा स भावान्तरमनापन्न एव कार्यं सृष्ट्वा पश्चात्प्राविशदिति हि श्रूयते ।
यथा भुक्त्वा गच्छतीति भुजिगमिक्रिययोः पूर्वापरकालयोरितरेतरविच्छेदोऽविशिष्टश्च कर्ता तद्वदिहापि स्यात् ।
न तु तत्स्थस्यैव भावान्तरोपजनन एतत्सम्भवति ।
न च स्थानान्तरेण वियुज्य स्थानान्तर संयोगलक्षणःप्रवेशो निरवयवस्यापरिच्छिन्नस्य दृष्टः ।
सावयव एव प्रवेशश्रवणादिति चेत्न॑ठदिव्यो ह्यमूर्तः पुरुषः" (मु.उ.२ । १ । २) निष्कलं निष्क्रियम् (श्वे.उ.६ । १९) इत्यादिश्रुतिभ्यः सर्वव्यपदेश्यधर्म विशेषप्रतिषेधश्रुतिभ्यश्च ।
प्रतिबिम्बप्रवेशवदिति चेत्? न, वस्त्वन्तरेण विप्रकर्षानुपपत्तेः ।
द्रव्ये गुणप्रवेशवदिति चेत्? न, अनाश्रितत्वात् ।
नित्यपरतन्त्रस्यैवाश्रितस्य गुणस्य द्रव्ये प्रवेश उपचर्यते ।
न तु ब्रह्मणः स्वातन्त्र्यश्रवणात्तथा प्रवेश उपपद्यते ।
फले बीजवदिति चेत्? न॑सावयवत्ववृद्धिक्षयोत्पत्तिविनाशादिधर्मवत्त्वप्रसङ्गात् ।
न चैवं धर्मवत्त्वं ब्रह्मणः अजोऽजरः इत्यादि श्रुतिन्यायविरोधात् ।
तस्मादन्य एव संसारी परिच्छिन्न इह प्रविष्ट इति चेत्? न॑"सेयं दैवतैक्षत"(छा.उ.६ । ३ । २) इत्यारभ्य टनामरूपे व्याकरवाणि"(६ । २ । ३) इति तस्या एव प्रवेशव्याकरणकर्तृत्वश्रुतेः ।
तथाऽतत्सृष्ट्वा तदेवानुप्राविशत्ऽ(तै.उ.२ । ६ । १)ऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत"(ऐ.उ.३ । १२)ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते""त्वं कुमार उत वा कुमारी त्वं जीर्णो दण्डेन वञ्चसि"(श्वे.उ.४ । ३) "पुरश्चक्रे द्विपदः"(बृ.उ.२ । ५ । १८) "रूपं रूपम्"(क.उ.२ । २ । ९) इति त मन्त्रवर्णान्न परादन्यस्य प्रवेशः ।
प्रविष्टानामितरेतरभेदात्परानेकत्वमिति चेत्न,"एको देवो बहुधा सन्निविष्टः" "एकःसन्बहुधा विचचार" "त्वमेकोऽसि बहूननुप्रविष्टः" "एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा"(श्वे.उ.६ । ११) इत्यादि श्रुतिभ्यः ।
प्रवेश उपपद्यते नोपपद्यत इति तिष्ठतु तावत् ।
प्रविष्टानां संसारित्वात्तदनन्यत्वान्न परस्य संसारित्वमिति चेत्? न, अशनायाद्यत्ययश्रुतेः ।
सुखित्वदुःखित्वादिदर्शनान्नेति चेन्न,"न लिप्यते लोकदुःखेन बाह्यः"(क.उ.२ । २ । ११) इति श्रुतेः ।
प्रत्यक्षादिविरोधादयुक्तमिति चेत्?
न, उपाध्याश्रयजनितविशेषविषयत्वात्प्रक्षादेः ।
"न दृष्टेर्द्रष्टारं पश्येः"(बृ.उ.३ । ४ । २) "विज्ञातारमरे केन विजानीयात्"(बृ.उ.४ । ५ । १९) "अविज्ञातं विज्ञातृ"(बृ.उ.३ । ८ । ११) इत्यादि श्रुतिभ्यो नात्मविषयं विज्ञानम् ।
किं तर्हि? बुद्ध्याद्युपाध्यात्मप्रतिच्छायाविषयमेव सुखितोऽहं दुःखितोऽहमित्येवमादि प्रत्यक्षविज्ञानम् ।
अयमहमिति विषयेण विषयिणः सामानाधिकरण्योपचारात्,"नान्यदतोऽस्ति द्रष्ट्रृ"(बृ.उ.३ । ८ । ११) इत्यन्यात्मप्रतिषेधाच्च, देहावयवविशेष्यत्वाच्च सुखदुःखयोर्विषयधर्मत्वम् ।
"आत्मानस्तु कामाय"(बृ.उ.२ । ४ । ५) इत्यात्मार्थः त्वश्रुतेरयुक्त इति चेन्न,"यत्र वा अन्यदिव स्यात्"इत्यविद्याविषयात्मार्थत्वाभ्युपगमात्तत्केन कं पश्येत्(बृ.उ.४ । ५ । १५) नेह नानास्ति किञ्चन (बृ.उ.४ । ४ । १९) तत्र को मोहः कः शोकः एकत्वमनुपश्यतः (ईशा.७) इत्यादिना विद्याविषये तत्प्रतिषेधाच्च नात्मधर्मत्वम् ।
तार्किकसमयविरोधादयुक्तमिति चेत्न॑युक्त्याप्यात्मनो दुःखित्वानुपपत्तेः ।
न हि दुःखेन प्रत्यक्षविषयेण आत्मनो विशेष्यत्वं प्रत्यक्षाविषयत्वात् ।
आकाशस्य शब्दगुणवत्त्ववदात्मनो दुःखित्वमिति चेन्न, एकप्रत्ययविषयत्वानुपपत्तेः ।
न हि सुखग्राहकेण प्रत्यक्षविषयेण प्रत्ययेन नित्यानुमेयस्यात्मनो विषयीकरणामुपपद्यते तस्य च विषयीकरणे आत्मन एकत्वाद्विषय्यभावप्रसङ्गः ।
एकस्यैव विषयविषयित्वं दीपवदिति चेत्? न॑युगपदसम्भवात्,आत्मन्यंशानुपपत्तेश्च ।
एतेन विज्ञानस्य ग्राह्यग्राहकत्वं प्रत्युक्तम् ।
प्रत्यक्षानुमानविषययोश्च दुःखात्मनोर्गुणगुणित्वे नानुमानम् ।
दुःखस्य नित्यमेव प्रत्यक्षविषयत्वात्, रूपादिसामानाधिकरण्याच्च ।
मनःसंयोगजत्वेऽप्यात्मनि दुःखस्य सावयवत्वविक्रियावत्त्वानित्यत्वप्रसङ्गात् ।
न ह्यविकृत्य संयोगि द्रव्यं गुणः कश्चिदुपयन्नपयन्वा दृष्टः क्वचित् ।
न च निरवयवं विक्रियमाणं दृष्टं क्वचिदनित्यगुणाश्रयं वा नित्यम् ।
न चाकाश आगमवादिभिर्नित्यतयाभ्युपगम्यते, न चान्यो दृष्टान्तोऽस्ति ।
विक्रियमाणमपि तत्प्रत्ययानिवृत्तेर्नित्यमेवेति चेत्? न, द्रव्यस्य अवयवान्यथात्वव्यतिरेकेण विक्रियानुपपत्तेः ।
सावयवत्वेऽपि नित्यत्वमिति चेन्न॑सावयवस्यावयवसंयोगपूर्वकत्वे सति विभागोपपत्तेः ।
वज्रादिष्वदर्शनान्नेति चेन्न, अनुमेयत
्वात्संयोगपूर्वत्वस्य ।
तस्मान्नात्मानो दुःखाद्यनित्यगुणाश्रयत्वोपपत्तिः ।
परस्यादुःखित्वेऽन्यस्य च दुःखिनोऽभावे दुःखोपशमनाय शास्त्रारम्भानर्थक्यमिति चेत्? न, अविद्याध्यारोपितदुःखित्वभ्रमापोहार्थत्वात्, आत्मनि प्रकृतसङ्ख्यापूरणभ्रमापोहवत् ।
कल्पितदुःख्यात्माभ्युपगमाच्च ।
जलसूर्यादिप्रतिबिम्बवदात्मग्रवेशश्च प्रतिबिम्बवद्व्याकृते कार्य उपलभ्यत्वात् ।
प्रागुत्पत्तेरनुपलब्ध आत्मा पश्चात्कार्ये च सृष्ट व्याकृते बुद्धेरन्तरुपलभ्यमानः सूर्यादिप्रतिबिम्बवज्जलादौ कार्यं सृष्ट्वा प्रविष्ट इव लक्ष्यमाणो निर्दिश्यते स एष इह प्रविष्टः (बृ.उ.१ । ४ । ७) ताः सृष्ट्वा तदेवानुप्राविशत स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत (ऐ.उ.३ । १२) सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य (छा.उ.६ । २ । ३) इत्येवमादिभिः ।
न तु सर्वगतस्य निरवयवस्य दिग्देशकालान्तरापक्रमणप्राप्तिलक्षणः प्रवेशः कदाचिदप्युपपद्यते ।
न च परादात्मनोऽन्योऽस्ति द्रष्टा नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्तिश्रोतृ (बृ.उ.३ । ८ । ११) इत्यादि श्रुतेरित्यवोचाम ।
उपलब्ध्यर्थत्वाच्च सृष्टिप्रवेशस्थित्यप्ययवाक्यानाम्, उपलब्धेः पुरुषार्थत्वश्रवणात् ।
आत्मानमेवावेत्(बृ.उ.१ । ४ । १०) तस्मात्तत्सर्वमभवत्(बृ.उ.१ । ४ । १०) बह्मविदाप्नोति परम् (तै.उ.२ । १ । १) स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति (मु.उ.३ । २ । ९) आचार्यवान्पुरुषो वेद (छा.उ.६ । १४ । २) तस्य तावदेव चिरम् (छा.उ.६ । १४ । २) इत्यादि श्रुतिभ्यः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् (गीता १८ । ५५) तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः इत्यादि स्मृतिभ्यश्च ।
भेददर्शनापवादाच्च सृष्ट्यादि वाक्यानामात्मैकत्वदर्शनार्थपरत्वोपपत्तिः ।
तस्मात्कार्यस्थस्य उपलभ्यत्वमेव प्रवेश इत्युपचर्यते ।
आनखाग्रेभ्यो नखाग्रमर्यादमात्मनश्चैतन्यमुपलभ्यते ।
तत्र कथमिव प्रविष्टः? इत्याह यथा लोके क्षुराधाने क्षुरो धीयतेऽस्मिन्निति क्षुरधानं तस्मिन्नापितोपस्कराधाने, क्षुरोऽन्तःस्थ उपलभ्यते, अवहितः प्रवेशितः स्याद्यथा वा विश्वम्भरोऽग्निः, विश्वस्य भरणाद्विश्वम्भरः कुलाये नीडेऽग्निः, काष्ठादावहितः स्यादित्यनुवर्तते ।
तत्र हि स मथ्यमान उपलभ्यते ।
यथा च क्षुरः क्षुरधान एकदेशेऽवस्थितो यथा चाग्निः काष्ठादौ सर्वतो व्याप्यावस्थितः, एवं सामान्यतो विशेषतश्च देहं संव्याप्यावस्थित आत्मा ।
तत्र हि स प्राणनादिक्रियावान् दर्शनादिक्रियावांश्चोपलभ्यते ।
तस्मात्तत्रैवं प्रविष्ठं तमात्मानं प्राणनादिक्रियाविशिष्टं न पश्यन्ति नोपलभन्ते ।
नन्वप्राप्तप्रतिषेधोऽयं तं न पश्यन्तीति, दर्शनस्याप्रकृतत्वात् ।
नैष दोषः, सृष्ट्यादिवाक्यानामात्मैकत्वप्रतिपत्त्यर्थपरत्वात्प्रकृतमेव तस्य दर्शनम् ।
रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रति चक्षणाय (बृ.उ.२ । ५ । १९) इति मन्त्रवर्णात् ।
तत्र प्राणनादिक्रियाविशिष्टस्यादर्शने हेतुमाह अकृत्स्नोऽसमस्तो हि यस्मात्स प्राणनादिक्रियाविशिष्टः ।
कुतः पुनरकृत्स्नत्वमित्युच्यते प्राणान्नेव प्राणनक्रियामेव कुर्वन्प्राणो नाम प्राणसमाख्यः प्राणाभिधानो भवति ।
प्राणनक्रियाकर्तृत्वाद्धि प्राणः प्राणतीत्युच्यते नान्यां क्रियां कुर्वन् ।
यथा लावकः पाचक इति ।
तस्मात्क्रियान्तरविशिष्टस्य अनुपसंहारादकृत्स्नो हि सः ।
तथा वदन्वदनक्रियां कुर्वन्वक्तीति वाक्, पश्यंश्चक्षुश्चष्ट इति चक्षुर्द्रष्टा, शृण्वञ्शृणोतीति श्रोत्रम् ।
प्राणान्नेव प्राणः वदन्वाकित्याभ्यां क्रियाशक्त्युद्भवः प्रदर्शितो भवति ।
पश्यंश्चक्षुः शृण्वञ्श्रोत्रमित्याभ्यां विज्ञानशक्त्युद्भवः प्रदर्श्यते, नामरूपविषयत्वाद्विज्ञानशक्तेः ।
श्रोत्रचक्षुषी विज्ञानस्य साधने, विज्ञानं तु नामरूपसाधनम् ।
न हि नामरूपव्यतिरिक्तं विज्ञेयमस्ति ।
तयोश्चोपलम्भे करणं चक्षुःश्रोत्रे ।
क्रिया च नामरूपसाध्या प्राणसमवायिनी, तस्याः प्राणाश्रयाया अभिव्यक्तो वाक्करणम् ।
तथा पाणिपादपायूपश्थाख्यानि ।
सर्वेषामुपलक्षणार्था वाक् ।
एतदेव हि सर्वं व्याकृतम् ।
त्रयं वा इदं नाम रूपं कर्म (बृ.उ.१ । ६ । १) इति हि वक्ष्यति ।
मन्वानो मनो मनुत इति ।
ज्ञानशक्तिविकासानां साधारणं करणं मनो मनुतेऽनेनेति ।
पुरुषस्तु कर्ता सन्मन्वानो मन इत्युच्यते ।
तान्येतानि प्राणादीन्यस्यात्मनः कर्मनामानि, कर्मजानि नामानि कर्मनामान्येव, न तु वस्तुमात्रविषयाणि ।
अतो न कृत्स्नात्मवस्त्ववद्योतकानि ।
एवं ह्यसावात्मा प्राणनादिक्रियया तत्तत्क्रियाजनितप्राणादिनामरूपाभ्यां व्याक्रियमाणोऽवद्योत्यमानोऽपि ।
स योऽतोऽस्मात्प्राणनादिक्रियासमुदायादेकैकं प्राणं चक्षुरिति वा विशिष्टमनुपसंहृतेतरविशिष्टक्रियात्मकं मनसा अयमात्मेत्युपास्ते चिन्तयति, न स वेद नस जानाति ब्रह्म ।
कस्मातकृत्स्नोऽसमाप्तो हि यस्मादेष आत्मा अस्मात्प्राणनादिसमुदायात् ।
अतः प्रविभक्त एकैकेन विशेषणेन विशिष्ट इतरधर्मान्तरानुपसंहाराद्भवति ।
यावदयमेवं वेद पश्यति शृणोमि स्पृशामीति वा स्वभावप्रवृत्तिविशिष्टं वेद तावदञ्जसा कृत्स्नमात्मानं न वेद ।
कथं पुनः पश्यन्वेद? इत्याह आत्मेत्येव, आत्मेति प्राणादीनि विशेषणानि यान्युक्तानि तानि यस्य स आप्नुवंस्तान्यात्मा इत्युच्यते ।
न तथा कृत्स्नविशेषोलसंहारी सन्कृत्स्नो भवति ।
वस्तुमात्ररूपेण हि प्राणाद्युपाधिविशेषक्रियाजनितानि विशेषणानि व्याप्नोति ।
तथा च वक्ष्यति ध्यायतीव लेलायतीव (बृ.उ.४ । ३ । ७) इति ।
तस्मादात्मेत्येवोपासीत ।
एवं कृत्स्नो ह्यसौ स्वेन वस्तुरूपेण गृह्यमाणो भवति ।
कस्मात्कृत्स्नः? इत्याशङ्क्याह अत्रास्मिन्नात्मनि हि यस्मान्निरुपाधिकजलसूर्यप्रतिबिम्बभेदा इवादित्वे प्राणाद्युपाधिकृता विशेषाः प्राणादिकर्मजनामाभिधेया यद्योक्ता ह्येते एकमभिन्नतां भवन्ति प्रतिपद्यन्ते ।
आत्मेत्येवोपासीत इति नापूर्वविधिः ।
पक्षे प्राप्तत्वात्यत्साक्षादपरोक्षाद्ब्रह्म (बृ.उ.३ । ४ । १) कतम आत्मेति योऽयं विज्ञानमयः (बृ.उ.४ । ३ । ७) इत्येवमाद्यात्मप्रतिपादनपराभिः श्रुतिभिरात्मविषयं विज्ञानमुत्पादितम् ।
तत्रात्मस्वरूपविज्ञानेनैव तद्विषयानात्माभिमानबुद्धिः कारकादिक्रियाफलाध्यारोपणात्मिका अविद्या निवर्तिता ।
तस्यां निवर्तितायां कामादिदोषानुपपत्तेः आनात्मचिन्तानुपपत्तिः ।
तस्मात्तदुपासनमस्मिन्पक्षे न विधातव्यम्, प्राप्तत्वात् ।
तिष्ठसु तावत्पाक्षिक्यात्मोपासनप्राप्तिर्नित्या वेति, अपूर्वविधिः स्यात्॑ज्ञानोपासनयोरेकत्वे सत्यप्राप्तत्वात् ।
न स वेद इति विज्ञानं प्रस्तुत्य आत्मेत्येवोपासीत इत्यभिधानाद्वेदोपासनशब्दयोरेकार्थतावगम्यते ।
अनेन ह्येतत्त्सर्वं वेद आत्मानमेवावेत्(बृ.उ.१ । ४ । १०) इत्यादिश्रुतिभ्यश्च विज्ञानमुपासनम् ।
तस्य चाप्राप्तत्वाद्विध्यर्हत्वम् ।
न च स्वरूपान्वाख्याने पुरुषप्रवृत्तिरुपपद्यते, तस्मादपूर्वविधिरेवायम् ।
कर्मविधिसामान्याच्च ।
यथा यजेत जुहुयातित्यादयः कर्मविधयः, न तैरस्य आत्मेत्येवोपासीत (१ । ४ । ७) आत्मा वा अरे द्रष्टव्यः (२ । ४ । ५) इत्याद्यात्मोपासनविधेर्विशेषोऽवगम्यते ।
मानसक्रियात्वाच्च विज्ञानस्य तथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्वषट्करिष्यनित्याद्या मानसी क्रिया विधीयते, तथा आत्मेत्येवोपासीत (१ । ४ । ७) मन्तव्यो निदिध्यासितव्यः (२ । ४ । ५) इत्याद्या क्रियैव विधीयते ज्ञानात्मिका ।
तथावोचाम वेदोपासनशब्दयोरेकार्थत्वमिति ।
भावानांशत्रयोपपत्तेश्च यथा हि यजेत इत्यस्यां भावनायां केन कथमिति भाव्याद्याकाङ्क्षापनयकारणमंशत्रयमवगम्यते, तथा उपासीत इत्यस्यामपि भावनायां विधीयमानायां किमुपासीत? केनोपासीत? इत्यस्यामाकाङ्क्षायामात्मानमुपासीत मनसा त्यागब्रह्मचर्यशमदमोपरमतितिक्षादीतिकर्तव्यतासंयुक्तः इत्यादीशास्त्रेणैव समर्थ्यतेऽशत्रयम् ।
यथा च कृत्स्नस्य दर्शपूर्णमासादिप्रकरणस्य दर्शपूर्णमासादिविध्युद्देशत्वेनोपयोगः एवमौपनिषदामात्मोपासनप्रकरणस्य आत्मोपासनप्रकरणस्य आत्मोपासनविध्युद्देशत्वेनैवोपयोगः ।
नेति नेति (२ । ३ । ६) अस्थूलम् (३ । ८ । ८) एकमेवाद्वितीयम् (छा.उ.६ । २ । १) अशनायाद्यतीतः इत्येवमादिवाक्यानामुपास्यात्मस्वरूपविशेषसमर्पणेनोपयोगःष फलं च मोक्षोऽविद्यानिवृत्तिर्वा ।
अपरे वर्णयन्ति उपासनेनात्मविषयं विशिष्टं विज्ञानान्तरं भावयेत्, तेनात्मा ज्ञायते, अविद्यानिवर्तकं च तदेव, नात्मविषयं वेदवाक्यजनितं विज्ञानमिति ।
एतस्मिन्नर्थे वचनान्यपि विज्ञाय प्रज्ञां कुर्वीत (बृ.उ.४ । ४ । २१) द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (२ । ४ । ५) सोऽन्वेष्टव्यः स विजिज्ञासितव्यः (छा.उ.४) इत्यादीनि ।
न, अर्थान्तराभावात् ।
न च आत्मेत्येवोपासीत इत्यपूर्वविधिः॑कस्मात्? आत्मस्वरूपकथनानात्मप्रतिषेधवाक्यजनितविज्ञानव्यतिरेकेण मानसस्य बाह्यस्य वाभावात् ।
तत्र हि विधेः साफल्यं यत्र विधिवाक्यश्रवणमात्रजनितविज्ञानव्यतिरेकेण पुरुषप्रवृत्तिर्गम्यते ।
यथा दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इत्येवमादौ ।
न हि दर्शपूर्णमासविधिवाक्यजनितविज्ञानमेव दर्शपूर्णमासामुष्ठानम्, तच्चाधिकाराद्यपेक्षानुभावि ।
न तु नेति नेति (२ । ३ । ६) इत्याद्यात्मप्रतिपादकवाक्यजनितविज्ञानव्यतिरेकेण दर्शपूर्णमासादिवत्पुरुषव्यापारः सम्भवति ।
सर्वव्यापारोपशमहेतुत्वात्तद्वाक्यजनितविज्ञानस्य ।
न ह्युदासीनविज्ञानं प्रवृत्तिजनकम्, अब्रह्मानात्मविज्ञाननिवर्तकत्वाच्च एकमेवाद्वितीयम् (छा.उ.६ । २ । १) तत्त्वमसि (छा.उ.६ । ८ १६) इत्येवमादिवाक्यानाम् ।
न च तन्निवृत्तौ प्रवृत्तिरुपपद्यते॑विरोधात् ।
वाक्यजनितविज्ञानमात्रान्नाब्रह्मानात्मविज्ञाननिवृत्तिरिति चेत्न॑तत्त्वमसि (छा.उ.६ । ८ १६) नेति नेति (बृ.उ.२ । ३ । ६) आत्मैवेदम् (छा.उ.७ । २५ । २) एकमेवाद्वितीयम् (छा.उ.६ । २ । १) ब्रह्मैवेदममृतम् (मु.उ.२ । २ । ११) नान्यदतोऽस्ति द्रष्टः (बृ.उ.३ । ८ । ११) तदेव ब्रह्म त्वं विद्धि (के.उ.१ । ४) इत्यादिवाक्यानां तद्वादित्वात् ।
द्रष्टव्यविधेर्विषयसमर्पकाण्येतानीति चेत्? न, अर्थान्तराभावादित्युक्तोत्तरत्वात् ।
आत्मवस्तुस्वरूपसमर्पकैरेव वाक्यैः तत्त्वमसि इत्यादिभिः श्रवणकाल एव तद्दर्शनस्य कृतत्वाद्द्रष्टव्यविधेर्नानुष्ठानान्तरं कर्तव्यमित्युक्तोत्तरमेतत् ।
आत्मस्वरूपान्वाख्यानमात्रेण आत्मविज्ञाने विधिमन्तरेण न प्रवर्तत इति चेत्? न, आत्मवादिवाक्यश्रवणेन आत्मविज्ञानस्य जनितत्वात् किं भो कृतस्य करणम्? तच्छ्रवणेऽपि न प्रवर्तत इति चेन्न, अनवस्थाप्रसङ्गात् ।
यथा आत्मवादिवाक्यार्थश्रवणे विधिमन्तरेण न प्रवर्तते तथा विधिवाक्यार्थश्रवणेऽपि विधिमन्तरेण न प्रवर्तिष्यत इति विध्यन्तरापेक्षा ।
तथा तदर्थश्रवणेऽपीत्यनवस्था प्रसज्येत ।
वाक्यजनितात्मज्ञानस्मृतिसंततेः श्रवणविज्ञानमात्रादर्थान्तरत्वमिति चेत्? न, अर्थप्राप्तत्वात् ।
यदैवात्मप्रतिपादकवाक्यश्रवणादात्मविषयं विज्ञानमुत्पद्यते, तदैव तदुन्पद्यगानं तद्विषयं विज्ञानमुत्पद्यते, तदैव तदुन्पद्यगानं तद्विषयं मिथ्याज्ञानं निवर्तयदेवोत्पद्यते ।
आत्मविषयमिथ्याज्ञाननिवृत्तौ च तत्प्रभवाः स्मृतयो न भवन्ति स्वाभाविक्योऽनात्मवस्तुभेदविषयाः ।
अनर्थत्वावगतेश्च, आत्मावगतौ हि सत्यामन्यद्वस्त्वनर्थत्वेनामगम्यते, अनित्यदुःखाशुद्ध्यादिबहुदोषवत्त्वादात्मवस्तुनश्च तद्विलक्षणत्वात् ।
तस्मादनात्मविज्ञानस्मृतीनामात्मावगतेरभावप्राप्तिः ।
पारिशेष्यादात्मैकत्वविज्ञानस्मृतिसन्ततेरर्थत एव भावान्न विधेयत्वम्, शोकमोहभयायासादिदुःखदोषनिवर्तकत्वाच्च तत्स्मृतेः ।
विपरीतज्ञानप्रभवो हि शोकमोहादिदोषः ।
तथा च तत्र को मोहः (ईश.७) विद्वांम बिभेति कुतश्चन (तै.उ.२ । ९ । १) अभयं वै जनक प्रप्तोऽसि (बृ.उ.४ । २ । ४) भिद्यते हृदयग्रन्थिः (मु.उ.२ । २ । ८) इत्यादिश्रुतयः ।
निरोधस्तर्ह्यर्थान्तरमिति चेत् ।
अथापि स्याच्चित्तवृत्तिनिरोधस्य वेदवाक्यजनितात्मविज्ञानादर्थान्तरत्वात्, तन्त्रान्तरेषु च कर्तव्यतयावगतत्वाद्विधेयत्वमिति चेत्? न॑मोक्षसाधनत्वेनानवगमात् ।
न हि वेदान्तेषु ब्रह्मात्मविज्ञानादन्यत्परमपुरुषार्थसाधनत्वेनामगम्यते ।
"आत्मानमेवावेत्"(बृ.उ.१ । ४ । १०) "तस्मात्तत्सर्वमभवत्"(१ । ४ । १०) "ब्रह्मविदाप्नोति परम्"(तै.उ.२ । १ । १ । ) "स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति"(मु.उ.३ । २ । ९) "आचार्यवान्पुरुषो वेद"(छा.उ.६ । १४ । २) "तस्य तावदेव चिरम्"(६ । १४ । २) "अभयं हि वै ब्रह्म भवति एवं वेद"(बृ.उ.४ । ४ । २५) इत्येवमादिश्रुतिशतेभ्यः ।
अनन्यसाधनत्वाच्च निरोधस्य ।
न ह्यात्मविज्ञानतत्स्मृतिसन्तानव्यतिरेकेण चित्तवृत्तिनिरोधस्य साधनमस्ति ।
अभ्युपगम्येदमुक्तम्, न तु ब्रह्मविज्ञानव्यतिरेकेण अन्यन्मोक्षसाधनमवगम्यते ।
आकाङ्क्षाभावाच्च भावनाभावः॑यदुक्तं यजेतेत्यादौ किं केन कथमिति भावनाकाङ्क्षायां फलसाधनेतिकर्तव्यताभिराकाङ्क्षापनयनं यथा, तद्वदिहाप्यात्मविज्ञानविधावप्युपपद्यत इति॑तदसत्,"एकमेवाद्वितीयम्"(छा.उ.६ । २ । १) "तत्त्वमसि"(छा.उ.६ । ८ १६)"नेति नेति"(बृ.उ.२ । ३ । ६) "अनन्तरमबाह्यम्"(बृ.उ.२ । ५ । १९) "अयमात्मा ब्रह्म"(२ । ५ । १९) इत्यादिवाक्यार्थविज्ञानसमकालमेव सर्वाकाङ्क्षाविनिवृत्तेः ।
न च वाक्यार्थविज्ञाने विधिप्रयुक्तः प्रवर्तते विध्यन्तरप्रयुक्तौ चानवस्थादोषमवोचाम ।
न च एकमेवाद्वितीयं ब्रह्म इत्यादिवाक्येषु विधिरवगम्यते ।
आत्मस्वरूपान्वाख्यानेनैवावसितत्वात् ।
वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यमिति चेत् ।
अथापि स्याद्यथा सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमित्येवमादौ वस्तुस्वरूपान्वाख्यानमात्रत्वादप्रामाण्यम्, एवमात्मार्थवाक्यानामपीति चेत्? न॑विशेषात् ।
न वाक्यस्य वस्त्वन्वाख्यानं क्रियान्वाख्यानं वा प्रामाण्याप्रामाण्यकारणम्, किं तर्हि? निश्चितफलवद्विज्ञानोत्पादकत्वम् ।
तद्यत्रास्ति तत्प्रमाणं वाक्यम्, यत्र नास्ति तदप्रमाणम् ।
किंञ्च भो पृच्छामस्त्वामात्मस्वरूपान्वाख्यानपरेषु वाक्येषु फलवन्निश्चितं च विज्ञानमुत्पद्यते, न वा? उत्पद्यते चेत्कथमप्रामाण्यमिति? किं वा न पश्यसि अविद्याशोकमोहभयादिसंसारबीजदोषनिवृत्तिं विज्ञानफलम् ।
न शृणोपि वा किं तत्र को मोहः कः शोक एकत्वमनुपश्यतः (ईशा.७) मन्त्रविदेवास्मि नात्मवित्सोऽहं भगयः शोचामि तं मा भगवाञ्छोकस्य पारं शोचामि तारयतु (छा.उ.७ । १ । ३) इत्येवमाद्युपनिषद्वाक्यशतानि? एवं विद्यते किं सोऽरोदीदित्यादिषु निश्चितं फलवच्च विज्ञानम् ।
न चेद्विद्यतेऽस्त्वप्रामाण्यम् ।
तदप्रामाण्ये फलवन्निश्चितविज्ञानोत्पादकस्य किमित्यप्रामाण्यं स्यात्? तदप्रामाण्ये त दर्शपूर्णमासादिवाक्येषु को विश्रम्भः ।
ननु दर्शपूर्णमासादिवाक्यानां पुरुषप्रवृत्तिविज्ञानोत्पादकत्वात्प्रामाण्यम् ।
आत्मविज्ञानवाक्येषु तन्नास्तीति ।
सत्यमेवम्, नैष दोषः ।
प्रामाणयकारणोपपत्तेः ।
प्रामाण्यकारणं च यथोक्तमेव, नान्यत् ।
अलङ्कारश्चायम्, यत्सर्वप्रवृत्तिबीजविरोधफलवदविज्ञानोत्पादकत्वमात्मप्रतिपादकवाक्यानां नाप्रामाण्यकारणम् ।
यत्तूक्तं विज्ञाय प्रज्ञां कुर्वीत (बृ.उ.४ । ४ । २१) इत्यादिवचनानां वाक्यार्थविज्ञानव्यतिरेकेण उपासनार्थत्वमिति, सत्यमेतत्, किन्तु नापूर्वविध्यर्थता, पक्षे प्राप्तस्य नियमार्थतैव ।
कथं पुनरुपासनस्य पक्षप्राप्तिः? यावता पारिशेष्यादात्मविज्ञानस्मृतिसन्ततिः नित्यैवेत्यभिहितं बाढम्, यद्यप्येवम्॑शरीरारम्भा कस्य कर्मणो नियतफलत्वात्, सम्यग्ज्ञानप्राप्तावप्यवश्यम्भाविनी प्रवृत्तिर्वाङ्मनःकायानाम्, लब्धवृत्तेः कर्मणो बलीयस्त्वात्मुक्तेष्वादिप्रवृत्तिवत् ।
तेन पक्षे प्राप्तं ज्ञानप्रवृत्तिदौर्बल्यम् ।
तस्मात्त्यागवैराग्यादिसाधनबलावलम्बेन आत्मविज्ञानस्मृतिसन्ततिर्नियन्तव्या भवति, न त्वपूर्वा कर्तव्या॑प्राप्तत्वादित्यवेचाम ।
तस्मात्प्राप्तविज्ञानस्मृतिसन्ताननियमविध्यर्थानि विज्ञाय प्रज्ञां कुर्वीत इत्यादि वाक्यानि, अन्यार्थासम्भवात् ।
नन्वनात्मोपासनमिदम्, इतिशब्दप्रयोगात्॑यथा प्रियमित्येतदुपासीत इत्यादौ न प्रियादिगुणा एवोपास्याः, किं तर्हि? प्रियादिगुणवत्प्राणाद्येवोपास्यम्॑तथेहापि इति परात्मशब्दप्रयोगादात्मगुणवदनात्मवस्तूपास्यमिति गम्यते ।
आत्मोपास्यत्ववाक्यवैलक्षण्याच्च परेण च वक्ष्यति आत्मानमेव लोकमुपासीत (१ । ४ । १५) इति ।
तत्र च वाक्ये आत्मैवोपास्यत्वेनाभिप्रेतो द्वितीयाश्रवणादात्मानमेवेति ।
इह तु न द्वितीया श्रूयते ।
इतिपरश्चात्मशब्दः आत्मेन्येवोपासीत इति ।
अतो नात्मोपास्य आत्मगुणश्चान्य इति त्ववगम्यते ।
न॑वाक्यशेष आत्मन उपास्यत्वेनावगमात् ।
अस्यैव वाक्यस्य शेषे आत्मैवोपास्यत्वेनावगम्यते तदेतत्पदनीयमस्य सर्वस्य यदयमात्मा (बृ.उ.१ । ४ । ७) अन्तरतरं यदयमात्मा (बृ.उ.१ । ४ । ८) आत्मानमेवावेत्(१ । ४ । १०) इति ।
प्रविष्टस्य दर्शनप्रतिषेधादनुपास्यत्वमिति चेत् ।
यस्यात्मनः प्रवेश उक्तः तस्यैव दर्शनं वार्यते तं न पश्यन्ति (४ । ३ । २३) इति प्रकृतोपादानात् ।
तस्मादात्मनोऽनुपास्यत्वमेवेत्चेत्? न, अकृत्स्नत्वदोषात् ।
दर्शनप्रतिषेधोऽकृत्स्नत्वदोषाभिप्रायेण नात्मोपास्यत्वंप्रतिषेधाय ।
प्राणनादिक्रियाविशिष्टत्वेन विशेषणात् ।
आत्मनश्चेदुपास्यत्वमनभिपेतं प्राणनाद्येकैकक्रियाविशिष्टस्यात्मनोऽकृत्स्नत्ववचनमनर्थकं स्यातकृत्स्नो ह्येषोऽत एकैकेन भवति (१ । ४ । ७) इति अतोऽनेकैकविशिष्टस्त्वात्मा कृत्स्नत्वादुपास्य एवेति सिद्धम् ।
यस्त्वात्मशब्दस्य इतिपरः प्रयोगः, आत्मशब्दप्रत्ययोः आत्मतत्त्वस्य परमार्थतोऽविषयत्वज्ञानार्थम्, अन्यथा आत्मानमुपासीतेत्येवमवक्ष्यत् ।
तथा चार्थादात्मनि शब्दप्रत्ययावनुज्ञातौ स्याताम्॑तच्चानिष्टम्, नेति नेति (२ । ३ । ६) विज्ञातारमरेकेन विजानीयात्(२ । ४ । १४) अविज्ञातं विज्ञातृ (३ । ८ । १२) यतो वाचो निवर्तन्ते अप्राप्य मनसा सह (तै.उ.२ । ४ । १) इत्यादिश्रुतिभ्यः ।
यत्तु आत्मानमेव लोकमुपासीत (१ । ४ । १५) इति तदनात्मोपासनप्रसङ्गनिवृत्तिपरत्वान्न वाक्यान्तरम् ।
अनिर्ज्ञातत्वसामान्यादात्मा ज्ञातव्योऽनात्मा च ।
तत्र कस्मादात्मोपासने एव यत्न आस्थीयते आत्मेत्येवोपासीत इति नेतरविज्ञान इति? अत्रोच्यते तदेतदेव प्रकृतं पदनीयं गमनीयं नान्यत् ।
अस्य सर्वस्येति निर्धारणार्था षष्ठी ।
अस्मिन्सर्वस्मिन्नित्यर्थः ।
यदयमात्मा यदेतदात्मतत्त्वम् ।
किं न विज्ञातव्यमेवान्यत्? न॑किं तर्हि? ज्ञातव्यत्वेऽपि न पृथग्ज्ञानान्तरमपेक्षत आत्मज्ञानात् ।
कस्मात्? अनेनात्मना ज्ञातेन हि यस्मादेतत्सर्वमनात्मजातमन्यद्यत्तत्सर्वं समस्तं वेद जानाति ।
नन्वन्यज्ञानेनान्यन्न ज्ञायत इति ।
अस्य परिहारं दुन्दुभ्यादिग्रन्थेन वक्ष्यामः ।
कथं पुनरेतत्पदनीयमित्युच्यते यथा ह वै लोके पदेन, गवादिखुराङ्कितो देशः पदमित्युच्यते तेन पदेन, नष्टं विवित्सितं पशुं पदेनान्वेषमाणोऽनुविन्देल्लभेत ।
एवमात्मनि लब्धे सर्वमनुलभत इत्यर्थः ।
नन्वात्मनि ज्ञाते सर्वमन्यज्ज्ञायत इति ज्ञाने प्रकृते, कथं लाभोऽप्रकृत उच्यत इति? न॑ज्ञानलाभयोरेकार्थत्वस्य विवक्षितत्वात् ।
आत्मनो ह्यलाभोऽज्ञानमेव, तस्माज्ज्ञानमेवात्मनो लाभः, नानात्मलाभवदप्राप्तप्राप्तिलक्षण आत्मलाभः, लब्धृलब्धव्ययर्भेदाभावात् ।
यत्र ह्यात्मनोऽनात्मा लब्धा, लब्धव्योऽनात्मा ।
स चाप्राप्त उत्पाद्यादिक्रियाव्यवहितः कारकविशेषोपादानेन क्रियाविशेषमुत्पाद्य लब्धव्यः ।
स त्वप्राप्तप्राप्तिलक्षणोऽनित्यः, मिथ्याज्ञानजनितकामक्रियाप्रभवत्वात्, स्वप्ने पुत्रादिलाभवत् ।
अयं तु तद्विपरीत आत्मा ।
आत्मत्वादेव नोत्पाद्यादिक्रियाव्यवहितः ।
नित्यलब्धस्वरूपत्वेऽपि सत्यविद्यामात्रं व्यवधानम् ।
यथा गृह्यमाणाया अपि शुक्तिकाया विपर्ययेण रजताभासाया अग्रहणं विपरीतज्ञानव्यवधानमात्रम्, तथा ग्रहणं ज्ञानमात्रमेव, विपरीतज्ञानव्यवधानापोहार्थत्वाज्ज्ञानस्य ।
एवमिहाप्यात्मनोऽलाभोऽविद्यामात्रव्यवधानम् ।
तस्माद्विद्यया तदपोहनमात्रमेव लाभो नान्यः कदाचिदप्युपपद्यते ।
तस्मादात्मलाभे ज्ञानादर्थान्तरसाधनस्य आनर्थक्यं वक्ष्यामः ।
तस्मान्निराशङ्कमेव ज्ञानलाभयोरेकार्थत्वं विवक्षन्नाह ज्ञानं प्रकृत्य, अनुविन्देदिति ।
विन्दतेर्लाभार्थत्वात् ।
गुणविज्ञानफलमिदमुच्यते यथायमात्मात्मा नामरूपानुप्रवेशेन ख्यातिं गत आत्मेत्यादिनामरूपाभ्यां प्राणादिसंहतिं च श्लोकं प्राप्तवानित्येवं यो वेद,स कीर्तिं ख्यातिं श्लोकं च सङ्घातमिष्टैः सह विन्दते लभते ।
यद्वा यथोक्तं वस्तु यो वेद मुमुक्षूणामपेक्षितं कीर्तिशब्दितमैक्यज्ञानं तत्फलं श्लोकशब्दितां मुक्तिमाप्नोतीति मुख्यमेव फलम् ॥७॥



कुतश्चात्मतत्त्वमेव ज्ञेयमनाहत्यान्यदित्याह




_______________________________________________________________________

१,४.८

तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा ।
स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात्प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् ।
आत्मानमेव प्रियमुपासीत ।
स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुकं भवति ॥ _१,४.८ ॥

__________


शा.भा._१,४.८ तदेतदात्मतत्त्वं प्रेयः प्रियतरं पुत्रात् ।
पुत्रो हि लोके प्रियः प्रसिद्धस्तस्मादपि प्रियतरमिति निरतिशयप्रियत्वं दर्शयति ।
तथा वित्ताद्धिरण्यरत्नादेः, तथा अन्यस्याद्यल्लोके प्रियत्वेन प्रसिद्धं तस्मात्सर्वस्मादित्यर्थः ।
तत्कस्मादात्मतत्त्वमेव प्रियतरं न प्राणादि? इत्युच्यते अन्तरतरं बाह्यात्पुत्रवित्तादेः प्राणपिण्डसमुदायो ह्यन्तरोऽभ्यन्तरः सन्निकृष्ट आत्मनः ।
तस्मादप्यन्तरादन्तरतरं यदयमात्मा यदेतदात्मतत्त्वम् ।
यो हि लोके निरतिशयप्रियः स सर्वप्रयत्नेन लब्धव्यो भवति ।
तथायमात्मा सर्वलौकिकप्रियेभ्यः प्रियतमः ।
तस्मात्तल्लाभे महान्यत्न आस्थेन इत्यर्थः, कर्त्तव्यताप्राप्तमप्यन्यप्रियलाभे यत्नमुज्झित्वा ।
कस्मात्पुनः आत्मानात्मप्रिययोरन्यतरप्रियहानेन इतरप्रियोपादानप्राप्तौ आत्मप्रियोपादानेनैवेतरहानं क्रियते न विपर्ययः? इत्युच्यते स यः कश्चिदन्यमनात्मममममविशेषं पुत्रादिकं प्रियतरमात्मानः साकाशाद्ब्रूवाणं ब्रूयादात्मप्रियवादी ।
किम्? प्रियं तवाभिमतं पुत्रादिलक्षणं रोत्स्यत्यावरणं प्राणसंरोधं प्राप्स्यति ।
विनङ्क्ष्यतीति ।
स कस्मादेवं ब्रवीति? यस्मादीश्वरः समर्थः पर्याप्तोऽसावेवं वक्तुं ह यस्मात्तस्मात्तथैव स्याद्यत्तेनोक्तं प्राणसंरोधं प्राप्स्यति ।
यथाभूतवादी हि सः, तस्मात्स ईश्वरो वक्तुम् ।
ईश्वरशब्दः क्षिप्रवाचीति केचित् ।
भवेद्यदि प्रसिद्धिः स्यात् ।
तस्मादुज्झित्वान्यत्प्रियमात्मानमेव प्रियमुपासीत ।
स य आत्मानमेव प्रियमुपास्ते, आत्मैव प्रियो नान्योऽस्तीति प्रतिपद्यतेऽन्यल्लौकिकं प्रियमप्यप्रियमेवेति निश्चित्य उपास्ते चिन्तयति, न हास्यैवंविदः प्रियं प्रमायुकं प्रमरणशीलं भवति ।
नित्यानुवादमात्रमेतत्, आत्मविदोऽन्यस्य प्रियस्याप्रियस्य चाभावात् ।
आत्मप्रियग्रहणस्तुत्यर्थं वा प्रियगुणफलविधानार्थं मन्दात्मदर्शिनः ।
ताच्छील्यप्रत्ययोपादानात् ॥८॥


सूत्रिता ब्रह्मविद्या आत्मेत्येवोपासीत इति यदर्थोपनिषत्कृतस्नापि ।
तस्यैतस्य सूत्रस्य व्याचिख्यासुः प्रयोजनाभिधित्सयोपोज्जिघांसति ।




_______________________________________________________________________

१,४.९

तदाहुर्यद्ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते ।
किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवदिति ॥ _१,४.९ ॥

__________



शा.भा._१,४.९ तदिति वक्ष्यमाणमनन्तरवाक्येऽवद्योत्यं वस्त्वाहुः ।
ब्राह्मणा ब्रह्म विविदिषवो जन्मजरामरणप्रबन्धचक्रभ्रमणकृतायासदुःखोदकापारमहोदधिप्लवभूतं गुरुमासाद्य तत्तीरमुत्तितीर्षवो धर्माधर्मसाधनतत्फललक्षणात्साध्यसाधनरूपान्निर्विण्णाः तद्विलक्षणनित्यनिरतिशयश्रेयः प्रतिपित्सवः ।
किमाहुरित्याह यद्ब्रह्मविद्यया ब्रह्म परमात्मा तया ब्रह्मविद्यया, सर्वं निरवशेषं भविष्यन्तो भविष्याम इत्येवं मनुष्या यन्मन्यन्ते ।
मनुष्यग्रहणं विशेषतोऽधिकारज्ञापनार्थम् ।
मनुष्या एव हि विशेषतोऽभ्युदयनिःश्रेयससाधनेऽधिकृता इत्यभिप्रायः ।
यथा कर्मविषये फलप्राप्तिं ध्रुवां कर्मभ्यो मन्यन्ते, तथा ब्रह्मविद्याया सर्वात्मभावफलप्राप्तिं ध्रुवामेव मन्यन्ते ।
वेदप्रामाण्यस्योभयत्राविशेषात् ।
तत्र विप्रतिषिद्धं वस्तु लक्ष्यतेऽतः पृच्छामः किमु तद्ब्रह्म यस्य विज्ञानात्सर्वं भविष्यन्तो मनुष्या मन्यन्ते? तत्किमवेद्यस्माद्विज्ञानात्तद्ब्रह्म सर्वमभवत्? ब्रह्म च सर्वमिति श्रूयते ।
तद्यद्यविज्ञाय किञ्चित्सर्वमभवत्तथान्येषामप्यस्तु, किं ब्रह्मविद्यया? अथ विज्ञाय सर्वमभवत्, विज्ञानसाध्यत्वात्कर्मफलेन तुल्यमेवेत्यनित्यत्वप्रसङ्गः सर्वभावस्य ब्रह्मविद्याफलस्य ।
अनवस्थादोषश्चतदप्यन्यद्विज्ञाय सरेवमभवत्ततः पूर्वमप्यन्यद्विज्ञायेति ।
न तावदविज्ञाय सर्वमभवत्, शास्त्रार्थवैरूप्यदोषात् ।
फलानित्यत्वदोषस्तर्हि? नैकोऽपि दोषोर्ऽथविशेषोपपत्तेः ॥९॥



यदि किमपि विज्ञायैव तद्ब्रह्म सर्वमभवत्पृच्छामः किमु तद्ब्रह्मावेत्? यस्मात्तत्सर्वमभवदिति ।
एवं चोदिते सर्वदोषानागन्धितं प्रतिवचनमाह



_______________________________________________________________________

१,४.१०

ब्रह्म वा इदमग्र आसीत् ।
तदात्मानमेवावेत् ।
अहं ब्रह्मास्मीति ।
तस्मात्तत्सर्वमभवत् ।
तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् ।
तथर्षीनाम् ।
तथा मनुष्याणाम् ।
तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति ।
तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति ।
तस्य ह न देवाश्चनाभूत्या ईशते ।
आत्मा ह्येषां स भवति ।
अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ।
यथा पशुरेवं स देवानाम् ।
यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युरेवमेकैकः पुरुषो देवान् भुनक्ति ।
एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु ।
तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ _१,४.१० ॥

__________



शा.भा._१,४.१० ब्रह्मापरम्, सर्वभावस्य साध्यत्वोपपत्तेः ।
न हि परस्य ब्रह्मणः सर्वभावापत्तिर्विज्ञानसाध्या ।
विज्ञानसाध्यां च सर्वभावापत्तिर्विज्ञानसाध्या ।
विज्ञानसाध्यां च सर्वभावापत्तिमाहऽतस्मात्तत्सर्वमभवत्ऽइति ।
तदस्माद्ब्रह्म वा इदमग्र आसीदित्यपरं ब्रह्मेह भवितुमर्हति ।
मनुष्याधिकाराद्वा तद्भावी ब्राह्मणः स्यात् ।
ऽसर्वं भविष्यन्तो मनुष्या मन्यन्तेऽइति हि मनुष्याः प्रकृताः, तेषां चाभ्युदयनिःश्रेयससाधने विशेषतोऽधिकार इत्युक्तम्, न परस्य ब्रह्मणो नाप्यपरस्य प्रजापतेः ।
अतो द्वैतैकत्वापरब्रह्मविद्यया कर्मसहितया अपरब्रह्मभावमुपसम्पन्नो भोज्यादपावृत्तः सर्वप्राप्त्योच्छिन्नकामकर्मबन्धनः परब्रह्मभावी ब्रह्मविद्याहेतोर्ब्रह्मेत्यभिधीयते ।
दृष्टश्च लोके भाविनीं वृत्तिमाश्रित्य शब्दप्रयोगः यथाऽओदनं पचतिऽइति, शास्त्रे चऽपरिव्राजकः सर्वभूताभयदक्षिणाम्ऽइत्यादि, तथेहेति केचित् ब्रह्म ब्रह्मभावी पुरुषो ब्राह्मणः इति व्याचक्षते ।
तन्न, सर्वभावापत्तेरनित्यत्वदोषात् ।
न हि सोऽस्ति लोके परमार्थतो यो निमित्तवशाद्भावान्तरमापद्यते नित्यश्चेति ।
तथा ब्रह्मविज्ञाननिमित्तकृता चेत्सर्वभावापत्तिः, नित्या चेति विरुद्धम् ।
अनित्यत्वे च कर्मफलतुल्यतेत्युक्तो दोषः ।
अविद्याकृतासर्वत्वनिवृत्तिं चेत्सर्वभावापत्तिं ब्रह्मविद्याफलं मन्यसे, ब्रह्मभाविपुरुषकल्पना व्यर्था स्यात्॑प्राग्ब्रह्मविज्ञानादपि सर्वो जन्तुब्रह्मत्वान्नित्यमेव सर्वभावापन्नः परमार्थतः, अविद्यया त्वब्रह्मत्वमसर्वत्वं चाध्यारोपितं यथा शुक्तिकायां रजतम्, व्योम्नि वा तलमलवत्त्वादि, तथेह ब्रह्मण्यध्योरोपितमविद्यया अब्रह्मत्वमसर्वत्वं च ब्रह्मविद्यया निवर्त्यत इति मन्यसे यदि, तदा युक्तं यत्परमार्थत आसीत्परं ब्रह्म, ब्रह्मशब्दस्य मुख्यार्थभूतम्ऽब्रह्म वा इदमग्र आसीत्ऽइत्यस्मिन्वाक्ये उच्यते इति वक्तुम्॑यथाभूतार्थवादित्वाद्वेदस्य ।
न त्वियं कल्पना युक्ता, ब्रह्मशब्दार्थविपरीतो ब्रह्मभावी पुरुषो ब्रह्मेत्युच्यत इति श्रुतहान्यश्रुतकल्पनाया अन्याय्यत्वान्महत्तरे प्रयोजनान्तरेऽसति ।
अविद्याकृतव्यतिरेकेणाब्रह्मत्वमसर्वत्वं च विद्यत एवेति चेन्न, तस्य ब्रह्मविद्ययापोहानुपपत्तेः ।
न हि क्वचित्साक्षाद्वस्तुधर्मस्यापोढ्री दृष्टा कर्त्री वा ब्रह्मविद्या ।
अविद्यायास्तु सर्वत्रैव निवर्तिका दृश्यते ।
तथेहाप्यब्रह्मत्वमसर्वत्वं चाविद्याकृतमेव निवर्त्यतां ब्रह्मविद्यया ।
न तु पारमार्थिकं वस्तु कर्तुं निवर्तयितुं वार्हति ब्रह्मविद्या ।
तस्माद्व्यर्थैव श्रुतहान्यश्रुतकल्पना ।
ब्रह्मण्यविद्यानुपपत्तिरिति चेत्? न, ब्रह्मणि विद्याविधानात् ।
न हि शुक्तिकायां रजताध्यारोपणेऽसति शुक्तिकात्वं ज्ञाप्यते चक्षुर्गोचरापन्नायाम् इयं शुक्तिका न रजतम्, इति ।
तथा"सदेवेदं सर्वम्" "ब्रह्मैवेदं सर्वम्" "आत्मैवेदं सर्वम्" "नेदं द्वैतमस्त्यब्रह्म"इति ब्रह्मण्येकत्वविज्ञानं न विधातव्यं ब्रह्मण्यविद्याध्यारोपणायामसत्याम् ।
न ब्रूमः शुक्तिकायामिव ब्रह्मण्यतद्धर्माध्यारोपणा नास्तीति, किं तर्हि? न ब्रह्म स्वात्मन्यतद्धर्माध्यारोपनिमित्तम्, अविद्याकर्तृ चेति ।
भवत्वेवं नाविद्याकर्तृ भ्रान्तं च ब्रह्म ।
किंन्तु नैवाब्रह्माविद्याकर्ता चेतनो भ्रान्तोऽन्य इष्यते ।
"नान्योऽतोऽस्ति विज्ञाता" (बृ.उ.३ । ७ । २३) "नान्यदतोऽस्ति विज्ञातृ"(३ । ८ । ११) "तत्त्वमसि"(छा.उ.६ । ८ १३)"आत्मानमेवावेत् ।
अहं ब्रह्मास्मि"(बृ.उ.१ । ४ । १०) "अन्योऽसावन्योऽहमस्मीति न स वेद"(१ । ४ । १०) इत्यादिश्रुतिभ्यः ।
स्मृतिभ्यश्च "समं सर्वेषु भूतेषु"(गीता १३ । २७) "अहमात्मागुडाकेश"(गीता १० । २०) "शुनि चैव श्वपाके च"(गीता ५ । १८) "यस्तु सर्वाणि भूतानि"इत्यादिभ्यः ।
"यस्मिन्सर्वाणि भूतानि" (ईशा.उ.७) इति च मन्त्रवर्णात् ।
नन्वेवं शास्त्रोपदेशानर्थक्यमिति ।
बाढमेवमवगतेऽस्त्वेवानर्थक्यम् ।
अवगमनर्थक्यमिति चेत्? न, अनवगमनिवृत्तेर्दृष्टत्वात् ।
तन्निवृत्तेरप्यनुपपत्तिरेकत्व इति चेत्? न दृष्टविरोधात् ।
दृश्यते ह्येकत्वविज्ञानादेवानवगमनिवृत्तिः, दृश्यमानमप्यनुपपन्नमिति ब्रुवतो दृष्टविरोधः स्यात्॑न च दृष्टविरोधः केनचिदप्यभ्युपगम्यते ।
न च दृष्टेऽनुपपन्नं नाम, दृष्टत्वादेव ।
दर्शनानुपपत्तिरिति चेत्तत्राप्येषैव युक्तिः ।
"पुण्यं वै पुण्येन कर्मणा भवति"(बृ.उ.३ । २ । १३) "तं विद्याकर्मणी समन्वारभेते" (४ । ४ । २) इत्येवमादिश्रुतिस्मृतिन्यायेभ्यः परस्माद्विलक्षणोऽन्यः संसार्यवगम्यते ।
तद्विलक्षणश्च परः"स एष नेति नेति"(बृ.उ.३ । ९ । २३) "अशनायाद्यत्येति" "य आत्मापहतपाप्मा विजरो विमृत्युः"(छा.उ.८ । ७ । १) "एतस्य वा अक्षरस्य प्रशासने"(बृ.उ.३ । ८ । ९) इत्यादिश्रुतिभ्यः ।
कणादाक्षपादादितर्कशास्त्रेषु च संसारविलक्षण ईश्वर उपपत्तितः साध्यते ।
संसारदुःखापनयार्थित्वप्रवृत्तिदर्शनात्स्फुटमन्यत्वमीश्वरात्संसारिणोऽवगम्यते ।
"अवाक्यनादरः"(छा.उ.३ । १४ । २) "न मे पार्थास्ति" (गीता३ । २२) इति श्रुतिभ्यः ।
"सोऽन्वेष्टव्यः स विजिज्ञासितव्यः"(छा.उ.८ । ७ । १) "तं विदित्वा न लिप्यते"(बृ.उ.४ । ४ । २३) "ब्रह्मविदाप्नोति परम्"(तै.उ.२ । १ । १) "एकधैवानुद्रष्टव्यमेतत्"(बृ.उ.४ । ४ । २०) "यो वा एतदक्षरं गार्ग्यविदित्वा"(३ । ८ । १०) "तमेव धीरो विज्ञाय"(४ । ४ । २१) "प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते" (मु.उ.२ । २ । ४) इत्यादिकर्मकर्तृनिर्देशाच्च ।
मुमुक्षोश्च गतिमार्गविशेषदेशोपदेशात् ।
असति भेदे कस्य कुतो गतिः स्यात्? तदभावे च दक्षिणोत्तरमार्गविशेषानुपपत्तिः, गन्तव्यदेशानुपपत्तिश्चेति ।
भिन्नस्य तु परस्मादात्मनः सर्वमेतदुपपन्नम् ।
कर्मज्ञानसाधनोपदेशाच्च भिन्नश्चेद्ब्रह्मणः संसारी स्यात्, युक्तस्तं प्रत्यभ्युदयनिःश्रेयसाधनयोः कर्मज्ञानयोरुपदेशो नेश्वरस्याप्तकामत्वात् ।
तस्माद्युक्तं ब्रह्मेति ब्रह्मभावी पुरुष उच्यत इति चेत्? न, ब्रह्मोपदेशानर्थक्यप्रसङ्गात् ।
संसारी चेद् ब्रह्मभाव्यब्रह्म सन् विदित्वात्मानमेवाहं ब्रह्मास्मीति सर्वमभवत्तस्य संसार्यात्मविज्ञानादेव सर्वात्मभावस्य फलस्य सिद्धत्वात्परब्रह्मोपदेशस्य ध्रुवमानर्थक्यं प्राप्तम् ।
तद्विज्ञानस्य क्वचित्पुरुषार्थसाधनेऽविनियागात्संसारिण एवाहं ब्रह्मास्मीति ब्रह्मत्वसम्पादनार्थ उपदेश इति चेत् ।
अनिर्ज्ञाते हि ब्रह्मस्वरूपे किं सम्पादयेदहं ब्रह्मास्मीति ।
निर्ज्ञातलक्षणे हि ब्रह्मणि शक्या सम्पत्कर्तुम् ।
न॑ "अयमात्मा ब्रह्म"(बृ.उ.२ । ५ । १९) चत्साक्षादपरोक्षाद्ब्रह्म (३ । ४ । १) य आत्मा (छा.उ.८ । ७ । १) तत्सत्यं स आत्मा (छा.उ.६ । ८ । ७) ब्रह्मविदाप्नोति परम् (तै.उ.२ । १ । १ । ) इति प्रकृत्य तस्माद्वा एतस्मादात्मनः (२ । १ । १) इति सहस्रशो ब्रह्मात्मशब्दयोः सामानाधिकरण्यादेकार्थत्वमेवेत्यवगम्यते ।
अन्यस्य ह्यन्यत्वे सम्पत्क्रियते नैकत्वे ।
इदं सर्वं यदयमात्मा (बृ.उ.२ । ४ । ६) इति च प्रकृतस्यैव द्रष्टव्यस्यात्मन एकत्वं दर्शयति ।
तस्मान्नात्मनो ब्रह्मत्वसम्पदुपपत्तिः ।
न चाप्यन्यत्प्रयोजनं ब्रह्मोपदेशस्य गम्यते, ब्रह्म वेद ब्रह्मैव भवति (मु.उ.३ । २ । ९) अभयं वै जनक प्राप्तोऽसि (बृ.उ.४ । २ । ४) अभयं हि वै ब्रह्म भवति (४ । ४ । २५) इति च तदापत्तिश्रवणात् ।
सम्पत्तिश्चेत्तदापत्तिर्न स्यात् ।
न ह्यन्यस्याम्यभाव उपपद्यते ।
वचनात्सम्पत्तेरपि तद्भावापत्तिः स्यादिति चेत्? न, सम्पत्तेः प्रत्ययमात्रत्वात् ।
विज्ञानस्य च मिथ्याज्ञाननिवर्तकत्वव्यतिरेकेणाकारकत्वमित्यवोचाम ।
न च वचनं वस्तुनः सामर्थ्यजनकम् ।
ज्ञापकं हि शास्त्रं न कारकमिति स्थितिः ।
स एष इह प्रविष्टः (बृ.उ.१ । ४ । ७) इत्यादिवाक्येषु च परस्यैव प्रवेश इति स्थितम् ।
तस्माद्ब्रह्मेति न ब्रह्मभाविपुरुषकल्पना साध्वी ।
इष्टार्थबाधनाच्च ।
सैन्धवधनवदनन्तरमबाह्यमेकरसं ब्रह्मेति विज्ञानं सर्वस्यामुपनिषदि प्रतिपिपादयिषितोर्ऽथः ।
काण्डद्वयेऽप्यन्तेऽवधारणादवगम्यते इत्यनुशासनमेतावदरे खल्वमृतत्वमिति. तथा सर्वशाखोपनिषत्सु च ब्रह्मैकत्वविज्ञानं निश्चितोर्ऽथः ।
तत्र यदि संसारी ब्रह्मणोऽन्य आत्मानमेवावेदिति कल्प्येत, इष्टस्यार्थस्य नाधनं स्यात् ।
तथा च शास्त्रमुपक्रमोपसंहारयोर्विरोधादसमञ्जसं कल्पितं स्यात् ।
व्यपदेशानुपपत्तेश्च ।
यदि च आत्मानमेवावेतिति संसारी कल्प्येत, ब्रह्मविद्या इति व्यपदेशो न स्यात् ।
आत्मानमेवावेदिति संसारिण एव वेद्यत्वोपपत्तेः ।
आत्मेति वेदितुरन्यदुच्यत इति चेन्न, अहं ब्रह्मास्मीति विशेषणात् ।
अन्यश्चेद्वेद्यः स्यादयमसाविति वा विशेष्येत न त्वहमस्मीति ।
अहमस्मीति विशेषणादात्मानमेवावेदिति चावधारणान्निश्चितमात्मैव ब्रह्मेत्यवगम्यते ।
तथा च सत्युपपन्नो ब्रह्मविद्याव्यपदेशो नान्यथा ।
संसारिविद्या ह्यन्यथा स्यात् ।
न च ब्रह्मत्वाब्रह्मत्वे ह्येकस्योपपन्ने परमार्थतः, तमःप्रकाशाविव भानोर्विरुद्धत्वात् ।
न चोभयनिमित्तत्वे ब्रह्मविद्येति निश्चितो व्यपदेशो युक्तं तत्त्वज्ञानविवक्षायाम्, श्रोतुः संशयो हि तथा स्यात् ।
निश्चितं च ज्ञानं पुरुषार्थसाधनमिष्यते"यस्य स्याद्द्धा न विचिकित्सास्ति" (छा.उ.३ । १४ । ४) "संशयात्मा विनश्यति"(गीता ४ । ४०) इति श्रुतिस्मृतिभ्याम् ।
अतो न संशयितो वाक्यार्थो वाच्यः परहितार्थिना ।
ब्रह्मणि साधकत्वकल्पना अस्मदादिष्विव अपेशलाऽतदात्मानमेवावेत्तस्मात्तत्सर्वमभवत्ऽइति इति चेत्? न, शास्त्रोपालम्भात् ।
न ह्यस्मात्कल्पनेयम्, शास्त्रकृता तु॑तस्माच्छास्त्रस्यायमुपालम्भः ।
न च ब्रह्मण इष्टं चिकीर्षुणा शास्त्राथविपरीतकल्पना स्वार्थपरित्यागः कार्यः ।
न चैतावत्येवाक्षमा युक्ता भवतः ।
सर्वं हि नानात्वं ब्रह्मणि कल्पितमेव"एकधैवानुद्रष्टव्यम्"(बृ.उ.४ । ४ । २०) "नेह नानास्ति किञ्चन" (४ । ४ । १९) "यत्र हि द्वैतमिव भवति" (२ । ४ । १४) "एकमेवाद्वितीयम्"(छा.उ.६ । २ । १) इत्यादिवाक्यशतेभ्यः ।
सर्वो हि लोकव्यवहारो ब्रह्मण्येव कल्पितो न परमार्थः सन्, इत्यत्यल्पमिदमुच्यतेऽइयमेव कल्पना अपेशलाऽइति ।
तस्माद्यत्प्रविष्टं स्रष्ट्रृ ब्रह्म तद्ब्रह्म ।
वैशब्दोऽवधारणार्थः ।
इदं शरीरस्थं यद्गृह्यते, अग्रे प्राक्प्रतिबोधादपि ब्रह्मैवासीत्, सर्वं चेदम् ।
किन्त्वप्रतिबोधातब्रह्मास्म्यसर्वं च इत्यात्मन्यध्यारोपात्ऽकर्ताहे क्रियावान्फलानां च भोक्ता सुखी दुःखो संसारीऽइति चाध्यारोपयति ।
परमार्थतस्तु ब्रह्मैव तद्विलक्षणं सर्वं च ।
तत्कथञ्चिदाचार्येण दयालुना प्रतिबोधितम्ऽनासि संसारीऽइत्यात्मानमेवावेत्स्वाभाविकम् ।
अविद्याध्यारोपितविशेषवर्जितमिति एव शब्दस्यार्थः ।
ब्रूहि कोऽसावात्मा स्वाभाविकः, यमात्मानं विदितवद्ब्रह्म ।
ननु न स्मरस्यात्मानम्, दर्शितो ह्यसौ, य इह प्रविश्य प्राणित्यपानिति व्यानित्युदानिति समानितीति ।
ननुऽअसौ गौः, असावश्वःऽइत्येवमसौ व्यपदिश्यते भवता नात्मानं प्रत्यक्षं दर्शयसि ।
एवं तर्हि द्रष्टा श्रोता मन्ता विज्ञाता, स आत्मेति ।
नन्वत्रापि दर्शनादिक्रियाकर्तुः स्वरूपं न प्रत्यक्षं दर्शयसि ।
न हि गमिरेव गन्तुः स्वरूपं छिदिर्वा छेत्तुः ।
एवं तर्हि दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेर्मन्ता विज्ञातेर्विज्ञाता, स आत्मेति ।
नन्वत्र को विशेषो द्रष्टरि? यदि दृष्टर्द्रष्टा. यदि वा घटस्य द्रष्टा, सर्वथापि द्रष्टैव ।
द्रष्टव्य एव तु भवान्विशेषमाह दृष्टेर्द्रष्टेति द्रष्टा तु यदि दृष्टेः, यदि वा घटस्य, द्रष्टा द्रष्टैव ।
न, विशेषोपपत्तेः ।
अस्त्यत्र विशेषः दृष्टेर्द्रष्टा स दृष्टिम्, न कदाचिदपि दृष्टिर्न दृश्यते द्रष्टा॑तत्र द्रष्टुर्दृष्ट्या नित्यया भवितव्यम्, अनित्या चेद्द्रष्टुर्दृष्टिः, तत्र दृश्या या दृष्टिः सा कदाचिन्न दृश्येतापि, यथानित्यया दृष्ट्या घटादि वस्तु ।
न च तद्वद्दृष्टेर्द्रष्टा कदाचिदपि न पश्यति दृष्टिम् ।
किं द्वे दृष्टी द्रष्टुः नित्या अदृश्या, अन्या अनित्या दृश्येति? बाढम्॑प्रसिद्धा तावदनित्या दृष्टिः, अन्धानन्धत्वदर्शनात् ।
नित्यैव चेत्सर्वोऽनन्ध एव स्यात् ।
द्रष्टस्तु नित्या दृष्टिः"न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते" इति श्रुतेः ।
अनुमानाच्च अन्धस्यापि घटाद्याभासविषया स्वप्ने दृष्टिरुपलभ्यते, सा तर्हीतरदृष्टिनाशे न पश्यति, सा द्रष्टुर्दृष्टिः ।
तयाविपरिलुप्तया नित्यया दृष्ट्या स्वरूपभूतया स्वयञ्ज्योतिःसमाख्यथेतामनित्यां दृष्टिं स्वप्नवुद्धान्तयोर्वासनाप्रत्ययरूपां नित्यमेव पश्यन्दृष्टेर्द्रष्टा भवति ।
एवश्च सति दृष्टिरेव स्वरूपमस्याग्न्यौष्ण्यवत्, न काणादानामिव दृष्टिव्यतिरिक्तोऽन्यश्चेतनो द्रष्टा ।
तद्ब्रह्म आत्मानमेव नित्यदृग्रूपमध्यारोपितानित्यदृष्ट्यादिवर्जितमेवावेद्विदितवत् ।
ननु विप्रतिषिद्धं"न विज्ञातेविज्ञातारं विजानीयाः"(बृ.उ.३ । ४ । २) इति श्रुतेः, विज्ञातुर्विज्ञानम् ।
न, एवं विज्ञानान्न विप्रतिषेधः ।
एवं दृष्टेर्द्रष्टेति विज्ञायत एव ।
अन्यज्ञानानपेक्षत्वाच्च न च द्रष्टुर्नित्यैव दृष्टिरित्येवं विज्ञाते द्रष्ट्रिविषयां दृष्टिमन्यामाकाङ्क्षते ।
निवर्तते हि द्रष्टुविषयदृष्ट्याकाङ्क्षा तदसम्भवादेव ।
न ह्यविद्यमाने विषय आकाङ्क्षा कस्यचिदुपजायते ।
न च दृश्या दृष्टिर्द्रष्टारं विषयीकर्तुमुत्सहते, यतस्तामाकाङ्क्षेत ।
न च स्वरूपविषयाखाङ्क्षास्वस्यैव ।
तस्मादज्ञानाध्यारोपणनिवृत्तिरेवऽअत्मानमेवावेतित्युक्तम्,नात्मनो विषयीकरणम्ऽ ।
तत्कथमवेत्? इत्याह अहं दृष्टेर्द्रष्टा आत्मा ब्रह्मास्मि भवामीति ब्रह्मेति यत्साक्षादपरोक्षात्सर्वान्तर आत्मा अशनायाद्यतीतो नेति नेत्यस्थूलमनण्वित्येवमादि लक्षणम्, तदेवाहमस्मि, नान्यः संसारी, यथा भवानाहेति ।
तस्मादेवं विज्ञानात्तद्ब्रह्म सर्वमभवत् ।
तस्माद्युक्तमेव मनुष्या मन्यन्ते यद्ब्रह्मविद्यया सर्वं भविष्याम इति ।
यत्पृष्टम्,ऽकिमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्ऽइति, तन्निर्णीतम्ऽब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्ऽइति ।
तत्तत्र यो यो देवानां मध्ये प्रत्यबुध्यत प्रतिबुद्ध्वानात्मानं यथोक्तेन आत्मा तद्ब्रह्माभवत् ।
तथर्पीणां तथा मनुष्याणां च मध्ये ।
देवानामित्यादि लोकदृष्ट्यपेक्षया न ब्रह्मत्वबुद्ध्योच्यते ।
ऽपुरः पुरुष आविशत्ऽइति सर्वत्र ब्रह्मैवानुप्रविष्टमित्याद्युच्यते ।
परमार्थतस्तु तत्र तत्र ब्रह्मैवाग्र आसीत्प्राक्प्रतिबोधाद्देवादिशरीरेश्वन्यथैव विभाव्यमानम् ।
तदात्मानमेवावेत्तथैव च सर्वमभवत् ।
अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः फलमित्येतस्यार्थस्य द्रढिम्ने मन्त्रानुदाहरति श्रुतिः ।
कथम्? तद्ब्रह्म एतदात्मानमेवऽअहमस्मिऽइति पश्यन्नेतस्मादेव ब्रह्मणो दर्शनादृष्टिर्वामदेवाख्यः प्रतिपेदे ह प्रतिपन्नवान्किल ।
स एतस्मिन्मन्त्रान्ददर्शऽअहं मनुरभवं सूर्यश्चऽइत्यादीन् ।
तदेतद्ब्रह्म पश्यनिति ब्रह्मविद्या परामृश्यते ।
ऽअहं मनुरभवं सुर्यश्चऽइत्यादिना सर्वभावापत्तिं ब्रह्मविद्याफलं परामृशति ।
पश्यन्सर्वात्मभावं फलं प्रतिपेद इत्यस्मात्प्रयोगाद्ब्रह्मविद्यासहायसाधनसाध्यं मोक्षं दर्शयति॑भुञ्जानस्तृप्यतीति यद्वत् ।
सेयं ब्रह्मविद्यया सर्वभावापत्तिरासीन्महतां देवादीनां वीर्यातिशयात् ।
नेदानीमैदंयुगीनानां विशेषतो मनुष्याणाम्, अल्पवीर्यत्वादिति स्यात्कस्यचिद्बुद्धिः, तदुत्थापनायाह तदिदं प्रकृतं ब्रह्म यत्सर्वभूतानुप्रविष्टं दृष्टिक्रियादिलिङ्गम्, एतर्ह्येतस्मिन्नपि वर्तमानकाले यः कश्चिद्व्यावृत्तबाह्यौत्सुक्य आत्मानमेवैवं वेदऽअहं ब्रह्मास्मिऽइति अपोह्योपाधिजनितभ्रान्तिविज्ञानाध्यारोपितान्विशेषान् संसारधर्मानागन्धितमनन्तरमबाह्यं ब्रह्येवाहमस्मि केवलमितिसोऽविद्याकृतासर्वत्वनिवृत्तेर्ब्रहाविझानादिदं सर्व भवति ।
न हि महावीर्येषु वामढेवादिषु हीनवीर्येषु वा वार्तमानिकेषु मनुष्येषुब्रह्यणो विशेषस्तद्विझानस्य वास्ति ।
वार्तमानिकेषु पुरुषेषु तु बह्यविद्याफले अनैकान्तिकता शड्क्यत इत्यत आहतस्य ह ब्रह्यविझातुर्यथोत्केन विधिना देवा महावीर्याश्च नापि अभूतत्य.अभवनाय ब्रह्यासर्वमावस्य, नेशते न पर्याप्ताः, किमुतान्ये ।
ब्रह्याविद्याफलप्राप्यौ विध्नकरणे देवादय ईशत इति का शड्का? इत्युच्यतेदेवादीन्प्रति ऋणवत्त्वान्मर्त्यानाम् ।
"ब्रह्यचर्येण ऋपिभ्यो यझेन देवभ्यः प्रजया पितृभ्यः"इति हि जायमानमेवर्णवन्तं पुरुषं दर्शयति श्रुतिः ।
पशुनिदर्शनाच्च"अथोऽयं वा"(बृ.उ. १ । ४ । १६) इत्याद्लोकश्रुतेश्चात्मनो वृत्तिपरिपिपालयिषयाधमर्णानिवं देवाः परतन्त्रान्मनुष्यान्प्रत्यमृतत्वप्राप्तिं प्रति विध्नं कुर्युरिति न्याय्यैवैषा शड्का ।
स्वपशून्स्वशरीराणीव च रक्षन्ति देवाः ।
महत्तरां हि वृत्तिं कर्माधीनां दर्शय्ष्यति देवादीनां बहुपशुसमतयैकैकस्य पुरुषस्य ।
"तस्मान्देपां तन्न प्रियं यदेतन्मनुध्या विद्याः"(१ । ४ । १०) इति हहि वक्ष्यति ।
"यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति"(१ । ४ । १६) इति च ।
ब्रह्याविश्वे पारार्थ्यनिवृत्तेर्न स्वलोकत्वं पशुत्वञ्चेत्यमिप्रायोऽप्रियारिष्टिवचनाभ्यामवगम्यते ।
तस्माद्ब्रह्याविदो ब्रह्यविद्याफलर्प्राप्त प्रति कुर्युरेव विध्नं देवाः, प्रभाववन्तश्च हि ते ।
नन्वेवं सत्यन्यास्वपि कर्मफलप्राप्तिपुदेवानां विध्नकरणंपेयपानसमम् ।
हन्त तर्ह्याविस्रम्भोऽभ्युदयनिःश्रेयससाधना. नुष्ठानेषु ।
तथेश्वरस्याचिन्तय. शक्तित्वाद्विध्नकरणे प्रभुत्वम् ।
तथा कालकर्ममन्त्रौषधितपसाम् ।
एषां हि फलसम्पत्तिविपत्तिहेतुत्वं शास्त्रे लोके च प्रसिद्वम् ।
अतोऽप्यनाश्वासः शास्त्रार्थानुष्ठाने ।
न॑सर्वपदार्थानां नियतनिमित्तोपादानात्, जगद्वैचित्र्यदर्शनाच्च ।
स्वभावपक्षे च तदुभयानुपपत्तेः ।
ऽसुखदुःखादि फलनिमित्तं कर्मऽइत्येतस्मिन्पक्षे स्थिते वेदस्मृतिन्यायलोकपरिगृहीते, देवेश्वरकालास्तावन्न कर्मफलविपर्यासकर्तारः, कर्मणां काङ्क्षितकारकत्वात् ।
कर्म हि शुभाशुभं पुरुषाणां देवकालेश्वरादिकारकमनपेक्ष्य नात्मानं प्रति लभते, लब्धात्मकमपि फलदानेऽसमर्थम्, क्रियाया हि कारकाद्यनेकनिमित्तोपादानस्वाभाव्यात् ।
तस्मात्क्रियानुगुणा हि देवेश्वरादय इति कर्मसु तावन्न फलप्राप्तिं प्रत्यविस्रम्भः ।
कर्मणामप्येषां वशानिगत्वं क्वचित्, स्वसामर्थ्यस्याप्रणोद्यत्वात् ।
कर्मकालदैवद्रव्यादिस्वभावानां गुणप्रधानभावस्त्वनियतो दुर्विज्ञेयश्चेति तत्कृतो मोहो लोकस्य कर्मैव कारकं नान्यत्फलप्राप्ताविति केचितं॑दैवमेवेत्यपरे॑काल इत्येके॑द्रव्यादिस्वभाव इति केचित्॑सर्व एते संहता एवेत्यपरे ।
तत्र कर्मणः प्राधान्यमङ्गीकृत्य वेदस्मृतिवादाः "पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन"(बृ.उ.३ । २ । १३) इत्यादयः ।
यद्यप्येषां स्वविषये कस्यचित्प्राधान्योद्भव इतरेषां तत्कालीनप्राधान्यशक्तिस्तम्भः, तथापि न कर्मणः फलप्राप्तिं प्रत्यनैकान्तिकत्वम्, शास्त्रन्यायनिर्धारितत्वात्कर्मप्राधान्यस्य ।
न॑विद्यापगममात्रत्वाद्ब्रह्मप्राप्तिफलस्य यदुक्तं ब्रह्मप्राप्तिफलं प्रति देवा विघ्नं कुर्युरिति, तत्र न देवानां विघ्नकरणे सामर्थ्यम्॑कस्मात्? विद्याकालानन्तरितत्वाद्ब्रह्मप्राप्तिफलस्य ।
कथम्? यथा लोके द्रष्टुश्चक्षुष आलोकेन संयोगो यत्कालः, तत्काल एव रूपाभिव्यक्तिः ।
एवमात्मविषयं विज्ञानं यत्कालम्, तत्काल एव तद्विषयज्ञानतिरोभावः स्यात् ।
अतो ब्रह्मविद्यायां सत्यामविद्याकार्यानुपपत्तेः प्रदीप इव तमःकार्यस्य, केन कस्य विघ्नं कुर्युर्देवाः यत्रात्मत्वमेव देवानां ब्रह्मविदः ।
तदेतदाह आत्मा स्वरूपं ध्येयं यत्तत्सर्वशास्त्रैर्विज्ञेयं ब्रह्म, हि यस्मात्, एषां देवानाम्, सब्रह्मविद्भवति ।
ब्रह्मविद्यासमकालमेवाविद्यामात्रव्यवधानापगमाच्छुक्तिकाया इव रजताभासायाः शुक्तिकात्वमित्यवोचाम ।
अतो नात्मनः प्रतिकूलत्वे देवानां प्रयत्नः सम्भवति ।
यस्य ह्यनात्मभूतं फलं देशकालनिमित्तान्तरितम्, तत्रानात्मविषये सफलः प्रयत्नो विघ्नाचरणाय देवानाम् ।
न त्विह विद्यासमकाल आत्मभूते देशकालनिमित्तानन्तरिते, अवसरानुपपत्तेः ।
एवं तर्हि विद्याप्रत्ययसन्तत्यभावाद्विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादन्त्य एवात्मप्रत्ययोऽविद्यानिवर्तको न तु पूर्व इति ।
न॑प्रथमेनानैकान्तिकत्वात् ।
यदि हि प्रथम आत्मविषयः प्रत्ययोऽविद्यां न निवर्तयति, तथान्त्योऽपि, तुल्यविषयत्वात् ।
एवं तर्हि सन्ततोऽविद्यानिवर्तको न विच्छिन्न इति ।
न, जीवनादौ सति सन्तत्यनुपपत्तेः ।
न हि जीवनादिहेतुके प्रत्यये सति विद्याप्रत्ययसन्ततिरुपपद्यते, विरोधात् ।
अथ जीवनादिप्रत्ययतिरस्करणेनैव आमरणान्ताद्विद्यासन्ततिरिति चेन्न, प्रत्ययेयत्तासमन्तानानवधारणाच्छास्त्रार्थानवधारणदोषात् ।
इयतां प्रत्ययानां सन्ततिरविद्याया निवर्तिकेत्यनवधारणाच्छास्त्रार्थो नावध्रियेत, तच्चानिष्टम् ।
सन्ततिमात्रत्वेऽवधारित एवेति चेत्? न, आद्यन्तयोरविशेषात् ।
प्रथमा विद्याप्रत्ययसन्ततिर्मरणकालान्ता वेति विशेषाभावात्, आद्यन्तयोः प्रत्ययोः पूर्वोक्तौ दोषौ प्रसज्येयाताम् ।
एवं तर्ह्यनिवर्तक एवेति चेत्? न,"तस्मात्तत्सर्वमभवत्"(बृ.उ.१ । ४ । १०) इति श्रुतेः ।
"भिद्यते हृदयग्रन्थिः"(मु.उ.२ । २ । ८) "तत्र को मोहः" (ईशा.७) इत्यादि श्रुतिभ्यश्च ।
अर्थवाद इति चेत्? न, सर्वशाखोपनिषदः ।
प्रत्यक्षप्रमितात्मविषयत्वादस्त्येवेति चेत्? न, उक्तपरिहारत्वात् ।
अविद्याशोकमोहभयादिदोषनिवृत्तेः प्रत्यक्षत्वादिति चोक्तः परिहारः ।
तस्मादाद्योऽन्त्यः सन्ततोऽसन्ततश्चेत्यचोद्यमेतत् ।
अविद्यादिदोषनिवृत्तिफलावसानत्वाद्विधायाः ।
य एवाविद्यादिदोषनिवृत्तिफलकृत्प्रत्यय आद्योऽन्त्यः सन्ततोऽसन्ततो वा स एव विद्येत्यभ्युपगमान्न चोद्यस्यावतारगन्धोऽप्यस्ति ।
यत्तूक्तं विपरीतप्रत्ययतत्कार्ययोश्च दर्शनादिति, न॑तच्छेषस्थितिहेतुत्वात् ।
येन कर्मणा शरीरमारब्धं तद्विपरीतप्रत्ययदोषनिमित्तत्वात्तस्य तथाभूतस्यैव विपरीतप्रत्ययदोषसंयुक्तस्य फलदाने सावर्थ्यमिति, यावच्छरीरपातः तावत्फलोपभोगाङ्गतया विपरीतप्रत्ययं रागादिदोषं च तावन्मात्रमाक्षिपत्येव, मुक्तेषुवत्प्रवृत्तफलत्वात्तद्धेतुकस्य कर्मणः ।
तेन न तस्य निवर्तुका विद्या, अविरोधात् ।
किं तर्हि स्वाश्रयादेव स्वात्मविरोध्यविद्याकार्यं यदुत्पित्सु तन्निरुणाद्धि, अनागतत्वात् ।
अतीतं हीतरत् ।
किञ्च, न च विपरीतप्रत्ययो विद्यावत उत्पद्यते, निर्विषयत्वात् ।
अनवधृतविषयविशेषस्वरूपं हि सामान्यमात्रमाश्रित्य विपरीतप्रत्यय उत्पद्यमान उत्पद्यते, यथा शुक्तिकायां रजतमिति ।
स च विषयविशेषावधारणवतोऽशेषविपरीतप्रत्ययाश्रयस्योपमर्दितत्वान्न पूर्ववत्सम्भवति, शुक्तिकादौ सम्यक्प्रत्ययात्पत्तौ पुनग्दर्शनात् ।
क्वचित्तु विद्यायाः पूर्वोत्पन्नविपरीतप्रत्ययजनितसंस्कारेभ्यो विपरीतप्रत्ययावभासाः स्मृतयो जायमानाविपरीतप्रत्ययभ्रान्तिमकस्मात्कुर्वन्ति॑यथा विज्ञातदिग्विभागस्याप्यकस्माद्दिग्विपर्ययविभ्रमः ।
सम्यग्ज्ञानवतोऽपि चेत्पूर्ववद्विपरीतप्रत्यय उत्पद्यते, सम्यग्ज्ञानेऽप्यविस्रम्भाच्छास्त्रार्थविज्ञानादौ प्रवृत्तिरसमञ्जसा स्यात्सर्वं च प्रमाणमप्रमाणं सम्पद्येत प्रमाणाप्रमाणयोर्विशेषानुपपत्तेः ।
एतेनऽसम्यग्ज्ञानानन्तरमेव शरीरपाताभावः कस्मात्?ऽइत्येतत्परिहृतम् ।
ज्ञानोत्पत्तेः प्रागूर्ध्वं तत्कालजन्मान्तरसञ्चितानां विनाशः सिद्धो भवति फलप्राप्तिविघ्ननिषेधश्रुतेरेव ।
"क्षीयन्ते चास्य कर्माणि"(मु.उ.२ । २ । ८) "तस्य तावदेव चिरम्"(छा.उ.६ । १४ । २) "सर्वे पाप्मानः प्रद्रूयन्ते"(छा.उ.५ । २४ । ३) "तं विदित्वा न लिप्यते कर्मणा पापकेन"(बृ.उ.४ । ४ । २३) "एतमु हैवैते न तरतः"(४ । ४ । २२) "नैनं कृताकृते तपतः"(४ । ४ । २२) "एतं ह वाव न तपति"(तै.उ.२ । ९ । १) "न बिभेति कुतश्चन"(तै.उ.२ । ९ । १) इत्यादि श्रुतिभ्यश्च ।
"ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते"(गीता ४ । ३७) इत्यादिस्मृतिभ्यश्च ।
यत्तु ऋणैः प्रतिबध्यत इति, तन्न, अविद्यावद्विपयत्वात् ।
अविद्यावान्हि ऋणी, तस्य कर्तृत्वाद्युपपत्तेः ।
ऽयत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येत्ऽ(४ । ३ । ३१) इति हि वक्ष्यति ।
अनन्यत्सद्वस्त्वात्माख्यं यत्राविद्यायां सत्यामन्यदिवस्यात्तिमिरकृतद्वितीयचन्द्रवत्, तत्राविद्याकृतानेककारकापेक्षं दर्शनादिकर्म तत्कृतं फलं च दर्शयति,"तत्रान्योऽन्यत्पश्येत्"इत्यादिना ।
यत्र पुनर्विद्यायां सत्यामविद्याकृतानेकत्वभ्रमप्रहाणम्,"तत्केन कं पश्येत्"(४ । ५ । १५) इति कर्मासम्भवं दर्शयति ।
तस्मादविद्यावद्विषय एव ऋणित्वम्, कर्मसम्भवात्॑नेतरत्र ।
एतच्चोत्तरत्र व्याचिख्यासिष्यमाणैरेववाक्यैर्विस्तरेण प्रदर्शयिष्यामः ।
तद्यथेहैव तावत् अथ यः कश्चिदब्रह्मविद् अन्यामात्मानो व्यतिरिक्तां यां काञ्चिद्देवताम्, उपास्ते स्तुतिनमस्कारयागबल्युपहारप्रणिधानादिना उप आस्ते अन्योऽसावनात्मा मत्तः पृथक्, अन्योऽहमस्म्यधिकृतः, मयास्मै ऋणिवत्प्रतिकर्तव्यम् इत्येवम्प्रत्ययो वेद विजानाति तत्त्वम् ।
न स केवलमेवंभूतोऽविद्वानविद्यादोषवानेव, किं तर्हि? यथा पशुर्गवादिर्वाहनदोहनाद्युपकारैरुपभुज्यते, एवं स इज्याद्यनेकोपकारैरुपभोक्तव्यत्वादेकैकेन देवादीनाम्, अतः पशुरिव सर्वार्थेषु कर्मस्वधिकृत इत्यर्थः ।
एतस्य ह्यविदुषो वर्णाश्रमादिप्रविभागवतोऽधिकृतस्य कर्मणो विद्यासहितस्य केवलस्य च शास्त्रोक्तस्य कार्यं मनुष्यत्वादिको ब्रह्मान्त उत्कर्षः ।
शास्त्रोक्तविपरीतस्य च स्वाभाविकस्य कार्यं मनुष्यत्वादिक एव स्थावरान्तोऽपकर्षः ।
यथा चैतत्तथा"अथ त्रयो वाव लोकाः" (१ । ५ । १६) इत्यादिना वक्ष्यामः कृत्स्नेनैवाध्यायशेषेण ।
विद्ययाश्च कार्यं सर्वात्मभावापत्तिरित्येतत्सङ्क्षेपतो दर्शितम् ।
सर्वाहीयमुपनिषद्विद्याविद्याविभागप्रदर्शनेनैवोपक्षीणा ।
यथा चैषोर्ऽथः कृत्स्नस्य शास्त्रस्य तथा प्रदर्शयिष्यामः ।
यस्मादेवम्, तस्मादविद्यावन्तं पुरुषं प्रति देवा ईशत एव विघ्नं कर्तुमनुग्रहं चेत्येतद्दर्शयति यथा ह वै लोके बहवो गोअश्वादयः पशवो मनुष्यं स्वामिनमात्मनोऽधिष्ठातारं भुञ्ज्युः पालयेयुरेवं बहुपशुस्थानीय एकैकोऽविद्वान्पुरुषो देवान् देवानिति पित्राद्युपलक्षणार्थम् भुनक्ति पालयतीति ।
इम इन्द्रादयोऽन्ये मत्तो ममेशितारो भृत्य इवाहमेषां स्तुतिनमस्कारेज्यादिनाराधनं कृत्वाभ्युदयं निःश्रेयसं च तत्प्रत्तंफलं प्राप्स्यामीत्येवमभिसन्धिः ।
तत्र लोके बहुपशुमतो यथैकस्मिन्नेव पशावादीयमाने व्याघ्रादिनापहियमाणे महदप्रियं भवति, तथा बहुपशुस्थानीय एकस्मिन्पुरुषे पशुभावाद्व्युत्तिष्ठत्यप्रियं भवतीति, किं चित्रं देवानां बहुपश्वपहरण इव कुटुंबिनः ।
तस्मादेषां देवानां तन्न प्रियम्, किं तत्? यदेतद्ब्रह्मात्मतत्त्वं कथञ्चन मनुष्या विद्युर्विजानीयुः तथा च स्मरणमनुगीतासु भगवतो व्यासस्य "क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्यैरुपरि वर्तनम् ॥
" अतो देवाः पशूनिव व्याघ्रादिभ्यो ब्रह्मविज्ञानाद्विघ्नमाचिकीर्षन्ति॑स्मदुपभोग्यत्वान्माव्युत्तिष्ठेयुरिति ।
यं तु मुमोचयिषन्ति तं श्रद्धादिभिर्योक्ष्यन्ति विपरीतमश्रद्धादिभिः ।
तस्मान्मुमुक्षुर्देवाराधनपरः श्रद्धाभक्तिपरः प्रणयोऽप्रमादी स्याद्विद्याप्राप्तिं अति विद्यां प्रतीति वा काक्वैतत्प्रदर्शितं भवति देवाप्रियवाक्येन ॥१०॥




_______________________________________________________________________

१,४.११

ब्रह्म वा इदमग्र आसीदेकमेव ।
तदेकं सन्न व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत क्षत्रं, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति ।
तस्मात्क्षत्रात्परं नास्ति ।
तस्माद्ब्राह्मणः क्षत्रियं अधस्तादुपास्ते राजसूये ।
क्षत्र एव तद्यशो दधाति ।
सैषा क्षत्रस्य योनिर्यद्ब्रह्म ।
तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् ।
य उ एनं हिनस्ति स्वां स योनिमृच्छति ।
स पापीयान् भवति यथा श्रेयांसं हिंसित्वा ॥ _१,४.११ ॥

__________



शा.भा._१,४.११ सूत्रितः शास्रार्थः"आत्मेत्येवोपासीत"इति ।
तस्य च व्याचिख्यासितस्यसार्थवादेन"तदाहुर्यद्ब्रह्मविद्यया" इत्यादिना सम्बन्धप्रयोजने अभिहिते ।
अविद्यायाश्चसंसाराधिकारकारणत्वमुक्तम्"अथ योऽन्यां देवतामुपास्ते"इत्यादिना ।
तत्राविद्वानृणी पशवद्देवादिकर्मकर्तव्यतया परतन्त्र इत्युक्तम् ।
किं पुनर्देवादिकर्मव्यत्वेनिमित्तम्? वर्णा आश्रमाश्च ।
तत्र के वर्णाः? इत्यतैदमारभ्यते ।
यन्निमित्तसम्बद्धेषु कर्मस्वयं परतन्त्र एवाधिकृतः संसारीति ।
एतस्यैवार्थस्य प्रदर्शनायाग्निसर्गानन्तरमिन्द्रादिसर्गो नोक्तः ।
अग्नेस्तु सर्गः प्रजापतेः सृष्टिपरिपूरणाय प्रदर्शितः ।
अयं च इन्द्रादिसर्गस्तत्रैव द्रष्टव्यस्तच्छेषत्वात् ।
इह तु स एवामिधीयतेऽविदुषः कर्माधिकारहेतुप्रदर्शनाय ब्रह्म वा इदमग्र आसीद्यदग्निं सृष्ट्वा अग्निरूपापन्नं ब्रह्म ।
ब्राह्मणजात्यमिमानाद्ब्रह्मेत्यभिधीयते ।
वै इदं क्षत्रादिज्जातं ब्रह्मैवाभिन्नमासीदेकमेव ।
नासीत्क्षत्रादिभेदः ।
तद्ब्रह्मैकं क्षत्रादिपरिपालयित्रादिशून्यं सदं न व्यभवत्न विभूतवत्, कर्मणे नालमासीदित्यर्थः ।
ततस्तद्ब्रह्मऽब्राह्मणोऽस्मि ममेत्थं कर्तव्यम्ऽइति ब्राह्मणजातिनिमित्तं कर्म चिकीर्षुआत्मनः कर्मकर्तृत्वविभूत्यै श्रेयोरूपं प्रशस्तरूपमत्यसृजतातिशयेनासृजतसृष्टवत् ।
किं पुनस्तद्यत्सृष्टम्? क्षत्रं क्षत्रियजातिः, तद्व्यक्तिभेदेन प्रदर्शयतियान्येतानि प्रसिद्धानि लोके देवत्रा देवेषु क्षत्राणीति ।
जात्याख्यायां पक्षे बहुवचनस्मरणाद्व्यक्तिबहुत्वाद्वा भेदोपचारेण बहुवचनम् ।
कानि पुनस्तानि? इत्याहतत्राभिपिक्ता एव विशेषतो निर्दिश्यन्तेइन्द्रो देवानां राजा, वरुणो यादसाम्, सोमो ब्राह्मणानाम्, रुद्रः पशूनाम्, पर्जन्यो विद्युदादीनाम्, यमः पितॄणाम्, मृत्युरोगादीनाम्, ईशानोभासामित्येवमादीनि देवेषुक्षत्राणि ।
तदनु, इन्द्रादिक्षत्रदेवताधिष्ठितानि पुरूरवःप्रभृतीनि सृष्टान्येव द्रष्टव्यानि ।
तदर्थ एव हि देवक्षत्रसर्गः प्रस्तुतः ।
यस्माद्ब्रह्मणातिशयेन सृष्टं क्षत्रं तस्मात्क्षत्रात्परं नास्ति ब्राह्मणजातेरपि नियन्सृ ।
तस्माद्ब्राह्मणः कारणभातोऽपि क्षत्रियस्य क्षत्रियमधस्ताद्व्यवस्थितः सन्नुपरिस्थितमुपास्ते ।
क्क? राजसूये ।
क्षत्र एव तदात्मीयं यशः ख्यातिरूपं ब्रह्मेति दधाति स्थापयति ।
राजसूयाभिषिक्तेनासन्द्यां स्थितेन राज्ञा आमन्त्रितो ब्रह्मन्निति ऋत्विक्पुनस्तं प्रत्याह"त्वं राजन्ब्रह्मासि"इति ।
तदेतदभिधीयते "क्षत्र एव तद्यशो दधाति"इति ।
सैषा प्रकृता क्षत्रस्य योनिरेव यद्ब्रह्म ।
तस्माद्यद्यति राजा परमतां राजसूयाभिषेकगुणं गच्छत्याप्नोति ब्रह्मैव ब्राह्मणजातिमेध, अन्ततोऽन्ते कर्मपरिसमाप्तावुपनिक्षयत्याश्रयति स्वां योनिम्, पुरोहितं पुरो निधत्त इत्यर्थः ।
यस्तु पुनर्बलाभिमानात्स्वां योनिं ब्राह्मणजातिं ब्राह्मणं य उ एनं हिनस्ति हिंसति न्यग्भावेन पश्यति, स्वामात्मायामेव स योनिमृच्छतिस्वं प्रसवं विच्छिनत्ति विनाशयतिस्वं प्रसवं विच्छिनत्ति विनाशयति ।
स एतत्कृत्वा पापीयान्पापतरो भवति ।
पूर्वमपि क्षत्रियः पाप एव क्रूरत्वादात्मप्रसवहिंसया सुतराम् ।
यथा लोके श्रेयांसं प्रशस्ततरं हिंसित्वा परिभूय पापतरो भवति तद्वत् ॥११॥



क्षत्रे सृष्टेऽपि




_______________________________________________________________________

१,४.१२

स नैव व्यभवत् ।
स विशमसृजत ।
यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति ॥ _१,४.१२ ॥

__________



शा.भा._१,४.१२ स नैव व्यभवत्, कर्मणे ब्रह्म तथा नव्यभवत्, वित्तोपार्जयितुरभावात् ।
स विशमसृजत कर्मसाधनवित्तोपार्जनाय ।
कः पुनरसौ विट्? यान्येतानि देवजातानिस्वार्थे निष्ठा, य एते देवजातिभेदा इत्यर्थः॑गणशो गणं गणम्, आख्यायन्ते कथ्यन्ते ।
गणप्राया हि विशः, प्रायेण संहता हि वित्तोपार्जने समर्थाः न एकैकशः ।
वसवः अष्टसङ्ख्यो गणः, तथैकादश रुद्राः, द्वादशादित्याः, विश्वेदेवास्रयोदश विश्वाया अपत्यानि, सर्वे वा देवाः, मरुतः सप्त सप्त गणाः ॥१२॥





_______________________________________________________________________

१,४.१३

स नैव व्यभवत् ।
स शौद्रं वर्णमसृजत पूषणम् ।
इयं वै पूषा ।
इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ _१,४.१३ ॥

__________



शा.भा._१,४.१३ स परिचारकभावात्पुनरपि नैव व्यभवत्, स शौद्रं वर्णमसृजत शूद्र एव शौद्रः, स्वार्थेऽणि वृद्धिः ।
कः पुनरसौ शौद्रो वर्णो यः सृष्टः? पूषणं पुण्यतीति पूषा कः पुनरसौ पूषा? इति विशेषतस्तन्निर्दिशति इयं पृथिवी पूपा ।
स्वयमेव निर्वचनमाह इयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥१३॥




_______________________________________________________________________

१,४.१४

स नैव व्यभवत् ।
तच्छ्रेयो रूपमत्यसृजत धर्मम् ।
तदेतत्क्षत्रस्य क्षत्रं यद्धर्मः ।
तस्माद्धर्मात्परं नास्ति ।
अथो अबलीयान् बलीयांसमाशंसते धर्मेण ।
यथा राज्ञैवम् ।
यो वै स धर्मः सत्यं वै तत् ।
तस्मात्सत्यं वदन्तमाहुर्धर्मं वदतीति ।
धर्मं वा वदन्तं सत्यं वदतीति ।
एतद्ध्येवैतदुभयं भवति ॥ _१,४.१४ ॥

__________


शा.भा._१,४.१४ स चतुरः सृष्ट्वापि वर्णान्नैव व्यभवत्, उग्रत्वात्क्षत्रस्यानियताशङ्कया ।
तच्छ्रेयोरूपमत्यसृजत, किं तत्? धर्मम्॑तदेतच्छ्रेयोरूपं सृष्टं क्षत्रस्य क्षत्रं क्षत्रस्यापि नियन्तृ, उग्रादप्युग्रम्, यद्धर्मो यो धर्मः॑तस्मात्क्षत्रस्यापि नियन्तृत्वाद्धर्मात्परं नास्ति॑तेन हि नियम्यन्ते सर्वे ।
तत्कथम्? इत्युच्यते अथो अप्यबलीयान्दुर्बलतरो बलीयांसमात्मनो बलवत्तरमप्याशंसते कामयते जेतुं धर्मेण बलेन॑यथा लोके राज्ञा सर्वबलवत्तमेनापि कुटुम्बिकः॑ एवम्॑तस्मात्सिद्धं धर्मस्य सर्वबलवत्तरत्वात्सर्वनियन्तृत्वम् ।
यो वै स धर्मो व्यवहारलक्षणो लौकिकैर्व्यवह्रियमाणः सत्यं वै तत्॑सत्यमिति यथास्त्रार्थता॑स एवानुष्ठीयमानो धर्मनामा भवति, शास्त्रार्थत्वेन ज्ञायमानस्तु सत्यं भवति ।
यस्मादेवं तस्मात्सत्यं यथाशास्त्रं वदन्तं व्यवहारकाल आहुः समीपस्था उभयविवेकज्ञाः धर्म वदतीति, प्रसिद्धं लौकिकं न्यायं वदतीति ।
तथा विपर्ययेण धर्म वा लौकिकं व्यवहारं वदन्तमाहुः सत्यं वदति, शास्त्रादनपेतं वदतीति ।
एतद्यदुक्तमुभयं ज्ञायमानमनुष्ठीयमानं चैतद्धर्म एव भवति ।
तस्मात्स धर्मो ज्ञानानुष्टानलक्षणः शास्त्रज्ञाननितरांश्च सर्वानेव नियमयति ।
तस्मात्स क्षत्रस्यापि क्षत्रम् ।
अतस्तदभिमानोऽविद्वांस्तद्विशेषानुष्ठानाय ब्रह्मक्षत्रविट्शूद्रनिमित्तविशेषमभिमन्यते ।
तानि च निसर्गत एव कर्माधिकारनिमित्तानि ॥१४॥




_______________________________________________________________________

१,४.१५

तदेतद्ब्रह्म क्षत्रं विट्शूद्रः ।
तदग्निनैव देवेषु ब्रह्माभवद्ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः ।
तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु ।
एताभ्यां हि रूपाभ्यां ब्रह्माभवत् ।
अथ यो ह वा अस्माल्लोकात्स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाननूक्तोऽन्यद्वा कर्माकृतम् ।
यदि ह वा अप्यनेवंविन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एव ।
आत्मानमेव लोकमुपासीत ।
स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयते ।
अस्माद्ध्येवात्मनो यद्यत्कामयते तत्तत्सृजते ॥ _१,४.१५ ॥

__________



शा.भा._१,४.१५ तदेतच्चातुर्वर्ण्यं सृष्टम् ब्रह्म क्षत्रं विट्शूद्र इति॑ुत्तरार्थं उपसंहारः यत्तत्स्रष्टृ ब्रह्म, तदग्निनैवनान्येन रूपेण देवेषु ब्रह्म, ब्राह्मणजातिरभवत् ।
ब्राह्मणा ब्राह्मणस्वरूपेण मनुष्येषु ब्रह्माभवत्, इतरेषु वर्णेषु विकारान्तरं प्राप्य, क्षत्रियेण क्षत्रियोऽभवदिन्द्रादिदेवताधिष्ठितः, वैश्येन वैश्यः, शूद्रेण शूद्रः ।
यस्मात्क्षत्रादिषु विकारापन्नम्, अग्नौ ब्राह्मण ए चाविकृतं स्रष्टृ ब्रह्म, तस्मादग्नावेव देवेषु देवानां मध्ये लोकं कर्मफलम्, इच्छन्त्यग्निसम्बद्धं कर्म कृत्वेत्यर्थः ।
तदर्थमेव हि तद्ब्रह्म कर्माधिकरणत्वेनाग्निरूपेण व्यवस्थितम् ।
तस्मात्तस्मिन्नग्नौ कर्म कृत्वा तत्फलं प्रार्थयन्त इत्येतदुपपन्नम् ।
ब्रह्मणे मनुष्येषु मनुष्याणां पुनर्मध्ये कर्मफलेच्छायां नाग्न्यादिनिमित्तक्रियापेक्षा, किं तर्हि? जातिमात्रस्वरूपप्रतिलम्भेनैव पुरुषार्थसिद्धिः ।
यत्र नु देवाधीना पुरुषार्थसिद्धिः, तत्रैवाग्न्यादिसम्बद्धक्रियापेक्षा ।
स्मृतेश्च "जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥
" (मनु.२ । ८७) इति ।
पारिव्राज्यदर्शनाच्च ।
तस्माद्ब्रह्मणत्व एव मनुष्येषु लोकं कर्मफलमिच्छन्ति ।
यस्मादेताभ्यां हि ब्राह्मणाग्निरूपाभ्यां कर्मकर्त्रधिकरणरूपाभ्यां यत्स्रष्टृ ब्रह्म साक्षादभवत् ।
अत्र तु परमात्मलोकमग्नौ ब्राह्मणे चेच्छन्तीति केचित् ।
तदसत्, अविद्याधिकारे कर्माधिकारार्थं वर्णविभागस्य प्रस्तुतत्वात्, परेण च विशेषणात्॑यदि ह्यत्र लोकशब्देन पर एवात्मोच्येत, परेण विशेषणमनर्थकं स्यात्ऽस्वं लोकमदृष्ट्वाऽइति ।
स्वलोकव्यतिरिक्तश्चेदग्न्यधीनतया प्रार्थ्यमानः प्रकृतो लोकः, ततः स्वम्, इति युक्तं विशेषणम्, प्रकृतपरलोकनिवृत्त्यर्थत्वात्॑स्वत्वेन चाव्यभिचारात्परमात्मलोकस्य, अविद्याकृतानां च स्वत्वव्यभिचारात् ।
ब्रवीति च कर्मकृतानां व्यभिचारम्ऽक्षीयत एवऽइति ।
ब्रह्मणा सृष्टा वर्णाः कर्मार्थम्॑तच्च कर्म धर्माख्यं सर्वानेव कर्तव्यतया नियन्तृ पुरुषार्थसाधनं व ।
तस्मात्तेनैव चेत्कर्मणा स्वो लोकः परमात्माख्योऽविदितोऽपि प्राप्यते, किं तस्यैव पदनीयत्वेन क्रियत इत्यत आहअथेति पूर्वपक्षविनिवृत्त्यर्थः॑यः कश्चित्, ह वै अस्मात्संसारिकामकर्महेतुकादग्न्यधीनकर्माभिमानतया वा ब्राह्मणजातिमात्रकर्माभिमानतया वा आगन्तुकादस्वभूताल्लोकात्, स्वं लोकमात्माख्यमात्मत्वेनाव्यभिचारित्वात्, अदृष्टाऽअहं ब्रह्मास्मिऽइति, प्रैति म्रियते॑स यद्यपि स्वो लोकः, अविदितोऽविद्यया व्यवहितोऽस्व इवाज्ञातः एनम् सङ्ख्यापूरण इव लौकिक आत्मानं न भुनक्ति न पालयति शोकमोहभयादिदोषापनयेन ।
यथा च लोके वेदोऽननुक्तोऽनधीतः कर्माद्यवबोधकत्वेन न भुनक्ति, अन्यद्वा लौकिकं कृष्यादि कर्माकृतं स्वात्मनानभिव्यञ्जितमात्मीयफलप्रदानेन न भुनक्ति, एवमात्मा स्वो लोकः स्वेनैव नित्यात्मस्वरूपेणानभिव्यञ्जितोऽविद्यादि प्रहाणेन न भुनक्त्येव ।
ननु किं स्वलोकदर्शननिमित्तपरिपालनेन? कर्मणः फलप्राप्तिध्रौव्यात्, इष्टफलनिमित्तस्य च कर्मणो बाहुल्यात्, तन्निमित्तं पालनमक्षयं भविष्यति ।
तन्न, कृतस्य क्षयवत्त्वात्॑ित्येतदाह यदिह वै संसारेऽद्भुतवत्कश्चिन्महात्मापि, अनेवंवित्स्वं लोकं यथोक्तेन विधिना अविद्वान्, महद्बहु अश्वमेधादि पुण्यं कर्म इष्टफलमेव नैरन्तर्येण करोति,ऽअनेनैवानन्त्यं मम भविष्यतिऽइति, तत्कर्म हास्याविद्यावतोऽविद्याजनितकामहेतुत्वात्स्वप्नदर्शनविभ्रमोद्भूतविभूतिवदन्ततोऽन्ते फलोपभोगस्य क्षीयत एव ।
तत्कारणयोरविद्याकामयोश्चलत्वात्, कृतक्षयघ्नौव्योपपत्तिः ।
तस्मान्न पुण्यकर्मफलपालनानन्त्याशा अस्त्येव ।
अत आत्मानमेव स्वं लोकम्ऽआत्मानम्ऽइतिऽस्वं लोकम्ऽइत्यस्मिन्नर्थे, स्वं लोकमिति प्रकृतत्वात्, इह च स्वशब्दस्याप्रयोगात् उपासीत ।
स य आत्मानमेव लोकमुपास्ते, तस्य किम्? इत्युच्यते न हास्य कर्म क्षीयते॑कर्माभावादेव, इति नित्यानुवादः ।
यथाविदुषः कर्मक्षयलक्षणं संसारदुःखं सन्ततमेव,न तथा तदस्य विद्यत इत्यर्थः ।
"मिथिलायां प्रदीप्तायां न मे दह्यति किञ्चन"इति यद्वत् ।
स्वात्मलोकोपासकस्य विदुषो विद्यासंयोगात्कर्मैव न क्षीयत इत्यपरे वर्षयन्ति ।
लोकशब्दार्थं च कर्मसमवायिनं द्विधा परिकल्पयन्ति किल एको व्याकृतावस्था कर्माश्रयो लोको हैरण्यगर्भाख्यः, तं कर्मसमवायिनं लोकं व्याकृतं परिच्छिन्नं य उपास्ते, तस्य किल परिच्छिन्नं य उपास्ते, तस्य किल परिच्छिन्नकर्मात्मदर्शिनः कर्म क्षीयते ।
तमेव कर्मसमवायिनं लोकमव्याकृतावस्थं कारणरूपमापाद्य यस्तूपास्ते, तस्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य यस्तूपास्ते, तस्यापरिच्छिन्नकर्मात्मदर्शित्वात्तस्य कर्म न क्षीयत इति ।
भवतीयं शोभना कल्पना न तु श्रौती ।
स्वलोकशब्देन प्रकृतस्य परमात्मनोऽभिहितत्वात् ।
स्वं लोकमिति प्रस्तुत्य स्वशब्दं विहायात्मशब्दप्रक्षेपेण पुनस्तस्यैव प्रतिनिर्देशादात्मानमेव लोकमुपासीतेति ।
तत्र कर्मसमवायिलोककल्पनाया अनवसर एव ।
परेण च केवलविद्याविषयेण विशेषणात्"किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः"(बृ.उ.४ । ४ । २२) इथि ।
पुत्रकर्मापरविद्याकृतेभ्यो हि लोकेभ्यो विशिनष्टिऽअयमात्मा नो लोकःऽइति ।
"न हास्य केनचन कर्मणा लोको मीयत एषोऽस्य परमो लोकः"इति च ।
तैः सविशेषणैरस्यैकवाक्यता युक्ता, इहापि स्वं लोकमिति विशेषणदर्शनात् ।
अस्मात्कामयत इत्ययुक्तमिति चेत् इह स्वो लोकः परमात्मा, तदुपासनात्स एव भवतीति स्थिते, यद्यत्कामयते तत्तदस्मादात्मनः सृजत इथि तदात्मप्राप्तिव्यतिरेकेण फलवचनमयुक्तमिति चेत्, न॑स्वलोकोपासनस्तुतिपरत्वत्स्वस्मादेव लोकात्सर्वमिष्टं सम्पद्यत इत्यर्थः॑नान्यदतः प्रार्थनीयमाप्तकामत्वात्,"आत्मतः प्राण आत्मत आशा" (छा.उ.७ । २३ । १) इत्यादि श्रुत्यन्तरे यथा ।
सर्वात्मभावप्रदर्शनार्थो वा पूर्ववत् ।
यदि हि पर एवात्मा सम्पद्यते तदा युक्तः अस्माद्ध्येवात्मनः इत्यात्मशब्दप्रयोगः, स्वस्मादेव प्रकृतादात्मनो लोकादित्येवमर्थः ।
अन्यथाऽअव्याकृतावस्थात्कर्मणो लोकात्ऽइति सविशेषणमवक्ष्यात्प्रकृतपरमात्मलोकव्यावृत्तये व्याकृतावस्थाव्यावृत्तये च ।
न ह्यस्मिन्प्रकृते विशेषितेऽश्रुतान्तरालावस्थाप्रतिपत्तुं शक्यते ॥१५॥



अथो अयं वा आत्मा ।
अत्राविद्वान् वर्णाश्रमाद्यभिमानो धर्मेण नियम्यमानो देवादिकर्मकर्तव्यतया पशुवत्परतन्त्र इत्युक्तम् ।
कानि पुनस्तानि कर्माणि यत्कर्तव्यतया पशुवत्परतन्त्रो भवति? के वा ते देवादयो येषां कर्मभिः पशुवदुपकरोति? इति तदुभयं प्रपञ्चयति



_______________________________________________________________________

१,४.१६

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः ।
स यज्जुहोति यद्यजते तेन देवानां लोकः ।
अथ यदनुब्रूते तेन ऋषीणाम् ।
अथ यत्पितृभ्यो निपृणाति यत्प्रजामिच्छते तेन पितॄणाम् ।
अथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणाम् ।
अथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनाम् ।
यदस्य गृहेषु श्वापदा वयांस्या पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः ।
यथा ह वै स्वाय लोकायारिष्टिमिच्छेत् ।
एवं हैवंविदे सर्वदा सर्वाणि भूतान्यरिष्टिमिच्छन्ति ।
तद्वा एतद्विदितं मीमांसितम् ॥ _१,४.१६ ॥

__________



शा.भा._१,४.१६ अथो इत्ययं वाक्योपन्यासार्थः ।
अयं यः प्रकृतो गृही कर्माधिकृतोऽविद्वाञ्छरीरेन्द्रियसङ्घातादिविशिष्टः पिण्ड आत्मेत्युच्यते॑सर्वेषां वर्णाश्रमादिविहितैः कर्मभिरुपकारित्वात् ।
कैः पुनः कर्मविशेषैरुपकुर्वन् केषां भूतविशेषाणां लोकः? इत्युच्यते स गृही यज्जुहोति यद्यजते, यागो देवतामुद्दिश्य स्वत्वपरित्यागः, स एव परित्यागः, स एव आसेचनाधिको होमः तेन होमयागलक्षणेन कर्मणावश्यकर्तव्यत्वेन देवानां पशुवत्परतन्त्रत्वेन प्रतिबद्ध इति लोकः ।
अथ यदनुब्रूते स्वाध्यायमधीतेऽहरहस्तेन ऋषीणां लोकः ।
अथ यत्पितृभ्यो निपृणाति प्रयच्छति पिण्डोदकादि, यच्च प्रजामिच्छति प्रजार्थमुद्यमं करोति इच्छा चोत्पत्त्युपलक्षणार्था प्रजां चोत्पादयतीत्यर्थः, तेन कर्मणावश्यकर्तव्यत्वेन पितृणां भोग्यत्वेन परतन्त्रो लोकः ।
अथ यन्मनुष्यान्वासयते गृहे, यच्च तेभ्यो वसद्भ्योऽवसद्भ्यो वा अर्थिभ्योऽशनं ददाति, तेन मनुष्याणाम्॑थ यत्पशुभ्यस्तृणोदकं विन्दति लम्भयति, तेन पशूनाम्॑यदस्य गृहेषु श्वापदा वयांसि च पिपीलिकाभिः सह कणबलिभाण्डक्षालनाद्युपजीवन्ति, तेन तेषां लोकः ।
यस्मादयमेतानि कर्माणि कुर्वन्नुपकरोति देवादिभ्यः, तस्माद्यथा ह वै लोके स्वाप्य लोकाय स्वस्मै देहायारिष्टमविनाशं स्वत्वभावाप्रच्युतिमिच्छेत्स्वत्वभावप्रच्युतिभयात्पोषणरक्षणादिभिः सर्वतः परिपालयेत्, एवं हैवंविदेऽसर्वभूतभोग्योऽहमनेन प्रकारेण मया अवश्यमृणिवत्प्रतिकर्तव्यम्ऽइत्येवमात्मानं परिकल्पितवते सर्वाणि भूतानि देवादीनि यथोक्तानि अरिष्टिमविनाशमिच्छन्ति स्वत्वाप्रच्युत्यै सर्वतः संरक्षन्ति कुटुम्बिन इव पशून् "तस्मादेषां तन्न प्रियम्"इत्युक्तम् ।
तद्वा एतत्तदेतद्यथोक्तानां कर्मणामृणवदवश्यकर्तव्यत्वं पञ्चमहायज्ञप्रकरणे विदितं कर्तव्यतया मीमांसितं विचारितं चावदानप्रकरणे ॥१६॥


ब्रह्म विद्वांश्चेत्तस्मात्पशुभावात्कर्तव्यताबन्धनरूपात्प्रतिमुच्यते, केनायं कारितः कर्मवन्धनाधिकारेऽवश इव प्रवर्तते, न पुनस्तद्विमोक्ष्णोपाये विद्याधिकार इति ननूक्तं देवा रक्षन्तीति ।
बाढम्, कर्माधिकारस्वगोचरारूढानेव तेऽपि रक्षन्ति, अन्यथाकृताभ्यागमकृतनाशप्रसङ्गात् ।
न तु सामान्यं पुरुषमात्रं विशिष्टाधिकारानारूढम्॑तस्माद्भवितव्यं तेन, येन प्रेरितोऽवश एव बहिर्मुखो भवति स्वस्माल्लोकात् ।
नन्वविद्यासा, अविद्यावानिहि बहिर्मुखीभूतः प्रवर्तते ।
सापि नैव प्रवर्तिका॑वस्तुस्वरूपावर्णात्मिका हि सा॑प्रवर्तकबीजत्वं तु प्रतिपद्यतेऽन्धत्वमिव गर्तादिपतनप्रवृत्तिहेतुः ।
एवं तर्ह्युच्यतां किं तद्यत्प्रवृत्तिहेतुरिति? तदिहाभिधीयते एषणा कामः सः ,ऽस्वाभाविक्यामविद्यायां वर्तमाना बालाः पराचः कामाननुयन्तिऽइति काठकश्रुतौ, स्मृतौ च "काम एष क्रोध एषः"(गीता ३ । ३७) इत्यादि, मानवे च सर्वा प्रवृत्तिः कामहेतुक्येवेति ।
स एषोर्ऽथः सविस्तरः प्रदर्श्यत इह आ अध्यायपरिसमाप्तेः




_______________________________________________________________________

१,४.१७

आत्मैवेदमग्र आसीदेक एव ।
सोऽकामयत जाया मे स्यादथ प्रजायेय ।
अथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
एतावान् वै कामः ।
नेच्छंश्चनातो भूयो विन्देत् ।
तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति ।
स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते ।
तस्यो कृत्स्नता ।
मन एवास्यात्मा ।
वाग्जाया ।
प्राणः प्रजा ।
चक्षुर्मानुषं वित्तम् ।
चक्षुषा हि तद्विन्दते ।
श्रोत्रं दैवम् ।
श्रोत्रेण हि तच्छृणोति ।
आत्मैवास्य कर्म ।
आत्मना हि कर्म करोति ।
स एष पाङ्क्तो यज्ञः ।
पाङ्क्तः पशुः ।
पाङ्क्तः पुरुषः ।
पाङ्क्तमिदं सर्वं यदिदं किञ्च ।
तदिदं सर्वमाप्नोति य एवं वेद ॥ _१,४.१७ ॥

__________



शा.भा._१,४.१७ आत्मैवेदमग्र आसीत् ।
आत्मैव स्वाभाविकोऽविद्वान्कार्यकरणसङ्घातलक्षणो वर्णी, अग्रे प्राग्दारसम्बन्धात्,आत्मेत्यभिधीयते॑तस्मादात्मनः पृथग्भूतं काम्यमानं जायादिभेदरूपं नासीत्॑स एवैक आसीत् जायाद्येषणाबीजभूता विद्यावानेक एवासीत् ।
स्वाभाविक्या स्वात्मनि कर्त्रादिकारकक्रियाफलात्मकताध्यारोपलक्षणया अविद्यावासनया वासितः सोऽकामयत कामितवान् ।
कथम्? जाया कर्माधिकारहेतुभूता मे मम कर्तुः स्यात्॑तया विनाहमनधिकृत एव कर्मणि॑तः कर्माधिकारसम्पत्तये भवेज्जाया॑थाहं प्रजायेय प्रजारूपेणाहमेवोत्पद्येय ।
अथ वित्तं मे स्यात्कर्मसाधनं गवादिलक्षणमथाहमभ्युदयनिःश्रेयससाधनं कर्म कुर्वीय॑येनाहमनृणी भूत्वा देवादीनां लोकान् प्राप्नुयाम्, तत्कर्म कुर्वीय॑काम्यानि च पुत्रवित्तस्वर्गादिसाधनानि ।
एतावान्वै काम एतावद्विषयपरिच्छिन्न इत्यर्थः ।
एतावानेव हि कामयितव्यो विषयो यदुत जायापुत्रवित्तकर्माणि साधनलक्षणैषणा॑लोकाश्च त्रयो मनुष्यलोकः पितृलोको देवलोक इति फलभूताः साधनैषणा, तस्मात्सा एकैवैषणा या लोकैषणा ।
सैकैव सत्येषणा साधनापेक्षेति द्विधा॑तोऽवधारयिष्यति"उभे ह्येते एषणे एव"३ । ५ । १) इति ।
फलार्थत्वात्सर्वारम्भस्य लोकैषणार्थप्राप्ता उक्तैवेति ।
एतावान्वा एतावानेव काम इत्यवध्रियते ।
भोजनेऽभिहिते तृप्तिर्न हि पृथगभिधेया, तदर्थत्वाद्भोजनस्य ।
ते एते एषणे साध्यसाधनलक्षणे कामः, येन प्रयुक्तोऽविद्वानवश एव कोशकारवदात्मानं वेष्टयति कर्ममार्ग एवात्मानं प्रणिदधद्बहिर्मुखीभूतो न स्वं लोकं प्रतिजानाति ।
तथा च तैत्तिरीयके "अग्निमुग्धो हैव धूमतान्तः स्वं लोकं न प्रतिजानाति"इति ।
कथं पुनरेतावत्त्वमवधार्यते कामानाम्? अनन्तत्वात् ।
अनन्ता हि कामाः, इत्येतदाशङ्क्य हेतुमाह यस्माद्न इच्छन् च न इच्छन्नपि, अतोऽस्मात्फलसाधनलक्षणाद्भूयोऽधिकारं न विन्देन्न लभेत ।
न हि लोके फलसाधनव्यतिरिक्तं दृष्टमदृष्टं वा लब्धव्यमस्ति ।
लब्धव्यविषयो हि कामः, तस्य चैतद्व्यतिरेकेणाभावात्युक्तं वक्तुम्ऽएतावान्वै कामःऽइति ।
एतदुक्तं भवति दृष्टार्थमदृष्टार्थ वा साध्यसाधनलक्षणमविद्यावत्पुरुषाधिकारविषयमेषणाद्वयं कामः, अतोऽस्माद्विदुषा व्युत्थातव्यमिति ।
यस्मादेवमविद्वानात्मा कामो पूर्वं कामयामास, तथा पूर्वतरोऽपि, एषा लोकस्थितिः प्रजापतेश्चैवमेष सर्गं आसीत् ।
सोऽबिभेदविद्यया, ततः कामप्रयुक्त एकाक्यरममाणोऽस्त्युपघाताय स्त्रियमैच्छत्, तां समभवत्ततः सर्गोऽयमासीदिति ह्युक्तम् ।
तस्मात्तत्सृष्टौ एतर्ह्येतस्मिन्नपि काल एकाकी सन्प्राग्दारक्रियातः कामयते जाया मे स्यात्, अथ प्रजायेय अथ वित्तं मे स्यात्, अथ कर्म कुर्वीय इत्युक्तार्थं वाक्यम् ।
स एवं कामयमानः सम्पादयंश्च जायादीन्यावत्स एतेषां यथोक्तानां जायादीनामेकैकमपि न प्राप्नोति, अकृत्स्नोऽसम्पूर्णोऽहमित्येवं तावदात्मानं मन्यते ।
पारिशेष्यात्समस्तानेवैतान्सम्पादयति यदा, तदा तस्य कृत्स्नता ।
यदा तु न शक्नोति कृत्स्नतां सम्पादयितुं तदा अस्य कृत्स्नत्वसम्पादनायाह तस्यो तस्याकृत्स्नत्वभिमानिनः कृत्स्नता इयमेवं भवति कथम्? अयं कार्यकरणसङ्घातः प्रविभज्यते॑तत्र मनोऽनुवृत्ति हि इतरत्सर्वं कार्यकरणज्ञातमिति मनः प्रधानत्वाजात्मेवात्मा ।
यथा जायादीनां कुटुम्बपतिरात्मेव तदनुकारित्वाञ्जायादि चतुष्ट्यस्य॑ेवमिहापि मन आत्मा परिकल्पते कृत्स्नतायै ।
तथा वाग्जाया, मनोऽनुवृत्तित्वसामान्याद्वाचः ।
वागिति शब्दश्चोदनादिलक्षणः, मनसा श्रोत्रद्वारेण गृह्यतेऽवधार्यते प्रसृज्यते च, इति मनसो जायेव वाक् ।
ताभ्यां च वाङ्मनसाभ्यां जायापतिस्थानीयाभ्यां प्रसूयते प्राणः कर्मार्थम्, इति प्राणः प्रजेव ।
तत्र प्राणचेष्टादिलक्षणं कर्म चक्षुर्मानुषं वित्तम् ।
तद्द्विविधं वित्तं मानुषमितरच्च॑तो विशिनष्टीतरवित्तनिवृत्त्यर्थ मानुषमिति ।
गवादि हि मनुष्यसम्बन्धि वित्तं चक्षुर्ग्राह्यं कर्मसाधनम्॑तस्मात्तत्स्थानीयम्, तेन सम्बन्धाच्चक्षुर्ग्राह्यं वित्तम्॑चक्षुषा हि यस्मात्तन्मानुषं वित्तं विन्दते गवाद्युपलभत इत्यर्थः ।
किं पुनरितरद्वित्तम्? श्रोत्रं दैवं देवविषयत्वाद्विज्ञानस्य ।
विज्ञानं दैवं वित्तम्॑तदिह श्रोत्रमेव सम्पत्तिविषयम् ।
कस्मात्? श्रोत्रेण हि यस्मात्तद्दैवं वित्तं विज्ञानं शृणोति॑तः श्रोत्रमेव तदिति ।
किं पुनरेतैरात्मादिवित्तान्तैरिह निर्वर्त्य कर्म? इत्युच्यते आत्मैव आत्मेति शरीरमुच्यते ।
कथं पुनरात्मा कर्मस्थानीयः? अस्य कर्महेतुत्वात् ।
कथं कर्महेतुत्वम्? आत्मना हि शरीरेण यतः कर्म करोति ।
तस्याकृत्स्नत्वाभिमानिन एवं कृत्स्नता सम्पन्ना यथा बाह्या जायादिलक्षणा एवम् ।
तस्मात्स एष पाङ्क्तः पञ्चभिर्निर्वृत्तः पाङ्क्तो यज्ञो दर्शनमात्रनिर्वृत्तोऽकर्मिणोऽपि ।
कथं पुनरस्य पञ्चत्वसम्पत्तिमात्रेण यज्ञत्वम्? उच्यते यस्माद्बाह्योऽपि यज्ञः पशुपुरुषसाध्यः, स च पशुः पुरुषश्च पाङ्क्त एव यथोक्तमनआदिपञ्चत्वयोगात् ।
तदाह पाङ्क्तः पशुगर्वादिः, पाङ्क्तः पुरुषः पशुत्वेऽप्यधिकृतत्वेनास्य विशेषः पुरुषस्येति पृथक्पुरुषग्रहणम् ।
किं बहुना? पाङ्क्तमिदं सर्वं कर्मसाधनं फलं च, यदिदं किञ्च यत्किञ्चिदिदं सर्वम् ।
एवं पाङ्क्तं यज्ञमात्मानं यः सम्पादयत्स तदिदं सर्वं जगदात्मत्वेनाप्नोति य एवं वेद ॥१७॥

इति प्रथमाध्याये चतुर्थं सृष्ट्यादिसर्वात्मताब्राह्मणम् ॥४॥

पञ्चमं सप्तान्नब्रह्मणम्[सम्पाद्यताम्]

यत्सप्तान्नानि मेधया ।
अविद्या प्रस्तुता, तत्राविद्वानन्यां देवतामुपास्तेऽअन्योऽसावन्योऽहमस्मिऽइति ।
स वर्णाश्रमाभिमानः कर्मकर्तव्यतया नियतो जुहोत्यादिकर्मभिः कामप्रयुक्तो देवादीनामुपकुर्वन्सर्वेषां भूतानां लोक इत्युक्तम् ।
यथा च स्वकर्मभिरेकैकेन सर्वैर्भूतैरसौ लोको भोज्यत्वेन सृष्टः, एवमसावपि जुहोत्यादिपाङ्क्तकर्मभिः सर्वाणि भूतानि सर्वं च जगदात्मभोज्यत्वेनासृजत् ।
एवमेकैकः स्वकर्मविद्यानुरूप्येण सर्वस्य जगतो भोक्ता भोज्यं च, सर्वस्य सर्वः कर्ता कार्यं चेत्यर्थः ।
एतदेव च विद्याप्रकरणे मधुविद्यायां वक्ष्यामःऽसर्वं सर्वस्य कार्यं मधुऽइत्यात्मैकत्वविज्ञानार्थम् ।
यदसौ जुहोतीत्यादिना पाङ्क्तेन काम्येन कर्मणा आत्मभोज्यत्वेन जगदसृजत विज्ञानेन च, तज्जगत्सर्वं सप्तधा प्रविभज्यमानं कार्यकारणत्वेन सप्तान्नान्युच्यन्ते, भोज्यत्वात्॑तेनासौ पिता तेषामन्नानाम् ।
एतेषामन्नानां सविनियोगानां सूत्रभूताः सङ्क्षेपतः प्रकाशकत्वादिमे मन्त्राः ।




_______________________________________________________________________

१,५.१

यत्सप्तान्नानि मेधया तपसाजनयत्पिता ।
एकमस्य साधारणं द्वे देवानभाजयत् ।
त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत् ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदा ।
यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ।
स देवानपिगच्छति स ऊऋजमुपजीवति ।
इति श्लोकाः ॥ _१,५.१ ॥

__________



शा.भा._१,५.१ यत्सप्तान्नानि, यदजनयदिति क्रियाविशेषणम्॑मेधया प्रज्ञया विज्ञानेन तपसा च कर्मणा॑ज्ञानकर्मणी एव हि मेधातपः शब्दवाच्ये, तयोः प्रकृतत्वात्॑नेतरे मेधातपसी, अप्रकरणात्॑पाङ्क्तं हि कर्म जायादिसाधनम्॑ऽय एवं वेदऽइति चानन्तरमेव ज्ञानं प्रकृतम्॑तस्मान्न प्रसिद्धयोर्मेधातपसोराशङ्का कार्या॑तो यानि सप्तान्नानि ज्ञानकर्मभ्यां जनितवान्पिता तानि प्रकाशयिष्याम इति वाक्यशेषः ॥१॥

तत्र मन्त्राणामर्थस्तिरोहितत्वात्त्प्रायेण दुर्विज्ञेयो भवतीति तदर्थव्याख्यानाय ब्राह्मणं प्रवर्तते




_______________________________________________________________________

१,५.२

यत्सप्तान्नानि मेधया तपसाजनयत्पितेति ।
मेधया हि तपसाजनयत्पितैकमस्य साधारणमिति ।
इदमेवास्य तत्साधारणमन्नं यदिदमद्यते ।
स य एतदुपास्ते न स पाप्मनो व्यावर्तते ।
मिश्रं ह्येतत् ।
द्वे देवानभाजयदिति ।
हुतं च प्रहुतं च ।
तस्माद्देवेभ्यो जुह्वति च प्र च जुह्वति ।
अथो आहुर्दर्शपूर्णमासाविति ।
तस्मान्नेष्टियाजुकः स्यात् ।
पशुभ्य एकं प्रायच्छदिति ।
तत्पयः ।
पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति ।
तस्मात्कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति ।
अथ वत्सं जातमाहुस्तृणादिति ।
तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति ।
पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न ।
तद्यदिदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति ।
न तथा विद्यात् ।
यदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवं विद्वान् ।
सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति ।
कस्मात्तानि न क्षीयन्ते अद्यमानानि सर्वदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं पुनः पुनर्जनयते ।
यो वैतामक्षितिं वेदेति ।
पुरुषो वा अक्षितिः ।
स हीदमन्नं धियाधिया जनयते कर्मभिः ।
यद्धैतन्न कुर्यात्क्षीयेत ह ।
सोऽन्नमत्ति प्रतीकेनेति ।
मुखं प्रतीकं मुखेनेत्येतत् ।
स देवानपिगच्छति स ऊर्जमुपजीवतीति प्रशंसा ॥ _१,५.२ ॥

__________



शा.भा._१,५.२ तत्रऽयत्सप्तान्नानि मेधया तपसाजनयत्पिताऽइत्यस्य कोर्ऽथ उच्यते? इथि हि शब्देनैव व्याचष्टे प्रसिद्धार्थावद्योतकेन ।
प्रसिद्धो ह्यस्य मन्त्रस्यार्थ इत्यर्थः ।
यदजनयदिति चानुवादस्वरूपेण मन्त्रेण प्रसिद्धार्थतैव प्रकाशिता ।
अतो ब्राह्मणमविशङ्क्यैवाहऽमेधया हि तपसाजनयत्पिताऽइति? ननु कथं प्रसिद्धातास्यार्थस्य? इत्युच्यते जायादिकर्मान्तानां लोकफलसाधनानां पितृत्वं तावत्प्रत्यक्षमेव, अभिहितं चऽजाया मे स्यात्ऽइत्यादिना ।
तत्र च दैवं वित्तं विद्या कर्म पुत्रश्च फलभूतानां लोकानां साधनं स्रष्टृत्वं प्रतीत्यभिहितम्, वक्ष्यमाणं च प्रसिद्धमेव॑तस्माद्युक्तं वक्तुं मेधयेत्यादि ।
एषणा हि फलविषया प्रसिद्धैव च लोके ।
एषणा च जायादीत्युक्तम्ऽएतावान्वै कामःऽइत्यनेन ।
ब्रह्मविद्याविषये च सर्वैकत्वात्कामानुपपत्तेः ।
एतेनाशास्त्रीयप्रज्ञातपोभ्यां स्वाभाविकाभ्यां जगत्स्रष्टृत्वमुक्तमेव भवति॑स्थावरान्तस्य चानिष्टफलस्य कर्मविज्ञाननिमित्तत्वात् ।
विवक्षितस्तु शास्त्रीय एव साध्यसाधनभावो ब्रह्मविद्याविधित्सया तद्वैराग्यस्य विवक्षितत्वात् ।
सर्वो ह्यं व्यक्ताव्यक्तलक्षणः संसारोऽसुद्धोऽनित्यः साध्यसाधनरूपो दुःखोऽविद्याविषय इत्येतस्माद्विरक्तस्य ब्रह्मविद्या आरब्धव्येति ।
तत्रान्नानां विभागेन विनियोग उच्यतेऽएकमस्य साधारण्मऽइति मन्त्रपदम्, तस्य व्याख्यानम्ऽइदमेवास्य तस्माधारणमन्नम्ऽइत्युत्त्कम् ।
अस्य भोत्त्कृसमुदायस्य, किं तत्? यदिदमद्यते भुज्यते सर्वैः प्राणिभिरहन्यहनि, तस्माधारणं सर्वभोक्त्रर्थमकल्पयत्पिता सृष्ट्वान्नम् ।
स य एतत्साधारणं सर्वप्राणभृत्स्थितिकरं भुज्यमानमन्नमुपास्ते तत्परो भवतीत्यर्थः उपासनं हि नाम तात्पर्य दृष्टं लोकेऽगुरुमुपास्तेऽऽराजानमुपास्तेऽइत्यादौतस्माच्छरीरस्थित्यर्थन्नोपभोगप्रधानोनादृष्टार्थकर्मप्रधान इत्यर्थः॑स एवं भूतो न पाप्मनोऽधर्मद्वयावर्ततेन विमुच्यत इत्येतत् ।
तथा च मन्त्रवर्णः"मोघमन्नंविन्दते"इत्यादिः ।
स्मृतिरपि"नात्मार्थ पाचयेदन्नम्" "अप्रदायैभ्यो यो भूङ्क्ते स्तेन एव सः" "अन्नादे भ्रूणहा मार्ष्टि" इत्यादिः ।
कस्मात्पुनः पाप्मनो न व्यावर्तते? मिश्रं ह्येतस्मर्सेषां हि स्वं तदप्रविभक्तं यत्प्राणिभिर्भुज्यते ।
सर्वभोज्यत्पादेव यो मुखे प्रक्षिप्यमाणोऽपि ग्रासः परस्य पीडाकरो दृश्यते,ऽममेदं स्यात्ऽइति हि सर्वेषां तत्राशा प्रतिवद्वा ।
तस्मान्न परमपीडय्त्वा ग्रसितुमपि शक्यते ।
"दुष्कृतं हि मनुष्याणाम्"इत्यादिस्मरणाच्च ।
गृहिणा वैश्वदेवाख्यमन्नं यदहन्यहनि निरूप्यत इति केचित्, तत्र, सर्वभोत्तकृसाधारणत्वं वैश्वदेवाख्यस्यान्नस्य न सर्वप्राणभृद्भुज्यमानान्नवत्प्रत्यक्षम्, नापिऽयदिदमद्यतेऽइति तद्विषयं वचनमनुकूलम् ।
सर्वप्राणभृद्भपज्यमानांनान्नान्तःपातित्वाच्च वैश्वदेवाख्यस्य युत्तकं श्वचाण्डालाद्याधस्यान्नस्य ग्रहणम्, वैश्वदेवव्यतिरेकेणापि श्वचाण्डालाद्याधाश्वदर्शनात्, तत्र युत्कम्,ऽयदिदमद्यतेऽइति वचनम् ।
यदि हि तन्न गृह्येत, साधारणशब्देन पित्रासृष्टत्वाविनियुत्त्कत्वे तस्य प्रसज्येयाताम् ।
इष्यते हि तत्सृष्टवं तद्विनियुत्त्कत्वं य सर्वस्यान्नजातस्य ।
न च वैश्वदेवाख्यं शास्त्रोक्तं कर्म कुर्वतः पाप्मनोऽविनिवृत्तिर्युक्ता, न च तस्य प्रतिषेधोऽस्ति, न च मत्स्यबन्धनादिकर्मवत्स्वभावजुगुप्सितमेतत्, शिष्टनिर्वर्त्यत्वात्, अकरणे च प्रत्यवायश्रवणात् ।
इतरत्र च प्रत्यवायोपपत्तेः"अहमन्नमन्नमदन्तमा३ङ्मि"(तै.उ.३ । १० । ६) इति मन्त्रवर्णात् ।
द्वे देवानभाजयतिति मन्त्रपदम्, ये द्वे अन्ने सृष्ट्वा देवानभाजयत् ।
के ते द्वे? इत्युच्यते हुतं च प्रहुतं च ।
हुतमित्यग्नौ हवनम्, प्रहुतं हुत्वा बलिहरणम् ।
यस्माद्द्वे एते अन्ने हुतप्रहुते देवानभाजयत्पिता ।
तस्मादेतर्ह्यपि गृहिणः काले द्वेभ्यो(? ) जुह्वति देवेभ्य इदमन्नमस्माभिर्दीयमानमिति मन्वाना जुह्वति, प्रजुह्वति च हुत्वा बलिहरणं च कुर्वत इत्यर्थः ।
अथो अप्यन्य आहुर्द्वे अन्ने पित्रा देवेभ्यः प्रत्ते न हुतप्रहुते, किं तर्हि? दर्शपूर्णमासाविति ।
द्वित्वश्रवणाविशेषादत्यन्तप्रसिद्धत्वाच्च हुतप्रहुते इति प्रथमः पक्षः ।
यद्यपि द्वित्वं हुतप्रहुतयोः सम्भवति, तथापि श्रौतयोरेव तु दर्शपूर्णमासयोर्देवान्नत्वं प्रसिद्धतरम्, मन्त्र प्रकाशितत्वात् ।
गुणप्रधानप्राप्तौ च प्रधाने प्रथमतरा अवगतिः, दर्शपूर्णमासयोश्च प्राधान्यं हुतप्रहुतापेक्षया ।
तस्मात्तयोरेव ग्रहणं युक्तम्ऽद्वे देवानभाजयत्ऽइति ।
यस्माद्देवातमेते पित्रा प्रकॢप्ते दर्शपूर्णमासाख्ये अन्ने, तस्मात्तयोर्देवार्थत्वाविघाताय नेष्टियाजुक इष्टियजनशीलः, इष्टिशब्देन किल काम्या इष्टयः, शातपथीयं प्रसिद्धिः, ताच्छील्यप्रत्ययप्रयोगात्काम्येष्टियजनप्रधाने न स्यादित्यर्थः ।
पशुभ्य एकं प्रायच्छदिति यत्पशुभ्य एकं पुनस्तदन्नम्? तत्पयः ।
कथं पुनरवगम्यते पशवोऽस्यान्नस्य स्वामिनः? इत्यत आह पयो ह्यग्रे प्रथमं यस्मान्मनुष्याश्च पशवश्च पयः एवोपजीवन्तीति ।
उचितं हिऽतपो तदन्नम्ऽअन्यथा कथं तदेवाग्रे नियमेनोपजीवेयुः? कथमग्रे तदेवोपजीवन्ति? इत्युच्यते मनुष्याश्च पशवश्च यस्मात्तेनैवान्नेन वर्तन्तेऽद्यत्वेऽपि, यथा पित्रा आदौ विनियोगः कृतस्तथा ।
तस्मात्कुमारं बालं जातं घृतं वा त्रैवर्णिका जातकर्मणि जातरूपसंयुक्तं प्रतिलेहयन्ति पश्चात्पाययन्ति ।
यथासम्भवमन्येषां स्तनमेवाग्रे धापयन्ति मनुष्येभ्योऽन्येषां पशूनाम् ।
अथ वत्सं जातमाहुःऽकियत्प्रमाणो वत्सःऽ? इत्येवं पृष्टा सन्तोऽतृणाद इति ।
नाद्यापि तृणमत्ति, अतीव बालः, पयसैवाद्यापि वर्तत इत्यर्थः ।
यच्चाग्रे जातकर्मादौ घृतमुपजीवन्ति, यच्चेतरे पय एव, तत्सर्वथापि पय एवोपजीवन्ति॑घृतस्यापि पयोविकारत्वात्पयस्त्वमेव कस्मात्पुनः सप्तमं सत्पश्वन्नं चतुर्थत्वेन व्याख्यायते? कर्मसाधनत्वात् ।
कर्म हि पयःसाधनाश्रयं अग्निहोत्रादि ।
तच्च कर्म साधनं वित्तसाध्यं वक्ष्यमाणस्यान्नत्रयस्य साध्यस्य, यथा दर्शपूर्णमासौ पूर्वोक्तावन्ने ।
अतः कर्मपक्षत्वात्कर्मणा सह पिण्डीकृत्योपदेशः ।
साधनत्वाविशेषादर्थसम्बन्धादानन्तर्यमकारणमिति चाव्याख्याने प्रतिपत्तिसौकर्याच्च ।
सुखं हि नैरन्तर्येण व्याख्यातु शक्यन्तेऽन्नानि व्याख्यातानि च सुखं प्रतीयन्ते ।
तस्मिन्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेत्यस्य कोर्ऽथः? इत्युच्यते तस्मिन्पश्वन्ने पयसि सर्वमध्यात्माधिभूताधिदैवलक्षणं कृत्स्नं जगत्प्रतिष्ठितं यच्च प्राणिति प्राणवेष्टावद्यच्च न स्थानरं शैलादि ।
तत्र हि शब्देनैव प्रसिद्धावद्योतकेन व्याख्यातम् ।
कारणत्वापपत्तेः ।
कारणत्वं चाग्निहोत्रादिकर्मसमवायित्वम् ।
अग्निहोत्राद्याहुतिविपरिणामात्मकं च जगत्कृत्स्नमिति श्रुतिस्मृतिवादाः शतशो व्यवस्थिताः ।
अतो युक्तमेव हि शब्देन व्याख्यानम् ।
यत्तद्ब्राह्मणान्तरेष्विदमाहुः संवत्सरं पयसा जुह्वदप पुनर्मृत्युं जयतीति, संवत्सरेण किल त्रीणि षष्टिशतान्याहुतीनां सप्त च शतानि विंशतिश्चेति याजुष्मतीरिष्टका अभिसम्पद्यमानाः संवत्सरस्य चाहोरात्राणि, संवत्सरमग्निं प्रजापतिमाप्नुवन्ति॑ेवं कृत्वा संवत्सरं जुह्वदपजयति पुनः मृत्युम्, इतः प्रेत्य देवेषु सम्भूतः पुनर्न म्रियत इत्यर्थः ।
इत्येवं ब्राह्मणवादा आहुः, न तथा विद्यान्न तथा द्रष्टव्यम्॑यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति, न संवत्सराभ्यासमपेक्षते ।
एवं विद्वान्सन्, यदुक्तम् पयसि हीदं सर्वं प्रतिष्ठितं पय आहुतिविपरिणामात्मकत्वात्सर्वस्येति, तदेकेनैवाह्वा जगदात्मत्वं प्रतिपद्यते॑तदुच्यते अपजयति पुनर्मृत्युं पुनर्मरणम्, सकृन्मृत्वाविद्धाञ्छरीरेण वियुज्य सर्वात्मा भवति न पुनर्मरणाय परिच्छिन्नं शरीरं गृह्णातीत्यर्थः ।
कः पुनर्हेतुः सर्वात्माप्त्या मृत्युमपजयति? इत्युच्यते सर्वं समस्तं हि यस्माद्देवेभ्यः सर्वेभ्योऽन्नाद्यमन्नमेव तदाद्यं च सायंप्रातराहुतिप्रक्षेपेण प्रयच्छति ।
तद्युक्तं सर्वमाहुतिमयमात्मानं कृत्वा सर्वदेवान्नरूपेण सर्वैर्देवैरेकात्मभावं गत्वा सर्वदेवमयो भूत्वा पुनर्न म्रियत इति ।
अथैतदप्युक्तं ब्राह्मणेन "ब्रह्म वै स्वयम्भू तपोऽतप्यत तदैक्षत न वै तपस्यानन्त्यमस्ति, हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति, तत्सर्वेषु भूतेष्वात्मानं हुत्वा भूतानि चात्मनि सर्वेषां भूतानां श्रैष्ठ्यं स्वाराज्यगाधिपत्यं पर्येत्"इति ।
कस्मात्तानि न क्षीयन्तेऽद्यमानानि सर्वदेति ।
यदा पित्रा अन्नानि सृष्ट्वा सप्त पृथक्पृथग्भोक्तृभिरद्यगानानि तन्निमित्तत्वात्तेषां स्थितेः सर्वदा नैरन्तर्येण॑कृतक्षयोपपत्तेश्च युक्तस्तेषां क्षयः ।
न च तानि क्षीयमाणानि, जगतोऽविभ्रष्टरूपेणैवावस्थानदर्शनात् ।
भवितव्यं चाक्षयकारणेन॑तस्मात्कस्मात्पुनस्तानि न क्षीयन्त इति प्रश्नः ।
तस्येदं प्रतिवचनम् ऽपुरिषो वा अक्षितिःऽ ।
यथासौ पूर्वमन्नानां स्रष्टासीत्पिता मेधया जायादिसम्बन्धेन च पाङ्क्तकर्मणा भोक्ता च, तथा येभ्यो दत्तान्यन्नानि तेऽपि तेषामन्नानां भोक्तारोऽपि सन्तः पितर एव, मेधया तपसा च यतो जनयन्ति तान्यन्नानि ।
तदेतदभिधीयते पुरुषो वै योऽन्नानां भोक्ता सोऽक्षितिरक्षयहेतुः ।
कथमस्याक्षितित्वम्? इत्युच्यते स हि यस्मादिदं भुज्यमानं सप्तविधं कार्यकरणलक्षणं क्रियाफलात्मकं पुनः पुनर्भूयो भूयो जनयत उत्पादयति धिया धिया तत्तत्कालभाविन्या तया तया प्रज्ञया, कर्मभिश्च वाङ्मनःकायवेष्टितैः यद्यदि ह यद्येतत्सप्तविधमन्नमुक्तं क्षणमात्रमपि न कुर्यात्प्रज्ञया कर्मभिश्च, ततो विच्छिद्येत भुज्यमानत्वात्सातत्येन क्षीयेत ह ।
तस्माद्यथैवायं पुरुषो भोक्ता अन्नानां नैरन्तर्येण, यथाप्रज्ञे यथाकर्म च करोत्यपि ।
तस्मात्पुरुषोऽक्षितिः सातत्येन कर्तृत्वात् ।
तस्माद्भुज्यमानान्यप्यन्नानि न क्षीयन्त इत्यर्थः ।
अतः प्रज्ञाक्रियालक्षणप्रबन्धारूढः सर्वो लोकः साध्यसाधनलक्षणः क्रियाफलात्मकः संहतानेकप्राणिकर्मवासनासन्तानावष्टब्धत्वात्क्षणिकोऽशुद्धोऽसारो नदीस्रोतः प्रदीपसन्तानकल्पः कदलीस्तम्भवदसारः फेनमायामरीच्यम्भःस्वप्नादिसमस्तदात्मगतदृष्टीनामविकीर्यमाणो नित्यः सारवानिव लक्ष्यते ।
तदेतद्वैराग्यार्थमुच्यते धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयेत हेति विरक्तानां ह्यस्माद्ब्रह्मविद्या आरब्धव्या चतुर्थप्रमुखेणेति ।
यो वैतामक्षितिं वेदेति॑वक्ष्यमाणान्यपि त्रीण्यन्नान्यस्मिन्नवसरे व्यख्यातान्येवेति कृत्वा तेषां याथात्म्यविज्ञानफलमुपसंह्रियते यो वा एतामक्षितिमक्षयहेतुं यथोक्तं वेद, पुरुषो वा अक्षितिः स हीदमन्नं धिया धिया जनयते कर्मभिर्यद्धैतन्न कुर्यात्क्षीयते हेति ।
सोऽन्नमत्ति प्रतीकेनेत्यस्यार्थ उच्यते मुखं मुख्यत्वं प्राधान्यमित्येतत् ।
प्राधान्येवान्नानां पितुः पुरुषस्याक्षितित्वं यो वेद सोऽन्नमत्ति नान्नं प्रति गुणभूतः सन् ।
यथाज्ञो न तथा विद्वानन्नानायात्मभूतः, भोक्तैव भवति, न भोज्यतामापाद्यते ।
स देवानपि गच्छति स ऊर्जमुपजीवति, देवानपि गच्छति देवात्मभावं प्रतिपद्यते, ऊर्जममृतं चोपजीवतीति यदुक्तं सा प्रशंसा, नापूर्वार्थोऽन्योऽस्ति ॥२॥

पाङ्क्तस्य कर्मणः फलभूतानि यानि त्रीण्यन्नाप्युपक्षिप्तानि तानि कार्यत्वाद्विस्तीर्णविषयत्वाच्च पूर्वभ्योऽन्नेभ्यः पृथगुत्कृष्टानि, तेषां व्याख्यानार्थ उत्तरो ग्रन्थ आ ब्राह्मणपरिसमाप्तेः ।




_______________________________________________________________________

१,५.३

त्रीण्यात्मनेऽकुरुतेति
मनो वाचं प्राणं तान्यात्मनेऽकुरुत ।
अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति मनसा ह्येव पश्यति मनसा शृणोति ।
कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्ह्रीर्धीर्भीरित्येतत्सर्वं मन एव ।
तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति ।
यः कश्च शब्दो वागेव सा ।
एषा ह्यन्तं आयत्तैषा हि न ।
प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत्सर्वं प्राण एव ।
एतन्मयो वा अयमात्मा ।
वाङ्मयो मनोमयः प्राणमयः ॥ _१,५.३ ॥

__________



शा.भा._१,५.३ त्रीण्यात्मनेऽकुरुतेति कोऽस्यार्थ इत्युच्यते मनोवाक्प्राणा एतानि त्रीण्यन्नानि, तानि मनो वाचं प्राणं चात्मने आत्मार्थमकुरुत कृतवान् सृष्ट्वा आदौ पिता ।
तेषां संशय इत्यत आह अस्ति तावन्मनः श्रोत्रादिबाह्यकरणव्यतिरिक्तम्, यत एवं प्रसिद्धम् बाह्यकरणविषयात्मसम्बन्धे सत्यप्यभिमुखीभूतं विषयं न गृह्णाति,ऽकिं दृष्टवानसीदं रूपम्ऽ? इत्युक्तो वदतिऽअन्यत्र मे गतं मन आसीत्सोऽहमन्यत्रमना आसं नादर्शम्ऽ ।
तथाऽइदं श्रुतवानसि मदीयं वचःऽइत्युक्तःऽअन्यत्रमना अभूवं नाश्रौषं न श्रुतवानस्मिऽइति ।
तस्माद्यस्यासन्निधौ रूपादिग्रहणसमर्थस्यापि सतश्चक्षुरादेः स्वस्वविषयसम्बन्धे रूपाशब्दादिज्ञानं न भवति, यस्य च भावे भवति, तदन्यदस्ति मनो नामान्तःकरणं सर्वकारणविषययोगि इत्यवगभ्यते ।
तस्मात्सर्वो हि लोकां मनसा ह्येव पश्यति मनसा शृणोति, तद्वयग्रत्वे दर्शनाद्यभावात् ।
अस्तित्वे सिद्वे मनसः स्वरूपार्थमिदमुच्यतेकामः स्त्रीच्यतिकराभीलाषादिः, संकल्पः प्रत्युपस्थितविपयविकल्पनं शुक्लनीलादिभेदेन, विचिकित्सा संशयज्ञानम्, श्रद्वा अदृष्टार्थेषु कर्मस्वास्तिक्यवुद्विदैवयादिपु च, अश्रद्वा तद्विपरीता वुद्विः, धृतिर्धारणं देहाद्यवसादे उत्तम्भन्, अधृतिस्तद्विपर्ययः, ह्रीर्लज्जा, धीः प्रज्ञा, भीर्भय्म, इत्येतदेवमादिकं सर्वं मन एव॑मनसोऽन्तःकरणस्य रूपाण्येतानि ।
मनोऽस्तित्वं प्रत्यन्यच्च कारणमुच्यतेतस्मान्मनो नामास्तयन्तः करणम्, यस्माच्चक्षुषो ह्यगोचरे पृष्ठप्तोऽप्युपस्पृष्ठः केनिचिधस्तस्यायं स्पर्शो जानेरयमिति विवेकेन प्रतिपद्यते ।
यदि विवेककृन्मनो नाम नास्ति तर्हि त्वङ्मात्रेण कुतो विवेकप्रतिपत्तिः स्यात्? तन्मनः ।
अस्ति तावन्मनः, स्वरूपं च तस्यापाधिगतम् ।
त्रीण्यन्नानीह फलभूतानि कर्मणां मनोवाक्प्राणाख्यानि अध्पात्ममधिभूतमधिदैवं च व्याचिख्यासितानि ।
तत्र आध्यात्मिकानां वाङ्मनः प्राणानां मनो व्याख्यातम् ।
अथेदार्नीवाग्वत्त्कव्येत्यारंमः यः कश्च लोके शब्दो धवनिस्ताल्वादिव्यङ्ग्यः प्राणिभिर्वर्णादिलक्षण इतरो वा वादित्रमेधादिनिमित्तः सर्वो ध्वनिर्वागेव सा ।
इदं तावद्वाचः स्वरूपमुत्त्कम्? अथ तस्याः कार्यमुच्यतेएषा वाग्घि यस्मादन्तमभिधेयावसानमभिधेयनिर्णयमायत्तानुगता ।
एषा पुनः स्वयं नाभिधेयवत्प्रकाश्या अभिधेयप्रकाशिकैव्प्रकाशात्मकत्वात्प्रदीपादिवत् ।
न हि प्रदीपादिप्रकाशः प्रकाशान्तरेण प्रकाश्यते, तद्वद्वाक्प्रकाशिकैव स्वयं न प्रकाश्येत्यनवस्थां श्रुतिः परिहरति एषा हि न प्रकाश्या ।
प्रकाशकत्वमेव वाचः कार्यमित्यर्थः ।
अथ प्राण उच्यते प्राणो मुखनासिकासञ्चार्या हृदयवृत्तिःप्रणयनात्प्राणः अपनयनान्मूत्रपुरीषादेरपाननोऽधोवृत्तिरानाभिस्थानः॑व्याननो व्यायमनकर्मा व्यानः प्राणापानयोः सन्धिर्वीर्यवत्कर्महेतुश्च॑ुदान उत्कर्षोर्ध्वगमनादिहेतुरापादतलमस्तकस्थान ऊर्ध्ववृत्तिः, समानः समं नयनाद्भुक्तस्य पीतस्य च कोष्ठस्थानोऽन्नपक्ता, अन इत्येषां वृत्तिविशेषाणां सामान्यभूता सामान्यदेहचेष्टाभिसम्बन्धिनी वृत्तिः, एवं यथोक्तं प्राणादिवृत्तिजातमेतत्सर्वं प्राण एव ।
प्राण इथि वृत्तिमानाध्यात्मिकोऽन उक्तः ।
कर्म चास्य वृत्तिभेदप्रदर्शनेनैव व्याख्यातम् ।
व्याख्यातान्याध्यात्मिकानि मनोवाक्प्राणाख्यान्यन्नानि ।
एतन्मय एतद्विकारः प्राजापत्यैरेतैर्वाङ्मनः प्राणैरारब्धः ।
कोऽसौ? अथं कार्यकरणसङ्घात आत्मा पिण्ड आत्मस्वरूपत्वेनाभिमतोऽविवेकिभिः ।
अविशेषेणैतन्मय इत्युक्तस्य विशेषेण वाङ्मयो मनोमयः प्राणमय इति स्फुटीकरणम् ॥३॥

तेषामेव प्राजापत्यानामन्नानामाधिभौतिको विस्तारोऽभिधीयते




_______________________________________________________________________

१,५.४

त्रयो लोका एत एव ।
वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः ॥ _१,५.४ ॥

__________



शा.भा._१,५.४ त्रय लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः, प्राणोऽसौ लोकः ॥४॥



तथा




_______________________________________________________________________

१,५.५७

त्रयो वेदा एत एव ।
वागेवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः ॥ _१,५.५ ॥


देवा पितरो मनुष्या एत एव ।
वागेव देवा मनः पितरः, प्राणो मानुष्याः ॥ _१,५.६ ॥

पिता माता प्रजैत एव ।
मन एव पिता वाङ्माता प्राणः प्रजा ॥ _१,५.७ ॥

__________



शा.भा._१,५.५७ त्रयो वेदा इत्यादीनि वाक्यानि ऋज्वर्थानि ॥५७॥



_______________________________________________________________________

१,५.८

विज्ञातं विजिज्ञास्यमविज्ञातमेत एव ।
यत्किञ्च विज्ञातं वाचस्तद्रूपम् ।
वाग्घि विज्ञाता ।
वागेनं तद्भूत्वावति ॥ _१,५.८ ॥

__________



शा.भा._१,५.८ विज्ञातं विजिज्ञास्यमविज्ञातमेत एव ।
तत्र विशेषः यत्किञ्च विज्ञातं विस्पष्टं ज्ञातं वाचस्तद्रूपम् ।
तत्र स्वयमेव हेतुनाह वाग्धि विज्ञाता प्रकाशात्मकत्वात् ।
कथमविज्ञाता भवेद्यान्यानपि विज्ञापयदि"वाचैव सम्राड्बन्धुः प्रज्ञायते"(४ । १ । २) इति हि वक्ष्यति ।
वाग्विशेषविद इदं फलमुच्यते वागेवैनं यथोक्तवाग्विभूतिविदं तद्विज्ञातं भूत्वा अवति पालयति, विज्ञातरूपेणेवास्यान्नं भोज्यतां प्रतिपद्यत इत्यर्थः ॥८॥



तथा




_______________________________________________________________________

१,५.९

यत्किञ्च विजिज्ञास्यं मनसस्तद्रूपम् ।
मनो हि विजिज्ञास्यम् ।
मन एनं तद्भूत्वावति ॥ _१,५.९ ॥

__________


शा.भा._१,५.९ यत्किञ्च विजिज्ञास्यम्, विस्पष्टं ज्ञातुमिष्टं विजिज्ञास्यम्, तत्सर्वं मनसो रूपम्॑मनो हि यस्मास्यम् ।
पूर्वमन्मनोविभूतिविदः फलम् मन एनं तद्विजिज्ञास्यं भूत्वा अवति विजिज्ञास्यस्वरूपेणैवान्नत्वमापद्यते ॥९॥



तथा



_______________________________________________________________________

१,५.१०

यत्किञ्चाविज्ञातं प्राणस्य तद्रूपम् ।
प्राणो ह्यविज्ञातः ।
प्राण एनं तद्भूत्वावति ॥ _१,५.१० ॥

__________



शा.भा._१,५.१० यत्किञ्चाविज्ञातं विज्ञानागोचरं न च सन्दिह्यमानम्, प्राणस्य तद्रूपं प्राणो ह्यविज्ञातोऽनिरुक्तश्रुतेः ।
विज्ञातविजिज्ञास्याविज्ञातभेदेन वाङ्मनःप्राणविभागे स्थिते त्रयो लोका इत्यादयो वाचनिका एव ।
सर्वत्र विज्ञातादिरूपदर्शनाद्वचनादेव नियमः स्मर्तव्यः ।
प्राण एनं तद्भूत्वा अवति अविज्ञातरूपेणैवास्य प्राणोऽन्नं भवतीत्यर्थः ।
शिष्यपुत्रादिभिः सन्दिह्यमानाविज्ञातोपकारा अप्याचार्यपित्रादया दृश्यन्ते॑तथा मनःप्राणयोरपि सन्दिह्यमानाविज्ञातयोरन्नत्वोपपत्तिः ॥१०॥



व्याख्यातो वाङ्मनःप्राणानामाधिभौतिको विस्तारः ।
अथायमाधिदैविकार्य आरम्भः




_______________________________________________________________________

१,५.११

तस्यै वाचः पृथिवी शरीरम् ।
ज्योतीरूपमयमग्निः ।
तद्यावत्येव वाक्तावती पृथिवी तावानयमग्निः ॥ _१,५.११ ॥

__________



शा.भा._१,५.११ तस्यै तस्याः वाचः प्रजापतेरन्नत्वेन प्रस्तुतायाः पृथिवी शरीरं ब्रह्म आधारः, ज्योतीरूपं प्रकाशात्मकं करणं चाधेयं प्रकाशः, तदुभयं पृथिव्यग्नि वागेव प्रजापतेः ।
तत्तत्र यावत्येव यावत्परिमाणैव अध्यात्माधिभूतभेदभिन्ना सती वाग्भवति, तत्र सर्वत्र आधारत्वेन पृथिवी व्यवस्थिता, तावत्येव भवति कार्यभूता॑तावानयमग्निः, आधेयः करणरूपो ज्योतिरूपेण पृथिवीमनुप्रविष्टस्तावानेव भवति ।
समानमुत्तरम् ॥११॥




_______________________________________________________________________

१,५.१२

अथैतस्य मनसो द्यौः शरीरम् ।
ज्योतीरूपमसावादित्यः ।
तद्यावदेव मनस्तावती द्यौस्तावानसावादित्यः ।
तौ मिथुनं समैताम् ।
ततः प्राणोऽजायत ।
स इन्द्रः ।
स एषोऽसपत्नः ।
द्वितीयो वै सपत्नः ।
नास्य सपत्नो भवति य एवं वेद ॥ _१,५.१२ ॥

__________



शा.भा._१,५.१२ अथैतस्य प्राजापत्यान्नोक्तस्यैव मनसो द्यौर्द्युलोकः शरीरं कार्यमाधारः, ज्योतीरूपं करणमाधेयोऽसावादित्यः ।
तत्तत्र यावत्परिमाणमेव अध्यात्ममधिभूतं वा मनस्तावती तावद्विस्तारा तावत्परिमाणा मनसो ज्योतीरूपस्य करणस्य आधारत्वेन व्यवस्थिता द्यौः, तावानसावादित्यो ज्योतीरूपं करणमाधेयम् ।
ताववग्न्यादित्यौ वाङ्मनसे आधिदैविके भातापितरौ, मिथुनं मैथुन्यमितरेतरसंसर्ग समैतां समगच्छेताम् ।
ऽमनसा आदित्येन प्रभूतं पित्रा, वाचाग्निना मात्रा प्रकाशितं कर्म करिष्यामिऽइति, अन्तरा रोदस्योः ।
ततस्तयोरेव सङ्गमनात्प्राणो वायुरज्ञायत परिस्पन्दाय कर्मणे ।
यो जातः स इन्द्रः परमेश्वरः, न केवलमिन्द्र एवासपत्नोऽविद्यमानः सपत्नो यस्य॑कः पुनः सपत्ननो नाम? द्वितीयो वै प्रतिपक्षत्वेनोपगतः स द्वितीयः सपत्न इत्युच्यते ।
तेन द्वितीयत्वेऽपि सति वाङ्मनसे न सपत्नत्वं भजेते, प्राणं प्रति गुणभावोपगते एव हि ते अध्यात्ममिव ।
तत्र प्रासङ्गिकासपत्नविज्ञानफलमिदम् नास्यविदुषःसपत्नः प्रतिपक्षो भवति, य एवं यथोक्तं प्राणमसपत्नं वेद ॥१२॥




_______________________________________________________________________

१,५.१३

अथैतस्य प्राणस्यापः शरीरम् ।
ज्योतीरूपमसौ चन्द्रः ।
तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः ।
त एते सर्व एव समाः सर्वेऽनन्ताः ।
स यो हैतानन्तवत उपास्तेऽन्तवन्तं स लोकं जयति ।
अथ यो हैताननन्तानुपास्तेऽनन्तं स लोकं जयति ॥ _१,५.१३ ॥

__________



शा.भा._१,५.१३ अथैतस्य प्रकृतस्य प्रजापत्यान्नस्य प्राणमस्य, न प्रजोक्तस्यान्तरनिर्दिष्टस्य, आपः शरीरं कार्यं करणाधारः, पूर्ववज्जयोतीरूपमसौ चन्द्रः ।
तत्रयावनेव प्राणो यावत्परिमाणोऽध्यात्मादिभेदेषु, तावद्व्याप्तिमत्य आपः तावत्परिमाणाः, तावानसौ चन्द्रोऽबाधेयस्तास्वप्स्वनुप्रविष्टः करणभूतोऽध्यात्ममधिभूतं च तावद्व्याप्तिमानेव ।
तान्येतानि पित्रा पाङ्क्तेन कर्मणा सृष्टानि त्रीण्यन्नानि वाङ्मनःप्राणाख्यानि ।
अध्यात्ममधिभूतं च जगत्समस्तमेतैर्व्याप्तम्, नैतेभ्योऽन्यदतिरिक्तं किञ्चिदस्ति कार्यात्मकं करणात्मकं वा ।
समस्तानि त्वेतानि प्रजापतिः ।
त एते वाङ्मनःप्राणाः सर्वे एव समास्तुल्या व्याप्तिमन्तो यावत्प्राणिगोचरं साध्यात्माधिभूतं व्याप्य व्यवस्थिताः ।
अत एवानन्ता यावत्संसारभाविननो हि ते ।
न हि कार्यकरणप्रत्याख्यानेन संसारोऽवगम्यते ।
कार्यकरणात्मका हि त इत्युक्तम् ।
स यः कश्चिधैतान्प्रजापतेरात्मभूतानन्तवतःपरिच्छिन्नानध्यात्मरूपेण वा अधिभूतरूपेण वा अधिभूतरूपेण वोपास्ते, स च तदुपासनानुरूपमेव फलमन्तवन्तं लोकं जयति, परिच्छिन्न एव जायते नैतेषामात्मभूतो भवतीत्यर्थः ।
अथ पुनर्यो हैताननन्तान्सर्वात्मकान्सर्वप्राण्यात्मभूतानपरिच्छिन्नानुपास्ते सोऽन्तमेव लोकं जयति ॥१३॥



पिता पाङ्क्तेन कर्मणा सप्तान्नानि सृष्ट्वा त्रीण्यन्नान्यात्मार्थङ्करोदित्युक्तम् ।
तान्येतानि ।
पाङ्क्तकर्मफलभूतानि व्याख्यातानि ।
तत्र कथं पुनः पाङ्क्ततावगम्यते, वित्तकर्मणमोरपि तत्र सम्भवात् ।
तत्र पृथिव्यग्नी माता, दिवादित्यौ पिता ।
योऽप्यमनयोरन्तरा प्राणः, स प्रजेति व्याख्यातम् ।
तत्र वित्तकर्मणी सम्भावयितव्ये इत्यारम्भः




_______________________________________________________________________

१,५.१४

स एष संवत्सरः प्रजापतिष्षोडशकलः ।
तस्य रात्रय एव पञ्चदश कला ।
ध्रुवैवास्य षोडशी कला ।
स रात्रिभिरेवा च पूर्यतेऽप च क्षीयते ।
सोऽमावास्यां रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते ।
तस्मादेतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्यादपि कृकलासस्यैतस्या एव देवताया अपचित्यै ॥ _१,५.१४ ॥

__________



शा.भा._१,५.१४ऽस एषः संवत्सरःऽ योऽयं त्र्यन्नात्मा प्रजापतिः प्रकृतः, स एष संवत्सरात्मना विशेषतो निर्दिश्यते ।
षोडशकलः षोडश कला अवयवा अस्य सोऽयं षोडशकलः संवत्सरः संवत्सरात्माकालरूपः ।
तस्य च कालात्मनः प्रजापतेः रात्रय एवाहोरात्राणि, तिथय इत्यर्थः, पञ्चदश कलाः ।
ध्रुवैव नित्यैव व्यवस्थिता अस्य प्रजापतेः षोडशी षोडशानां पूरणी कला ।
स रात्रिभिरेव तिथिभिः कलोक्ताभिरापूर्यते चापक्षीयते च ।
प्रतिपदाद्याभिर्हि चन्द्रमाः प्रजापतिः शुक्लपक्ष आपूर्यते कलाभिरुपचीयमानाभिर्वर्धते यावत्सम्पूर्णमण्डलः पौर्णमास्याम् ।
ताभिरेवापचीयमानाभिः कलाभिरपक्षीयते कृष्णपक्षे यावद्ध्रुवैका कला व्यवस्थिता अमावास्याम् ।
स प्रजापतिः कलात्मा अमावास्याममावास्यायां रात्रिंरात्रौ या व्यवस्थिता ध्रुवा कलोक्ता एतया षोडश्या कलया सर्वमिदं प्राणभृत्प्राणिजातमनुप्रविश्य यदपः पिबति यच्चौपधीरश्नाति तत्सर्वमेव ओषध्यात्मना सर्वं व्याप्यामावास्यां रात्रिमवस्थाय ततोऽपरेद्युः प्रातर्ज्ञायते द्वितीयया कलया संयुक्तः ।
एवं पाङ्क्तात्मकोऽसौ प्रजापतिः ।
दिवादित्यौ मनः पिता॑पृथिव्यग्नो वाग्ज्ञाया माता॑तयोश्च प्राणः प्रजा ।
चान्द्रमस्यस्तिथयः कला वित्तम्, उपचयापचयधर्मित्वाद्वित्तवत् ।
तासां च कलानां कालावयवानां जगत्परिणामहेतुत्वं कर्म ।
एवमेष कृत्स्नः प्रजापतिः"जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीय" (बृ.उ.१ । ४ । १७) इत्येषणानुरूप एव पाङ्क्तस्य कर्मणः फलभूतः संवृत्तः ।
कारणानुविधायि हि कार्यमिति लोकेऽपि स्थितिः ।
यस्मादेष चन्द्र एतां रात्रिं सर्वप्राणिजातमनुप्रविष्टो ध्रुवया कलया वर्तते, तस्माद्धेतोरेताममावास्यां रात्रिं प्राणभृतः प्राणिनः प्राणं न विच्छिन्द्यात्प्राणिनं न प्रमापयेदित्येतत्, अपि कृकलासस्य ।
कृकलासो हि पापात्मा स्वभावेनैव हिंस्यते प्राणिभिर्दृष्टोऽप्यमङ्गल इति कृत्वा ।
बाढं प्रतिषिद्धा, तथापि नामावास्याया अन्यत्र प्रतिप्रसवार्थं वचनं हिंसायाः कृकलासविषये वा, किं तर्हि? एतस्याः सोमदेवताया अपचित्यै पूजार्थम् ॥१४॥




_______________________________________________________________________

१,५.१५

यो वै स संवत्सरः प्रजापतिः षोडशकालोऽयमेव स योऽयमेवंवित्पुरुषः ।
तस्य वित्तमेव पञ्चदश कलाः ।
आत्मैवास्य षोडशी कला ।
स वित्तेनैवा च पूर्यतेऽप च क्षीयते ।
तदेतन्नभ्यं यदयमात्मा ।
प्रधिर्वित्तम् ।
तस्माद्यद्यपि सर्वज्यानिं जीयत आत्मना चेज्जीवति प्रधिनागादित्येवाहुः ॥ _१,५.१५ ॥

__________



शा.भा._१,५.१५ यो वै परोक्षाभिहितः संवत्सरः प्रजापतिः षोडशकलः स नैवात्यन्तं परोक्षो मन्तव्यः, यस्मादयमेव स प्रत्यक्ष उपलभ्यते ।
कोऽसावयम्? यो यथेक्तं त्र्यन्नात्मकं प्रजापतिमात्मभूतं वेत्ति स एवंवित्पुरुषः ।
केन सामान्येन प्रजापतिरिति तदुच्यते तस्यैवंविदः पुरुषस्य गवादि वित्तमेव पञ्चदश कला उपचयापचयधर्मित्वात्॑तद्वित्तसाध्यं च कर्म ।
तस्य कृत्स्नतायै आत्मैव पिण्ड एवास्य विदुषः षोडशी कला ध्रुवस्थानीया ।
स चन्द्रवद्वित्तेनैवापूर्यते चापक्षीयते च तदेतल्लोके प्रसिद्धम् ।
तदेतन्नभ्यम्, नाभ्यै हितं नभ्यं नाभिं वा अर्हतीति ।
किं तत्? यदयं योऽयमात्मा पिण्डः ।
प्रधिर्वित्तं परिवारस्थानीयं बाह्यं चक्रस्येवारनेम्यादि ।
तस्माद्यद्यपि सर्वज्यानिं सर्वस्वापहरणं जीयते हीयते ग्लानिं प्राप्नोति, आत्मना चक्रनाभिस्थानीयेन चेद्यदि जीवति प्रधिना बाह्येन परिवारेणायमगात्क्षीणोऽयं यथा चक्रमरनेमिविमुक्तमेवमाहुः ।
जीवंश्चेदरनेमिस्थानीयेन वित्तेन पुनरुपचीयत इत्यभिप्रायः ॥१५॥



एवं पाङ्क्तेन दैववित्तविद्यासंयुक्तेन कर्मणा त्र्यन्नात्मकः प्रजापतिर्भवतीति व्याख्यातम् ।
अनन्तरं च जायादिवित्तं परिवारस्थानीयमित्युक्तम् ।
तत्र पुत्रकर्मापरविद्यानां लोकप्राप्तिसाधनत्वमात्रं सामान्येनावगतम्, न पुत्रादीना लोकप्राप्तिफलं प्रति विशेषसम्बन्धनियमः ।
सोऽयं पुत्रादीनां साधनानां साध्यविशेषसम्बन्धो वक्तव्य इत्युत्तरकण्डिका प्रणीयते




_______________________________________________________________________

१,५.१६

अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति ।
सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा ।
कर्मणा पितृलोकः ।
विद्यया देवलोकः ।
देवलोको वै लोकानां श्रेष्ठः ।
तस्माद्विद्यां प्रशंसन्ति ॥ _१,५.१६ ॥

__________



शा.भा._१,५.१६ अथेति वाक्योपन्यासार्थः ।
त्रयः, वावेत्यवधारणार्थः ।
त्रय एव शास्त्रोक्तसाधनार्हा लोकाः, न न्यूना नाधिका वा ।
के ते? इत्युच्यते मनुष्यलोकः पितृलोको देलोक इति ।
तेषां सोऽयं मनुष्यलोकः पुत्रेणैव साधनेन जय्यो जेतव्यः साध्यः यथा च पुत्रेण जेतव्यस्तथोत्तरत्र वक्ष्यामः, नान्येन कर्मणा, विद्यया वेति वाक्यशेषः ।
कर्मणा अग्निहोत्रादिलक्षणेन केवलेन पितृलोको जेतव्यो न पुत्रेण नापि विद्यया ।
विद्यया देवलोको न पुत्रेण नापि कर्मणा ।
देवलोको वै लोकानां त्रयाणां श्रेष्ठः प्रशस्यतमः ।
तस्मात्तत्साधनत्वाद्विद्यां प्रशंसन्ति ॥१६॥



एवं साध्यलोकत्रयफलभेदेन विनियुक्तानि पुत्रकर्मविद्याख्यानि त्रीणि साधनानि ।
जाया तु पुत्रकर्मार्थत्वान्न पृथक्साधनमिति पृथङ्नाभिहिता ।
वित्तं च कर्मसाधनत्वान्न पृथक्साधनम् ।
विद्याकर्मणोर्लोकजयहेतुत्वं स्वात्मप्रतिलाभेनैव भवतीति प्रसिद्धम् ।
पुत्रस्य त्वक्रियात्मकत्वात्केन प्रकारेण लोकजयहेतुत्वमिति न ज्ञायते ।
अतस्तद्वक्तव्यमित्यथानन्तरमारभ्यते




_______________________________________________________________________

१,५.१७

अथातः सम्प्रत्तिः ।
यदा प्रैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञोऽहं लोक इति ।
यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ।
ये वै के च यज्ञास्तेषां सर्वेषां यज्ञ इत्येकता ।
ये वै के च लोकास्तेषां सर्वेषां लोक इत्येकता ।
एतावद्वा इदं सर्वम् ।
एतन्मा सर्वं सन्नयमितो भुनजदिति ।
तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः ।
तस्मादेनमनुशासति ।
स यदैवंविदस्माल्लोकात्प्रैत्यथैभिरेव प्राणैः सह पुत्रमाविशति ।
स यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात्पुत्रो मुञ्चति तस्मात्पुत्रो नाम ।
स पुत्रेणैवास्मिल्लोके प्रतितिष्ठति ।
अथैनमेते देवाः प्राणा अमृता आविशन्ति ॥ _१,५.१७ ॥

__________



शा.भा._१,५.१७ सम्प्रतिः सम्प्रदानम्॑सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणो नामधेयम् ।
पुत्रो हि स्वात्मव्यापारसम्प्रदानं करोत्यनेन प्रकारेण पिता, तेन सम्प्रत्तिसंज्ञकमिदं कर्म ।
तत्कस्मिन्काले कर्तव्यम्? इत्याह स पिता यदा यस्मिन् काले प्रैष्यन्मरिष्यन्मरिष्यामीत्यपरिष्टादिदर्शनेन मन्यते, अथ तदा पुत्रमाहूयाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति ।
स एवमुक्तः पुत्रः प्रत्याह॑स तु पूर्वमेवानुशिष्टो जानाति मयैतत्कर्तव्यमिति, तेनाह अहं ब्रह्माहं यज्ञोऽहं लोक इथि ।
एतद्वाक्यत्रयम् ।
एतस्यार्थस्तिरोहित इति मन्वाना श्रुतिर्व्याख्यानाय प्रवर्तते ।
यद्वै किञ्च यत्किञ्चावशिष्टमनूक्तमधीतमनधीतं च, तस्य सर्वस्यैव ब्रह्मेत्येतस्मिन्पदे एकता एकत्वं योऽध्ययनव्यापारो मम कर्तव्य आसीदेतावन्तं कालं वेदविषयः, स इत ऊर्ध्वं त्वं ब्रह्म त्वत्कर्तृकोऽस्त्वित्यर्थः ।
तथा ये वै के च यज्ञा अनुष्ठेयाः सन्तो मया अनुष्ठिताश्चाननुष्ठिताश्च, तेषां सर्वेषां यज्ञ इत्येतस्मिन्पदे एकतैकत्वम्, मत्कर्तृका यज्ञा य आसन्, ते इत ऊर्ध्वं त्वं यज्ञः त्वत्कर्तृका भवन्त्वित्यर्थः ।
ये वै के च लोका मया जेतव्याः सन्तो जिता अजिताश्च, तेषां सर्वेषां लोक इत्येतस्मिन्पदे एकता ।
इत ऊर्ध्वं मयाध्ययनयज्ञलोकजयकर्तव्यक्रतुस्त्वयि समर्पितः, अहं तु मुक्तोऽस्मि कर्तव्यताबन्धनविषयात्क्रतोः ।
स च सर्वं तथैव प्रतिपन्नवान्पुत्रोऽनुशिष्टत्वात् ।
तत्रेमं पितुरभिप्रायं मन्वाना आचष्ट श्रुतिः एतावदेतत्परिमाणं वै इदं सर्वं यद्गृहिणा कर्तव्यम्, यदुत वेदा अध्येतव्याः, यज्ञा यष्टव्याः, लोकाश्च जेतव्याः ।
एतन्मा सर्वं सन्नयम् सर्वं हीमं भारं मदधीनं मत्तोऽपच्छिद्य आतमनि निधाय, इतोऽस्माल्लोकान्मा मामभुनजत्पालयिष्यतीति ।
ळडर्थे लङ्, छन्दसि कालनियमाभावात् ।
यस्मादेवं सम्पन्नः पुत्रः पितरमस्माल्लोकात्कर्तव्यताबन्धनतो मोचयिष्यति, तस्मात्पुत्रमनुशिष्टं लोक्यं लोकहितं पितुराहुर्ब्राह्मणाः ।
अत एव ह्येनं पुत्रमनुशासति, लोक्योऽयं नः स्यादिति, पितरः ।
स पिता यदा यस्मिन्काले एवंवित्पुत्रसमर्पितकर्तव्यताक्रतुः, अस्माल्लोकात्पैति म्रियते, अथ तदैभिरेव प्रकृतैर्वाङ्मनःप्राणैः पुत्रमाविशति पुत्रं व्याप्नोति ।
अध्यात्मपरिच्छेदहेत्वपगमात्पितुर्वाङ्मनःप्राणाःस्वेन आधिदैविकेन रूपेण पृथिव्यग्न्याद्यात्मना भिन्नघटप्रदीपप्रकाशवत्सर्वमाविशन्ति ।
तैः प्राणैः सह पितात्याविशति, वाङ्मनःप्राणात्मभावित्वात्पितुः ।
अहमस्म्यनन्ता वाङ्मनःप्राणा अध्यात्मादिभेदविस्तारा इत्येवं भावितो हि पिता ।
तस्मात्तत्प्राणानुवृत्तित्वं पितुर्भवतीति युक्तमुक्तम् एभिरेव प्राणैः सह पुत्रमाविशतीत्॑सर्वेषां ह्यसावात्मा भवति पुत्रस्य च ।
एतदुक्तं भवति यस्य पितुरेवमनुशिष्टः पुत्रो भवति सोऽस्मिन्नेव लोके वर्तते पुत्ररूपेण, नैव मृतो मन्तव्य इत्यर्थः ।
तथा च श्रुत्यन्तरे "सोऽस्यायमितर आत्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते"(ऐ.उ.४ । ४) इति ।
अथेदानीं पुत्रनिर्वचनमाह स पुत्रो यदि कदाचिदनेन पित्रा अक्ष्ण्या कोणच्छिद्रतोऽन्तरा अकृतं भवति कर्तव्यम्, तस्मात्, कर्तव्यतारूपात्पित्रा अकृतात्सर्वस्माल्लोकप्राप्तिप्रतिबन्धरूपात्पुत्रो मुञ्चति मोचयति तत्सर्वं स्वयमनुतिष्ठन्पूरयित्वा ।
तस्मात्पूरणेन त्रायते स पितरं यस्मात्तस्मात्पुत्रो नाम ।
इदं तत्पुत्रस्य पुत्रत्वं यत्पितुश्छिद्रं पूरयित्वा त्रायते ।
स पितैवंविधेन पुत्रेण मृतोऽपि सन्नमृतोऽस्मिन्नेव लोके प्रतितिष्ठति, एवमसौ पिता पुत्रेणेमं मनुष्यलोकं जयति ।
न तथा विद्याकर्मभ्यां देवलोकपितृलोकौ स्वरूपलाभसत्तामात्रेण॑न हि विद्याकर्मणी स्वरूपलाभव्यतिरेकेण पुत्रवद्व्यापारान्तरापेक्षया लोकजयहेतुत्वं प्रतिपद्येते ।
अथ कृतसम्प्रत्तिकं पितरमेनमेते वागादयः प्राणा दैवा हैरण्यगर्भा अमृता अमरणधर्माण आविशन्ति कथमिति वक्ष्यति पृथिव्यै चैनमित्यादि ।
एवं पुत्रकर्मापरविद्यानां मनुष्यलोकपितृलोकदेव लोकसाध्यार्थता प्रदर्शिता श्रुत्या स्वयमेव ।
अत्र केचिद्वावदूक्ताः श्रुत्युक्तविशेषविनियोगोपसहारेण च ।
तस्मादृणश्रुतिरविद्वद्विषया न परमात्मविद्विषयेति सिद्धम् ।
वक्ष्यति च "करिष्यामो येषां नोऽयमात्मायं लोकः" (४ । ४ । २२) इति ।
केचित्तु पितृलोकदेवलोकजयोऽपि पितृलोकदेवलोकाभ्यां व्यावृत्तिरेव॑तस्मात्पुत्रकर्मापरविद्याभिः समुचित्यानुष्ठिताभिस्त्रिभ्य एतेभ्यो लोकेभ्यो व्यावृत्तः परमात्मविज्ञानेन मोक्षमधिगच्छतीति परम्परया मोक्षार्थान्येव पुत्रादिसाधनानीच्छन्ति ।
तेषामपि मुखापिधानायेयमेव श्रुतिरुत्तरा कृतसम्प्रत्तिकस्य पुत्रिणः कर्मिणः त्र्यन्नात्मविद्याविदः, फलप्रदर्शनाय प्रवृत्ता ।
न चेदमेव फलं मोक्षफलमिति शक्यं, वक्तुम्, त्र्यन्नसम्बन्धात्, मेधातपःकार्यत्वाच्चान्नानाम्,ऽपुनः पुनर्जनयतेऽइति दर्शनात्॑ऽयद्धैतन्न कुर्यात्क्षीयेत हऽइति च क्षयश्रवणात् ।
शरीरं ज्योतीरूपमिति च कार्यकरणत्वोपपत्तेः ।
ऽत्रयं वा इदम्ऽइति च नामरूपकर्मात्मकत्वेनोपसंहारात् ।
न चेदमेव साधनत्रयं संहतं सत्कस्यचिन्मोक्षार्थं कस्यचित्त्र्यन्नात्मफलमित्यस्मादेव वाक्यादवगन्तु शक्यम्, पुत्रादिसाधनानां त्र्यन्नात्मफलदर्शनेनैवोपक्षीणत्वाद्वाक्यस्य ।




_______________________________________________________________________

१,५.१८
पृथिव्यै चैनमग्नेश्च दैवी वागाविशति ।
सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति ॥ _१,५.१८ ॥

__________



शा.भा._१,५.१८ पृथिव्यै पृथिव्याः च एनमग्नेश्च दैवी अधिदैवात्मिका वागेनं कृतसम्प्रत्तिकमाविशति ।
सर्वेषां हि वाच उपादानभूता दैवी वाक्पृथिव्यग्निलक्षणा, सा ह्याध्यात्मिकासङ्गादिदोषैर्निरुद्धा ।
विदुषस्तद्दोषापगमे आवरणभङ्ग इवोदकप्रदीपप्रकाशवच्च व्याप्नोति ।
तदेतदुच्यत् पृथिव्या अग्नेश्चैनं दैवी वागाविशतीति ।
सा च दैवी वागनृतादिदोषरहिता शुद्धा, यया वाचा दैव्या यद्यदेव आत्मने परस्मै वा वदति तत्तदा भवति, अमोघा अप्रतिबद्धा अस्य वाग्भवतीत्यर्थः ॥१८॥



तथा



_______________________________________________________________________

१,५.१९

दिवश्चैनमादित्याच्च दैवं मन आविशति ।
तद्वै दैवं मनो येनानन्द्येव भवत्यथो न शोचति ॥ _१,५.१९ ॥

__________



शा.भा._१,५.१९ दिवश्चैनमादित्याच्च दैवं मन आविशति तच्च दैवं मनः॑स्वभावनिर्मलत्वात्॑येन मनसा असौ आनन्द्येव भवति सुख्येव भवति॑थो अपि न शोचति, शोकादिनिमित्तासंयोगाति ॥१९॥



तथा



_______________________________________________________________________

१,५.२०

अद्भ्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति ।
स वै दैवः प्राणो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
स एष एवंवित्सर्वेषां भूतानामात्मा भवति ।
यथैषा देवतैवं सः ।
यथैतां देवतां सर्वाणि भूतान्यवन्त्येवं हैवंविदं सर्वाणि भूतान्यवन्ति ।
यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति ।
पुण्यमेवामुं गच्छति ।
न ह वै देवान् पापं गच्छति ॥ _१,५.२० ॥

__________



शा.भा._१,५.२० अद्भयश्चैनं चन्द्रमसश्च दैवः प्राण आविशति ।
स वै दैवः प्राणः किंल्लक्षणः? इत्युच्यतेयः सञ्चरन् प्राणिभेदेष्व सञ्चरन्समष्टिव्य ष्टिरूपेणअथवा सञ्चरन जङ्गमेषु असञ्चरन्स्थावरेषु, न व्यथते न दुःखनिमित्तेन भयेन युड्यते ।
अथां अपि न रिष्यति न विनश्यति न हिंसामापद्यते ।
सःयो यथोक्तमेवं वेत्ति व्यन्नात्मदर्शनं सःसर्वेषां भूतानां प्राणो भवति, सर्वेषां भूतानां मनो भवति, सर्वेषां
भूतानां वाग्भवतिइत्येवं सर्वाभूतात्मतया सर्वज्ञो भवतीत्यर्थः॑सर्वकृच्च ।
तथैपा पूर्वसिद्वा हिरण्यगर्भदेवता एवमेव नास्य सर्वज्ञत्वे सर्वकृत्तवे वा क्कचित्प्रतिघातः ।
स इति दार्ष्टान्तिकनिर्देशः ।
किञ्च यथैतांद्दिरण्यगर्भदेवतामिज्यादिभिः सर्वाणि भूतान्यवन्ति पालयन्ति पूज्यन्ति, एवं ह एवंविदं सर्वाणि भूतान्यवन्तिइज्यादिलक्षणां पूजां सततं प्रयपञ्जत इत्यर्थः ।
अथेदमाशङ्कयतेसर्वप्राणिनामात्मा भवतीत्युत्त्कम्, तस्य च सर्वप्राणिकार्यकरणात्मत्वे सर्वप्राणिसुखदुःखैः सम्बध्येतेति ।
तन्न, अपरिच्छिन्नबुद्वित्वात्परिच्छिन्नात्मबुद्वीनां ह्याक्रोशादौ दुःखसम्बन्धो दृष्टः अनेनाहमाक्रुष्ट इति ।
अस्य तु सर्वात्मनो य आक्रुश्यते यश्चाक्रोशति यतोरात्मत्वबुद्विविशेषाभावान्न तन्निमित्तं दुःखमुपपद्यते ।
मरणदुःखवच्च निमित्ताभावात्यथा हि कस्मिंश्चिन्मृते कस्यचिद्दुःखमुत्पद्यतेममासौपुत्रोभ्राताचेति, पुत्रादिनिमित्तम्॑तन्निमित्ताभावे तन्मरणदर्शिनोऽपि नैव दुःखमुपजायते, तथेश्वरस्याप्यपरिच्छिन्नात्मनो ममतवतादिदुःखनिमित्तमिध्याज्ञानादिदोपाभावान्नैव दुःखमुपजायते ।
तदेतदुच्यतेयदु किञ्चयत्किञ्च इमाः प्रजाः शोचन्त्यमैव सहैव प्रजाभिस्तच्छोकादिनिमित्तं दुःखं संयुक्तं भवत्यासां प्रजानां परिच्छिन्नबुद्विजनितत्वात् ।
सर्वात्मनस्तु केन सह किं संयुक्त भवेद्वियुक्त वा? अमुं तु प्राजापत्ये पदे वर्तमानं पुण्यमेव शुभमेवफलमभिप्रेतं पुण्यमितिनिरतिशयं हि तेन पुण्यं कृतम्॑तेन तत्फलमेव गच्छति ।
न ह वै देवान्पापं गच्छति, पापफलस्यावसराभावात्पापफलं दुःख न गच्छतीत्यथः ॥२०॥



ऽत एते सर्व एव समाः सर्वेऽनन्ताःऽइत्यविशेषेण वाङ्मनःप्राणानामुपासनमुक्तम्, नान्यतमगतो वेशेष उक्तः ।
किमेवमेव प्रतिपत्तव्यम्? किं वा विचार्यमाणे कश्चिद्विशेषो व्रतमुपासनं प्रति प्रतितपत्तुं शक्यते? इत्युच्यते



_______________________________________________________________________

१,५.२१

अथातो व्रतमीमांसा ।
प्रजापतिर्ह कर्माणि ससृजे ।
तानि सृष्टान्यन्योऽन्येनास्पर्धन्त ।
वदिष्याम्येवाहमिति वाग्दध्रे ।
द्रक्ष्याम्यहमिति चक्षुः ।
श्रोष्याम्यहमिति श्रोत्रम् ।
एवमन्यानि कर्माणि यथाकर्मम् ।
तानि मृत्युः श्रमो भूत्वोपयेमे ।
तान्याप्नोत् ।
तान्याप्त्वा मृत्युरवारुन्ध ।
तस्माच्छ्राम्यत्येव वाक् ।
श्राम्यति चक्षुः ।
श्राम्यति श्रोत्रम् ।
अथेममेव नाप्नोत्योऽयं मध्यमः प्राणः ।
तानि ज्ञातुं दध्रिरे ।
अयं वै नः श्रेष्ठो यः संचरंश्चासंचरंश्च न व्यथतेऽथो न रिष्यति ।
हन्तास्यैव सर्वे रूपं भवामेति ।
त एतस्यैव सर्वे रूपमभवन् ।
तस्मादेत एतेनाख्यायन्ते प्राणा इति ।
तेन ह वाव तत्कुलमाचक्षते यस्मिन् कुले भवति य एवं वेद ।
य उ हैवंविदा स्पर्धतेऽनुशुष्यति ।
अनुशुष्य हैवान्ततो म्रियत इत्यध्यात्मम् ॥ _१,५.२१ ॥

__________



शा.भा._१,५.२१ अथातोऽनन्तरं व्रतमीमांसा उपासनकर्मविचारणेत्यर्थः ।
एषां प्राणानां कस्य कर्म व्रतत्वेन धारयितव्यमिति मीमांसा प्रवर्तते ।
तत्र प्रजापतिर्ह हशब्दः किलार्थे प्रजापतिः किल प्रजाः सृष्ट्वा कर्माणि करणानि वागादीनि कर्माथानि हि तानीति कर्माणीत्युच्यन्ते ससृजे सृष्टवान्वागादीनि करणानीत्यर्थः ।
तानि पुनः सृष्टान्यन्योन्येन इतरेतरमस्पर्धन्त स्पर्धां संघर्षं चक्रुः ।
कथम्? वदिष्याम्येव स्वव्यापाराद्वदनादनुपरतैवाहं स्यामिति वाग्व्रतं दध्रे धृतवती यद्यन्योऽपि मत्समोऽस्ति स्वव्यापारादनुपरन्तुं शक्तः, सोऽपि दर्शयत्वात्मनो वीर्यमिति ।
तथा द्रक्ष्याम्यहमिति चक्षुः, श्रोष्याम्यहमिति श्रोत्रम्॑ेवमन्यानि कर्माणि करणानि यथाकर्म यद्यद्यस्य कर्म यथाकर्म ।
तानि करणानि मृत्युर्मारकः श्रमः श्रमरूपी भूत्वा उपयेमे सञ्जग्राह ।
कथम्? तानि करणानि स्वव्यापारे प्रवृत्तान्याप्नोत्, श्रमरूपेणात्मानं दर्शितवान् ।
आप्त्वा च तान्यवारुन्ध अवरोधं कृतवान्मृत्युः स्वकर्मभ्यः प्रच्यावितवानित्यर्थः ।
तस्मादद्यत्वेऽपि वदने स्वकर्मणि प्रवृत्ता वाक्श्राम्यत्वेन श्रमरूपिणा मृत्युना संयुक्ता स्वकर्मतः प्रच्यवते ।
तथा श्राम्यति चक्षुः, श्राम्यति श्रोत्रम् ।
अथेममेव मुख्यं प्राणं नाप्नोन्न प्राप्तवान्मृत्युः श्रमरूपी, योऽयं मध्यमः प्राणस्तम् ।
तेनाद्यत्वेऽप्यश्रान्त एव स्वकर्मणि प्रवर्तते ।
तानीतराणि करणानि तं ज्ञातुं दध्रिरे धृतवन्ति मनः ।
अयं वै नोऽस्माकं मध्ये श्रेष्ठः प्रशस्यतमोऽभ्यधिकः, यस्माद्यः सञ्चरंश्चासञ्चरंश्च न व्यथतेऽथो न रिष्यति हन्तेदानीमस्यैव प्राणस्य सर्वे वयं रूपमसाम प्राणमात्मत्वेन प्रतिपद्येमहि एवं विनिश्चित्य ते एतस्यैव सर्वे रूपमभवन्॑प्राणरूपमेवात्मत्वेन प्रतिपन्नाः, प्राणव्रतमेव दध्रिरे अस्मद्व्रतानि न मृत्योर्वारणाय पर्याप्तानीति ।
यस्मात्प्राणेन रूपेण रूपवन्तीतराणि करणानि चलनात्मना स्वेन च प्रकाशात्मनः, न हि प्राणादन्यत्र चलनात्मकत्वोपपत्तिः॑चलनव्यापारपूर्वकाण्येव हि सर्वदा स्वव्यापारेषु लक्ष्यन्ते॑तस्मादेते वागादय एतेन प्राणाभिधानेन आख्यायन्तेऽभिधीयन्ते प्राणा इत्येवम् ।
य एवं प्राणात्मतां सर्वकरणानां वेत्ति प्राणशब्दाभिधेयत्वं च, तेन ह वाव तेनैव विदुषा तत्कुलमाचक्षते लौकिकाः ।
यस्मिन्कुले स विद्वाञ्जातो भवति तत्कुलं विद्वाञ्जातो भवति तत्कुलं विद्वन्नाम्नैव प्रथितं भवत्यमुष्यदं कुलमिति, यथा तापत्य इति ।
य एवं यथोक्तं वेद वागादीनां प्राणरूपतां प्राणाख्यत्वं च तस्यैतत्फलम् ।
किञ्च यः कश्चिदु हैवंविदा प्राणात्मदर्शिना स्पर्धते तत्प्रतिपक्षी सन्, सोऽस्मिन्नेव शरीरेऽनुशुष्यति शोषमुपगच्छति ।
अनुशुष्य हैव शोषं गत्वैव अन्ततोऽन्ते म्रियते न सहसानुपद्रुतो म्रियते इत्यैवमुक्तमध्यात्मं प्राणात्मदर्शनमित्युक्तोपसंहारोऽधिदैवतप्रदर्शनार्थः ॥२१॥




_______________________________________________________________________

१,५.२२

अथाधिदेवतं
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ।
तप्स्याम्यहमित्यादित्यः ।
भास्याम्यहमिति चन्द्रमाः ।
एवमन्या देवता यथादेवतम् ।
स यथैषां प्राणानां मध्यमः प्राण एवमेतासां देवतानां वायुः ।
म्लोचन्ति ह्यन्या देवता न वायुः ।
सैषानस्तमिता देवता यद्वायुः ॥ _१,५.२२ ॥

__________



शा.भा._१,५.२२ अथानन्तरमधिदैवतं देवताविषयं दर्शनमुच्यते ।
कस्य देवताविशेषस्य व्रतधारणं श्रेयः? इति मीमास्यते ।
अध्यात्मवत्सर्वम् ।
ज्वलिष्याम्येवाहमित्यग्निर्दध्रे ।
तप्स्याम्यहमित्यादित्यः॑भास्याम्यहमिति चन्द्रमाः॑ेवमन्या देवता यथादैवतम् ।
सोऽध्यात्मं वागादीनामेषां प्राणो मृत्युना अनाप्तः स्वकर्मणो न प्रच्यावितः स्वेन प्राणव्रतेनाभग्नव्रतो यथा॑ेवमेतासामग्न्यादीनां देवतानां वायुरपि ।
म्लोचन्त्यस्तं यन्ति स्वकर्मेभ्य उपरमन्ते यथाध्यात्मं वागादयोऽन्या देवता अग्न्याद्याः, न वायुरस्तं याति यथा मध्यमः प्राणः, अतः सैषा अनस्तमिता देवता यद्वायुर्योऽयं वायुः ।
एवमध्यात्ममधिदैवं च मीमांसित्वा निर्धारितम् प्राणवाय्य्वात्मनो व्रतमभग्नमिति ॥२२॥




_______________________________________________________________________

१,५.२३

अथैष श्लोको भवति
यतश्चोदेति सूर्योऽस्तं यत्र च गच्छतीति ।
प्राणाद्वा एष उदेति प्राणेऽस्तमेति ।
तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इति ।
यद्वा एतेऽमुर्ह्यध्रियन्त तदेवाप्यद्य कुर्वन्ति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च ।
नेन्मा पाप्मा मृत्युराप्नवदिति ।
यद्यु चरेत्समापिपयिषेत्तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति ॥ _१,५.२३ ॥

__________



शा.भा._१,५.२३ अथैतस्यैवार्थस्य प्रकाशक एष श्लोको मन्त्रो भवति ।
यतश्च यस्माद्वायोरुदेत्युद्गच्छति सूर्यः, अध्यात्मं च चक्षुरात्मना प्राणादस्तं च यत्र वायौ प्राणे च गच्छत्यपरसंध्यासमये स्वापसमये च पुरुषस्य, तं देवास्तं धर्मं देवाश्चक्रिरे धृतवन्तो वागादयोऽग्न्यादयश्च प्राणव्रतं च पुरा विचार्य ।
स एवाद्येदानीं श्वोऽपि भविष्यत्यपि कालेऽनुवर्त्यतेऽनुवर्तिष्यते च देवैरित्यभिप्रायः ।
तत्रेमं मन्त्रं संक्षेपतो व्याचष्ट ब्राह्मणम् प्राणाद्वा एष सूर्य उदेति प्राणेऽस्तमेति ।
तं देवाश्चक्रिरे धर्मं स एवाद्य स उ श्व इत्यस्य कोर्ऽथः? इत्युच्यते यद्वै एते व्रतममुर्हि अमुष्मिन्काले वागादयोऽग्न्यादयश्च प्राणव्रतं वायुव्रतं चाध्रियन्त, तदेवाद्यापि कुर्वन्त्यनुवर्ततेऽनुवर्तिष्यन्ते च ।
व्रतं तैरभग्नमेव ।
यत्तु वागादिव्रतमग्न्यादिव्रतं च तद्भग्नमेव, तेषामस्तमनकाले स्वापकाले च वायौ प्राणे च निम्सुक्तिदर्शनात् ।
अथैतदन्यत्रोक्तम्"यदा वै पुरषः स्वपिति प्राणं तर्हि वागप्येति प्राणं मनः प्राणं चक्षुःप्राणं श्रोत्रं यदा प्रबुध्यते प्राणादेवाधि पुनर्जायन्त इत्यध्यात्ममथाधिदैवतं यदा वा अग्निरनुगच्छति वायुं तर्ह्यनूद्वाति यदादित्योऽस्तमेति वायुं तर्हि प्रविशति वायुं चन्द्रमा वायौ दिशः प्रतिष्ठिता वायोरेवाधि पुनर्जायन्ते"इति ।
यस्मादे एतदेव व्रतं वागादिष्वग्न्यादिषु चानुगतं यदेतद्वायोश्च प्राणस्य च परिस्पन्दात्मकत्वं सर्वेदेवैरुवर्त्यमानं व्रतं तस्मादन्योऽप्योकमेव व्रतं चरेत् ।
किं तत? प्राण्यात्प्राणनव्यापारं कुर्यादपान्यादपाननध्यापारं च॑न हि प्राणापानव्यापारस्य प्राणनापाननलक्षणस्योपरमोऽस्ति ।
तस्मात्तदेवैकं व्रतं चरेद्धित्वेन्द्रियान्तरव्यापारं नेन्मा मां पाप्मा मृत्युः श्रमरूप्याप्नुवदाप्नुयात् ।
नेच्छब्दः परिभयेऽयद्यहमस्माद्व्रतात्प्रच्युतः स्याम्, ग्रस्त एवाहं मृत्युनाऽइत्येवं त्रस्तो धारयेत्प्राणव्रतमित्यभिप्रायः ।
यदि कदाचिदु चरेत्प्रारभेत प्राणव्रतम्, समापिपयिषेत्समापयितुमिच्छेत्॑यदि ह्यस्माद्व्रतादुपरमेत्प्राणः परिभूतः स्याद्देवाश्च॑तस्मात्समापयेदेव ।
तेन उ तेनानेन व्रतेन प्राणात्मप्रतिपत्त्या सर्वभूतेषु वागादयोऽग्न्यादयश्च मदात्मका एव, अहं प्राण आत्मा सर्वपरिस्पन्दकृत् एवं तेनानेन व्रतधारणेन एतस्या एव प्राणदेवतायाः सायुज्यं सयुग्भावमेकात्मत्वं सलोकतां समानलोकतां वा एकस्थानत्वम् विज्ञानमान्द्योपेक्षमेतत् जयति प्राप्नोतीत् ॥२३॥

इति बृहदारण्यकोपनिषद्भाष्ये प्रथमाध्याये पञ्चमं सप्तान्नब्रह्मणम् ॥५॥

षष्ठमुक्थब्राह्मणम्[सम्पाद्यताम्]

यदेतदविद्याविषयत्वेन प्रस्तुतं साध्यसाधनलक्षणं व्याकृतं जगत्प्राणात्मप्राप्त्यन्तोत्कर्षवदपि फलम्, या चैतस्य व्याकरणात्प्रागवस्था अव्याकृतशब्दवाच्या वृक्षबीजवत्सर्वमेतत् ।

______________________________________________________________________

१,६.१

त्रयं वा इदं नाम रूपं कर्म ।
तेषां नाम्नां वागित्येतदेषामुक्थम् ।
अतो हि सर्वाणि नामान्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वैर्नामभिः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि नामानि बिभर्ति ॥ _१,६.१ ॥

__________



शा.भा._१,६.१ त्रयम्॑किं तत्त्रयम्? इत्युच्यते ।
नाम रूपं कर्म चेत्यनात्मैव ।
नात्मा यत्साक्षादपरोक्षाद्ब्रह्म ।
तस्मादस्माद्विरज्येतेत्येवमर्थस्त्रयं वा इत्याद्यारम्भः न ह्यस्मादनात्मनोऽव्यावृत्तिचित्तस्य आत्मानमेव लोकमहं ब्रह्मास्मीत्युपासितुं बुद्धिः प्रवर्तते ।
बाह्यप्रत्यगात्मप्रवृत्त्योर्विरोधात् ।
तथा च काठके "पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्" (क.उ.२ । १ । १) इत्यादि ।
कथं पुनरस्य व्याकृताव्याकृतस्य क्रियाकारकफलात्मनः संसारस्य नामरूपकर्मात्मकतैव? न पुनरात्मत्वम्? इत्येतत्सम्भावयितुं शक्यत इति॑त्रोच्यते तेषां नाम्नां यथोपन्यस्तानां वागिति शब्दसामान्यमुच्यते ।
"यः कश्च शब्दो वागेव सा"(१ । ५ । ३) इत्युक्तत्वाद्वादित्येतस्य शब्दस्य योर्ऽथः शब्दस्य शब्दसामान्यमात्रमेतदेतेषां नामविशेषाणामुक्थं कारणमुपादानम्, सैन्धवलवणकणानामिव सैन्धवाचलः ।
तदाह अतो ह्यस्मान्नामसामान्यात्सर्वाणि नामानि यज्ञदत्तो देवदत्त इत्येवमादिप्रविभागान्युत्तिष्ठन्त्युत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणाः॑कार्यं च कारणेनाव्यतिरिक्तम् ।
तथा विशेषाणां च सामान्येऽन्तर्भावात् ।
कथं सामान्यविशेषभाव इति एतच्छब्द सामान्यमेषां नामविशेषाणां साम ।
समत्वात्साम, सामान्यमित्यर्थः, एतद्धि यस्मात्सर्वैर्नामभिरात्मविशेषैः समम् ।
किञ्च आत्मलाभाविशेषाच्च नामविशेषाणाम् ।
यस्य च यस्मादात्मलाभो भवति स तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा ।
कथं नामविशेषाणामात्मलाभो वाच इत्युच्यते यत एतदेषां वाक्छब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो नाम्नाम्, शब्दव्यतिरिक्तस्वरूपानुपपत्तेः ।
तत्प्रतिपादयति यतश्छब्दसामान्यं हि यस्माच्छब्दविशेषान्सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन ।
एवं कार्यकारणत्वोपपत्तेः सामान्यविशेषोपपत्तेरात्मप्रदानोपपत्तश्च नामविशेषाणां शब्दमात्रता सिद्धा ।
एवमुत्तरयोरपि सर्वं योज्यं यथोक्तम् ॥१॥




_______________________________________________________________________

१,६.२

अथ रूपाणां चक्षुरित्येतदेषामुक्थम् ।
अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वै रूपैः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि रूपाणि बिभर्ति ॥ _१,६.२ ॥

__________



शा.भा._१,६.२ अथेदानीं रूपाणां सितासितप्रभृतीनां चक्षुरिति चक्षुर्विषयसामान्यं चक्षुःशब्दाभिधेयं रूपसामान्यं प्रकाश्यमात्रमभिधीयते ।
अतो हि सर्वाणि रूपाण्यित्तिष्ठन्ति, एतदेषां साम, एतद्धि सर्वै रूपेः समम्, एतदेषां ब्रह्म, एतद्धि सर्वाणि रूपाणि बिभर्ति ॥२॥




_______________________________________________________________________

१,६.३
अथ कर्मणामात्मेत्येतदेषामुक्थम् ।
अतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति ।
एतदेषां साम ।
एतद्धि सर्वैः कर्मभिः समम् ।
एतदेषां ब्रह्म ।
एतद्धि सर्वाणि कर्माणि बिभर्ति ।
तदेतत्त्रयं सदेकमयमात्मा ।
आत्मो एकः सन्नेतत्त्रयम् ।
तदेतदमृतं सत्येन छन्नम् ।
प्राणो वा अमृतम् ।
नामरूपे सत्यम् ।
ताभ्यामयं प्राणश्छन्नः ॥ _१,६.३ ॥

__________


शा.भा._१,६.३ अथेदानीं सर्वकर्मविशेषाणां मननदर्शनात्मकानां चलनात्मकानां च क्रियासामान्यमात्रेऽन्तर्भाव उच्यते ।
कथम्? सर्वेषं कर्मविशेषाणामात्मा शरीरं सामान्यमात्मा, आत्मनः कर्म आत्मेत्युच्यते ।
ऽआत्मना हि शरीरेण कर्म करोतिऽइत्युक्तम् ।
शरीरे च सर्वं कर्माभिव्यज्यत् ।
अतः तात्स्थ्यात्तच्छब्दं कर्मकर्मसामान्यमात्रं सर्वेषामुक्थमित्यादि पूर्ववत् ।
तदेतद्यथोक्तं नाम रूपं कर्म त्रयमितरेतराश्रयम्, इतरेतराभिव्यक्तिकारणम्, इतरेतरप्रलयं संहतं त्रिदण्डविष्टम्भवत्सदेकम् ।
केनात्मनैकत्वम्? इत्युच्यते अयमात्मायं पिण्डः कार्यकरणात्मसङ्घातः तथान्नत्रये व्याख्यातःऽएतन्मयो वा अयमात्माऽइत्यादिना॑ेतावद्धीदं सर्वं व्याकृतमव्याकृतं च यदुत नाम रूपं कर्मेति, आत्मा उ एकोऽयं कार्यकरणसङ्घातः सन्नध्यात्माधिभूताधिदैवभावेन व्यवस्थितमेतदेव त्रयं नाम रूपं कर्मेति ।
तदेतद्वक्ष्यमाणम् ।
अमृतं सत्येनच्छन्नमित्येतस्य वाक्यस्यार्थमाह प्राणो वा अमृतं करणात्मकोऽन्तरुपष्टम्भक आत्मभूतोऽभूतोऽविनाशी॑नामरूपे सत्यं कार्यात्मके शरीरावस्थे॑क्रियात्मकस्तु प्राणस्तयोरुपष्टम्भको बाह्य्बाह्याभ्यां शरीरात्मकाभ्यामुपजनापायधर्मिभ्यां मर्त्याभ्यां छन्नोऽप्रकाशीकृतः ।
एतदेवसंसारसतत्वमविद्याविषयं प्रदर्शितम् ।
अत
ऊर्ध्वं विद्याविषय आत्माधिगन्तव्य इथि चतुर्थं आरभ्यते ॥३ ॥ ॥

इति प्रथमाध्याये षष्ठमुक्थब्राह्मणम् ॥६॥

अध्याय २[सम्पाद्यताम्]


आत्मेत्येवोपासीत तदन्वेषणे च सर्वमन्विष्टं स्यात्तदेव चाऽत्मतत्त्वं सर्वस्मात्प्रेयस्त्वादन्वेष्टव्यम् ।
आत्मानमेवावेदहं ब्रह्मास्मीत्यात्मतत्त्वमेकं विद्याविषयः ।
यस्तु भेददृष्टिविषयः सोऽन्योऽसावन्योऽहमस्मीति न स वेदेत्यविद्याविषयः ।
"एकधैवानुद्रष्टव्यम्" "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति"इत्येवमादिभिः प्रविभत्कौ विद्याविषयौ सर्वोपनिषत्सु ।
तत्र चाविद्याविषयः सर्व एव साध्यसाधनादिभेदविशेषविनियोगेन व्याख्यातःा तृतीयाध्यायपरिसमाप्तेः ।
स च व्याख्यातोऽविद्याविषयः सर्व एव द्विप्रकारः अन्तः प्राण उपष्टम्भको गृहस्येव स्तम्भादिलक्षणः प्रकाशकोऽमृतः ।
बाह्यश्च कार्यलक्षणोऽप्रकाशक उपजनापायधर्मकस्तृणकुशमृत्तिकासमो गृहस्येव सत्यशब्दवाच्यो मर्त्यः तेनामृतशब्दवाच्यः प्राणश्छन्न इति चोपसंह्रतम् ।
स एव च प्राणो बाह्याधारमेदेष्वनेकधा विस्तृतः॑ प्राण एको देव इत्युच्यते ।
तस्यैव बाह्यः पिण्ड एकः साधारणःविराड्वैश्वानर आत्मा पुरुषविधः प्रजापतिः को हिरण्यगर्भ इत्यादिभिः पिण्डप्रधानैः शब्दैराख्यायते सूर्यादिप्रविभक्तकरणः ।

एकं चानेकं च ब्रह्म एतावदेव, नातः परमस्ति प्रत्येकं च शरीरभेदेषु परिसमाप्तं चेतनावत्कर्तृ भोक्तृ चेत्यविद्याविषयमेव आत्मत्वेनोपगतो गार्ग्यो ब्राह्मणो वक्ता उपस्थाप्यते ॑ तद्विपरीतात्मदृगजातशत्रुः श्रोता॑ एवं हि यतः पूर्वपक्षसिद्धान्ताख्यायिकारूपेण समर्प्यमाणोर्ऽथः श्रोतुश्चित्तस्य वशमेति॑ विपर्यये हि तर्कशास्त्रवत्केवलार्थानुगमवाक्यैः समर्प्यमाणो दुर्विज्ञेयः स्यादत्यन्तसूक्ष्मत्वाद्वस्तुनः ।
तथा च काठके"श्रवणायापि बहुभिर्यो न लभ्यः"इत्यादिवाक्यैः सु संस्कृतदेवबुद्धिगम्यत्वं सामान्यमात्रबुद्ध्यागम्यत्वं च सप्रपञ्चं दर्शितम् ।
"आचार्यवान्पुरुषो वेद""आचार्याद्धैव विद्या"इति चच्छान्दोग्ये ।
"उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः"इति च गीतासु ।
इहापि च शाकल्ययाज्ञवल्क्यसंवादेन अतिगह्वरत्वं महता संरम्भेण ब्रह्मणो वक्ष्यतितस्माश्चिलष्ट एव आख्यायिकारूपेण पूर्वपक्षसिद्धान्तरूपमापाद्य वस्युसमर्पणार्थ आरम्भः ।

आचारविध्युपदेशार्थश्चएवमाचारवतोर्वत्त्कृश्रोक्रोराख्यायिकानुगतेर्ऽथोऽवगम्यते ।
केवलतर्कबुद्विनिषेधार्था चाख्यायिका"नैषा तर्केण मतिरापनेया""न तर्कशास्त्रदग्धाय"इति श्रुतिस्मृतिभ्याम् ।
श्रद्वा च ब्रह्मविज्ञाने परमं साधनमित्याख्याय्कार्थः ।
तथा हि गार्ग्याजातशत्रवोरतीव श्रद्वालुताद्दृश्यते आख्यायिकायाम्॑"श्रद्वांल्लभते ज्ञानम्"इति च स्मृतिः ।



_______________________________________________________________________

२,१.१



दृप्तबालाकिर्हानूचानो गार्ग्य आस ।
स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणीति ।
स होवाचाजातशत्रुः सहस्रमेतस्यां वाचि दद्मः, जनको जनक इति वै जना धावन्तीति ॥ _२,१.१ ॥

__________



शा.भा._२,१.१
तत्र पूर्वपक्षवादी अविद्याविषयब्रह्मविद्दृप्तबालाकिः दृपते गर्वितोऽसभ्यग्ब्रह्मवित्तवादेव्बलाकाया अपत्यं बालाकिर्दृप्तश्चासौ बालाकिश्चेति दृप्तबालार्किः, हशब्द एतिह्यार्थ आख्यायिकायाम्, अनूचानः अनुवचसमर्थो वत्त्कावाग्गमी॑गार्ग्यो गोन्नतः, आस बभूव क्वचित्कालविशेषे ।

स होवाचाजातशत्रुमजातशत्रुनामानं काश्यं काशिराजमभिगम्यब्रह्म ते ब्रवाणीति ब्रह्म ते तुभ्यं ब्रवाणि कथयानि ।
स एवमुक्तोऽजातशत्रुरुवाचसहस्रं गवां दद्भ एतस्यां वाचि यां मां प्रत्यवोचो ब्रह्म ते ब्रवाणीति, तावन्मात्रमेव गोसहस्रप्रदाने निमित्तमित्यभिप्रायः ।

साक्षाद्ब्रह्मकथनमेव निमित्तं कस्मान्नापेक्ष्यते सहस्रदाने? ब्रह्म ते ब्रवाणीतीयमेव तु वाग्निमित्तमपेक्ष्यते? इत्युच्यते॑यतः श्रुतिरेव राज्ञोऽभिप्रायमाहजनको दाता जनकः श्रोतेति चैतस्मिन्वाक्यद्वये पदद्वयमभ्यस्यते जनको जनक इति ।
वैशब्दः प्रसिद्धावद्योतनार्थः॑जनको दित्सुर्जनकः शुश्रूषुरिति ब्रह्म शुश्रूषवो विवक्षवः प३ इजिघृक्षवश्च जनाधावन्त्यभिगच्छन्ति ।
तस्मात्तत्सर्वं मय्यपि सम्भावितवानसीति ॥१॥




एवं राजानं शुश्रूषुमभिमुखीभूतम्



_______________________________________________________________________

२,१.२



स होवाच गार्ग्यः य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुर् मा मैतस्मिन्संवदिष्ठाः ।
अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ॥ _२,१.२ ॥

__________



शा.भा._२,१.२

स होवाच गार्ग्यःय एव असौ आदित्ये चक्षुषि चैकोऽभिमानी चक्षुर्द्वारेणेह हृदि प्रविष्टःऽअहं भोक्ता कर्ता चऽइत्यवस्थितः, एतमेवाहं ब्रह्म पश्यामि, अस्मिन्कार्यकरणसङ्घाते उपासे ।
तस्मात्तमहं पुरुषं ब्रह्म तुभ्यं ब्रवीभ्युपाःस्वेति ।

स एवमुक्तः प्रत्युवाच अजातशत्रुःऽमा माऽइति हस्तेन विनिवारयनेतस्मिन्ब्रह्मणि विज्ञेये मा संवदिष्ठाः॑मा मेत्याबाधनार्थं द्विर्वचनम् ।
एवं समाने विज्ञानविषये आवयोरस्मानविज्ञानवत इव दर्शयता बाधिताः स्याम, अतो मा संवदिष्ठाःमा संवादं कार्षीरस्मिन्ब्रह्मणि ।
अन्यच्चेज्जानासि, तद्ब्रह्म वक्तुमर्हसि, न तु यन्मया ज्ञायत एव ।

अथ चेन्मन्यसेजानीषे त्वं ब्रह्ममात्रं न तु तद्विशेषणोपासनफलानीतितन्न मन्तव्यम्, यतः सर्वमेतदहं जाने यद्ब्रवीषि ।
कथम्? अतिष्ठाःतीत्य भूतानि तिष्ठातीत्यतिष्ठाः ।
सर्वेषां च भूतानां मूर्धा शिरो राजेति वैराजा दीप्तिगुमोपेतत्वात्, एतैर्विशेषणैर्विशिष्टमेतद्ब्रह्म अस्मिन्कार्यकरणसङ्घाते कर्तृ भोक्तृ चेत्यहमेतमुपास इति ।
फलमप्येवं विशिष्टोपासकस्यस य एतमेवमुपास्तेऽतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति ।
यथागुणोपासनमेव हि फलम्॑"तं यथा यथोपासते तदेव भवति"इति श्रुतेः ॥२॥




संवादेनादित्यब्रह्मणि प्रत्याख्यातेऽजातशत्रुणा चन्द्रमसि ब्रह्मान्तरं प्रतिपेदे गार्ग्यः ।



_______________________________________________________________________

२,१.३



स होवाच गार्ग्यः य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
बृहन् पाण्दरवासाः सोमो राजेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्तेऽहरहर्सुतः प्रसुतो भवति ।
नास्यान्नं क्षीयते ॥ _२,१.३ ॥

__________



शा.भा._२,१.३

य एवासौ चन्द्रे मनसि चैकः पुरुषो भोक्ता कर्ता चेति पूर्ववद्विशेषणम् ।
बृहन्महान् पाण्डरं शुक्लं वासो यस्य सोऽयं पाण्डरवासाः, अप्शरीरत्वाच्चन्द्राभिमानिनः प्राणस्य, सोमो राजा चन्द्रः, यश्चान्नभूतोऽभिषूयते लतात्मको यज्ञे, तमेकीकृत्यैतमेवाहं ब्रह्मोपासे ।
यथोक्तगुणं य उपास्ते तस्याहरहः सुतः सोमोऽभिषुतो भवति यज्ञे, प्रसुतः प्रकृष्टं सुतरां सुतो भवति विकारे, उभयविधयज्ञानुष्ठानसामर्थ्यं भवतीत्यर्थः ।
अन्नं चास्य न क्षीयतेऽन्नात्मकोपासकस्य ॥३॥



_______________________________________________________________________

२,१.४



स होवाच गार्ग्यः य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
तेजस्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते तेजस्वी ह भवति ।
तेजस्विनी हास्य प्रजा भवति ॥ _२,१.४ ॥

__________



शा.भा._२,१.४

तथा विद्युति त्वचि हृदये चैका देवता ।
तेजस्वीति विशेषणम्, तस्यास्तत्फलम्तेजस्वी ह भवति तेजस्विनी हास्य प्रजा भवति ।
विद्युतां बहुत्वस्याङ्गीकरणादात्मनि प्रजायां च फलबाहुल्यम् ॥४॥




_______________________________________________________________________

२,१.५



स होवाच गार्ग्यः य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
पूर्णमप्रवर्तीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते पूर्यते प्रजया पशुभिर्नास्यास्माल्लोकात्प्रजोद्वर्तते ॥ _२,१.५ ॥

__________



शा.भा._२,१.५

तथा आकाशे हृद्याकाशे हृदये चैका देवता ।
पूर्णमप्रवर्ति चेति विशेषणद्वयम् ।
पूर्णत्वविशेषणफलमिदम्पूर्यते प्रजया पशुभिः॑प्रवर्तिविशेषणफलम्नास्यास्माल्लोकात्प्रजोद्वर्तत इति,

प्रजासन्तानाविच्छित्तिः ॥५॥




_______________________________________________________________________

२,१.६



स होवाच गार्ग्यः य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ॥ _२,१.६ ॥

__________



शा.भा._२,१.६

तथा वायौ प्राणे हृदि चैका देवता ।
तस्या विशेषणमिन्द्रः परमेश्वरः, वैकुण्ठोऽप्रसह्यः, न परैर्जितपूर्वा पराजिता सेनामरुतां गणत्वप्रसिद्धेः ।
उपासनफलमपिजिष्णुर्ह जयनशीलोऽपराजिष्णुर्न च परैर्जितस्वभावो भवति, अन्यतस्त्यजायी अन्यतस्त्यानां सपत्नानां जयनशीलो भवति ॥६॥



_______________________________________________________________________

२,१.७



स होवाच गार्ग्यः य एवायमग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
विषासहिरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते विषासहिर्ह भवति ।
विषासहिर्हास्य प्रजा भवति ॥ _२,१.७ ॥

__________



शा.भा._२,१.७

अग्नौ वाचिहृदि चैका देवता ।
तस्या विशेषणम्विषासहिर्मर्षयिता परेषाम् ।
अग्निबाहुल्यात्फलबाहुल्यं पूर्ववत् ॥७॥




_______________________________________________________________________

२,१.८



स होवाच गार्ग्यः य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
प्रतिरूप इति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते प्रतिरूपं हैवैनमुपगच्छति नाप्रतिरूपम् ।
अथो प्रतिरुपोऽस्माज्जायते ॥ _२,१.८ ॥

__________


शा.भा._२,१.८

अप्सु रेतसि हृदि चैका देवता ।
तस्या विशेषणम्प्रतिरूपोऽनुरूपः श्रुतिस्मृत्यप्रतिकूल इत्यर्थः ।
फलम्प्रतिरूपं श्रुतिस्मृतिशासनानुरूपमेव एनमुपगच्छति प्राप्नोति, न विपरीतम्, अन्यच्चअस्मात्तथाविध एवोपजायते ॥८॥




_______________________________________________________________________

२,१.९



स होवाच गार्ग्यः य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
रोचिष्णुरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते रोचिष्णुर्ह भवति ।
रोचिष्णुर्हास्य प्रजा भवति ।
अथो यैः संनिगच्छति ।
सर्वांस्तानतिरोचते ॥ _२,१.९ ॥

__________



शा.भा._२,१.९

आदर्शे प्रसादस्वभावे चान्यत्र खड्गादौ हार्दे च सत्त्वशुद्धिस्वाभाव्ये चैका देवता, तस्या विशेषणम्रोचिष्णुर्दीप्तिस्वभावः, फलं च तदेव ।
रोचनाधारबाहुल्यात्फलबाहुल्यम् ॥९॥




_______________________________________________________________________
२,१.१०



स होवाच गार्ग्यः य एवायं यन्तं पश्चाच्छब्बोऽनूदेत्येतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
असुरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति ।
नैनं पुरा कालात्प्राणो जहाति ॥ _२,१.१० ॥

__________



शा.भा._२,१.१०

यन्तं गच्छन्तं य एवायं शब्दः पश्चात्पृष्ठतोऽनीदेत्यध्यात्मं च जीवनहेतुः प्राणः, तमेकीकृत्याह॑सुः प्राणो जीवनहेतुरिति गुणस्तस्य॑फलम्सर्वमायुरस्मिंल्लोक एतीतियथोपात्तं कर्मणा आयुः॑कर्मफलपरिच्छिन्नकालात्पुरा पूर्वं रोगादिभिः पीड्यमानमप्येनं प्राणो न जहाति ॥१०॥




_______________________________________________________________________

२,१.११



स होवाच गार्ग्यः य एवायं दिक्षु पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
द्वितीयोऽनपग इति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते द्वितीयवान् ह भवति ।
नास्माद्गणश्छिद्यते ॥ _२,१.११ ॥

__________



शा.भा._२,१.११
दिक्षु कर्णयोर्हृदि चैका देवता अश्विनौ देवाववियुक्तस्वभावौ ।
गुणस्तस्य द्वितीयवत्त्वमनपगत्वमवियुक्तता चान्योन्यं दिशामश्विनोश्चैवन्धर्मित्वात् ।
तदेव च फलमुपासकस्यगणाविच्छेदो द्वितीयवत्त्वं च ॥११॥




_______________________________________________________________________

२,१.१२



स होवाच गार्ग्यः य एवायं छायामयः पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन्संवदिष्ठाः ।
मृत्युरिति वा अहमेतमुपास इति ।
स य एतमेवमुपास्ते सर्वं हैवास्मिंल्लोक आयुरेति ।
नैनं पुरा कालान्मृत्युरागच्छति ॥ _२,१.१२ ॥

__________



शा.भा._२,१.१२

छायायां बाह्ये तमस्यध्यात्मं च आवरणात्मकेऽज्ञाने हृदि चैका देवता ।
तस्या विशेषणं मृत्युः ।
फलं सर्वं पूर्ववत्, मृत्योरनागमनेन रोगादिपीडाभावो विशेषः ॥१२॥




_______________________________________________________________________

२,१.१३



स होवाच गार्ग्यः य एवायमात्मनि पुरुष एतमेवाहं ब्रह्मोपास इति ।
स होवाचाजातशत्रुः मा मैतस्मिन् संवदिष्ठाः ।
आत्मन्वीति वा अहमेतमुपास इति ।
स य एतमेवमुपास्त आत्मन्वी ह भवति ।
आत्मन्विनी हास्य प्रजा भवति ।
स ह तूष्णीमास गार्ग्यः ॥ _२,१.१३ ॥

__________



शा.भा._२,१.१३

आत्मनि प्रजापतौ बुद्धौ च हृदि चैका देवता ।
तस्या आत्मन्वीआत्मवानीति विशेषणम् ।
फलमात्मन्वी ह भवत्यात्मवान्भवति, आत्मन्विनी हास्य प्रजा भवति ।
बुद्धिबहुलत्वात्प्रजायां सम्पादनमिति विशेषः ।
स्वयं परिज्ञातत्वेनैवं क्रमेण प्रत्याख्या तेषु ब्रह्मसु स गार्ग्यः क्षीणब्रह्मविज्ञानोऽप्रतिभासमानोत्तरस्तूष्णीमवाक्छिरा आस ॥१३॥




_______________________________________________________________________

२,१.१४



तं तथाभूतमालक्ष्य गार्ग्यम्


स होवाचाजातशत्रुः एतावन्नू३ इति ।
एतावद्धीति ।
नैतावता विदितं भवतीति ।
स होवाच गार्ग्यः उप त्वायानीति ॥ _२,१.१४ ॥

__________


शा.भा._२,१.१४

स होवाचाजातशत्रुःेतावन्नू३ ति ।
किमेतावद्ब्रह्म निर्ज्ञातम्, आहोस्विदधिकमप्यस्तीति? इतर आहैतावद्धीति ।
नैतावता विदितेन ब्रह्म विदितं भवतीत्याहाजातशत्रुः, किमर्थं गर्वितोऽसि ब्रह्म ते ब्रवाणीति ।

किमेतावद्विदितं विदितमेव न भवति? इत्युच्यतेन, फलवद्विज्ञ३ अश्रवणात् ।
न चार्थवादत्वमेव वाक्यानामवगन्तुं शक्यमपूर्वविधानपराणि हि वाक्यानि प्रत्युपासनोपदेशं लक्ष्यन्ते"अतिष्ठाः सर्वेषां भूतानाम्"इत्यादीनि ।
तदनुरूपाणि च फलानि सर्वत्र श्रूयन्ते विभक्तानि ।
अर्थवादत्वे एतदसमञ्जसम् ।

कथं तर्हि नैतावता विदितं भवतीति? नैष दोषः, अधिकृतापेक्षत्वात् ।
ब्रह्मोपादेशार्थं हि शुश्रूषवेऽजातशत्रवेऽमुख्यब्रह्मविद्गार्ग्यः प्रवृत्तः, स युक्त एव मुख्यब्रह्मविदाजातशत्रुणामुख्य ब्रह्मविद्गार्ग्यो वक्तुं यन्मुख्यं ब्रह्म वक्तुं प्रवृत्तस्त्वं तन्न जानीष इति ।
यद्यमुख्यब्रह्मविज्ञानमपि प्रत्याख्यायेत, तदैतावतेति न ब्रूयात्, न किञ्चिज्ज्ञातं त्वयेत्येवं ब्रूयात्, न किञ्चिज्ज्ञातं त्वयेत्येवं ब्रूयात् ।
तस्माद्भवन्त्येतावन्त्यविद्याविषये ब्रह्माणि ।
एतावद्विज्ञानद्वारत्वाच्च परब्रह्मविज्ञानस्य, युक्तमेव वक्तुम्नैतावताविदितंभवतीति ।
अविद्याविषये विज्ञेयत्वं नामरूपकर्मात्मकत्वं चैषां तृतीयेऽध्याये प्रदर्शितम् ।
तस्मात्"नैतावता विदितं भवति"इति ब्रुवता अधिकं भ्रह्म ज्ञातव्यमस्तीति दर्शितं भवति ।
तच्चानुपसन्नाय न वक्तव्यमित्याचारविधिज्ञो गार्ग्यः स्वयमेवाहौप त्वा यानीतिउपगच्छानीति त्वाम्, यथान्यः शिष्यो गुरुम् ॥१४॥




_______________________________________________________________________

२,१.१५



स होवाचाजातशत्रुः प्रतिलोमं चैतद्यद्ब्राह्मणः क्षत्रियमुपेयाद्ब्रह्म मे वक्ष्यतीति ।
व्येव त्वा ज्ञपयिष्यामीति ।
तं पाणावादायोत्तस्थौ ।
तौ ह पुरुषं सुप्तमाजग्मतुः ।
तमेतैर्नामभिरामन्त्रयां चक्रे बृहन् पाण्दरवासः सोम राजन्निति ।
स नोत्तस्थौ ।
तं पाणिनापेषं बोधयां चकार ।
स होत्तस्थौ ॥ _२,१.१५ ॥
__________



शा.भा._२,१.१५

स होवाचाजातशत्रुः प्रतिलोमं विपरीतं चैतत् ।
किं तत्? यद्ब्रह्मण उत्तमवर्ण आचार्यत्वेऽधिकृतः सन् क्षत्रियमनाचार्यस्वभावमुपेयातुपगच्छेच्छिष्यवृत्त्या ब्रह्म मे वक्ष्यतीति ।
एतदाचारविधिशास्रेषु निषिद्धम्॑तस्मात्तिष्ठत्वमाचार्य एव सन् ।
विज्ञपयिष्याम्येव त्वामहं यस्मिन्विदिते ब्रह्म विदितं भवति यत्तन्मुख्यं ब्रह्म वेद्यम् ।

तं गार्ग्यं सलज्जमालक्ष्य विश्रम्भजननाय पाणौ हस्त आदाय गृहीत्वोत्तस्थावुत्थितवान् ।
तौ ह गार्ग्याजातशत्रू पुरुषं सुप्तं राजगृहप्रदेशे क्वचिदाजग्मतुरागतौ ।
तं च पुरुषं सुप्तं पाप्य एतैर्नामभिः"बृहन् पाण्डरवासः सोम राजन्"इत्येतैरामन्त्रयाञ्चक्रे ।
एवमामन्त्र्यमाणोऽपि स सुप्तो नोत्तस्थौ, तमप्रतिबुध्यमानं पाणिना आपेषमापिष्यापिष्य बोधयाञ्चकार प्रतिबोधितवान्॑ तेन स होत्तस्थौ ।
तस्माद्यो गार्ग्येणाभिप्रेतः नासावस्मिञ्छरीरे कर्ता भोक्ता ब्रह्मेति ।

कथं पुनरिदमवगम्यते सुप्तपुरुषगमनतत्सम्बोधनानुत्थानैर्गार्ग्याभिमतस्य ब्रह्मणोऽब्रह्मत्वं ज्ञापितमिति?

जागरितकाले यो गार्ग्याभिप्रेतः पुरुषः कर्ता भोक्ता ब्रह्म संनिहितः करणेषु यथा, तथाजातशत्र्वभिप्रेतोऽपि तत्स्वामी भृत्येष्विव राजा संनिहित एव ।
किं तु भृत्यस्वामिनोर्गार्ग्याजातशत्र्वभिप्रेतयोर्यद्विवेकावधारण कारणं तत्सङ्कीर्णत्वादनवधारितविशेषम् ।
यद्द्रष्टुत्वमेव भोक्तुर्न दृश्यत्वम्, यच्चाभोक्तुर्दृश्यत्वमेव न तु द्रष्टृत्वम्, तच्चोभयमिह सङ्कीर्णत्वाद्विविच्य दर्शयितुमशक्यमिति सुप्तपुरुषगमनम् ।

ननु सुप्तेऽपि पुरुषे विशिष्टैर्नामभिरामन्त्रितो भोक्तैव प्रतिपत्स्यते नाभोक्तेति नैव निर्णयः स्यादिति ।

न, निर्धारितविशेषत्वाद्गार्ग्याभिप्रेतस्यः यो हि सत्येनच्छन्नः प्राण आत्मामृतो वागादिष्वनस्तमितो निम्लोचत्सु, यस्यापः शरीरं पाण्डरवासाः, यश्चासपत्नत्वाद्बृहन्, यश्च सोमो राजा षोडशकालः, स स्वव्यापारारूढो यथानिर्ज्ञात एवानस्तमितस्वभाव आस्ते ।
नचान्यस्य कस्यचिद्व्यापारस्तस्मिन्काले गार्ग्येणाभिप्रेयते तद्विरोधिनः ।
तस्मात्स्वनामभिरामन्त्रितेन प्रतिबोद्धव्यम्, न च प्रत्यबुध्यत ।
तस्मात्पारिशेष्याद्गार्ग्याभिप्रेतस्याभोक्तृत्वं ब्रह्मणः ।

भोक्तृस्वभावश्चेद्भुञ्जीतैव स्वं विषयं प्राप्तम् ।
न हि दग्धृस्वभावः प्रकाशयितृस्वभावः सन्वह्निस्तृणोलपादि दाह्यं स्वविषयं प्राप्तं न दहति, प्रकाश्यं वा न प्रकाशयति ।
न चेद्दहति प्रकाशयति वा प्राप्तं स्वं विषयम्, नासौ वह्निर्दग्धा प्रकाशयिता वेति निश्चीयते ।
तथासौ प्राप्तशब्दादिविषयोपलब्धृस्वभावश्चेद्गार्ग्याभिप्रेतः प्राणो बृहन् पाण्डरवास इत्येवमादिशब्दं स्वं विषयमुपलभेत, यथा प्राप्तं तृणोलपादि वह्निर्दहेत्प्रकाशयेच्च अव्यभिचारेण तद्वत् ।
तस्मात्प्राप्तानां शब्दादीनामप्रतिबोधादभोक्तृस्वभाव इति निश्चीयते ।
न हि यस्य यः स्वभावो निश्चितः, स तं व्यभिचरति कदाचिदपि ।
अतः सिद्धं प्राणस्याभोक्तृत्वम् ।

सम्बोधनार्थनामविशेषेण सम्बन्धाग्रहणादप्रतिबोध इति चेत्? स्यादेतत्यथा बहुष्वासीनेषु स्वनामविशेषेण सम्बन्धाघ्रहणान्मामयं सम्बोधयतीति, शृण्वन्नपि सम्बोध्यमानो विशेषतो न प्रतिपद्यते, तथेमानि बृहन्नित्येवमादीनि मम नामानीत्यगृहीतसम्बन्धत्वात्प्राणो न गृह्णाति सम्बोधनार्थं शब्दम्, न त्वविज्ञातृत्वादेवेति चेत्?

न॑देवताभ्युपगमेऽघ्रहणानुपपत्तेः ।
यस्य हि चन्द्राद्यभिमानिनी देवता अध्यात्मं प्राणो भोक्ता अभ्युपगम्यते, तस्य तथा संव्यवहाराय विशेषनाम्ना सम्बन्धोऽवश्यं ग्रहीतव्यः, अन्यथा आह्वानादिविषये संव्यवहारोऽनुपपन्नं स्यात् ।

व्यतिरिक्तपक्षेऽप्यप्रतिपत्तेर युक्तमिति चेत्? यस्य च प्राणव्यतिरिक्तो भोक्ता, तस्यापि बृहन्नित्यादिनामभिः सम्बोधने बृहत्त्वादिनाम्नां तदा तद्विषयत्वात्प्रतिपत्तिर्युक्ता ।
न च कदाचिदपि बृहत्त्वादिशब्दैः सम्बोधितः

प्रतिपद्यमानो दृश्यते ।
तस्मादकारणमभोक्तृत्वे सम्बोधनाप्रतिपत्तिरिति चेत्?

न॑तद्वतस्तावन्मात्राभिमानानुपपत्तेः ।
यस्य प्राणव्यतिरिक्तो भोक्ता स प्राणदेवतामात्रेऽभिमानो यथा हस्ते ।
तस्मात्प्राणनामसम्बोधने कृत्स्नाभिमानिनो युक्तैवाप्रतिपत्तिः॑न तु प्राणस्यासाधारणनामसंयोगे, देवतात्मत्वानभिमानाच्चात्मनः ।

स्वनामप्रयोगेऽप्यप्रतिपत्तिदर्शनादयुक्तमिति चेत्? सुषुप्तस्य यल्लौकिकं देवदत्तादि नाम तेनापि सम्बोध्यमानः कदाचिन्न प्रतिपद्यते सुषुप्तः ।
तथा भोक्तापि सन्प्राणो न प्रतिपद्यत इति चेत्?

न, आत्मप्राणयोः सुप्तासुप्तत्वविशेषोपपत्तेः ।
सुषुप्तत्वात्प्राणग्रस्ततयोपरतकण आत्मा स्वं नाम प्रयुज्यमानमपि न प्रतिपद्यते ।
न तु तदसुप्तस्य प्राणस्य भोक्तृत्व उपरतकरणत्वं सम्बोधनाग्रहणं वा युक्तम् ।

अप्रसिद्धनामभिः सम्बोधनमयुक्तमिति चेत्सन्ति हि प्राणविषयाणि प्रसिद्धानि प्राणादिनामानि॑तान्यपोह्य

अप्रसिद्धैर्बृहत्त्वादिनामभिः सम्बोधनमयुक्तम्, लौकिकन्यायापोहात् ।
तस्माद्भोक्तुरेव सतः प्राणस्याप्रतिपत्तिरिति चेत्? न, देवताप्रत्याख्यानार्थत्वात् ।
केवलसम्बोधनमात्राप्रतिपत्त्यैव असुप्तस्याध्यात्मिकस्य प्राणस्याभोकतृत्वे सिद्धे यच्चन्द्रदेवताविषयैर्नामभिः सम्बोधनम्, तच्चन्द्रदेवता प्राणोऽस्मिञ्छरीरे भोक्तेति गार्ग्यस्य विशेषप्रतिपत्तिनिराकरणार्थम् ।
न हि तल्लौकिकनाम्ना सम्बोधनेशक्यं कर्तुम् ।
प्राणग्रस्तत्वात्करणान्तराणां प्रवृत्त्यनुपपत्तेर्भोक्तृत्वाशङ्कानुपपत्तिः ।
देवतान्तराभावाच्च ।

नन्वतिष्ठा इत्याद्यात्मन्वीत्यन्तेन ग्रन्थेन गुणवद्देवताभेदस्य दर्शितत्वादिति चेत्?

न, तस्य प्राण एवैकत्वाभ्युपगमात्सर्वश्रुतिष्वरनाभिनिदर्शनेन ।
"सत्येनच्छन्नं प्राणो वा अमृतम्"इति च प्राणबाह्यस्यान्यस्यानभ्युपगमाद्भोक्तुः"एष उ ह्येव सर्वे देवाः" "कतम एको देव इति प्राणः"इति च सर्वदेवानां प्राण एवैकत्वोपपादनाच्च ।
तथा करणभेदेष्वनाशङ्का, देहभेदेष्विव स्मृतिज्ञानेच्छदिप्रतिसन्धानानुपपत्तेः॑न ह्यन्यदृष्टमन्यः स्मरति जानातीच्छति प्रतिसन्दधाति वा ।
तस्मान्न करणभेदविषया भोक्तृत्वाशङ्का विज्ञानमात्रविषया वा कदाचिदप्युपपद्यते ।

ननु सङ्घात एवास्तु भोक्ता, किं व्यतिरिक्तकल्पनयेति? न॑ापेषणे विशेषदर्शनात् ।
यदि हि प्राणशरीरसङ्घातमात्रो भोक्ता स्यात्सङ्घातमात्राविशेषात्सदा आपिष्टस्यानापिष्टस्य च प्रतिबोधे विशेषो न स्यात् ।
सङ्घातव्यतिरिक्ते तु पुनर्भोक्तरि सङ्घातसम्बन्धविशेषानेकत्वात्पेषणापेषणकृतवेदनायाः सुखदुःखमोहमध्यमाधमोत्तमकर्मफलभेदोपपत्तेश्च विशेषो युक्तः ।
न तु सङ्घातमात्रे सम्बन्धकर्मफलभेदानुपपत्तेर्विशेषो युक्तः ।

तथा शब्दादिपटुमान्द्यादिकृतश्च ।
अस्ति चायं विशेषःयस्मात्स्पर्शमात्रेणाप्रतिबुध्यमानं पुरुषं सुप्तं पाणिना आपेषमापिष्यापिष्य बोधयाञ्चकाराजातशत्रुः ।
तस्माद्य आपेषणेन प्रतिबुबुधे ज्वलन्निव स्फुरन्निव कुतश्चिदागत इव पिण्डं च पूर्वविपरीतं बोधचेष्टाकारविशेषादिमत्त्वेनापादयन्, सोऽन्योऽस्ति गार्ग्याभिमतब्रह्मभ्यो व्यतिरिक्त इति सिद्धम् ।

संहतत्वाच्च पारार्थ्योपपत्तिः प्राणस्य ।
गृहस्य स्तम्भादिवच्छरीरस्य अन्तरुपष्टम्भकः प्राणः शरीरादिभिः संहत इत्यवोचाम ।
अरनेमिवच्च, नाभिस्थानीय एतस्मिन्सर्वमिति च ।
तस्माद्गृहादिवत्स्वावयवसमुदायजातीयव्यतिरिक्तार्थंसंहन्यतैत्येवमगच्छाम ।

स्तम्भकुड्यतृणकाष्ठादिगृहावयवानां स्वात्मजन्मोपचयापचयविनाशनामाकृतिकार्यधर्म निरपेक्षलब्ध सत्तादितद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं दृष्ट्वा मन्यामहे, तत्सङ्घातस्य च तथा प्राणाद्यव यवानां तत्सङ्घातस्य च स्वात्म जन्मोपचया पचय विनाशनामाकृति कार्यधर्म निरपेक्षलब्धसत्तादितद्विषयद्रष्टृश्रोतृमन्तृविज्ञात्रर्थत्वं भवितुमर्हतीति ।

देवताचेतनावत्त्वे समत्वाद्गुणभावानुपगम इति चेत्प्राणस्य विशिष्टैर्नामभिरामन्त्रणदर्शनाच्चेतनावत्त्वमभ्युपगतम् ।
चेतनावत्त्वे च पारार्थ्योपगमः समत्वादनुपपन्न इति चेत्?

न॑निरुपाधिकस्य केवलस्य विजिज्ञापयिषितत्वात् ।
क्रियाकारकफलात्मकता ह्यात्मनो नामरूपोपाधिजनिता अविद्याध्यारोपिता ।
तन्निमित्तो लोकस्य क्रियाकारकफलाभिमानलक्षणः संसारः ।
स निरुपाधिकात्मस्वरूपविद्यया निवर्तयितव्य इति तत्स्वरूपविजिज्ञापयिषयोपनिषदारम्भः"ब्रह्म ते ब्रवाणि" "नैतावता विदितं भवति"इति चोपक्रम्य"एतावदरेखल्वमृतत्वम्"इति चोपसंहारात् ।
न चातोऽन्यदन्तराले विवक्षितमुक्तं वास्ति ।
तस्मादनवसरः समत्वाद्गुणभावानुपगम इति चोद्यस्य ।

विशेषवतो हि सोपाधिकस्य संव्यवहारार्थो गुणगुणिभावः, न विपरीतस्य ।
निरूपाख्यो हि विजिज्ञापयिषितः सर्वस्यामुपनिषदि ।
"स एष नेति नेति"इत्युपसंहारात् ।
तस्मादादित्यादिब्रह्मभ्य एतेभ्योऽविज्ञानमयेभ्यो विलक्षणोऽन्योऽस्ति विज्ञानमय इत्येतत्सिद्धम् ॥१५॥




_______________________________________________________________________

२,१.१६


स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्कुत एतदागादिति ।
तदु ह न मेने गार्ग्यः ॥ _२,१.१६ ॥

__________



शा.भा._२,१.१६

स एवमजातशत्रुर्व्यतिरिक्तात्मस्तित्वं प्रतिपाद्य गार्ग्यमुवाचयत्र यस्मिन्काले एष विज्ञानमयः पुरुष एतत्स्वपनं सुप्तोऽभूत्प्रक्पाणिपेषप्रतिबोधात्॑ विज्ञानं विज्ञायतेऽनेनेत्यन्तः करणं बुद्धिरुच्यते, तन्मयस्तत्प्रायो विज्ञानमयः ।
किं पुनस्तत्प्रायत्वम्? तस्मिन्नुपलभ्यत्वं तेन चोपलभ्यत्वमुपलब्धृत्वं च॑ कथं पुनर्मयटोऽनेकार्थत्वे प्रायार्थतैवावगम्यते? "स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयः"इत्येवमादौ प्रायार्थ एव प्रयोगदर्शनात्, परविज्ञानविकारत्वस्याप्रसिद्धत्वात्,"य एष विज्ञानमयः"इति च प्रसिद्धवदनुवादादवयवोपमार्थयोश्चात्रासम्भवात्पारिशेष्यात्प्रायार्थतैव ।
तस्मात्सङ्गल्पविकल्पाद्यात्मकमन्तःकरणं तन्मय इत्येतत् ।
पुरुषः पुरि शयनात् ।
क्वैष तदाभूदिति प्रश्नः स्वभावविज्ञापयिषयाप्राक्प्रतिबोधात्क्रियाकारकफलविपरीतस्वभाव आत्मेति कार्याभावेन दिदर्शयिषितम्॑न हि प्राक्प्रतिबोधात्कर्मादिकार्यं सुखादि किञ्चन गृह्यते॑न हि प्राक्प्रतिबोधात्कर्मादिकार्यं सुखादि किञ्चन गृह्यते॑तस्मादकर्मप्रयुक्तत्वात्तथास्वाभाव्यमेवात्मनोऽवगम्यतेयस्मिन्स्वाभाव्येऽभूत्, यतश्च स्वाभाव्यात्प्रच्युतः संसारी स्वभावविलक्षण इति एतद्विवक्षया पृच्छति गार्ग्यं प्रतिभानरहितं बुद्धिव्युत्पादनाय ।
क्वैष तदाभूत्? कुत एतदागात्? इत्येतदुभयं गार्ग्येणैव प्रष्टव्यमासीत्, तथापि गार्ग्येण न पृष्टमिति नोदास्ते अजातशत्रुः, बोधयितव्य एवेति प्रवर्तते ।
ज्ञपयिष्याम्येवेति प्रतिज्ञातत्वात् ।
एवमसौ व्युत्पाद्यमानोऽपि गार्ग्यो यत्रैष आत्माभूत्प्राक्प्रतिबोधाद्यतश्चैतदागमनमागात्तदुभयं न व्युत्पेदे वक्तुं वा प्रष्टुं वा गार्ग्यो ह न मेने न ज्ञातवान् ॥१६॥




_______________________________________________________________________

२,१.१७



स होवाचाजातशत्रुः यत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषस्तदेषां प्राणानां विज्ञानेन विज्नानमादाय य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ।
तानि यदा गृह्णाति ।
अथ हैतत्पुरुषः स्वपिति नाम ।
तद्गृहीत एव प्राणो भवति ।
गृहीता वाग् ।
गृहीतं चक्षुर् ।
गृहीतं श्रोत्रम् ।
गृहीतं मनः ॥ _२,१.१७ ॥

__________


शा.भा._२,१.१७

स होवाचाजातशत्रुर्विवक्षितार्थसमर्पणाययत्रैष एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः एतत्सुप्तोऽभूद्य एष विज्ञानमयः पुरुषः क्वैष तदाभूत्? कुत एतदागात्? इति यदपृच्छाम, तच्छृणूच्यमानम्यत्रैष एतत्सुप्तोऽभूत्तत्तदातस्मिन्काले एषां वागादीनां प्राणानां विज्ञानेनान्तःकरणगताभिव्यक्तिविशेषविज्ञानेन उपाधिस्वभावजनितेन आदाय विज्ञानं वागादीनां स्वस्वविषयगतसामर्थ्यं गृहीत्वा, य एषोऽन्तर्मध्ये हृदये हृदयस्याकाशः, य आकाशशब्देन पर एव स्व आत्मोच्यते, तस्मिन्स्वे आत्मन्याकाशे शेते स्वाभाविकेऽसांसारिके


न केवल आकाश एव, श्रुत्यन्तरसामर्थ्यात्"सता सोम्य तदा सम्पन्नो भवति"इति ।
लिङ्गोपाधिसम्बन्धकृतं विशेषात्मस्वरूपमुत्सृज्य अविशेषे स्वाभाविके आत्मन्येव केवले वर्तत इत्यभिप्रायः

यदा शरीरेन्द्रियाध्यक्षतामुत्सृजति, तदासौ स्वात्मनि वर्तत इति कथमवगम्यते? नामप्रसिद्ध्या ।
कासौ नामप्रसिद्धिः? इत्याहतानि वागादेर्विज्ञानानि यदा यस्मिन्काले गृह्णात्यादत्ते अथ तदा हैतत्पुरुषः स्वपिति

नामएतन्नामास्य पुरुषस्य तदा प्रसिद्धं भवति ।
गौणमेवास्य नाम भवति ।
स्वमेवात्मानमपीत्यपिगच्छतीति स्वपितीत्युच्यते ।

सत्यं स्वपितीतिनामप्रसिद्ध्या आत्मनः संसारधर्मविलक्षणं रूपमवगम्यते, न त्वत्र युक्तिरस्तीत्याशङ्क्याहतत्त्त्र स्वापकाले गृहीत एव प्राणो भवति ।
प्राण इति घ्राणेन्द्रियम्, वागादिप्रकरणात्॑वागादिसम्बन्धे हि सति सदुपाधित्वादस्य संसारधर्मित्वं लक्ष्यते ।
वागादयश्चोपसंहृता एव तदा तेन ।
कथम्? गृहीता वाग्गृहीतं चक्षुर्गृहीतं श्रोत्रं गृहीतं मनः ।
तस्मादुपसंहृतेषु वागादिषु क्रियाकारकफलात्मताभावात्स्वात्मस्थ एवात्माभवतीत्यवगम्यते ॥१७॥



ननु दर्शनलक्षणायां स्वप्नावस्थायां कार्यकरणवियोगेऽपि संसारधर्मित्वमस्य दृश्यते ।
यथा च जागरिते सुखी दुःखी बन्धुवियुक्तः शोचति मुह्यते त॑तस्माच्छोकमोहधर्मवानेवायम् ।
नास्य शोकमोहादायः सुखदुःखादयश्च कार्यकरणसंयोगजनितभ्रान्त्याध्यारोपिता इति ।

न मृषात्वात् ।



_______________________________________________________________________

२,१.१८



स यत्रैतत्स्वप्न्यया चरति ते हास्य लोकाः ।
तदुतेव महाराजो भवत्युतेव महाब्राह्मणः ।
उतेवोच्चावचं निगच्छति ।
स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं परिवर्तेतैवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ॥ _२,१.१८ ॥

__________



शा.भा._२,१.१८

स प्रकृत आत्मा यत्र यस्मिन्काले दर्शनलक्षणया स्वप्न्यया स्वप्नवृत्त्या चरति वर्तते तदा ते हास्य लोकाः कर्मफलानि ।
के ते? तत्तत्रोतापि महाराज इव भवति ।
सोऽयं महाराजत्वमिवास्य लोकः, न महाराजत्वमेव जागरित इव ।
तथा महाब्राह्मण इव, उताप्युच्चावचमुच्चं च देवत्वाद्यवचं च तिर्यक्त्वादि, उच्चमिवावचमिव च निगच्छति ।
मृषैव महाराजत्वादयोऽस्य लोकाः, इवशब्दप्रयोगाद्व्यभिचारदर्शनाच्च ।
तस्मान्न बन्धुवियोगादिजनितशोकमोहादिभिः स्वप्ने सम्बध्यत एव ।

ननु च यथा जागरिते जाग्रत्कालाव्यभिचारिणो लोकाः, एवं स्वप्नेऽपि तेऽस्य महाराजत्वादयो लोकाः स्वप्नकालभाविनः स्वप्नकालाव्यभिचारिण आत्मभूता एव, न त्वविद्याध्यारोपिता इति ।

ननु च जाग्रत्कार्यकरणात्मत्वं देवतात्मत्वं चाविद्याध्यारोपितं न परमार्थत इति व्यतिरिक्तविज्ञानमयात्मप्रदर्शनेन प्रदर्शितम् ।
तत्कथं दृष्टान्तत्वेन स्वप्नलोकस्य मृत इवोज्जीविष्यन्प्रादुर्भविष्यति? सत्यम्, विज्ञानमये व्यतिरिक्ते कार्यकरणदेवतात्मत्वप्रदर्शनमविद्याध्यारोपितम्शुक्तिकायामिव रजतत्वदर्शनमित्येतत्सिद्ध्यति व्यतिरिक्तात्मास्तित्वप्रदर्शनन्यायेनैव, न तु तद्विशुद्धिपरतयैव न्याय उक्तः॑ित्यसन्नपि दृष्टान्तो जाग्रत्कार्यकरणदेवतात्मत्वदर्शनलक्षणः पुनरुद्भाव्यते ।
सर्वो हि न्यायः किञ्चिद्विशेषमपेक्षमाणोऽपुनरुक्तिभवति ।

न तावत्स्वप्नेऽनुभूतमहाराजत्वादयो लोका आत्मभूताः॑ात्मनोऽन्यस्य जाग्रत्प्रतिविम्बभूतस्य लोकस्य दर्शनात् ।
महाराज एव तावद्व्यस्तसुप्तासु प्रकृतिषु पर्यङ्के शयानः स्वप्नान्पश्यन्नुपसंहृतकरणः पुनरुपगतप्रकृतिं मबाराजमिवात्मानं जागरित इव पश्यति यात्रागतं भुञ्जानमिव च भोगान् ।
न च तस्य मबाराजस्य पर्यङ्के शयनाद्द्वितीयोऽन्यः प्रकृत्युपेतो विषये पर्यटन्नहनि लोके प्रसिद्धोऽस्ति, यमसौ सुप्तः पश्यति ।
न चोपसंहृतकरणस्य रूपादिमतो दर्शनमुपपद्यते ।
न च देहे देहान्तरस्य तत्तुल्यस्य सम्भवोऽस्ति, देहस्थस्यैव हि स्वप्नदर्शनम् ।

ननु पर्यङ्के शयानः पथि प्रवृत्तमात्मानं पश्यतिन बहिः स्वप्नान्पश्यतीत्येतदाहस महाराजो जानपदाञ्जनपदे भवान्राजोपकरणभूतान्भृत्यानन्यांश्च गृहीत्वोपादाय स्व आत्मीय एव जयादिनोपार्जिते जनपदे यथाकामं यो यः कामोऽस्य यथाकाममिच्छातो यथा परिवर्तेतेत्यर्थः॑ेवमेवैष विज्ञानमयः, एतदिति क्रियाविशेषणम्,

प्राणान्गृहीत्वा जागरितस्थानेभ्य उपसंहृत्य स्वे शरीरे स्व एव देहे न बहिः यथाकामं परिवर्तते॑कामकर्मभ्यामुद्भासिताः पूर्वानुभूतवस्तुसदृशीर्वासना अनुभवतीत्यर्थः ।
तस्मात्स्वप्ने मृषाध्यारोपिता एवात्मभूतत्वेन लोका अविद्यमाना एव सन्तः, तथा जागरितेऽपि, इति प्रत्येतव्यम् ।
तस्माद्विशुद्धोऽक्रियाकारकफलात्मको विज्ञानमय इत्येतत्सिद्धम् ।
यस्माद्दृश्यन्ते द्रष्टुर्विषयभूताः क्रियाकारकफलात्मकाः कार्यकरणलक्षणा लोकाः, तथा स्वप्नेऽपि, तस्मादन्योऽसौ दृश्येभ्यः स्वप्नजागरितलोकेभ्यो द्रष्टा विज्ञानमयो विशुद्धः ॥१८॥



_______________________________________________________________________

२,१.१९



दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वादतद्धर्मतेति विशुद्धतावगता आत्मनः ।
तत्र यथाकामं परिवर्तत इति कामवशात्परिवर्तनमुक्तम् ।
द्रष्टुर्दृश्यसम्बन्धश्चास्य स्वाभाविक इत्यशुद्धता शङ्क्यते॑तस्तद्विशुद्ध्यर्थमाह


अथ यदा सुषुप्तो भवति ।
यदा न कस्य चन वेद ।
हिता नाम नाद्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ।
ताभिः प्रत्यवसृप्य पुरीतति शेते ।
स यथा कुमारो अद्द्. वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीत ।
एवमेवैष एतच्छेते ॥ _२,१.१९ ॥

__________



शा.भा._२,१.१९

अथ यदा सुषुप्तो भवतियदा स्वप्न्यया चरति, तदाप्ययं विशुद्ध एव ।
अथ पुनर्यदा हित्वा दर्शनवृत्तिं स्वप्नं यदा यस्मिन्काले सुषुप्तः सुष्ठु सुप्तः सम्प्रसादं स्वाभाव्येन प्रसीदति ।
कदा सुषुप्तो भवति? यदा यस्मिन्काले न कस्यन न किञ्चनेत्यर्थः, वेद विजानाति॑कस्यचन वा शब्दादेः सम्बन्धि वस्त्वन्तरं किञ्चन न वेदेत्यध्याहार्यम्॑पूर्वं तु न्याय्यम्, सुप्ते तु विशेषविज्ञानाभावस्य विवक्षितत्वात् ।

एवं तावद्विशेषविज्ञानाभावे सुषुप्तो भवतीत्युक्तम् ।
केन पुनः क्रमेण सुषुप्तो भवति? इत्युच्यतेहिता नाम हिता इत्येवंनाम्न्यो नाड्यः शिरा देहस्यान्नरसविपरिणामभूताः, ताश्च द्वासप्ततिः सहस्राणि, द्वे सहस्रे अधिके सप्ततिश्च सहस्राणि ता द्वासप्ततिः सहस्राणि, हृदयाथृदयं नाम मांसपिण्डःतस्मान्मांसपिण्डात्पुण्डरीकाकारात्, पुरीततं हृदयपरिवेष्टनमाचक्षते,

तदुपलक्षितं शरीरमिह पुरीततमभिप्रतिष्ठन्त इति शरीरं कृत्स्नं व्याप्नुवत्योऽश्वत्थपर्णराजय इव बहिर्मुख्यः प्रवृत्ता इत्यर्थः ।

तत्र बुद्धेरन्तःकरणस्य हृदयं स्थानम्, तत्रस्थबुद्धितन्त्राणि चेतराणि बाह्यानि करणानि ।
तेन बुद्धिः कर्मवशाच्छ्रोत्रादीनि ताभिर्नाडीभिर्मत्स्यजालवत्कर्णशष्कुल्यादिस्थानेभ्यः प्रसारयति, प्रसार्यचाधितिष्ठति जागरितकाले ।
तां विज्ञानमयोऽभिव्यक्तस्वात्मचैतन्यावभासतया व्याप्नोति ।
सङ्कोचनकाले च तस्या अनुसङ्कुचित॑सोऽस्य विज्ञानमयस्य स्वापः॑जाग्रद्विकासानुभवो भोगः॑बुद्ध्युपाधिस्वभावानुविधायी हि सः, चन्द्रादिप्रतिबिम्ब इव जलाद्यनुविधायी ।
तस्मात्तस्या बुद्धेर्जाग्रद्विषयायास्ताभिर्नाडीभिः प्रत्यवसर्पणमनु प्रत्यवसृप्य पुरीतति शरीरे शेते तिष्ठति, तप्तमिव लोहपिण्डमविशेषेण संव्याप्याग्निवच्छरीरं संव्याप्य वर्तत इत्यर्थः ।

स्वाभाविक एव स्वात्मनि वर्तमानोऽपि कर्मानुगतबुद्ध्यनुवृत्तित्वात्पुरीतति शेत इत्युच्यते ।
न हि सुषिप्तिकाले शरीरसम्बन्धोऽस्ति ।
"तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य"इति हि वक्ष्यति ।

सर्वसंसारदुःखवियुक्ता इयमवस्थेत्यत्र दृष्टान्तःस यथा कुमारो वा अत्यन्तबालो वा, महाराजो वात्यन्तवश्यप्रकृतिर्यथोक्तकृत्, महाब्राह्मणो वा अत्यन्तपरिपक्वविद्याविनयसम्पन्नः, अतिघ्नीमतिशयेन दुःखं हन्तीत्यतिघ्नी आनन्दस्यावस्था सुखावस्था तां प्राप्य गत्वा, शयीतावतिष्ठेत ।

एषां च कुमारादीनां स्वभावस्थानां सुकं निरतिश्यं प्रसिद्धं लोके, विक्रियमाणानां हि तेषां दुःखं न स्वभावतः॑तेन तेषां स्वाभाविक्यवस्था दृष्टान्तत्वेनोपादीयते प्रसिद्धत्वात् ।
न तेषां स्वाप एवाभिप्रेतः, स्वापस्य दार्ष्टान्तिकत्वेन विवक्षितत्वाद्विशेषाभावाच्च ।
विशेषे हि सति दृष्टान्तदार्ष्टान्तिकभेदः स्यात्॑तस्मान्न तेषां स्वापो दृष्टान्तः ।

एवमेव यथायं दृष्टान्तः, एष विज्ञानमय एतच्छयनं शेते इति, एतच्छब्दः क्रियाविशेषणार्थः ।
एवमयं स्वाभाविके स्वे आत्मनि सर्वसंसारधर्मातीतो वर्तते स्वापकाल इति ॥१९॥



_______________________________________________________________________

२,१.२०


क्वैष तदाभूदित्यस्य प्रश्नस्य प्रतिवचनमुक्तम् ।
अनेन च प्रश्ननिर्णयेन विज्ञानमयस्य स्वभावतो विशुद्धिरसंसारित्वं चोक्तम् ।
कुत एतदागात्? इत्यस्य प्रश्नस्यापाकरणार्थ आरम्भः ।

ननु यस्मिन्ग्रामे नगरे वा यो भवति सोऽन्यत्र गच्छंस्तत एव ग्रामान्नगराद्वा गच्छति नान्यतः ।
तथा सति क्वैष तदाभूदित्येतावानेवास्तु प्रश्नः ।
यत्राभूत्तत एवागनमं प्रसिद्धं स्यान्नान्यत इति कुत एतदागादिति प्रश्नो निरर्थक एव ।

किं श्रुतिरुपालभ्यते भवता? न ।
किं तर्हि? द्वितीयस्य प्रश्नस्यार्थान्तरं श्रोतुमिच्छाम्यत आनर्थक्यं चोदयामि ।

एवं तर्हि कुत इत्यपादानार्थता न गृह्यते॑पादानार्थत्वे हि पुनरुक्तता, नान्यार्थत्वे ।
अस्तु तर्हि निमित्तार्थः प्रश्नःकुत एतदागात्किन्निमित्तमिहागमनम्? इति ।

न निमित्तार्थतापि, प्रतिवचनवैरूप्यात् ।
आत्मनश्च सर्वस्य जगतोऽग्निविस्फुलिङ्गादिवदुत्पत्तिः प्रतिवचने श्रूयते ।
न हि विस्फुलिङ्गानां विद्रवणेऽग्निर्निमित्तमपादानमेव तु सः ।
तथा परमात्मा विज्ञानमयस्यात्मनोऽपादानत्वेन श्रूयते"अस्मादात्मनः"इत्येतस्मिन्वाक्ये ।
तस्मात्प्रतिवचनवैलोम्यात्कुत इति प्रश्नस्य निमित्तार्थता न शक्यते वर्णयितुम् ।

नन्वपादानपक्षेऽपि पुनरुक्ततादोषः स्थित एव ।

नैष दोषः, प्रश्नाभ्यामात्मनि क्रियाकारकफलात्मतापोहस्य विवक्षितत्वात् ।
इह हि विद्याविद्याविषयावुपन्यस्तौ ।
"आत्मेत्येवोपासीत" "आत्मानमेवावेत्" "आत्मानमेव लोकमुपासीत"इति विद्याविषयः ।
तथा अविद्याविषयश्च पाङ्क्तं कर्म तत्फलं चान्नत्रयं नामरूपकर्मात्मकमिति ।
तत्राविद्याविषये वक्तव्यं सर्वमुक्तम् ।

विद्याविषयस्त्वात्मा केवल उपन्यस्तो न निर्णीतः ।
तन्निर्णयाय चऽब्रह्म ते ब्रवाणिऽइति प्रक्रान्तंऽज्ञपयिष्यामिऽइति च ।
अतस्तद्ब्रह्म विद्याविषयभूतं ज्ञापयितव्यं याथात्म्यतः ।
तस्य च याथात्म्यं क्रियाकारकफलभेदशून्यमत्यन्तविशुद्धमद्वैतमित्येतद्विवक्षितम् ।
अतस्तदनुरूपौ प्रश्नावुत्थाप्येते श्रुत्याऽक्वैष तदाभूत्ऽऽकुत एतदागात्ऽइति ।

तत्र यत्र भवति तदधिकरणं यद्भवति तदधिकर्तव्यम्, यतोश्चाधिकरणाधिकर्तव्ययोर्भेदो दृष्टो लोके ।
तथा यत आगच्छति तदपादानं य आगच्छति स कर्ता तस्मादन्यो दृष्टः ।
तथा आत्मा क्वाप्यभूदन्यस्मिन्नन्यः कुतश्चिदागादन्यस्मादन्यः केनचिद्भिन्नेन साधनान्तरेणेत्येवं लोकवत्प्राप्ता बुद्धिः ।
सा प्रतिवचनेन निवर्तयितव्येति ।
नायमात्मा अन्योऽन्यत्राभूदन्यो वा

अन्यस्मादागतः साधनान्तरं वा आत्मन्यस्ति ।
किं तर्हि? स्वात्मन्येवाभूत्ऽस्वम् (आत्मानम्) अपीतो भवतिऽऽसता सोम्य तदा सम्पन्नो भवतिऽऽप्राज्ञेनात्मना सम्परिष्वक्तःऽ ।
ऽपर आत्मनि सम्प्रतिष्ठतेऽइत्यादिश्रुतिभ्यः ।
अत एव नान्योऽन्यस्मादागच्छति ।
तच्छ्रुत्यैव प्रदर्श्यतेऽअस्मादात्मनःऽइति ।
आत्मव्यतिरेकेण वस्त्वन्तराभावात् ।

नन्वस्ति प्राणाद्यात्मव्यतिरिक्तं वस्त्वन्तरम् ।
न, प्राणादेस्तत एव निष्पत्तेः ।
तत्कथम्? इत्युच्यते, तत्र दृष्टान्तः


स यथोर्णवाभिस्तन्तुनोच्चरेद्यथा अग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ।
तस्योपनिषत्सत्यस्य सत्यमिति ।
प्राणा वै सत्यं तेषामेष सत्यम् ॥ _२,१.२० ॥

__________



शा.भा._२,१.२०

स यथा लोक ऊर्णनाभिः ।
ऊर्णनाभिर्लूताकीट एक एव प्रसिद्धः सन्स्वात्माप्रविभक्तेन तन्तुनोच्चरेदुद्गच्छेत् ।
न चास्ति तस्योद्गमने स्वतोऽतिरिक्तं कारकान्तरम् ।
यथा चैकरूपादेकस्मादग्नेः श्रुद्रा अल्पा विस्फुलिङ्गास्रुटयोऽग्न्यवयवा व्युच्चरन्ति विविधं नाना वोच्चरन्ति ।
यथेमौ दृष्टान्तौ कारकभेदाभावेऽपि प्रवृत्तिं दर्शयतः, प्राक्प्रवृत्तेश्च स्वभावत एकत्वम्, एवमेवास्मादात्मनो विज्ञानमयस्य प्राक्प्रतिबोधाद्यत्स्वरूपं तस्मादित्यर्थः ।
सर्वे प्राणा वागादयः, सर्वे लोका भूरादयः, सर्वाणि कर्मफलानि, सर्वे देवाः प्राणलोकाधिष्ठातारोऽग्न्यादयः, सर्वाणि भूतानि ब्रह्मादिस्तम्बपर्यन्तानि प्राणिजातानि, सर्व एत आत्मान इत्यस्मिन्पाठ उपाधिसम्पर्कजनितप्रबुध्यमानविशेषात्मान इत्यर्थः, व्युच्चरन्ति ।

यस्मादात्मनः स्थावरजभ्गमं जगदिदमग्निविस्फुलिङ्गवद्व्युच्चरत्यनिशम्, यस्मिन्नेव च प्रलीयते जलबुद्बुदवत्, यदात्मकं च वर्तते स्थितिकाले, तस्यास्यात्मनो ब्रह्मणः, उपनिषद्॑ुप समीपं निगमयतीत्यभिधायकः शब्द उपनिषदित्युचत्यते, शास्रप्रामाण्यादेतच्छब्दगतो विशेषोऽवसीयत उपनिगमयितृत्वं नाम ।

कासावुपनिषदित्याहसत्यस्य सत्यमिति ।
सा हि सर्वत्र चोपनिषदलौकिकार्थत्वाद्दुर्विज्ञेयार्था, इति तदर्थमाचष्टेप्राणा वै सत्यं तेषामेष सत्यमिति ।
एतस्यैव वाक्यस्य व्याख्यानायोत्तरं ब्राह्मणद्वयं भविष्यति ।

भवतु तावदुपनिषद्व्याख्यानायोत्तरं ब्राह्मणद्वयम्, तस्योपनिषदित्युक्तम्, तत्र न जानीमः किं प्रकृतस्यात्मनो विज्ञानमयस्य पाणिपेषणोत्थितस्य संसारिणः शब्दादिभुज इयमुपनिषदाहोस्विदसंसारिणः कस्यचित्? किञ्चातः? यदि संसारिणस्तदा संसार्येव विज्ञेयः, तद्विज्ञानादेव सर्वप्राप्तिः ।
स एव ब्रह्मशब्दवाच्यस्तद्विद्यैव ब्रह्मविद्येति ।
अथ असंसारिणः, तदा तद्विषया विद्या ब्रह्मविद्या ।
तस्माच्च ब्रह्मविज्ञानात्सर्वभावापत्तिः ।

सर्वमेतच्छास्रप्रामाण्याद्भविष्यति ।
किन्त्वस्मिन्पक्षे"आत्मेत्येवोपासीत" "आत्मानमेवावेदहं ब्रह्मास्मि"इति परब्रह्मैकत्वप्रतिपादिकाः श्रुतयः कुप्येरन्, संसारिणश्चान्यस्याभावे उपदेशानर्थक्यात् ।
यत एवं पण्डितानामप्येतन्महामोहस्थानमनुक्तप्रतिवचनप्रश्नविषयम्॑ अतो यथाशक्ति ब्रह्मविद्याप्रतिपादकवाक्येषु ब्रह्म विजिज्ञासूनां बुद्धिव्युत्पादनाय विचारयिष्यामः ।

न तावदसंसारी परः, पाणिपेषणप्रतिबोधिताच्छब्दादिभुजोऽवस्थान्तरविशिष्टादुत्पत्तिश्रुतेः ।
न प्रशासिताशनायादिवर्जितः परो विद्यते, कस्मात्? यस्मात्ऽब्रह्म ज्ञपयिष्यामिऽ इति प्रतिज्ञाय सुप्तं पुरुषं पाणिपेषं बोधयित्वा तस्यैव स्वप्नद्वारेण सुषुप्त्याख्यमवस्थान्तरमुन्नीय तस्मादेवात्मनः सुषुप्त्यवस्थाविशिष्टादग्निविस्फुलिङ्गोर्णनाभिदृष्टान्ताभ्यामुत्पत्तिं दर्शयति श्रुतिः"एवमेवास्मात्"इत्यादिना ।
न चान्यो जगदुत्पत्तिकारणमन्तराले श्रुतोऽस्ति, विज्ञानमयस्यैव हि प्रकरणम् ।
समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनामादित्यादिपुरुषान्प्रस्तुत्य"स होवाच यो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म स वै वेदितव्यः"इति प्रबुद्धस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति, नार्थान्तरस्य ।

तथा च"आत्मनस्तु कामाय सर्वं प्रियं भवति"इत्युक्त्वा, य एवात्मा प्रियः प्रसिद्धस्तस्यैव द्रष्टव्यश्रोतव्यमन्तव्यनिदिध्यासितव्यतां दर्शयति ।
तथा च विद्योपन्यासकाले"आत्मेत्येवोपासीत" "तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्" "तदात्मानमेवावेदहं ब्रह्मास्मि"इत्येवमादिवाक्यानामानुलोम्यं स्यात्पराभावे ।
वक्ष्यति च "आत्मानं चेद्विजानीयादयमस्मीति पूरुषः"इति ।
सर्ववेदान्तेषु च प्रत्यगात्मवेद्यतैव प्रदर्श्यतेऽहमिति, न बहिर्वेद्यता शब्दादिवत्प्रदर्श्यतेऽसौ ब्रह्मेति ।
तथा कौषीतकिनामेव"न वाचं विजिज्ञासीत वक्तारं विद्यात्"इत्यादिना वागादिकरणैर्व्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्शयति ।

अवस्थान्तरविशिष्टोऽसंसारीति चेतथापि स्याद्यो जागरिते शब्दादिभुग्विज्ञानमयः, स एव सुषुप्ताख्यमवस्थान्तरं गतोऽसंसारी परः प्रशासिता अन्यः स्यादिति चेन्न, अदृष्टत्वात् ।
न ह्येवन्धर्मकः पदार्थो दृष्टोऽन्यत्र वैनाशिकसिद्धान्तात् ।
न हि लोके गौस्तिष्ठन् गच्छन्वा गौर्भवति, शयानस्त्वश्वादिजात्यन्तरमिति ।
न्यायाच्चयद्धर्मको यः पदार्धः प्रमाणेनावगतो भवति, स देशकालावस्थान्तरेष्वपि तद्धर्मक एव भवति ।
स चेत्तद्धर्मकत्वं व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत ।
तथा च न्यायविदः साङ्ख्यमीमांसकादयोऽसंसारिणोऽभावं युक्तिशतैः प्रतिपादयन्ति ।

संसारिणोऽपि जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानस्याभावादयुक्तमिति चेत्यन्महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक्संसार्येवावस्थान्तरविशिष्टो जगत इह कर्तेतितदसत्॑ यतो जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानशक्तिसाधनाभावः सर्वलोकप्रत्यक्षः संसारिणः ।
स कथमस्मदादिः संसारी मनसापि चिन्तयितुमशक्यं पृथिव्यादिविन्यासविशिष्टं जगन्निर्मिनुयात्? अतोऽयुक्तमिति चेन्न, शास्रात्॑ शास्रं संसारिणः"एवमेवास्मादात्मनः"इति जगदुत्पत्त्यादि दर्शयति ।
तस्मात्सर्वं श्रद्धेयमिति स्यादयमेकः पक्षः ।

"यः सर्वज्ञः सर्ववित्" "योऽशनायापिपासे अत्येति" "असङ्गो न हि सज्जते" "एतस्य वा अक्षरस्य प्रशासने" "यः सर्वेषु भूतेषु तिष्ठन्नन्तर्याम्यमृतः" "स यस्तान्पुरुषान्निरुह्यात्यक्रामत्" "स वा एष महानज आत्मा"

"एष सेतुर्विधरणः" "सर्वस्य वशी सर्वस्येशानः" "य आत्मापहतपाप्मा विजरो विमृत्युः" "तत्तेजोऽसृजत" "आत्मा वा इदमेक एवाग्र आसीत्" "न लिप्यते लोकदुःखेन बाह्यः"इत्यादिश्रुतिशतेभ्यः ।
स्मृतेश्च"अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते"इति परोऽस्त्यसंसारी ।
श्रुतिस्मृतिन्यायेभ्यश्च ।
स च कारणं जगतः ।
नन्"वेवमेवास्मादात्मन"इति

संसारिण एवोत्पत्तिम् ।
दर्शयतीत्युक्तम् ।
न ।
"य एषोऽन्तर्हृदय आकाश"इति परस्य प्रकृतत्वादस्मादात्मन इति युक्तः परस्यैव परामर्शः ।
"क्वैष तदाभूदि"त्यस्य प्रश्नस्य प्रतिवचनत्वेनाऽकाशशब्दवाच्यः पर आत्मोक्तो"य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेत"इति ।
"सता सोम्य तदा सम्पन्नो भवत्य" "हरहर्गच्छन्त्य एतं ब्रह्मलोकं न विदन्ति" "प्राज्ञेनाऽत्मना सम्परिष्वक्तः" "पर आत्मनि संप्रतिष्ठते"इत्यादिश्रुतिभ्य आकाशशब्दः पर आत्मेति निश्चीयते ।
"दहरोऽस्मिन्नन्तराकाश"इति प्रस्तुत्य तस्मिन्नेवाऽत्मशब्दप्रयोगाच्च ।
प्रकुत एव पर आत्मा ।
तस्माद्युक्तमेव अस्मादात्मन इति परमात्मन एव सृष्टिरिति ।
संसारिणः सृष्टिस्थितिसंहारज्ञानसामर्थ्याभावं चावोताम ।

अत्र च"आत्मेत्येवोपासीत" "आत्मानमेवावेदहं ब्रह्मास्मी"ति ब्रह्मविद्या प्रस्तुता ।
ब्रह्मविषयञ्च ब्रह्मविज्ञानमिति ।
"ब्रह्म ते ब्रवाणी"ति"ब्रह्म ज्ञपयिष्यामी"ति प्रारब्धम् ।
तत्रेदानीमसंसारि ब्रह्म जगतः कारणमशनायाद्यतीतं नित्यशुद्धबुद्धमुक्तस्वभावं तद्विपरीतश्च संसारी तस्मादहं ब्रह्मास्मीति न गृह्णीयात् ।
परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन्कथं न दोषभाक्स्यात् ।
तस्मान्नाहं ब्रह्मास्मीति युक्तम् ।

तस्मात्पुष्पोदकाञ्जलिस्तुतिनमस्कारबल्युपहारस्वाध्यायध्यानयोगादिभिरारिराधयिषेत ।
आराधनेन विदित्वा सर्वेशितृ ब्रह्म भवति ।
न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेदग्निमिव शीतत्वेनाऽकाशमिव मूर्तिमत्वेन ।
ब्रह्मात्मत्वप्रतिपादकमपि शास्रमर्थवादो भविष्यति ।
सर्वतर्कशास्रलोकन्यायैश्चैवमविरोधः स्यात् ।
न, मन्त्रब्राह्मणवादेभ्यस्तस्यैव प्रवेश श्रवणात् ।
"पुरश्चक्र"इति प्रकृत्य"पुरः पुरुष आविशदि"ति"रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय" "सर्वाणि रूपाणि विचित्य धोरो नामानि कृत्वाभिवदन्यदास्ते"इति सर्वशाखासु सहस्रशो मन्त्रवादाः सृष्टिकर्तुरेवासंसारिणः शरीरप्रवेशं दर्शयन्ति ।
तथा ब्राह्मणवादाः ।
"तत्सृष्ट्वा तदेवानुप्राविशत्" "स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत" "सेयं देवतेमास्तिसत्रो देवता अनेन जीवेनाऽत्मनानुप्रविश्य" "एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते"इत्याद्याः ।
सर्वश्रुतिषु च ब्रह्मण्यात्मशब्दप्रयोगादात्मशब्दस्य च प्रत्यगात्माभिधायकत्वात्"एष सर्वभूतान्तरात्मा"इति च श्रुतेः परमात्मव्यतिरेकेण संसारिणोऽभावात्"एकमेवाद्वितीयम्" "ब्रह्मैवेदम्" "आत्मैवेदम्"इत्यादिश्रुतिभ्यो युक्तमेवाहं ब्रह्मास्मीत्यवधारयितुम् ।

यदैवं स्थितः शास्रार्थस्तदा परमात्मनः संसरित्वम् ।
तथा च सति शास्रानर्थक्यमसंसारित्वे चोपदेशानर्थक्यं स्पष्टो दोषः प्राप्तः ।
यदि तावत्परमात्मा सर्वभूतान्तरात्मा सर्वशरीरसम्पर्कजनितदुःखान्यनुभवतीति स्पष्टं परस्य संसारित्वं प्राप्तम् ।
तथा च परस्यासंसारित्वप्रतिपादिकाः श्रुतयः कुप्येरन्स्मृतयश्च सर्वे च न्यायाः ।
अथ कथञ्चित्प्राणिशरीरसम्बन्धजैर्दुःखैर्न सम्बध्यत इति शक्यं प्रतिपादयितुं परमात्मनः साध्यपरिहार्याभावादुपदेशानर्थक्यदोषो न शक्यते निवारयितुम् ।
अत्र केचित्परिहारमाचक्षते ।
परमात्मा न साक्षाद्भूतेष्वनुप्रविष्टः स्वेन रूपेण ।
किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्रतिपेदे ।

स च विज्ञानात्मा परस्मादन्योऽनन्यश्च ।
येनान्यस्तेन संसारित्वसम्बन्धी येनानन्यस्तेनाहं ब्रह्मेत्यवधारणार्हः ।
एवं सर्वमविरुद्धं भविष्यतीति ।

तत्र विज्ञानात्मनो विकारपक्षे एता गतयःपृथिवीद्रव्यवदनेकद्रव्यसमाहारस्य सावयवस्य परमात्मन एकदेशविपरिणामो विज्ञानात्मा घटादिवत् ।
पूर्वसंस्थानावस्थस्य वा परस्यैकदेशो विक्रियते केशोषरादिवत्, सर्व एव वा परः परिणमेत्क्षीरादिवत् ।

तत्र समानजातीयानेकद्रव्यसमूहस्य कश्चिद्द्रव्यविशेषो विज्ञानात्मत्वं प्रतिपद्यते यदा, तदा समानजातीयत्वादेकत्वमुपचरितमेव न तु परमार्थतः ।
तथा च सति सिद्धान्तविरोधः ।

अथ नित्यायुतसिद्धावयवानुगतोऽवयवी पर आत्मा, तस्य तदवस्थस्यैकदेशो विज्ञानात्मा संसारीतदापि सर्वावयवानुगतत्वादवयविन एवावयवगतो दोषो गुणो वेति, विज्ञानात्मनः संसारित्वदोषेण पर एवात्मा सम्बध्यत इति, इयमप्यनिष्टा कल्पना ।
क्षीरवत्सर्वपरिणामपक्षे सर्वश्रुतिस्मृतिकोपः, स चानिष्टः ।
"निष्कलं निष्क्रियं शान्तम्" "दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः" "आकाशवत्सर्वगतश्च नित्यः" "स वा एष महानज आत्माजरोऽमरोऽमृतः" "न जायते म्रियते वा कदाचित्" "अव्यक्तोऽयम्"इत्यादिश्रुतिस्मृतिन्यायविरुद्धा एते सर्वे पक्षाः ।

अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मनः कर्मफलवद्देशसंसरणानुपपत्तिः, परस्य वा संसारित्वमित्युक्तम् ।
परस्यैकदेशोऽग्निविस्फुलिङ्गवत्स्फुटितो विज्ञानात्मा संसरतीति चेत्तथापि परस्यावयवस्फुटनेन क्षतप्राप्तिः, तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रताप्राप्तिः, अव्रणत्ववाक्यविरोधश्च ।
आत्मावयवभूतस्य विज्ञानात्मनः संसरणे परमात्मशून्यप्रदेशाभावादवयवान्तरनोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः ।

अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत्? न, श्रुतेर्ज्ञापकत्वात्॑न शास्रं पदार्थानन्यथा कर्तुं प्रवृत्तम् ।
किं तर्हि? यथाभूतानामज्ञातानां ज्ञापने ।
किञ्चातः? शृणुअतो यद्भवति, यथाभूता मूर्तामूर्तादिपदार्थधर्मा लोके प्रसिद्धाः ।
तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञापयितुं प्रवृत्तं शास्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिकवस्तुविरोधज्ञापनाय लौकिकमेव दृष्टान्तमुपादत्ते ।
उपादीयमानोऽपि दृष्टान्तोऽनर्थकः स्याद्दार्ष्टान्तिकासङ्गतेः ।
न ह्याग्निः शीत आदित्यो न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं शक्यम्, प्रमाणान्तरेणान्यथाधिगतत्वाद्वस्तुनः ।
न च प्रमाणं प्रमाणान्तरेण विरुध्यते, प्रमाणान्तराविषयमेव हि प्रमाणान्तरं ज्ञापयति ।
न च लौकिकपदपदार्थाश्रयणव्यतिरेकेणागमेन शक्यमज्ञातं वस्त्वन्तरमवगमयितुम् ।
तस्मात्प्रसिद्धन्यायमनुसरता न शक्या परमात्मनः सावयवांशांशित्वकल्पना परमार्थतः प्रतिपादयितुम् ।

"क्षुद्रा विस्फुलिङ्गाः" "ममैवांशः"इति च श्रूयते स्मर्यते चेति चेन्न, एकत्वप्रत्ययार्थपरत्वात् ।
अग्नेर्हि विस्फुलिङ्गोऽग्निरेव इत्येकत्वप्रत्ययार्हे दृष्टो लोके॑ तथा चांशोंऽशिनैकत्वप्रत्ययार्हः॑ तत्रैवं सति विज्ञानात्मनः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मविकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः ।

उपक्रमोपसंहाराभ्यां चसर्वासु ह्युपनिषत्सु पूर्वमेकत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादित्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति॑ तद्यथेहैव तावत्"इदं सर्वं यदयमात्मा"इति प्रतिज्ञाय, उत्पत्तिस्थितिलयहेतुदृष्टान्तैर्विकारविकारित्वाद्येकत्वप्रत्ययहेतून्प्रति पाद्य"अनन्तरमबाह्यम्" "अयमात्मा ब्रह्म"इत्युपसंहरिष्यति ।
तस्मादुपक्रमोपसंहरिष्यति ।
तस्मादुपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते परमात्मैकत्वप्रत्ययद्रढिम्न उत्पत्तिस्थितिलयप्रतिपादकानि वाक्यानीति ।

अन्यथा वाक्यभेदप्रसङ्गाच्चसर्वोपनिषत्सु हि विज्ञानात्मनः परमात्मनैकत्वप्रत्ययो विधीयत इत्यविप्रतिपत्तिः सर्वेषामुपनिषद्वादिनाम् ।
तद्विध्येकवाक्ययोगे च सम्भवत्युत्पत्त्यादिवाक्यानां न प्रमाणमस्ति॑फलान्तरं च कल्पयितव्यं स्यात्॑तस्मादुत्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः ।

अत्र च सम्प्रदायविद आख्यायिकां सम्प्रचक्षतेकश्चित्किल राजपित्रो जातमात्र एव मातापितृभ्यामपविद्धो व्याधगृहे संवर्धितः, सोऽमुष्य वंश्यतामजानन्व्याधजातिप्रत्ययो व्याधजातिकर्माण्येवानुवर्तते॑ न राजास्मीति राजजातिकर्माण्यनुवर्तते ।
यदा पुनः कश्चित्परमकारुणिको राजपुत्रस्य राजश्रीप्राप्तियोग्यतां जानन्नमुष्य पुत्रतां बोधयति"न त्वं व्याधोऽमुष्य राज्ञः पुत्रः, कथञ्चिद्व्याधगृहमनुप्रविष्टः"इतिस एवं बोधितस्त्यक्त्वा व्याधजातिप्रत्ययकर्माणि पितृपैतामहीमात्मनः पदवीमनुवर्तते राजाहमस्मीति ।
तथा किलायं परस्मादग्निविस्फुलिङ्गादिवत्तज्जातिरेव विभक्त इह देहेन्द्रियादिगहने प्रविष्टोऽसंसारी सन् देहेन्द्रियादिसंसारधर्ममनुवर्तते"देहेन्द्रियसङ्घातोऽस्मि कृशः स्थूलः सुखी दुःखी"इति परमात्मतामजानन्नात्मनः ।
न त्वमेतदात्मकः परमेव ब्रह्मास्यसंसारीति प्रतिबोधित आचार्येण हित्वैषणात्रयानुवृत्तिं ब्रह्मैवास्मीति प्रतिपद्यते ।
अत्र राजपुत्रस्य राजप्रत्ययवद्ब्रह्मप्रत्ययो दृढीभवतिविस्फुलिङ्गव देव त्वं परस्माद्ब्रह्मणो भ्रष्ट इत्युक्ते विस्फुलिङ्गस्य प्रागग्नेर्भ्रंशादग्न्येकत्वदर्शनात् ।

तस्मादेकत्वप्रत्ययदार्ढ्याय सुवर्णमणिलोहाग्निविस्फुलिङ्गदृष्टान्ताः, नोत्पत्त्यादिभेदप्रतिपादनपराः ।

सैन्धवधनवत्प्रज्ञप्त्येकरसनैरन्तर्यावधारणात्"एकधैवानुद्रष्टव्यम्"इति च ।
यदि च ब्रह्मणश्चित्रपटवद्वृक्षसमुद्रादिवच्चोत्पत्त्याद्यनेकधर्मविचित्रता विजिग्राहयिषिता, एकरसं सैन्धवघनवदनन्तरमबाह्यमिति नोपसमहरिष्यत्,"एकधैवानुद्रष्टव्यम्"इति च न प्रायोक्ष्यत"य इह नानेव पश्यति"इति निन्दावचनं च ।
तस्मादेकरूपैकत्वप्रत्ययदार्ढ्यायैव सर्ववेदान्तेषूत्पत्तिस्थितिलयादिकल्पना, न तत्प्रत्ययकरणाय ।

न च निरवयवस्य परमात्मनोऽसंसारिणः संसार्येकदेशकल्पनान्याय्या, स्वतोऽदेशत्वात्परमात्मनः ।
अदेशस्य परस्य एकदेशसंसारित्वकल्पनायां पर एव संसारीति कल्पितं भवेत् ।
अथ परोपाधिकृत एकदेशः परस्य, घटकरकाद्याकाशवत्॑न तदा तत्र विवेकिनां परमात्मैकदेशः पृथक्संव्यवहारभागिति बुद्धिरुत्पद्यते ।

अविवेकिनां विवेकिनां चोपचरिता बुद्धिर्दृष्टेति चेत्? न॑विवेकिनां मिथ्याबुद्धित्वात्, विवेकिनां च संव्यवहारमात्रालम्बनार्थत्वात्यथा कृष्णो रक्तश्चाकाश इति विवेकिनामपि कदाचित्कृष्णता रक्तता च आकाशस्य संव्यवहारमात्रालम्बनार्थत्वं प्रतिपद्यत इति, न परमार्थतः कृष्णो रक्तो वा आकाशो भवितुमर्हति ।
अतो न पण्डितैर्ब्रह्मस्वरूपप्रतिपत्तिविषये ब्रह्मणोंऽशांश्येकदेशैकदेशिविकारविकारित्वकल्पना कार्या, सर्वकल्पनापनयनार्थसारपरत्वात्सर्वोपनिषदाम् ।

अतो हित्वा सर्वकल्पनामाकाशस्येव निर्विशेषता प्रतिपत्तव्या"आकाशवत्सर्वगतश्च नित्यः" "न लिप्यते लोकदुःखेन बाह्यः"इत्यादिश्रुतिशतेभ्यः॑ नात्मानं ब्रह्मविलक्षणं कल्पयेतुष्णात्मक इवाग्नौ शीतैकदेशम्, प्रकाशात्मके वा सवितरि तमेकदेशम्सर्वकल्पनापनयनार्थसारपरत्वात्सर्वोपनिषदाम् ।
तस्मान्नामरूपोपाधिनिमित्ता एव आत्मन्यसंसारधर्मिणि सर्वे व्यवहाराः॑"रूपं रूपं प्रतिरूपो बभूव" "सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्ते"इत्येवमादिमन्त्रवर्णेभ्यः ।

न स्वत आत्मनः संसारित्वम्, अलक्तकाद्युपाधिसंयोगजनितरक्तस्फटिकादिबुद्धिवद्भ्रान्तमेव, न परमार्थतः ।
"ध्यायतीव लेलायतीव" "न वर्धते कर्मणा नो कनीयान्" "न लिप्यते कर्मणा पापकेन" "समं सर्वेषु भूतेषु तिष्ठन्तम्" "शुनि चैव श्वपाके च"इत्यादिश्रुतिस्मृतिन्यायेभ्यः परमात्मनोऽसंसारितैव ।
अत एकदेशो विकारः शक्तिर्वा विज्ञानात्मा अन्यो वेति विकल्पयितुं निरवयवत्वाभ्युपगमे विशेषतो न शक्यते ।
अंशादिश्रुतिस्मृतिवादाश्चैकत्वार्थाः, न तु भेदप्रतिपादकाः, विवक्षितार्थैकवाक्ययोगातित्यवोचाम ।

सर्वोपनिषदां परमात्मैकत्वज्ञापनपरत्वे अथ किमर्थं तत्प्रतिकूलोर्ऽथो विज्ञानात्मभेदः परिकल्प्यत इति? कर्मकाण्डप्रामाण्यविरोधपरिहारायेत्येकेच कर्मप्रतिपादकानि हि वाक्यानि अनेकक्रियाकारकफलभोक्तृकर्त्राश्रयाणि, विज्ञानात्मभेदाभावे ह्यसंसारिण एव परमात्मन एकत्वे कथमिष्टफलासु क्रियासु प्रवर्तयेयुः? अनिष्टफलाभ्यो वा क्रियाभ्यो निवर्तयेयुः? कस्य वा बद्धस्य मोक्षायोपनिषदारभ्येत? अपि च परमात्मैकत्वावादिपक्षे कथं परमात्मैकत्वोपदेशः? कथं वा तदुपदेशग्रहणफलम्? बद्धस्य हि बन्धनाशायोपदेशस्तदभाव उपनिषच्छास्रं निर्विषयमेव ।

एवं तर्हि उपनिषद्वादिपक्षस्य कर्मकाण्डवादिपक्षेण चोद्यपरिहारयोः समानः पन्थाःयेन भेदाभावे कर्मकाण्डं निरालम्बनमात्मानं न लभ्ते प्रामाण्यं प्रति तथोपनिषदपि ।
एवं तर्हि यस्य प्रामाण्ये स्वार्थविधातो नास्ति, तस्यैव कर्मकाण्डस्यास्तु प्रामाण्यम्॑ुपनिषदां तु प्रामाण्यकल्पनायां स्वार्थविघातो भवेदिति मा भूत्प्रामाण्यम् ।
न हि कर्मकाण्डं प्रमाणं सदप्रमाणं भवितुमर्हति॑न हि प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाशयति चेति ।
प्रत्यक्षादिप्रमाणविप्रतिषेधाच्चन केवलमुपनिषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्मकाण्डप्रामाण्यविघातं च कुर्वन्ति॑प्रत्यक्षादिनिश्चितभेदप्रतिपत्त्यर्थप्रमाणैश्च विरुध्यन्ते ।
तस्मादप्रामाण्यमेवोपनिषदाम्॑न्यार्थता वास्तु॑न त्वेव ब्रह्मैकत्वप्रतिपत्त्यर्थता ।

न॑ुक्तोत्तरत्वात् ।
प्रमाणस्य हि प्रमाणत्वमप्रमाणत्वं वा प्रमोत्पादनानुत्पादननिमित्म्, अन्यथा चेत्स्तम्भादीनां प्रामाण्यप्रसङ्गाच्छब्दादौ प्रमेये ।
किञ्चातः? यदि तावदुपनिषदो ब्रह्मैकत्वप्रतिपत्तिप्रमां कुर्वन्ति, कथमप्रमाणं भवेयुः? स भवानेवं वदन्वक्तव्यःुपनिषत्प्रामाण्यप्रतिषेधार्थं भवतो वाक्यमुपनिषत्प्रामाण्यप्रतिषेधं किं न करोत्येवाग्निर्वा रूपप्रकाशम्? अथ करोति ।
यदि करोति भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम्, अग्निश्च रूपप्रकाशको भवेत्॑प्रतिषेधवाक्यप्रामाण्ये भवत्येवोपनिषदां प्रामाण्यम् ।
अत्र भवन्तो ब्रुवन्तु कः परिहार इति?

नन्वत्र प्रत्यत्रा मदावाक्य उपनिषत्प्रामाण्यप्रतिषेधार्थप्रतिपत्तिरग्नौ च रूपप्रकाशनप्रतिपत्तिः प्रमा ।
कस्तर्हि भवतः प्रद्वेषो ब्रह्मैकत्वप्रत्यये प्रमां प्रत्यक्षं कुर्वतीषूपनिषत्सूपलभ्यमानासु प्रतिषेधानुपपत्तेः ।
शोकमोहादिनिवृत्तिश्च प्रत्यक्षं फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितमित्यवोचाम ।
तस्मादुक्तोत्तरत्वादुपनिषदं प्रत्यप्रामाण्यशङ्का तावन्नास्ति ।
यच्चोक्तं स्वार्थविघातकरत्वादप्रामाण्यमिति, तदपि न, तदर्थप्रतिपत्तेर्बाधकाभावात् ।
न हि

उपनिषद्भ्यःब्रह्मैकमेवाद्वितीयम्, नैव चैति प्रतिपत्तिरस्ति॑यथाग्निरुष्णः शीतश्चेत्यस्माद्वाक्याद्विरुद्धार्थद्वयप्रतिपत्तिः ।
अभ्युपगम्य चैतदवोचाम॑न तु वाक्यप्रामाण्यसमय एषन्यायःयदुतैकस्य वाक्यस्यानेकार्थत्वम् ।
सति चानेकार्थत्वे, स्वार्थश्च स्यात्, तद्विघातकृच्च विरुद्धोऽन्योर्ऽथः ।
न त्वेतत्वाक्यप्रमाणकानां विरुद्धमविरुद्धं च, एवं वाक्यम्, अनेकमर्थं प्रतिपादयतीत्येष समयः॑र्थैकत्वाद्व्येकवाक्यता ।

न च कानिचिदुपनिषद्वाक्यानि ब्रह्मैकत्वप्रतिषेधं कुर्वन्ति ।
यत्तु, लौकिकं वाक्यमग्निरुष्णः शीतश्चेति, न तत्रैकवाक्यता, तदेकदेशस्य प्रमाणान्तरविषयानुवादित्वात् ।
अग्निः शीत इत्येतदेकं वाक्यम्॑ग्निरुष्ण इति तु प्रमाणान्तरानुभवस्मारकम्, न तु स्वयमर्थावबोधकम् ।
अतो नाग्निः शीत इत्यनेनैकवाक्यता, प्रमाणान्तरानुभवस्मारणेनैवोपक्षीणत्वात् ।
यत्तु विरुद्धार्थप्रतिपादकमिदं वाक्यमिति मन्यते, तच्छीतोष्णपदाभ्यामग्निपदसामानाधिकरण्यप्रयोगनिमित्ता भ्रान्तिः॑न त्वेवैकस्य वाक्यस्यानेकार्थत्वं लौकिकस्य वैदिकस्य वा ।

यच्चोक्तं कर्मकाण्डप्रामाण्यविघातकृदुपनिषद्वाक्यमिति, तन्न॑ अन्यार्थत्वात् ।
ब्रह्मैकत्वप्रतिपादनपरा ह्युपनिषदो नेष्टार्थप्राप्तौ साधनोपदेशं तस्मिन्वा पुरुषनियोगं वारयन्ति, अनेकार्थत्वानुपपत्तेरेव ।
न च कर्मकाण्डवाक्यानां स्वार्थे प्रमा नोत्पद्यते ।
असाधारणे चेत्स्वार्थे प्रमामुत्पादयति वाक्यम्, कुतोऽन्येन विरोधः स्यात्? ब्रह्मैकत्वे निर्विषयत्वात्प्रमानोत्पद्यत एवेति चेत्? न, प्रत्यक्षत्वात्प्रमायाः ।
"दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत" "ब्राह्मणो न हन्तव्यः"इत्येवमादिवाक्येभ्यः प्रत्यक्षा प्रमा जायमाना॑ऽसा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोधयिष्यन्तिऽ इत्यनुमानम्॑ न चानुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते॑ तस्मादसदेवैतद्गीयतेप्रमैव नोत्पद्यत इति ।
अपि च यथाप्राप्तस्यैव अविद्याप्रत्युपस्थापितस्य क्रियाकारकफलस्याश्रयणेन इष्टानिष्टप्राप्तिपरिहारोपायसामान्ये प्रवृत्तस्य तद्विशेषमजानतः तदाचक्षाणा श्रुतिः क्रियाकारकफलभेदस्य लोकप्रसिद्धस्य सत्यतामसत्यतां वा नाचष्टे न च वारयति, इष्टानिष्टफलप्राप्तिपरिहारोपायविधिपरत्वात् ।

यथा काम्येषु प्रवृत्ता श्रुतिः कामानां मिथ्याज्ञानप्रभवत्वे सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते, न तु कामानां मिथ्याज्ञानप्रभवत्वादनर्थरूपत्वं चेति न विदधाति ।
तथा नित्याग्निहोत्रादिशास्रमपि मिथ्याज्ञानप्रभवं क्रियाकारकभेदं यथाप्राप्तमेवादाय इष्टविशेषप्राप्तिमनिष्टविशेषपरिहारं वा किमपि प्रयोजनं पश्यदग्निहोत्रादीनि कर्माणि विधत्ते ।
नाविद्यागोचरासद्वस्तुविषयमिति न प्रवर्तते यथा काम्येषु ।

न च पुरुषा न प्रवर्तेरन्नविद्यावन्तः, दृष्टत्वाद्यथा कामिनः ।

विद्यावतामेव कर्माधिकार इति चेत्? न, ब्रह्मैकत्वविद्यायां कर्माधिकारविरोधस्योक्तत्वात् ।
एतेन ब्रह्मैकत्वे निर्विषयत्वादुपदेशेन तद्ग्रहणफलाभावदोषपरिहार उक्तो वेदितव्यः ।

पुरुषेच्छारागादिवैचित्र्याच्चअनेका हि पुरुषाणमिच्छाः, रागादयश्च दोषा विचित्राः॑ततश्च बाह्यविषयरागाद्यपहृतचेतसो न शास्रं निवर्तयितुं शक्तम्॑नापि स्वभावतो बाह्यविषयविरक्तचेतसो विषयेषु प्रवर्तयितुं शक्तम्॑किन्तु शास्रादेतावदेव भवतिइदमिष्टसाधनमिदमनिष्टसाधनमिति साध्यसाधनसम्बन्धविशेषाभिव्यक्तिःप्रदीपादिवत्तमसि रूपादिज्ञानम् ।
न तु शास्रं भृत्यानिव बलान्निवर्तयति नियोजयति वा॑दृश्यन्ते हि पुरुषा रागादिगौरवाच्छास्रमप्यतिक्रामन्तः ।
तस्मात्पुरुषमतिवैचित्र्यमपेक्ष्य साध्यसाधनसम्बन्धविशेषाननेकधोपदिशति ।

तत्र पुरुषाः स्वयमेव यथारुचि साधनविशेषेषु प्रवर्तन्ते, शास्रं तु सवितृप्रदीपादिवदुदास्त एव ।
तथा कस्यचित्परोऽपि पुरुषार्थोऽपुरुषार्थवदवभासते॑ यस्य यथावभासः, स तथारूपं पुरुषार्थं पश्यति॑ तदनुरूपाणि साधनान्युपादित्सते ।
तथा चार्थवादोऽपि"त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः"इत्यादिः ।
तस्मान्न ब्रह्मैकत्वं ज्ञापयिष्यन्तो वेदान्ता विधिशास्रस्य बाधकाः ।
न च विधिशास्रमेतावता निर्विषयं स्यात् ।

नाप्युक्तकारकादिभेदं विधिशास्रमुपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति ।
स्वविषयशूराणि हि प्रमाणानि, श्रोत्रादिवत् ।

तत्र पण्डितंमन्याः केचित्स्वचित्तवशात्सर्वं प्रमाणमितरेतरविरुद्धं मन्यन्ते, तछा प्रत्यक्षादिविरोधमपि चोदयन्ति ब्रह्मैकत्वेशब्दादयः किल श्रोत्रादिविषया भिन्नाः प्रत्यक्षत उपलभ्यन्ते, ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोधः

स्यात्॑ तथा श्रोत्रादिभिः शब्दाद्युपलब्धारः कर्तारश्च धर्माधर्मयोः प्रतिशरीरं भिन्ना अनुमीयन्ते संसारिणः॑ तत्र ब्रह्मैकत्वं बरु्वतामनुमानविरोधश्च ।
तथा च आगमविरोधं वदन्ति"ग्रामकामो यजेत" "पशुकामो यजेत" "स्वर्गकामो यजेत"इत्येवमादिवाक्येभ्यो ग्रामपशुस्वर्गादिकामास्तत्साधनाद्यनुष्ठातारश्च भिन्ना अवगम्यन्ते ।
अत्रोच्यतेते तु कुतर्कदूषितान्तःकरणा ब्राह्मणादिवर्णापसदा अनुकम्पनीया आगमार्थविच्छिन्नसम्प्रदायबुद्धय इति ।
कथम्? श्रोत्रादिद्वारैः शब्दादिभिः प्रत्यक्षत उपलभ्यमानैर्ब्रह्मण एकत्वं विरुध्यत इति वदन्तो वक्तव्याःकिं शब्दादीनां भेदेनाकाशैकत्वं विरुध्यत इति॑थ न विरुद्ध्यते, न तर्हि प्रत्यक्षविरोधः ।

यच्चोक्तं प्रतिशरीरं शब्दाद्युपलब्धारो धर्माधर्मयोश्च कर्तारो भिन्ना अनुमीयन्ते, तथा च ब्रह्मैकत्वेऽनुमानविरोध इति॑भिन्ना कैरनुमीयन्त इति प्रष्टव्याः॑थ यदि ब्रूयुःसर्वैरस्माभिरनुमानकुशलैरितिके यूयमनुमानकुशला इत्येवं पृष्टानां किमुत्तरम् ।

शरीरेन्द्रियमन आत्मसु च प्रत्येकमनुमानकौशलप्रत्याख्याने, शरीरेन्द्रियमनःसाधना आत्मानो वयमनुमानकुशलाः, अनेककारकसाध्यत्वात्क्रियाणामिति चेत्? एवं तर्ह्यनुमानकौशलेभवतामनेकत्वप्रसङ्गः॑ अनेककारकसाध्या हि क्रियेति भवद्भिरेवाभ्युपगतम् ।
तत्रानुमानं च क्रिया॑ सा शरीरेन्द्रियमन आत्मसाधनैः कारकैरात्मकर्तृका निर्वर्त्यत इत्येतत्प्रतिज्ञातम् ।
तत्र वयमनुमानकुशला इत्येवं वदद्भिःशरीरेन्द्रियमनःसाधना आत्मानः प्रत्येकं वयमनेक इत्यभ्युपगतं स्यात् ।
अहो अनुमानकौशलं दर्शितमपुच्छशृङ्गैस्तार्किकबलीवर्दैः ।
यो ह्यात्मानमेव न जानाति स कथं मूढस्तद्गतं वा जानीयात्? तत्र किमनुमिनोति? केन वा लिङ्गेन? न ह्यात्मनः स्वतो भेदप्रतिपादकं किञ्चिल्लिङ्गमस्ति, येन लिङ्गेनात्मभेदं साधयेत्॑ यानि लिङ्गान्यात्मभेदसाधनाय नामरूपवन्त्युपन्यस्यन्ति, तानि नामरूपगतान्युपाधय एवात्मनो घटकरकापवरकभूच्छिद्राणीवाकाशस्य ।
यदाकाशस्य भेदलिङ्गं पश्यति, तदात्मनोऽपि भेदलिङ्गं लभेत सः॑ न ह्यात्मनः परतोऽपि विशेषमभ्युपगच्छद्भिस्तार्किकशतैरपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते॑ स्वतस्तु दूरादपनीतमेव, अविषयत्वादात्मनः ।
यद्यत्पर आत्मधर्मत्वेनाभ्युपगच्छति, तस्य तस्य नामरूपाभ्यां चात्मनोऽन्यत्वाभ्युपगमात्,"आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म"इति श्रुतेः"नामरूपे व्याकरवाणि"इति च ।
उत्पत्तिप्रलयात्मके हि नामरूपे, तद्विलक्षणं च ब्रह्मअतोऽनुमानस्यैवाविषयत्वात्कुतोऽनुमानविरोधः? एतेनागमविरोधः प्रत्युक्तः ।

यदुक्तं ब्रह्मैकत्वे यस्मा उपदेशः, यस्य चोपदेशग्रहणफलम्, तदभावादेकत्वोपदेशानर्थक्यमिति, तदपि न, अनेककारकसाध्यत्वात्क्रियाणां कश्चोद्यो भवति ।
एकस्मिन्ब्रह्मणि निरुपाधिके नोपदेशः, नोपदेष्टा, न चोपदेशग्रहणफलम्॑ तस्मादुपनिषदां चानर्थक्यमित्येतदभ्युपगतमेव ।
अथानेककारकविषयानर्थक्यं चोद्यतेन, स्वतो ।
ञभ्युपगमविरोधादात्मवादिनाम् ।
तस्मात्तार्किकचाटभटराजाप्रवेश्यमभयं दुर्गमिदमल्पबुद्ध्यगम्यं शास्रगुरुप्रसादरहितैश्च,"कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हति" "देवैरत्रापि विचिकित्सितं पुरा" "नैषा तर्केण मतिरापनेया"वरप्रसादलभ्यत्वश्रुतिस्मृतिवादेभ्यश्च॑"तदेजति तन्नैजति तद्दूरे तद्वन्तिके"इत्यादिविरुद्धधर्मसमवायित्वप्रकाशकमन्त्रवर्णेभ्यश्च ।
गीतासु च"मत्स्थानि सर्वभूतानि"इत्यादि ।
तस्मात्परब्रह्मव्यतिरेकेण संसारी नाम नान्यद्वस्त्वन्तरमस्ति ।
तस्मात्सुष्ठूच्यते"ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेदहं ब्रह्मास्मि" "नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ"इत्यादिश्रुतिशतेभ्यः ।
तस्मात्परस्यैव ब्रह्मणः"सत्यस्य सत्यम्"नामोपनिषत्परा ॥२०॥



इति बृहदारण्यकोपनिषद्भाष्ये द्वितीयाध्याये प्रथममजातशत्रुब्राह्मणम् ॥१॥




_______________________________________________________________________

२,२.१



ऽब्रह्म ज्ञपयिष्यामिऽइति प्रस्तुतम्॑तत्र यतो जगज्जातं यन्मयं यस्मिंश्च लीयते तदेकं ब्रह्मेति ज्ञापितम् ।
किमात्मकं पुनस्तज्जगज्जायते, लीयते च? पञ्चभूतात्मकम्॑भूतानि च नामरूपात्मकानि॑नामरूपे सत्यमिति ह्युक्तम्॑तस्य सत्यस्य पञ्चभूतात्मकस्य सत्यं ब्रह्म ।

कथं पुनर्भूतानि सत्यमिति मूर्तामूर्तब्राह्मणम् ।
मूर्तामूर्तभूतात्मकत्वात्कार्यकरणात्मकानि भूतानि प्राणा अपि सत्यम् ।
तेषां कार्यकरणात्मकानां भूतानां सत्यत्वनिर्दिधारयिषया ब्राह्मणद्वयमारभ्यते सैवोपनिषद्व्याख्या ।
कार्यकरणसत्यत्वावधारणद्वारेण हि सत्यस्य सत्यं ब्रह्मावधार्यते ।
अत्रोक्तम्ऽप्राणा वै सत्यं तेषामेष सत्यम्ऽइति ।
तत्र के प्राणाः? कियत्यो वा प्राणविषया उपनिषदः? काः? इति च ब्रह्मोपनिषत्प्रसङ्गेन करणानां प्राणानां स्वरूपमवधारयतिपथिगतकूपारामाद्यवधारणवत् ।



यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि ।
अयं वाव शिशुर्योऽयं मध्यमः प्राणः ।
तस्येदमेवाधानमिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ _२,२.१ ॥

__________



शा.भा._२,२.१

यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद, तस्येदं फलम्॑ किं तत्? सप्त सप्तसंख्याकान् ह द्विषतो द्वेषकर्तॄन् भ्रातृव्यान् ।
भ्रातृव्या हि द्विविधा भवन्ति, द्विषन्तोऽद्विषन्तश्च, तत्र द्विषन्तो ये भ्रातृव्यास्तान् द्विषतो भ्रातृव्यानवरुणद्धि॑ सप्त ये शीर्षण्याः प्राणा विषयोपलब्धिद्वाराणि तत्प्रभवा विषयरागाः सहजत्वाद्भ्रातृव्याः ।
ते ह्यस्य स्वात्मस्थां दृष्टिं विषयविषयां कुर्वन्ति, तेन ते द्वेष्टारो भ्रातृव्याः ।
प्रत्यगात्मेक्षणप्रतिषेधकरत्वात् ।
काठके चोक्तम्"पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्पराङ्पश्यति नान्तरात्मन्"इत्यादि ।
तत्र यः शिश्वादीन्वेद, तेषां याथात्म्यमवधारयति, स एतान् भ्रातृव्यानवरुणद्ध्यपावृणोति विनाशयति ।

तस्मै फलश्रवणेनाभिमुखीभूतायाहअयं वाव शिशुः ।
कोऽसौ? योऽयं मध्यमः प्राणः, शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा शरीरमाविष्टःबृहन्पाण्डरवासः सोम राजन्नित्युक्तः, यस्मिन्वाङ्मनः प्रभृतीनि करणानि विषक्तानिपड्वीशशङ्कुनिदर्शनात्॑ स एष शिशुरिव, विषयेष्वितरकरणवदपटुत्वात्॑ शिशुं साधानमित्युक्तम् ।
किं पुनस्तस्य शिशोर्वत्सस्थानीयस्य करणात्मन आधानम्? तस्येदमेव शरीरमाधानं कार्यात्मकमाधीयतेऽस्मिन्नित्याधानम्॑ तस्य हि शिशोः प्राणस्येदं शरीरमधिष्ठानम्, अस्मिन्हि करणान्यधिष्ठितानि लब्धात्मकान्युपलब्धिद्वाराणि भवन्ति, न तु प्राणमात्रे विषक्तानि ।
तथा हि दर्शितमजातशत्रुणाउपसंहृतेषु करणेषु विज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय उपलभमान उपलभ्यतेतच्च दर्शितं पाणिपेषप्रतिबोधनेन ।
इदं प्रत्याधानं शिरः॑ प्रदेशविशेषेषुप्रति प्रत्याधीयत इति प्रत्याधानम् ।
प्राणः स्थूणा अन्नपानजनिताशक्तिःप्राणो बलमिति पर्यायः ।
बलावष्टम्भो हि प्राणोऽस्मिञ्छरीरे"स यत्रायमात्माबल्यं न्येत्य संमोहमिव"इति दर्शनात् ।

यथा वत्सः स्थूणावष्टम्भ एवं शरीरपक्षपाती वायुः प्राणः स्थूणेति केचित् ।
अन्नं दामअन्नं हि भुक्तं त्रेधा परिणमते॑य॑स्थूलः परिणामः, स एतद्द्वयं भूत्वा इमामप्येतिमूत्रं च पुरीषं च ।
यो मध्यमो रसः स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्तधातुकमुपचिनोति॑स्वयोन्यन्नागमे हि शरीरमुपचीयतेऽन्नमयत्वात्॑विपर्ययेऽपक्षीयते पतति॑यस्त्वणिष्ठो रसःमृतमूर्क्प्रभावःिति च कथ्यते, स नाभेरूर्ध्वं हृदयदेशमागत्य, हृदयाद्विप्रसृतेषु द्वासप्ततिनाडीसहस्रेष्वनुप्रविश्य यत्तत्करणसङ्घातरूपं लिङ्गं शिशुसञ्ज्ञकम्, तस्य शरीरे स्थितिकारणं भवति बलमुपजनयत्स्थूणाख्यम्॑तेनान्नमुभयतः पाशवत्सदामवत्प्राणशरीरयोर्निबन्धनं भवति ॥१॥



_______________________________________________________________________

२,२.२



इदानीं तस्यैव शिशोः प्रत्याधान ऊढस्य चक्षुषि काश्चनोपनिषद उच्यन्ते


तमेताः सप्ताक्षितय उपतिष्ठन्ते ।
तद्या इमा अक्षंल्लोहिन्यो राजयस्ताभिरेनं रुद्रोऽन्वायत्तः ।
अथ या अक्षन्नापस्ताभिः पर्जन्यः ।
या कनीनका तयादित्यः ।
यत्कृष्णं तेनाग्निर् ।
यच्छुक्लं तेनेन्द्रः ।
अधरयैनं वर्तन्या पृथिव्यन्वायत्ता ।
द्यौरुत्तरया ।
नास्यान्नं क्षीयते य एवं वेद ॥ _२,२.२ ॥

__________



शा.भा._२,२.२

तमेताः सप्ताक्षितय उपतिष्ठन्तेतं करणात्मकं प्रामं शरीरेऽन्नबन्धनं चक्षुष्यूढमेता वक्ष्यमाणाः सप्त सप्तसङ्ख्याका अक्षितयोऽक्षितिहेतुत्वादुपतिष्ठन्ते ।
यद्यपि मन्त्रकरणे तिष्ठतिरुपपूर्व आत्मनेपदी भवति, इहापि सप्त देवताभिधानानि मन्त्रस्थानीयानि करणानि॑तिष्ठतेरतोऽत्राप्यात्मनेपदं न विरुद्धम् ।

कास्ता अक्षितयः? इत्युच्यन्तेतत्तत्र या इमाः प्रसिद्धाः, अक्षन्नक्षणि लोहिन्यो लोहिता राजयो रेखाः, ताभिर्द्वारभूताभिरेनं मध्यमं प्राणं रुद्रोऽन्वायत्तोऽनुगतः॑ अथ या अक्षन्नक्षण्यापो धूमादिसंयोगेनाभिव्यज्यमानाः, ताभिरद्भिर्द्वारभूताभिः पर्जन्यो देवतात्मान्वायत्तो ।
ञनुगत उपतिष्ठत इत्यर्थः ।
स चान्नभूतोऽक्षितिः प्राणस्य॑"पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति"इति श्रुत्यन्तरात् ।

या कनीनका दृक्छक्तिस्तया कनीनकया द्वारेणादित्यो मध्यमं प्राणमुपतिष्ठते॑यत्कृष्णं चक्षुषि तेनैनमग्निरुपतिष्ठते॑यच्छुक्लं चक्षुषि तेनेन्द्रः॑धरया वर्तन्या पक्ष्मणैनं पृथिव्यन्वायत्ता, अधरत्वसामान्यात्॑

एताः सप्तान्नभूताः प्राणस्य सन्ततमुपतिष्ठन्तेइत्येवं यो वेद, तस्यैतत्फलम्नास्यान्नं क्षीयते, य एवं वेद ॥२॥




_______________________________________________________________________

२,२.३



तदेष श्लोको भवति
अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदानेति ।
अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति ।
इदं तच्छरीर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः ।
तस्मिन् यशो निहितं विश्वरूपमिति ।
प्राणा वै यशो विश्वरूपम् ।
प्राणानेतदाह ।
तस्यासत ऋषयः सप्त तीर इति ।
प्राणा वा ऋषयः ।
प्राणाणेतदाह ।
वागष्टमी ब्रह्मणा संविदानेति ।
वाग्घ्यष्टमी ब्रह्मणा संवित्ते ॥ _२,२.३ ॥

__________



शा.भा._२,२.३

तत्तत्रैतस्मिन्नर्थे एष श्लोको मन्त्रो भवतिअर्वाग्बिलश्चमस इत्यादिः ।
तत्र मन्त्रार्थमाचष्टे श्रुतिःर्वाग्बिलश्चमस इत्यादिः ।
तत्र मन्त्रार्थमाचष्टे श्रुतिःर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति ।
कः पुनरसावर्वाग्बिलश्चमस ऊर्ध्वबुध्नः? इदं तत्शिरः, चमसाकारं हि तत् ।
कथम्? एष ह्यर्वाग्बिलो मुखस्य बिलरूपत्वात्, शिरसो बुध्नाकारत्वादूर्ध्वबुध्नः ।

तस्मिन्यशो निहितं विश्वरूपमितियथा सोमश्चमसे, एवं तस्मिञ्छिरसि विश्वरूपं नानारूपं निहितं स्थितं भवति ।
किं पुनस्तद्यशः? प्राणा वै यशो विश्वरूपम्प्राणाः श्रोत्रादयो वायवश्च मरुतः सप्तधा तेषु प्रसृता यशःित्येतदाह मन्त्रः, शब्दादिज्ञानहेतुत्वात् ।

तस्यासत ऋषयः सप्त तीर इतिप्राणाः परिस्पन्दात्मकाः, त एव च ऋषयः, प्राणावेतदाह मन्त्रः ।
वागष्टमी ब्रह्मणा संविदानेतिब्रह्मणा संवादं कुर्वती अष्टमी भवति॑तद्धेतुमाहवाग्घ्यष्टमी ब्रह्मणा संवित्त इति ॥३॥



_______________________________________________________________________

२,२.४


के पुनस्तस्य चमसस्य तीर आसत ऋषय इति ।



इमावेव गोतमभरद्वाजौ ।
अयमेव गोतमोऽयं भरद्वाजः ।
इमावेव विश्वामित्रजमदग्नी ।
अयमेव विश्वामित्रोऽयं जमदग्निः ।
इमावेव वसिष्ठकश्यपौ ।
अयमेव वसिष्ठोऽयं कश्यपः ।
वागेवात्रिः ।
वाचा ह्यन्नमद्यते ।
अत्तिर्ह वै नामैतद्यदौत्रिरिति ।
सर्वस्यात्ता भवति ।
सर्वमस्यान्नं भवति य एवं वेद ॥ _२,२.४ ॥

__________



शा.भा._२,२.४

इमावेव गोतमभरद्वाजौ कर्णौअयमेव गोतमोऽयं भरद्वाजो दक्षिणश्चोत्तरश्च, विपर्ययेण वा ।
तथा चक्षुषी उपदिशन्नुवाचैमावेव विश्वामित्रजमदग्नी दक्षिणं विश्वामित्र उत्तरं जमदग्निर्विपर्ययेण वा ।
इमावेव वसिष्ठकश्यपौनासिके उपदिशन्नुवाच॑दक्षिणः पुटो भवति वसिष्ठः, उत्तरः कश्यपः पूर्ववत् ।
वागेवात्रिः, अदनक्रियायोगात्सप्तमः॑वाचा ह्यन्नमद्यते तस्मादत्तिर्ह वै प्रसिद्धं नामैततत्तृत्वादत्तिरिति, अत्तिरेव सन् यदत्रिरित्युच्यते परोक्षेण ।
सर्वस्यैतस्यान्नजातस्य प्राणस्यात्रिनिर्वचनविज्ञानादत्ता भवति ।
अत्तैव भवति नामुष्मिन्नन्नेन पुनः प्रतिपद्यत इत्येतदुक्तं भवतिसर्वमस्यान्नं भवतीति ।
य एवमेतद्यथोक्तं प्राणयाथात्म्यं वेद, स एवं मध्यमः प्राणो भूत्वा

आधानप्रत्याधानगतो भोक्तैव भवति, न भोज्यम्, भोज्याद्व्यावर्तत इत्यर्थः ॥४॥



इति द्वितीयं ब्राह्मणम् ॥२॥




_______________________________________________________________________

२,३.१



तत्र प्राणा वै सत्यमित्युक्तम् ।
याः प्राणानामुपनिषदः, ता ब्रह्मोपनिषत्प्रसङ्गेन व्याख्याताःेते ते प्राणा इति चछ ते

किमात्मकाः? कथं वा तेषां सत्यत्वम्? इति च वक्तव्यमिति पञ्चभूतानां सत्यानां कार्यकरणात्मकानां स्वरूपावधारणार्थमिदं ब्राह्मणमारभ्यतेयदुपाधिविशेषापनयद्वारेणऽनेति नेतिऽइति ब्रह्मणः सतत्त्वं निर्दिधारयिषितम् ।



द्वे वाव ब्रह्मणो रूपे ।
मूर्तं चैवामूर्तं च ।
मर्त्यं चामृतं च ।
स्थितं च यच्च ।
सच्च त्यं च ॥ _२,३.१ ॥

__________



शा.भा._२,३.१

तत्र द्विरूपं ब्रह्म पञ्चभूतजनितकार्यकरणसम्बद्धं मूर्तामूर्ताख्यं मर्त्यामृतस्वभावं तज्जनितवासनारूपं च सर्वञ्ज्ञं सर्वशक्ति सोपाख्यं भवति ।
क्रियाकारकफलात्मकं च सर्वव्यवहारास्पदम् ।
तदेव ब्रह्म विगतसर्वोपाधिविशेषं सम्यग्दर्शनविषयमजमजरममृतमभयम्, वाङ्मनसयोरप्यविषयमद्वैतत्वात्ऽनेति नेतिऽइति निर्दिश्यते ।

तत्र यदपोहद्वारेणऽनेति नेतिऽइति निर्दिश्यते ब्रह्म, ते एते द्वे वाववावशब्दोऽवधारणार्थःद्वे एवेत्यर्थःब्रह्मणः परमात्मनो रूपेरूप्यते याभ्यामरूपं परं ब्रह्म अविद्याध्यारोप्यमाणाभ्याम् ।
के ते द्वे? मूर्तं चैव मूर्तमेव च ।
तथामूर्तं चामूर्तमेव चेत्यर्थः ।
अन्तर्णीतस्वात्मविशेषणे मूर्तामूर्ते द्वे एवेत्यवधार्येते ।
कानि पुनस्तानि विशेषणानि मूर्तामूर्तयोः? इत्युच्यन्तेमर्त्यं च मर्त्यं मरणधर्मि, अमृतं च तद्विपरीतम्, स्थितं चपरिच्छिन्नं गतिपूर्वकं यत्स्थास्नु, यच्चयातीति यत्व्यापिअपरिच्छिन्नं स्थितविपरीतम्, सच्चसदित्यन्येभ्यो विशेष्यमाणासाधारणधर्मविशेषवत्, त्यच्चतद्विपरीतम्ऽत्यत्ऽइत्येव सर्वदा परोक्षाभिधानार्हम् ॥१॥


_______________________________________________________________________

२,३.२


तत्र चतुष्टयविशेषणविशिष्टं मूर्तं तथा अमूर्तं च ।
तत्र कानि मूर्तविशेषणानि? कानि चेतराणि? इति विभज्यते ।



तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च ।
एतन्मर्त्यम् ।
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति ।
सतो ह्येष रसः ॥ _२,३.२ ॥

__________



शा.भा._२,३.२

तदेतन्मूर्तं मूर्च्छितावयवमितरेतरानुप्रविष्टावयवं घनं संहतमित्यर्थः ।
किं तत्? यदन्यत्॑कस्मादन्यत्? वायोश्चान्तरिक्षाच्च भूतद्वयात्परिशेषात्पृथिव्यादिभूतत्रयम् ।
एतन्मर्त्यम्यदेतन्मूर्ताख्यं भूतत्रयमिदं मर्त्यं मरणधर्मि॑कस्मात्? यस्मात्स्थितमेतत्॑परिच्छिन्नं ह्यर्थान्तरेण सम्प्रयुज्यमानं विरुध्यतेयथा घटः स्तम्भकुण्ड्यादिना॑तथा मूर्तं स्थितं परिच्छिन्नमर्थान्तरसम्बन्धि ततोर्ऽथान्तरविरोधान्मर्त्यम्॑ेतत्सद्विशेष्य माणासाधारणधर्मवत्, तस्माद्धि परिच्छिन्नम्, परिच्छिन्नत्वान्मर्त्यमतो मूर्तम्॑मूर्तत्वाद्वा मर्त्यम्, मर्त्यत्वात्स्थितम्, स्थितत्वात्सत् ।
अतोऽन्योन्याव्यभिचाराच्चतुर्णां धर्माणां यथेष्टं विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च दर्शयितव्यः ।
सर्वथापि तु भूतत्रयं चतुष्टयविशेषणविशिष्टं मूर्तं रूपं ब्रह्मणः ।
तत्र चतुर्णामेकस्मिन्गृहीते विशेषणे इतरद्गृहीतमेव विशेषणमित्याहतस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सतःचतुष्टयविशेषणस्य भूतत्रयस्येत्यर्थः, एष रसः सार इत्यर्थः ।

त्रयाणां हि भूतानां सारिष्ठः सविता॑ेतत्साराणि त्रीणि भूतानि, यत एतत्कृतविभज्यमानरूपविशेषणानि भवन्ति॑ाधिदैविकस्य कार्यस्यैतद्रूपम्यत्सविता यदेतन्मण्डलं तपति॑सतो भूतत्रयस्य हि यस्मादेष रस इत्येतद्गृह्यते ।
मूर्तो ह्येष सविता तपति, सारिष्ठश्च ।
यत्त्वाधिदैविकं करणं मण्डलस्याभ्यन्तरम्, तद्वक्ष्यामः ॥२॥




_______________________________________________________________________

२,३.३



अथामूर्तम् ।
वायुश्चान्तरिक्षश्च ।
एतदमृतम् ।
एतद्यत् ।
एतत्त्यम् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः ।
त्यस्य ह्येष रस ।
इत्यधिदैवतम् ॥ _२,३.३ ॥

__________



शा.भा._२,३.३

अथामूर्तमथाधुनामूर्तमुच्यते ।
वायुश्चान्तरिक्षं च यत्परिशेषितं भूतद्वयमेतदमृतम्, अमूर्तत्वात्॑स्थितम्, अतोऽविरुध्यमानं केनचित्, अमृतममरणधर्मि ।
एतद्यत्स्थितविपरीतम्, व्यापि, अपरिच्छिन्नम्, यस्मात्ऽयत्ऽएतदन्येभ्योऽप्रविभज्यमानविशेषम्, अतस्त्यत्,ऽत्यत्ऽइति परोक्षाभिधानार्हमेवपूर्ववत् ।

तस्यैतस्यामूर्तस्य तस्यामृतस्यैतस्य यत एतस्य त्यस्य चतुष्टयविशेषणस्यामूर्तस्यैष रसः॑कोऽसौ? य

एष एतस्मिन्मण्डले पुरुषःकरणात्मको हिरण्यगर्भः प्राण इत्यभिधीयते यः, स एषोऽमूर्तस्य भूतद्वयस्य रसः पूर्ववत्सारिष्ठः ।
एतत्पुरुषसारं चामूर्तं भूतद्वयम्हैरण्यगर्भलिङ्गारम्भाय हि भूतद्वयाभिव्यक्तिरव्याकृतात् ।
तस्मात्तदर्थ्यात्तत्सारं भूतद्वयम् ।
त्यस्य ह्येष रसःयस्माद्यो मण्डलस्थः पुरुषो मण्डलवन्न गृह्यते सारश्च भूतद्वयस्य, तस्मादस्ति मण्डलस्थस्य पुरुषस्य भूतद्वयस्य च साधर्म्यम्, तस्माद्युक्तं प्रसिद्धवद्वेतूपादानम्त्यस्य ह्येष रस इति ।

रसः कारणं हिरण्यगर्भविज्ञानात्मा चेतन इति केचित् ।
तत्र च किल हिरण्यगर्भविज्ञानात्मनः कर्म वाय्वन्तरिक्षयोः प्रयोक्तृ, तत्कर्म वाय्वन्तरिक्षाधारं सदन्येषां भूतानां प्रयोक्तृ भवति॑तेन स्वकर्मणा वाय्वन्तरिक्षयोः प्रयोक्तेति तयो रसः कारणमुच्यत इति ।

तन्न, मूर्तरसेनातुल्यत्वात् ।
मूर्तस्य तु भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूतत्रयस्य रसो मूर्तमेव मण्डलं दृष्टं भूतत्रयसमानजातीयम्, न चेतनः॑तथामूर्तयोरपि भूतयोस्तत्समानजातीयेनैवामूर्तसेन युक्तं भवितुम्॑वाक्यप्रवृत्तेस्तुल्यत्वात्॑यथा हि मूर्तामूर्ते चतुष्टयधर्मवती विभज्येते, तथा रसरसवतोरपि मूर्तामूर्तयोस्तुल्येनैव न्यायेन युक्तो विभागः, न त्वर्धवैशसम् ।

मूर्तरसेऽपि मण्डलोपाधिश्चेतनो विवक्ष्यत इति चेत्? अत्यल्पमिदमुच्यते, सर्वत्रैव तु मूर्तामूर्तयोर्ब्रह्मरूपेण विवक्षितत्वात् ।
पुरुषशब्दोऽचेतनेऽनुपपन्न इति चेत्! न, पक्षपुच्छादिविशिष्टस्यैव लिङ्गस्य पुरुषशब्ददर्शनात् ।
"न वा इत्थं सन्तः शक्ष्यामः प्रजाः प्रजनयितुमिमान्सप्त पुरुषानेकं पुरुषं करवामेति त एतान्सप्त पुरुषानेकं पुरुषमकुर्वन्"इत्यादौ अन्नरसमयादिषु च श्रुत्यन्तरे पुरुषशब्दप्रयोगात् ।
इत्यधिदैवतमित्युक्तोपसंहारोऽध्यात्मविभागोक्त्यर्थः ॥३॥




_______________________________________________________________________

२,३.४



अथाध्यात्मम् ।
इदमेव मूर्तं यदन्यत्प्राणाच्च यश्चायमन्तरात्मन्नाकाशः ।
एतन्मर्त्यम् ।
एतत्स्थितम् ।
एतत्सत् ।
तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षुः ।
सतो ह्येष रसः ॥ _२,३.४ ॥

__________



शा.भा._२,३.४

अथाधुनाध्यात्मं मूर्तामूर्तयोर्विभाग उच्यतेकिं तन्मूर्तम्? इदमेव, किं चेदम्? यदन्यत्प्राणाच्चवायोर्यश्चायमन्तरभ्यन्तरे आत्मन्नात्मन्याकाशः खं शरीरस्थश्च यः प्राण एतद्द्वयं वर्जयित्वा यदन्यच्छरीरारम्भकं भूतत्रयम्, एतन्मर्त्यमित्यादि समानमन्यत्पूर्वेण ।
एतस्य सतो ह्येष रसःयच्चक्षुरिति॑ आध्यात्मिकस्य शरीरारम्भकस्य कार्यस्यैष रसः सारः॑ तेन हि सारेण सारवदिदं शरीरं समस्तं यथाधिदैवतमादित्यमण्डलेन ।
प्राथम्याच्चचक्षुषी एव प्रथमे सम्भवतः सम्भवत इति ।
"तेजो रसो निरनर्तताग्निः"इति लिङ्गात्॑ तैजसं हि चक्षुः॑ एतत्सारम्॑ तैजसं हि चक्षुः॑ एतत्सारमाध्यात्मिकं भूतत्रयम्॑ सतो ह्येष रस इति मूर्तत्वसारत्वे हेत्वर्थः ॥४॥




_______________________________________________________________________

२,३.५



अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः ।
एतदमृतम् ।
एतद्यत् ।
एतत्त्यत् ।
तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणेऽक्षन् पुरुषः ।
त्यस्य ह्येष रसः ॥ _२,३.५ ॥

__________



शा.भा._२,३.५

अथाधुनामूर्तमुच्यते ।
यत्परिशेषितं भूतद्वयं प्राणश्च यश्चायमन्तरात्मन्नाकाशः, एतदमूर्तम् ।
अन्यत्पूर्ववत् ।
एतस्य त्यस्यैष रसः सारः, योऽयं दक्षिणेऽक्षन्पुरुषःदक्षिणेऽक्षन्निति विशेषग्रहणम्, शास्त्रप्रत्यक्षत्वात्॑लिङ्गस्य हि दक्षिणेऽक्ष्णि विशेषतोऽधिष्ठातृत्वं शासत्रस्य प्रत्यक्षं सर्वश्रुतिषु तथा प्रयोगदर्शनात् ।
त्यस्य ह्येष रस इति

पूर्ववद्विशेषतोऽग्रहणादमूर्तत्वसारत्वे एव हेत्वर्थः ॥५॥



_______________________________________________________________________
२,३.६


ब्रह्मणण उपाधिभूतयोर्मूर्तामूर्तयोः कार्यकरणविभागेन अध्यात्माधिदैवतयोर्विभागो व्याख्यातः सत्यशब्दवाच्ययोः ।
अथेदानीम्



तस्य हैतस्य पुरुषस्य रूपम् ।
यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् ।
सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद ।
अथात आदेशो नेति नेति ।
न ह्येतस्मादिति नेत्यन्यत्परमस्ति ।
अथ नामधेयं सत्यस्य सत्यमिति ।
प्राणा वै सत्यम् ।
तेषामेष सत्यम् ॥ _२,३.६ ॥

__________



शा.भा._२,३.६

तस्य हैतस्य पुरुषस्य करणात्मनो लिङ्गस्य रूपं वक्ष्यामो वासनामयं मूर्तामूर्तवासनाविज्ञानमयसंयोगजनितं विचित्रं पटभित्तिचित्रवन्मायेन्द्रजालमृगतृष्णिकोपमं सर्वव्यामोहास्पदमेतावन्मात्रमेव आत्मेति विज्ञानवादिनो वैनाशिका यत्र भ्रान्ताः, एतदेव वासनारूपं पटरूपवदात्मनो द्रव्यस्य गुण इति नैयायिका वैशेषिकाश्च सम्प्रतिपन्नाः, इदमात्मार्थं त्रिगुणं स्वतन्त्रं प्रधानाश्रयं पुरुषार्थेन हेतुना प्रवर्तत इति साङ्ख्याः ।

औपनिषदंमन्या अपि केचित्प्रक्रियां रचयन्तिमूर्तामूर्तराशिरेकः, परमात्मराशिरुत्तमः, ताभ्यामन्योऽयं मध्यमः किल तृतीयः कर्त्रा भोक्त्राविज्ञानमयेन अजातशत्रुप्रतिबोधितेन सह विद्याकर्मपूर्वप्रज्ञासमुदायः॑प्रयोक्ता कर्मराशिः, प्रयोज्यः पूर्वोक्तो मूर्तामूर्तभूतराशिः साधनं चेति ।
तत्र च तार्किकैः सह सन्धिं कुर्वन्ति ।
लिङ्गाश्रयश्चैष कर्मराशिरित्युक्त्वा पुनस्ततस्रस्यन्तः साङ्ख्यत्वभयात्, सर्वः कर्मराशिःपुष्पाश्रय इव गन्धः पुष्पवियोगेऽपि पुटतैलाश्रयो भवति, तद्वत्लिङ्गवियोगेऽपि परमात्मैकदेशमाश्रयति, स परमात्मैकदेशः किलान्यत आगतेन गुणेन कर्मणा सगुणो भवति निर्गुणोऽपि सन्, स कर्ता भोक्ता बध्यते मुच्यते च विज्ञानात्मा इति वैशेषिकचित्तमप्यनुसरन्ति॑स च कर्मराशिर्भूतराशेरागन्तुकः, स्वतो निर्गुण एव परमात्मैकदेशत्वात्॑स्वत उत्थिता अविद्या अनागन्तुकाप्यूषरवदनात्मधर्मःित्यनया कल्पनया साङ्ख्यचित्तमनुवर्तन्ते ।

सर्वमेतत्तार्किकैः सह सामञ्जस्यकल्पनया रमणीयं पश्यन्ति, लोपनिषत्सिद्धान्तं सर्वन्यायविरोधं च पश्यन्ति॑कथम्? उक्ता एव तावत्साव यवत्वे परमात्मनः

संसारित्वसव्रणत्वकर्मफलदेशसंसारित्वसव्रणत्वकर्मफलदेशसंसरणानुपपत्त्यादयो दोषाः॑नित्यभेदे च विज्ञानात्मनः परेणैकत्वानुपपत्तिः ।

लिङ्गमेवेति चेत्परमात्मन उपचरितदेशत्वेन कल्पितं घटकरकभूछिद्राकाशादिवत्, तथा लिङ्गवियोगेऽपि परमात्मदेशाश्रयणं वासनायाः ।
अविद्यायाष्च स्वत उत्थानमूषरवतित्यादिकल्पनानुपपन्नैव ।
न च वास्य देशव्यतिरेकेण वासनाया वस्त्वन्तरसञ्चरणं मनसापि कल्पयितुं शक्यम् ।

न च श्रुतयो गच्छन्ति"कामः सङ्कल्पो विचिकित्सा" "हृदये ह्येव रूपाणि" "ध्यायतीव लेलायतीव" "कामा येऽस्य हृदि श्रिताः""तीर्णो हि तदा सर्वाञ्छोकान्हृदयस्य"इत्याद्याः ।
न चासां श्रुतीनां श्रुतादर्थान्तरकल्पना न्याय्या, आत्मनः परब्रह्मत्वोपपादनार्थपरत्वादासाम्, एतावन्मात्रार्थोपक्षयत्वाच्च सर्वोपनिषदाम् ।
तस्माच्छ्रुत्यर्थकल्पनाकुशलाः सर्व एवोपनिषदर्थमन्यथा कुर्वन्ति ।
तथापि वेदार्थश्चेत्स्यात्कामं भवतु, न मे द्वेषः ।

न चऽद्व वाव ब्रह्मणो रूपेऽइति राशित्रयपक्षे समञ्जसम्॑यदा तु मूर्तामूर्ते तज्जनितवासनाश्च मूर्तामूर्ते द्वे रूपे, ब्रह्म च रूपि तृतीयम्, न चान्यच्चतुर्थमन्तरालेतदा एतदनुकूलमवधारणम्, द्वे एव ब्रह्मणो रूपे इति॑न्यथा ब्रह्मैकदेशस्य विज्ञानात्मनो रूपे इति कल्प्यम्, परमात्मनो वा विज्ञानात्मद्वारेणेति ।
तदा च रूपे एवेति द्विवचनमसमञ्जसम्, रूपाणीति वासनाभिः सह बहुवचनं युक्ततरं स्यात्द्वे च मूर्तामूर्ते वासनाश्च तृतीयमिति ।

अथ मूर्तामूर्ते एव परमात्मनो रूपे, वासनास्तु विज्ञानात्मन इति चेत्तदा विज्ञानात्मद्वारेण विक्रियमाणस्य परमात्मनःितीयं वाचोयुक्तिरनर्थिका स्यात्, वासनाया अपि विज्ञानात्मद्वारत्वस्य अविशिष्टत्वात्॑न च वस्तु

वस्त्वन्तरद्वारेण विक्रियत इति मुख्यया वृत्त्या शक्यं कल्पयितुम्॑न च विज्ञानात्मा परमात्मनो वस्त्वन्तरम्, तथा कल्पनायां सिद्धान्तहानात् ।
तस्माद्वेदार्थमूढानां स्वचित्तप्रभवा एवमादिकल्पना अक्षरबाह्याः॑न ह्यक्षरबाह्यो वेदार्थो वेदार्थोपकारी वा, निरपेक्षत्वाद्वेदस्य प्रामाण्यं प्रति॑तस्माद्राशित्रयकल्पना असमञ्जसा ।

ऽयोऽयं दक्षिणेऽक्षन्पुरुषःऽइति लिङ्गात्मा प्रस्तुतोऽध्यात्मे, अधिदैवे चऽय एष एतस्मिन्मण्डले पुरुषःऽ

इति,ऽतस्यऽइति प्रकृतोपादानात्स एवोपादीयते योऽसौ त्यस्यामूर्तस्य रसो न तु विज्ञानमयः ।
ननु विज्ञानमयस्यैवैतानि रुपाणि कस्मान्न भवन्ति? विज्ञानमयस्यापि प्रकृतत्वात्,ऽतस्यऽइति च प्रकृतोपादानात् ।
नैवम्, विज्ञानमयस्यारूपित्वेन विजिज्ञापयिषितत्वात्॑यदि हि तस्यैव विज्ञानमयस्यैतानि माहारजनादीनि रूपाणि स्युस्तस्यावऽनेति नेतिऽइत्यनाख्येयरूपतयादेशो न स्यात् ।
नन्वन्यस्यैवासादेशो न तु विज्ञानमयस्येति!

न, षष्ठान्ते उपसंहारात्"विज्ञातारमरे केन विजानीयात्"इति विज्ञानमयं प्रस्तुत्य"स एष नेति नेति"इति"विज्ञापयिष्यामि"इति च प्रतिज्ञाया अर्थवत्त्वात् ।
यदि च विज्ञानमयस्यैव असंव्यवहार्यमात्मस्वरूपं ज्ञापयितुमिष्टं स्यात्प्रध्वस्तसर्वोपाधिविशेषम्, तत इयं प्रतिज्ञार्थवती स्यात्येनासौ ज्ञापितो जानात्यात्मानमेवाहं ब्रह्मास्मीति, शास्रनिष्ठां प्राप्नोति न बिभेति कुतश्च ।
अथ पुनरन्यो विज्ञानमयः, अन्यःऽनेति नेतिऽ इति व्यपदिश्यतेतदान्यददो ब्रह्मान्योऽहमस्मीति

विपर्ययो गृहीतः स्यात्, नऽआत्मानमेवावेदहं ब्रह्मास्मिऽ इति ।
तस्मात्ऽतस्य हैतस्यऽ इति लिङ्गपुरुशस्यै वैतानि रूपाणि ।

सत्यस्य च सत्ये परमात्मस्वरूपे वक्तव्ये निरवशेषं सत्यं वक्तव्यम्॑सत्यस्य च विशेषरूपाणि वासनाः, तासामिमानि रूपाण्युच्यन्ते, एतस्य पुरुषस्य प्रकृतस्य लिङ्गात्मन एतानि रूपाणि॑कानि तानि? इत्युच्यन्ते यथा लोके, महारजनं हरिद्रा तया रक्तं माहारजनं यथा वासो लोके, एवं स्त्र्यादिविषयसंयोगे तादृशं वासनारूपं रञ्जनाकार मुत्पद्यते चित्तस्य, येनासौ पुरुषो रक्त इत्युच्यते वस्रादिवत् ।

यथा च लोके पाण्ड्वाविकम्, अवेरिदमाविकमूर्णादि, यथा च तत्पाण्डुरं भवति, तथान्यद्वासनारूपम् ।
यथा च लोके इन्द्रगोपोऽत्यन्तरक्तो भवति, एवमस्य वासनारूपम् ।
क्वचिद्विषयविशेषापेक्षया रागस्य तारतम्यम्, क्वचित्पुरुषचित्तवृत्त्यपेक्षया ।
यथा च लोकेऽग्न्यर्चिर्भास्वरं भवति, तथा क्वचित्कस्यचिद्वासनारूपं भवति ।
यथा पुम्डरीकं शुक्लम्, तद्वदपि च वासनारूपं कस्यचिद्भवति ।
यथा सकृद्विद्युक्तम्, यथा लोके सकृद्विद्योतनं सर्वतः प्रकाशकं भवति, तथा ज्ञानप्रकाशविवृद्ध्यपेक्षया कस्यचिद्वासनारूपमुपजायते ।
नैषां वासनारूपाणामादिरन्तो मध्यं सङ्ख्या वा, देशः कालो निमित्तं

वावधार्यतेअसङ्ख्येयत्वाद्वासनायाः, वासनाहेतूनां चानन्त्यात् ।
तथा च वक्ष्यति षष्ठे"इदंमयोऽदोमयः"इत्यादि ।
तस्मान्न स्वरूपसङ्ख्यावधारणार्था दृष्टान्ताःऽयथा माहारजनं वासःऽइत्यादयः, किं तर्हि? प्रकारप्रदर्शनार्थाःेवम्प्रकाराणि हि वासनारूपाणीति ।
यत्तु वासनारूपमभिहितमन्तेसकृद्विद्योतनमिवेति, तत्किल हिरण्यगर्भस्य अव्याकृतात्प्रादुर्भवतः तडिद्वत्सकृदेव व्यक्तिर्भवतीति॑तत्तदीयं वासनारूपं हिरण्यगर्भस्य यो वेद तस्य सकृद्विद्युत्तेव, ह वै इत्यवधारणार्थौ, एवमेवास्य श्रीः ख्यातिर्भवतीत्यर्थः, यथा हिरण्यगर्भस्यएवमेतद्यथोक्तं वासनारूपमन्त्यं यो वेद ।

एवं निरवशेषं सत्यस्य स्वरूपमभिधाय, यत्तत्सत्यस्य सत्यमवोचाम तस्यैव स्वरूपावधारणार्थं ब्रह्मण इदमारभ्यतेअथानन्तरं सत्यस्वरूपनिर्देशानन्तरम्, यत्सत्यस्य सत्यं तदेवावशिष्यते यस्मादतस्तस्मात्सत्यस्य सत्यं स्वरूपं निर्देक्ष्यामः ।
आदेशो निर्देशो ब्रह्मणः ।
कः पुनरसौ निर्देशः? इत्युच्यतेनेति नेतीत्येवं निर्देशः ।

ननु कथमाभ्यांऽनेति नेतिऽइति शब्दाभ्यां सत्यस्य सत्यं निर्दिदिक्षितम्? इत्युच्यतेसर्वोपाधिविशेषापोहेन ।
यस्मिन्न कश्चिद्विशेषोऽस्तिनाम वा रूपं वा कर्म वा भेदो वा जातिर्वा गुणो वा॑तद्द्वारेण हि शब्दप्रवृत्तिर्भवति ।
न चैषां कश्चिद्विशेषो ब्रह्मण्यस्ति॑तो न निर्देष्टुं शक्यतेइदं तदिति ।
गौरसौ स्पन्दते शुक्लो विषाणीति यथा लोके निर्दिश्यते, तथा॑ध्यारोपितनामरूपकर्मद्वारेण ब्रह्म निर्दिश्यतेऽविज्ञानमानन्दं ब्रह्मऽऽविज्ञानघन एव ब्रह्मात्माऽइत्येवमादिशब्दैः ।

यदा पुनः स्वरूपमेव निर्दिदिक्षितं भवति॑निरस्तसर्वोपाधिविशेषम्, तदा न शक्यते केनचिदपि प्रकारेण निर्देष्टुम्॑तदा अयमेवाभ्युपायःयदुत प्राप्तनिर्देशप्रतिषेधद्वारेणऽनेति नेतिऽइति निर्देशः ।
इदं च नकारद्वयं वीप्साव्याप्त्यर्थम्॑यद्यत्प्राप्तं तत्तन्निषिध्यते ।
तथा च सति अनिर्दिष्टाशङ्का ब्रह्मणः परिहृता भवति॑न्यथा हि नकारद्वयेन प्रकृतद्वयप्रतिषेधे, यदन्यत्प्रकृतात्प्रतिषिद्धद्वयाद्ब्रह्म तन्न निर्दिष्टम्, कीदृशं नु खलुइत्याशङ्का न निवर्तिष्यते॑तथा चानर्थकश्च स निर्देशः, पुरुषस्य विविदिषाया अनिवर्तकत्वात्॑
ऽब्रह्म ज्ञपयिष्यामिऽइति च वाक्यमपरिसमाप्तार्थं स्यात् ।

यदा तु सर्वदिक्कालादिविविदिषा निवर्तिता स्यात्सर्वोपाधिनिराकरणद्वारेण तदा सैन्धवघनवदेकरसं प्रज्ञानघनमनन्तरमबाह्यं सत्यस्य सत्यमहंब्रह्मास्मीति सर्वतो निवर्तते विविदिषा, आत्मन्येवावस्थिता प्रज्ञा भवति ।
तस्माद्वीप्सार्थं नेति नेतीति नकारद्वयम् ।
ननु महता यत्नेन परिकरबन्धं कृत्वा किं युक्तमेवं निर्देश्टुं ब्रह्म? बाढम्॑कस्मात्? न हियस्मात्,ऽइति न, इति नऽइत्येतस्मातितीति व्याप्तव्यप्रकारा नकारद्वयविषया निर्दिश्यन्ते, यथा ग्रामो ग्रामो रमणीय इति, अन्यत्परं निर्देशनं नास्ति॑तस्मादयमेव निर्देशो ब्रह्मणः ।

यदुक्तम्ऽतस्योपनिषत्सत्यस्य सत्यम्ऽइति, एवंप्रकारेण सत्यस्य सत्यं तत्परं ब्रह्म॑तो युक्तमुक्तं नामधेयं ब्रह्मणः, नामैव नामधेयम्॑किं तत्? सत्यस्य सत्यं प्राणा वै सत्यं तेषामेष सत्यमिति ॥६॥



इति तृतीयं ब्राह्मणम् ॥३॥




_______________________________________________________________________

२,४.१



आत्मेत्येवोपासीत॑तदेव तस्मिन्सर्वस्मिन्पदनीयमात्मतत्त्वम्, यस्मात्प्रेयः पुत्रादेःित्युपन्यस्तस्य वाक्यस्य व्याख्यानविषये सम्बन्धप्रयोजने अभिहितेऽतदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्ऽइति॑ेवं प्रत्यगात्मा ब्रह्मविद्याया विषय इत्येतदुपन्यस्तम् ।
अविद्यायाश्च विषयःऽअन्योऽसावन्योऽहमस्मीति न स वेदऽइत्यारभ्य चातुर्वर्ण्यप्रविभागादिनिमित्तपाङ्क्तकर्मसाध्यसाधनलक्षणो बीजाङ्कुरवद्व्याकृताव्याकृतस्वभावो नामरूपकर्मात्मकः संसारःऽत्रयं वा इदं नाम रूपं कर्मऽइत्युपसंहृतः ।
शास्रीय उत्कर्षलक्षणो ब्रह्मलोकान्तोऽधोभावश्च स्थावरान्तोऽशास्रीयः पूर्वमेव प्रदर्शितःऽद्वया हऽइत्यादिना ।
एतस्मादविद्याविषयाद्विरक्तस्य प्रत्यगात्मविषयब्रह्मविद्यायामधिकारः कथं नाम स्यादितितृतीयेऽध्याये उपसंहृतः समस्तोऽविद्याविषयः ।
चतुर्थे तु ब्रह्मविद्याविषयं प्रत्यगात्मानम्ऽब्रह्म ते ब्रवाणिऽइतिऽब्रह्म ज्ञपयिष्यामिऽइति च प्रस्तुत्य, तद्ब्रह्मैकमद्वयं सर्वविशेषशून्यं क्रियाकारकफलस्वभावसत्यशब्दवाच्याशेषभूतधर्मप्रतिषेधद्वारेणऽनेति नेतिऽइति ज्ञापितम् ।

अस्या ब्रह्मविद्याया अङ्गत्वेन संन्यासो विधित्सितः, जायापुत्रवित्तादिलक्षणं पाङ्क्तं कर्माविद्याविषयं यस्मान्नात्मप्राप्तिसाधनम्॑ अन्यसाधनं ह्यन्यस्मै फलसाधनाय प्रयुज्यमानं प्रतिकूलं भवति ।
न हि बुभुक्षापिपासानिवृत्त्यर्थं धावनं गमनं वा साधनम्॑ मनुष्यलोकपितृलोकदेवलोकसाधनत्वेन हि पुत्रादिसाधनानि श्रुतानि, नात्मप्राप्तिसाधनत्वेन ।
विशेषितत्वाच्च॑ न च ब्रह्मविदो विहितानि, काम्यत्वश्रवणात्ऽएतावान्वै कामःऽ इति ।
ब्रह्मविदश्चाप्तकामत्वादाप्तकामस्य कामानुपपत्तेः ।
"येषां नोऽयमात्मायं लोकः"इति च श्रुतेः ।

केचित्तु ब्रह्मविदोऽप्येषणासम्बन्धं वर्णयन्ति, तैर्बृहदारण्यकं न श्रुतम्॑ पुत्राद्येषणानामविद्वद्विषयत्वम्॑ विद्याविषये च"येषां नोऽयमात्मायं लोकः"इत्यतः"किं प्रजया करिष्यामः"इत्येष विभागस्तैर्न श्रुतः श्रुत्या कृतः॑ सर्वक्रियाकारकफलोपमर्दस्वरूपायां च विद्यायां सत्याम्, सह कार्येणाविद्याया अनुपपत्तिलक्षणश्च विरोधस्तैर्न विज्ञातः ।
व्यासवाक्यं च तैर्न श्रुतम्॑ कर्मविद्यास्वरूपयोर्विद्याविद्यात्मकयोः प्रतिकूलवर्तनं विरोधः॑
"यदिदं वेदवचनं कुरु कर्म त्यजेति च ।
कां गतिं विद्यया यान्ति कां च गच्छन्ति कर्मणा ॥
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे ।
एतावन्योन्यवैरूप्ये वर्तेते प्रतिकूलतः ।
"इत्येवं पृष्टस्य प्रतिवचनेन "कर्मणा बध्यते जन्तुर्विद्यया च विमुच्यते ।
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनःः ॥

इत्येवमादिविरोधः प्रदर्शितः ।
तस्मान्न साधनान्तरसहिता ब्रह्मविद्या पुरुषार्थसाधनम्, सर्वविरोधात्, साधननिरपेक्षैव पुरुषार्थसाधनमिति पारिव्राज्यं सर्वसाधनसंन्यासलक्षणमङ्गत्वेन विधित्स्यते ।
एतावदेव अमृतत्वसाधनमित्यवधारणात्, षष्ठसमाप्तौ, लिङ्गाच्चकर्मी सन्याज्ञवल्क्यः प्रवव्राजेति ।
मैत्रेय्यै च कर्मसाधनरहितायै साधनत्वेनामृतत्वस्य ब्रह्मविद्योपदेशाद्वित्तनिन्दावचनाच्च ।
यदि ह्यमृतत्वसाधनं कर्म स्याद्वित्तसाध्यं पाङ्क्तं कर्म, इति तन्निन्दावचनमनिष्टं स्यात् ।
यदि तु परितित्याजयिषितं कर्म, ततो युक्ता तत्साधननिन्दा ।

कर्माधिकारनिमित्तवर्णाश्रमादिप्रत्ययोपमर्दाच्च"ब्रह्म तं परा दात्" "क्षत्रं तं परादात्"इत्यादेः ।
न हि ब्रह्मक्षत्राद्यात्मप्रत्ययोपमर्दे, ब्राह्मणेनेदं कर्तव्यं क्षत्रियेणेदं कर्तव्यमिति विषयाभावादात्मानं लभते विधिः ।
यस्यैव पुरुषस्योपमर्दितः प्रत्ययो ब्रह्मक्षत्राद्यात्मविषयः, तस्य तत्प्रत्ययसंन्यासात्तत्कार्याणां कर्मणां कर्मसाधनानां च अर्थप्राप्तश्च सन्यासः ।
तस्मादात्मज्ञानाङ्गत्वेन संन्यासविधित्सयैव आख्यायिकेयमारभ्यते



मैत्रेयीति होवाच याज्ञवल्क्यः उद्यास्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कात्यायन्यान्तं करवाणीति ॥ _२,४.१ ॥

__________


शा.भा._२,४.१

मैत्रेयीति होवाच याज्ञवल्क्यःमैत्रेयीं स्वभार्यामामन्त्रितवान्याज्ञवल्क्यो नाम ऋषिः॑ुद्यास्यन्नूर्ध्वं यास्यन्पारिव्राज्याख्यमाश्रमान्तरं वै ।
अरे इति सम्बोधनम् ।
अहम्, अस्माद्गार्हस्थ्यात्, स्थानादाश्रमात्, ऊर्ध्वं गन्तुमिच्छन्नस्मि

भवामि॑तो हन्तानुमतिं प्रार्थयामि ते तव॑किञ्चान्यत्ते तवानया द्वितीयया भार्यया कात्यायन्यान्तं विच्छेदं करवाणि॑पतिद्वारेण युवयोर्मया सम्बन्धस्य विच्छेदं करवाणि द्रव्यविभागं कृत्वा॑वित्तेन संविभज्य युवां गमिष्यामि ॥१॥




_______________________________________________________________________

२,४.२



सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ _२,४.२ ॥

__________



शा.भा._२,४.२

सा एवमुक्ता होवाचयद्यदिऽनुऽइति वितर्के, मे मम इयं पृथिवी, भगोःभगवन्, सर्वा सागरपरिक्षिप्ता वित्तेन धनेन पूर्णा स्यात्॑कथम्? न कथञ्चनेत्याक्षेपार्थः, प्रश्नार्थो वा, तेन पृथिवीपूर्णवित्तसाध्येन कर्मणाग्निहोत्रादिना अमृता किं स्यामिति व्यवहितेन सम्बन्धः ।
प्रत्युवाच याज्ञवल्क्यःकथमिति यद्याक्षेपार्थम्, अनुमोदनं नेति होवाच याज्ञवल्क्यःकथमिति यद्याक्षेपार्थम्, अनुमोदनं नेति होवाच याज्ञवल्क्य इति॑प्रश्नश्चेत्प्रतिवचनार्थम्॑नैव स्या अमृता, किं तर्हि? यथैव लोके उपकरणवतां साधनवतां जीवितं सुखोपायभोगसम्पन्नम्॑तथैव तद्वदेव तव जीवितं स्यात्॑मृतत्वस्य तु नाशा मनसाप्यस्ति वित्तेन वित्तसाध्येन कर्मणेति ॥२॥




_______________________________________________________________________

२,४.३


सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ _२,४.३ ॥

__________



शा.भा._२,४.३

सा होवाच मैत्रेयी॑ेवमुक्ता प्रत्युवाच मैत्रेयीयद्येवं येनाहं नामृता स्याम्, किमहं तेन वित्तेन कुर्याम्? यदेव भगवान्केवलममृतत्वसाधनं वेद, तदेवामृतत्वसाधनं मे मह्यं ब्रूहि ॥३॥



_______________________________________________________________________

२,४.४



स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे ।
एह्यास्स्व ।
व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ _२,४.४ ॥

__________



शा.भा._२,४.४

स होवाच याज्ञवल्क्यः ।
एवं वित्तसाध्येऽमृतत्वसाधने प्रत्याख्याते, याज्ञवल्क्यः स्वाभिप्रायसम्पत्तौ तुष्ट आह॑स होवाचप्रियेषाटा, बतेत्यनुकम्प्याह, अरे मैत्रेयि नोऽस्माकं पूर्वमपि प्रिया सती भवन्ती इदानीं प्रियमेव चित्तानुकूलं भाषसे॑त एह्याःस्वोपविश व्याख्यास्यामियत्ते तव इष्टममृतत्वसाधनमात्मज्ञानं

कथयिष्यामि ।
व्याचक्षाणस्य तु मे मम व्याख्यानं कुर्वतो निदिध्यासस्व वाक्यान्यर्थतो निश्चयेन ध्यातुमिच्छेति ॥४॥



_______________________________________________________________________

२,४.५



स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रिय
ं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ _२,४.५ ॥

__________



शा.भा._२,४.५

स होवाचअमृतत्वसाधनं वैराग्यमुपदिदिक्षुर्जायापतिपुत्रादिभ्यो विरागमुत्पादयति तत्संन्यासाय ।
न वैवैशब्दः प्रसिद्धस्मरणार्थः॑प्रसिद्धमेवैतल्लोके॑पत्युर्भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्ह्यात्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति ।
तथा न वा अरे जायाया इत्यादि समानमन्यत्, न वा अरे पुत्राणाम्, न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे देवानाम्, न वा अरे भूतानाम्, न वा अरे सर्वस्य, पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम्॑तत्र तत्रेष्टतरत्वाद्वैराग्यस्य॑सर्वग्रहणमुक्तानुक्तार्थम् ।

तस्माल्लोकप्रसिद्धमेततात्मैव प्रियः, नान्यत् ।
ऽतदेतत्प्रेयः पुत्रात्ऽइत्युपन्यस्तम्, तस्यैतद्वृत्तिस्थानीयं प्रपञ्चितम् ।
तस्मादात्मप्रीतिसाधनत्वाद्गौणी अन्यत्र प्रीतिः, आत्मन्येव मुख्या ।
तस्मादात्मा वै अरे द्रष्टव्यो दर्शनार्हः, दर्शनविषयमापादयितव्यः॑श्रोतव्यः पूर्वमाचार्यत आगमतश्च॑पश्चान्मन्तव्यस्तर्कतः॑ततो निदिध्यासितव्यो निश्चयेन ध्यातव्यः॑ेवं ह्यसौ दृष्टो भवति श्रवणमनननिदिध्यासनसाधनैर्निर्वर्तितैः ।
यदैकत्वमतान्युपगतानि, तदा सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसिदति, नान्यथा श्रवणमात्रेण ।
यद्ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणमात्मविद्याध्यारोपितप्रत्ययविषयं क्रियाकारकफलात्मकमविद्याप्रत्ययविषयम्रज्जवाम्व सर्पप्रत्ययः, तदुपमर्दनार्थमाहआत्मनि खल्वरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं विज्ञातं भवति ॥५॥



ननु कथमन्यस्मिन्विदितेऽन्यद्विदितं भवति? नैष दोषः॑न हि आत्मव्यतिरेकेणान्यत्किञ्चिदस्ति ॑यद्यस्ति न तद्विदितं स्यात्॑न त्वन्यदस्ति॑ात्मैव तु सर्वम्॑तस्मात्सर्वमात्मनि विदिते विदितं स्यात् ।
कथं पुनरात्मैव सर्वमित्येतच्छ्रावयति



_______________________________________________________________________

२,४.६



ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा ॥ _२,४.६ ॥

__________



शा.भा._२,४.६

ब्रह्म ब्राह्मणजातिस्तं पुरुषं परादात्परादध्यात्पराकुर्यात्॑कम्? योऽन्यत्रात्मन आत्मस्वरूपव्यतिरेकेणआत्मैव न भवतीयं ब्राह्मणजातिरितितां यो वेद, तं परादध्यात्सा

ब्राह्मणजातिरनात्मस्वरूपेण मां पश्यतीति॑परमात्माहि सर्वेषामात्मा ।
तथा क्षत्रं क्षत्रियजातिः, तथा लोकाः, देवाः, भूतानि, सर्वम् ।
इदं ब्रह्मेतियान्यनुक्रान्तानि तानि सर्वाणि, आत्मैव, यदयमात्मायोऽयमात्मा द्रष्टव्यः श्रोतव्य इति प्रकृतः॑यस्मादात्मनो जायत आत्मन्येव लीयत आत्ममयं च स्थितिकाले, आत्मव्यतिरेकेणाग्रहणात्, आत्मैव सर्वम् ॥६॥




कथं पुनरिदानीमिदं सर्वमात्मैवेति ग्रहीतुं शक्यते? चिन्मात्रानुगमात्सर्वत्र चित्स्वरूपतैवेति गम्यते ।
तत्र दृष्टान्त उच्यते ।
तत्र दृष्टान्त उच्यतेयत्स्वरूपव्यतिरेकेणाग्रहणं यस्य, तस्य तदात्मत्वमेव लोके दृष्टम् ।



_______________________________________________________________________

२,४.७



स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ _२,४.७ ॥

__________



शा.भा._२,४.७

स यथास इति दृष्टान्तः, लोके यथा दुन्दुभेर्भेर्यादेः, हन्यमानस्य ताड्यमानस्य दण्डादिना, न, बाह्याञ्छब्दान् बहिर्भूताञ्छब्दविशेषान् दुन्दुभिशब्दसामान्यान्निष्कृष्टान् दुन्दुभिशब्दविशेषान्न शक्नुयाद्ग्रहणाय ग्रहीतुम्॑दुन्दुभेस्तु ग्रहणेन, दुन्दुभिशब्दा एत इति, शब्दविशेषा गृहीता भवन्ति, दुन्दुभिशब्दसामान्यव्यतिरेकेणाभावात्तेषाम् ।

दुन्दुभ्याघातस्य वा, दुन्दुबेराहननमाघातः, दुन्दुभ्याघातविशिष्टस्य शब्दसामान्यस्य ग्रहणेन तद्गता विशेषा गृहीता

भवन्ति, न तु त एव निर्भिद्य ग्रहीतुं शक्यन्ते, विशेषरूपेणाभावात्तेषाम् ।
तथा प्रज्ञानव्यतिरेकेण स्वप्नजागरितयोर्न कश्चिद्वस्तुविशेषो गृह्यते॑तस्मात्प्रज्ञानव्यतिरेकेण अभावो युक्तस्तेषाम् ॥७॥



_______________________________________________________________________

२,४.८



स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ _२,४.८ ॥

__________


शा.भा._२,४.८

तथा स यथा शङ्खस्य ध्मायमानस्य शब्देन संयोज्यमानस्य आपूर्यमाणस्य न बाह्याञ्छब्दाञ्छक्नुयादित्येवमादि पूर्ववत् ॥८॥




_______________________________________________________________________

२,४.९



स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ _२,४.९ ॥

__________



शा.भा._२,४.९

तथा वीणायै वाद्यमानायैवीमाया वाद्यमानायाः ।
अनेकदृष्टान्तोपादानमिह सामान्यबहुत्वख्यापनार्थमनेके हि विलक्षणाश्चेतनाचेतनरूपाः सामान्यविशेषाःतेषां पारम्पर्यगत्या यथैकस्मिन्महासामान्येऽन्तर्भावः प्रज्ञानघने, कथं नाम प्रदर्शयितव्य इति॑दुन्दुभिशङ्खवीणाशब्दसामान्यविशेषाणां यथा शब्दत्वेऽन्तर्भावः, एवं स्थितिकाले तावत्सामान्यविशेषाव्यतिरेकाद्ब्रह्मैकत्वं शक्यमवगन्तुम् ॥९॥



_______________________________________________________________________

२,४.१०


एवमुत्पत्तिकाले प्रागुत्पत्तेर्ब्रह्मैवेति शक्यमवगन्तुम् ।
यथाग्नेर्विस्फुलिङ्गधूमाङ्गारार्चिषां प्राग्विभागादग्निरेवेति भवत्यग्न्येकत्वम्, एवं जगन्नामरूपविकृतं प्रगुत्पत्तेः प्रज्ञानघन एवेति युक्तं ग्रहीतुमित्येतदुच्यते


स यथार्द्रैधाग्नेरभ्याहितात्पृथग्धूमा विनिश्चरन्त्येव वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननि ।
अस्यैवैतानि निश्वसितानि ॥ _२,४.१० ॥
__________



शा.भा._२,४.१०

स यथाआर्द्रैधाग्नेः, आर्द्रैरेधोभिरिद्धोऽग्निरार्द्रैधाग्निः, तस्मात्, अभ्याहितात्पृथग्धूमाः, पृथग्नानाप्रकारम्, धूमग्रहणं विस्फुलिह्गादिप्रदर्शनार्थम्, धूमविस्फुलिङ्गादयो विनिश्चरन्ति विनिर्गच्छन्ति ।
एवम्यथायं दृष्टान्तः, अरे मैत्रेय्यस्य परमात्मनः प्रकृतस्य महतो भूतस्य निश्वसितमेतत्, निश्वसितमिव निश्वसितम्॑यथा अप्रयत्नेनैव पुरुषनिश्वासो भवत्येवं वा अरे ।
किं तन्निश्वसितमिव ततो जातमित्युच्यतेयदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरसःचतुर्विधं मन्त्रजातम्, इतिहास इत्युर्वशीपुरूरवसोः संवादादिः"उर्वशीहाप्सराः"इत्यादिब्राह्मणमेव, पुराणम्"असद्वा इदमग्र आसीत्"इत्यादि, विद्या देवजनविद्या वेदः सोऽयमित्याद्या, उपनिषदः"प्रियमित्येतदुपासीत"इत्याद्याः, श्लोका ब्राह्मणप्रभवा मन्त्राः"तदेते श्लोकाः"इत्यादयः॑ सूत्राणि वस्तुसङ्ग्रह वाक्यानि वेदे यथा"आत्मेत्येवोपासीत"इत्यादीनि, अनुव्याख्यानानि मन्त्रविवरणानि, व्याख्यानान्यर्थवादाः, अथवा वस्तुसङ्ग्रहवाक्यविवरणान्यनुव्याख्यानानि, यथा चतुर्थाध्यायेऽआत्मेत्येवोपासीतऽ इत्यस्य, यथा वाऽअन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवम्ऽ
इत्यस्यायमेवाध्यायशेषः, मन्त्रविवरणानि व्याख्यानानि, एवमष्टविधं ब्राह्मणम् ।
एवं मन्त्रब्राह्मणयोरेव ग्रहणम्, नियतरचनावतो विद्यमानस्यैव वेदस्याभिव्यक्तिः पुरुषनिश्वासवत्, न च पुरुषबुद्धिप्रयत्नपूर्वकः॑ अतः प्रमाणं निरपेक्ष एव स्वार्थे॑ तस्माद्यत्तेनोक्तं तत्तथैव प्रतिपत्तव्यम्, आत्मनः श्रेय इच्छद्भिः ज्ञानं वा कर्म वेति ।
नामप्रकाशवशा हि रूपस्य विक्रियाव्यवस्था ।
नामरूपयोरेव हि परमात्मोपाधिभूतयोर्व्याक्रियमाणयोः सलिलफेनवत्तत्त्वान्यत्वेनानिर्वक्तव्ययोः सर्वावस्थयोः संसारत्वमित्यतो नाम्न एव निश्वसितत्वमुक्तम्, तद्वचनेनैवेतरस्य निश्वसितत्वसिद्धेः ।
अथवा सर्वस्य द्वैतजातस्य अविद्याविषयत्वमुक्तम्"ब्रह्म तं परादात्.....इदं सर्वं यदयमात्मा"इति ।
तेन वेदस्याप्रामाण्यमाशङ्क्यते ।
तदाशङ्कानिवृत्त्यर्थमिदमुक्तम्? पुरुषनिश्वासवदप्रयत्नोत्थितत्वात्प्रमाणं वेदः, न यथा अन्यो ग्रन्थ इति ॥१०॥



किञ्चान्यत्, न केवलं स्थित्युत्पत्तिकालयोरेव प्रज्ञानव्यतिरेकेणाभावाज्जगतो ब्रह्मत्वम्, प्रलयकाले च ।
जलबुद्बुदफेनादीनामिव सलिलव्यतिरेकेणाभावः, एवं प्रज्ञानव्यतिरेकेण तत्कार्याणां नामरूपकर्मणां तस्मिन्नेव लीयमानानामभावः ।
तस्मादेकमेव ब्रह्म प्रज्ञानघनमेकरसं प्रतिपत्तव्यमित्यत आह ।
प्रलयप्रदर्शनाय दृष्टान्तः



_______________________________________________________________________

२,४.११



स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ _२,४.११ ॥

__________



शा.भा._२,४.११

स इति दृष्टान्तः॑यथा येन प्रकारेण, सर्वासां नदीवापीतडागादिगतानामपाम्, समुद्रोऽब्धिरेकायनम्, एकगमनमेकप्रलयोऽविभागप्राप्तिरित्यर्थः॑यथायां दृष्टान्तः, एवं सर्वेषां स्पर्शानां मृदुकर्कशकठिनपिच्छिलादीनां वायोरात्मभूतानां त्वगेकायनम्, त्वगिति त्वग्विषयं स्पर्शसामान्यमात्रम्, तस्मिन्प्रविष्टाः स्पर्शविशेषाःाप इव समुद्रम्तद्व्यतिरेकेणाभावभूता भवन्ति॑तस्यैव हि ते संस्थानमात्रा आसन् ।
तथा तदपि स्पर्शसामान्यमात्रं त्वक्छब्दवाच्यं मनःसङ्कल्पे मनोविषयसामान्यमात्रे, त्वग्विषय इवस्पर्शविशेषाः, प्रविष्टं तद्व्यतिरेकेणाभावभूतं भवति॑ेवं मनोविषयोऽपि बुद्धिविषयसामान्यमात्रे प्रविष्टस्तद्व्यतिरेकेणाभावभूतो भवति॑विज्ञानमात्रमेव भूत्वा प्रज्ञानघने परे ब्रह्मण्याप इव समुद्रे प्रलीयते ।

एवं परम्पराक्रमेण शब्दादौ सह ग्राहकेण करणेन प्रलीने प्रज्ञानघने उपाध्यभावात्सैन्धवघनवत्प्रज्ञानघनमेकरसमनन्तमपारं निरन्तरं ब्रह्म व्यवतिष्ठते ।
तस्मादात्मैव एकमद्वयमिति प्रतिपत्तव्यम् ।

तथा सर्वेषां गन्धानां पृथिवीविशेषाणां नासिके घ्राणविषयसामान्यम्, तथा सर्वेषां रसानामब्विशेषाणां चक्षुश्चक्षुर्विषयसामान्यम्, तथा शब्दानां श्रोत्रविषयसामान्यं पूर्ववत् ।
तथा श्रोत्रादिविषयसामान्यानां मनोविषयसामान्ये सङ्कल्पे॑मनोविषयसामान्यस्यापि बुद्धिविषयसामान्ये विज्ञानमात्रे॑विज्ञानमात्रं भूत्वा परस्मिन्प्रज्ञानघने प्रलीयते ।
तथा कर्मेन्द्रियाणां विषया वदनादानगमनविसर्गानन्दविशेषाः तत्तत्क्रियासामान्येष्वेव प्रविष्टा न विभागयोग्या भवन्ति, समुद्र इवाब्विशेषाः॑ तानि च सामान्यानि प्राणमात्रम्, प्राणश्च प्रज्ञानमात्रमेव ।
"यो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः"इति कौषीतकिनोऽधीयते ।
ननु सर्वत्र विषयस्यैव प्रलयोऽभिहितः, न तु करणस्य॑तत्र कोऽभिप्राय इति? बाढम्॑किन्तु विषयसमानजातीयं करणं मन्यते श्रुतिः, न तु जात्यन्तरम्॑विषयस्यैव स्वात्मग्राहकत्वेन संस्थानान्तरं करणं नामयथा रूपविशेषस्यैव संस्थानं प्रदीपः करणं सर्वरूपप्रकाशने, एवं सर्वविषयविशेषाणामेव स्वात्मविशेषप्रकाशकत्वेन संस्थानान्तराणि करणानि प्रदीपवत् ।
तस्मान्न करणानां पृथक्प्रलये यत्नः कार्यः,
विषयसामान्यात्मकत्वाद्विषयप्रलयेनैव प्रलयः सिद्धो भवति करणानामिति ॥११॥



तत्रऽइदं सर्वं यदयमात्माऽ इति प्रतिज्ञातम्, तत्र हेतुरभिहितःात्मसामान्यत्वम्, आत्मजत्वम्, आत्मप्रलयत्वं च ।
तस्मादुत्पत्तिस्थितिप्रलयकालेषु प्रज्ञानव्यतिरेकेणाभावात्"प्रज्ञानं ब्रह्म" "आत्मैवेदं सर्वम्"इति प्रतिज्ञातं यत्, तत्तर्कतः साधितम् ।
स्वाभाविकोऽयं प्रलय इति पौराणिका वदन्ति ।
यस्तु बुद्धिपूर्वकः प्रलयो ब्रह्मविदां ब्रह्मविद्यानिमित्तः, अयमात्यन्तिक इत्याचक्षतेअविद्यानिरोधद्वारेण यो भवति॑ तदर्थोऽयं विशेषारम्भः



_______________________________________________________________________

२,४.१२



स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत न हास्योद्ग्रहणायेव स्यात् ।
यतोयतस्त्वाददीत लवणम् ।
एवं वा अर इदं महद्भूतमनन्तमपारं विज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ _२,४.१२ ॥

__________



शा.भा._२,४.१२

तत्र दृष्टान्त उपादीयतेस यथेति ।
सैन्धवखिल्यः सिन्धोर्विकारः सैन्धवः, सिन्धुशब्देनोदकमभिधीयते, स्यन्दनात्सिन्धुरुदकम्, तद्विकारस्तत्र भवो वा सैन्धवः सैन्धवश्चासौ खिल्यश्चेति सैन्धवखिल्यः, खिल एव खिल्यः स्वार्थे यत्प्रत्ययः, उदेक सिन्धौ स्वयोनौप्रस्तः प्रक्षिप्तः, उदकमेव विलीयमानमनुविलीयेत॑यत्तद्भौमतैजससम्पर्कात्काठिन्यप्राप्तिः ।
खिल्यस्य स्वयोनिसम्पर्कादपगच्छति तदुदकस्य विलयनम्, तदनु सैन्धवखिल्यो विलीयत इत्युच्यते ।
तदेतदाह उदकमेवानुविलीयेतेति ।

न ह नैव अस्य खिल्यस्योद्ग्रहणायोद्धृत्य पूर्ववद्ग्रहणाय ग्रहीतुं नैव समर्थः कश्चित्स्यात्सुनिपुणोऽपि ।
इवशब्दोऽनर्थकः ।
ग्रहणाय नैव समर्थः॑कस्मात्? यतो यतो यस्माद्यस्माद्देशातदुदकमाददीत गृहीत्वा स्वादयेत्, लवणास्वादमेव तदुदकं न तु खिल्यमावः ।

यथायं दृष्टान्तः, एवमेव वा अरे मैत्रेयिदं परमात्माख्यं महद्भूतम्यस्मान्महतो भूतादविद्यया परिच्छिन्ना सती कार्यकरणोपाधिसम्बन्धात्खिल्यमावमापन्नासि, मर्त्या जन्ममरणाशनायापिपासादिसंसारधर्मवत्यसि, नामरूपकार्यात्मिकाअमुष्यान्व याहमिति, स खिल्यभावस्तव कार्यकरणभूनोपाधिसम्पर्कभ्रान्तिजनितो महति भूते स्वयोनौ महासमुद्रस्यानीये परमात्मनि अजरेऽमरेऽभये शुद्वे सैन्धववनवदेकरसे प्रज्ञानघनेऽनन्तेऽपारे निरन्तरेऽविद्याजनितभ्रान्तिमेदवर्जिते प्रवेशितः ।
तस्मिन्प्रविष्टे स्वयोनिग्रस्ते खिल्यभावेऽविद्याकृते भेदभावे प्रणाशितेइदमेकमद्वैतं महद्भूतं महच्च तद्भूतं च महद्भूतं सर्वमहत्तरत्वादाकाशादिकारणत्वाच्च ।
भूतं विष्वपि कालेपु स्वरूपाध्यभिचारात्सर्वदैव परिनिष्पन्नमिति वैकालिको निष्ठाप्रत्ययः ।

अथवा भूतशब्दः परमार्थवाची, महच्च पारमार्थिकं चेत्यर्थः॑लौकिकं तु यद्यपि महद्भवति, स्वप्नमायाकृतं हिमवदादिपर्वतोपमं न परमार्थवस्तु॑तो विशिनष्टिइदं तु महच्च तदभूतं चेति ।
अनन्तं नास्यान्तो विद्यत इत्यनन्तम्॑कदाचिदापेक्षिकं स्यादित्यतो विशिनष्टयपारमितिविज्ञप्तिर्विज्ञानम्, विज्ञानम च तद्घनश्चेति विज्ञानघनः, घनशब्दोजात्यन्तरप्रतिषेधार्थःयथा सुवर्णघनोऽयोघन इति॑

एवशब्दोऽवधारणार्थःनान्यञ्जात्यन्तरमन्तराले विद्यत इत्यर्थः ।
यदीदमेकमद्वैतं परमार्थतः स्वच्छं संसारदुःखासम्पृत्त्कम्, किन्निमितोऽयं खिल्यभाव आत्मनो जातो मृतः सुखी दुःख्यहं ममेत्येवमादिलक्षणोऽनेकसंसारधर्मोपद्रुतः? इत्युच्यते
एतेभ्यो भूतेभ्यो यान्येतानि कार्यकरणविपयाकारपरिणतानि नामरूपात्मकानि सल्लिफेनवुद्वुदोपमानिस्वच्छस्य परमात्मनः सलिलोपमस्य, येपां विषयपर्यन्तानां प्रज्ञानघने ब्रह्मणि परमार्थविवेकज्ञानेन प्रविलापनमुत्तकं नदीसमुद्रवतएतभ्यो हेतुभूतेभ्यो भूतेभ्यः सत्यशब्दवाच्येभ्यः समुत्थाय सैन्धवखिल्यवत्यथा अद्भयः सूर्यचन्द्रादिप्रतिबिम्बः, यथा वा स्वच्छस्य स्फटिकस्य अलत्तकाद्युपाधिभ्यो रत्त्कादिभावः, एवं कार्यकरणभूतभूतोपाधिभ्यो विशेपात्मखिल्यभावेन समुत्थाय सम्यगुत्थाययेभ्यो भूतेभ्य उत्थितः तानि यदाकार्यकरणविषयाकारपरिणतानि भूतान्यात्मनो विशेपात्मखिल्यहेतुभूतानि शास्त्राचार्योपदेशेन ब्रह्मविद्याया नदीसमुद्रवत्प्रविलापितानि
विनश्यन्ति, सलिलफेनबुद्बुदादिवत्तेषु विनश्यत्सु अन्वेवैष विशेषात्मखिल्यभावो विनश्यति॑यथा उदकालत्त्फकादिहेत्वपनये सार्यचन्द्रस्फटिकादिप्रतिबिम्बो विनश्यति, चन्द्रादि स्वरूपमेव परमार्थतो व्यवतिष्ठते, तद्वत्प्रज्ञानघनमनन्तमपारं स्वच्छं व्यवतिष्ठते ।
न तत्र प्रेत्य विशेपसंज्ञास्ति कार्यकरणसङ्घातेभ्योविमुत्त्कस्यैत्येवमरे मैत्रेयि ब्रवीमि नास्ति विशेषसंज्ञेतिअहमसावमुष्य पुत्रो ममेदं क्षेत्रं धनं सुखी दुःखीत्येवमादिलक्षणा, अविद्याकृतत्वात्तस्याः॑विद्यायाश्चब्रह्मविद्यया निरन्वयतो नाशितत्वात्कुतो विशेषसंज्ञासम्भवो ब्रह्मविदश्चैतन्यस्वभावावस्थितस्य? शरीरावस्थितस्यापि विशेषसंज्ञा नोपपद्यते किमुत कार्यकरणविमुत्त्कस्य सर्वतः? इति होवाचोत्त्कवान्किल परमार्थदर्शनं मैत्रेय्यै भार्यायै याज्ञवल्क्यः ॥१२ ॥


एवं प्रतिबोधिता



_______________________________________________________________________

२,४.१३



सा होवाच मैत्रेयी अत्रैव मा भगवानमूमुहन्न प्रेत्य संज्ञास्तीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अलं वा अर इदं विज्ञानाय ॥ _२,४.१३ ॥

__________



शा.भा._२,४.१३

सा ह किलोवाचोत्त्कवती मैत्रेयीअत्रैव एतस्मित्रेव एकस्मिन्वस्तुनि ब्रह्मणि विरुद्वधर्मवत्तवमाचक्षणेन भगवता मम मोह कृतः॑तदाहअत्रैव मा भगवान्पूजावानमूमुहन्मोहं कृतचान् ।
कथं तेन विरुद्वधर्मवत्त्वमुत्कमित्युच्यतेपूर्व विज्ञानघन एवेति प्रतिशाय पुनर्न प्रेत्य संशास्तीति॑कथं विज्ञानघन एव? कथं वा न प्रेत्य संज्ञास्तीति? न ह्युष्णः शीतश्चाग्निरेवैको भवति ।
अतो मूढास्म्यत्र ।

स होवाच याज्ञवल्क्यःन वा अरे मैत्रेय्यहं मोहं ब्रवीमि मोहनं वाक्यं न ब्रवीमित्यर्थः ।
ननु कथं विरुद्वधर्मत्वमवोचःविज्ञान घनं संज्ञाभावं च ? न मयेदमेकस्मिन्वमिंण्यमिहितम्, त्वयैवेदं विरुद्वधर्मत्वेनैकं वस्तु परिगृहीतं भ्रान्त्या, न तु मयोत्त्कम् ।
मया त्विदमुत्त्कम्यस्त्वविद्याप्रत्युपस्यापितःकार्यकरणसम्बन्धी आत्मनः खिल्यभावः, यस्मिन्विद्यया नाशिते, तन्निमित्ता या विशेषसंज्ञा शरीरादिसम्बन्धिनी अन्यत्वदर्शनलक्षणा, सा कार्यकरणसङ्घातोपाधौ प्रविलापिते नश्यति हेत्वभावादुदकाद्याधारनाशादिव चन्द्रादिप्रतिबिम्ब स्तन्निमित्तश्च प्रकाशादिः॑ न पुनः परमार्थचन्द्रादित्यस्वरूपानाशवदसंसारिब्रह्मस्वरूपस्य विज्ञानघनस्य नाशः॑ तद्विज्ञाघन इत्युत्त्कम्॑ स आत्मा सर्वस्य जगतः, परमार्थतो भूतनाशान्न विनाशी ।
विनाशी त्वविद्यकृतः खिल्यभावः,"वाचारम्भणं विकारो नामधेयम्"(छा० उ० ६ ।१ ।४) इति श्रुत्यन्तरात् ।
अयं तु पारमार्थिकःविनाशी वा अरेऽयमात्मा, अतोऽलं पर्याप्तं वै अरे इदं महद्भूतमनन्तमपारं य याव्याख्यातं विज्ञानाय विज्ञातुम् ।



_______________________________________________________________________

२,४.१४


यत्र हि द्वैतमिव भवति तदितर इतरं जिघ्रति तदितर इतरं पश्यति तदितर इतरं शृणोति तदितर इतरं जिघ्रति तदितर इतरमभिवदति तदितर इतरं मनुते तदितर इतरं विजानाति ।
यत्र वास्य सर्वमात्मैवाभूत्तत्केन कं जिघ्रेत्तत्केन कं जिघ्रेत्तत्केन कं पश्येत्तत्केन कं शृणुयात्तत्केन कमभिवदेत्तत्केन कं मन्वीत तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
विज्ञातारमरे केन विजानीयादिति ॥ _२,४.१४ ॥

__________



शा.भा._२,४.१४

कथं तर्हि प्रेत्य संज्ञा नास्तीत्युच्यते ।
शृणु ।
यत्र यस्मिन्नविद्याकल्पिते कार्यकरणसंघातोपाधिजनिते विशेषात्मनि खिल्यभावे हि यस्मादद्द्वैतमिव पारमार्थतोऽद्वैते ब्रह्मणि द्वैतमिव भिन्नमिव वस्त्वन्तरमात्मन उपलक्ष्यते ।
ननु द्वैतेनोपमीयमानत्वाद्द्वैतस्य पारमार्थिकत्वमिति ।
न ।
ऽवाचाऽरम्भणं विकारो नामधेयमिऽति श्रुत्यन्तराऽदेकमेवाऽद्वितीयमात्मैवेदं सर्वामिति च ।
तत्तत्र यस्माद्द्वैतमिव तस्मादेवेतरोऽसौ परमात्मनः खिल्यभूत आत्मापरमार्थश्चन्द्रोदेरिवोदकचन्द्रादिप्रतिबिम्ब इतरो घ्रातेतरेण ध्राणेनेतरं घ्रातव्यं जिघ्रति ।
इतर इतरमिति कारकप्रदर्शनार्थं जिघ्रतीति क्रियाफलयोरभिधानम् ।
यथा छिन्त्तीति यथोद्यम्योद्यम्य निपातनं छेदस्य च द्वैधीभाव उभयं छिनत्तीत्येकेनैव शब्देनाभिधीयते क्रियावसानत्वात्क्रियाव्यतिरेकेण च तत्फलस्यानुपलम्भात् ।
इतरो घ्राणेतरेण घ्राणेनेतरं घ्रतव्यं जिघ्रति तथा सर्वं पूर्ववद्विजानाति ।
इयमविद्यावदवस्था ।

यत्र तु ब्रह्मविद्ययाविद्या नाशमुपगमिता तत्राऽत्मव्यतिरेकेणान्यस्याभावः ।
यत्र वा अस्य ब्रह्मविदः सर्वं नामरूपाद्यात्मन्येव प्रविलापितमात्मैव संवृत्तं यत्रैवमात्मैवाभूत्तत्र केन करणेन कं ध्रातव्यं को जिघ्रेत्तथा पश्योद्विजानीयात् ।
सर्वत्र हि कारकसाध्या क्रिया ।
अतः कारकाभावेऽनुपपत्तिः क्रियायाः क्रियाभावे च फलाभावः ।
तस्मादविद्यायामेव सत्यां क्रियाकारकफलव्यवहारो न ब्रह्मविदः ।
आत्मत्वादेव सर्वस्य नाऽत्मव्यतिरेकेण कारकं क्रियाफलं वास्ति ।
नचानात्मा सन्सर्वमात्मैव भवति कस्यचित् ।
तस्मादविद्ययैवानात्त्मत्वं परिकल्पितं न तु परमार्थत आत्मव्यतिरेकेणास्ति किञ्चित् ।
तस्मात्परमार्थात्मैकत्वप्रत्यये क्रियाकारकफलप्रत्ययानुपपत्तिः ।
अतो विरोधाद्ब्रह्मविदः क्रियाणां तत्साधनानां चान्त्यन्तमेव निवृत्तिः ।
केन किमिति क्षेपार्थं वचनं प्रकारान्तरानुपपत्तिदर्शनार्थम् ।
केनचिदपि प्रकारेण क्रियाकरणादिकारकानुपपत्तेः ।
केनत्चित्कञ्चित्काश्चित्कथं चिन्न जिव्रेदेवेत्यर्थः ।

यत्राप्यविद्यावस्थायामन्योऽन्यं पश्यति तत्रापि येनेदं सर्वं विजानाति तं केन विजानीयाद्येन विजानाति तस्य करणस्य
विज्ञेये विनियुक्तत्वात् ।
ज्ञातुश्व ज्ञेय एव हि जिज्ञासा नाऽत्मनि ।
न चाग्नेरिवाऽत्माऽत्मनो विषयो न चाविषये ज्ञातुर्ज्ञानमुपपद्यते ।
तस्माद्येनेदं विजानाति तं विज्ञातारं केन करणेन को वान्यो विजानीयात् ।
यदा तु पुनः परमार्थविवेकिनो ब्रह्मविदो विज्ञातैव केवलोऽद्वयो वर्तते तं विज्ञातारमरे केन विजानीयादिति ॥४॥



इति बृहदारण्यकोपनिषद्भाष्ये द्वितीयाध्यायस्य चतुर्थं ब्राह्मणम् ॥४॥



_______________________________________________________________________

२,५.१



यत्केवलं कर्मनिरपेक्षममृतवसाधनं तद्वक्तव्यमिति मैत्रेयीब्राह्मणमारब्धम् ।
तच्चाऽत्मज्ञानं सवंसन्यासाङ्गविशिष्टम् ।
आत्मनि च विज्ञाते सर्वमिदं विज्ञातं भवति ।
आत्मा च प्रियः सर्वस्मात् ।
तस्मादात्मा द्रष्टव्यः स च श्रोतव्यो मन्तव्यो निदिध्यास्तव्य इति च दर्शनप्रकारा उक्ताः ।
तत्र श्रोतव्य आचार्यागमाभ्याम् ।
मन्तव्यस्तर्कतः ।
तत्र च तर्क उक्त आत्मैवेदं सर्वमिति प्रतिज्ञातस्य हेतुवचनमात्मैकसामान्यत्वमात्मैकोद्भवत्वमात्मैकप्रलयत्वं च ।
तत्रायं हेतुरसिद्ध इत्याशङ्क्यत आत्मैकसामान्योद्भवप्रलयाख्यस्तदाशङ्कानिवृत्यर्थमेतद्ब्राह्मणमारभ्यते ।

यस्मात्परस्परोपकार्योपकारकभूतं जगत्सर्वं पृथिव्यादि ।
यच्च लोके परस्परकार्योपकारकभूतं तदेककारणपूर्वकमेकसामान्यात्मकमेकप्रलयं च दृष्टम् ।
तस्मादिदमपि पृथिव्यादिलक्षणं जगत्परस्परोपकार्योपकारकत्वात्तथाभूतं भवितुमर्हति ।
एष ह्यर्थोऽस्मिन्ब्राह्मणेप्रकाश्यते ।
अथवाऽत्मैवेदं सर्वमिति प्रतिज्ञातस्याऽत्मोत्पत्तिस्थितिलयत्वं क्रियते ।
तथा हि नैयायिकैरुक्तं हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति ।
अन्यैर्व्याख्यातमा दुन्दुभिदृष्टान्ताच्छ्रोतव्यार्थमागमवचनं प्राङ्भधुव्रह्मणान्मन्तव्यार्थमुपपत्तिप्रदर्शनेन मधुब्राह्मणेन तु निदिध्यासनविधिरुच्यत इति ।
सर्वथापि तु यथाऽगमेनावधारितं तर्कतस्तथैव मन्तव्यम् ।
यथा तर्कतो मतस्य तर्कागमाभ्यां निश्चितस्य तथैव निदिध्यासनं क्रियत इति पृथङ्निदिध्यासनविधिरनर्थक एव ।
तस्मात्पृथक्प्रकरणविभागोऽनर्थक इत्यस्मदभिप्रायः श्रवणमनननिदिध्यासनानामिति ।
सर्वथापि त्वध्यायद्वयस्यार्थोऽस्मिन्ब्राह्मण उपसंह्रियते ।



इयं पृथिवी सर्वेषां भूतानां मधु ।
अस्यै पृथिव्यै सर्वाणि भूतानि मधु ।
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यस्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.१ ॥

__________



शा.भा._२,५.१

इयं पृथिवी प्रसिद्धा सर्वेषां भूतानां मधु सर्वेषां ब्रह्मादिस्तम्बपर्यन्तानां भूतानां प्राणिनां मधु कार्यं मध्विव मधु यथैको मध्वपूपोऽनेकैर्मधुकरैर्निर्वर्तित एवमियं पृथिवी सर्वभूतनिर्वर्तिता ।
तथा सर्वाणि भूतानि पृथिव्यै पृथिव्या अस्या मधु कार्यम् ।
किञ्च यश्वायं पुरुषोऽस्यां पृथिव्यां तेजोमयश्विन्मात्रप्रकाशमयोऽमृतमयोऽमरणधर्मा पुरुषो यश्चायमध्यात्मं शारीरः शरीरे भवः पूर्ववत्तेजोमयोऽमृतमयः पुरुषः ।
स च लिङ्गाभिमानी ।
स च सर्वेषां भूतानामुपकारकरणत्वेन मधु ।
सर्वाणि च भूतान्यस्य मधु ।
चशब्दसामर्थ्यात् ।
एवमेतच्चतुष्टयं तावदेकं सर्वभूतकार्यं सर्वाणि च भूतान्यस्य कार्यमतोऽस्यैककारणपूर्वकता ।
यस्मादेकस्मात्कारणादेतज्जातं तदेवैकं परमार्थतो ब्रह्मेतरत्कार्यं वाचाऽरम्भणं विकारो नामधेयमात्रमित्येषमधुपर्यायाणां सर्वेषामर्थः संक्षेपतः ।
अयमेव स योऽयं प्रतिज्ञात इदं सर्वं यदयमात्मेति ।
इदममृतं यन्मैत्रेय्या अमृतत्वसाधनमुक्तमात्मविज्ञानमिदं तदमृतम् ।
इदं ब्रह्म यद्ब्रह्मा ते ब्रवाणि ज्ञपयिष्यामीत्यध्यायादौ प्रकृतं यद्विषया च विद्या ब्रह्मविद्येत्युच्यत इदं सर्वं यस्माद्ब्रह्मणो विज्ञानात्सर्वं भवति ॥१॥




_______________________________________________________________________

२,५.२



इमा आपः सर्वेषां भूतानां मधु ।
आसामपां सर्वाणि भूतानि मधु ।
यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं रैतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.२ ॥

__________



शा.भा._२,५.२

तथाऽपः ।
अध्यात्मं रेतस्यपां विशेषतोऽवस्थानम् ॥२॥




_______________________________________________________________________

२,५.३



अयमग्निः सर्वेषां भूतानां मधु ।
अस्याग्नेः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्मयस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.३ ॥

__________



शा.भा._२,५.३

तथाग्निः वाच्यग्नेर्विशेषतोऽवस्थानम् ॥३॥




_______________________________________________________________________

२,५.४



अयं वायुः सर्वेषां भूतानां मधु ।
अस्य वायोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् वायौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमयः पुरुषो यमेव स योऽयमात्मा ।
इदं अमृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.४ ॥

__________



शा.भा._२,५.४

तथा वायुः ।
अध्यात्मं प्राणो भूतानां शरीरारम्भकत्वेनोपकारान्मधुत्वं तदन्तर्गतानां तेजोमयादीनां करणत्वेनोपकारान्मधुत्वम् ।
तथा चोक्तं"तस्यैव वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः"इति ॥४॥




_______________________________________________________________________

२,५.५



अयमादित्यः सर्वेषां भूतानां मधु ।
अस्यादित्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.५ ॥

__________


शा.भा._२,५.५

तथाऽदित्यो मधु ।
चाक्षुषोऽध्यात्मम् ॥५॥




_______________________________________________________________________

२,५.६



इमा दिशः सर्वेषां भूतानां मधु ।
आसां दिशां सर्वाणि भूतानि मधु ।
यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.६ ॥

__________



शा.भा._२,५.६

तथा दिशो मधु ।
दिशां यद्यपि श्रोत्रमध्यात्मं शब्दप्रतिश्रवणवेलायां तु विशेषतः संनिहितो भवतीत्यध्यात्मं प्रातिश्रुत्कः प्रतिश्रुत्कायां प्रतिश्रवणवेलायां भवः प्रातिश्रुत्कः ॥६॥




_______________________________________________________________________

२,५.७



अयं चन्द्रः सर्वेषां भूतानां मध्व् ।
अस्य चन्द्रस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतम् ।
इदं ब्रह्मेदं सर्वम् ॥ _२,५.७ ॥

__________



शा.भा._२,५.७

तथा चन्द्रः ।
अध्यात्मं मानसः ॥७॥




_______________________________________________________________________

२,५.८



इयं विद्युत्सर्वेषां भूतानं मधु ।
अस्यै विद्युतः सर्वाणि भूतानि मधु ।
यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं तैजसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.८ ॥

__________



शा.भा._२,५.८

तथा विद्युत् ।
त्वक्तेजसि भवस्तैजसोऽध्यात्मम् ॥८॥



_______________________________________________________________________

२,५.९



अयं स्तनयित्नुः सर्वेषां भुतानां मधु ।
अस्य स्तनयित्नोः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्स्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.९ ॥

__________



शा.भा._२,५.९

तथा स्तनयित्नः ।
शब्दे भवः शाब्दोऽध्यात्मं यद्यपि तथापि स्वरे विशेषतो भवतीति सौवरोऽध्यात्मम् ॥९॥




_______________________________________________________________________

२,५.१०



अयमाकाशः सर्वेषां भूतानां मधु ।
अस्याकाशस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं हृद्याकाशस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.१० ॥

__________



शा.भा._२,५.१०

तथाऽकाशः ।
अध्यात्मं ह्यद्याकाशः ॥१०॥




_______________________________________________________________________

२,५.११



अयं धर्मः सर्वेषां भूतानां मधु ।
अस्य धर्मस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् धर्मे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.११ ॥

__________



शा.भा._२,५.११

अयं धर्मोऽयमित्यप्रत्यक्षोऽपि धर्मः कार्येण तत्प्रयुक्तेन प्रत्यक्षेण व्यपदिश्यतेऽयं धर्म इति प्रत्यक्षवत् ।
धर्मश्च व्याख्यातः श्रुतिस्मृतिलक्षणः क्षत्रादीनामपि नियन्ता जगतो वैचित्र्यकृत्पृथिव्यादीनां परिणामहेतुत्वात्प्राणिभिरनुष्ठीयमानरूपश्च ।
तेन चायं धर्म इति प्रत्यक्षेण व्यपदेशः ।
सत्यधर्मयोश्चाभेदेन निर्देशः कृतः शास्राचारलक्षणयोरिद्द(? ) तु भेदेन व्यपदेश एकत्वे सत्यपि ।
दृष्टादृष्टभेदरूपेण कार्यारम्भकत्वात् ।
यस्त्वदृष्टोऽपूर्वाख्यो धर्मः स सामान्यविशेषात्मनादृष्टेन रूपेण कार्यमारभते सामान्यरूपेण पृथिव्यादीनां प्रयोक्ता भवति विशेषरूपेण चाध्यात्मं कार्यकरणसंघातस्य ।
तत्र पृथिव्यादीनां प्रयोक्तरि यश्चायमस्मिन्धर्मे तेजोमयस्तथाध्यात्मं कार्यकरणसंघातकर्तरि धर्मे भवो धार्मः ॥११॥




_______________________________________________________________________

२,५.१२



इदं सत्यं सर्वेषां भूतानां मधु ।
अस्य सत्यस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन् सत्ये तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.१२ ॥

__________



शा.भा._२,५.१२

तथा दृष्टेनानुष्ठीयमानेनाऽचाररूपेण सत्याख्यो भवति स एव धर्मः सोऽपि द्विप्रकार एव सामान्यविशेषात्मरूपेण ।
सामान्यरूपः पृथिव्यादिसमवेतो विशेषरूपः कार्यकरणसंघातसमवेत ।
तत्र पृथिव्यादिसमवेते वर्तमानक्रियारूपे सत्ये तथाध्यात्मं कार्यकरणसंघातस मवेते सत्ये भवः सत्यः ।
सत्येन वायुरावातीति श्रुत्यन्तरात् ॥१२॥




_______________________________________________________________________

२,५.१३



इदं मानुषं सर्वेषां भूतानां मधु ।
अस्य मानुषस्य सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.१३ ॥

__________



शा.भा._२,५.१३

धर्मसत्याभ्यां प्रयुक्तोऽयं कार्यकरणसंघातविशेषः स येन जातिविशेषेष संयुक्तो भवति ।
स जातिविशेषो मानुषादिः ।
तत्र मानुषादिजातिविशिष्टा एव सर्वे प्राणिनिकायाः परस्परोपकार्योपकारकभावेन वर्तमाना दृश्यन्ते ।
अतो मानुषादिजातिरपि सर्वेषां भूतानां मधु ।
तत्र मानुषादिजातिरपि बाह्याऽध्यात्मिकी चेत्युभयथा निर्देशभाग्भवति ॥१३॥




_______________________________________________________________________

२,५.१४



अयमात्मा सर्वेषां भूतानां मधु ।
अस्यात्मनः सर्वाणि भूतानि मधु ।
यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मा ।
इदममृतमिदं ब्रह्मेदं सर्वम् ॥ _२,५.१४ ॥॥


__________



शा.भा._२,५.१४

यस्तु कार्यकरणसंघातो मानुषादिजातिविशिष्टः सोऽयमात्मा सर्वेषां भूतानां मधु ।
नन्वयं शारीरशब्देन निर्दिष्टः पृथिवीपर्याय एव ।
न ।
पार्थिवांशस्यैव तत्र ग्रहणात् ।
इदं तु सर्वात्मा प्रत्यस्तमिताध्यात्माधिभूतादिसर्वविशेषः सर्वभूतदेवतागणविशिष्टः कार्यकरणसंघातः सोऽयमात्मेत्युच्यते ।
तस्मिन्नस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषोऽयमूर्तरसः सर्वात्मको निर्दिश्यते ।
एकदेशेन तु पृथिव्यादिषु निर्दिष्टोऽत्राध्यात्मविशेषाभावात्स न निर्दिश्यते ।
यस्तु परिशिष्टो विज्ञानमयो यदर्थोऽयं देहलिङ्गसंघात आत्मा स यश्चायमात्मेत्युच्यते ॥१४॥



_______________________________________________________________________

२,५.१५



स वा अयमात्मा सर्वेषां अधिपतिः सर्वेषां भूतानां राजा ।
तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिताः ।
एवमेवास्मिन्नात्मनि सर्वाणि भूतानि सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एत आत्मानः समर्पिताः ॥ _२,५.१५ ॥

__________



शा.भा._२,५.१५

यस्मिन्नात्मनि परिशिष्टो विज्ञानमयोऽमात्मा ।
तस्मिन्नविद्याकृतकार्यकरणसङ्घातोपधिविशिष्टे ब्रह्मविद्याया परमार्थात्मनि प्रवेशिते, स एवमुत्त्कोऽनन्तरोऽबाह्यः कृतस्त्रः प्रज्ञानघनभूतः सर्वेषां भूतानामयमात्मा सर्वैरूपास्यः सर्वेषां भूतानामधिपतिः सर्वभूतानां स्वतन्त्रो न कुमारमात्यवत्, किं तर्हि? सर्वेषां भूतानां राजा ।
राजत्वविशेषणमधिपतिरिति॑भवति कश्चिद्राजोचितष्टत्तिमाश्रित्य राजा, न त्वधिपतिः, अतो विशिनष्ट्यधिपतिरिति ।
एवं सर्वभूतात्मा विद्वान् ब्रह्मविन्मुत्त्को भवति ।

यदुत्त्कम्ऽब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद्यस्मात्तत्सर्वमभवत्ऽइतीदं तद्व्याख्यातम् ।
एवमात्मानभेव सर्वात्मत्वेन आचार्यगमाभ्यां श्रुत्वा, मत्वा तर्कतो विज्ञाय साक्षादेवं यथा मधुब्राह्मणे दर्शितं तथा, तस्माद्ब्रह्मविज्ञानादेवंलक्षणात्पूर्वमपिब्रहेमैव सदविद्यया अब्रह्मासीत्, सर्वभेव च सदसर्वमासीत्तान्त्वविद्यामस्माद्विज्ञनात्तिरस्कृत्य ब्रह्मविद्ब्रह्मैव सन् ब्रह्माभवत्सर्वः स सर्वमभवत् ।

परिसमाप्तः शास्त्रार्थो यदर्थः प्रस्तुतः ।
तस्मिन्नेतस्मिन् सर्वात्मभूते ब्रह्मविदि सर्वात्मनि सर्वं जगत्समर्पितमित्येतस्मिन्नर्थे दृष्टान्त उपादीयतेतद्यथा रथनाभौ च रथेनेमौ चाराः सर्वे समर्पिता इति प्रसिद्वोर्ऽथः, एवमेवास्मिन्नात्मनि परमात्मभूते ब्रह्मविदि सर्वाणि भूतानि ब्रह्मादिस्तम्बर्यन्तानि, सर्वे देवा अग्न्यादयः, सर्वे लोका

भूरादयः, सर्वे प्रणा वागादयः, सर्व एत आत्मानो जलचन्द्रवत्प्रतिशरीरानुप्रवेशिनोऽविद्याकल्पिताः, सर्वं जगदस्मिन् समर्पितम् ।

यदुत्त्कं ब्रह्मविद्वामदेवः प्रतिपेदेऽअहं मनुरभवं सूर्यश्चऽइति, स एष सर्वात्मभावो व्याख्यातः ।
स एष विद्वान् ब्रह्मवित् सर्वोपाधिः सर्वात्मा सर्वो भवति ।
निरुपाधिर्निरुपाख्यः अनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघनोऽजाजरोऽमृतोभयोऽचलो नेति नेत्यस्थूलोऽनणुरित्येवंविशेषणो भवति ।

तमेतमर्थमजानन्तस्तार्किकाः केचित्पण्डितंमन्याश्चागमविदः शास्त्रार्थ विरुद्वं मन्यमाना विकल्पयन्तो मोहमगाधमुपयान्ति ।
तमेतमर्थमेतौ मनेत्रावनुवदतः"अनेजदेकं मनसो जवीयः" "तदेजति तन्नैजति"इति ।
तथा च तैत्तिरीयके"यस्मात्परं नापारमस्ति किञ्चत्""एतत्साम गायन्नास्ते" "अहमन्नमहमन्नमहमन्नम्"इत्यादि ।
तथा च च्छान्दोग्ये"जक्षत्क्रीडन्रममाणः" "सयदि पितृलोककामः" "सर्वगन्धः सर्वरसः"इत्यादि ।
आयर्वणे च"सर्वज्ञः सर्ववित्""दूरात सुदूरे तदिहान्तिके च ।
"कठवल्लीष्वपि"अणोरणीयान्महतो महीयान्" "कस्तं मदामदं देवम्" "तद्वावतोऽन्यानत्येति तिष्ठत्"इति च ।
तथा गीतासु"अहं क्रतुरहं यज्ञः" "पिताहमस्य जगतः" "नादत्ते कस्यचित्पापम्" "समं सर्वेषु भूतेषु" "अविमत्त्कं विभत्त्केपु" "ग्रसिष्णु प्रभविष्णु च"इत्येवमाद्यागमार्थ विरुद्वमिव

प्रतिभान्तं मन्यमानाः स्वचित्तसामर्थ्यादर्थनिर्णयाय विकल्पयन्तः, अस्त्यात्मा नास्त्यात्मा कर्ताकर्ता मुत्त्को बद्वः क्षणिको विज्ञानमात्रं शून्यं चेत्येवं विकल्पयन्तो न पारमधिगच्छन्त्यविद्यायाः, विरुद्वर्र्मदर्शित्वात्सर्वत्र ।

तस्मात्तत्र य एव श्रुत्याचार्यदर्शितमार्गानुसारिणः, त एवाविद्यायाः पारमधिगच्छन्ति ।
त एव वास्मान्मोहसमुद्रादगाधादुत्तरिष्यन्ति, नेतरे स्ववुद्विकौशलानुसारिणः ॥१५ ॥



_______________________________________________________________________

२,५.१६



परिसमाप्ता ब्रह्मविद्यामृतत्वसाधनाभूता, यां मैत्रेयी पृष्टवती भर्तारम्ऽयदेव भगवानमृतत्वसाधनं वेद तदेव मे ब्रूहिऽइति ।
एतस्या ब्रह्मविद्यायाः स्तुत्यर्थेयमाख्यायिकायाः सङ्क्षेपतोर्ऽथप्रकाशनार्थावेतौ मन्त्रौ भवतः ।
एवं हि मन्त्रब्राह्मणाभ्यां स्तुतत्वातमृतत्वसर्वप्राप्तिसाधनत्वं ब्रह्मविद्यायाः प्रकटीकृतं राजमार्ग मुपनीतं भवतियथादित्य उद्यञ्छलार्वरं तमोऽपनयतीति तद्वत् ।

अपि चैवं स्तुता ब्रह्मविद्याया इन्द्ररक्षिता सा दुष्प्राप्या देवैरपि॑.स्मादश्चिभ्यामपिदेवभिपग्भ्यामिन्द्ररक्षिता विद्या महतायासेन प्राप्ता ।
ब्राह्मणस्य शिरश्छित्त्वाश्वयं शिरः प्रतिसन्धाय तस्मिन्निन्द्रेणच्छिन्ने पुनः स्वशिर एव प्रतिसन्धाय तेन ब्राह्मणस्य स्वशिरसैवोत्त्काशेषा ब्रह्मविद्या श्रुता ।
तस्मात्ततः परतरं किञ्चित्पुरुषार्थसाधनं न भूतं न भावि वा, कुत एव वर्तमानम्, इति नातः परास्तुतिरस्ति ।

अपि चैवं स्तूयते ब्रह्मविद्यासर्वपुरुषार्थानां कर्म हि साधनमिति लोके प्रसिद्वम् ।
तच्च कर्म वित्तसाध्यम्,

तेनाशापिनास्त्यमृतत्वस्य ।
तदिदममृतत्वं केवलयात्मविद्यया कर्मनिरपेक्षया प्राप्यते॑यस्मात्कर्मप्रकरणे वक्तुं प्राप्तपि केवलप्रकरणे, कर्मप्रकरणादुत्तीर्त कर्मणा विरुद्वत्वात्केवलसंन्याससहिता अभिहिता अमृतत्वसाधनाय ।
तस्मान्नातः परं पुरुषार्थसाधनमस्ति ।

अपि चैवं स्तुता ब्रह्मविद्या सर्वो हि लोको द्वन्द्वारामः"स वै नैव रेमे तस्मादेकाकी न रमते"इति श्रुतेः ।
याज्ञवल्क्यो लोकसाधारणोऽपि सन्नात्मज्ञानबलद्भार्यापुत्रवित्तादिसंसाररतिं परित्यज्य प्रज्ञानतृप्त आत्मरतिर्बभूव ।

अपि चैवं स्तुता ब्रह्मविद्या यस्माद्याज्ञवल्क्येनसंसारमार्गद्व्युत्तिष्ठतापि प्रियायै भार्यायै प्रोत्यर्थमेंवामिहिता,"प्रियं भापस एह्याःस्व"इति लिङ्गात् ।

तत्रेयं स्तुत्यर्थाख्यायिकेत्यवोचाम ।
का पुनः सा आख्यायिका? इत्युच्यते



इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाचेति ॥ _२,५.१६ ॥

__________



शा.भा._२,५.१६

इदमित्यनन्तरनिर्दिष्टं व्यपदिशति, बुद्वौ सन्निहितत्वात् ।
वैशब्दः स्मरणार्थः ।

तदित्याख्यायिकानिर्वृत्तंप्रकरणान्तराभिहितं परोक्षं वैशब्देन स्मारयन्निह व्यपदिशति ।
यत्तत्प्रवर्ग्यप्रकरणे मूचितम्, नाविष्कृतं मधु, तदिदं मध्विहानन्तरं निर्दिष्टम्ऽइयं पृथिवीऽइत्यादिना ।

कथं तत्र प्रकरणान्ते सूचितम्दध्यङ्ह वा आभ्यामाथर्वणो मधु नाम ब्राह्मणमुवाच ।
तदेनयोः प्रियं धाम तदेवैनयोरेतेनोपगच्छति ।
स होवाचेन्द्रेण वा उत्त्कोऽस्मयेतच्चेदन्यस्मा अनुव्रूयास्तत एव ते शिरश्छिन्द्यामिति ।
तस्माद्वै बिभेमि, यद्वै मे स शिरो न छिन्द्यात्तद्वामुपनेष्य इति ।
तौ होचतुरावां त्वा तस्मात्त्रास्यावहे इति कथं मा त्रास्येथे? इति ।
यदा नावुपनेष्यसे॑थ ते शिरश्छित्त्वा अन्यत्राह्रत्योपनिधास्यावः॑थाश्वस्य शिर आह्रत्य तत्ते प्रतिधास्यावः॑तेन नावनुवक्ष्यसि ।
यदा नावनुवक्ष्यसि, अथ ते तदिन्द्रः शिरश्छेत्स्यति॑थ ते स्वं शिर आह्रत्य तत्ते प्रतिधास्याव इति ।

तथेति तौ होपनिन्ये ।
तौ यदोपनिन्ये, अथास्य शिरच्छित्त्वान्यत्रोपनिदधुतुः॑थाश्वस्य शिर आह्रत्य तद्वास्य प्रतिदधतुः ।
तेन हाभ्यामनुवाच ।
स यदा आभ्यामनुवाचाथास्य तदिन्द्रः शिरश्चिच्छेद ।
अथास्य स्वं शिर आह्रत्य तद्वास्य प्रतिदधतुरिति ।

यावत्तु प्रवर्ग्यकर्माङ्गभूतं मधु तावदेव तत्राभिहितम्, न तु कक्ष्यमात्माज्ञानाख्यम् ।
तत्र या आख्यायिकाभिहिता सेह स्तुत्यर्था प्रदर्श्यते ।
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽनेन प्रपञ्चेनाश्विभ्यामुवाच ।
तदेतदृपिःतदेतत्कर्म, शृपिर्मन्त्रः, पश्यन्नुपलभमानः, अवोचतुत्त्कवान् ।
कथम्? तद्दंस इति व्यवहितेन सम्बन्धः ।
दंस इति कर्मणो नामधेयम् ।
तच्च दंसः किविशिष्टम्? उग्रं क्रूरम् ।
वां युवयोः ।
हे नरा नराकारावश्विनौ ।
तच्च कर्म किन्निमितम्? सनये लाभाय !लामलुब्धो हि लोकेऽपि क्रूरं कर्माचरति, तथैवैतावुपलभ्येते यथा सोके ।

तदाविः प्रकाशं कृणोमि करोमि यद्रहसि भवद्भयां कृतम्, किमिव? इत्युच्यतेतन्यतुः पर्जन्यः, न इव ।
नकारस्तूपरिष्टादुपचार उपमार्थीयो वेदे, न प्रतिपेधार्थः॑यथाश्वं न ।
अश्वमिवेति यद्वत् ।
तन्यतुरिव वृर्ष्टि यथा पर्जन्यो वृर्ष्टि प्रकाशयति स्तनयित्न्वादिशब्दैः, तद्वदहं युवयोः क्रूरं कर्म आविष्कृणोमीति सम्बन्धः ।
नन्वश्विनोः स्तुत्यर्थौ कथमिमौ मन्त्रौ स्यातां निन्दावचनौ हीमौ ।

नैप दोषः॑स्तुतिरेवैषा, न निन्दावचनौ ।
यस्मादीदृशमप्यतिक्रूरं कर्म कुर्वतोर्युवयोर्न लोम च मीयत इति ।
न चान्यत्किञ्चिद्वीयत एवेति ।
स्तुतावेतौ भवतः ।
निन्दां प्रशंसां हि लौकिकाः स्मरन्ति ।
तथा प्रशंसारूपा च निन्दा लोके प्रसिद्वा ।

दध्यङ्नाम आथर्वणः ।
हेत्यनर्थको निपातः ।
यन्मधुकक्ष्यमात्मज्ञानलक्षणमाथवणो वां युकाभ्यामश्वस्य शीर्ष्णा शिरसा प्रयतीमुवाच यत्प्रोवाच मधु ।
ईमित्यनर्थको निपातः ॥१६॥



_______________________________________________________________________

२,५.१७



इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् आथर्वणायाश्विनौ दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
स वां मधु प्र वोचदृतायन् त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वामिति ॥ _२,५.१७ ॥

__________



शा.भा._२,५.१७

इदं वै तन्मध्वित्यादि पूर्ववन्मन्त्रान्तरदर्शनार्थम् ।
तथान्यो मन्त्रस्तामेव आख्यायिकामनुसरतिस्म ।
आथर्वणो दध्यङ्नाम, आथर्वणोऽन्यो विद्यत इत्यतो विशिनष्टि दध्यङ्नामाथर्वणः ।

तस्मै दधीच आथर्वणाय हेऽश्विनाविति मन्त्रदृशो वचनम्, अश्व्यम श्वस्य स्वभूतं शिरः, ब्राह्मणस्य शिरसिच्छिन्नेऽश्वस्य शिरश्छित्त्वेदृशमतिक्रूरं कर्म कृत्वा अश्वयं शिरो ब्राह्मणं प्रति एरयतं गमितवन्तौ युवाम् ।
स चाथर्वणो वां युवाभ्यां तन्मधु प्रवोचद्यत्पूर्वं प्रतिज्ञातं वक्ष्यामीति ।

स किमर्थमेवं जीवितसन्देहमारुह्य प्रवोचत्? इत्युच्यते ।
शृतायन् यत पूर्वं प्रतिज्ञातं सत्यं तत्परिपालयितुमिच्छन् ।
जीवितादपि हि सत्यधर्मपरिपालना गुरुतरेत्येस्य लिङ्गमेतत् ।

कि तन्मधु प्रवोचत्? इत्युच्यतेत्वाष्ट्रम्, त्वष्टा आदित्यस्तस्य सम्बन्धि, यज्ञस्य शिरश्छिन्नं त्वष्टाभवत्,

तत्प्रतिसन्धानार्थ प्रवर्ग्य कर्म ।
तत्र प्रवर्ग्यकर्माङ्गभूतं यद्विज्ञानं तत्त्वाष्ट्रं मधुयज्ञस्य शिरश्छेदनप्रतिसन्धानादिविषयं दर्शनं तत्त्वाष्ट्रं यन्मधु हे दस्त्रो, दस्त्राविति परबलानामुपक्षपयितारौ शत्रूणां वा

हिंसितारौ, अपि च न केवलं त्वाष्ट्रमेव मधु कर्मसम्बन्धियुवाभ्यामवोचत्, अपि च कक्ष्यं गोप्यं रहस्यं परमात्मसम्बन्धि यद्विज्ञानं मधु मधुब्राह्मणेनोत्त्कमध्यायद्वयप्रकाशितम्, तच्च वां युवाभ्यां प्रवोचदित्यनुवर्तते ॥१७॥



_______________________________________________________________________

२,५.१८



इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः ।
पुरः स पक्षी भुत्वा पुरः पुरुष आविशदिति ।
स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयः ।
नैनेन किं चनानावृतम् ।
नैनेन किं चनासंवृतम् ॥ _२,५.१८ ॥
__________



शा.भा._२,५.१८

इदं वै तन्मध्विति पूर्ववत् ।
उत्त्कौ द्वौ मन्त्रौ प्रवर्ग्यसम्बन्ध्याख्यायिकोपसंहर्तारौ ।
द्वयोः प्रवर्ग्यकर्मार्थयोरध्याययोरर्थ आख्यायिकाभूताभ्यां मन्त्राभ्यां प्रकाशितः ।
ब्रह्मविद्यार्थयोस्त्वध्याययोरर्थौत्तराभ्यामृग्भ्यां प्रकाशयितव्यः, इत्यतः प्रवर्तते ।
यत्कक्ष्यं च मधुत्त्कवानाथर्वणो युवाभ्यामित्युत्त्कम् ।
किं पुनस्दन्मधु? इत्युच्यते

पुरश्चक्रे पुरः पुराणि शरीराणि यत इयमच्याकृतव्याकरणप्रक्रिया स परमेश्वरो नामरूपे अव्याक्रते व्याकुर्वाणः प्रथमं भूरादीं ल्लोकान् सृष्ट्वा चक्रे कृतवान द्विपदो द्विपादपलक्षितानि मनुष्यशरीराणि पक्षिशरीराणि ।
तवा पुरः शरीराणि चक्रे चतुष्पदश्चतुष्पादुपलक्षितानि पशुशरीराणि ।

पुरः पुरस्तान् स ईश्वरः पक्षी लिङ्गशरीरं भूत्वा पुरः शरीराणिपुरुष आविशदित्यस्यार्थमाचष्टे श्रुतिःस वा अयं पुरुषः सर्वासुयूर्षु सर्वशरीरेषु पुरिशयः, पुरिशेत इति पुरिशयः सन् पुरुष इत्युच्यते ।
नैनेनानेन किञचन किञ्चिदप्यनावृतमनाच्छदितम् ।
तथा नैनेन किञ्चनासंवृतमन्तरननुप्रवेशितं बाह्यभूतेनान्तर्भूतेन च न अनावृतम् ।
एवं स एव नामख्यात्मना अन्तर्वहिर्भावेन कार्यकरणरूपेण व्यवस्थितः ।
पुरश्चक्रे इत्यादिमन्त्रः सङ्क्षेपत आत्मैकत्वमाचष्टैत्यर्थः ॥१८॥



_______________________________________________________________________

२,५.१९



इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच ।
तदेतदृषिः पश्यन्नवोचत् रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेति ।
अयं वै हरयोऽयं वै दश च सहस्रणि बहूनि चानन्तानि च ।
तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम् ।
अयमात्मा ब्रह्म सर्वानुभूः ।
इत्यनुशासनम् ॥ _२,५.१९ ॥

__________



शा.भा._२,५.१९

इदं वै तन्मध्वित्यादि पूर्ववत् ।
रूपं रूपं प्रतिरूपो रूपान्तरं बभूवेत्यर्थः ।
प्रतिरूपोऽनुरूपो वा यादृक्संमथानौ मातापितरौ तत्संस्थानस्तदनुरूप एव पुत्रो जायते ।
न हि चतुष्पदो द्विपाज्जायते द्विपदो वा चतुष्पात् ।
स एव हि परमेश्वरो नामरूपे व्याकुर्वाणो रूपं रूपं प्रतिरूपो बभूव ।

किमर्थ पुनः प्रतिरूपमागमनं तस्य? इत्युच्यतेतदस्यात्मनो रूपं प्रतिचक्षणाय प्रतिख्यापनाय ।
यदि हि नामरूपे न व्याक्रियेते, तदा अस्यात्मनो निरूपाधिकं रूपं प्रज्ञानघनाख्यं न प्रतिख्यायेत ।
यदा पुनः कार्यकरणात्मना नामरूपे व्याकते भवतः, तदास्य रूपं प्रतिख्यायेत ।

इन्द्रः परमेश्वरो मायाभिः प्रज्ञाभिः नामरूपभूतकृतमिथ्याभिमानैर्वा, न तु परमार्थतः॑ पुरुरूपो बहुरूप ईयते गभ्यते, एकरूप एव प्रज्ञानघनः सन्नविद्याप्रज्ञाभिः ।
कस्मात्पुनः कारणात्? युत्त्का रथ इव वाजिनः स्वविपयप्रकाशनाय, हि यस्मान्दस्य हरयो हरणादिन्द्रियाणि, शता शतानि, दश च प्राणिभेदबाहुल्याच्छतान दश च भवन्ति ।
तस्मादिन्द्रियविपयबाहुल्यात्तत्प्रकाशनायेव च युत्त्कान तानि न आत्मप्रकाशनाय ।
"पराञ्चि खानि व्यतृणत्स्वयम्भूः"इति हि काठके ।
तस्मातैरेव विपयस्वरूपैरीयते न प्रज्ञानघनैकरसेन स्वरूपेण ।

एवं तहि अयमन्यः परमेश्वरोऽन्ये हरय इत्येवं प्राप्ते उच्यतेअयं वै हरयोऽयं वै दश च सहस्राणि बहूनि चानन्तानि च प्राणिभेदस्यानन्त्यात् ।
किं बहुना, तदेतद्ब्रह्म य आत्मा ।
अपूर्वं नास्य कारणं पूर्व विद्यत इत्यपूर्वम् ।
नास्यापरं कार्यं विद्यत इत्यनपरम् ।
नास्य जात्यन्तरमन्तराले विद्यत इत्यनल्तरम् ।
तथा बहिरस्य न विद्यत इत्यवाह्यम् ।
किं पुनस्तन्निरन्तरं ब्रह्म? अयमात्मना ।
कोऽसौ? यः प्रत्यगात्मा द्रष्टा श्रोता मन्ता बोद्वा विज्ञाता सर्वानुभूः, सर्वात्मना सर्वमनुभवतीति सर्वमनुभूः ।
इत्येतदनुशासनं सर्ववेदान्तोपदेशः ।
एष सर्ववेदान्तानामुपसंह्रतोर्ऽथः ।
एतदमृतमभयम् ।
परिसमाप्तश्च शास्त्रार्थः ॥१९ ॥


॥ इति पञ्चमं ब्राह्मणम् ॥


_______________________________________________________________________

२,६.१



अथ वंशः
पौतिमाष्यो गौपवनात् ।
गौपवनः पशुतिमाष्यात् ।
पशुतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच्च गौतमाच्च ।
गौतमः ॥ _२,६.१ ॥

__________



शा.भा._२,६.१

अयेदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः ।
मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च ।
तत्र वंश इव वंशः यथा वेणुर्वंशः पर्वणः पर्वणो हि भिद्यते तद्वदग्रत्प्रभृति आमूलप्राप्तेरयं वंशः ।
अध्यायचतुष्टयस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते ।
तत्र प्रथमान्तः शिष्यः पञ्चमयन्तः आचार्यः ।
परमेष्ठी विराट्, ब्राह्मणो हिरण्यगर्भात् ।
ततः परमाचार्यपरम्परानास्ति ।
यत्पुनर्ब्रह्म तन्नित्यं स्वयम्भू, तस्मै ब्रह्मणै स्वयम्भुवे नमः ॥१३ ॥



_______________________________________________________________________

२,६.२३


आग्निवेश्यात् ।
आग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च ।
आनभिम्लात आनभिम्लातात् ।
आनभिम्लात आनभिम्लातात् ।
आनभिम्लातो गौतमात् ।
गौतमः सैतवप्राचीनयोग्याभ्याम् ।
सैतवप्राचीनयोग्यौ पाराशर्यात् ।
पाराशर्यो भारद्वाजात् ।
भारद्वाजो भारद्वाजाच्च गौतमाच्च ।
गौतमो भारद्वाजात् ।
भारद्वाजः पाराशर्यात् ।
पाराशर्यो वैजवापायनात् ।
वैजवापायनः कौशिकायनेः ।
कौशिकायनिः ॥ _२,६.२ ॥


घृतकौशिकात् ।
घृतकौशिकः प्राशर्यायणात् ।
पारशर्यायणः पाराशर्यात् ।
पाराशर्यो जातूकर्ण्यात् ।
जातूकर्ण्य आसुरायणाच्च यास्काच्च ।
आसुरायणस्त्रैवणेः ।
त्रैवणिरौपजन्धनेः ।
औपजन्धनिरासुरेः ।
आसुरिर्भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर्गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात्काप्यात् ।
कैशोर्यः काप्यः कुमारहारितात् ।
कुमारहारितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद्बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरोऽयास्यादाङ्गिरसात् ।
अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात् ।
आभूतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् ।
विश्वरूपस्त्वाष्ट्रोऽव्शिभ्याम् ।
अश्विनौ दधीच आथर्वणात् ।
दध्यङ्ङाथर्वणोऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्रध्वंसनात् ।
प्रध्वंसन एकर्षेः ।
एकर्षिर्विप्रचित्तेः ।
विप्रचित्तिर्व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्ठिनः ।
परमेष्ठी ब्रह्मणः ।
ब्रह्म स्वयंभु ।
ब्रह्मणे नमः ॥ _२,६.३ ॥

__________



शा.भा._२,६.३

अयेदानीं ब्रह्मविद्यार्थस्य मधुकाण्डस्य वंशः स्तुत्यर्थो ब्रह्मविद्यायाः ।
मन्त्रश्चायं स्वाध्यायार्थो जपार्थश्च ।
तत्र वंश इव वंशः यथा वेणुर्वंशः पर्वणः पर्वणो हि भिद्यते तद्वदग्रत्प्रभृति आमूलप्राप्तेरयं वंशः ।
अध्यायचतुष्टयस्य आचार्यपरम्पराक्रमो वंश इत्युच्यते ।
तत्र प्रथमान्तः शिष्यः पञ्चमयन्तः आचार्यः ।
परमेष्ठी विराट्, ब्राह्मणो हिरण्यगर्भात् ।
ततः परमाचार्यपरम्परानास्ति ।
यत्पुनर्ब्रह्म तन्नित्यं स्वयम्भू, तस्मै ब्रह्मणै स्वयम्भुवे नमः ॥१३॥


इति षष्ठं ब्राह्मणम् ॥

अध्याय ३[सम्पाद्यताम्]


जनको ह वैदेह इत्यादि याज्ञवल्कोयं काण्डमारभ्यते ।
उपपत्तिप्रधानत्वादतिक्रान्तेन मधुकाण्डेन समानार्थत्वेऽपि सति न पुनरुक्तता ।
मधुकाण्डं ह्यागेमप्रधानम् ।
आगमोपपत्ती ह्यात्मैकत्वप्रकाशनाय प्रवृत्ते शक्नुतः करतलगतबिल्वमिव दर्शयितुम् ।
श्रोतव्यो मन्तव्य इति ह्युक्तम् ।
तस्मादागमार्थस्यैव परीक्षापूर्वकं निर्धारणाय याज्ञवल्कीयं काण्डमुपपत्तिप्रधानमारभ्यते ।
आख्यायिका तु विज्ञानस्तुत्यर्थोपायविधिपरा वा ।
प्रसिद्धो ह्युपायो विद्वद्भिः शास्त्रेषु च दृष्टो दानम् ।
दानेन हृयुपनमन्ते प्राणिनः ।
प्रभूतं हिरण्यं गोसहस्रदानं चेहोपलभ्यते ।
तस्मादन्यपरेणापि शास्त्रेण विद्याप्राप्त्युपायदानप्रदर्शनार्थाऽख्यायिकाऽरब्धा ।
अपि च तद्विद्यसंयोगस्तैश्व सह वादकरणं विद्याप्राप्त्युपायो न्यायविद्यायां दृष्टः ।
तच्चास्मिन्नद्याये प्राबल्येन प्रदर्श्यते ।
प्रत्यक्षा च विद्वत्संयोगे प्रज्ञावृद्धिः ।
तस्माद्विद्याप्राप्त्युपायप्रदर्शनार्थैवाख्यायिका ।

_______________________________________________________________________

३,१.१

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे ।
तत्र ह कुरुपञ्चालानां ब्राह्मणा अभिसमेता बभूवुः ।
तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कः स्विदेषां ब्राह्मणानामनूचानतम इति ।
स ह गवां सहस्रमवरुरोध ।
दशदश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ॥ _३,१.१ ॥

__________


शा.भा._३,१.१ जनको नाम ह किल सम्राड्राजा बभूव विदेहानां तत्र भवो वैदेहः ।
स च बहुदक्षिणेन यज्ञेन शाखान्तरप्रसिद्धो वा बहुदक्षिणो नाम यज्ञोऽश्वमेधो वा दक्षिणाबाहुल्याद्बहुदक्षिण इहोच्यते तेनेजेऽयजत् ।
तत्र तस्मिन्यज्ञे निमन्त्रिता दर्शनकामा वा कुरूणां देशानां पञ्चालानां च ब्राह्मणास्तेषु हि विदुषां बाहुल्यं प्रसिद्धमभिसमेता अभिसंगता बभूवुः ।
तत्र महान्तं विद्वत्समुदायं दृष्ट्वा तस्य ह किल जनकस्य वैदेहस्य यजमानस्य को नु खल्वत्र ब्रह्मिष्ठ इति विशेषेण ज्ञातुमिच्छा विजिज्ञासा बभूव ।
कथं, कःस्वित्को नु खल्वेषां ब्राह्मणानामनूचानतमः सर्व इमेऽनूचानाः कःस्विदेषामतिशयेनानूचान इति ।
स हानूचानतमविषयोत्पन्निजिज्ञासः संस्तद्विज्ञानोपायार्थं गवां सहस्रं प्रथमवयसामवरुरोध गोष्ठेऽवरोधं कारयामास ।
किंविशिष्टास्ता गावोऽवरुद्धा इत्युच्यते ।
पलचतुर्थभागः पादः सुवर्णस्य ।
दश दश पादा एकैकस्या गोः शृङ्गयोराबद्धा बभूवुः ।
पञ्च पञ्च पादा एकैकस्मिञ्शृङ्गे ॥१॥


_______________________________________________________________________

३,१.२

तान् होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति ।
ते ह ब्राह्मणा न दधृषुः ।
अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाच एताः सौम्योदज सामश्रवा३ इति ।
ता होदाचकार ।
ते ह ब्राह्मणाश्चुक्रुधुः कथं नु नो ब्रह्मिष्ठो ब्रुवीतेति ।
अथ ह जनकस्य वैदेहस्य होताश्वलो बभूव ।
स हैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति ।
स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति ।
तं ह तत एव प्रष्टुं दध्रे होताश्वलः ॥ _३,१.२ ॥

__________


शा.भा._३,१.२ गा एवमवरुध्य ब्राह्मणांस्तान्होवाच ।
हे ब्राह्मणा भगवन्त इत्यामन्त्रथ यो वो युष्माकं ब्रह्मिष्ठः सर्वे यूयं ब्रह्माणोऽतिशयेन युष्माकं ब्रह्मा यः स एता गा उदजतामुत्कालयतु स्वगृहं प्रति ।
ते ह ब्राह्मणा न दधृषुः ह किलैवमुक्ता ब्राह्मणा ब्रह्मिष्ठतामात्मनः प्रतिज्ञातुं न दधृपुर्न प्रगल्भाः संवृत्ताः ।
अप्रगल्भभूतेषु ब्राह्मणेष्वथ ह याज्ञवल्क्यः स्वमात्मीयमेव ब्रह्मचारिणमन्तेवासिनमुवाच एता गा हे सोम्योदजोद्गमयास्मद्गृहान् प्रति, हे सामश्रवः सामविधिं हि शृणोत्यतोर्ऽयाच्चतुर्वेदो याज्ञवल्क्यः ।
ता गा होदाचकारोत्कालितवानाचार्यगृहं प्रति ।
याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञाता, इति ते ह चुक्रुधुः क्रुद्धवन्तो ब्राह्मणाः ।
तेषां क्रोधाभिप्रायमाचष्टे कथं नोऽस्माकं एकैकप्रधानानां ब्रह्मिष्ठोऽस्मीति ब्रुवीतेति ।
अथ हैवं क्रुद्धेषु ब्राह्मणेषु जनकस्य यजमानस्य होता ऋत्विगश्वलो नाम बभूव आसीत् ।
स एनं याज्ञवल्क्यम्, ब्रह्मिष्ठाभिमानी राजाश्रयत्वाच्चधृष्टः, याज्ञवल्क्यं पप्रच्छ पृष्टवान् ।
कथम्? त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी ३ इति ।
प्लुतिर्भर्त्सनार्था ।
स होवाच याज्ञवल्क्यः नमस्कर्मो वयं ब्रह्मिष्ठाय, इदानीं गोकामाः स्मो वयमिति ।
तं ब्रह्मिष्ठप्रतिज्ञं सन्तं तत एव ब्रह्मिष्ठपणस्वीकरणात्प्रष्टुं दध्रे धृतवान्मनो होता अश्वलः ॥२॥



_______________________________________________________________________

३,१.३

याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति ।
होत्रर्त्विजाग्निना वाचा ।
वाग्वै यज्ञस्य होता ।
तद्येयं वाक्सोऽयमग्निः स होता सा मुक्तिः सातिमुक्तिः ॥ _३,१.३ ॥

__________


शा.भा._३,१.३ याज्ञवल्क्येति होवाच ।
तत्र मधुकाण्डे पाडक्तेन कर्मणा दर्शनसप्तुच्चितेन यजमानस्य मृत्योरत्ययो व्याख्यात उद्गीथप्रकरणे सङ्क्षेपतः ।
तस्यैव परीक्षाविषयोऽयमितितद्गतदर्शनविशेषार्थोऽयं विस्तर आरभ्यते ।
यदिदं साधनजातमस्य कर्मण ऋत्विगग्न्यादि मृत्युना कर्मलक्षणेन स्वाभाविकासङ्गसहितेन आप्तं ज्याप्तम्, न केवलं व्याप्तमभिषन्नं च मृत्युना बशीकृतं च ।
केन दर्शनलक्षणेन साधनेन यजमानो मृत्योराप्तिमति मृत्युगचरत्वमतिक्रम्य मुच्यते स्वतन्त्रो मृत्योरवशो भवतीत्यर्थः ।
ननूद्गीथ एवाभिहितं येनातिमुच्यतेमुख्यप्राणात्मदर्शनेनेति ।
बाढमुक्तम्, योऽनुक्तो विशेषस्तत्र, तदर्थोऽयमारम्भ इत्यदोषः ।
होत्रर्त्विजाग्निना वाचेत्याह याज्ञवल्क्यः ।
एतस्यार्थंव्याचष्टे ।
कः पुनर्हेता येन मृत्युमतिकामति? इत्युच्यतेवाग्वै यज्ञस्य यजमानस्य"यज्ञो वै यजमानः"इति श्रुतेः ।
यज्ञस्य यजमानस्य यावाक्सैव होताधियज्ञे ।
कथम्? ततत्रयेयंवन्ग यज्ञस्ययजमानस्य सोऽयं प्रसिद्धोऽग्निरधिदैवतम् ।
तदेतत्व्यन्नप्रकरणेव्याख्यातम् ।
स चाग्निर्हेता"अग्निर्वै होता"इति श्रुतेः ।
यदेतद्यज्ञस्य साधनद्वयम्होता चत्विङ्गधियज्ञम्, अध्यात्मं च वाकेतदुभयं साधनद्वयं परिच्छिन्नं मृत्युना आप्तं स्वाभाविकाज्ञानासङ्गप्रयुक्तेन कर्मणा मृत्युना प्रतिक्षणमन्यथात्वमापद्यमानं वशीकृतम् ।
तदनेनाधिदैवतरूपेणाग्निनाऽदृश्यमानंऽयजमानस्य यज्ञस्य सृत्योरतिमुक्तये भवति ।
तदेतदाहस मुक्तिः स होता अग्निर्मुक्तिः, अग्निस्वरूपदर्शनमेव मुक्तिः ।
यदैव साधनद्वयमग्निरूपेण गश्यति, तदानीमेव हि स्वाभाविकादासङ्गान्मृत्योर्विमुच्यते आध्यात्मिकात्परिच्छिन्नरूपादाधिभौतिकाच्च ।
तस्मात्स होता अग्निरूपेण दृष्टो मुक्तिर्मुक्तिसाधनं यजमानस्य ।
सा अतिमुक्तिःयैव च मुक्तिः सातिमुक्तिः, अतिमुक्तिसाधनमित्यर्थः ।
साधनद्वयस्य परिच्छिन्नस्य या अधिदेवतारूपेणापरिच्छिन्नेनाग्निरूपेण दृष्टिः, सा मुक्तिः ।
यासौ मुक्तिरधिदेवतादृष्टिः सैव, अध्यात्माधिभूतपरिच्छेदविषयासङ्गास्पदं मृत्युमतिक्रम्य अधिदेवतात्वस्याग्निभावस्य प्राप्तिर्या फलभूता, सा अतिमुक्तिरित्युच्यते ।
तस्या अतिमुक्तेर्मुक्तिरेव साधनमिति कृत्वा सा अतिमुक्तिरित्याह ।
यजमानस्य ह्यतिमुक्तिर्वागादीनामग्न्यादिभाव इत्युद्गीथप्रकरणे व्याख्यातम् ।
तत्र सामान्येन मुख्यप्राणदर्शनमात्रं मुक्तिसाधनमुक्तम्, न तद्विशेषः ।
वागादीनामग्न्यादिदर्शनमिह विशेषो वर्ण्यते ।
मृत्युप्राप्त्यतिमुक्तिस्तु सैव फलभूता, योद्गीथब्राह्मणेन व्याख्याताऽमृत्युप्रतिक्रान्तो दीप्यतेऽ(१ । ३ । १२) इत्याद्या ॥३॥



_______________________________________________________________________

३,१.४

याज्ञवल्क्येति होवाच यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इति ।
अध्वर्युणर्त्विजा चक्षुषादित्येन ।
चक्षुर्वै यज्ञस्याध्वर्युः ।
तद्यदिदं चक्षुः सोऽसावादित्यः ।
सोऽध्वर्युः सा मुक्तिः सातिमुक्तिः ॥ _३,१.४ ॥

__________


शा.भा._३,१.४ याज्ञवल्क्येति होवाच ।
स्वाभाविकादज्ञानासङ्गप्रयुक्तात्कर्मलक्षणान्मृत्योरतिमुक्तिर्व्याख्याता ।
तस्य कर्मणः सासङ्गस्य मृत्योराश्रयभूतानां दर्शपूर्णमासादिकर्मसाधनानां यो विपरिणामहेतुः कालः, तस्मात्कालात्पृथगतिनुष्ठानव्यतिरेकेणापि प्रागूर्ध्वं च क्रियायाः साधनविपरिणामहेतुत्वेन व्यापारदर्शनात्कालस्य ।
तस्मात्पृथक्कालादतिमुक्तिर्वक्तव्येत्यत आह यदिदं सर्वमहोरात्राभ्यामाप्तम्, स च कालो द्विरूपः अहोरात्रादिलक्षणाः, तिथ्यादिलक्षणश्च ।
तत्राहोरात्रादिलक्षणात्तावदतिमुक्तिमाह अहोरात्राभ्यां हि सर्वं जायते वर्धते विनश्यति च, तथा यज्ञसाधनं च ।
यज्ञस्य यजमानस्य चक्षुरध्वर्युश्च ।
शिष्टान्यक्षराणि पूर्ववन्नेयानि ।
यजमानस्य चक्षुरध्वर्युश्च साधनद्वयमध्यात्माधिभूतपरिच्छेदं हित्वा अधिदैवतात्मना दृष्टं यत्स मुक्तिः सोऽध्वर्युरादित्यभावेन दृष्टो मुक्तिः ।
सैव मुक्तिरेवातिमुक्तिरिति ।
पूर्ववतादित्यात्मभावमापन्नस्य हि नाहोरात्रे सम्भवतः ॥४॥

इदानीं तिथ्यादिलक्षणादतिमुक्तिरुच्यते



_______________________________________________________________________

३,१.५

याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति ।
उद्गात्रर्त्विजा वयुना प्राणेन ।
प्राणो वै यज्ञस्योद्गाता ।
तद्योऽयं प्राणः स वायुः स उद्गाता ।
स मुक्तिः सातिमुक्तिः ॥ _३,१.५ ॥

__________


शा.भा._३,१.५ इदानीं तिथ्यादिलक्षणादतिमुक्तिरूच्यतेयदिदं सर्वम् अहोरात्रयोरविशिष्टयोरादित्यः कर्ता, न प्रति पदादीनां तिथीनाम्॑तासां तु वृद्धिक्षयोपगमनेनप्रतिपत्प्रभृतीनां चन्द्रमाः कर्ता ।
अतस्तदापाच्या पूर्वपक्षापरपक्षात्ययः, आदित्यापच्या अहोरात्रात्ययवत् ।
तत्र यजमानस्य प्राणो वायुः, स एवौद्गाता इत्युद्गीथब्राह्मणेऽवगतम्ऽवाचा च ह्येव स प्राणेन चोदगायत्ऽइति च निर्धारितम् ।
ऽअथैतस्य प्राणस्यापः शरीरं ज्योतीरूपमसौ चन्द्रःऽइति च ।
प्राणावायुचन्द्रमसामेकत्वाच्चन्द्रमसा वायुना चोपसंहारे न कश्चिद्विशेषः ।
एवं मन्यमाना श्रुतिर्वायुना अधिदैवतरूपेणोपसंहरति ।
अपि च वायुनिमित्तौ हि वृद्धिक्षयौ चन्द्रमसः ।
तेन तिथ्यादिलक्षणस्य कालस्य कर्तुरपि कारयिता वायुः ।
अतो वायुरूपापन्नस्तिथ्यादिकालादतीतो भवतीत्युपपन्नतरं भवति ।
तेन श्रुत्यन्तरे चन्द्ररूपेण दृष्टिर्मुक्तिरतिमुक्तिश्च ।
इह तु काण्वानां साधनद्वयस्य तत्कारणरूपेण वाय्वात्मना दृष्टिर्मुक्तिरतिमुक्तिश्चेति न श्रुत्योर्विरोधः ॥५॥



_______________________________________________________________________

३,१.६

याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ।
ब्रह्मणर्त्विजा मनसा चन्द्रेण ।
मनो वै यज्ञस्य ब्रह्मा ।
तद्यदिदं मनः सोऽसौ चन्द्रः स ब्रह्मा स मुक्तिः सातिमुक्तिरित्यतिमोक्षा ।
अथ संपदः ॥ _३,१.६ ॥

__________


शा.भा._३,१.६ मृत्योः कालादतिमुक्तिर्व्याख्याता यजमानस्य ।
सोऽतिमुच्यमानः केनावष्टम्भेन परिच्छेदविषयं मृत्युमतोत्य फलं प्राप्नोत्यतिमुच्यत इत्युच्यते ।
यदिदं प्रसिद्धमन्तरिक्षमाकाशोऽनारम्बणमनालम्बनमिवशब्दादस्त्येव तत्राऽलम्बनं तत्तु न ज्ञायत इत्यभिप्रायः ।
यत्तु तदज्ञायमानमालम्बनं तत्सर्वनाम्ना केनेति पृच्छ्यते ।
अन्यथा फलप्राप्तेरसंभवात् ।
येनावष्टम्भेनाऽक्रमेण यजमानः कर्मफलं प्रतिपद्यमानोऽतिमुच्यते किं तदिति प्रश्नविषय ।
केनाऽक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति स्वर्गं लोकं फलं प्राप्नोत्यतिमुच्यत इत्यर्थः ।
ब्रह्मणर्त्विजा मनसा चन्द्रेणेत्यक्षरन्यासः पूर्ववत् ।
तत्राध्यात्मं यज्ञस्य यजमानस्य यदिदं प्रसिद्धं मनः सोऽसौ चन्द्रोऽधिदैवतम् ।
मनोऽध्यात्मं चन्द्रमा अधिदैवतमिति हि प्रसिद्धम् ।
स एव चन्द्रमा ब्रह्मर्त्विक्तेनाधिभूतं ब्राह्मणः परिच्छिन्नं रूपमध्यात्मं च मनस एतद्द्वयमपरिच्छिन्नेन चन्द्रमसो रूपेण पश्यति ।
तेन चन्द्रमसा मनसावलम्बनेन कर्मफलं स्वर्गं लोकं प्राप्नोत्यतिमुच्यत इत्यभिप्रायः ।
इतीत्युपसंहाराथं वचनम् ।
इत्येवंप्रकारा मृत्योरतिमोक्षाः ।
सर्वांणि हि दर्शनप्रकाराणि यज्ञाङ्गविषयाण्यस्मिन्नवसर उक्तानीति कृत्वोपसंहार इत्यतिमोक्षाः ।
एवंप्रकारा अतिमोक्षा इत्यर्थः ।
अथ संपदः ।
अथाधुना संपद उच्यन्ते ।
संपन्नाम केनचित्सामान्येनाग्निहोत्रादीनां कर्मणां महतां फलवतां तत्फलाय संपादनं संपत् ।
फलस्यैव वा सर्वोत्साहेन फलसाधनानुष्ठाने प्रयततां केनचिद्वैगुण्येनासंभवः ।
तदिदानीमाहिताग्निः सन्यत्किञ्चित्कर्माग्निहोत्रादीनां यथासंभवमादायाऽलम्बनीकृत्य कर्मफलविद्वत्तायां सत्यां यत्कर्मफलकामो भवति तदेव संपादयति ।
अन्यथा राजसूयाश्वमेधपुरुषमेधसर्वमेधलक्षणानामधिकृतानां त्रैवर्णिकानामप्यसंभवस्तेषां तत्पाठः स्वाध्यायार्थ एव केवलः स्यात् ।
यदि तत्फलप्राप्त्युपायः कश्चन न स्यात् ।
तस्मात्तेषां सेपदैव तत्फलप्राप्तिस्तस्मात्संपदामपि फलवत्त्वमतः संपद आरभ्यन्ते ॥६॥



_______________________________________________________________________

३,१.७

याज्ञवल्क्येति होवाच कतिभिरयमद्यर्ग्भिर्होतास्मिन् यज्ञे करिष्यतीति ।
तिसृभिरिति ।
कतमास्तास्तिस्र इति ।
पुरोनुवाक्या च याज्या च शस्यैव तृतीया ।
किं ताभिर्जयतीति ।
यत्किञ्चेदं प्राणभृदिति ॥ _३,१.७ ॥

__________


शा.भा._३,१.७ याज्ञवल्क्येति होवाच अभिमुखीकरणाय ।
कतिभिरयमद्यर्ग्भिर्हेतास्मिन् यज्ञे कतिभिः कतिसङ्ख्याभिरृग्भिरृग्जातिभिः अयंहोतर्त्विगस्मिन् यज्ञे करिष्यति शस्त्रं शंसति ।
आहेतरःतिसृभिरृग्जातिभिः ।
इत्युक्कवन्तं प्रत्या हेतरःकतमास्तास्तिस्त्र इति ।
सङ्ख्येयविषयोऽयं प्रश्नः, पूर्वस्तु सङ्ख्याविषयः ।
पुरोनुवाक्याचप्राग्यागफालाद्याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः पुरोनुवाक्येत्युच्यते ।
यागार्थं याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिर्याज्या ।
शस्त्रार्थं याः प्रयुज्यन्ते ऋचः, सा ऋग्जातिः शस्या ।
सर्वास्तु याः काश्चन ऋचः॑ताः स्तोत्रिया वा अन्या वा सर्वा एतास्वेव तिसृषु ऋग्जातिष्वन्तर्भवन्ति ।
किं ताभिर्जयतीति यत्किञ्चेदं प्राणभृदितिअतश्चसङ्ख्यासामान्याद्यत्किञ्चित्प्राणभृज्जातम, तत्सर्वं जयति तत्सर्वं फलजातं सम्पादयति सङ्ख्यादिसामान्येन ॥७॥



_______________________________________________________________________

३,१.८

याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति ।
तिस्र इति ।
कतमास्तास्तिस्र इति ।
या हुता उज्ज्वलन्ति या हुता अतिनेदन्ति या हुता अधिशेरते ।
किं ताभिर्जयतीति ।
या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति ।
दीप्यत इव हि देवलोको ।
या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयति ।
अतीव हि पितृलोकः ।
या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यि ।
अध इव हि मनुष्यलोकः ॥ _३,१.८ ॥

__________


शा.भा._३,१.८ याज्ञवल्क्येति होवावेति पूर्ववत् ।
कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्हेष्यतीति, कत्याहुतिप्रकाराः? तस्त्र इति, कतमास्तास्तिस्त्र इति पूर्ववत् ।
इतर आहया हूता उज्ज्वलन्ति समिदाज्याहुतयः या हुता अतिनेदन्तेऽतीव शब्दं कुवन्ति मासाद्याहुतयः, या हुता अधिशेरतेऽध्याधो गत्वा भूमेरधिशेरते पयःसोमाहुतयः ।
किं ताभिर्जयतीति, ताभिरेवं निर्वर्तिताभिराहुतिभिः किं जयतीति ।
या आहुतयो हुता उज्ज्वलन्त्युज्ज्वलनयुक्ता आहुतयो निर्वर्तिताः, फलं च देवलोकाख्यमुज्ज्वलमेव, तेन सामान्येन या मयता उज्ज्वलन्त्य आहुतयो निर्वर्त्यमानास्ता एताः साक्षाद्देवलोकस्य कर्मफलस्यरूपं देवलोकाख्यं फलमेव मया निर्वर्त्यत इत्येवं सम्पादयति ।
या हुता अतिनेदन्ते आहुतयः पितृलोकमेव ताभिर्जयति कुत्सितशब्दकर्तृत्वसामान्येन ।
पितृलोकमेव ताभिर्जयति कुत्सितशब्दकर्तृत्वसामान्येन ।
पितृलोकसम्बद्धायां हि संयमन्यां पुर्यां वैवस्वतेन यात्यमानानांऽहा हताः स्म मुञ्च मुञ्चऽइति शब्दोभवति ।
तथावदानाहुतयः तेन पितृलोकसामान्यात्पितृलोक एव मया निर्वर्त्यत इति सम्पादयति ।
या हुता अधिशेरते मनुष्यलोकमेव तामिजयति भूम्युपरि सम्बन्धसामान्यात् ।
अध इव ह्यघ एव हि मनुष्यलोकः उपरितनान् साध्यांल्लोकानपेक्ष्य, अथवाधोगमनमपेक्ष्य ।
अतो मनुष्यलोक एव मया निर्वर्त्यत इति सम्पादयति ।
या हुता अधिशेरते मनुष्यलोकमेव ताभिजयति भूम्युपरि सम्बन्धसामान्यात् ।
अध इव ह्यध एव हि मनुष्यलोकः उपरितनान् साध्यांल्लोकानपेक्ष्य, अथवाधोगमनमपेक्ष्य ।
अतो मनुष्यलोक एव मया निर्वर्त्यत इति सम्पादयति पयःसोमाहुतिनिर्वर्तनकाले ॥८॥



_______________________________________________________________________

३,१.९

याज्ञवल्क्येति होवाच कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीति ।
एकयेति ।
कतमा सैकेति ।
मन एवेति ।
अनन्तं वै मनोऽनन्ता विश्वे देवाः ।
अनन्तमेव स तेन लोकं जयति ॥ _३,१.९ ॥

__________


शा.भा._३,१.९ याज्ञवल्क्येति होवाचेति पूर्ववत् ।
अयमृत्विग्ब्रह्मा दक्षिणतो ब्रह्मासने स्थित्वा यज्ञं गोपायति ।
कतिभिर्देवताभिर्गोपायतीति प्रासङ्गिकमेतद्वहुवचनम् ।
एकया हि देवतया गोपायत्यसौ ।
एवं ज्ञाते बहुवचनेन प्रश्नो नोपपद्यते स्वयं जानतस्तस्मात्पूर्वयोः कण्डिकयोः प्रश्नप्रतिवचनेषु कतिभिः कति तिसृभिस्तिस्त्र इति प्रसङ्गं दृष्ट्वेहापि बहुवचनेनैव प्रश्नोपक्रमः क्रियते ।
अथवा प्रतिवादिव्यामोहार्थ बहुवचनम् ।
इतर आहैकयेत्येका सा देवता यया दक्षिणतः स्थित्वा ब्रह्माऽसने यज्ञं गोपायति ।
कतमा सैकेति ।
मन एवेति मनः सा देवता ।
मनसा हि ब्रह्मा व्याप्रियते ध्यानेनैव ।
"तस्य यज्ञस्य मनश्च वाक्च वर्तनी तयोरन्यतरां मनसा संस्करोति ब्रह्मा"(छ.उ.४ । १६ । १) इति श्रुत्यन्तरात् ।
तेन मन एव देवता तया मनसा हि गोपायति ब्रह्मा यज्ञम् ।
तच्च मनो वृत्तिभेदेनानन्तम् ।
वैशब्दः प्रसिद्धावद्योतनार्थः ।
प्रसिद्धं मनस आनन्त्य्म ।
तदानन्त्याभिमानिनो देवाः,"सर्वे देवा यत्रैकं भवन्ति"इत्यादिश्रुत्यन्तरात् ।
तेनानन्त्यसामान्यादनन्तमेव स तेन लोकं जयति ॥९॥



_______________________________________________________________________

३,१.१०

याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति ।
तिस्र इति ।
कतमास्तास्तिस्र इति ।
पुरोनुवाक्या च याज्या च शस्यैव तृतीया ।
कतमास्ताः ।
या अध्यात्ममिति ।
प्राण एव पुरोनुवाक्यापानो याज्या व्यानः शस्या ।
किं ताभिर्जयतीति ।
पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ।
ततो ह होताश्वल उपरराम ॥ _३,१.१० ॥

__________


शा.भा._३,१.१० याज्ञवल्क्येति होवाचेति पूर्ववत् ।
कति स्तोत्रियाः स्तोप्यतीत्ययमुद्गाता ।
स्तोत्रिया नाम ऋक्सामसमुदायः कतिपयानामृचाम् ।
स्तोत्रियावाशम्यावायाः काश्चन ऋचः, ता सर्वास्तिस्त्र एवेत्याह ।
ताश्च व्याख्याताः मुरोनुवाक्या च याज्या च शस्यैव तृतीयेति ।
तत्र पूर्वमुक्तम् यत्किञ्चेदं प्राणभृत सर्वे जयतीति तत्केन सामान्येन? इत्युच्यते कतमास्तास्तिस्त्र ऋचो या अध्यात्मं भवन्तीति ।
प्राण एव पुरोनुवाक्या, पशब्दसामान्यात् ।
अवानो याज्या, आनन्तर्यात् ।
अपानेन हि प्रत्तं हविर्देवता ग्रसन्ति, यागश्च प्रदानम् ।
व्यानःशस्या "अप्राणन्ननपानन्नृचमभिव्याहरति"(छ. उ. १ । ३ । ४) । इति श्रत्यन्तरात् ।
किं ताभिर्जयतीति व्याख्यातम् ।
तत्र विशेषसम्बन्धसामान्यमनुक्तमिहोच्यते, सर्वमन्यद्व्याख्यातम् ।
लोकसम्बन्धसामान्येन पृथिवीलोकमेवपुरोनुवाक्यया जयति, अन्तरिक्षलोकं याज्यया, मध्यमत्वसामान्यात् ।
द्युलोकंशस्ययोर्ध्वत्वसामान्यात् ।
ततो ह तस्मादात्मनः प्रश्ननिर्णयादसौ होता अश्वल उपरराम नायमस्मद्गेचर इति ॥१०॥

इति तृतीयाध्याये प्रथममश्वलब्राह्मणम् ॥१॥


आख्यायिकासम्बन्धः प्रसिद्ध एव ।
मृत्योरतिमुक्तिर्व्याख्याता काललक्षणात्कर्मलक्षणाच्च ।
कः पुनरसौ मृत्युर्यस्मादतिमुक्तिर्व्याख्याता? स च स्वाभाविकाज्ञानासङ्गास्पदोऽध्यात्माधिभूताविषयपरिच्छिन्नो ग्रहातिग्रहलक्षणो मृत्युः ।
तस्मात्परिच्छिन्नरूपान्मृत्योरतिमुक्तस्य रूपाण्यगन्यादित्यादीन्युद्गीथप्रकरणे व्याख्यातानि ।
अश्वलप्रश्नेचतद्गतो विशेषः कश्चित् ।
तच्चैतत्कर्मणां ज्ञानसहितानां फलम् ।
एतस्मात्साध्यसाधनरूपात्संसारान्मोक्षः कर्तव्य इत्यतोबन्धनरूपस्यमृत्योः स्वरूपमुच्यते ।
बद्धस्य हि मोक्षः कर्तव्यः ।
यदप्यतिमुक्तस्य स्वरूपमुक्तं तत्रापि ग्रहातिग्रहाभ्यामविनिर्मुक्त एव मृत्युरूपाभ्याम् ।
तथा चोक्तं"अशनायाहिमृत्युः"(बृ.उ.१ । २ । १) "एष एव मृत्युः"इति ।
आदित्यस्थं पुरुषमङ्गीकृत्याह"एको मृत्युर्वहवा"इति च ।
तदात्मभावापन्नो हि मृत्योराप्तिमतिमुच्यत इत्युच्यते ।
न च तत्र ग्रहातिग्रहौ मृत्युरूपौ नस्तः ।
"अथैतस्य मनसो द्यौः शरीरं ज्योतीरूपमसावादित्यः"(बृ. उ. १ । ५ । १२)ऽमनश्वऽग्रहः स कामेनातिग्राहेण गृहीतः"(३ । २ । ७) इति, वक्ष्यति"प्राणो वै ग्रहः सोऽपानेनातिग्राहेण"(३ । २ । २) इति,"वाग्वै ग्रहः स नाम्नातिग्राहेण"(३ । २ । ३) इति च ।
तथा व्यन्नविभागे व्याख्यातमस्माभिः ।
सुविचारितं चैतद्यदेव प्रवृत्तिकारणं तदेव निवृत्तिकारणं न भवतीति ।
केचित्तु सर्वमेव निवृत्तिकारणं मन्यन्ते ।
अतः काग्णात्पूर्वस्मात्पूर्वस्मान्मृत्योर्मुच्यते उत्तरमुत्तरं प्रतिपद्यमानो व्यावृत्त्यर्थमेव प्रति पद्यते न तु तादर्थ्यम्, इत्यत आ द्वैतक्षयात सर्वं मृत्युः, द्वैनक्षये तु परमार्थता मृत्योराप्तिमतिमुच्यते ।
अतश्च आपेक्षिकी गौणी मुक्तिरन्तराले ।
सर्वमेतदेवतबार्हदारण्यकम् ।
ननु सर्वैकत्वं मोक्षः"तस्मात्तत्सर्वमभवत्"(बृ. उ. १ । ४ । १०) इति श्रुतेः ।
बाढं भवत्येतदपि, नतु"ग्रामकामो यजेत, पशुकामो यजेत"इत्यादिश्रुतीनां तादर्थ्यम् ।
यदि ह्यद्वैतार्थत्वमेव आसां ग्रामपशुस्वर्गाद्यर्थत्वं नास्तीति ग्रामपशुस्वर्गादयो न गृह्येरन्, गृह्यन्ते तु कर्मफलवैचित्र्यविशेषाः ।
यदि च वैदिकानां कर्मणां तादर्थ्यमेव, संसार एव नाभविष्यत् ।
अथ तादर्थ्येऽपि अनुनिष्पादितपदार्थस्वभावः संसार इति चेत् ।
यथा च रूपदर्शनार्थ आलोके सर्वोऽपि तत्रस्थः प्रकाश्यत एव ।
न॑प्रमाणानुपपत्तेः ।
अद्वैतार्थत्वे वैदिकानां कर्मणां विद्यासहितानामन्यस्पानुनिष्पादितत्वे प्रमाणानुपपत्तिः ।
न प्रत्यक्षं नानुमानमत एव च नागमः ।
उभयमेकेन वाक्येन प्रदर्श्यत इति चेत्कुल्याप्रणयनालोकादिवत् ।
तन्नेवम्॑वाक्यधर्मानुपपत्तेः ।
न च एकवाक्यगतस्यार्थस्य प्रवृत्तिनिवृत्तिसाधनत्वमवगन्तुं शक्यते ।
कुल्याप्रणयनालोकादावर्थस्य प्रत्यक्षत्वाददोषः ।
यदप्युच्यते मन्त्रा अस्मिन्नर्थेः दृष्टा इति ।
अयमेव तु तावदर्थः प्रमाणागम्यः ।
मन्त्राः पुनः किमस्मिन्नर्थ आहोस्विदन्यस्मिन्नर्थ इति मृग्यमेतत् ।
तस्माद्ग्रहातिप्रहलक्षणो मृत्युर्बन्धः, तस्मान्भोक्षो वक्तव्य इत्यत इदमारभ्यते न च जानीमो विषयसन्धाविवान्तरालेऽवस्थानमर्धजरतीयं कौशलम् ।
यत्तु मृत्योरतिमुच्यत इत्युकत्वा ग्रहातिग्रहावुच्येते, तच्वर्थसम्बन्धात् ।
सर्वोऽयं साध्यसाधनलक्षणो बन्धः, ग्रहातिग्रहाविनिर्मोकात् ।
निगडे हि निर्ज्ञाते निगडितस्य मोक्षाय यत्नः कर्तव्यो भवति॑तस्मातादर्थ्येनारम्भः ।



_______________________________________________________________________

३,२.१

अथ हैनं जारत्कारव आर्तभागः पप्रच्छ ।
याज्ञवल्क्येति होवाच कति ग्रहाः कत्यतिग्रहा इति ।
अष्टौ ग्रहा अष्टावतिग्रहा इति ।
ये तेऽष्टौ ग्रहा अष्टावतिग्रहाः कतमे त इति ॥ _३,२.१ ॥

__________


शा.भा._३,२.१ अथ हैनं हशब्द ऐतिह्यार्थः ।
अथानन्तरमश्वल उपरते प्रकृतं याज्ञवल्क्यं जरत्कारुगोत्रो जारत्कारव ऋतभागस्यापत्यमार्तभागः पप्रच्छ याज्ञवल्क्येति होवाचेत्यभिमुखोकरणाय ।
पूर्ववत्प्रश्नः कति ग्रहाः कत्यतिग्रहा इति ।
इतिशब्दो वाक्यपरिसमाप्त्यर्थः ।
तत्र निर्ज्ञातेषु वा ग्रहातिग्रहेषु प्रश्नः स्यादनिर्ज्ञातेषु वा ।
यदि तावद्ग्रहा अतिग्रहाश्च निर्ज्ञातास्तदा तद्गतस्यापि गुणस्य संख्याया निज्ञातत्वात्कति ग्रहाः कत्यतिग्रहा इति संख्याविषयः प्रश्नो नोपपद्यते ।
अथनिर्ज्ञातास्तदा संख्येयविषयप्रश्न इति के ग्रहाः केऽतिग्रहा इति प्रष्टव्यं न तु कति ग्रहाः कत्यतिग्रहा इति प्रश्नः ।
अपि च निर्ज्ञातसामान्यकेशु विशेषविज्ञानाय प्रश्नो भवति यथा कतमेऽत्र कठाः कतमेऽत्र कालापा इति ।
न चात्र ग्रहातिग्रहा नाम पदार्थाः केचन लोके प्रसिद्धाः ।
येन विशेषार्थः प्रश्नः स्यात् ।
ननु चातिमुच्यत इत्युक्तं ग्रहगृहोतस्य हि मोक्षः स मुक्तिः सातिमुक्तिरिति हि द्विरुक्तम् ।
तस्मात्प्राप्ता ग्रहा अतिग्रहाश्च ।
ननु तत्रापि चत्वारो ग्रहा अतिग्रहाश्च निर्ज्ञाता वाक्चक्षुः प्राणमनांसि तत्र कतीति प्रश्नो नोपपद्यते निर्ज्ञातत्वात् ।
न ।
अनवधारणार्थत्वात् ।
न हि चतुष्ट्वं तत्र विवक्षितमिह तु ग्रहातिग्रहादर्शनेऽष्ठत्वगुणविवक्षया कतोति प्रश्न उपपद्यत एव ।
तस्मात्स मुक्तिः सातिमुक्तिरिति मुक्त्यतिक्ती द्विरुक्ते ग्रहातिग्रहा अपि सिद्धाः ।
अतः कतिसंख्याका ग्रहाः कति वातिग्रहा इति पृच्छति ।
इतर आहअष्टौ ग्रहा अष्टावतिग्रहा इति ।
ये तेऽष्टौ ग्रहा अभिहिताः कतमे ते नियमेन ग्रहीतव्या इति ॥१॥



_______________________________________________________________________

३,२.२

प्राणो वै ग्रहः ।
सोऽपानेनातिग्रहेण गृहीतः ।
प्राणेन हि गन्धाञ्जिघ्रति ॥ _३,२.२ ॥

__________


शा.भा._३,२.२ तत्राऽह ।
प्राणो वै ग्रहः प्राण इति घ्राणमुच्यते ।
प्रकरणात् ।
वायुसहितः सः ।
अपानेनेति गन्धेनेत्येतत् ।
अपानसचिवत्वादपानो गन्ध उच्यते ।
अपानोपहृतं हि गन्धं घ्राणेन सर्वो लोको जिघ्रति ।
तदेतदुच्यतेऽपानेन हि गन्धाञ्जिघ्रतीति ॥२॥



_______________________________________________________________________

३,२.३९

वाग्वै ग्रहः ।
स नाम्नातिग्रहेण गृहीतः ।
वाचा हि नामान्यभिवदति ॥ _३,२.३ ॥

जिह्वा वै ग्रहः ।
स रसेनातिग्रहेण गृहीतः ।
जिह्वया हि रसान् विजानाति ॥ _३,२.४ ॥

चक्षुर्वै ग्रहः ।
स रूपेणातिग्रहेण गृहीतः ।
चक्षुषा हि रूपाणि पश्यति ॥ _३,२.५ ॥

श्रोत्रं वै ग्रहः ।
स शब्देनातिग्रहेण गृहीतः ।
श्रोत्रेण हि शब्दाञ्शृणोति ॥ _३,२.६ ॥

मनो वै ग्रहः ।
स कामेनातिग्रहेण गृहीतः ।
मनसा हि कामान् कामयते ॥ _३,२.७ ॥

हस्तौ वै ग्रहः ।
स कर्मणातिग्रहेण गृहीतः ।
हस्ताभ्यां हि कर्म करोति ॥ _३,२.८ ॥

त्वग्वै ग्रहः ।
स स्पर्शेनातिग्रहेण गृहीतः ।
त्वचा हि स्पर्शान् वेदयत ।
इत्यष्टौ ग्रहा अष्टावतिग्रहाः ॥ _३,२.९ ॥

__________


शा.भा._३,२.३९ वाग्वै ग्रहः ।
वाचा ह्यध्यात्मपरिच्छिन्नयाऽसङ्गविषयास्पदयासत्यानृतासभ्यबीभत्सादिवचनेषु व्यापृतया गृहीतो लोकोऽपहृतस्तेन ।
वाग्ग्रहः स नाम्नातिग्रारेण गृहीतः स वागाख्यो ग्रहो नाम्ना वक्तव्येन विषयेणातिग्रहेण अतिग्राहेणेति दैघ्यं छान्दसं नाम वक्तव्यार्था हि वाक्तेन वक्तव्येनार्थेन तादर्थ्येन प्रयुक्ता वाक्तेन वशीकृता तेन तत्कार्यमकृत्वा नैव तस्या मोक्षः ।
अतो नाम्नातिग्राहेण गृहीता वागित्युच्यते ।
वक्तव्यासङ्गेन हि प्रवृत्ता सर्वानर्थैर्युज्यते ।
समानमन्यत् ।
इत्येते त्वक्पर्यन्ता अष्टौ ग्रहाः स्पर्शपर्यन्ताश्चैतेऽष्टावतिग्रहा इति ॥ ३९ ॥



_______________________________________________________________________

३,२.१०

याज्ञवल्क्येति होवाच यदिदं सर्वं मृत्योरन्नं का स्वित्सा देवता यस्या मृत्युरन्नमिति ।
अग्निर्वै मृत्युः सोऽपामन्नम् ।
अप पुनर्मृत्युं जयति ॥ _३,२.१० ॥

__________


शा.भा._३,२.१० उपसंहृतेषु ग्रहातिग्रहेष्वाह पुनः याज्ञवल्क्येति होवाच ।
यदिदं सर्वं मृत्योरन्नं यदिदं व्याकृतं सर्वं मृत्योरन्नं सर्वं जायते विपद्यते च ग्रहातिग्रहलक्षणेन मृत्युना ग्रस्तम् ।
कास्वित्का नु स्यात्सा देवता यस्या देवताया मृत्युरप्यन्नं भवेत् ।
"मृत्युर्यस्योपसेचनम्"इति श्रुत्यन्तरात् ।
अयमभिप्रायः प्रष्टुः ।
यदि मृत्योर्मृत्युं वक्ष्यत्यनवस्था स्यात् ।
अथ न वक्ष्यत्यस्माद्ग्रहातिग्रहलक्षणान्मृत्योर्मोक्षो नोपपद्यते ।
ग्रहातिग्रहमृत्युविनाशे हि मोक्षः यात् ।
स यदि मृत्योरपि मृत्युः स्याद्भवेद्ग्रहातिग्रहलक्षणस्य मृत्योर्विनाशः अतो दुर्वचनं प्रश्नं मन्वानः पृच्छति कास्वित्सा देवतेति ।
अस्ति तावन्मृत्योर्मृत्युः ।
नन्वनवस्था स्यात्तस्याप्यन्यो मृत्युरिति ।
नानवस्था ।
सर्वमृत्योर्मृत्य्वन्तरानुपपत्तेः ।
कथं पुनरवगम्यतेऽस्ति मृत्योर्मृत्युरिति ।
दृष्टत्वात् ।
अग्निस्तावत्सर्वस्य दृष्टो मृत्युर्विनाशकत्वात् ।
सोऽद्भिर्भक्ष्यते सोऽग्निरपामन्नम् ।
गृहाण तर्ह्यस्ति मृत्योर्मृत्युरिति ।
तेन सर्वं ग्रहातिग्रहजातं भक्ष्यते मृत्योर्मृत्युना ।
तस्मिन्बन्धने नाशिते मृत्युना भक्षिते संसारान्मोक्ष उपपन्नो भवति ।
बन्धनं हि ग्रहातिग्रहलक्षणमुक्तं तस्माच्च मोक्ष उपपद्यत इत्येतत्प्रसाधितम् ।
अतो बन्धमोक्षाय पुरुषप्रयासः सफलो भवत्यतोऽपजयति पुनर्मृत्युम् ॥१०॥


_______________________________________________________________________

३,२.११

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियत उदस्मात्प्राणाः क्रामन्त्याहो नेति ।
नेति होवाच याज्ञवल्क्यः ।
अत्रैव समवनीयन्ते ।
स उच्छ्वयति ।
आध्मायति ।
आध्मातो मृतः शेते ॥ _३,२.११ ॥

__________


शा.भा._३,२.११ परेण मृत्युना मृत्यौ भक्षिते परमात्मदर्शनेन योऽसौ मुक्तो विद्वान्सोऽयं पुरुषो यत्र यस्मिन्काले म्रियत उदूर्ध्वमस्माद्ब्रह्मविदो म्रियमाणात्प्राणा वागदयो ग्रहा नामादयश्चातिग्रहा वासनारूपा अन्तस्थाः प्रयोजकाः कामत्न्यूर्ध्वमुत्क्रामन्त्याहोस्विन्नेति ।
नेति होवाच याज्ञवल्क्यो नोत्क्रामन्त्यत्रैवास्मिन्नेव परेणाऽत्मनाविभागं गच्छन्ति विदुषि कार्याणि करणानि च स्वयोनौ परब्रह्मसतत्तवे समवनीयन्त एकीभावेन समवसृज्यन्ते प्रलीयन्त इत्यर्थः ।
ऊर्मय इद समुद्रे ।
तथा च श्रुत्यन्तरं कलाशब्दवाच्यानां प्राणानां परस्मिन्नात्मनि प्रलयं दर्शयति "एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ती"ति ।
इति परेणाऽत्मनाविभागं गच्छन्तीति दर्शितम् ।
न तर्हि मृतो, नहि, मृतश्चायं यस्मात्स उच्छ्वयत्युच्छूनतां प्रतिपद्यत आध्मायति बाह्येन वायुना पूर्यते दृतिवदाध्मातो मृतः शेते निश्चेष्टः बन्धननाशे मुक्तस्य न क्वचिद्गमनमिति वाक्यार्थः ॥११॥



_______________________________________________________________________

३,२.१२

याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते ।
किमेनं न जहातीति ।
नामेति ।
अनन्तं वै नामानन्ता विश्वे देवाः ।
अनन्तमेव स तेन लोकं जयति ॥ _३,२.१२ ॥

__________


शा.भा._३,२.१२ मुक्तस्य किं प्राणा एव समवनोयन्त आहोस्वित्तत्प्रयोजकमपि सर्वम् ।
अथ प्राणा एव न तत्प्रयोजकं सर्व, प्रयोजके विद्यमाने पुनः प्राणानां प्रसङ्गः ।
अथ सर्वमेव कामकर्मादि, ततो मोक्ष उपपद्यत इत्येवमर्थ उत्तरः प्रश्नः ।
याज्ञवल्क्येति होवाच यत्रायं पुरुषो म्रियते किमेनं न जहातीति ।
आहेतरो नामेति सर्वं समवनीयत इत्यर्थः ।
नाममात्रं तु न लीयत आकृतिसम्बन्धात् ।
नित्यं हि नाम ।
अनन्तं वै नाम ।
नित्यत्वमेवाऽनन्त्यं नाम्नः ।
तदानन्त्याधिकृता अनन्ता बै विश्वे देवा अनन्तमेव स तेन लोकं जयति ।
तन्नामानन्त्याधिकृतान्विश्वान्देवानात्मत्वेनोपेत्य तेनाऽनन्त्यदर्शनेनानन्तमेव लोकं जयति ॥१२॥



_______________________________________________________________________

३,२.१३

याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु लोहितं च रेतश्च निधीयते क्वायं तदा पुरुषो भवतीति ।
आहर सौम्य हस्तम् आर्तभाग ।
आवामेवैतस्य वेदिष्यावो न नावेतत्सजन इति ।
तौ होत्क्रम्य मन्त्रयां चक्राते ।
तौ ह यदूचतुः कर्म हैव तदूचतुः ।
अथ ह यत्प्रशंसतुः कर्म हैव तत्प्रशशंसतुः ।
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेति ।
ततो ह जारत्कारव आर्तभाग उपरराम ॥ _३,२.१३ ॥

__________


शा.भा._३,२.१३ ग्रहातिग्रहरूपं बन्धनमुक्तं मृत्युरूपं तस्य च मृत्योर्मृत्युसद्भावान्मोक्षश्चोपपद्यते ।
स च मोक्षो ग्रहातिग्रहरूपाणामिहैव प्रलयः प्रदीपनिर्वाणवत् ।
यद्वद्ग्रहातिग्रहाख्यं बन्धनं मृत्युरूपं तस्य यत्प्रयोजकं तत्स्वरूपनिर्धारणार्थमिदमारभ्यते ।
याज्ञवल्क्येति होवाच ।
अत्र केचिद्वर्णयन्ति ग्रहातिग्रहस्य सप्रयोजकस्य विनाशेऽपि किल न मुच्यते ।
नामावशिष्टोऽविद्ययोषरस्थानीयया स्वात्मप्रभवया प मात्मनः परिच्छिन्नो भोज्याच्च जगतो व्यावृत्त उच्छिन्न कामकर्मान्तराले व्यवतिष्ठते ।
तस्य परमात्मैकत्वदर्शने द्वैतदर्शनमपनेतव्यमित्यतः परं परमात्मदर्शनमारब्धव्यमित्येवमपवर्गाख्यामन्तरालावस्थां परिकल्योत्तरग्रन्थसंबन्धं कुर्वन्ति ।
तत्र वक्तव्यं विशीर्णेषु करणेषु विदेहस्य परमात्मदर्शनश्रवणमनननिदिध्यासनानि कथमिति ।
समवनीतप्राणस्य हि नाममात्रावशिष्टस्येति तैरुच्यते ।
मृतः शेत इति हयुक्तम् ।
न मनोरथेनाप्येतदुपपादयितुं शक्यते ।
अथ जीवन्नेवाविद्यामात्रावशिष्टो भोज्यादपावृत्त इति परिकल्प्यते तत्तु किंनिमित्तमिति वक्तव्यम् ।
समस्तद्वैतैकत्वात्मप्राप्तिनिमित्तमिति यद्युच्यते तत्पूर्वमेव निराकृतम् ।
कर्मसहितेन द्वैतैकत्वात्मदर्शनेन सम्पन्नो विद्वान्मृतः समवनीतप्राणो जगदात्मत्वं हिरण्यगर्भस्वरूपं वा प्राप्नुयादसमवनीतप्राणो भोज्याज्जीवन्नेव व्यावृत्तो विरक्तः परमात्मदर्शनाभिमुखः स्यात् ।
न चोभयमेकप्रयत्ननिष्पाद्येन साधनेन लभ्यम् ।
हिरण्यगर्भप्राप्तिसाधनं चेन्न ततो व्यावृत्तिसाधनम् ।
परमात्माभिमुखीकरणस्य भोज्याद्वयावृत्तेः साधनं चेन्न हिरण्यगर्भप्राप्तिसाधनम् ।
न हि यद्गतिसाधनं तद्गतिनिवृत्तेरपि ।
अथ मृत्वा हिरण्यगर्भं प्राप्य ततः समवनीतप्राणो नामावशिष्टः परमात्मज्ञानेऽधिक्रियते ।
ततोऽस्मदाद्यर्थं परमात्मज्ञानोपदेशोऽनर्थकः स्यात् ।
सर्वेषां हि ब्रह्मविद्या पुरुषार्थायोपदिश्यते"तद्यो यो देवानाम्"इत्याद्यया श्रुत्या ।
तस्मादत्यन्तनिकृष्टा शास्त्रबाह्यैवेयं कल्पना ।
प्रकृतं तु वर्तयिष्याम ।
तत्र केन प्रयुक्तं ग्रहातिग्रहलक्षणं बन्धनमित्येतन्निर्दिधारयिषयाऽहयत्रास्य पुरुषस्यासम्यग्दर्शिनः शिरःपाण्यादिमतो मृतस्य वागग्निमप्येति वातं प्राणोऽप्येति चक्षुरादित्यमप्येतीति सर्वत्र सम्बध्यते ।
मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मेत्यत्राऽत्माधिष्ठानं हृदयाकाशमुच्यते ।
स आकाशमप्येति ।
ओषधीरपियति लोमानि ।
वनस्पतीनपियन्ति केशाः ।
अप्सु लोहितं च रेतश्च निधीयत इति पुनरादानलिङ्गम् ।
सर्वत्र हि वागादिशब्देन देवताः परिगृह्यन्ते न तु करणान्येवापक्रामन्ति प्राङ्मोक्षात् ।
तत्र देवताभिरनधिष्ठितानि करणानि न्यस्तदात्राद्युपमानानि विदेहश्च कर्ता पुरुषोऽस्वतन्त्रः किमाश्रितो भवतीति पृच्छयतेक्वायं तदा पुरुषो भवतीति ।
किमाश्रितस्तदा पुरुषो भवतीति ।
यमाश्रयमाश्रित्य पुनः कार्यकरणसंघातमुपादत्ते येन ग्रहातिग्रहलक्षणं बन्धनं प्रयुज्यते तत्किमिति प्रश्नः ।
अत्रोच्यतेस्वभावयदृच्छाकालकर्मदैवविज्ञानमात्रशून्यानि वादिभिः परिकल्पितानि ।
अतोऽनेकविप्रतिपत्तिस्थानत्वान्नैव जल्पन्यायेन वस्तुनिर्णयः ।
अत्र वस्तुनिर्णयं चेदिच्छस्याहर सोभ्य हस्तसार्तभाग ह आवामेवैतस्य त्वत्पृष्टस्य वेदितव्यं यत्तद्वेदिष्यावो निरूपयिष्यावः ।
कस्मात् ।
न नावावयोरेतद्वस्तु सजने जनसमुदाये निर्णेतुं शक्यते ।
अत एकान्त गमिष्यावो विचारणाय ।
तौ हेत्यादि श्रुतिवचनम् ।
तौ याज्ञवल्क्यार्तभागावेकान्तं गत्वा किं चक्रतुरित्युच्यतेतौ होत्क्रम्य सजनाद्देशान्मन्त्रयाञ्चक्राते ।
आदौ लौकिकवादिपक्षाणामेकैकं परुगृह्य विचारितवन्तौ ।
तौ ह विचार्य यदूचतुरपोह्य पूर्वपक्षान्सर्वानेव तच्छृणु ।
कर्म हैवाऽश्रयं पुनः पुनः कार्यकरणोपादानहेतुं तत्तत्रोचतुरुक्तवन्तौ ।
न केवलं कालकर्मदैवेश्वरेष्वभ्युपगतेषु हेतुषु यत्प्रशशंसतुस्तौ कर्म हैव तत्प्रशशंसतुः ।
यस्मान्निर्धारितमेतत्कर्मप्रयुक्तं ग्रहातिग्रहादिकार्यकरणोपादानं पुनः पुनस्तस्मात्पुण्यो वै शास्त्रविहितेन पुण्येन कर्मणा भवति तद्विपरोतेन विपरीतो भवति पापः पापेनेत्येवं याज्ञवल्क्येन प्रश्नेषु निर्णीतेषु ततोऽशक्यप्रकम्प्यत्वाद्याज्ञवल्क्यस्य ह जरत्कारव आर्तभाग उपरराम ॥१३॥

इति तृतीयाध्याये द्वितीयमार्तभागब्राह्मणम् ॥२॥



_______________________________________________________________________

३,३.१

अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ याज्ञवल्क्येति होवाच मद्रेषु चरकाः पर्यव्रजाम ।
ते पतञ्चलस्य काप्यस्य गृहानैम ।
तस्यासीद्दुहिता गन्धर्वगृहीता ।
तमपृच्छाम कोऽसीति ।
सोऽब्रवीत्सुधन्वाङ्गिरस इति ।
तं यदा लोकानामन्तानपृच्छाम ।
अथैनमब्रूम क्व पारिक्षिता अभवन्निति ।
क्व पारिक्षिता अभवन् ।
स त्वा पृच्छामि याज्ञवल्क्य ।
क्व पारिक्षिता अभवन्निति ॥ _३,३.१ ॥

__________


शा.भा._३,३.१ अथ हैनं भुज्युर्लाह्यायनिः पप्रच्छ ।
ग्रहातिग्रहलक्षणं बन्धनमुक्तम् ।
यस्मात्सप्रयोजकान्मुक्तो मुच्यते येन वा बद्धः संसरति स मृत्युः ।
तस्माच्च मोक्ष उपपद्यते ।
यस्मान्मृयोर्मृत्युरस्ति ।
मुक्तस्य च न गतिः क्वचित् ।
सर्वोत्सादो नाममात्रावशेषः प्रदीपनिर्वाणवदिति चावधृतम् ।
तत्र संसरतां मुच्यमानानां च कार्यकरणानां स्वकारणसंसर्गे समाने मुक्तानामत्यन्तमेव पुनरनुपादानम् ।
संसरतां तु पुनः पुनरुपादानं येन प्रयुक्तानां भवति तत्कर्मेत्यवधारितं विचारणापूर्वकम् ।
तत्क्षये च नामावशेषेण सर्वोत्सादो मोक्षः ।
तच्च पुण्यपापाख्यं कर्म ।
पुण्यो वै पुण्येन कर्मणा भवति पापः पापेनेत्यवधारितत्वात् ।
एतत्कृतः संसारः ।
तत्रापुण्येन स्थावरजङ्गमेषु स्वभावदुःखबहुलेषु नरकतिर्यक्प्रेतादिषु च दुःखमनुभवति पुनः पुनर्जायमानो म्रियमाणश्चेत्येतद्राजवर्त्मवत्सर्वलोकप्रसिद्धम् ।
यत्तु शास्त्रीयं पुण्यो वै पुण्येन कर्मणा भवति तत्रैवादरः क्रियत इह श्रुत्या ।
पुण्यमेव च कर्म सर्वपुरुषार्थसाधनमिति सर्वे श्रुतिस्मृतिवादाः ।
मोक्षस्यापि पुरुषार्थत्वात्तत्साध्यता प्राप्ता ।
यावद्यावत्पुण्योत्कर्षस्तावत्तावत्फलोत्कर्षप्राप्तिः ।
तस्मादुत्तमेव पुण्योत्कर्षेण मोक्षो भविष्यतीत्याशङ्का स्यात् ।
सा निवर्तयितव्या ज्ञानसहितस्य च प्रकृष्टस्य कर्मण एतावती गतिः ।
व्याकृतनामरूपास्पदत्वात्कर्मणस्तत्फलस्य च ।
न त्वकार्ये नित्येऽव्याकृतधर्मिण्यनामरूपात्मके क्रियाकारकफलस्वभाववर्जिते कर्मणो व्यापारोऽस्ति ।
यत्र च व्यापारः स संसार एवेत्यस्यार्थस्य प्रदर्शनाय ब्रह्मणमारभ्यते ।
यत्तु कैश्चिदुच्यते विद्यासहितं कर्म निरभिसंधि मन्त्रशर्करादियुक्तविषदध्यादिवत्कार्यान्तरमारभत इति ।
तन्न ।
अनारभ्यत्वान्मोक्षस्य ।
बन्धनाश एव हि मोक्षो न कार्यभूतः बन्धनं चाविद्येत्यवोचाम ।
अविद्यायाश्च न कर्मणा नाश उपपद्यते ।
दृष्टविषयत्वाच्व कर्मसामर्थ्यस्य ।
उत्पत्त्याप्तिविकारसंस्कारा हि कर्मसामर्थ्यस्य विषयाः ।
उत्पादयितुं प्रापयितुं विकर्तुं च सामर्थ्यं कर्मणो नातो व्यतिरिक्तविषयोऽस्ति कर्मसामर्थ्यस्य ।
लोकेऽप्रसिद्धत्वात् ।
न च मोक्ष एषां पदार्थानामन्यतमः ।
अविद्यामात्रव्यवहित इत्यवोचाम ।
बाढम् ।
भवतु केवलस्यैव कर्मण एवंस्वभावता ।
विद्यासंयुक्तस्य तु निरभिसंधेर्भवत्यन्यथा स्वभावः ।
दृष्टं ह्यन्यशक्तित्वेन निर्ज्ञातानामपि पदार्थानां विषदध्यादीनां विद्यामन्त्रशर्करादिसंयुक्तानामन्यविषये सामथ्यम् ।
तथा कर्मणोऽप्यस्त्विति चेत् ।
न ।
प्रमाणाभावात् ।
तत्र हि कर्मण उक्तविषयव्यतिरेकेण विषयान्तरे सामर्थ्यास्तित्वे प्रमाणं न प्रत्यक्षं नानुमानं नोपमानं नार्थापत्तिर्न शब्दोऽस्ति ।
ननु फलान्तराभावे चोदनान्यथानुपपत्तिः प्रमाणमिति ।
न हि नित्यानां कर्मणां विश्वजिन्न्यायेन फलं कल्प्यते ।
नापि श्रुतं फलमस्ति ।
चोद्यन्ते च तानि ।
पारिशेष्यान्मोक्षस्तेषां फलमिति गम्यते ।
अन्यथा हि पुरुषा न प्रवर्तेरन् ।
ननु विश्वजिन्न्याय एवाऽयातो मोक्षस्य फलस्य कल्पितत्वात् ।
मोक्षे वान्यस्मिन्वा फलेऽकल्पिते पुरुषा न प्रवर्तेरन्निति मोक्षः फलं कल्प्यते श्रुतार्थापत्त्या यथा विश्वजिति ।
नन्वेवं सति कथमुच्यते विश्वजिन्न्यायो न भवतीति ।
फलं च कल्प्यते विश्वजिन्न्यायश्च न भवतीति विप्रतिषिद्धमभिधीयते ।
मोक्षः फलमेव न भवतीति चेत् ।
न ।
प्रतिज्ञाहानात् ।
कर्म कार्यान्तरं विषदध्यादिवदारभत इति हि प्रतिज्ञातम् ।
स चेन्मोक्षः कर्मणः कार्यं फलमेव न भवतीति सा प्रतिज्ञा हीयेत ।
कर्मकार्यत्वे च मोक्षस्य स्वर्गादिफलेभ्यो विशेषो वक्तव्यः ।
अथ कर्मकार्यं न भवति नित्यानां कर्मणां फलं मोक्ष इत्यस्या वचनव्यक्तेः कोर्ऽथ इति वक्तव्यम् ।
न च कार्यफलशब्दभेदमात्रेण विशेषः शक्यः कल्पयितुम् ।
अफलं च मोक्षो नित्यैश्च कर्मभिः क्रियते नित्यानां कर्मणां फलं न कार्यमिति चैषोर्ऽथो विप्रतिषिद्धोऽभिधीयते यथाग्निः शीत इति ।
ज्ञानवदिति चेत् ।
यथा ज्ञानस्य कार्यं मोक्षो ज्ञानेनाक्रियमाणोऽप्युच्यते तद्वत्कर्मकार्यत्वमिति चेत् ।
न ।
अज्ञाननिवर्तकत्वाज्ज्ञानस्य ।
अज्ञानव्यवधाननिवर्तकत्वाज्ज्ञानस्य मोक्षो ज्ञानकार्यमित्युपचर्यते ।
न तु कर्मणा निवर्तयितव्यमज्ञानम् ।
न चाज्ञानव्यतिरेकेण मोक्षस्य व्यवधानान्तरं कल्पयितुं शक्यम् ।
नित्यत्वान्मोक्षस्य साधकस्वरूपाव्यतिरेकाच्च, यत्कर्मणा निवर्त्येत ।
अज्ञानमेव निवर्तयतीति चेत् ।
न ।
विलक्षणत्वात् ।
अनभिव्यक्तिरज्ञानमभिव्यक्तिलक्षणेन ज्ञानेन विरुध्यते ।
कर्म तु ताज्ञानेन विरुध्यते तेन ज्ञानविलक्षणं कर्म ।
यदि ज्ञानाभावो यदि संशयज्ञानं यदि विपरीतज्ञानं वोच्यतेऽज्ञानमिति सर्वं हि तज्ज्ञानेनैव निवर्त्यते ।
न तु कर्मणान्यतमेनापि विरोधाभावात् ।
अथादृष्टं कर्मणामज्ञाननिवर्तकत्वं कल्प्यमिति चेत् ।
न ।
ज्ञानेनाज्ञाननिवृत्तौ गम्यमानायामदृष्टनिवृत्तिकल्पनानुपपत्तेः ।
यथावघातेन व्रीहीणां तुषनिवृत्तौ गम्यमानायामग्निहोत्रादिनित्यकर्मकार्यादृष्टा न कल्प्यते तुषनिवृत्तिः ।
तद्वदज्ञाननिवृत्तिरपि नित्यकर्मकार्यादृष्टा न कल्प्यते ।
ज्ञानेन विरुद्धत्वं चासकृत्कर्मणामवोचाम ।
यदविरुद्धं ज्ञानं कर्मभिस्तद्देवलोकप्राप्तिनिमित्तमित्युक्तं"विद्यया देवलोकः"इति श्रुतेः ।
किञ्चान्यत्कल्प्ये च फले नित्यानां कर्मणां श्रुतानां यत्कर्मभिर्विरुध्यते द्रव्यगुणकर्मणां कार्यमेव न भवति, किं तत्कल्प्यतामिति? यस्मिन्कर्मणः सामर्थ्यमेव न दृष्टम्, किंवा यस्मिन्दृष्टं सामर्थ्यं यच्च कर्मणां फलमविरुद्धं तत्कल्प्यतामिति ।
पुरुषप्रवृत्तिजननायावश्यं चेत्कर्मफलं कल्पयितव्यं कर्माविरुद्धविषय एव श्रुतार्थापत्तेः क्षीणत्वान्नित्यो मोक्षः फलं कल्पयितुं न शक्यस्तद्व्यवधानाज्ञाननिवृत्तिर्वा ।
अविरुद्धत्वाद्दृष्टसामर्थ्यविषयत्वाच्चेति ।
पारिशेष्यन्यायान्मोक्ष एव कल्पयितव्य इति चेत् ।
सर्वेषां हि कर्मणां सर्वं फलं न चान्यदितरकर्मफलव्यतिरेकेण फलं कल्पनायोग्यमस्ति ।
परिशिष्टश्च मोक्षः ।
स चेष्टो वेदविदां फलम् ।
तस्मात्स एव कल्पयितव्य इति चेत् ।
न ।
कर्मफलव्यक्तोनामानन्त्यात्पारिशेष्यन्यायानुपपत्तेः ।
नहि पुरुषेच्छाविषयाणां कर्मफलानामेतावत्त्वं नाम केनचिदसर्वज्ञेनावधृतं तत्साधनानां वा पुरुषेच्छानां वानियतदेशकालनिमित्तत्वात्पुरुषेच्छाविषयसाधनानां च पुरुषेष्टफलप्रयुक्तत्वात् ।
प्रतिप्राणि चेच्छावैचित्र्यात्फलानां तत्साधनानां चाऽनन्त्यसिद्धिः ।
तदानन्त्याच्चाशक्यमेतावत्त्वं पुरुषैर्ज्ञातुम् ।
अज्ञाते च साधनफलैतावत्त्वे कथं मोक्षस्य परिशेषसिद्धिरिति ।
कर्मफलजातिपारिशेष्यमिति चेत् ।
सत्यपीच्छाविषयाणां तत्साधनानां चाऽनन्त्ये कर्मफलजातित्वं नाम सर्वेषां तुल्यम् ।
मोक्षसत्वकर्मफलत्वात्परिशिष्टः स्यात् ।
तस्मात्परिशेषात्स एव युक्तः कल्पयितुमिति चेत् ।
न ।
तस्यापि नित्यकर्मफलत्वाभ्युपगमे कर्मफलसमानजातीयत्वोपपत्तेः परिशेषानुपपत्तिः ।
तस्मादन्यथाप्युपपत्तेः क्षीणा श्रुतार्थापत्तिः ।
उत्पत्तयाप्तिविकारसंस्काराणामन्यतमपि नित्यानां कर्मणां फलमुपपद्यत इति क्षीणा श्रुतार्थापत्तिः ।
चतुर्णामन्यतम एव मोक्ष इति चेत् ।
न तावदुत्पाद्यो नित्यत्वात् ।
अत एवाविकार्योऽसंस्कार्यश्चात एव, असाधनद्रव्यात्मकत्वाच्च ।
साधनात्मकं हि द्रव्यं संस्क्रियते ।
यथा पात्राज्यादि प्रोक्षणादिना ।
न च संस्क्रियमाणः संस्कारनिर्वर्त्यो वा यूपादिवत् ।
पारिशेष्यादाप्यः स्यात् ।
नाऽप्योऽप्यात्मस्वभावत्वादेकत्वाच्च ।
इतरैः कर्मभिर्वैलक्षण्यान्नित्यानां कर्मणां तत्फलेनापि विलक्षणेन भवितव्यमिति चेत् ।
न ।
कर्मत्वसालक्षण्यात्सलक्षणं कस्मात्फलं न भवतीतरकर्मफलैः ।
निमित्तवैलक्षण्यादिति चेत् ।
न ।
क्षामवत्यादिभिः समानत्वात् ।
यथा हि गृहदाहादौ निमित्ते क्षामवत्यादीष्टिर्यथा भिन्ने जुहोति स्कन्ने जुहोतीत्येवमादौ नैमित्तिकेषु कर्मसु न मोक्षः फलं कल्प्यते ।
तैश्चाविशेषान्नैमित्तिकत्वेन जीवनादिनिमित्ते च श्रवणात् ।
तथा नित्यानामपि न मोक्षः फलम् ।
आलोकस्य सर्वेषां रूपदर्शनसाधनत्व उलूकादय आलोकेन रूपं न पश्यन्तीत्युलुकादिचक्षुषो वैलक्षण्यादितरलोकचक्षुर्भिर्न रसादिविषयत्वं परिकल्प्यते रसादिविषये सामर्थ्यस्यादृष्टत्वात् ।
सुदूरमपि गत्वा यद्विषये दृष्टं सामर्थ्यं तत्रैव कश्चिद्विशेषः कल्पयितव्यः ।
यत्पुनरुक्तं विद्यामन्त्रशर्करादिसंयुक्तविषददध्यादिवन्नित्यानि कार्यान्तरमारभन्त इति ।
आरभ्यतां विशिष्टं कार्यं तदिष्टत्वादविरोधः ।
निरभिसंधेः कर्मणो विद्यासंयुक्तस्य विशिष्टकार्यान्तरारम्भे न कश्चिद्विरोधः ।
देवयाज्यात्मयाजिनोरात्मयाजिनो विशेषश्रवणाद्देवयाजिनःऽश्रेयानात्मयाजीऽत्यादौऽयदेव विद्यया करोतीऽत्यादौ च ।
यस्तु परमात्मदर्शनविषये मनुनोक्त आत्मयाजिशब्दःऽसमं पश्यन्नात्मयाजीऽत्यत्र समं पश्यन्नात्मयाजी भवतीत्यर्थः ।
अथवा भूतपूर्वगत्या ।
आत्मयाज्यात्मसंस्कारार्थं नित्यानि कर्माणि करोति"इदं मेऽनेनाङ्ग संस्क्रियते"इति श्रुतेः ।
तथा गार्भैर्हेमैरित्यादिप्रकरणे कार्यकरणसंस्कारार्थत्वं नित्यानां कर्मणां दर्शयति ।
संस्कृतश्च य आत्मयाजी तैः कर्मभिः समं द्रष्टुं समर्थो भवति ।
तस्येह वा जन्मान्तरे वा सममात्मदर्शनमुत्पद्यते समं पश्यन्स्वाराज्यमधिगच्छतीत्येषोर्ऽथः ।
आत्मयाजिशब्दस्तु भूतपूर्वगत्या प्रयुज्यते ।
ज्ञानयुक्तानां नित्यानां कर्मणां ज्ञानोत्पत्तिसाधनत्वप्रदर्शनार्थम् ।
किञ्चान्यत्ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥
इति च देवसार्ष्टिव्यतिरेकेण भूताप्ययं दर्शयति भूतान्यप्येति पञ्च वै ।
भूतान्यत्येतीति पाठं ये कुर्वन्ति तेषां वेदविषये परिच्छिन्नबुद्धित्वाददोषः ।
न चार्थवादत्वमध्यायस्य ब्रह्मान्तकर्मविपाकार्थस्य तद्वयतिरिक्तात्मज्ञानार्थस्य च कर्मकाण्डोपनिषद्भयां तुल्यार्थत्वदर्शनात् ।
विहिताकरणप्रतिषिद्धकर्मणां च स्थावरश्वसूकरादिफलदर्शनात् ।
वान्ताश्यादिप्रेतदर्शनाच्च ।
न च श्रुतिस्मृतिवीरीतप्रतिषिद्धव्यतिरेकेण विहितानि वा प्रतिषिद्धानिवा कर्माणि केनचिदवगन्तुं शक्यन्ते ।
येषामकरणादनुष्ठानाच्च प्रेतश्वसूकरस्थावरादीनि कर्मफलानि प्रत्यक्षानुमानाभ्यामुपलभ्यन्ते ।
न चैषामकर्मफलत्वं केनचिदभ्युपगम्यते ।
तस्माद्विहिताकरणप्रतिषिद्धसेवानां यथैते कर्मविपाकाः प्रेततिर्यक्स्थावरादयस्तथोत्कृष्टेष्वपि ब्रह्मान्तेषु कर्मविपाकत्वं वेदितव्यम् ।
तस्मात्"स आत्मनो वपामुदखिदत्" "सोऽरोदीदि"त्यादिवन्नाभूतार्थवादत्वम् ।
तत्राप्यभूतार्थवदत्वं मा भूदिति चेत् ।
भवत्वेवम् ।
न चैतावतास्य न्यायस्य बाधो भवति ।
न चास्मत्पक्षो वा दुष्यति ।
न च"ब्रह्मा विश्वसृज"इत्यादीनां काम्यकर्मफलत्वं शक्यं वक्तुम् ।
तेषां देवसार्ष्टितायाः फलस्योक्तत्वात् ।
तस्मात्साभिसंधीनां नित्यानां कर्मणां सर्वमेधाश्वमेधादीनां च ब्रह्मत्वादीनि फलानि ।
येषां पुनर्नित्यानि निरभिसंधीन्यात्मसंस्कारार्थानि तेषां ज्ञानोत्पत्त्यर्थानि तानि ।
"ब्राह्मीयं क्रियते तनुः"इति स्मरणात् ।
तेषामारादुपकारकत्वान्मोक्षसाधनान्यपि कर्माणि भवन्तीति न विरुध्यते ।
यथा चायमर्थः षष्ठे जनकाख्यायिकासमाप्तौ वक्ष्यामः ।
यत्तु विषदध्यादिवदित्युक्तं तत्र प्रत्यक्षानुमानविषयत्वादविरोधः ।
यस्त्वत्यन्तशब्दगम्योर्ऽथस्तत्र वाक्यस्याभावे तदर्थप्रतिपादकस्य न शक्यं कल्पयितुं विषदध्यादिसाधर्म्यम् ।
न च प्रमाणान्तरविरुद्धार्थविषये श्रुतेः प्रामाण्यं कल्प्यते यथा शीतोऽग्निः क्लेदयतीति ।
श्रुते तु तादर्थ्ये वाक्यस्य प्रमाणान्तरस्याऽभासत्वम ।
यथा खद्योतोऽग्निरिति तलमलिनमन्तरिक्षमिति बालानां यत्प्रत्यक्षमपि तद्विषयप्रमाणान्तरस्य यथार्थत्वे निश्चिते निश्चितार्थमपि बालप्रत्यक्षमाभासीभवति ।
तस्माद्वेदप्रामाण्यस्याव्यभिचारात्तादर्थ्ये सति वाक्यस्य तथात्वं स्यात् ।
न तु पुरुषमतिकौशलम् ।
नहि पुरुषमतिकौशलात्सविता रूपं न प्रकाशयति ।
तथा वेदवाक्यान्यपि नान्यार्थानि भवन्ति ।
तस्मान्न मोक्षार्थानि कर्माणीति सिद्धम् ।
अतः कर्मफलानां संसारत्वप्रदर्शनायैव ब्राह्मणमारभ्यते ।
अथानन्तरमुपरते जारत्कारवे, भुज्युरिति नामतो लह्यस्यापत्यं लाह्यस्तदपत्यं लाह्यायनिः पप्रच्छ ।
याज्ञवल्क्येति होवाच ।
आदाबुक्तमश्वमेधदर्शनम्॑समष्टिव्यष्टिफलश्चाश्वमेधक्रतुः, ज्ञानसमुच्चितो वा केवलज्ञानसम्पादितो वा, सर्वकर्मणां परा काष्ठा॑भ्रणहत्याश्वमेधाभ्यां न परं पुण्यपापयोरिति हि स्मरन्ति॑तेन हि समष्टिं व्यष्टीश्च प्राप्नोति॑तत्र व्यष्टयो निर्ज्ञाता अन्तरण्डविषया अश्वमेधयागफलभूताः॑ऽमृत्युरस्यात्मा भवत्येतासां देवतानामेका भवतिऽ(१ । २ । ७) इत्युक्तम् ।
मृत्युश्चाशनायालक्षणो बुद्धयात्मा समष्टिः प्रथमजो वायुः सूत्रं सत्यं हिरण्यगर्भः॑तस्य व्याकृतो विषयःयदात्मकं सर्वं द्वैतैकत्वम् ।
यः सर्वभूतान्तरात्मा लिङ्गममूर्तरसो यदाश्रितानि सर्वभूतकर्माणि, यः कर्मणां कर्मसम्बद्धानां च विज्ञानानां परा गतिः परं फलम्, तस्य कियान् गोचरः कियति व्याप्तिः सर्वतः परिमण्डलीभूता, सा वक्तव्या॑तस्यामुक्तायां सर्वः संसारो बन्धगोचर उक्तो भवति ।
तस्य च समष्टिव्यष्ट्यात्मदर्शनस्य अलौकिकत्वप्रदर्शनार्थमाख्यायिकामात्मनो वृत्तां प्रकुरुते॑तेन च प्रतिवादिबुद्धिंव्यामोहयिष्यामीति मन्यते ।
मद्रेषु मद्रा नाम जनपदास्तेषु, चरका अध्ययनार्थव्रतचरणाच्चरका अध्वर्यवो वा, पर्यव्रजाम पर्यटितवन्तः॑ते पतञ्चलस्य नामतः, काप्यस्य कपिगोत्रस्य, गृहानैम गतवन्तः ।
तस्यासीद्दुहिता गन्धर्वगृहीतागन्धर्वेण अमानुषेण सच्वेन केनचिदाविष्टा॑गन्धर्वो वा धिष्ण्योऽग्निरृत्विगदेवता विशिष्टविज्ञानत्वादवसीयते॑न हि सच्वमात्रस्येदृशं विज्ञानमुपपद्यते ।
तं सर्वे वयं परिवारिताः सन्तोऽपृच्छामकोऽसीति, कस्त्वमसि किन्नामा किंसतच्वः ।
सोऽब्रवीद्गन्धर्वः सुधन्वा नामतः, आङ्गिरसो गोत्रतः ।
तं यदा यस्मिन् काले लोकानामन्तान् पर्यवसानानि अपृच्छाम अथैनं गन्धर्वमब्रूमभूवनकोशपरिमाणज्ञानाय प्रवृत्तेषु सर्वेष्वात्मानं श्लाघयन्तः पृष्टवन्तो वयम्॑कथम्? क्व पारिक्षिता अभवन्निति ।
स च गन्धर्वः सर्वमस्मभ्यब्रवीत् ।
तेन दिव्येभ्यो मया लब्धं ज्ञानम्, तत्तव नास्ति, अतो निगृहीतोऽसि, इत्यभिप्रायः ।
सोऽहं विद्यासम्पन्नो लब्धागमो गन्धर्वात्त्वा त्वां पृच्छामि याज्ञवल्क्यक्व पारिक्षिता अभवन्तत्त्वं किं जानासि? हे याज्ञवल्क्यऽकथय पृच्छामि क्व पारिक्षिता अभवन्निति ॥१॥



_______________________________________________________________________

३,३.२

स होवाच उवाच वै सः ।
अगच्छन् वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति ।
क्व न्वश्वमेधयाजिनो गच्छन्तीति ।
द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकः ।
तं समन्तं पृथिवी द्विस्तावत्पर्येति ।
तां समन्तं पृथिवीं द्विस्तावत्समुद्रः पर्येति ।
तद्यावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्त्रं तावानन्तरेणाकाशः तानैन्द्रः सुपर्णो भूत्वा वायवे प्रायच्छत् ।
तान् वायुरात्मनि धित्वा तत्रागमयद्यत्राश्वमेधयाजिनोऽभवन्निति ।
एवमिव वै स वायुमेव प्रशशंस तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिः ।
अप पुनर्मृत्युं जयति य एवं वेद ।
ततो ह भुज्युर्लाह्यायनिरुपरराम ॥ _३,३.२ ॥

__________


शा.भा._३,३.२ स होवाच याज्ञवल्क्य उवाच वै सः ।
वैश्ब्दः स्मरणार्थः ।
उवाच वै स गन्धर्वस्तुभ्यम् ।
अगच्छन्वै ते पारिक्षितास्तत्तत्र क्व? यत्र यस्मिन्नश्वमेधयाजिनो गच्छन्तीति ।
निर्णोते प्रश्न आहक्व नु कस्मिन्नश्वमेधयाजिनो गच्छन्तीति ।
तेषां गतिविवक्षया भुवनकोशपरिमाणमाहद्वात्रिंशतं वै द्वे अधिके त्रिंशद्द्वात्रिंशतं वै देवरथाह्रयानि देव आदित्यस्तस्य रथो देवरथस्तस्य रथस्य गत्याह्रा यावत्परिच्छिद्यते देशपरिमाण तद्देवरथाह्रयं तद्द्वात्रिंशद्गुणितं देवरथाह्रयानि तावत्परिमाणोऽयं लोको लोकालोकगिरिणा परिक्षिप्तः ।
यत्र वैराजं शरीरं यत्र च कर्मफलोपभोगः प्राणिनां स एष लोक एतावांल्लोकोऽतः परमलोकस्तं लोकं समन्तं समन्ततो लोकविस्ताराद्द्विगुणपरिमाणविस्तारेण परिमाणेन तं लोकं परिक्षिप्ता पर्येति पृथिवी ।
तां पृथिवीं तथैव समन्तं द्विस्तावद्द्विगुणेन परिमाणेन समुद्रः पर्येति यं घनोदमाचक्षते पौराणिकाः ।
तत्रण्डकपालयोर्विवरपरिमाणमुच्यते ।
येन विवरेण मार्गेण वहिर्निर्गच्छन्तो व्याप्नुवन्त्यश्वमेधयाजिनः ।
तत्र यावती यावत्परिमाण क्षुरस्य धाराग्रं यावद्वा सौक्ष्म्येण युक्तं मक्षिकायाः पत्रं तावांस्तावत्परिमाणोऽन्तरेण मध्येऽण्डकपालयोराकाश्छिद्रं तेनाऽकाशेनेत्येतत् ।
तान्पारिक्षितानश्वमेधयाजिनः प्राप्तानिद्रः परमेश्वरो योऽश्वमेवेऽग्निश्चितः सुपर्णो यद्विषयं दर्शनमुक्तं तस्य प्राचि दिविशर इत्यादिना सुपर्णः पक्षी भूत्वा पक्षपुच्छाद्यात्मकः सुपर्णो भूत्वा वायवे प्रायच्छन्मूर्तत्वान्नास्त्यात्मनो गतिस्तत्रेति ।
तान्पारिक्षितान्वायुरात्मनि धित्वा स्थापयित्वा स्वात्मभूतान्कृत्वा तत्र तस्मिन्नगमयत् ।
क्व ।
यत्र पूर्वेऽतिक्रान्ताः पारिक्षिता अश्वमेधयाजिनोऽभवन्निति ।
एवमिव वा एवमेव स गन्धर्वो वायुमेव प्रशशंस पारिक्षितानां गतिम् ।
समाप्ताऽख्यायिका ।
आख्यायिकानिर्वृत्तं त्वर्थमाख्यायिकातोऽपसुत्य श्रुतिः स्वमुखेनैवाऽचष्टेऽस्मभ्यम् ।
यस्माद्वायुः स्थावरजङ्गमानां भूतानामन्तरात्मा बहिश्च स एव तस्मादध्यात्माधिभूताधिदैवभावेन विविधा याष्टिर्व्याप्तिः स वायुरेव ।
तथा समष्टिः केवलेन सूत्रात्मना वायुरेव ।
एवं वायुमात्मानं समष्टिव्यष्टिरूपात्मकत्वेनोपगच्छति य एवं वेद ।
तस्य किं फलमित्याहिअप पुनर्मृत्युं जयति सकृत्मृत्वा पुननं म्रियते ।
तत आत्मनः प्रश्ननिर्णयाद्भुज्युर्लाह्यायनिरुपरराम ॥२॥

इति बृहदारण्यकोपनिषद्भाष्ये तृतीयाध्यायस्य तृतीयं ब्राह्मणम् ॥३॥



_______________________________________________________________________

३,४.१

अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ।
याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
यः प्राणेन प्राणिति स त आत्मा सर्वान्तरः ।
योऽपानेनापानिति स त आत्मा सर्वान्तरः ।
यो व्यानेन व्यनिति स त आत्मा सर्वान्तरः ।
य उदानेनोदनिति स त आत्मा सर्वान्तरः ।
एष त आत्मा सर्वान्तरः ॥ _३,४.१ ॥

__________


शा.भा._३,४.१ अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ।
पुण्यपापप्रयुक्तैर्ग्रहातिग्रहैर्गृहीतः पुनः पुनर्ग्रहातिग्रहांस्त्यजन्नुपाददत्संसरतीत्युक्तम् ।
पुण्यस्य च पर उत्कर्षो व्याख्यातो व्याकृतविषयः समष्टिव्यष्टिरूपो द्वैतैकत्वात्मप्राप्तिः ।
यस्तु ग्रहातिग्रहैर्ग्रस्तः संसरति सोऽस्ति वा नास्त्यस्तित्वे च किंलक्षण इत्यात्मन एव विवेकाधिगमायोषस्तप्रश्न आरभ्यते ।
तस्य च निरुपाधिस्वरूपस्य क्रियाकारकविनिर्मुक्तस्वभावस्याधिगमाद्यथोक्ताद्वन्धनाद्विमुच्यते सप्रयोजकात् ।
आख्यायिकासंबन्धस्तु प्रसिद्धः ।
अथ हैनं प्रकृतं याज्ञवल्क्यमुषस्तो नामतश्चक्रस्यापत्यं चाक्रायणः पप्रच्छ ।
यद्ब्रह्म साक्षादव्यवहितं केनचिद्द्रष्टुरपरोक्षादगौणम् ।
न श्रोत्रब्रह्मादिवत् ।
किं तत् ।
य आत्मा ।
आत्मशब्देन प्रत्यगात्मोच्यते ।
तत्राऽत्मशब्दस्य प्रसिद्धत्वात् ।
सर्वस्याभ्यन्तरः सर्वान्तरः यद्यःशब्दाभ्यां प्रसिद्ध आत्मा ब्रह्मेति ।
तमात्मानं मे मह्यं व्याचक्ष्वेति ।
विष्पष्टं शृङ्गे गृहीत्वा यथा गां दर्शयति तथाऽचक्ष्व सोऽयमित्येवं कथयस्वेत्यर्थः ।
एवमुक्तः प्रत्याह याज्ञवल्क्यःेषु ते तवाऽत्मा सर्वान्तरः सर्वस्याभ्यन्तरः ।
सर्वविशेषणोपलभणार्थ सर्वान्तरग्रहणम् ।
यत्साक्षादव्यवहितमपरोक्षादगौणं ब्रह्म बृहत्तममात्मा सर्वस्याभ्यन्तर एतैर्गुणैः समस्तैरुक्त एषः ।
कोऽसौ तवाऽत्मा ।
योऽयं कार्यकरणसंघातस्तव येनाऽत्मनाऽत्मवान्स एष तवात्मा ।
तव कार्यकरणसंघातस्येत्यर्थः ।
तत्र पिण्डस्तम्याभ्यन्तरे लिङ्गात्मा करणसंघातस्तृतीयो यश्च संदिह्यमानस्तेषु कतमो ममाऽत्मा सर्वान्तरस्त्वया विवक्षित इत्युक्त इतर आहयः प्राणेन मुखनासिकासंचारिणा प्राणिति प्राणचेष्टां करोति येन प्राणः प्रणीयत इत्यर्थः ।
स ते तब कार्यकरणसंघातस्याऽत्मा विज्ञानमयः ।
समानमन्यत् ।
योऽपानेनापानीति ।
यो व्यानेन व्यानीतीति च्छान्दसं दैर्ध्यम् ।
सर्वाः कार्यकरणसंघातगताः प्राणनादिचेष्टा दारुयन्त्रस्येव येन क्रियन्ते ।
नहि चेतनावदनधिष्ठतस्य दारुयन्त्रस्येव प्राणनादिचेष्टा विद्यन्ते ।
तस्माद्विज्ञानमयेनाधिष्ठितं विलक्षणेन दारुयन्त्रवत्प्राणनादिचेष्टां प्रतिपद्यते ।
तस्मात्सोऽस्ति कार्यकरणसंघातविलक्षणो यश्चिष्टयति ॥१॥


_______________________________________________________________________

३,४.२

स होवाचोषस्तश्चाक्रायणः यथा वै ब्रूयादसौ गौरसावश्व इत्येवमेवैतद्व्यपदिष्टं भवति ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
न दृष्टेर्द्रष्टारं पश्येः ।
न श्रुतेः श्रोतारं शृणुयाः ।
न मतेर्मन्तारं मन्वीथा ।
न विज्ञातेर्विज्ञातारं विजानीयाः ।
एष त आत्मा सर्वान्तरः ।
अतोऽन्यदार्तम् ।
ततो होषस्तश्चाक्रायण उपरराम ॥ _३,४.२ ॥

__________


शा.भा._३,४.२ स होवाचोषस्तश्चाक्रायणो यथा कश्चिदन्यथा प्रतिज्ञाय पूर्वं पुनर्विप्रतिपन्नो ब्रूयादन्यथासौ गौरसावश्वो यश्चलति धावतीति वा पूर्वं प्रत्यक्षं दर्शयामिति प्रतिज्ञाय पश्चाच्चलनादिलिङ्गैर्व्यपदिशत्येवमेवैतद्ब्रह्म प्राणनादिलिङ्गैर्व्यपदिष्टं भवति त्वया ।
किं बहुना त्यक्त्वा गोतृष्णानिमित्तं व्याजं यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
इतर आहयथा मया प्रथमं प्रतिज्ञातस्तवाऽत्मव (त्मा वि) लक्षण इति तां प्रतिज्ञामनुवर्त एव ।
तत्तथैव यथोक्त मया ।
यत्पुनरुक्तं तमात्मानं घटादिवद्विषयीकुर्विति तदशक्यत्वान्न क्रियते ।
कस्मात्पुनस्तदशक्यमिति ।
आह ।
वस्तुस्वाभाव्यात् ।
किं पुनस्तद्वस्तुस्वाभाव्यम् ।
दृष्टयादिद्रष्टृत्वम् ।
दृष्टेर्द्रष्टा ह्यात्मा ।
दृष्टिरिति द्विविधा भवति लौकिकी पारमार्थिकी चेति ।
तत्र लौकिकी चक्षुःसंयुक्तान्तःकरणवृत्तिः ।
सा क्रियत इति जायते विनश्यति च ।
या त्वात्मनो दृष्टिरग्न्युष्णप्रकाशादिवत्सा च द्रष्टः स्वरूपत्वान्न जायते न विनश्यति च ।
सा क्रियमाणयोपाधिभूतया संसृष्टेवेति व्यपदिश्यते द्रष्टेति भेदवच्च द्रष्टा दृष्टिरिति च ।
यासौ लौकिकी दृष्टिश्चक्षुर्द्वारा रूपोपरक्ता जायमानैव नित्ययाऽत्मदृष्ट्या संसृष्टेव तत्प्रतिच्छाया तया व्याप्तैव जायते तथा विनश्यति च तेनोपचर्यते द्रष्टा सदा पश्यन्नपि पश्यति न पश्यति चेति ।
न तु पुनर्द्रष्टुर्दृष्टेः कदाचिदप्यन्यथात्वम् ।
तथा च वक्ष्यति षष्ठेध्यायतीव लेलायतीव ।
नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यत इति च ।
तमिममर्थमाहलौकिक्या दृष्टेः कर्मभूताया द्रष्टारं स्वकीयया नित्यया दृष्ट्या व्याप्तारं न पश्येः ।
यासौ लौकिकी दृष्टिः कर्मभूता सा रूपोपरक्ता रूपाभिव्यञ्जिका नाऽत्मानं स्वात्मनो व्याप्तारं प्रत्यञ्चं व्याप्नोति ।
तस्मात्तं प्रत्यगात्मानं दृष्टेद्रष्टारं न पश्येः ।
तथा श्रुतेः श्रोतारं न शृणुयाः ।
तथा मतेर्मनोवृत्तेः केवलाया व्याप्तारं न मन्वीथाः ।
तथा विज्ञातेः केवलाया बुद्धिवृत्तेर्व्याप्तारं न विजानीयाः ।
एष वस्तुनः स्वभावोऽतो नैव दर्शयितुं शक्यते गवादिवत् ।
न दृष्टेर्द्रष्टारमित्यत्राक्षराण्यन्यथा व्याचक्षते केचित् ।
न दृष्टेर्द्रष्टारं दृष्टेः कर्तारं दृष्टिभेदमकृत्वा दृष्टिमात्रस्य कर्तारं न पश्येरिति ।
दृष्टेरिति कर्मणि षष्ठी ।
सा दृष्टिः क्रियमाणा घटवत्कर्म भवति ।
द्रष्टारमिति तृजन्तेन द्रष्टुर्दृष्टिकर्तृत्वमाचष्टे ।
तेनासौ दृष्टेर्द्रष्टा दृष्टेः कर्तेति व्याख्यातृणामभिप्रायः ।
तत्र दृष्टेरिति षष्ठ्यन्तेन दृष्टिग्रहणं निरर्थकमिति दोषं न पश्यन्ति पश्यतां वा पुनरुक्तमसारः प्रमादपाठ इति वा नाऽदरः ।
कथं पुनराधिक्यं तृजन्तेनैव दृष्टिकर्तृत्वस्य सिद्धत्वाद्दृष्टेरिति निरर्थकम् ।
तदा द्रष्टारं न पश्येरित्येतावदेव वक्तव्यम् ।
यस्माद्धातोः परस्तृच्छूयते तद्धात्वर्थकर्तरि हि तृच्स्मर्यते ।
गन्तारं भत्तारं वा नयतीत्येतावानेव हि शब्दः प्रयुज्यते ।
न तु गतेर्गन्तारं भिदेर्भेत्तारमित्यसत्यर्थविशेषे प्रयोक्तव्यः ।
न चार्थवादत्वेन हातव्यं सत्यां गतौ ।
न च प्रमादपाठः ।
सर्वेषामविगानात् ।
तस्माद्व्याख्यातृणामेव बुद्धिदौर्बल्यं नाध्येतृप्रमादः यथा त्वस्माभिर्व्याख्यातं लौकिकदृष्टेर्विविच्य नित्यदृष्टिविशिष्ट आत्मा प्रदर्शयितव्यस्तथा कर्तृकर्मविशेषणत्वेन दृष्टिशब्दस्य द्विःप्रयोग उपपद्यत आत्मस्वरूपनिर्धारणाय ।
ऽनहि द्रष्टुर्दृष्टेरिऽति च प्रदेशान्तरवाक्येनैवैकवाक्यतोपपन्ना भवति ।
तथा च"चक्षूंषि पश्यति""श्रोत्रमिदं श्रुतम्"इति श्रुत्यन्तरेणैकवाक्यतोपपन्ना ।
न्यायाच्च ।
एवमेव ह्यात्मनो नित्यत्वमुपपद्यते विक्रियाभावे विक्रियावच्च नित्यमिति च विप्रतिषिद्धम् ।
"ध्यायतीव लेलायतीव" "नहि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते" "एष नित्यो महिमा ब्राह्मणस्य"इति च श्रुत्यक्षराण्यन्यथा न गच्छन्ति ।
ननु द्रष्टा श्रोता मन्ता विज्ञातेत्येवमादीन्यप्यक्षराण्यात्मनोऽविक्रियत्वे न गच्छन्तीति ।
न ।
यथाप्राप्तलौकिकवाक्यानुवादित्वात्तेषाम् ।
नाऽत्मतत्त्वनिर्धारणार्थानि तानि ।
दृष्टेर्द्रष्टारमित्येवमादीनामन्यार्थासम्भवाद्यथोक्तार्थपरत्वमवगम्यते ।
तस्मादनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेर्द्रष्टारमित्येवमादीनामन्यार्थासम्भवाद्यथोक्तार्थपरत्वमवगम्यते ।
तस्मादनवबोधादेव हि विशेषणं परित्यक्तं दृष्टेरिति ।
एष ते तवाऽत्मा सर्वैरुक्तैर्विशेणणैर्विशिष्टः ।
अत एतस्मादात्मनोऽन्यदार्त कार्य वा शरीरं करणात्मकं वा लिङ्गम् ।
एतदेवैकमनार्तमविनाशि कूटस्थम् ।
ततो होषस्तश्चाक्रायण उपरराम ॥२॥

इति बृहदारण्यकोपनिषद्भाष्ये तृतीयाध्यायस्य चतुर्थ ब्राह्मणम् ॥४॥



_______________________________________________________________________

३,५.१

अथ हैनं कहोलः कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाच ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
एष त आत्मा सर्वान्तरः ।
कतमो याज्ञवल्क्य सर्वान्तरः ।
योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति ।
एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्ति ।
या ह्येव पुत्रैषणा सा वित्तैषणा या वित्तैषणा सा लोकैषणा ।
उभे ह्येते एषणे एव भवतः ।
तस्माद्ब्रामणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् ।
बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः ।
अमौनं च मौनं च निर्विद्याथ ब्राह्मणः ।
स ब्राह्मणः केन स्याद्येन स्यात्तेनेदृश एव ।
अतोऽन्यदार्तम् ।
ततो ह कहोलः कौषीतकेय उपरराम ॥ _३,५.१ ॥

__________


शा.भा._३,५.१ वन्धनं सप्रयोजकमुक्तम् ।
यश्च बद्धस्तस्याप्यस्तित्वमधिगतं व्यतिरिक्तत्वं च ।
तस्येदानीं बन्धमोक्षसाधनं ससंन्यासमात्मज्ञानं वक्तव्यमिति कहोलप्रश्न आरभ्यतेअथ हैनं कहोलो नामतः कुषीतकस्यापत्यं कौषीतकेयः पप्रच्छ याज्ञवल्क्येति होवाचेति पूर्ववत् ।
यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्वेति ।
यं विदित्वा बन्धनात्प्रमुच्यते ।
याज्ञवल्क्य आहएष ते तवाऽत्मा ।
किमुषस्तकहोलाभ्यामेक आत्मा पृष्टः किंवा भिन्नावात्मानौ तुल्यलक्षणाविति ।
भिन्नाविति युक्तं प्रश्नयोरपुनरुक्तत्वोपपत्तेः ।
यदि ह्येक आत्मोषस्तकहोलप्रश्नयोर्विवक्षितस्तत्रैकेनैव प्रश्नेनाधिगतत्वात्तद्विषयो द्वितोयः प्रश्नोऽनर्थकः स्यात् ।
न चार्थवादरूपत्वं वाक्यस्य ।
तस्माद्भिन्नावेतावात्मानौ क्षेत्रज्ञपरमात्माख्याविति केचिद्व्याचक्षते ।
तन्न ।
त इति प्रतिज्ञानात् ।
एष त आत्मेति हि प्रतिवचने प्रतिज्ञातम् ।
न चैकस्य कार्यकरणसंघातस्य द्वावात्मानावुपपद्येते ।
एको हि कार्यकरणसंघात एकेनाऽत्मनाऽत्मवान् ।
न चोषस्तस्यान्यः कहोलस्यान्यो जातितो भिन्न आत्मा भवति ।
द्वयोरगौणत्वात्मत्वसर्वान्तरत्वानुपपत्तेः ।
यद्येकमगौणं ब्रह्म द्वयोरितरेणवश्यं गौणेन भवितव्यं तथाऽत्मत्वं सर्वान्तरत्वं च ।
विरुद्धत्वात्पदार्थानाम् ।
यद्येकं सर्वान्तरं ब्रह्माऽत्मा मुख्य इतरेणासर्वान्तरेणानात्मनामुख्येनावश्यं भवितव्यम् ।
तस्मादेकस्यैव द्विःश्रवणं विशेषविवक्षया ।
यत्तु पूर्वोक्तेन समानं द्वितीये प्रश्नान्तर उक्तं तावन्मात्रं पूर्वस्यैवानुवादस्तस्यैवानुक्तः कश्चिद्विशेषो वक्तव्य इति ।
कः पुनरसौ विशेष इति ।
उच्यतेपूर्वस्मिन्प्रश्नेऽस्ति व्यतिरिक्त आत्मा यस्यायं सप्रयोजको बन्ध उक्त इति ।
द्वितीये तु तस्यैवाऽत्मनोऽशनायादिसंसारधर्मातीतत्वं विशेष उच्यते ।
यद्विशेषपरिज्ञानात्संन्याससहितात्पूर्वोक्ताद्वन्धनाद्विमुच्यते ।
तस्मत्प्रश्नप्रतिवचनयोरेष त आत्मेत्येवमन्तयोस्तुल्यार्थतैव ।
ननु कथमेकस्यैवाऽत्मनोऽशनायाद्यतीतत्वं तद्वत्वं चेति विरुद्धधर्मसमवायित्वमिति ।
न ।
परिहृतत्वात् ।
नामरूपविकरकार्यकरणलक्षणसंघातोपाधिभेदसंपर्कजनितभ्रान्तिमात्रं हि संसारित्वमित्यसकृदवोचाम ।
विरुद्धश्रतिव्याख्यानप्रसङ्गेन च ।
यथा रज्जुशुक्तिकागगनादयः सर्परजतमलिना भवन्ति पराध्यारोपितधर्मविशिष्टाः स्वतः केवला एव रज्जुशुक्तिकागगनादयः ।
न चैवं विरुद्धधर्मसमवायित्वे पदार्थानां कश्चन विरोधः ।
नामरूपोपाध्यस्तित्वे"एकमेवाद्वितीयम्" "नेह नानास्ति किञ्चन"इति श्रुतयो विरुध्येरन्निति चेत् ।
न ।
सलिलफेनदृष्टान्तेन परिहृतत्वान्मृदादिहष्टान्तैश्च ।
यदा तु परमार्थदृष्ट्या परमात
्मतत्त्वाच्छ्रत्यनुसारिभिरन्यत्वेन निरुप्यमाणे नामरूपे मृदादिविकारवद्वस्त्वन्तरे तत्त्वतो न स्तः सलिलफेनघटादिविकारवदेव तदा तदपेक्ष्यऽएकमेवाद्वितीयंऽनेह नानास्ति किञ्चने त्यदिपरमार्थदर्शनगोचरत्वं प्रतिपद्यते ।
यदा तु स्वाभाविक्याविद्यया ब्रह्मस्वरूपं रज्जुशुक्तिकागगनस्वरूपवदेव स्वेन रूपेण वर्तमानं केनचिदस्पृष्टस्वभावमपि सन्नामरूपकृतकार्यकरणोपाधिभ्यो विवेकेन नावधायते नामरूपोपाधिदृष्टिरेव च भवति स्वाभाविकी तदा सर्वोऽयं वस्त्वन्तरास्तित्वव्यवहारः ।
अस्ति चायं भेदकृतो मिथ्याव्यवहारो येषां ब्रह्मतत्त्वादन्यत्वेन वस्तु विद्यते येषां च नास्ति ।
परमार्थवादिभिस्तु श्रुत्यनुसारेण निरूप्यमाणे वस्तुनि किं तत्त्वतोऽस्ति वस्तु किंवा नास्तीति ब्रह्मैकमेवाद्वितीयं सर्वसंव्यहारशून्यमिति निर्धार्यते तेन न कश्चिद्विरोधः ।
नहि परमार्थावधारणनिष्ठायां वस्त्वन्तरास्तित्वं प्रतिपद्यामहे ।
"एकमेवाद्वितीयम्" "अनन्तरमबाह्यम्"इति श्रुतेः ।
न च नामरूपव्यवहारकाले त्वविवेकिनां क्रियाकारकफलादिसंव्यवहारो नास्तीति प्रतिषिध्यते ।
तस्माज्ज्ञानाज्ञाने अपेक्ष्य सर्वः संव्यवहारः ज्ञास्त्रीयो लौकिकश्च ।
अतो न काचन विरोधशङ्का ।
सर्ववादिनामप्यपरिहार्यः परमार्थसव्यवहारकृतो व्यवहारः ।
तत्र परमार्थात्मस्वरूपमपेक्ष्य प्रश्नः पुनः कतमो याज्ञवल्क्य सर्वान्तर इति ।
प्रत्याहेतरो योऽशनायापिपासो ।
अशितुमिच्छाशनाया पातुमिच्छा पिपासा ।
ते अशनायापिपासे योऽत्येतीति वक्ष्यमाणेन सम्बन्धः ।
अविवेकिभिस्तलमलवदिव गगनं गम्यमानमेव तलमले अत्येति परमार्थतस्ताभ्यामसंसृष्टस्वभावत्वात् ।
तथा मूढैरशनायापिपासादिमद्ब्रह्म गम्यमानमपि क्षुधितोऽहं पिपासितोऽहमिति ते अत्येत्येव परमार्थतस्ताभ्यामसंसृष्टस्वभावत्वात् ।
"न लिप्यते लोकदुःखेन बाह्यः"इति श्रुतेः ।
अविद्वल्लोकाध्यारोपितदुःखेनेत्यर्थः ।
प्राणैकधर्मत्वात्समासकरणमशनायापिपासयोः ।
शोकं मोहं शोक इति कामः ।
इष्टं वस्तूद्दिश्य चिन्तयतो यदरमणं तत्तृष्णाभिभूतस्य कामबीजं तेन हि कामो दीप्यते ।
मोहस्तु वपरीतप्रत्ययप्रभवोऽविवेको भ्रमः ।
स चाविद्या सर्वस्यानर्थस्य प्रसवबीजम् ।
भिन्नकार्यत्वात्तयोः शोकमोहयोरसमासकरणम् ।
तौ मनोधिकरणौ ।
तथा शरीराधिकरणौ जरां मृत्युं चात्येति ।
जरेति कार्यकरणसंघातविपरिणामो वलीपलितादिलिङ्गः ।
मृत्युरिति तद्विच्छेदो विपरिणामावसानः ।
तौ जरामृत्यू शरीराधिकरणावत्येति ।
ये तेऽशनायादयः प्राणमनःशरीराधिकरणाः प्राणिष्वनवरतं वर्तमाना अहोरात्रादिवत्समुद्रोर्मिवच्च प्राणिषु संसार इत्युच्यते ।
योऽसौ दृष्टेर्द्रष्टेत्यादिलक्षणः साक्षादव्यवहितोऽपरोक्षादगौणः सर्वान्तर आत्मा ब्रह्मादिस्तम्बपर्यन्तानां भूतानामशनायापिपासादिभिः संसारधर्मैः सदा न स्पृश्यत आकाश इव घनादिमलैः ।
तमेतं वा आत्मानं स्वं तत्त्वं विदित्वा ज्ञात्वायमहमस्मि परं ब्रह्म सदा सर्वसंसारविनिर्मुक्तं नित्यतृप्तमिति ब्राह्मणाः ।
ब्राह्मणानामेवाधिकारो व्युत्थानेऽतो ब्राह्मणग्रहणम् ।
व्युत्थाय वैपरीत्येनोत्थानं कृत्वा ।
कुत इत्याहपुत्रैषणायाः पुत्रार्थैषणा पुत्रैषणा ।
पुत्रेणेमं लोकं जयेयमिति लोकजयसाधनं पुत्रं प्रतीच्छैषणा दारसंग्रहः ।
दारसंग्रहमकृत्वेत्यर्थः ।
वित्तैषणायाश्च कर्मसाधनस्य गवादेरुपादानमनेन कर्म कृत्वा पितृलोकं जेष्यामीति विद्यासंयुक्तेन वा देवलोकं केवलया वा हिरण्यगर्भविद्यया दैवेन वित्तेन देवलोकम् ।
दैवाद्वित्ताद्व्युत्थानमेव नास्तीति केचित् ।
यस्मात्तद्वलेन हि किल व्युत्थानमिति ।
तदसत् ।
एतावान्वै काम इति पठितत्वादेषणामध्ये दैवस्य वित्तस्य ।
हिरण्यगर्भादिदेवाताविषयैव विद्या चित्तमित्युच्यते ।
देवलोकहेतुत्वात् ।
नहि निरुपाधिकप्रज्ञानघनविषया ब्रह्मविद्या देवलोकप्राप्तिहेतुः ।
"तस्मात्तत्सर्वमभवत्" "आत्मा ह्येषां स भवति"इति श्रुतेः ।
तद्बलेन हि व्युत्थानम् ।
"एतं वै तमात्मानं विदित्वा"इति विशेषवचनात् ।
तस्मात्त्रिभ्योऽप्यतेभ्योऽनात्मलोकप्राप्तिसाधनेभ्य एषणाविषयेभ्यो व्युत्थाय ।
एषणा कामः"एतावान्वै कामः"इति श्रुतेः ।
एतस्मिस्त्रिविधेऽनात्मलोकप्राप्तिसाधने तृष्णामकृत्वेत्यर्थः ।
सर्वा हि साधनेच्छा फलेच्छैव ।
अतो व्याचष्टेश्रुतिरेकैवैषणेति ।
कथम्? या ह्येव पुत्रैषणा सा वित्तैषणा ।
दृष्टफलसाधनत्वतुल्यत्वात् ।
या वित्तैषणा सा लोकैषणा फलार्थैव सा ।
सर्वः फलार्थप्रयुक्त एव हि सर्वं साधनमुपादत्ते ।
अत एकैवैषणा या लोकैषणा सा साधनमन्तरेण सम्पादयितुं न शक्यत इति साध्यसाधनभेदेनोभे हि यस्मादेते एषणे एव भवतः ।
तस्माद्ब्रह्मविदो नास्ति कर्म कर्मसाधनं वा ।
अतो येऽतिक्रान्ता ब्राह्मणाः सर्व कर्म कर्मसाधनं च सर्व देवपितृमानुषनिमित्तं यज्ञोपवीतादि तेन हि दैवं पित्र्यं मानुषं च कर्म क्रियते"निवीतं मनुष्याणाम्"इत्यादिश्रुतेः ।
तस्मात्पूर्व ब्राह्मणा ब्रह्मविदो व्युत्थाय कर्मभ्यः कर्मसाधनेभ्यश्च यज्ञोपवीतादिभ्यः परमहंसपारिव्राज्यं प्रतिपद्य भिक्षाचर्य चरन्ति भिक्षार्थ चरणं भिक्षाचर्य चरन्ति त्यक्त्वा स्मार्त लिङ्गं केवलमाश्रममात्रशरणानां जीवनसाधनं परिव्राज्यव्यञ्जकम् ।
विद्धांल्लिङ्गवर्जितः ।
"तस्मादलिङ्गो धर्मज्ञोऽव्यक्तलिङ्गोऽव्यक्ताचारः"इत्यादिस्मृतिभ्यः ।
"अथ परिव्र डविवर्णवासा मुण्डोऽपरिग्रहः" इत्यादिश्रुतेः ।
"सशिखान्केशान्निकृत्य विसृज्य यज्ञोपवीतमि"ति च ।
ननु व्युत्थायाथ भिक्षाचर्य चरन्तीति वर्तमानापदेशादर्थवादोऽयं न विधायकः प्रत्ययः कश्चिच्छ्रूयते लिङ्लोट्तव्यानामन्यतमोऽपि ।
तस्मादर्थवादमात्रेण श्रुतिस्मृतिविहितानां यज्ञोपवीतादोनां साधनानां न शक्यते परित्यागः कारयितुम् ।
यज्ञोपवीत्येवाधयीत याजयेद्यजेत वा ।
पारिव्राज्ये तावदध्ययनं विहितम् "वेदसंन्यसनाच्छूद्रस्तस्माद्वेदं न संन्यसेत्"इति ।
"स्वाध्याय एवोत्सृजमानो वाचम्"इति चाऽपस्तम्बः ।
"ब्रह्मोज्झं वेदनिन्दा च कौटसाक्ष्यं सुहृद्वधः ।
गर्हितान्नाद्ययोर्जग्धिः सुरापानसन्नि षट्" ॥
इति वेदपरित्यागे दोषश्रवणात् ।
"उपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीती स्यादि"ति परिव्राजकधर्मेषु च गुरूपासनस्वाध्यायभोजनाचमानादीनां कर्मणां श्रुतिस्मृतिषुकर्तव्यतया चोदितत्वाद्गुर्वाद्युपासनाङ्गत्वेन यज्ञोपवीतस्य विहितत्वात्तत्परित्यागो नैवावगन्तुं शक्यते ।
यद्यप्येषणाभ्यो व्युत्थानं विधीयत एव तथापि पुत्राद्येषणाभ्यस्तिसृभ्य एव व्युत्थानं न तु सर्वस्मात्कर्मणः कर्मसाधनाच्च व्युत्थानम् ।
सर्वपरित्यागे चाश्रुतं कृतं स्याच्छुतं च यज्ञोपवीतादि हापितं स्यात् ।
तथा च महानपराधो विहिताकरणप्रतिषिद्धाचरणनिमित्तः कृतः स्यात् ।
तस्माद्यज्ञोपवीतादिलिङ्गपरित्यागोऽन्धपरम्परैव ।
न ।
"यज्ञोपवीतं वेदांश्च सर्व तद्वर्जयेद्यतिः"इति श्रुतेः ।
अपि चाऽत्मज्ञानपरत्वात्मर्वस्या उपनिषदः ।
आत्मा द्रष्टव्यः श्रोतव्यो मन्तव्य इति हि प्रस्तुतं स चाऽत्मैव साक्षादपरोक्षात्सर्वान्तरोऽशनायादिसंसारधर्मवर्जित इत्येवं विज्ञेय इति तावत्प्रसिद्धम् ।
सर्वा हीयमुपनिषदेवंपरेति विध्यन्तरशेषत्व तावन्नास्त्यतो नार्थवादः ।
आत्मज्ञानस्य कर्तव्यत्वात् ।
आत्मा चाशनायादिधर्मवान्न भवतीति साधनफलविलक्षणो ज्ञातव्यः ।
अतेऽव्यतिरेकेणाऽत्मनो ज्ञानमविद्या ।
"अन्योऽसावन्योऽहमस्मीति न स वेद" "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति""एकधैवानुद्रष्टव्यम्""एकमेवाद्वितीयम्" "तत्त्वमसि"इत्यादिश्रुतिभ्यः ।
क्रियाफलं साधनं चाशनायादिसंसारधर्मातीतादात्मनोऽन्यदविद्याविषयम् ।
"यत्र हि द्वैतमिव भवति" "अन्योऽसावन्योऽहमस्मीति न स वेद" "अथ येऽन्यथातो विदुः"इत्यादिवाक्यशतेभ्यः ।
न च विद्याविद्ये एकस्य पुरुषस्य यह भवतो विरोधात्तमः प्रकाशाविव ।
तस्मादात्मविदोऽविद्याविषयोऽधिकारो न द्रष्टव्यः क्रियाकारकफलभेदरूपः ।
"मृत्योः स मृत्युमाप्नोति"इत्यादि निन्दितत्वात् ।
सर्वक्रियासाधनफलानां चाविद्याविषयाणां तद्विपरीतात्मविद्यया हातव्यत्वेनेष्टत्वात् ।
यज्ञोपवीतादिसाधनानां च तद्विषयत्वात् ।
तस्मादसाधनफलस्वभावादात्मनोऽन्यविषया विलक्षणैषणा ।
उभे ह्येते साधनफले एषणे एव भवतः ।
यज्ञोपवीतादेस्तत्साध्यकर्मणां च साधनत्वात् ।
उभे ह्येते एषणे एवेति हेतुवचनेनावधारणात् ।
यज्ञोपवीतादिसाधनात्तत्साध्येभ्यश्च कर्मभ्योऽविद्याविषयत्वादेषणारूपत्वाच्च जिहासितव्यरूपत्वाच्च व्युत्थानं विधित्सितमेव ।
ननु उपनिषद आत्मज्ञानपरत्वाद्व्युत्थानश्रुतिः तत्स्तुत्यर्था, न विधिः ।
न॑विधित्सितविज्ञानेन समानकर्तृकत्वश्रवणात् ।
न हि अकर्तव्येन कर्तव्यस्य समानकर्तृकत्वेन वेदे कदाचिदपि श्रवणं सम्भवति॑कर्तव्यानामेव हि अभिपवबहोमभक्षाणां यथा श्रवणम्, अभिपुत्य हुत्वा भक्षयन्तीति, तद्वदात्मज्ञानैषणाव्युत्थानभिक्षाचर्याणां कर्तव्यानामेव समानकर्तृकत्वश्रवणं भवेत् ।
अविद्याविषयत्वादेषणात्वाच्च अर्थप्राप्त आत्मज्ञानविधेरेव यज्ञोपवीतादिपरित्यागः, न तु विधातव्य इति चेत्!सुतरामात्मज्ञानविधिनैव विहितस्य समानकर्तृकत्वश्रवणेन दार्ढ्येपपत्तिः, तथा भिक्षाचर्यस्य च ।
यत्पुनरुक्तं वर्तमानापदेशादर्थवादमात्रमिति न, औदुम्बरयूपादिविधिसमानत्वाददोषः ।
ऽव्युत्थाय भिक्षाचर्यं चरन्तिऽइत्यनेन पारिव्राज्यं विधीयते, पारिव्राज्याश्रमे च यज्ञोपवीतादिसाधनानि विहितानि, लिङ्गं च श्रुतिभिः स्मृतिश्च ।
अतस्तद्वर्जयित्वा अन्यस्माद्व्युत्थानमेषणात्वेऽपीति चेत्? न, विज्ञानसमानकर्तृकात्पारिव्राज्यादेषणाव्युत्थानलक्षणात्पारिव्राज्यान्तरोपपत्तेः॑यद्धि तदेषणाभ्यो व्युत्थानलक्षणं पारिव्राज्यं तदात्मज्ञानाङ्गम्, आत्मज्ञानविरोध्येषणापरित्यागरूपत्वात्, अविद्याविषयत्वाच्चैषणायाः, तद्व्यतिरेकेण चास्त्याश्रमरूपं पारिव्राज्यं ब्रह्मलोकादिफलप्राप्तिसाधनम्, यद्विषयं यज्ञोपवीतादिसाधनविधानं सिङ्गविधानं च ।
न च एषणारूपसाधनापादानस्य आश्रमधर्ममात्रेण पारिव्राज्यान्तरे विषये सम्भवति सति, सर्वोपनिषद्विहितस्य आत्मज्ञानस्य बाधनं युक्तम्, यज्ञोपवीताद्यविद्याविषयैषणारूपसाधनोपादित्सायां चावश्यमसाधनफलरूपस्य अशनायादिसंसारधर्मवर्जितस्य अहं ब्रह्मास्मि, इथि विज्ञानं बाध्यते, न च तद्राधनं युक्तम्. सर्वोपनिषदां तदर्थपरत्वात् ।
ऽभिक्षाचर्यं चरन्तिऽइत्येषणां ग्राहयन्ती श्रुतिः स्वयमेव बाधत इति चेत्? अथापि स्यादेषणाभ्यो व्युत्थानं विधाय पुनरेषणकदेशं भिक्षाचर्यग्राहयन्ती तत्सम्बद्धमन्यदपि ग्राहयतीति चेत्? न, भिक्षाचर्यस्याप्रयोजकत्वाधुत्वोत्तरकालभक्षणात् ।
शेषप्रतिपत्तिकर्मत्वादप्रयोजकं हि तत्, असंस्कारमपि स्यात्, न तु भिक्षाचर्यम्॑नियमादृष्टस्यापि ब्रह्मविदोऽनिष्टत्वात् ।
नियमादृष्टस्यानिष्टत्वे किं भिक्षाचर्येणेति चेत्! न, अन्यसाधनाद्व्युत्थानस्य विहितत्वात् ।
तथापि किं तेनेति चेत्? यदि स्यात्, बाधमभ्युपगम्यते हि तत् ।
यानि पारिव्राज्येऽभिहितानि वचनानिऽयज्ञोपवीत्येवाधीयीतऽइत्यादीनि, तान्यविद्वत्पारिव्राज्यमात्रविषयाणीति परिहृतानि॑ितरथा आत्मज्ञानबाधः स्यादिति ह्युक्तम्,"निराशिषमनारम्भं निर्नमस्तारमस्तुतिम् ।
अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणे विदुः"इति सर्वकर्माभावं दर्शयति स्मृतिर्विदुषः,"विद्वांलिङ्गो धर्मज्ञः"इति च ।
तस्मात्परमहंसपारिव्राज्यमेव व्युत्थानलक्षणं प्रतिपद्येतात्मवित्सर्वकर्मसाधनपरित्यागरूपमिति ।
यस्मात्पूर्वे ब्राह्मणा एतमात्मानमसाधनफलस्वभावं विदित्वा सर्वस्मात्साधनफलस्वरूपादेषणालक्षणाद्व्युत्थाय भिक्षाचर्यं चरन्ति स्म, दृष्टादृष्टार्थं कर्म तत्साधनं च हित्वा, तस्मादद्यत्वेऽपि ब्राह्मणो ब्रह्मवित्पाण्डित्यं पण्डितभावम्, एतदात्मविज्ञानं पाण्डित्यम्, निर्विद्य निःशेषं विदित्वा आत्मविज्ञानं निरवशेषं कृत्वेत्यर्थः आचार्यत आगमतश्च, एषणाभ्यो व्युत्थायएषणाव्युत्थानावसानमेव हि तत्पाण्डित्यमेषणातिरस्कारोद्भवत्वादेषणाविरुद्वत्वात्॑ेषणामतिरस्कृत्य न ह्यात्मज्ञानेनैव विहितमेषणाव्युत्थानम्
आत्मज्ञानसमानकर्तृकत्वाप्रत्ययोपादानलिङ्गश्रुत्याद्दढीकृतम् ।
तस्मादेपणाभ्यो व्युत्थाय ज्ञानबनभावेन बाल्येन तिष्ठासेत्स्थातुमिच्छेत् ।
साधनफलाश्रयणं हि बलमितरेषामनात्मविदाम्, तद्बलं हित्वा विद्वानसाधनफलस्वरूपात्मविज्ञानमेव बलं तद्भावमेव केवलमाश्रयेत्, तदाश्रयणे हि करणान्येषणाविपये एनं ह्रत्वा स्थापयितुं नीत्सहन्ते॑ज्ञानबलहीनं हि मूढंद्दष्टादृष्टविषयायामेषणायामेवैनं करणानि नियोजयन्ति॑बलं नाम आत्मविद्ययाशेषविषयदृष्टितिरस्करणम्॑तस्तद्भावेन बाल्येन तिष्ठासेत्॑तथा"आत्मना बिन्दते वीर्यम्"इति श्रुत्यन्तरात् ।
"नायमात्मा बलहीनेन लभ्यः"इति च ।
बाल्यं च पाण्डित्यं च निर्विद्य निःशेषं कृत्वाथ मननान्मुनिर्योगी भवति॑ेतावद्वि ब्राह्मणेन कर्तव्यम्, यदुत सर्वानात्मप्रत्ययतिरस्करणम्॑ेतत्कृत्वा कृतकृत्यो योगी भवति ।
अमौनं च आत्मज्ञानानात्मप्रत्ययतिरस्कारौ पाण्डित्यबाल्यसंज्ञकौ निःशेषं कृत्वा, मौनं नाम अनात्मप्रत्ययतिरस्करणस्य पर्थवसानं फलम्, तच्च निर्विद्याथ ब्राह्मणः कुतकृत्यो भवतिब्रह्मैव सर्वमिति प्रत्यय उपजायते ।
स ब्राह्मणः कुतकृत्यः, अतो ब्राह्मणः, निरूपचरितं हि तदा तस्य ब्राह्मण्यं प्राप्तम्॑केन स्यात्केन चरणेन भवेत्? येन स्याद्येन चरणेन भवेत्, तेनेदृश एवायम्येन केनचिच्चरणेन स्यात्तेनेदृश एव उक्तलक्षण एव ब्राह्मणो भवति॑येन केनचिच्चरणेनेति स्तुत्यर्थम्येयं ब्राह्मण्यावस्था सेयं स्तूयते, न तु चरणेऽनादरः ।
अत एतस्माद्ब्राह्मण्यावस्थानाद अशनायाद्यतीतात्मस्वरूपाद्नित्यतृप्तादन्यदविद्याविपयमेषणालक्षणं वस्त्वन्तरम्, आर्त विनाशि आर्तिपरिगृहीतम्, स्वप्नमायामरीच्युदकसममसारम्, आत्मैवाकः केवलो नित्यमुक्त इति ।
ततो ह कहोलः कौपातकेयः उपरराम ॥१॥

यत्साक्षादपरोक्षाद्ब्रह्म सर्वन्तर आत्मेत्युक्तम्, तस्य सर्वान्तरस्य स्वरूपाधिगमाय आ शाकल्यब्राह्मणाद्ग्रन्थ आरभ्यते ।
पृथिव्यादीनि ह्याकाशान्तानि भूतानि अन्तर्वहिर्भावेन व्यवस्थितानि॑तेषां यद्बाह्यं बाद्यमविगम्याधिगम्य निराकुर्वन् द्रष्टुः साक्षात्सर्वान्तरोऽगौण आत्मा सर्वसंसारधर्मविनिर्मुक्तो दर्शयितव्य इत्यारम्भः



_______________________________________________________________________

३,६.१

अथ हैनं गार्गी वाचक्नवी पप्रच्छ याज्ञवल्क्येति होवाच ।
यदिदं सर्वमप्स्वोतं च प्रोतं च कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति ।
वायौ गार्गीति ।
कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति ।
अन्तरिक्षलोकेषु गार्गीति ।
कस्मिन्नु खल्वन्तरिक्षलोका ओतश्च प्रोतश्चेति ।
गन्धर्वलोकेषु गार्गीति ।
कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति ।
अदित्यलोकेषु गार्गीति ।
कस्मिन्नु खल्वादित्यलोका ओताश्च प्रोताश्चेति ।
चन्द्रलोकेषु गार्गीति ।
कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति ।
नक्षत्रलोकेषु गार्गीति ।
कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति ।
देवलोकेषु गार्गीति ।
कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति ।
इन्द्रलोकेषु गार्गीति ।
कस्मिन्नु खल्विन्द्रलोका ओताश्च प्रोताश्चेति ।
प्रजापतिलोकेषु गार्गीति ।
कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति ।
ब्रह्मलोकेषु गार्गीति ।
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति ।
स होवाच गार्गि मातिप्राक्षीः ।
मा ते मूर्धा व्यपप्तत् ।
अनतिप्रश्न्यां वै देवतामतिपृच्छसि ।
गार्गि मातिप्राक्षीरिति ।
ततो ह गार्गी वाचक्नव्युपरराम ॥ _३,६.१ ॥
__________


शा.भा._३,६.१ अथ हैनं गार्गी नामतः, वाचक्नवीवचक्रोर्दुहिता, पप्रच्छ॑याज्ञवल्क्येति होवाच॑यदिदं सर्वं पार्थिवं धातुजातमप्सूदके ओतं च प्रोतं च, ओतं दीर्घपटतन्तुवत्प्रोतं तिर्यक्तन्तुवद्विपरीतं वाअद्भिः सर्वतोऽन्तर्बहिर्भूताभिर्व्याप्तमित्यर्थः, अन्यथा सक्तुमुष्टिवद्विशीर्येत ।
इदं तावदनुमानमुपन्यस्तम्यत्कार्यं परिच्छिन्नं स्थूलम्, कारणेनापरिच्छिन्नेन सूक्ष्मेण व्याप्तमितिद्दष्टम्यथा पृथिवी अद्भिः, तथापूर्वं पूर्वमुत्तरेणोत्तरेण व्यापिना भवितव्यम्, इत्येष आ सर्वान्तरादात्मनः प्रश्नार्थः ।
तत्र भूतानि पञ्च संहतान्येवोत्तरमुत्तरं सूक्षमभावेन व्यापकेन कारणरूपेण च व्यवतिष्ठन्ते, न च परमात्मनोर्ऽवाक्तद्वयतिरेकेणवस्त्वन्तरमस्ति"सत्यस्य सत्यम्"इति श्रुतेः ।
सत्यं च भूतपञ्चकं सत्यस्य सत्यं च पर आत्मा ।
कस्मिन्नु खल्वाप ओताश्चप्रोताश्चेतितासामपि कार्यत्वात्स्थूलत्वात्परिच्छिन्नत्वाच्च कचिद्वि ओतप्रोतभावेन भवितव्यम्॑क्व तासामेतयोतभाव इति ।
एवमुतरोत्तरप्रक्षणसङ्गोयोजयितव्यः ।
वायौ गार्गीति ।
नन्वग्नाविति वक्तव्यम्!नैप दोषः, अग्नेः पार्थिवं वा आप्यं वा धातुमनाश्रित्य इतरभूतवत्स्वातन्त्र्येण आत्मलाभो नास्तीति तस्मिन्नोतप्रोतभावो नोपदिश्यते ।
कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेत्यन्तरिक्षलोकेषु गार्गीति तान्येव भूतानि संहतान्यन्तरिक्षलोकाः, तान्यपि गन्धर्वलोकेषु, गन्धर्वलोका आदित्यलोकेषु, आदित्यलोकाश्चन्द्रलोकेषु, चन्द्रलोका नक्षत्रलोकेषु, नक्षत्रलोका देवलोकेषु, देवलोका इन्द्रलोकेषु, इन्द्रलोका विराट्शरीरारंमकेषु भूतेषु प्रजापतिलोकेषु, प्रजापतिलोका ब्रह्मलोकेषु ।
ब्रह्मलोका नाम अण्डारंमकाणि भूतानि॑सर्वत्र हि सूक्ष्मतारतम्यक्रमेण प्राप्युभोगाश्रयाकारपरिणतानि भूतानि संहतानि तान्येव पञ्चेति बहुवचनमाञ्जि ।
कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेतिस होवाच याज्ञवल्क्यो हे गार्गी मातिप्राक्षीः स्वं प्रश्नम्, न्यायप्रकारमतीत्य आगमेन प्रष्टब्यां देवतामनुमानेन मा प्राक्षीरित्यर्थः, पृच्छन्त्याश्च मा ते तव मूर्धा शिरो व्यपतद्विस्पष्टं पतेत्॑देवतायाः स्वप्रश्न आगमविषयः॑तं प्रश्नविषयमतिक्रान्तो गार्ग्याः प्रश्नः॑ानुमानिकत्वात्स यस्या देवतायाः प्रश्नः सातिप्रश्न्या, नातिप्रश्न्यानतिप्रश्न्या, स्वप्रश्रविषयैव, केवलागमगम्येत्यर्थः, तामनतिप्रश्न्यां वै देवतामतिपृच्छसि ।
अतो गार्गि मातिप्राक्षीः, मर्तुं चेन्नेच्छसि ।
ततो ह गार्गी वाचक्नवी उपरराम ॥१॥

इति तृतीयाध्याये षष्ठं गार्गीब्राह्मणम् ॥६॥

इदानीं ब्रह्मलोकानामन्तरतमं सूत्रं व क्तव्यमिति तदर्थ आरम्भः, तच्च आगमेनैव प्रष्टव्यमितीतिहासेन आगमोपन्यासः क्रियते



_______________________________________________________________________

३,७.१

अथैनमुद्दालक आरुणिः पप्रच्छ याज्ञवल्क्येति होवाच ।
मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानाः ।
तस्यासीद्भार्या गन्धर्वगृहीता ।
तमपृच्छाम कोऽसीति ।
सोऽब्रवीत्कबन्ध आथर्वण इति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति ।
सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन् वेदेति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च ।
वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति ।
सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन् वेदेति ।
सोऽब्रवीत्पतञ्चलं काप्यं याज्ञिकांश्च ।
यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणमिति स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स आत्मवित्स सर्ववित् ।
इति तेभ्योऽब्रवीत् ।
तदहं वेद ।
तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा ते विपतिष्यति ।
वेद वा अहं गौतम तत्सूत्रं तं चान्तर्यामिणमिति ।
यो वा इदं कश्च ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति ॥ _३,७.१ ॥

__________


शा.भा._३,७.१ अथ हैनमुद्दालको नामतः, अरुणस्यापत्यमारुणिः पप्रच्छ॑याज्ञवल्क्येति होवाच॑मद्रेषु देशेष्ववसामोषितवन्तः, पतञ्चलस्यपतञ्चलो नामतस्तस्यैव कपिगोत्रस्य काप्यस्य गृहेषु यज्ञमधीयाना यशशास्त्राध्ययनं कुर्वाणाः ।
तस्यासीद्भार्या गन्धर्वगृहीता॑तमपृच्छामकोऽसीति॑सोऽब्रवीत्कबन्धो नामतः, अथर्वणोऽपत्यमाथर्वण इति ।
सोऽब्रवीद्गान्धर्वः पतञ्चलं काप्यं याज्ञिकांश्च तच्छिप्यान्वेत्थ नु त्वं हे काप्य जानीषे तत्सूत्रम्? किं तत्? येन सूत्रेणायं च लेक इदं च जन्म, परश्च लोकः परं च प्रतिपत्तव्यं जन्म, सर्वाणि च भूतानि ब्रह्मादिस्तम्बपर्यन्तानि, सन्दृब्धानि सङ्ग्रथितानि स्रगिव सूत्रेण विष्टब्धानि भवन्ति येनतत्किं सूत्रं वेत्थ? सोऽब्रवीदेवं पृष्टः काप्यःनाहं तद्भगवन् वेदेति, तत्सूत्रं नाहं जाने हे भगवन्निति सम्पूजयन्नाह ।
सोऽब्रवीत्पुनर्गन्धर्व उपाध्यायमस्मांश्चवेत्थ न त्वं काप्य तमन्तर्यामिणम्? अन्तर्यामीति विशेष्यतेय इमं च लोकं परं च लोकं सर्वाणि च भूतानि योऽन्तराभ्यन्तरः सन् यमयति नियमयति, दारुयन्त्रमिव ब्रामयति, स्वं स्वमुचितव्यापारं कारयतीति ।
सोऽब्रवीदेवमुक्तः पतञ्चलः काप्यःनाहं तं जाने भगवन्निति सम्पूजयन्नाह ।
सोऽब्रवीत्पुनर्गन्धर्वः॑सूत्रतदन्तर्गतान्तर्यामिणोर्विज्ञानं स्तूयतेयः कश्चिद्वै तत्सूत्रं हे काप्य बविद्याद्विजानीयात्तं चान्तर्यामिणं सूत्रान्तर्गतं तस्यैव सूत्रस्य नियन्तारं विद्यात्यःित्येवमुक्तेन प्रकारेण, स हि ब्रह्मवित परमात्मवित्स लोकांश्च भूरादीनन्तर्यामिणा नियम्यमानांल्लोकान् वेत्ति, स देवांश्चाग्न्यादींल्लोकिनो जानाति, वेदांश्च सर्वप्रमाणभूतान् वेत्ति, भूतानि च ब्रह्मादीनि सूत्रेण धियमाणानि तदन्तर्गतेनान्तर्यामिणा नियम्यमानानि वेत्ति, स आत्मानं च कर्तृत्वभोक्तृत्वविशिष्टं तेनैवान्तर्यामिणा नियम्यमानं वेत्ति, सर्वं च जगत तथाभूतं वेत्तीति ।
एवं स्तुते सूत्रान्तर्यामिविज्ञाने प्रलुब्धः काप्योऽभिमुखीभूतः, वयं च॑तेभ्यश्चास्मभ्यमभिमुखीभूतेभ्योब्रवीद्गन्धर्वः सूत्रमन्तर्यामिणं च॑तदहं सूत्रानितर्यामिविज्ञानं वेद गन्धर्वाल्लब्धागमः सन् ।
तच्चेद्याज्ञवल्क्य सूत्रं तं चान्तर्यामिणमविद्वांश्चेब्रह्मवित्सन् यदि ब्रह्मगवीरुदजतसे ब्रह्मविदां स्वभूता गा उदजसे उन्नयसि त्वमन्यायेन, ततो मच्छापदग्धस्य मूर्धा शिरस्ते तव विस्पष्टं षतिष्यति ।
एवमुक्तो याज्ञवल्क्य आहवेद जानाम्यहं हे गौतमेति गोत्रतः, तत्सूत्रं यद्गन्धर्वस्तुभ्यमुक्तवान् यं चान्तर्यामिणं गन्धर्वाद्विदितवन्तो यूयम्, तं चान्तर्यामिणं वेदाहमिति ।
एवमुक्तो प्रत्याह गौतमःयः कश्चित्प्राकृत इदं यत्तवयोक्तं ब्रूयात्कथम्? वेद वेदेतिआत्मानं श्लाघयन्, किं तेन गर्जितेन कार्येण दर्शय॑यथा वेत्य तथा ब्रूहीति ॥१॥



_______________________________________________________________________

३,७.२

स होवच वायुर्वै गौतम तत्सूत्रम् ।
वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति ।
तस्माद्वै गौतम पुरुषं प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति ।
वायुना हि गौतम सूत्रेण सम्दृब्धानि भवन्तीति ।
एवमेवैतद्याज्ञवल्क्य ।
अन्तर्यामिणं ब्रूहीति ॥ _३,७.२ ॥

__________


शा.भा._३,७.२ स होवाच याज्ञवल्क्यः ।
ब्रह्मलोका यस्मिन्नोताश्च प्रोताश्च वर्तमानेकाले, यथा पृथिव्यप्सु, तत्सूत्रमागमगम्यं वत्तव्यमिति तदर्थं प्रश्नान्तरमुत्थापितम्॑तस्तन्निर्णयायाहवायुर्वै गौतम तत्सूत्रम्, नान्यत्॑वायुरिति सूक्ष्ममाकाशवद्विष्टम्भकं पृथिव्यादीनाम्, यदात्मकं सप्तदशविधं लिङ्गं कर्मवासनासमवायि प्राणिनाम्, यत्तत्समष्टिव्यष्ट्यात्मकम्, यस्य बाह्या मेदाः सप्तसप्त मरुद्रणाः समुद्रस्येवोर्मयः, तदेतद्वायव्यं तत्त्वं सूत्रामित्यभिधीयते ।
वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति सङ्प्रथितानि भवन्तीति प्रसिद्धमेतत् ।
अस्ति च लोके प्रसिद्धिः, कथम्? यस्माद्वायुः सूत्रम्, वायुना विधृतं सर्वम्, तस्माद्वै गौतम पुरुषं प्रेतमाहुः कथयन्ति व्यस्रंसिपत विस्रस्तान्यस्यपुरुषस्याङ्गानीति॑सूत्रापगमे हि मण्यादीनां प्रोतानि यद्यस्याङ्गानि स्युस्ततो युक्तमेतद्वाय्वपगमेऽवस्रंसनमङ्गानामतो वायुना हि गौतम सूत्रेण सन्दृब्धानि भवन्तीति निगमयति ।
एवमेवैतद्याज्ञवल्क्य सम्यगुक्तं सूत्रम्॑तदन्तर्गतं त्विदानीं तस्यैव सूत्रस्य नियन्तारमन्तर्यामिणं ब्रूहीत्युक्त आह ॥२॥



_______________________________________________________________________

३,७.३

यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.३ ॥

__________


शा.भा._३,७.३ यः पृथिव्यां तिष्ठन् भवति, सोऽन्तर्यामी, सर्वः पृथिव्यां तिष्ठतीति सर्वत्र प्रसङ्गो मा भूदिति विशिनष्टि पृथिव्या अन्तरोऽभ्यन्तरः ।
तत्रैतत्स्यात्पृथिवीदेवतैव अन्तर्यामीत्यत आह यमन्तर्यामिणं पृथिवी देवतापि न वेद मय्यन्यः कश्चिद्वर्तत इति ।
यस्य पृथिवी शरीरम्यस्य च पृथिव्येव शरीरम्, नान्यत्पृथिवीदेवताया यच्छरीरम्, तदेव शरीरं यस्य, शरीरग्रहणं चोपलक्षणार्थम्, करणं च पृथिव्याः, तस्य स्वकर्मप्रयुक्तं हि कार्यं च पृथिवीदेवतायाः, तदस्य स्वकर्माभावादन्तर्यामिणो नित्यमुक्तत्वात् ।
परार्थकर्तव्यतास्वभावत्वात्परस्य यत्कार्यं करणं च तदेवास्य, न स्वतः, तदाहयस्य पृथिवी शरीरमिति ।
देवताकार्यकरणस्येश्वरसाक्षिमात्रसान्निध्येन हि नियमेनप्रवृत्तिनिवृत्ती स्याताम्॑य ईदृगीश्वरो नारायणाख्यः, पृथिर्वी पृथिवीदेवताम्, यमयति नियमयति स्वव्यापारे, अन्तरोऽभ्यन्तरस्तिष्ठन्, एष त आत्मा, ते तव, मम च सर्वभूतानां चेत्युपलक्षणार्थमेतत्॑न्तर्यामी यस्त्वयापृष्टः, अमृतः सर्वसंसारधर्मवर्जित इत्येतत् ॥३॥



_______________________________________________________________________

३,७.४१४

योऽप्सु तिष्ठन्नद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.४ ॥


योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.५ ॥


योऽन्तरिक्षे तिष्ठन्नन्तरिक्षादन्तरो यमन्तरिक्षं न वेद यस्यान्तरिक्षं शरीरं योऽन्तरिक्षमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.६ ॥


यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.७ ॥

यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद यस्य द्यौः शरीरं यो दिवमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.८ ॥


य आदित्ये तिष्ठन्नादित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.९ ॥


यो दिक्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.१० ॥


यश्चन्द्रतारके तिष्ठञ्चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.११ ॥


य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.१२ ॥


यस्तमसि तिष्ठंस्तमसोऽन्तरो यं तमो न वेद यस्य तमः शरीरं यस्तमोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.१३ ॥


यस्तेजसि तिष्ठंस्तेजसोऽन्तरो यं तेजो न वेद यस्य तेजः शरीरं यस्तेजोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.१४ ॥

__________


शा.भा._३,७.४१४ समानमन्यत् ।
योऽप्सु तिष्ठनग्नौ, अन्तरिक्षे, वायौ, दिवि, आदित्ये, यस्तमस्यावरणात्मके बाह्ये तमसि, तेजसि तद्विपरीते प्रकाशसामान्ये इत्येवमधिदैवतमन्तर्यामिविषयं दर्शनं देवतासु ।
अथाधिभूतं भूतेषु ब्रह्मदिस्तम्बपर्यन्तेषु अन्तर्यामिदशनमधिभूतम् ॥ ४ १४ ॥



_______________________________________________________________________

३,७.१५२३

अथाधिभूतम् ।
यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भुतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ।
इत्यधिभूतम् ॥ _३,७.१५ ॥

अथाध्यात्मम् । यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति एष त आत्मान्तर्याम्यमृतः ॥ _३,७.१६ ॥


यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.१७ ॥


यश्चक्षुषि तिष्ठञ्चक्षुषोऽन्तरो यं चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.१८ ॥


यः श्रोत्रे तिष्ठञ्छ्रोत्रादन्तरो यं श्रोत्रं न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.१९ ॥


यो मनसि तिष्ठन्मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.२० ॥


यस्त्वचि तिष्ठंस्त्वचोऽन्तरो यं त्वङ्न वेद यस्य त्वक्शरीरं यस्त्वचमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.२१ ॥


यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद यस्य विज्ञानं शरीरं यो विज्ञानमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ॥ _३,७.२२ ॥


यो रेतसि तिष्ठं रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोऽन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः ।
अदृष्टो द्रष्टाश्रुतः श्रोतामतो मन्ताविज्ञतो विज्ञाता ।
नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति श्रोता नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति विज्ञाता ।
एष त आत्मान्तर्याम्यमृतः ।
अतोऽन्यदार्तम् ।
ततो होद्दालक आरुणिरुपरराम ॥ _३,७.२३ ॥

__________


शा.भा._३,७,१५२३ अथाध्यात्मम्यः प्राणे प्राणवायुसहिते घ्राणे, यो वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने, बुद्वौ, रेतसि प्रजनने ।
कस्मात्पुनः कारणात्पृथिव्यादिदेवता महाभागाः सत्यो मनुष्यादिवदातमनि तिष्ठन्तमात्मनो नियन्तारमन्तर्यामिणं न विदुरित्यत आहअदृष्टेनद्दष्टो न विषयीभूतः चक्षुर्दर्शनस्य कस्यचित्, स्वयं तु चक्षुषि सन्निहितत्वाद्द्दशिस्वरूप इति द्रष्टा ।
तथाश्रुतः श्रोत्रगोचरत्वमनापन्नः कस्यचित्, स्वयं त्वलुप्तश्रवणशक्तिः सर्वश्रोत्रेषु सन्निहितत्वाछ्रचोता ।
तथामतो मनःसङ्कल्पविषयतामनापन्नः॑दृष्टश्रुते एव हि सर्वः सङ्कल्पयति॑ुद्दृष्टत्वादक्षुतत्वादेवामतः॑ल्लप्तमननशक्तित्वात्सर्वमनःसु सन्निहितत्वाच्च मन्ता ।
तथाविज्ञातो निश्चयगोचरतामनापन्नोरूपादिवत्लसुखादिवद्वा, स्वयं त्वलुप्तविज्ञानशक्तित्वात्तत्सन्निधानाच्च विज्ञाता ।
तत्र यं पृथिवी न वेद यं सर्वाणि भूतानि न विदुरिति चान्ये नियन्तव्या विज्ञातारोऽन्यो नियन्ता अन्तर्यामीति प्राप्तम्, तदन्यत्वाशङ्कानिवृत्त्यर्थमुच्यते नान्योऽतः, नान्यः अतोऽस्मादन्तर्यामिणो नान्योऽस्ति द्रष्टा, तथा नान्योऽतोऽस्ति मन्ता, नान्योऽतोऽस्ति श्रोता, नान्योऽतोऽस्ति मन्ता, नान्योऽतोऽस्ति विज्ञाता ।
यस्मात्परो नास्ति द्रष्टा श्रोता मन्ता विज्ञाता, योऽदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञातो विज्ञाता, अमृतः सर्वसंसारधर्मवर्जितः सर्वसंसारिणां कर्मफलविभागकर्ता एष ते आत्मान्तर्याम्यमृतः अस्मादीश्वरादात्मनोऽन्यदार्तम् ।
ततो हि उद्दालक आरुणिरुपरराम ॥१५॥
२३ ॥
इति तृतीयाध्याये सप्तममन्तर्यामिब्राह्मणम् ॥७॥


अतः परमशनायादिविनिर्मुक्तं निरुपाधिकं साक्षादपरोक्षात्सर्वान्तरं ब्रह्म वक्तव्यमित्यत आरम्भः



_______________________________________________________________________

३,८.१

अथ ह वाचक्नव्युवाच ब्राह्मणा भगवन्तो हन्ताहमिमं द्वौ प्रश्नौ प्रक्ष्यामि ।
तौ चेन्मे विवक्ष्यति ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
पृच्छ गार्गीति ॥ _३,८.१ ॥

__________


शा.भा._३,८.१ अथ ह वाचक्नव्युवाच ।
सर्वं याज्ञवल्क्येन निषिद्धा मूर्धपातभयादुपरता सती पुनः प्रष्टुं ब्राह्मणानुज्ञां प्रार्थयते हे ब्राह्मणा भगवन्तः पूजावन्तः शृणुत मम वचः॑हन्ताहमिमं याज्ञवल्क्यं पुनर्द्वै प्रश्नौ प्रक्ष्यामि, यद्यनुमतिर्भवतामस्ति॑तौ प्रश्नौ चेद्यदि वक्ष्यति कथयिष्यति मे, कथञ्चिन्न वै जातु कदाचिद्युष्माकं मध्ये इमं याज्ञवल्क्यं कश्चिद्ब्रह्मोद्यं ब्रह्मवदनं प्रति जेता न वै कश्चिद्भवेदिति ।
एवमुक्ता ब्राह्मणा अनुज्ञां प्रददुः पृच्छ गार्गीति ॥१॥



_______________________________________________________________________

३,८.२

सा होवाच अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेदेवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् ।
तौ मे ब्रूहीति ।
पृच्छ गार्गीति ॥ _३,८.२ ॥

__________


शा.भा._३,८.२ लब्धानुज्ञा ह याज्ञवल्क्यं सा होवाच अहं वै त्वा त्वां द्वौ प्रश्नौ प्रक्ष्यामीत्यनुषज्यते॑कौ ताविति जिज्ञासायां तयोर्दुरुत्तरत्वद्योतयितुं दृष्टान्तपूर्वकं तावाह हे याज्ञवल्क्य यथा लोके काश्यः काशिषु भवः काश्यः, प्रसिद्धं शौर्यं काश्ये, वैदेहो वा विदेहानां वा राजा, उग्रपुत्रः शूरान्वय इत्यर्थः, उज्ज्यमवतारितज्याकं धनुः पुनरधिज्यमारोपितल्याकं कृत्वा द्वौ बाणवन्तौ बाणशब्देन शराग्रे यो वंशखण्डः संधीयते, तेन विनापि शरो भवतीत्यतो विशिनष्टि बाणवन्ताविति द्वौ बाणवन्तौ शरौ, तयोरेव
विशेषणं सपत्नातिव्याधिनौ शत्रोः पीडाकरावतिशयेन, हस्ते कृत्वोपोत्तिष्ठेत्समीपत आत्मानं दर्शयेतेवमेवाहं त्वा त्वां शरस्थानीयाभ्यां प्रश्नाभ्यां द्वाभ्यामुपोदस्थां उत्थितवत्यस्मि त्वत्समीपे ।
तौ मे ब्रूहीति ब्रह्मविच्चेत् ।
आहेतरः पृच्छ गार्गीति ॥२॥



_______________________________________________________________________

३,८.३

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ _३,८.३ ॥

__________


शा.भा._३,८.३ सा होवाच यदूर्ध्वमुपरि दिवःण्डकपालाद्यच्चावागधः पृथिव्या अधोऽण्डकपालात्, यच्चान्तरा मध्ये द्यावापृथिवी द्यावापृथिव्योः अण्डकपालयोः, इमे च द्यावापृथिवी, यद्भूतं यच्चातीतम्, भवच्च वर्तमानं स्वव्यापारस्थम्, भविष्यच्च वर्तमानादूर्ध्वकालभाविलिङ्गगम्यम् यत्सर्वमेतदाचक्षते कथयन्त्यागमतः तत्सर्वं द्वैतजातं यस्मिन्नेकीभवतीत्यर्थः तत्सूत्रसंज्ञं पूर्वोक्तं कस्मिन्नोतं च प्रोतं च पृथिवीधातुरिवाप्सु ॥३॥



_______________________________________________________________________

३,८.४

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाशे तदोतं च प्रोतं चेति ॥ _३,८.४ ॥

__________


शा.भा._३,८.४ स होवाचेतरः हे गार्गि यत्त्वयोक्तम्ऽऊर्ध्वं दिवःऽइत्यादि, तत्सर्वं यत्सूत्रमाचक्षते तत्सूत्रम्, आकाशे तदोतं प्रोतं च, यदेतद्व्याकृतं सूत्रात्मकं जगदव्याकृताकाशे, अप्स्विव पृथिवीधातुः, त्रिष्वपि कालेषु वर्तते उत्पत्तौ स्थितौ लये च ॥४॥



_______________________________________________________________________

३,८.५

सा होवच नमस्तेऽस्तु याज्ञवल्क्य यो म एतं व्यवोचोऽपरस्मै धारयस्वेति पृच्छ गार्गीति ॥ _३,८.५ ॥

__________


शा.भा._३,८.५ पुनः सा होवाच॑नमस्तेऽस्त्वित्यादि प्रश्नस्य दुर्वचत्वप्रदर्शनार्थम्॑यो मे ममैतं प्रश्नं व्यवोचो विशेषणापाकृतवानसि॑ेतस्य दुर्वचत्वे कारणम् सूत्रमेव तावदगम्यमितरैर्दुर्वाच्यम्, किमुत तत्, यस्मिन्नोतं च प्रोतं चेति॑तो नमोऽस्तु ते तुभ्यम् ।
अपरस्मै द्वितीयाय प्रश्नाय धारयस्व दृढीकुर्वात्मानमित्यर्थः ।
पृच्छ गार्गीतीतर आह ॥५॥



_______________________________________________________________________

३,८.६

सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षते कस्मिंस्तदोतं च प्रोतं चेति ॥ _३,८.६ ॥

__________


शा.भा._३,८.६ व्याख्यातमन्यत्॑सा होवाच यदुर्ध्वं याज्ञवल्क्यैत्यादिप्रश्नः प्रतिवचनं च उक्तस्यैवार्थस्यावधारणार्थं पुनरुच्यते॑न किञ्चिदपूर्वमर्थान्तरमुच्यते ॥६॥



_______________________________________________________________________

३,८.७

स होवाच यदूर्ध्वं गार्गि दिवो यदवाक्पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतं च भवच्च भविष्यच्चेत्याचक्षत आकाश एव तदोतं च प्रोतं चेति ।
कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ॥ _३,८.७ ॥

__________


शा.भा._३,८.७ सर्वं यथोक्तं गार्ग्या प्रत्युच्चार्य तमेव पूर्वोक्तमर्थमवधारितवानाकाश एवेति याज्ञवल्क्यः ।
गार्ग्याहकस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ।
आकाशमेव तावत्कालत्रयातीतत्वाद्दुर्वाच्यम्, ततोऽपि कष्टतरमक्षरं यस्मिन्नाकाशमोतं च प्रोतं च, अतोऽवाच्यमितिकृत्वा, न प्रतिपद्यते सा अप्रतिपत्तिर्नाम निग्रहस्थानं तार्किकसमये॑थावाच्यमपि वक्ष्यति, तथापि विप्रतिपत्तिर्नाम निग्रहस्थानम्॑विरुद्वा प्रतिपत्तिर्हि सा, यदवाच्यस्य वदनम्॑तो दुर्वचनं प्रश्नं मन्यते गार्गी ॥ ७ ॥ तद्दोषद्वयमपि परिजिहीर्पन्नाह



_______________________________________________________________________

३,८.८

स होवाच एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनण्वह्रस्वमदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वनाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्रमवागमनोऽतेजस्कमप्राणममुखमगात्रमनन्तरमबाह्यम् (Vआऋ fओरगात्रममात्रम्) ।
न तदश्नाति किं चन ।
न तदश्नाति कश्चन ॥ _३,८.८ ॥

__________


शा.भा._३,८.८ स होवाच याज्ञवल्क्यःेतद्वै तद्यत्पृष्टवत्यसि कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति, किं तत्? अक्षरम्यन्न क्षीयते न क्षरतीति वाक्षरम्तदक्षरं हे गार्गि ब्राह्मणा ब्रह्मविदोऽभिवदन्ति ।
ब्रह्मणाभिवदनकथनेननाहमवाच्यं वक्ष्यामि न चन प्रतिपद्येयमित्येवं दोपद्रयं परिहरति ।
एवमपाकुते प्रश्ने पुनर्गार्ग्याः प्रतिवचनं द्रष्टव्यम्ब्रूहि किं तदक्षरम्? यद्ब्राह्मणा अभिवदन्ति, इत्युक्त आहप्रस्थूलं तत्स्थूलादन्यत्, एवं तर्ह्यणु? अनणु, अस्तु तर्हि हस्वम्, अहस्वम्॑ेवं तर्हि दीर्घम्, नापि दीर्घमदीर्घम्॑ेवमेतैश्चतुर्भिः परिमाणप्रतिषेधैर्द्रव्यधर्मः प्रतिषिद्वः, न द्रव्यं तदक्षरमित्यर्थः ।
अस्तु तर्हि लोहितो गुणः, ततोऽप्यन्यदलोहितम्॑ाग्नेयो गुणो लोहितः॑भवतु तर्ह्यप्यां स्नेहनम्, न, अस्नेहनम्॑स्तु तर्हिच्छाया, सर्वथाप्यनिर्देश्यत्वात्, छायाया अप्यन्यदच्छायम्॑स्तु तर्हि तमः, अतमः॑भवतु वायुस्तर्हि, अवायुः॑भवेत्तर्ह्याकाशम्, अनाकाशम्॑भवतु तर्हि सङ्गात्मकं जतुवत्, असङ्गम्ऽरसोऽस्तु तर्हि, अरसम्ऽ॑तथा गन्धोऽस्त्वगन्धम्॑स्तु तर्हि चक्षुः, अचक्षुष्कम्न हि चक्षुरस्य करणं विद्यतेऽतोऽचक्षुष्कम्॑"पश्यत्यचक्षुः"इति मन्त्रवर्णात् ।
तथाश्रोत्रम्॑"स शृणोत्यकर्णः"इति॑भवतु तर्हि वागवाक्॑तथामनः॑तथातेजस्कमविद्यमानं तेजोऽस्य तदतेजस्कम्॑न हि तेजोऽग्न्यादिप्रकाशवदस्य विद्यते॑प्राणमाध्यात्मिको वायुःप्रतिषिध्यतेऽप्राणमिति॑मुखं तर्हि द्वारं तदमुखम्॑मान्नम्मीयते येन तन्मात्रममात्रं मात्रारूपं तन्न भवति, न तेन किञ्चिन्मीयते॑स्तु तर्हिच्छिद्रवत्, अनन्तरम्नास्यान्तरमस्ति॑सम्भवेत्तर्हि बहिस्तस्य, अबाह्यम्॑स्तु तर्हि भक्षयितृ तत्न तदश्नाति क्ञ्चिन॑भवेत्तर्हि भक्ष्यं कस्यचित्, न तदश्नाति कश्चन॑सर्वविशेषणरहितमित्यर्थः॑ेकमेवाद्वितीयं हि तत्केन किं विशिष्यते ॥ ८ ॥ अनेकविशेषणप्रतिषेधप्रयासादस्तित्वं
तावदक्षरस्योपगमितं श्रुत्या॑तथापि लोकबुद्विमपेक्ष्या शङ्क्यते यतः, अतोऽस्तित्वायानुमानं प्रमाणमुपन्यस्यति



_______________________________________________________________________

३,८.९

एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्यचन्द्रमसौ विधृतौ तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः ।
एतस्य वा अक्षरस्य प्रशासने गार्गि निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवः संवत्सरा इति विधृतास्तिष्ठन्ति ।
एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते श्वेतेभ्यः पर्वतेभ्यः प्रतीच्योऽन्या यां यां च दिशमनु ।
एतस्य वा अक्षरस्य प्रशासने गार्गि मनुष्याः प्रशसन्ति यजमानं देवा दर्वीं पितरोऽन्वायत्ताः ॥ _३,८.९ ॥वा अक्षरस्य्
अ प्रशासने गार्गि ददतो मनुष्याः प्रशंसन्ति, यजमानं देवाः, दर्वीं पितरोऽन्वायत्ताः ॥ ९ ॥

__________


शा.भा._३,८.९ एतस्य वा अक्षरस्य॑यदेतदधिगतमक्षरं सर्वान्तरं साक्षादपरोक्षाद्ब्रह्म, य आत्मा अशनायादिधर्मातीतः, एतस्य वा अक्षरस्य प्रशासनेयथा राज्ञः प्रशासने राज्यमस्फुटितं नियतं वर्तते, एवमतस्याक्षरस्य प्रशासने हे गार्गि सूर्याचन्द्रमसो अहोरात्रयोर्लोकप्रदीपौ, तादर्थ्येन प्रशासित्रा ताभ्यां निर्वत्यमानलोकप्रयोजनविज्ञानवता निर्मितौ च, स्यातां साधारणसर्वप्राणिप्रकाशोपकारकत्वाल्लौकिकप्रदीपवत् ।
तस्मादस्ति तद्येन विधृतावीश्वरौ स्वतन्त्रौ सस्तौ निर्मितौ तिष्ठतो नियतदेशकालनिमित्तोदयास्तमयवृद्धिक्षयाभ्यां वर्तेते॑तदस्त्येवमेतयोः प्रशासित्रक्षरम्, प्रदीपकर्तृविधारयितृवत् ।
एतस्य वा अक्षरस्य प्रशासने गार्गी द्यावापृथिवी च सावयवत्वात्स्फुटनस्वभावे अपि सत्यौ गुरुत्वात्पतनस्वभावे संयुक्तत्वाद्वियोगस्वभावे चेतनावदभिमानिदेवताधिष्ठितत्वात्स्वतन्त्रे अपि एतस्याक्षरस्य प्रशासने वर्तेते विधृते तिष्ठतः॑ेतद्ध्यक्षरं सर्वव्यवस्थासेतुः सर्वमर्यादाविधरणम्, अतो नास्याक्षरस्य प्रशासनं द्यावापृथिव्यावतिक्रामतः॑तस्मात्सिद्धमस्यास्तित्वमक्षरस्य अव्यभिचारि हि तल्लिङ्गम्, यद्द्यावापृथिव्यौ नियते वर्तेते॑चेतनावन्तं प्रशासितारमसंसारिणमन्तरेण नैतद्युक्तम् ।
"येन द्यौरुग्रा पृथिवी च दृष्टा"इति मन्त्रवर्णात् ।
एतस्य वा अक्षरस्य प्रशासने गार्गि, निमेषा मुहूर्ता इत्येते कालावयवाः सर्वस्य अतीतानागतवर्तमानस्य जनिमतः कलयितारः यथा लोके प्रभुणा नियतो गणकः सर्वमायं व्ययं चाप्रमत्तो गणयति, तथा प्रभुस्थानीय एषां कालावयवानां नियन्ता ।
तथा प्राचयः प्रागञ्चनाः पूर्वदिग्गमना नद्यः स्यन्दन्ते स्रवन्ति श्वेतेभ्यो हिमवदादिभ्यः पर्वतेभ्यो गिरिभ्यो गङ्गाद्या नद्यस्ताश्च यथा प्रवर्तिता एव नियताः प्रवर्तन्तेऽन्यथापि प्रवर्तितुमुत्सहन्त्यः, तदेतल्लिङ्गं प्रशास्तुः ।
प्रतीच्योऽन्याः प्रतीचीं दिशमञ्चन्ति सिन्ध्वाद्या नद्यः, अन्याश्च यां यां दिशमनुप्रवृत्तास्तां तां न व्यभिचरन्ति॑तच्च सिङ्गम् ।
किञ्च ददतो हिरण्यादीन् प्रयच्छत आत्मपीडां कुर्वतोऽपि प्रमाणज्ञा अपि मनुष्याः प्रशंसन्ति॑तत्र यच्च दीयते, ये च ददति, ये च प्रतिगृह्मन्ति, तेषामिहैव समागमो विलयश्चान्वक्षो दृश्यते॑दृष्टस्तु परः समागमः, तथापि मनुष्या ददतां दानफलेन संयोगं पश्यन्तः प्रमाणज्ञतया प्रशंसन्ति॑ तच्च, कर्मफलेन संयोजयितरि कर्तुः कर्मफलविभागज्ञे प्रशास्तर्यसति न स्यात्॑दानक्रियायाः प्रत्यक्षविनाशित्वात्॑तस्मादस्ति दानकर्तृणां फलेन संयोजयिता ।
अपूर्वमिति चेत्? तत्सद्भावे प्रमाणानुपपत्तेः प्रशस्तुरपीति चेत् ।
न, आगमतात्पर्यस्य सिद्धत्वात्॑वोचाम द्यागमस्य वस्तुपरत्वात् ।
किञ्चान्यत्, अपूर्वकल्पनायां चार्थापत्तेः, क्षयोऽन्यथैवोपपत्तेः ।
सेवाफलस्य सेव्यात्प्राप्तिदर्शनात् ।
सेवायाश्च क्रियात्वात्, तत्सामान्याच्च वागदानहोमादीनां सेव्यादीश्वरादेः फलप्राप्तिरुपपद्यते दृष्टक्रियाधर्मसामर्थ्यमपरित्यज्यैव फलप्राप्तिकल्पनोपपत्तौ दृष्टक्रियाधर्मसामर्थ्यपरित्यागो न न्याय्यः ।
कल्पनाधिक्याच्च, ईश्वरः कल्प्वोऽपूर्वा वा? तत्र क्रियायाश्च स्वभावः सेव्यात्फलप्राप्तिर्दृष्टा न त्वपूर्वात्॑न चापूर्वं दृष्टम्॑तत्रापूर्वमदृष्टं कल्पयितव्यं तस्य च फलदातृत्वे सामर्थ्यम्, सामर्थ्ये च सति दानं चाभ्यधिकमिति ।
इह तु ईश्वरस्य सेव्यस्य सद्भावमात्रं कल्प्यम्, न तु फलदानसामर्थ्यं दातृत्वं च, सेव्यात्फलप्राप्तिदर्शनात् ।
अनुमानं च दर्शितम्ऽद्यावापृथिव्यौ विधृते तिष्ठतःऽइत्यादि ।
तथा च यजमानं देवा ईश्वराः सन्तो जीवनार्थेऽनुगताः, चरपुरोडाशाद्युपजीवनप्रयोजनेन, अन्यथापि जीवितुमुत्सहन्तः कृपणां दीनां वृत्तिमाश्रित्य स्थिताः, तच्च प्रशास्तुः प्रशासनात्स्यात् ।
तथा पितरोऽपि तदर्थं दर्वी दर्वीहोममन्वायत्ता अनुगता इत्यर्थः, समानं सर्वमन्यत् ॥९॥

इतश्चास्ति तदक्षरं स्मात्तदज्ञाने नियता संसारोपपत्तिः ।
भवितव्यं तु तेन, यद्विज्ञानात्तद्विच्छेदः, न्यायोपपत्तेः ।
ननु क्रियात एव तद्विच्छित्तिः स्यादिति चेत्? न



_______________________________________________________________________

३,८.१०

यो वा एतदक्षरं गार्ग्यविदित्वास्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राण्यन्तवदेवास्य तद्भवति
यो वा एतदक्षरमविदित्वा गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः ।
अथ य एतदक्षरं गार्गि विदित्वास्माल्लोकात्प्रैति स ब्राह्मणः ॥ _३,८.१० ॥

__________


शा.भा._३,८.१० यो वा एतदक्षरं हे गार्गि अविदित्वाविज्ञाय अस्मिंल्लोके जुहोति यजत तपस्तप्यते यद्यपि बहूनि वर्षसहस्राणि, अन्तवदेवास्य तत्फलं भवति, तत्फलोपभोगान्ते क्षीयन्त एवास्य कर्माणि ।
अपि च यद्विज्ञानात्कार्पण्यात्ययः संसारविच्छेदः, यद्विज्ञानाभावाच्च कर्मकृत्कृपणः कृतफलस्यैवोपभोक्ताजननमरणप्रबन्धारूढः संसरति, तदस्त्यक्षरं प्रशासितृ॑तदेतदुच्यते यो वा एतदक्षरं गार्ग्यविदित्वा अस्माल्लोकात्प्रैति स कृपणः, पणक्रीत इव दासादिः ।
अथ य एतदक्षरं गार्गि विदित्वा अस्माल्लोकात्प्रैति स ब्राह्मणः ॥१०॥

अग्नेर्दहनप्रकाशकत्वात्स्वाभाविकस्य प्रशास्तृत्वमचेतनस्यैवेत्यत आह


_______________________________________________________________________

३,८.११

तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ ।
नान्यदतोऽस्ति द्रष्टृ ।
नान्यदतोऽस्ति श्रोतृ ।
नान्यदतोऽस्ति मन्तृ ।
नान्यदतोऽस्ति विज्ञातृ ।
एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च ॥ _३,८.११ ॥

__________


शा.भा._३,८.११ तद्वा एतदक्षरं गार्गि अदृष्टं न केनचिद्दृष्टम्, अविषयत्वात्स्वयं तु द्रष्टृ दृष्टिस्वरूपत्वात् ।
तथा श्रुतं श्रोत्राविषयत्वात्, स्वयं श्रोतृ श्रुतिस्वरूपत्वात् ।
तथामतं मनसोऽविषयत्वात्, स्वयं मन्तृमतिस्वरूपत्वात् ।
तथाविज्ञातं बुद्धेरविषयत्वात्, स्वयं विज्ञातृ विज्ञानस्वरूपत्वात् ।
किञ्च नान्यदतोऽस्मादक्षरादस्ति नास्ति किञ्चिद्द्रष्टृ दर्शनक्रियाकर्तृ॑ेतदेवाक्षरं दर्शनक्रियाकर्तृ सर्वत्र ।
तथा नान्यदतोऽस्ति श्रोतृ॑तदेवाक्षरं श्रोतृ सर्वत्र ।
नान्यदतोऽस्ति मन्तृ॑तदेवाक्षरं मन्तृ सर्वत्र सर्वमनोद्वारेण ।
नान्यदतोऽस्ति विज्ञातृ विज्ञानक्रियाकर्तृ, तदेवाक्षरं सर्वबुद्धिद्वारेण विज्ञानक्रियाकर्तृ, नाचेतनं प्रधानमन्यद्वा ।
एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ।
यदेव साक्षादपरोक्षाद्ब्रङ्म, य आत्मा सर्वान्तरोऽशनायादि संसारधर्मातीतः, यस्मिन्नाकाश ओतश्च प्रोतश्च, एषा परा काष्ठा, एषा परा गतिः, एतत्परं ब्रह्म, एतत्पृथिव्यादेराकाशान्तस्य सत्यस्य सत्यम् ॥११॥



_______________________________________________________________________

३,८.१२

सा होवाच ब्राह्मणा भगवन्तस्तदेव बहु मन्यध्वं यदस्मान्नमस्कारेण मुच्येध्वम् ।
न वै जातु युष्माकमिमं कश्चिद्ब्रह्मोद्यं जेतेति ।
ततो ह वाचक्नव्युपरराम ॥ _३,८.१२ ॥

__________


शा.भा._३,८.१२ सा होवाच हे ब्राह्मणा भगवन्तः शृणुत मदीयं वचः॑तदेव बहु मन्येध्वम्॑किं तत्? यदस्माद्याज्ञवल्क्यान्नमस्कारेण मुच्येध्वम् अस्मै नमस्कारं कृत्वा तदेव बहु मन्यध्वमित्यर्थः॑जयस्त्वस्य मनसापि न आशंसनीयः, किमुत कार्यतः॑कस्मात्? न वै युष्माकं मध्ये जातु कदाचिदपीमं याज्ञवल्क्यं ब्रह्मोद्यं प्रति जेता ।
प्रश्नौ चेनमह्यं वक्ष्यति, न जेता भवितेति पूर्वमेव मया प्रतिज्ञातम्॑द्यापि ममायमेव निश्चयः ब्रह्मोद्यं प्रत्येतत्तुल्यो न कश्चिद्विद्यत इति ।
ततो ह वाचक्नव्युपरराम ।
अत्र अन्तर्यामिब्राह्मणे एतदुक्तम् यं पृथिवी न वेद, यं सर्वाणि भूतानि न विदिरिति च ।
यमन्तर्यामिणं न विदुर्ये च न विदुर्यच्च तदक्षरं दर्शनादक्रियाकर्तृत्वेन सर्वेषां चेतनादिधातुरित्युक्तम्कस्त्वेषां विशेषः किं वा सामान्यमिति ।
तत्र केचिदाचक्षतेपरस्य महासमुद्रस्थानायस्य ब्रह्मणोऽक्षरस्य अप्रचलितत्वरूपस्येषत्प्रचलितावस्थान्तर्यामी॑त्यन्तप्रचलितावस्था क्षेत्रज्ञः, यस्तं न वेदान्तर्यामिणम्॑तथान्याः पञ्चावस्थाः परिकल्पयन्ति, तथा अष्टावस्था ब्रह्मणो भवन्तीति वदन्ति ।
अन्येऽक्षरस्य शक्तय एता इति वदन्ति, अनन्तशक्तिमदक्षरमिति च ।
अन्ये त्वक्षरस्य विकारा इति वदन्ति ।
अवस्थाशक्ती तावन्नोपपद्येतो अक्षरस्य, अशनायादिसंसारधर्मातीतत्वश्रुतेः ।
न ह्यशनायाद्यतीतत्वमशनायादिधर्मवदवस्थावत्त्वं चैकस्य युगपदुपपद्यते॑तथा शक्तिमत्त्वं च ।
विकारावयवत्वे च दोषाः प्रदर्शिताश्चतुर्थे ।
तस्मादेता असत्याः सर्वाः कल्पनाः ।
कस्तर्हि मेद एषाम्? उपाधिकृत इति ब्रूमः॑न स्वत एषां मेदोऽमेदो वा, सैन्धवघनवत्प्रज्ञानधनैकरसस्वामाव्यात्,"अपूर्वमनपरमनन्तरमबाह्यम्""अयमात्मा ब्रह्म"इति च श्रुतेः ।
"सवाह्याभ्यान्तरो ह्यजः"इति चाथर्वणे ।
तस्मान्निरूपाधिकस्यात्मनो निरूपाख्यात्वान्निर्विशेषत्वादेकत्वाच्च"नेति नेति"इति व्यपदेशो भवति ।
अविद्याकामकर्मविशिष्टकार्यकरणोपाधिरात्मा संसारी जिव उच्यते ।
नित्यनिरतिशयज्ञान शक्त्युपाधिरात्मान्तर्यामीश्वर उच्यते, स एव निरूपाधिः केवलः शुद्वः स्वेन स्वभावेनाक्षरं पर उच्यते, तथा हिरण्यगर्माव्याकृतदेवताजातिपिण्डमनुष्यतिर्यक्प्रेतादिकार्यकरणोपाधिभिर्विशिष्टस्तदाख्यस्तदरूपो भवति ।
तथा"तदेजति तन्नैजति"इति व्याख्यातम् ।
तथा"एष त आत्मा" "एष सर्वभूतान्तरात्मा" "एष सर्वेषु भूतेषु गूढः" "तत्तवमसि" "अहमेवेदं सर्वम्" "आत्मैवेदं सर्वम्" "नान्योऽतोऽस्ति द्रष्टा"इत्यादिश्रुतयो न विरुध्यन्ते ।
कल्पनान्तरेष्वेताः श्रुतयो न गच्छन्ति ।
तस्मादुपाधिमेदेनैल एषां मेदो नान्यथा ।
ऽएकमेवाद्वितीयम्ऽइत्यवधारणात्सर्वेषनिषत्सु ॥१२॥

इति तृतीयाध्यायेष्टममक्षरब्राह्मणम् ॥८॥


अथ हैनं विदग्धः शाकल्यः पप्रच्छ ।
पृथिव्यादीनां सूक्ष्मतारतम्यक्रमेण पूर्वस्य पूर्वस्य उत्तरस्मिन्नुत्तरस्मिन्नोतप्रोतभावं कथयन् सर्वान्तरं ब्रह्म प्रकाशितवान् तस्य च ब्रह्मणो व्याकृतविषये सूत्रमेदेषु नियन्तृत्वमुक्तम्व्याकृतविषये व्यक्तरं लिङ्गमिति ।
तस्यैव ब्रह्मणः साक्षादपरोक्षत्वे नियन्तव्यदेवतामेदसंकोचविका सद्वारेणाधिगन्तव्ये इति तदर्य शाकल्यब्राह्मणमारम्यते



_______________________________________________________________________

३,९.१

अथ हैनं विदग्धः शाकल्यः पप्रच्छ कति देवा याज्ञवल्क्येति ।
स हैतयैव निविदा प्रतिपेदे यावन्तो वैश्वदेवस्य निविद्युच्यन्ते ।
त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
त्रयस्त्रिंशदिति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
षडिति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
त्रय इति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
द्वाविति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
अध्यर्ध इति ।
ओमिति होवाच ।
कत्येव देवा याज्ञवल्क्येति ।
एक इति ।
ओमिति होवाच ।
कतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥ _३,९.१ ॥

__________


शा.भा._३,९.१ अथ हैनं विदग्ध इति नामतः शकलस्यापत्यं शाकल्यः पप्रच्छकतिसंख्याका देवा हे याज्ञवल्क्येति ।
स याज्ञवल्क्यः, ह किल, एतयैव वक्ष्यमाणया निविदा प्रतिपेदे संख्याम्, यां संख्यां पृष्टवाञ्शाकल्यः ।
यावन्तो यावत्संख्याका देवा वैश्वदेवस्य शस्त्रस्य निविदिनिविन्नाम देवतासंख्यावाचकानि मन्त्रपदानि, कानिचिद्वैश्वदेवे शस्त्रे शस्यन्ते तानि निवित्संज्ञकानि॑तस्यां निविदि यावन्तो देवाः श्रूयन्ते तावन्तो देवा इति ।
का पुनः सा निविदिति तानि निवित्पदानि प्रदर्श्यन्तेत्रयश्च त्री च शतात्रयश्च देवाः, देवानां त्री च त्रीणि च शतानि॑पुनरप्येवं त्रयश्च, त्री च सहस्रा सहस्राणेतावन्तो देवा इति शाकल्योऽप्योमिति होवाच ।
एवमेषां मध्यमा संख्या सम्यक्तया ज्ञाता, पुनस्तेपामेव देवानां संकोचविषयां संख्यां पृच्छतिकत्येव देवा याज्ञवल्क्येति॑त्रयस्त्रिशत॑पद, त्रयः, द्वौ, अध्यर्धः, एक इति ।
देवतासंकोचविकासविषयां संख्यां पृष्ट्वा पुनः संख्येयस्वरूपं पृच्छतिकतमे ते त्रयश्च त्री च शता त्रयश्च त्री च सहस्रेति ॥१॥



_______________________________________________________________________

३,९.२

स होवाच महिमान एवैषामेते ।
त्रयस्त्रिंशत्त्वेव देवा इति ।
कतमे ते त्रयस्त्रिंशदिति ।
अष्टौ वसव एकादश रुद्रा द्वादशादित्याः त एकत्रिंशदैन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ॥ _३,९.२ ॥

__________


शा.भा._३,९.२ स होवाचेतरः महिमानो विभूतयः, एषां त्रयस्त्रिंशतः देवानामेते त्रयश्च त्री च शतेत्यादयः॑परमार्थतस्तु त्रयस्त्रिंशत्त्वेव देवा इति ।
कतमे ते त्रयस्त्रिंशदित्युच्यते अष्टौ वसवः एकादश रुद्राः, द्वादश आदित्यास्ते एकत्रिंशत्, इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति त्रयस्त्रिंशतः पूरणौ ॥२॥



_______________________________________________________________________

३,९.३

कतमे वसव इति ।
अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौः च चन्द्रमाश्च नक्षत्राणि चैते वसवः ।
एतेषु हीदं सर्वं वसु हितं इति तस्माद्वसव इति ॥ _३,९.३ ॥

__________


शा.भा._३,९.३ कतमे वसव इति तेषां स्वरूपं प्रत्येकं पृछ्च्यते॑ग्निश्च पृथिवी चेति अग्न्याद्या नक्षत्रान्तरा एते वसवः प्राणिनां कर्मफलाश्रयत्वेन कार्यकरणसंघातरूपेण तन्निवासत्वेन च विपरिणमन्तो जगदिदं सर्वं वासयन्ति वसन्ति च॑ते यस्माद्वासन्ति तस्मादे वसव इति ॥३॥



_______________________________________________________________________

३,९.४

कतमे रुद्रा इति ।
दशेमे पुरुषे प्राणा आत्मैकादशः ।
ते यदास्माच्छरीरान्मर्त्यादुत्क्रामन्त्यथ रोदयन्ति ।
तद्यद्रोदयन्ति तस्माद्रुद्रा इति ॥ _३,९.४ ॥

__________

शा.भा._३,९.४ कतमे रुद्रा इति ।
दशेमे पुरुषे कर्मबुद्धीन्द्रियाणि प्राणाः, आत्मा मन एकादशः एकादशानां पूरणः ते एते प्राणा यदा अस्माच्छरीरान्मर्त्यात्प्राणिनां कर्मफलपभोगक्षये उत्क्रामन्ति अथ तदा रोदयन्ति तत्सम्बन्धिनः ।
तत्तत्र यस्माद्रोदयन्ति ते सम्बन्धिनः, तस्माद्रुद्रा इति ॥४॥



_______________________________________________________________________

३,९.५

कतम आदित्या इति ।
द्वादश वै मासाः संवत्सरस्यैत आदित्याः ।
एते हीदं सर्वमाददाना यन्ति ।
ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ _३,९.५ ॥

__________


शा.भा._३,९.५ कतम आदित्या इति ।
द्वादश वै मासाः संवत्सरस्य कालस्यावयवाः प्रसिद्धाः, एते आदित्याः॑कथम्? एते हि यस्मात्पुनः पुनः परिवर्तमानाः प्राणिनामायूंषि कर्मफलं च आददाना गृह्यन्त उपाददतो यन्ति गच्छन्ति ते यद्यस्मादेवमिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥५॥



_______________________________________________________________________

३,९.६

कतम इन्द्रः कतमः प्रजापतिरिति ।
स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिरिति ।
कतमः स्तनयित्नुरिति ।
अशनिरिति ।
कतमो यज्ञ इति ।
पशव इति ॥ _३,९.६ ॥

__________


शा.भा._३,९.६ कतम इन्द्रः कतमः प्रजापतिरिति, स्तनयित्युरेवेन्द्रो यज्ञः प्रजापतिरिति, कतमः स्तनयित्नुरित्यशनिरिति ।
अशनिर्वज्रं वीर्यं बलम्, यत्प्राणिनः प्रमापयति, स इन्द्रः॑िन्द्रस्य हि तत्कर्म ।
कतमो यज्ञ इति पशव इति यज्ञस्य हि साधनानि पशवः॑यज्ञस्यारूपत्वात्पशुसाधनाश्रयत्वाच्च पशवो यज्ञ इत्युच्यते ॥६॥



_______________________________________________________________________

३,९.७

कतमे षडिति ।
अग्निश्च पृथिवी च वायुश्चान्तरिक्षश्चादित्यश्च द्यौश्चैते षट् ।
एते हीदं सर्वं षडिति ॥ _३,९.७ ॥

__________


शा.भा._३,९.७ कतमे षडिति॑त एवाग्न्यादयो वसुत्वेन पठिताश्चन्द्रमसं नक्षत्राणि च वर्जयित्वा षड्भवन्ति षटसंख्याविशिष्टाः, त्रयस्त्रिंशदादि यदुक्तमिदं सर्वम्, एत एव षड्भवन्ति सर्वो हि वस्वादिविस्तर एतेष्वेव षटस्वन्तर्भवतीत्यर्थः ॥७॥



_______________________________________________________________________

३,९.८

कतमे ते त्रयो देवा इति ।
इम एव त्रयो लोकाः ।
एषु हीमे सर्वे देवा इति ।
कतमौ तौ द्वौ देवा इति ।
अन्नं चैव प्राणश्चेति ।
कतमोऽध्यर्ध इति ।
योऽयं पवत इति ॥ _३,९.८ ॥

__________


शा.भा._३,९.८ कतमे ते त्रयो देवा इति॑िम एव त्रयो लोका इति पृथिवीमग्निं चैकोकृत्यैको देवः, अन्तरिक्षं वायुं चैकीकृत्य तृतीयः ते एव त्रयो देवा इति ।
एषु. हि यस्मात्, त्रिषु देवेषु सर्वे देवा अन्तर्भवन्ति तेन त एव देवास्त्रयः इत्येष नैरुक्तानां केषाञ्चित्पक्षः ।
कतमौ तौ द्वौ देवाविति अन्नं चैव प्राणश्चैतौ द्वौ देवौ, अनयोः सर्वेषामुक्तानामन्तर्भावः ।
कतमोऽध्यर्घ इति योऽयं पवते वायुः ॥८॥



_______________________________________________________________________

३,९.९

तदाहुर्यदयमेक इवैव पवते ।
अथ कथमध्यर्ध इति ।
यदस्मिन्निदं सर्वमध्यार्ध्नोत्तेनाध्यर्ध इति ।
कतम एको देव इति ।
प्राण इति ।
स ब्रह्म त्यदित्याचक्षते ॥ _३,९.९ ॥

__________


शा.भा._३,९.९ तत्तत्राहुश्चोदयन्ति यदयं वायुरेक इवैव एक एव पवते ॑थ कथमध्यर्ध इति? यदस्मिन्निदं सर्वमध्यार्ध्नोतस्मिन् वायौ सतीदं सर्वमध्यार्ध्नोदधि ऋद्धिं प्राप्नोति, तेनाध्यर्ध इति ।
कतम एको देव इति? प्राण इति स प्राणो ब्रह्मसर्वदेवात्मकत्वान्महद्ब्रह्म, तेन स ब्रह्म त्यदित्याचक्षतेत्यदिति तद्ब्रह्माचक्षते परोक्षामिधायकेन शब्देन ।
देवानामेतदेकत्वं नानात्वं च ।
अनन्तानां देवानां निवित्संख्याविशष्टेष्वन्तर्भावः, तेषामपि त्रयास्त्रिशदादिपूत्तरोत्तरेषु यावदेकस्मिन् प्राणे ।
प्राणस्यैव चैकस्य सर्वोऽनन्तसङ्ख्यातो विस्तरः ।
एवमेकश्चानन्तश्च अवान्तरसंख्याविशिष्टश्च प्राण एव ।
तत्र च देवस्यैकस्य नामरूपकर्नगुणशक्तिमेदः, अधिकारमेदात् ॥९॥


इदानीं तस्यैव प्राणस्य ब्रह्मणः पुनरष्टधा मेद उपदिश्यते



_______________________________________________________________________

३,९.१०

पृथिव्येव यस्यायतनमग्निर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं शारीरः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
अमृतमिति होवाच ॥ _३,९.१० ॥

__________


शा.भा._३,९.१० पृथिव्येव यस्य देवस्यायतनमाश्रयः, अग्निर्लोको यस्य लोकयत्यनेनेति लोकः, पश्यतीति अग्निना पश्यतीत्यर्थः ।
मनोज्योतिः मनसा ज्योतिषा संकल्पविकल्पादिकार्यं करोति यः, सोऽयं मनोज्योतिः ।
पृथिवीशरीरोऽग्निदर्शनो मनसा संकल्पयिता पृथिव्यभिमानी कार्यकरणसंघातवान् देव इत्यर्थः ।
य एवं विशिष्टं वै तं पुरुषं विद्याद्विजानीयात्सर्वस्यात्मन आध्यात्मिकस्य कार्यकरणसंघातस्य आत्मनः परमयनं पर आश्रयस्तं परायणम् ।
मातृजेन त्वङ्मांसरुधिररूपेण क्षेत्रस्थानीयेन बीजस्थानीयस्य पितृजस्य अस्थिमज्जाशुक्ररूपस्य परमयनम्, करणात्मनश्च, स वै वेदिता स्यात् ।
य एतदेवं वेत्ति स वै वेदिता पण्डितः स्यादित्याभिप्रायः ।
याज्ञवल्क्य त्वं तमजानन्नेव पण्डिताभिमानीत्यमिप्रायः ।
यदि तद्विज्ञाने पाण्डित्यं लभ्यते, वेद वै अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ यं कथयसि तमहं वेद ।
तत्र शाकल्यस्य वचनं द्रष्ट्यम्यदि त्वं वेत्थ तं पुरुषम्, ब्रूहिकिंविशेषणोऽसौ? सःय एवायं शारीरः पार्धिवांशे शरीरे भवः शारीरो मातृजकोशत्रयरूप इत्यर्थः, स ए, देवः, यस्त्वया पृष्टः, हे शाकल्य ।
किन्त्वस्ति तत्र वक्तव्यं विशेषणान्तरम्, तद्वदैव पृच्छैवेत्यर्थः, हे शाकल्य ।
स एवं प्रक्षोभितोऽमर्पवशग आहतोत्त्रादिन्त इव गजः तस्य देवस्य शरीरस्य का देवता? यस्मान्निष्पद्यते यः सा तस्य देवतेत्यस्मिन् प्रकरणे विवक्षितः॑मृतमिति होवाच ।
अमृतमिति यो भुक्तस्यान्नस्य रसो मातृजस्य लोहितस्य निष्पत्तिहेतुः ।
तस्माद्वयन्नरसाल्लोहितं निष्पद्यते स्त्रियां श्रितम्, ततश्च लोहितमयं शरीरं बीजाश्रयम् ।
समानमन्यत् ॥१०॥



_______________________________________________________________________

३,९.११

काम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं काममयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
स्त्रिय इति होवाच ॥ _३,९.११ ॥

__________


शा.भा._३,९.११ काम एव यस्यायतनम् ।
स्त्रीव्यतिकाराभिलाषः कामः कामशरीर इत्यर्थः ।
ह्रदयं लोकोह्रदयेन बुद्वया पश्यति ।
य एवायं काममयः पुरुषोऽध्यात्ममपि काममय एव ।
तस्य का देवतेति स्त्रिय इति होवाच॑स्त्रीतो हि कामस्य दीप्तिर्जीयते ॥११॥



_______________________________________________________________________

३,९.१२

रूपाण्येव यस्यायतनं चक्षुर्लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवासावादित्ये पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
सत्यमिति होवाच ॥ _३,९.१२ ॥

__________


शा.भा._३,९.१२ रूपाण्येव यस्यायतनम् ।
रूपाणि शुक्लकृष्णादीनि ।
य एवासावादित्ये पुरुषः सर्वेषां हि रूपाणां विशिष्टं कार्यमादित्ये पुरुषः तस्य का देवतेति? सत्यामिति होवाच ।
सत्यामिति चक्षुरुच्यते, चक्षुषो ह्यव्यात्मतः आदित्यस्याधिदैवतस्य निष्पत्ति ॥१२॥



_______________________________________________________________________

३,९.१३

आकश एव यस्यायतनं श्रोत्रं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं श्रौतः प्रातिश्रुत्कः पुरुषः स एष ।
वदैव शाकल्य तस्य का देवतेति ।
दिश इति होवच ॥ _३,९.१३ ॥

__________

शा.भा._३,९.१३ आकाश एव यस्यायतनं य एवायं श्रोत्रो भवः श्रोत्रः, तत्रापि प्रतिश्रवणवेलायां विशेषतो भवतीति प्रातिश्रुत्कः, तस्य कादेवतेति? दिश इति होवाच ।
दिग्भ्यो ह्यसावाध्यात्मिको निष्पद्यते ॥१३॥



_______________________________________________________________________

३,९.१४

तम एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं छायामयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
मृत्युरिति होवाच ॥ _३,९.१४ ॥

__________


शा.भा._३,९.१४ तम एव यस्यायतनम् ।
तम इति शार्वद्यन्धकारः परिगृह्यते ।
अध्यात्मं छायामयोऽज्ञानमयः पुरुषः ।
तस्य का देवतेति? मृत्युरिति होवाच ।
मृत्युरपिदैवतं तस्य निष्पत्तिकारणम् ॥१४॥



_______________________________________________________________________

३,९.१५

रूपाण्येव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायमादर्शे पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
सत्यमिति होवाच ॥ _३,९.१५ ॥

__________

शा.भा._३,९.१५ रूपाण्येव यस्यायतनम् ।
पूर्व साधारानि रूपाण्युक्तानि, इह तु प्रकाशकानि विशिष्टानि रूपाणि गृह्यन्ते ।
रूपायतनस्य देवस्य विशेषायतनं प्रतिबिम्बाधारमादर्शादि तस्य का देवतेति? असुरिति होवाच ।
तस्य प्रतिबिम्बाख्यस्य पुरुषस्य निष्पत्तिरसोः प्राणात् ॥१५॥



_______________________________________________________________________

३,९.१६

आप एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं अप्सु पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
वरुण इति होवाच ॥ _३,९.१६ ॥

__________


शा.भा._३,९.१६ आप एव यस्य आयतनम् ।
साधारणाः सर्वा आप आयतनं वापीकूपतडागाद्याश्रयास्वप्सु विशेषावस्थानम् ।
तस्य का देवतेति? वरुण इति॑वरुणात्सङ्घातकर्ञ्योध्यात्ममाप एव वाप्याद्यपं निष्पत्तिकारणम् ॥१६॥



_______________________________________________________________________

३,९.१७

रेत एव यस्यायतनं हृदयं लोको मनो ज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणं स वै वेदिता स्यात् ।
याज्ञवल्क्य वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ ।
य एवायं पुत्रमयः पुरुषः स एषः ।
वदैव शाकल्य तस्य का देवतेति ।
प्रजापतिरिति होवाच ॥ _३,९.१७ ॥

__________

शा.भा._३,९.१७ रेत एव यस्यायतनम् ।
य एवायं पुत्रमयो विशेणायतनं रेत आयतनस्य, पुत्रस्य इति च अस्थिमञ्जाशुकाणि पितुर्जातानि ।
तस्य का देवतेति? प्रजापतिरिति होवाच ।
प्रज्ञापतिः पितोच्यते, पितृतो हि पुत्रस्योत्पत्तिः ॥१७॥



अष्टका देवलोकपुरुषभेदेन त्रिधा त्रिधा आत्मानं प्रविभज्यावस्थित एकैको देवः प्राणभेद एवोपासनार्थ व्यपदिष्टः ।
अधुना दिग्विभागेन पञ्चधा प्रविभक्तस्य आत्मानयुपसंहारार्थमाह ।
तूष्णीम्भूतं शाकल्यं याज्ञवल्क्यो ग्रहेणेवावेशयन्नाह



_______________________________________________________________________

३,९.१८

शाकल्येति होवाच याज्ञवल्क्यः ।
त्वां स्विदिमे ब्राह्मणा अङ्गारावक्षयणमक्रता३ इति ॥ _३,९.१८ ॥

__________


शा.भा._३,९.१८ शाकल्येति होवाच याज्ञवल्क्यः ।
त्वां स्विदिति वितर्के, इमे नूनं ब्राह्मणाः, अङ्गारावक्षणम् अङ्गारा अवक्षीयन्ते यस्मिन् सन्दंशादौ तदङ्गारावक्षणम् तदा नूनं त्वामक्रत कृतवन्तो ब्राह्मणाः, त्वं तु तन्न बुध्यसे आत्मानं मया दह्यमानमित्यभिप्रायः ॥१८॥



_______________________________________________________________________

३,९.१९

याज्ञवल्क्येति होवाच शाकल्यः ।
यदिदं कुरुपञ्चालानां ब्राह्मनानत्यवादीः किं ब्रह्म विद्वानिति ।
दिशो वेद सदेवाः सप्रतिष्ठा इति ।
यद्दिशो वेत्थ सदेवाः सप्रतिष्ठाः ॥ _३,९.१९ ॥

__________


शा.भा._३,९.१९ याज्ञवल्क्येति होवाच शाकल्यः यदिदं कुरुषञ्चलानां ब्राह्मणानत्यवादीः अत्युक्तवानसि स्वयं भीतास्त्वामङ्गारावक्षयणं कृतवन्त इति किं ब्रह्म विद्वान् सन्नेवमधिक्षिपसि ब्राह्मणान्? याज्ञवल्क्य आह ब्रह्म विज्ञानं तावदिदं मम, किं तत्? दिशो वेद दिग्विषयं विज्ञानं जाने ।
तच्च न क्वलं दिश, एव, सदेवा देवैः सह दिगधिष्ठातृभिः, किञ्च सप्रतिष्ठिताः प्रतिष्ठाभिश्च सह ।
इतर आह यद्यदि दिशो वेत्थ सदेवाः, सप्रतिष्ठा इति, सफलं यदि विज्ञानं त्वया प्रतिज्ञातम् ॥१९॥



_______________________________________________________________________

३,९.२०

किंदेवतोऽस्यां प्राच्यां दिश्यसीति ।
आदित्यदेवत इति ।
स आदित्यः कस्मिन् प्रतिष्ठित इति ।
चक्षुषीति ।
कस्मिन्नु चक्षुः प्रतिष्ठितमिति ।
रूपेष्विति ।
चक्षुषा हि रूपाणि पश्यति ।
कस्मिन्नु रूपाणि प्रतिष्ठितानीति ।
हृदय इति होवाच ।
हृदयेन हि रूपाणि जानाति ।
हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति ।
एवमेवैतद्याज्ञवल्क्य ॥ _३,९.२० ॥

__________


शा.भा._३,९.२० किन्देवतः का देवतास्य तव दिग्भृतस्य ।
असौ हि याज्ञवल्क्यो हृदयमात्मानं दिक्षु पञ्चधा विभक्तं दिगात्मभूतम्, तद्द्वारेण सर्वं जगदात्मत्वेनोपगम्य, अहमस्मि दिगात्मेति व्यवस्थितः पूर्वाभिमुखः सप्रतिष्ठावचनाद्, यथा याज्ञवल्क्यस्य प्रतिज्ञा तथैव पृच्छति किन्देवतस्त्वमस्यां दिश्यसीति ।
सर्वत्र हि वेदे यां यां देवताद्वपास्ते, इहैव तद्भूतस्तां तां प्रतिपद्यत इति॑तथा च वक्ष्यतिऽदेवो भूत्वा देवानप्येतिऽ(बृ.उ.४ । १ । २) इति ।
अस्यां प्राच्यां का देवता दिगात्मनस्तवाधिष्ठात्री, कया देवतया त्वं प्रापीदिग्रूपेण सम्पन्न इत्यर्थः ।
इतर आह आदित्यदेवत इति ।
प्राच्यां दिशि मम आदित्यो देवता, सोऽहमादित्यदेवतः ।
सदेवा इत्येतदुक्तम्, सप्रतिष्ठा इति तु वक्तव्यमित्याह स आदित्यः कस्मिन् प्रतिष्ठित इति? चक्षुषीति ।
अध्यात्मतश्चक्षुष आदित्यो निष्पन्न इति हि मन्त्रब्राह्मणवादाः "चक्षोः सूर्यो अजायत" (यजु.३१ । १२) "चक्षुष आदित्यः"(ऐ.उ.१ । ४) इत्यादयः ।
कार्यं हि कारणे प्रतिष्ठितं भवति ।
कस्मिन्नु चक्षुः प्रतिष्ठितमिति? रूपेष्विति॑रूपग्रहणाय हि रूपात्मकं चक्षु रूपेण प्रयुक्तम्॑यैर्हि रूपैः प्रयुक्तं तैरात्मग्रहणायारब्धं चक्षुः सह प्राच्या दिशा सह तत्स्थैः सर्वै रूपेषु प्रतिष्ठितम् ।
चक्षुषा सह प्राची दिक्सर्वे रूपभूता, तानि च कस्मिन्नु रूपाणि प्रतिष्ठितानीति? हृदय इति होवाच ।
हृदयारब्धानि रूपाणि ।
रूपाकारेण हि हृदयं परिणतम् ।
यस्माधृदयेन हि रूपाणि सर्वो लोको जानाति ।
हृदयमिति बुद्धिमनसो एकीकृत्य निर्देशः, तस्माधृदये ह्येव रूपाणि प्रतिष्ठितानि ।
हृदयेन हि स्मरणं भवति रूपाणां वासनात्मनाम्॑तस्माधृदये रूपाणि प्रतिष्ठितानि इत्यर्थः ।
एवमेवैतद्याज्ञवल्क्य ॥२०॥



_______________________________________________________________________

३,९.२१

किंदेवतोऽस्यां दक्षिणायां दिश्यसीति ।
यमदेवत इति ।
स यमः कस्मिन् प्रतिष्ठित इति ।
यज्ञ इति ।
कस्मिन्नु यज्ञः प्रतिष्ठित इति ।
दक्षिणायामिति ।
कस्मिन्नु दक्षिणा प्रतिष्ठितेति ।
श्रद्धायामिति ।
यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति ।
श्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति ।
कस्मिन्नु श्रद्धा प्रतिष्ठितेति ।
हृदय इति होवाच ।
हृदयेन हि श्रद्धाम् ।
हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ _३,९.२१ ॥

__________


शा.भा._३,९.२१ किन्देवतोऽस्यां दक्षिणायां दिश्यसीति पूर्ववत् ।
दक्षिणायां दिशि का देवता तत्र? यमदेवत इति, यमो देवता मम दक्षिणादिग्भूतस्य ।
स यमः कस्मिन् प्रतिष्ठित इति? यज्ञ इति यज्ञे कारणे प्रतिष्ठितो यमः सह दिशा ।
कथं पुनर्यज्ञस्य कार्यं यमः? इत्युच्यते ऋत्विग्भिर्निष्पादितो यज्ञो दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेनाभिजयति ।
तेन यज्ञे यमः कार्यत्वात्प्रतिष्ठितः सह दक्षिणया दिशा ।
कस्मिन्नु यज्ञः प्रतिष्ठित इति? दक्षिणायामिति दक्षिणया स न ष्क्रीयते, तेन दक्षिणाकार्यं यज्ञः ।
कस्मिन्नु दक्षिणा प्रतिष्ठितेति? श्रद्धायामिति श्रद्धा नाम दित्सुत्वमास्तिक्यबुद्धिभक्तिसहिता ।
कथं तस्यां प्रतिष्ठिता दक्षिणा? यस्माद्यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति॑नाश्रद्दधद्दक्षिणां ददाति॑तस्माच्छ्रद्धायां ह्येव दक्षिणा प्रतिष्ठितेति ।
कस्मिन्नु श्रद्धा प्रतिष्ठितेति? हृदय इति होवाच हृदयस्य हि वृत्तिः श्रद्धा यस्मात्, हृदयेन हि श्रद्धां जानाति, वृत्तिश्च वृत्तिमति प्रतिष्ठिता भवति ।
तस्माधृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥२१ ॥ ॥



_______________________________________________________________________

३,९.२२

किंदेवतोऽस्यां प्रतीच्यां दिश्यसीति ।
वरुणदेवत इति ।
स वरुणः कस्मिन् प्रतिष्ठित इति ।
अप्स्विति ।
कस्मिन्न्वापः प्रतिष्ठिता इति ।
रेतसीति ।
कस्मिन्नु रेतः प्रतिष्ठितमिति ।
हृदय इति ।
तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति ।
हृदये ह्येव रेतः प्रतिष्ठितं भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ _३,९.२२ ॥

__________


शा.भा._३,९.२२ किन्गदेवतोऽस्यां प्रतीच्यां दिश्यसीति? तस्यां वरुणोऽधिदेवता मम ।
स वरुणः कस्मिन् प्रतिष्ठित इति? अप्स्विति अपां हि वरुणः कार्यम्,"श्रद्धा वा आपः" "श्रद्धातो वरुणमसृजत"इति श्रुतेः ।
कस्मिन्न्वापः प्रतिष्ठिता इति? रेतसीति "रेतसो ह्यापः सृष्टाः"इति श्रुतेः ।
कस्मिन्नि रेतः प्रतिष्ठितमिति? हृदय इति यस्माधृदयस्य कार्यं रेतः ।
कामो हृदयस्य वृत्तिः कामिनो हि हृदयाद्रेतोऽधिस्कन्दति ।
तस्मादपि प्रतिरूपमनुरूपं पुत्रं जातमाहुर्लोकिकाः अस्य पितुर्हृदयादिवायं पुत्रः सुप्तो विनिःसृतः, हृदयादिव निर्मितो यथा सुवर्णेन निर्मितः कुण्डलः ।
तस्माथृदये ह्येव रेतः प्रतिष्ठितं भवतीति ।
एवमेवैतत्याज्ञवल्क्य ॥२२..॥


_______________________________________________________________________

३,९.२३

किंदेवतोऽस्यामुदीच्यां दिश्यसीति ।
सोमदेवत इति ।
स सोमः कस्मिन् प्रतिष्ठित इति ।
दीक्षायामिति ।
कस्मिन्नु दिक्षा प्रतिष्ठितेति ।
सत्य इति ।
तस्मादपि दीक्षितमाहुः सत्यं वदेति ।
सत्ये ह्येव दीक्षा प्रतिष्ठितेति ।
कस्मिन्नु सत्यं प्रतिष्ठितमिति ।
हृदय इति होवाच ।
हृदयेन हि सत्यं जानाति ।
हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ _३,९.२३ ॥

__________


शा.भा._३,९.२३ किन्देवतोऽस्यामुदीच्यां दिश्यसीति? सोमदेवत इति सोम इति लतां सोमं देवतां चैकीकृत्य निर्देशः ।
स सोमः कस्मिन् प्रतिष्ठित इति? दीक्षायामिति दीक्षितो हि यजमानः सोमं क्रीणाति, क्रीतेन सोमेनेष्ट्वा ज्ञानवानुत्तरां दिशं प्रतिपद्यते सोमदेवताधिष्ठितां सौम्याम् ।
कस्मिन्नु दीक्षा प्रतिष्ठितेति!सत्य इति॑कथम्? यस्मात्सत्ये दीक्षा प्रतिष्ठिता, तस्मादपि दीक्षितमाहुः सत्यं वदेति॑कारणभ्रेषो कार्यभ्रेषो मा भूदिति॑सत्ये ह्येव दीक्षा प्रतिष्ठितमिति? हृदय इति होवाच॑हृदयेन हि सत्यं जानाति॑तस्माधृदये ह्येव सत्यं प्रतिष्ठितं भवतीति ।
एवमेवैतद्याज्ञवल्क्य ॥२३॥



_______________________________________________________________________

३,९.२४

किंदेवतोऽस्यां ध्रुवायां दिश्यसीति ।
अग्निदेवत इति ।
सोऽग्निः कस्मिन् प्रतिष्ठित इति ।
वाचीति ।
कस्मिन्नु वाक्प्रतिष्ठितेति ।
हृदय इति ।
कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥ _३,९.२४ ॥

__________


शा.भा._३,९.२४ किन्देवतोऽस्यां दिश्यसीति ।
मेरोः समन्ततो वसतामव्यभिचारादूर्ध्वा दिग्ध्रुवेत्युच्यते ।
अग्निदेवत इति ऊर्ध्वायां हि प्रकाशभूयस्त्वम्, प्रकाशश्चाग्निः ।
सोऽग्निः कस्मिन् प्रतिष्ठित इति? वाचीति ।
कस्मिन्नि वाक्प्रतिष्ठितेति? हृदय इति ।
तत्र याज्ञवल्क्यः सर्वासु दिक्षु विपसृतेन हृदयेन सर्वां दिश आत्मत्वेनाभिसम्पन्नः॑सदेवाः सप्रतिष्ठिता दिश आत्मभूतास्तस्य नामरूपकर्मात्मभूतस्य याज्ञवल्क्यस्य ।
यद्रूपं तत्प्राच्या दिशा सह हृदयभूतं याज्ञवल्क्यस्य ।
यत्केवलं कर्म पुत्रोत्पादनलक्षणं च यानसहितं च सहफेनाधिष्ठात्रीभिश्च देवताभिर्दक्षिणाप्रतीच्युदीच्यः कर्मफलात्मिका हृदयमेव आपन्नास्तस्य, ध्रुवया दिशा सह नाम सर्वं वाग्द्वारेण हृदयमेव आपन्नम् ।
एतावद्धीदं सर्वम्, यदुत रूपं वा कर्म वा नाम वेति तत्सर्वं हृदयमेव, तत्सर्वात्मकं हृदयं पृच्छ्यते कस्मिन्नु हृदयं प्रतिष्ठितमिति ॥२४॥



_______________________________________________________________________

३,९.२५

अहल्लिकेति होवाच याज्ञवल्क्यः ।
यत्रैतदन्यत्रास्मन्मन्यासै ।
यद्ध्येतदन्यत्रास्मत्स्याच्छ्वानो वैनदद्युर्वयांसि वैनद्विमथ्नीरन्निति ॥ _३,९.२५ ॥

__________


शा.भा._३,९.२५ अहल्लिकेति होवाच याज्ञवल्क्यः, नामान्तरेण सम्बोधनं कृतवान् ।
यत्र यस्मिन्काले, एतधृदयमात्मास्य अस्मदस्मत्तो वर्तत इति मन्यासै मन्यसे यद्धि यदि ह्येतधृदयमन्यत्रास्मत्स्याद्भवेत्, श्वानौ वैनच्छरीरं तदा अद्युः, वयांसि वा पक्षिणो वैनद्विमथ्नीरन् विलोडयेयुः विकर्पेरन्निति ।
तस्मान्मयि शरीरे हृदयं प्रतिष्ठितमित्यर्थः ।
शरीरस्यापि नामरूपकर्मात्मकत्वाथृदये प्रतिष्ठितत्वम् ॥२५॥

हृदयशरीरस्योरेवमन्येन्यप्रतिष्ठोक्ता कार्यकरणयोः अतस्त्वां पृच्छामि



_______________________________________________________________________

३,९.२६

कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति ।
प्राण इति ।
कस्मिन्नु प्राणः प्रतिष्ठित इति ।
अपान इति ।
कस्मिन्न्वपानः प्रतिष्ठित इति ।
व्यान इति ।
कस्मिन्नु व्यानः प्रतिष्ठित इति ।
उदान इति ।
कस्मिन्नूदानः प्रतिष्ठित इति ।
समान इति ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न सज्यते ।
असितो न व्यथते ।
न रिष्यति ।
एतान्यष्टावायतनान्यष्टौ लोका अद्द्. अष्टौ देवा अष्टौ पुरुषाः ।
स यस्तान् पुरुषान्निरुह्य प्रत्युह्यात्यक्रामत्तं त्वौपनिषदं पुरुषं पृच्छामि ।
तं चेन्मे न विवक्ष्यसि मूर्धा ते विपतिष्यतीति ।
तं ह न मेने शाकल्यस्।
तस्य ह मूर्धा विपपात ।
अपि हास्य परिमोषिणोऽस्थीन्यपजह्रुरन्यन्मन्यमानाः ॥ _३,९.२६ ॥

__________


शा.भा._३,९.२६ कस्मिन्नु त्वं च शरीरमात्मा च तव हृदयं प्रतिष्ठितौ स्थ इति? प्राण इति॑देहात्मानौ प्राणे प्रतिष्ठितौ स्यातां प्राणवृत्तौ ।
कस्मिन्नु प्राणाः प्रतिष्ठित इति अपान इति सापि प्राणवृत्तिः प्रागेव प्रेयातपानवृत्त्या चेन्न निगृह्येत ।
कस्मिन्न्वपानः प्रतिष्ठित इति? व्यान इति साप्यपानवृत्तिरध एव यायात्प्राणवृत्तिश्च प्रागेव, मध्यस्थया चेद्व्यानवृत्त्या न निगृह्येत ।
कस्मिन्नु व्यानः प्रतिष्ठित इति? उदान इति सर्वास्तिस्रोऽपि वृत्तय उदाने कीलस्थानीये चेन्न निरुद्धा, विष्वगेवेयुः ।
कस्मिन्नूदानः प्रतिष्ठित इति? समान इति समानप्रतिष्ठा ह्येताः सर्वा वृत्तयः ।
एतदुक्तं भवति शरीरहृदयवायवोऽन्योन्यप्रतिष्ठाः, सङ्घातेन निषता वर्तन्ते विज्ञानमयार्थप्रयुक्ता इति ।
सर्वमेतद्येन नियतं यस्मिन् प्रतिष्ठितमाकाशान्तमोतं च प्रोतं च, तस्य निरुपाधिकस्य साक्षादपरोक्षाद्ब्रह्मणो निर्देशः कतव्य इत्ययमारम्भः ।
स एषः सयो नेतिनेतीति निर्दिष्टो मधुकाण्डे, एष सः ।
सोऽयमात्मागृह्यो न गृह्यः ।
कथम्? यस्मात्सर्वकार्यधर्मातीतः, तस्मादगृह्यः ।
कुतः? यस्मान्न हि गृह्यते ।
यद्धि करणगोचरं व्याकृतं वस्तु, तद्ग्रहणगोचरम्. इदं तु तद्विपरीतमात्मतत्त्वम् ।
तथाशीर्यः॑यद्धि मूर्तं संहतं शरीरादि तच्छीर्यते॑यं तु तद्विपरीतोऽतो न हि शीर्यते ।
तथासङ्गो मूर्तो मूर्तान्तरेण सम्बध्यमानः सज्यतेऽयं च तद्विपरीतोऽतो न हि सज्यते ।
तथासितोऽबद्धः, यद्धि मूर्त तद्वध्यते॑यं तु तद्विपरीतत्वादबद्धत्वान्न व्यथते, अतो न रिष्यति ग्रहणविशरणसम्बन्धकार्यधर्मरहितत्वान्न रिष्यति न हिंसामापद्यते न विनश्यतीत्यर्थः ।
क्रममतिक्रम्य औपनिषदस्य पुरुषस्य आख्यायिकातोऽपसृत्य श्रुत्या स्वेन रूपेण त्वरया निर्देशः कृतः, ततः पुनराख्यायिकामेवाश्रित्याह एतानि यान्युक्तान्यष्टावायतनानिऽपृथिव्येव यस्यायतनम्ऽइत्येवमादीनि, अष्टौ लोका अग्निलोकादयः, अष्टौ देवाः अमृतमिति होवाच इत्येवमादयः, अष्टौ पुरुषाः शरीरः पुरुषः, इत्यादयः, स यः कश्चित्तान् पुरुषाञ्शारीरप्रभृतीन्निरुह्य निश्चयेनोह्य गर्मयित्वाष्टचतुष्कभेदेन लोकस्थितिमुपपाद्यः, पुनः प्राचीदिगादिद्वारेण प्रत्युह्य उपसंहृत्य स्वात्मनि हृदयेऽत्यक्रामदतिक्रान्तवानुपाधिधर्म
हृदयाद्यात्मत्वम्॑स्वेनैवात्मना व्यवस्थितो य औपनिषदः पुरुषोऽशनायादिवर्जितः उपनिषत्स्वेव विज्ञेयो नान्यप्रमाणगम्यः, तं त्वा त्वां विद्याभिमानिनं पुरुषं पृच्छामि ।
तं चेद्यदि मे न विवक्ष्यसि विस्पष्टं न कथयिष्यसि, मूर्धा ते विपतिष्यतीत्याह याज्ञवल्क्यः ।
तं त्वौपनिषदं पुरुषं शाकल्यो न मेने ह न विज्ञातवान् किल तस्य ह मूर्धा विपपात विपतितः ।
समाप्ताख्यायका ।
श्रुतेवचनं तं ह न मेन इत्यादि ।
किं चापि हास्य परिमोषिणस्तस्करा अस्थीन्यपि संस्कारार्थ शिष्येनीयमानानि गृहान् प्रत्यपजहःपह्रतवन्तः किन्निमित्तम्? अन्यद्धनं नीयमानं मन्यमानाः ।
पूर्ववृत्ता ह्याख्यायिकेह सूचिता ।
अष्टाध्याय किल शाकल्येन याज्ञवल्क्यस्य समानान्त एव किल संवादो निवृत्तः॑तत्र याज्ञवल्क्येन शापो दत्तःपुरेऽतिथ्ये मरिष्यसि न तेऽस्थीनि च न गृहान् प्राप्स्यन्तीति ।
स ह तथैव ममार ।
तस्य हाप्यन्वः मन्यमानाः परिमोषिणोऽथीन्यपजहः॑तस्मान्नोपवादी स्यादुत ह्येवंवित्परो भवतीति ।
सैपा आख्यायिका आचारार्थ सूचिता विद्यास्तुतये चेह ॥२६॥

यस्य नेति, नेतीत्यन्यप्रतिषेधद्वारेण ब्रह्मणो निर्देशः कृतः, तस्य विधिमुखेन कथं निर्देशः कर्तव्यः, इति पुनराख्यायिकामेव आश्रित्याह मूलं च जगतो वक्तव्यमिति ।
आख्यायिकासम्बन्धस्त्वव्रह्यविदो ब्राह्मणाञ्जित्वा गोधनं इर्तव्यमिति ।
न्यायं मत्वाह



_______________________________________________________________________

३,९.२७

अथ होवाच ब्राह्मणा भगवन्तो यो वः कामयते स मा पृच्छतु ।
सर्वे वा मा पृच्छत ।
यो वः कामयते तं वः पृच्छामि सर्वान् वा वः पृच्छामीति ।
ते ह ब्राह्मणा न दधृषुः ॥ _३,९.२७ ॥

__________


शा.भा._३,९.२७ अथ होवाच ।
अथानन्तरं तूष्णीम्भूतेषु ब्राह्मणेषु होवाच, हे ब्राहेमणा भगवन्त इत्येवं सम्बोध्ययो वो युष्माकं मध्ये कामयते इच्छतियाज्ञवल्क्यं पृच्छामीति, स मा मामागत्य पृच्छत्॑सर्वे वा मा पृच्छत सर्वे वा यूयं मा मां पृच्छत ।
यो वः कामयते याज्ञवल्क्यो मां पृच्छत्विति, तं वः पृच्छमि॑सर्वान् वा वो युष्मानहं पृच्छामि ।
ते ह ब्राह्मणा न दधृषुःते ब्राह्मणा एवमुक्ता अपि न प्रगल्भाः संवृत्ताः किञ्चिदपि प्रत्युत्तरं वक्तुम् ॥२७॥



_______________________________________________________________________

३,९.२८१

तान् हैतैः श्लोकैः पप्रच्छ
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा ।
तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ॥ _३,९.२८१ ॥

__________


शा.भा._३,९.२८१ तेषु अप्रगल्भभूतेषु ब्राह्मणेषु तान् हैतैर्वक्ष्यमाणैः श्लोकैः पप्रच्छ पृष्टवान् ।
यथा लोके वृक्षो वनस्पतिः, वृक्षस्य विशेषणं वनस्पतिरिति, तथैव पुरुषोऽमृपाअमृपा सत्यमेतत्तस्य लोमानि॑तस्य पुरुषस्य लोमानीतरस्य वनस्पतेः पर्णानि॑त्वगस्योत्पाटिका वहिःत्वगस्य पुरुषस्य इतरस्योत्पाटिका वनस्पतेः ॥१॥



_______________________________________________________________________

३,९.२८२

त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः ।
तस्मात्तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् ॥ _३,९.२८२ ॥

__________


शा.भा._३,९.२८२ त्वच एव सकाशादस्य पुरुषस्य रुधिरं प्रस्यन्दि, वनस्पतेरत्वच उत्पटःत्वच एवोत्स्फुटति यस्मात्॑ेवं सर्वं समानमेव वनस्पतेः पुरुषस्य च॑तस्मादातृण्णाथिसितात्प्रति तद्रुधिरं निर्गच्छति वृक्षादिवाहताच्छिन्नाद्रसः ॥२॥



_______________________________________________________________________

३,९.२८३

मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् ।
अस्थीन्यन्तरतो दारुणि मज्जा मज्जोपमा कृता ॥ _३,९.२८३ ॥

__________


शा.भा._३,९.२८३ एवं मांसान्यस्य पुरुषस्य, वनस्पतेस्यानि शकराणि शकलानीत्यर्थः ।
किनाटं वृक्षस्य, किनाटं नाम शकलेभ्योऽभ्यन्तरं वल्कलरूपं काष्ठसंलग्नम्, तत्स्नाव पुरुषस्य॑तत्स्थिरम्तच्च किनाटं स्नाववद्दृढं हि तत्॑स्थीनि पुरुषस्य, स्नाव्नोऽन्तरतोऽस्थीनि भवन्ति॑तथा किनाटस्याभ्यन्तरतो दारुणि काष्ठानि॑मज्जा, मज्जेव वनस्पतेः पुरुषस्य च मज्जोपमा कृता, मज्जाया उपमामज्जोपमा, नान्यो विशेषोऽस्तीत्यर्थः॑यथा वनस्पतेर्मज्जा तथा पुरुषस्य, यथा पुरुषस्य तथा वनस्पतेः ॥३॥



_______________________________________________________________________

३,९.२८४

यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः ।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ _३,९.२८४ ॥

__________


शा.भा._३,९.२८४ यद्यदि वृक्षो वृक्णश्छिन्नो रोहति पुनः पुनः प्ररोहतिप्रादुर्भवति मूलात्पुनर्नवतरः पूर्वस्मादभिनवतरः॑यदेतस्माद्विशेणात्प्राग्वनस्पतेः पुरुषस्य च, सर्वं सामान्यमवगतम्॑यं तु वनस्पतौ विशेषो दृश्यते यच्छिन्नस्यप्ररोहणम्॑न तु पुरुषे मृत्युना वृक्णे पुनः प्ररोहणं दृश्यते॑भवितव्यं च कुतश्चित्प्ररोहणेन॑तस्माद वः पृच्छामिमर्त्यो मनुष्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति? मृतस्य पुरुषस्य कुतः प्ररोहणमित्यर्थः ॥४॥



_______________________________________________________________________

३,९.२८५

रेतस इति मा वोचत जीवतस्तत्प्रजायते ।
धानारुह इव वै वृक्षोऽञ्जसा प्रेत्य सम्भवः ॥ _३,९.२८५ ॥

__________


शा.भा._३,९.२८५ यदि चेदेवं वदथरेतमः प्ररोहतीति, मा वोचत मैवं वषतुमर्हथ॑कस्मात्? यस्माज्जीवतः पुरुषात्तद्रेतः प्रजायते, न मृतात् ।
अपि च धानारुहः, धाना बीजम्, बीजरुहो ।
पि वृक्षो भवति, न केवलं काण्डरह एव॑िवशब्दोऽनर्थकः, वै वृक्षोऽज्जसा साक्षात्प्रेत्य मृत्वासम्भवो धानातोऽपि प्रेत्य सम्भवो भवेदज्जसा पुनर्वनस्पतेः ॥५॥



_______________________________________________________________________

३,९.२८६

यत्समूलमावृहेयुर्वृक्षं न पुनराभवेत् ।
मर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥ _३,९.२८६ ॥


__________


शा.भा._३,९.२८६ यद्यदि सह मूलेन धान्या वा आवृहेयुरुद्यच्छेपरुयेयुर्वृक्षम्, न पुनराभवेत्पुनरागत्य न भवेत् ।
तस्माद्वः पृच्छामि सर्वस्यैव जगतो मूलं सर्त्यः स्विन्मृत्युना वृक्णः कस्मान्मूलात्प्ररोहति ॥६॥



_______________________________________________________________________

३,९.२८७८

जात एव न जायते को न्वेनं जनयेत्पुनः ।
विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ _३,९.२८७ ॥

जात एव न जायते को न्वेनं जनयेत्पुनः ।
विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥

तिष्ठमानस्य तद्विद इति ॥ _३,९.२८८ ॥


__________


शा.भा._३,९.२८७८. जात एवेति मन्यध्वं यदि किमन्न प्रष्टव्यमितिअनिष्यमाणस्य हि सम्भवः प्रष्टव्यः, न जातस्य, अयं तु जात एवातोपस्मिन् विषये प्रश्न एव नोपऽद्यत इति चेत्न, किं तर्हि? मृतः पुनरपि जायत एवान्यथाकृताभ्यागमकृतनाशप्रसङ्गात्॑तो वः पृच्छामिको न्वेनं मृतं पुनर्जनयेत्? तत्र विजज्ञुर्ब्राह्मणाःयतो मृतः पुनः प्ररोहति जगतो मूलं न विज्ञातं ब्राह्मणैः॑तो ब्रह्मिष्ठत्वाध्रता गावः॑याज्ञवल्क्येन जिताब्राह्मणाः ।
समाप्ता आख्यायिका ।
यज्जगतो मूलम्, येन च शब्देन साक्षाद्व्यपदिश्यते ब्रह्म, यद्याज्ञवल्क्यो ब्राह्मणान् पृष्टवांस्तत्स्वेन रूपेण श्रुतिरस्यभ्यमाहविज्ञानं विज्ञप्तिर्विज्ञानम्, तच्च आनन्दम्, न विषयविज्ञानवद्दुःखानुविद्वम्, किं तर्हि? प्रसन्नं शिवमतुलमनायासंनित्यतृप्तमे करसमित्यर्थः. किं तद्ब्रह्म उमयविशेणवद्रातिःरातेः पष्ठयथ प्रथमा, धनस्येत्यर्थः, धनस्य दातुः कर्मकृतो यजमानस्य परायणं परा गतिः कर्मफलस्य प्रदातृ ।
किञ्च व्युत्थायैषणाभ्यस्यस्मिन्नेव ब्रह्माणि तिष्ठत्यकर्मकृत्, तद्ब्रह्म वेत्तीति तद्विच्च॑तस्यतिष्ठमानस्य च तद्विदः, ब्रह्मविद इत्यर्थः, परायणमिति ।
अत्रेदं विचार्यतेआनन्दशब्दो लोके सुखवाची प्रसिद्वः, अत्र च ब्रह्मणो विशेषणत्वेन आनन्दशब्दः श्रूयतेआनन्दं ब्रह्मेति ।
श्रुत्यन्तरे च"आनन्दो ब्रह्मेति व्यजानात्""आनन्दं ब्रह्मणो विद्वान्" "यदेष आकाश आनन्दो न स्यात" "यो वै भूमा तत्सुखम्"इति च॑"एष परम आनन्दः"इत्येवमाद्याः ।
संवेद्ये च सुखे आनन्दशब्दः प्रसिद्वः ब्रह्मानन्दश्च यदि संवेद्यः स्याद्युक्ता एते ब्रह्मण्यानन्दशब्दाः ।
ननु च श्रुतिप्रामाण्यात्संवेद्यानन्दस्वरूपमेव ब्रह्म, किं तत्र विचार्यम्? इति न, विरुद्वश्रुतिवाक्यदर्शनात्सत्यम्, आनन्दशब्दो ब्रह्मणि श्रूयते, विज्ञानप्रतिषेधश्चैकत्वे"यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं विजानीयात्" "यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" "प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेद"इत्यादि॑विरुद्वश्रुतिवाक्यदर्शनात्तेन कर्तव्यो विचारः॑तस्माद्युक्तं वेदवाक्यर्थनिर्णयाय विचारयितुम् ।
मोक्षवादिविप्रतिपत्तेश्चसांख्या वैशेषिकाश्च मोक्षवादिनो नास्ति मोक्षे सुखं संवेद्यमित्येवं विप्रतिपन्नाः॑न्ये निग्तिशयं सुखं स्वसंवद्यमिति॑किं तावद्युक्तम्? आनन्दादिश्रवणात्"जक्षतक्रीडन् रममाणः"ऽसयाद पितृलोककामो भवतऽ "यः सर्वज्ञः सर्ववित्""सर्वान् कामान् समश्नुते"इत्यादिश्रुतिभ्यो मोक्षे सुखं संवेद्यमिति ।
नन्वेकत्वे कारकविमागमावाद्विज्ञानानुपपत्तिः, क्रियायाश्चाने ककारक्रसाध्यात्वाद्विज्ञानस्य च क्रियात्वात् ।
नैष दोषः॑शब्दप्रामाण्याद्भवेद्विज्ञानमानन्दविषये॑"विज्ञानमानन्दम्"इत्यादीनि आनन्दस्वरूपस्यासंवेद्यत्वेऽनुपपन्नानि वचनानीत्यवोचाम ।
ननु वचनेनाप्यग्नेः शैत्यमुदकस्य चौष्भ्यं न क्रियते एव, ज्ञापकत्वाद्वचनानाम् ।
न च देशान्तरेऽग्निः शीत इति शक्यते ज्ञापयितुम्॑गम्ये वा देशान्तरे उष्णमुदकमिति ।
न, प्रत्यगात्मन्यानन्दविज्ञानदर्शनात्॑नऽविज्ञानमानन्दम्ऽइत्वेवमादीनां वचनानां शीतोऽग्निरित्यादिवाक्यवत्प्रत्यक्षादिविरुद्वार्थप्रतिपादकत्वाम् ।
अनुभूयते त्वविरुद्वार्थता॑सुख्यहमिति सुखात्मकमात्मानं स्वयमेव वेदयते॑तस्मात्सुतरां प्रत्यक्षाविरुद्वार्थता॑तस्मादानन्दं ब्रह्म विज्ञानात्मकं सत्स्वयमेव वेदयते ।
तथा आनन्दप्रतिपादिकाः श्रुतयः समञ्जसाः स्युःऽजक्षत्क्रीडन् रममाणःऽ इत्येवमाद्याः पूर्वोक्ताः ।
न, कार्यकरणाभावेऽनुपपत्तेर्विज्ञानस्यशरीरवियोगो हि मोक्ष आत्यन्तिकः॑शरीरभावे च करणानुपपत्तिः, आश्रयाभावात्॑ततश्च विज्ञानानुपत्तिः, आकार्यकरणत्वात्॑देहद्यभावे च विज्ञानोत्पत्तौ सर्वेषां कार्यकरणोपादानानर्थक्यप्रसङ्गः ।
एकत्वविरोधाच्चपरं चेद्ब्रह्म आनन्दात्मकमात्मानं नित्यविज्ञानत्वान्नित्यमेव विजानीयात्, तन्न, संसार्यपि संसारविनिर्मुक्तः स्वाभाव्यं प्रतिपद्येत॑जलाशय इवोदकाञ्जलिः क्षिप्तो न पृथक्त्वेन व्यवतिष्ठते आनन्दात्मकब्रह्मविज्ञानाय, तदा मुक्त आनन्दात्मकमात्मानं वेदयते इत्येतदनर्थकं वाक्यम् ।
अथ ब्रह्मानन्दमन्याः सन्मुक्तो वेदयते, प्रत्यगात्मानं च, अहमस्म्यानन्दस्वरूप इति, तदैकत्वविरोधः, तथा च सति सर्वश्रुतिविरोधः, तृतीया च कल्पना नोपपद्यते ।
किञ्चान्यत्, ब्रह्मणश्च निरन्तरात्मानन्दविज्ञाने विज्ञानाविज्ञानकल्पनानर्थक्यम्॑निरन्तरं चेदात्मानन्दविषयं ब्रह्मणो विज्ञानम्, तदेव तस्य स्वभाव इत्यात्मानन्दं विजानातीति कल्पनानुपपन्ना॑तद्विज्ञानप्रसङ्गे हि कल्पनाया अर्थवत्त्वम्, यथा आत्मानं परं च वेत्तीति, न हीष्वाद्यासक्तमनसो नैरन्तर्येणोषुज्ञानाज्ञानकल्पनाया अर्थवत्त्वम् ।
अथ विच्छिन्नमात्मानन्दं विजानातिविज्ञानस्य आत्मविज्ञानच्छिद्रे अन्यविषयत्वप्रसङ्गः॑ात्मनश्य विक्रियावत्त्वं ततश्चानित्यत्वप्रसङ्गः॑तस्माद्विज्ञानमानन्दमिति स्वरूपान्वाख्यानपरैव श्रुतिः, नात्मानन्दसंवेद्यत्वार्थ ।
ऽजक्षत्क्रीडन्ऽइत्यादिश्रुतिविरोधोऽसंवेद्यत्व इति चेत्! न॑सर्वात्मैकत्वे यथाप्राप्तानुवादित्वात्मुक्तस्य सर्वात्मभावे सति यत्र क्वचिद्योगिषु देवेषु वा जक्षणादि प्राप्तम्, तद्यथाप्राप्तमेवानूद्यतेतत्तस्यैव सर्वात्मभावादिति सर्वात्मभावमोक्षस्तुतये ।
यथाप्राप्तानुवदित्वे दुःखित्वमपीति चेत्योग्यादिषु यथाप्राप्तजक्षणादिवत्स्थावरादिषु यथाप्राप्तदुःखित्वमपीति चेत्! न, नामरूपकृतकार्यकरणोपाधिसम्पर्कजनितभ्रान्त्यध्यारोपितत्वात्सुखित्वदुःखित्वादिविशेषस्येति परिह्रतमेतत्सर्वम् ।
विरुद्वश्रुतीनां च विषयमवोचाम ।
तस्मात्"एषोऽस्य परम आनन्दः"इतिवत्सर्वाष्यानन्दवाक्यानि द्रष्टव्यानि ॥२८॥

इति तृतीयाध्याये नवमं शाकल्यब्राह्मणम् ॥१ ॥
इति बृहदारण्यकोपनिषद्भाष्ये तृतीयोऽध्यायः ॥३॥

अध्याय ४[सम्पाद्यताम्]



जनको ह वैदेह आसाञ्चक्रे ।
अस्य सम्बन्धः शरीराद्यानष्टौ पुरुषान्निरुह्य, प्रत्युह्य पुनर्हृदये, दिग्भेदनेन च पुनः पञ्चधा व्याह्य, हृदये प्रत्यूह्य, हृदयं शरीरं च पुनरन्योन्यप्रतिष्ठं प्राणादिपढ्तवृत्यात्मके समानाख्ये जगदात्मनु सूत्र उपसंहृत्य, जगदात्मनि सूत्र उपसंहृत्य, जगदात्मानंशरीरहृदयसूत्रावस्थमतिक्रान्तवान् य औपनिषदः पुरुषो नेति नेतीति व्यपदिष्टः, स साक्षाञ्चोपादानकारणस्वरूपेण च निर्दिष्टःऽविज्ञानमानन्दम्ऽ इति ।
तस्यैव वागादिदेवताद्वारेण पुनरधिगमः कर्तव्य इत्यधिगमनोपायान्तरार्थोऽयमारम्भो ब्राह्मणद्वयस्य ।
आख्यायिका त्वाचारप्रदर्शनार्था



_______________________________________________________________________

४,१.१

जनको ह वैदेह आसां चक्रे ।
अथ ह याज्ञवल्क्य आवव्राज ।
तं होवाच याज्ञवल्क्य किमर्थमचारीः पशूनिच्छनण्वन्तानीति ।
उभयमेव संराडिति होवाच ॥ _४,१.१ ॥

__________



शा.भा._४,१.१ जनको ह वैदेह आसाञ्चक्रे आसनं कृतवानास्थायिकां दत्तवानित्यर्थः, दर्शनकामेभ्यो राज्ञः ।
अथ ह तस्मिन्नवसरे याज्ञवल्क्यः आवव्राजआगतवानात्मनो योगक्षेमार्थम्, राज्ञो वा विवदिषां दृष्ट्वानुग्रहार्थम् ।
तमागतं यज्ञवल्क्यं यथावत्पूजां कृत्वोवाच होक्तवाञ्जनकः हे याज्ञवल्क्य किमर्थमचारीःागतोऽसि? किं पशूनिच्छन् पुनरपि, आहोस्विदण्वन्तान् सूक्ष्मान्तान् सूक्ष्मवस्तुनिर्णयान्तान् प्रश्नान्मत्तः श्रोतुमिच्छन्निति ।
उभयमेव पशून् प्रश्नांश्च हे सम्राट्सम्राडिति वाजपेययाजिनो लिङ्गम् ॑ यश्च आज्ञया राज्यं प्रशास्ति, सम्राट्॑ तस्या मन्त्रणं हे सम्राडिति ॑ समस्तस्य वा भारतस्य वर्षस्य राजा ॥४,१.१॥



_______________________________________________________________________

४,१.२

यत्ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे जित्वा शैलिनिः वाग्वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छैलिनिरब्रवीद्वाग्वै ब्रह्मेति ।
अवदतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत ।
का प्रज्ञता याज्ञवल्क्य ।
वागेव सम्राडिति होवाच ।
वाचा वै सम्राड्बन्धुः प्रज्ञायते ।
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि वाचैव संराट्प्रज्ञायन्ते ।
वाग्वै सम्राट्परमं ब्रह्म ।
नैनं वाग्जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ _४,१.२ ॥

__________



शा.भा._४,१.२ किन्तु यत्ते तुभ्यं कश्चिदब्रवीदाचार्योऽनेकाचार्योऽनेकाचार्यसेवी हि भवांस्तच्छृणवामेति ।
इतर आह अब्रवदीदुक्तवान्मे ममाऽचार्यो जित्वा नामतः शिलिनस्यापत्यं शैलिनिर्वाग्वै ब्रह्मेति वाग्देवता ब्रह्मेति ।
आहेतपो यथा मातृमान्माता यस्य विद्यते पुत्रस्य सम्यगनुशास्त्र्यनुशासनकर्त्री स मातृमान् ।
अत ऊर्ध्वं पिता यस्यानुशास्ता स पितृमान् ।
उपनयनादूर्ध्वमा समावर्तनादाचार्यो यस्यानुशास्ता स आचार्यवान् ।
एवं शुद्धित्रयहेतुसंयुक्तः स साधादाचार्यः स्वयं न कदाचिदपु प्रामाणाद्व्यभिचरति स यथा ब्रूयाच्छिष्याय तथासौ जित्वा शैलिनिरुक्तवान्वाग्वै ब्रह्मेति ।
अवदतो हि किं स्यादिति ।
न हि मूकस्येहार्थममुत्रार्थं वा किञ्चन स्यात् ।
किन्त्वब्रवीदुक्तवास्ते तुभ्यं तस्य ब्रह्मण आयतनं प्रतिष्ठां च ।
आयतनं नाम शरीरम् ।
प्रतिष्ठा त्रिष्वपि कालेषु य आश्रयः ।
आहेतरो न मेऽब्रवीदिति ।
इतर आहयद्येवमेकपाद्वा एतदेकः पादो यस्य ब्रह्मणस्तदिदमेकपाद्ब्रह्म त्रिभिः पादैः शून्यमुपास्यमानमपि न फलाय भवतीत्यर्थः ।
यद्येवं स त्वं विद्वान्सन्नोऽस्मभ्यं ब्रूहि हे याज्ञवल्क्येति ।
स चाऽहवागेवाऽयतनं वाग्देवस्य ब्रह्मणो वागेव करणमायतनं शरीरमाकाशोऽव्याकृताख्यः प्रतिष्ठोत्पत्तिस्थितिलयकालेषु ।
प्रज्ञेत्येनदुपासीत प्रज्ञेतीयमुपनिषद्ब्रह्मणश्चतुर्थः पादः प्रज्ञेति कृत्वैनद्ब्रह्मोपासीत ।
का प्रज्ञता याज्ञवल्क्य कि स्वयमेव प्रज्ञोत प्रज्ञानिमित्तम् ।
यथाऽयतनप्रतिष्ठे ब्रह्मणो व्यतिरिक्ते तद्वत्किम् ।
न, कथ तर्हि, वागेव सम्राडिति होवाच वागेव प्रज्ञेति होवाचोक्तवान्न व्यतिरिक्ता प्रज्ञाति ।
कथं पुनर्वागेव प्रज्ञेति, उच्यतेवाचा वै सम्राड्बन्धुः प्रज्ञायतेऽस्माकं बन्धुरित्युक्ते प्रज्ञायकते बन्धुस्तथर्ग्वैदादि ।
इष्टं यागनिमित्त धर्मजातं हुतं होमनिमित्तं च ।
आशितमन्नदानिमित्तं पायितं पानदाननिमित्तमयं च लोक इदं च जन्म परश्च लोकः प्रतिपत्तव्यं च जन्म सर्वाणि च भूतानि वाचैव सम्राट्प्रज्ञायन्तेऽतो वाग्वैसम्राट्परमं ब्रह्म नानं यथोक्तब्रह्मविदं वाग्जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति बलिदानादिभिरिह ।
देवो भूत्वा पुनः शरीरपातोत्तरकालं देवानप्येत्यपिगच्छति य एवं विद्वानेतदुपास्ते विद्यानिष्क्रियार्थं हस्तितुल्य ऋषभो हस्त्यृषभो यस्मिन्गोसहस्रेतद्धस्तृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः ।
अननुशिष्य शिष्यं कृतार्थमकृत्वा शिष्याद्धनं न हरेतेति मे मम पितामन्यत ममाप्ययमेवाभिप्रायः ॥४,१.२॥



_______________________________________________________________________

४,१.३

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्म उदङ्कः शौल्बायनः ।
प्राणो वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेति ।
अप्राणतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
प्राण एवायतनमाकाशः प्रतिष्ठा ।
प्रियमित्येनदुपासीत ।
का प्रियता याज्ञवल्क्य ।
प्राण एव सम्राडिति होवाच ।
प्राणस्य वै सम्राट्कामायायाज्यं याजयति ।
अप्रतिगृह्यस्य प्रतिगृह्णाति ।
अपि तत्र वधाशङ्का भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय ।
प्राणो वै सम्राट्परमं ब्रह्म ।
नैनं प्राणो जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहह् ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ _४,१.३ ॥

__________



शा.भा._४,१.३ यदेव ते कश्चिदब्रवीदुदङ्को नामतः शुल्बस्यापत्यं शौल्बस्यापत्यं शौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेति प्राणो वायुर्देवता पूर्ववत् ।
प्राण एवाऽयनमाकाशः प्रतिष्ठोपनिषत्प्रियमित्येनदुपासीत ।
कथं पुनः प्रियत्वं, प्राणस्य वै हे सम्राट्कामाय प्राणस्यार्थायायाज्यं याजयति पतितादिकमप्यप्रतिगृह्यस्याप्युग्रादेः प्रतिगृह्णात्यपि तत्र तस्यां दिशि वधनिमित्तमाशङ्कं वधाशङ्केत्यर्थो यां दिशमेति तस्कराद्याकीर्णां च तस्यां दिशि ब धाशह्का तच्चैतत्सर्वं प्राणस्य प्रियत्वे भवति प्राणस्यैव सम्राट्कामाय ।
तस्मात्प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति ।
समानमन्यत् ॥४,१.३॥



_______________________________________________________________________

४,१.४

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे बर्कुर्वार्ष्णः ।
चक्षुर्वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेति ।
अपश्यतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
चक्षुरेवायतनमाकाशः प्रतिष्ठा ।
सत्यमित्येतदुपासीत ।
का सत्यता याज्ञवल्क्य ।
चक्षुरेव सम्राडिति होवाच ।
चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति ।
स आहाद्राक्षमिति तत्सत्यं भवति ।
चक्षुर्वै सम्राट्परमं ब्रह्म ।
नैनं चक्षुर्जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ _४,१.४ ॥

__________



शा.भा._४,१.४ यदेव ते कश्चिद्बर्कुरिति नामतो वृष्णस्यापत्यं वार्ष्णश्चक्षुर्वै ब्रह्मेत्यादित्यो देवता चक्षुष्युपनिषत्सत्यम् ।
यस्माच्छ्रोत्रेण श्रुतमनृतमपि स्यान्न तु चक्षुषा दृष्टम् ।
तस्माद्वै सम्राट्पश्यन्तमाहुरद्राक्षीस्त्वं हस्तिनमिति स चेदद्राक्षमित्याहतत्सत्यमेव भवति ।
यस्त्वन्यौ ब्रूयदहमश्रौषमिति ।
तद्व्यभिचरति ।
यत्तु चक्षुषा दृष्टं तदव्यभिचारित्वात्सत्यमेव भवति ॥४,१.४॥



_______________________________________________________________________

४,१.५

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे गर्दभीविपीतो भारद्वाजः ।
श्रोत्रं वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेति ।
अशृण्वतो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्तमित्येनदुपासीत ।
कानन्तता याज्ञवल्क्य ।
दिश एव सम्राडिति होवाच ।
तस्माद्वै सम्राडपि यां काञ्च दिशं गच्छति नैवास्या अन्तं गच्छति ।
अनन्ता हि दिशः ।
दिशो वै सम्राट्श्रोत्रम् ।
श्रोत्रं वै सम्राट्परमं ब्रह्म ।
नैनं श्रोत्रं जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ _४,१.५ ॥

__________



शा.भा._४,१.५ यदेव ते गर्दभीविपीत इति नामतो भारद्वाजो गोत्रतः श्रोत्रं वै ब्रह्मेति ।
श्रोत्रे दिग्देवतानन्त इत्येनदुपासीत ।
कानन्तता श्रोत्रस्य ।
दिश एव श्रोत्रस्याऽनन्त्यं यस्मात्तस्माद्वै सम्राट्प्राचीमुदीचां वा यां काञ्चिदपि दिशं गच्छति नैवास्या अन्तङ्गच्छति कञ्चिदपु ।
अतोऽनन्ता हि दिशः ।
दिशो वै सम्राट्श्रोत्रम् ।
तस्माद्दिगानन्त्यमेव श्रोत्रस्या ।
षऽनन्त्यम् ॥४,१.५॥



_______________________________________________________________________

४,१.६

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे सत्यकामो जाबालः मनो वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तज्जाबालोऽब्रवीन्मनो वै ब्रह्मेति ।
अमनसो हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञावल्क्य ।
मन एवायतनमाकाशः प्रतिष्ठानन्द इत्येनदुपासीत ।
कानन्दता याज्ञवल्क्य ।
मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभि हार्यति तस्यां प्रतिरूपः पुत्रो जायते ।
स आनन्दः ।
मनो वै सम्राट्परमं ब्रह्म ।
नैनं मनो जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ _४,१.६ ॥

__________



शा.भा._४,१.६ सत्यकाम इति नामतो जबालाया अपत्यं जाबालः ।
चन्द्रमा मनसि देवता ।
आनन्द इत्युपनिषति ।
यस्मान्मन एवाऽनन्दस्तस्मान्मनसा वै सम्राटस्त्रियमभिकामयमानोऽभिहार्यते प्रार्थयत इत्यर्थः ।
तस्माद्यां स्त्रियमभिकामयमानोऽभिहार्यते तस्यां प्रतिरूपोऽनुरूपः पुत्रो जायते स आनन्दहेतुः स येन मनसा निर्वर्त्यते तन्मन आनन्दः ॥४,१.६॥



_______________________________________________________________________

४,१.७

यदेव ते कश्चिदब्रवीत्तच्छृणवामेति ।
अब्रवीन्मे विदग्धः शाकल्यः ।
हृदयं वै ब्रह्मेति ।
यथा मातृमान् पितृमानाचार्यवान् ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेति ।
अहृदयस्य हि किं स्यादिति ।
अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् ।
न मेऽब्रवीदिति ।
एकपाद्वा एतत्सम्राडिति ।
स वै नो ब्रूहि याज्ञवल्क्य ।
हृदयमेवायतनमाकाशः प्रतिष्ठा ।
स्थितिरित्येनदुपासीत ।
का स्थितिता याज्ञवल्क्य ।
हृदयमेव सम्राडिति होवाच ।
हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् ।
हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा ।
हृदये ह्येव सम्राट्सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति ।
हृदयं वै सम्राट्परमं ब्रह्म ।
नैनं हृदयं जहाति ।
सर्वाण्येनं भूतान्यभिक्षरन्ति ।
देवो भूत्वा देवानप्येति ।
य एवं विद्वानेतदुपास्ते ।
हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः ।
स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति ॥ _४,१.७ ॥

__________



शा.भा._४,१.७ विदग्धः शाकल्यो हृदयं वै ब्रह्मेति ।
हृदयं वै सम्राट्सर्वेषां भूतानामायतनम् ।
नामरूपकर्मात्मकानि हि भूतानि हृदयाश्रयाणीत्यवोचाम शाकल्यबाह्मणे हृदयप्रतिष्ठानु चेति ।
तस्माद्वधृतये ह्येव सम्राट्स्रवाणि भूतानि प्रतिष्ठितानि भवन्ति ।
तस्माद्धृदयं स्थितिरित्युपासीत हृदये च प्रजापतिर्देवता ॥४,१.७॥

इति बृहदारण्यकोपनिषद्भाष्ये चतुर्थाध्यायस्य प्रथमं ब्राह्मणम् ॥१॥

अथ चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम्



_______________________________________________________________________

४,२.१

जनको ह वैदेहः कूर्चादुपावसर्पन्नुवाच नमस्तेऽस्तु याज्ञवल्क्य ।
अनु मा शाधीति ।
स होवाच यथा वै सम्राण्महान्तमध्वानमेष्यन् रथं वा नावं वा समाददीतैवमेवैताभिरुपनिषद्भिः समाहितात्मासि ।
एवं वृन्दारक आढ्यः सन्नधीतवेद उक्तोपनिषत्क इतो विमुच्यमानः क्व गमिष्यसीति ।
नाहं तद्भगवन् वेद यत्र गमिष्यामीति ।
अथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ।
ब्रवीतु भगवानिति ॥ _४,२.१ ॥

__________


शा.भा._४,२.१ जनको ह वैदेहः ।
यस्मात्सविशेषणानि सर्वाणि ब्रह्माणि जानाति याज्ञवल्क्यस्तस्मादाचार्यकत्वं हित्वा जनकः कूर्चादासनविशेषादुत्थायोप समीपमवसर्पन्यादयोर्निपतन्नित्यर्थः ।
उवाचोक्तवान्नमस्ते तुभ्यमस्तु हे याज्ञवल्क्यानु मा शाध्यनुशाधि मामित्यर्थः ।
इतिशब्दो वाक्यपरिसमाप्त्यर्थः ।
स होवाच याज्ञवल्क्यो यथा वै लोके हे सम्राड्महान्तं दीर्घमध्वानमेष्यन्गमिष्यन्रथं वा सोथलेन गमिष्यन्नावं वा जलेन गमिष्यन्समाददीत ।
एवमेवैतानि ब्रह्माण्येताभिरुपनिषद्भिर्युक्तान्युपासीनः समाहितत्मास्यत्यन्तमेताभिरुपनिषद्भिः संयुक्तात्मासि न केवलमुपनिषत्समाहित एवं वृन्दारकः पूज्यश्चाऽढ्यश्चेश्वरो न दरिद्र इत्यर्थः ।
अधीतवेदोऽधीतो वेदो येन स त्वमधीतवेद उक्ताश्चोपनिषद आचार्यैस्तुभ्यं स त्वमुक्तोपनिषत्क एवं सर्वविभूततिसंपन्नोऽपि सन्भययमध्यश्छ एव परमात्ज्ञानेन विनाकृतार्थ एवतावदित्यर्थः ।
यावत्परं ब्रह्म न वेत्सि ।
इतोऽस्माद्देहादिमुच्यमान एताभिर्तोरथस्थानीयाभिः समाहितः क्व कस्मिन्गमिष्यसि किं वस्तु प्राप्स्यसीति ।
नाहं तद्वस्तु भगवन्पूजावन्वेद जाने यत्र गमिष्यामीति ।
अथ यद्येवं न जानीषे यत्र गतः कृतार्थः स्या अहं वै तुभ्यं तद्वक्ष्यामि यत्र गमिष्यसीति ।
ब्रवीतु भगवानिति, यदि प्रसन्नो मां प्रति ।
शृणु ॥४,२.१॥



_______________________________________________________________________

४,२.२

इन्धो ह वै नामैष योऽयं दक्षिणेऽक्षन् पुरुषः ।
तं वा एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव ।
परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः ॥ _४,२.२ ॥

__________



शा.भा._४,२.२ इन्धो ह वै नाम ।
इन्ध इत्येवंनामा ।
यश्चक्षुर्वै ब्रह्मेति पुरोक्त आदित्यान्तरग्त पुरुषः स एष योऽयं दक्षिणेऽक्षन्नक्षणि विशेषेण व्यवस्थितः ।
स च सत्यनामा ।
तं वा एतं पुरुषं दीप्तिगुणत्वात्प्रत्यक्षं नामास्येन्ध इति तमिन्धं सन्तमिन्द्र इत्याचक्षतेपरोक्षेण ।
यस्मात्परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः प्रत्यक्षनामग्रहणं द्विषन्ति ।
एष त्वं वैश्वानरमात्मानं संपन्नोऽसि ॥४,२.२॥


_______________________________________________________________________

४,२.३

अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी विराट् ।
तयोरेष संस्तावो य एषोऽन्तर्हृदय आकाशः ।
अथैनयोरेतदन्नं य एषोऽन्तर्हृदये लोहितपिण्डः ।
अथैनयोरेतत्प्रावरणं यदेतदन्तर्हृदये जालकमिव ।
अथैनयोरेषा सृतिः संचरणी यैषा हृदयादूर्ध्वा नाड्युच्चरति ।
यथा केशः सहस्रधा भिन्न एवमस्यैता हिता नाम नाड्योऽन्तर्हृदये प्रतिष्ठिता भवन्ति ।
एताभिर्वा एतदास्रवदास्रवति ।
तस्मादेष प्रविविक्ताहारतर इव भवत्यस्माच्छारीरादात्मनः ॥ _४,२.३ ॥

__________



शा.भा._४,२.३ अथैतद्वामेऽक्षणि पुरुषरूपमेषास्य पत्नी यं त्वं वैश्वानरमात्मानं संपन्नोऽसि तस्यास्येन्द्रस्य भोक्तुर्भोग्यैषा पत्नी विराडन्नं भोग्यत्वादेव तदेतदन्नं चात्ता चैकं मिथुनं स्वप्ने ।
कोऽसौ ।
य एषोऽन्तरहृदय आकाशोऽन्तर्हृदये हृदयस्य मांसपिण्डस्य मध्ये ।
अथैनयोरेतद्वक्ष्यमाणमन्नं भोज्यं स्थितिहेतुः ।
किं तत् ।
य एषेऽन्तर्हृदये लोहितपिण्डो लोहित एव पिण्डाकारापन्ना लोहितपिण्डः ।
अन्नं जग्धं द्वेधा परिणमते यत्स्थूलं तदधो गच्छति ।
यदन्यत्तत्पुनराग्निना पच्यमानं द्वेधा परिणमते ।
यो मध्यमो रसः स लोहितादक्रमेण पाञ्चभौतिकं पिण्डं शरीरमुपचिनोति ।
योऽणिष्ठो रसः स एष लोहितपिण्ड इन्द्रस्य लिङ्गात्मनो हृदये मिथुनीभूतस्य ।
यं तैजसमाचक्षते स तयोरिन्द्रेन्द्राण्योर्हृदये मिथुनीभूतयोः सूक्ष्मासु नाडीष्वनुप्रविष्टः स्थितिहेतुर्भवति ।
तदेतदुच्यतेऽथैनयोरेतदन्नमित्यादि ।
किञ्चान्यत् ।
अथैनयोरेतत्प्रवारणम् ।
भुक्तवतोः स्वपतोश्च प्रावरणं भवति लोके तत्सामान्यं हि कल्पयति श्रुतिः ।
कि तदिह प्रावरणम् ।
यदेतदन्तर्हृदये जालकमिवानेकनाडीछिद्रबहुलत्वाज्जालकमिव ।
अथैनयोरेषा सृतिर्मार्गः संचनरतोऽनयेति संचरणी स्वप्नज्जागरितदेशागमनमार्गः ।
का सा सृतिः ।
यैषा हृदयादहृदयदेशादूर्ध्वाभिमुखी सत्युच्चरति नाडी ।
तस्याः परिमाणमिदमुच्यते ।
यथा लोके केशः सहस्रधा भिन्नोऽत्यन्तसूक्ष्मो भवत्येवं सूक्ष्मा अस्य देहस्य संबन्धिन्यो हिता नाम हिता इत्येवं ख्याता नाड्यास्ताश्चान्तर्हृदये मासंपिण्डे प्रितिष्ठिता भवन्ति हृदयाद्विप्ररूढास्ताः सर्वत्र कदम्बकेसपवदेताभिर्नाडोभिरत्यन्तसूक्ष्माभिरेतदन्नमास्रवद्गच्छदास्रवति गच्छति ।
तदेतद्देवताशरीरमनेनान्नेन दामभूतेनोपचीयमानं तिष्ठति ।
तस्माद्यस्मात्स्थूलेनान्नेनोपचितः पिण्ड इदं तु देवताशरीरं लिङ्गं सूक्ष्मेणान्नेनोपचितं तिष्ठति ।
पिण्डोपचयकरमप्यन्नं प्रविविक्तमेव मूत्रपुरीषादिस्थूलमपेक्ष्य लिङ्गस्थितिकरं त्वन्नं ततोऽपिसाक्ष्मतरम् ।
अतः प्रविविक्ताहारः पिण्डः ।
तस्मात्प्रविविक्ताहारादपि प्रविविक्ताहारतर एष लिङ्गात्मेवैव भवत्यस्माच्छरीराच्छारीरमेव शारीरं तस्माच्छारीरात् ।
आत्मनो वैश्वानरात्तैजसः सूक्ष्मान्नोपचितो भवति ॥४,२.३॥



_______________________________________________________________________

४,२.४

तस्य प्राची दिक्प्राञ्चः प्राणाः ।
दक्षिणा दिग्दक्षिणे प्राणाः ।
प्रतीची दिक्प्रत्यञ्चः प्राणाः ।
उदीची दिगुदञ्चः प्राणाः ।
ऊर्ध्वा दिगूर्ध्वाः प्राणाः ।
अवाची दिगवाञ्चः प्राणाः ।
सर्वा दिशः सर्वे प्राणाः ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते ।
न रिष्यति ।
अभयं वै जनक प्राप्तोऽसीति होवाच याज्ञवल्क्यः ।
स होवाच जनको वैदेहोऽभयं त्वा गच्छताद्याज्ञवल्क्य यो नो भगवन्नभयं वेदयसे ।
नमस्तेऽस्तु ।
इमे विदेहा अयमहमस्मीति ॥ _४,२.४ ॥

__________



शा.भा._४,२.४ स एष हृदयभूतस्तैजसः सूक्ष्मभूतेन प्राणेन विध्रियमाणः प्राण एव भवति ।
तस्यास्य विदुषः क्रमेण वैश्वानरात्तैजसं प्राप्तस्य हृदयात्मानमापन्नस्य हृदयात्मनश्च प्राणात्मानमापन्नस्य प्राची दिक्प्राञ्चः प्राग्गताः प्राणाः.तथा दक्षिणा दिग्दक्षिणे प्राणाः ।
सर्वा दिशः सर्वे प्राणाः ।
एवं विद्वान्क्रेण सर्वात्मकं प्राणमात्मत्वेनोपगतो भवति ।
तं सर्वात्मानं प्रत्यगात्मन्युपसंहृत्य द्रष्टुर्हि द्रष्टुभावं नेति नेतीत्यात्मानं तुरीयं प्रतिपद्यते ।
यमेष विद्वाननेन क्रमेण प्रतिपद्यते स एष नेति नेत्यात्मेत्यादि न रिष्यतीत्यन्तं व्याख्यातमेतत् ।
अभयं वै जन्ममरणादिनिमित्तभयशून्यं हे जनक प्राप्तोऽसीति हैवं किलोवाचोक्तवान्याज्ञवल्क्यः ।
तदेतदुक्तमथ वै तेऽहं तद्वक्ष्यामि यत्र गमिष्यसीति ।
स होवाच जनको वैदेहोऽभयमेव त्वा त्वामपि गच्छताद्गच्छतु यस्त्वं नोऽस्मान्हे याज्ञवल्क्य भगवान्पूजावन्नभयं ब्रह्म वेदयसे ज्ञापयसि प्रापितवानुपाधिकृताज्ञानव्यवधानापनयनेनेत्यर्थः ।
किमन्यदहं विद्यानिष्क्रियार्थं प्रयच्छामि साक्षादात्मानमेव दत्तवते ।
अतो नमस्तेऽस्त्विमे विदेहास्तव यथेष्टं भुज्यन्तामयं चाहमस्मि दासभावे स्थितो यथेष्टं मां राज्यं च प्रचतिपद्यस्वेत्यर्थः ॥४,२.४॥

इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य द्वितीयं ब्राह्मणम् ॥२॥



अथ चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥



_______________________________________________________________________

४,३.१

जनकं ह वैदेहं याज्ञवल्क्यो जगाम ।
समेनेन वदिष्य इति ।
अथ ह यज्जनकश्च वैदेहो याज्ञवल्क्यश्चाग्निहोत्रे समूदाते ।
तस्मै ह याज्ञवल्क्यो वरं ददौ ।
स ह कामप्रश्नमेव वव्रे ।
तं हास्मै ददौ ।
तं ह सम्राडेव पूर्वः पप्रच्छ ॥ _४,३.१ ॥

__________



शा.भा._४,३.१ जनकं ह वैदेहं याज्ञवल्क्यो जगामेत्यस्याभिसंबन्धः ।
विज्ञानमय आत्मा साक्षादपरोक्षाद्ब्रह्म सर्वान्तरः पर एव ।
"नान्योऽतोऽस्ति द्रष्टा नान्यदतोऽस्ति द्रष्टि"त्यादिश्रुतिभ्यः ।
स एष इह प्रविष्टो वदनादिलिङ्गोऽस्ति व्यतिरिक्त इति मधुकाण्डेऽजातशत्रुसंवादे प्राणादिकर्तृत्वभोक्तृत्वप्रत्याख्यानेनाधिगतोऽपि सत्पुनः प्राणनादिलिङ्गमुपन्यस्यौषस्तप्रश्ने प्राणनादिलिङ्गो यः सामान्येनाधिगतः प्राणेन प्राणितीत्यादिना दृष्टेर्द्रष्टेत्यादिनालुप्तशक्तिस्वभावोऽधिगतः ।
तस्य च परोपाधिनिमित्तः संसारो यथा रज्जूषरशुक्तिकागगनादिषु सर्पेदकरजमलिनत्वादि पराध्यारोपणनिमित्तमेव न स्वतस्तथा निरुपाधिको निरुपाख्यो नेति नेतीति व्यपदेश्यः साक्षादपरोक्षात्सर्वान्तर आत्मा ब्रह्माक्षरमन्तर्यामी प्रशस्तौपनिषदः पुरुषो विज्ञानमानन्दं ब्रह्मेत्यधिगतम् ।
तदेव पुनरिन्धसज्ञः प्रविविक्ताहारस्ततोऽन्तर्हृदये लिङ्गात्मा प्रविविक्ताहारतरस्ततः परेण जगदात्मा प्राणोपाधिस्ततोऽपि प्रविलाप्य जगदात्मानमुपाधिभूतं रज्ज्वादाविव सर्पादिकं विद्यया स एष नेति नेतीति साक्षात्सर्वान्तरं ब्रह्माधिगतम् ।
एवमभयं परिप्रापितो जनको याज्ञवल्क्येनाऽगमतः संक्षेपतः ।
अत्र च जाग्रत्स्वप्न सुषुप्ततुरीयाण्युपन्यन्यप्रसङ्गेनेन्धः प्रविविक्ताहारतरः सर्वे प्राणाः सर्वे प्राणाः स एष नेति नेतीति ।
इदानीं जाग्रत्स्वप्नाद्वारेणाव महता तर्केण विस्तरतोऽधिगमः कर्तव्यः ।
अभयं प्रापयितव्यम् ।
सद्भावाश्चाऽत्मनो विप्रतिपत्त्याशङ्कानिराकरणद्वारेण ।
व्यतिरिक्तत्वं शुद्धत्वं स्वयञ्ज्योतिष्ट्वमलुप्तशक्तिस्वरूपत्वं निरतिशयानन्दस्वाभाव्यमद्वैतत्वं चाधिगन्तव्यमितीदमारभ्यते ।
आख्याययिका तु विद्यासंप्रदानग्रहणविधिप्रकाशनार्था ।
विद्यास्तुतये च विशेषतः ।
वरदानादिसूचनात् ।
जनकं ह वैदेहं याज्ञवल्क्यो जगाम ।
स च गच्छन्नेवं मेने चिन्तितवान्न वदिष्ये किञ्चिदपु राज्ञे ।
गमनप्रयोजनं तु योगक्षेमार्थम् ।
न वदिष्य इत्येवंसंकल्पोऽपि याज्ञवल्क्यो यद्यज्जनकः पृष्टवांस्तत्तत्प्रतिपेदे तत्र को हेतुः संकल्पितस्यान्यथाकरण इत्यत्राऽख्यायिकामाचष्टे ।
पूर्वत्र किल जनकयाज्ञवल्क्योः संवाद आसीदग्निहोत्रे निमित्ते ।
तत्र जनकस्याग्निहोत्रविषयं विज्ञानमुपलभ्य परितुष्टो याज्ञवल्क्यस्तस्मै जनकाय ह किल वरन्ददौ ।
स च जनको ह कामप्रश्नमेव वरं वव्रे वृतवांस्तं च वरं हास्मै ददौ याज्ञवल्क्यः ।
तेन वरप्रदानसामर्थ्येनाव्याचिख्यासुमपिदाविति ।
याज्ञवल्क्यं तूष्णैं स्थितमपि सम्राडेव जनकः पूर्वं पप्रच्छ ।
तत्रैवानुक्तिर्ब्रह्मविद्यायाः कर्मणा विरुद्धत्वात् ।
विद्यायाश्च स्वातन्त्र्यात् ।
स्वतन्त्रा हि ब्रह्मविद्या सहकारिसाधनान्तरनिरपेक्षा पुरुषार्थसाधनेति च ॥४,३.१॥



_______________________________________________________________________

४,३.२

याज्ञवल्क्य किंज्योतिरयं पुरुष इति ।
आदित्यज्योतिः सम्राडिति होवाच ।
आदित्येनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ _४,३.२ ॥

__________


शा.भा._४,३.२ हे याज्ञवल्क्येत्येवं संबोध्याभिमुखीकरणाय किञ्ज्योतिरयं पुरुष इति किमस्य पुरुषस्य ज्योतिर्येन ज्योतिषा व्यवहरति सोऽयं किञ्ज्योतिरयं प्राकृतः कार्यकरणसंघातरूपः शिरःपाण्यादिमान्पुरुषः पृच्छ्यते ।
किमयं स्वावयवासंघातबाह्येन ज्योतिरन्तरेण व्यवहरत्याहोस्वित्स्वावयवसंघातमध्यपातिना ज्योतिषा ज्योतिष्कार्यमयं पुरुषो निर्वर्तयतीत्येतदभिप्रेत्य पृच्छति ।
किञ्चातो यदि व्यतिरिक्तेन यदि वाव्यतिरिक्तेनज्योतिषा ज्योतिष्कार्यं निर्वर्तयति ।
शृणु तत्र कारणं यदि व्यतिरिक्तेनैवज्योतिषा ज्योतिष्कार्यनिर्वर्तकत्वमस्य स्वभावो निर्धारितो भवति ततोऽदृष्टज्योतिष्कार्यविषयेऽप्यनुमास्यामहे व्यतिरिक्तज्योतिर्निमित्तमेवेदं कार्यमिति ।
अथाव्यतिरिक्तेनैव स्वात्मना ज्योतिषा व्यवहरति ततोऽप्रत्यक्षेऽपि ज्योतिषि ज्योतिष्कार्यदर्शनेऽब्यतिरिक्तमेव ज्योतिरनुमेयम् ।
अथानियम एव व्यतिरिक्तमव्यतिरिक्तं वा ज्योतिः पुरुषस्य व्यवहारहेतुस्ततोऽनध्यवसाय एव ज्योतिर्विषय इत्येवं मन्वानः पृच्छति जनको याज्ञवल्क्यं किञ्ज्योतिरयं पुरुष इति ।
नन्वेवमनुमानकौशले जनकस्य किं प्रश्नेन स्वयमेव कस्मान्न प्रतिपद्यत इति ।
सत्यमेतत् ।
तथापि लिङ्गलिङ्गिसंबन्धविशेषाणामत्यन्तसौक्ष्म्याद्दुरवबोध्यतां मन्यते बहूनामपु पण्डितानां किमुतैकस्य ।
अत एव हि धर्मसूक्ष्मनिर्णये परिषद्व्यापार इष्यते ।
पुरुषविशेषश्चापेक्ष्यते ।
दशावरा परिषत्त्रयो वैको वेति ।
तस्माद्यद्यप्यनुमानकौशलं राज्ञस्तथापि तु युक्तो याज्ञवल्क्यः प्रष्टुम् ।
विज्ञानकौशलतारतम्योपपत्तेः पुरुषाणाम् ।
अथवा श्रुतिः स्वयमेवाऽख्यायिकाव्याजेनानुमानमार्गमुपन्यस्यास्मान्बोधयति पुरुषमतिमनुसर्ती ।
याज्ञवल्क्योऽपि जनकाभिप्रायभिज्ञतया व्यतिरिक्तमात्मज्योतिर्बोधयिष्यञ्जनकं व्यतिरिक्तप्रतिपादकमेव लिङ्गं प्रतिपेदे यथा प्रसिद्धमादित्यज्योतिः सम्राडिति होवाच ।
कथम् ।
आदित्येनैव स्वावयवसघातव्यतिरिक्तेन चक्षुषोऽनुग्राहकेण ज्योतिषायं प्राकृतः पुरुष आस्त उपविशति पल्ययते प्रयेति क्षेत्रमरण्यं वा तत्र गत्वा कर्म बाह्यनेकज्योतिःप्रदर्शनं च लिङ्गस्याव्यभिचारित्वदर्शनार्थम् ।
एवमेवैतद्याज्ञवल्क्य ॥४,३.२॥



_______________________________________________________________________

४,३.३

अस्तमित आदित्ये याज्ञवल्क्य किंज्योतिरेवायं पुरुष इति ।
चन्द्रमा एवास्य ज्योतिर्भवतीति ।
चन्द्रमसैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ _४,३.३ ॥

__________



शा.भा._४,३.३ तथास्तमित आदित्ये याज्ञवल्क्य किञ्ज्योतिरेवायं पुरुष इति चन्द्रमा एवास्य ज्योतिः ॥४,३.३॥


_______________________________________________________________________

४,३.४

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते किंज्योतिरेवायं पुरुष इति ।
अग्निरेवास्य ज्योतिर्भवतीति ।
अग्निनैव ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ _४,३.४ ॥

__________



शा.भा._४,३.४ अस्तमिति आदित्ये चन्द्रमस्यस्तमितेऽग्निर्ज्योतिः ॥४,३.४॥



_______________________________________________________________________

४,३.५

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ किंज्योतिरेवायं पुरुष इति ।
वागेवास्य ज्योतिर्भवतीति ।
वाचैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येति ।
तस्माद्वै सम्राडपि यत्र स्वः पाणिर्न विनिर्ज्ञायतेऽथ यत्र वागुच्चरत्युपैव तत्र न्येतीति ।
एवमेवैतद्याज्ञवल्क्य ॥ _४,३.५ ॥

__________



शा.भा._४,३.५ शान्तेऽग्नौ वाग्ज्योतिः वागिति शब्दः परिगृह्यते ।
शब्देन विषयेण श्रोत्रमिन्द्रियं दीप्यते ।
श्रोत्रेन्द्रिये संप्रदीप्ते मनसि विवेक उपजायते ।
तेन मनसा बाह्यां चेष्टां प्रतिपद्यते ।
"मनसा ह्योव पश्यति मनसा शृणोती"ति ब्राह्मणम् ।
कथं पुर्वाग्ज्योतिरिति वाचोज्योतिष्ट्वमप्रसिद्धमित्यत आहतस्माद्वै सम्राड्यस्माद्वाचा ज्योतिषानुगृहीतोऽयटं पुरुषो व्यवहरति तस्मात्प्रसिद्धमेतद्वाचो ज्योतिष्ट्वम् ।
कथमपि यत्र यस्मिन्काले प्रावृषि प्रायेण मेधान्धकारे सर्वज्योतिःप्रत्यस्तमये स्वोऽपि प्राणिर्हस्तो न विस्पष्टं निर्ज्ञायते ।
अथ तस्मिन्काले सर्वचेष्टानिरोधे प्राप्ते बाह्यज्योतिषोऽभावाद्यत्र वागुच्चरति श्वा वा भषति गर्दभो वा रौत्युपैव तत्र न्येति तेन शब्देन ज्योतिषा श्रोत्रमनसोर्नैरन्तयं भवति तेन ज्योतिष्कार्यत्वं वाक्प्रतिपद्येत तेन वाचा ज्योतिषोपन्येत्येवोपगच्छत्येव तत्र सन्निहितो भवतीत्यर्थः ।
तत्र च कर्म कुरुते विपल्येति ।
तत्र वाग्योतिषो ग्रहणं गन्धादीनानुपलक्षणार्थम् ।
गन्धादिभिरपि हि घ्राणादिष्वनुगृहीतेषु प्रवृत्तिनिवृत्यादयो भवन्ति ।
तेन तैरप्यनुग्रहो भवति कार्यकरणसंघातस्य ।
एवमेवैतद्याज्ञवल्क्य ॥४,३.५॥



_______________________________________________________________________

४,३.६

अस्तमित आदित्ये याज्ञवल्क्य चन्द्रमस्यस्तमिते शान्तेऽग्नौ शान्तायां वाचि किंज्योतिरेवायं पुरुष इति ।
आत्मैवास्य ज्योतिर्भवतीति ।
आत्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ॥ _४,३.६ ॥

__________



शा.भा._४,३.६ शान्ताया पुनर्वाचि गन्धादिष्वपि च शान्तेषु ।
बाह्येष्वनुग्राहकेषु सर्वप्रवृत्तिनिरोधः प्राप्तोऽस्य पुरुषस्य ।
एतदुक्तं भवति ।
जाग्रद्विषये बहिर्मुखानु करणानि चक्षुरादीन्यादित्यादिज्योतिर्भिरनुगृह्यामाणानि यदा तदा स्फुटतरः संव्यवहारोऽस्य पुरुषस्यदृष्टा ।
तस्मात्ते वयं मन्यामहे सर्वबाह्यज्योतिःप्रत्यस्तमयेऽपि स्वप्नसुषुप्तकाले जागरिते च तादृगवस्थायां स्वावयवसंघातव्यतिरिक्तेनैव ज्योतिषा ज्योतिष्कार्यसिद्धिरस्येति ।
दृश्यते च स्वप्ने ज्योतिष्कार्यसिद्धिर्बन्धुसंगमनवियोगदर्
शनं देशान्त्रगमनादि च ।
सुषुप्तच्चोत्थानं सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति ।
तस्मादस्ति व्यतिरिक्तं किमपि ज्योतिः ।
किं पुनस्तच्छान्तायां वाचि ज्योतिर्भवतीति ।
उच्यते आत्मैवास्य ज्योतिर्भवतीति ।
आत्मेति कार्यकरणस्वावयवसंघातव्यतिरिक्तं कार्यकरणावभासकमादित्यादिबाह्यज्योतिर्वत्स्वयमन्येनानवभास्यमानमभिधीयते ज्योतिरन्तःस्थं च तत्पारिशेष्यात् ।
कार्यकरणव्यतिरिक्तं तदिति तावत्सिद्धम् ।
यच्च कार्यकरणव्यतिरिक्तं कार्यकरणसंघातानुग्राहकं च ज्योतिस्तद्बाह्यैश्चक्षुरादिकरणैरुपलभ्यमानं दृष्टं न तु तथा तच्चक्षुरादिभिरुपलभ्यत आदित्यादिज्योतिःषूपरतेषु ।
कार्यं तु ज्योतिषो दृश्योते यस्मात्तस्मादात्मनैवायं ज्योतिषाऽस्ते पल्ययते कर्म कुरुते विपल्येतीति ।
तस्मान्नूनमन्तरःस्थं ज्योतिरित्यवगम्यते ।
किञ्चाऽदित्यादिज्योतिर्विलक्षणं तदभौतिकं च स एव हेतुर्यच्चक्षुराद्यग्राह्यमादित्यादिवत् ।
न ।
समानजातीयेनैवा ।
आदित्यादिज्योतिषा कार्यकरणसंघातस्य भौतिकस्य भौतिकेनैवोपकारः क्रियमाणो दृश्यते ।
यथादुष्टं चेदमनुमेयम् ।
यदि नाम कार्यकरणादर्थान्तरं तदुपकारकमादित्यादिवज्ज्योतिस्थापि कार्यकरणसंघातसमानजातीयमेवानुमेयं कार्यकरणसघातोपकारकत्वादादित्यादिज्योतिर्वत् ।
यत्पुनरन्तःस्थत्वादप्रत्यक्षत्वाच्च वैलक्षण्यमुच्यते तच्चक्षुरादिज्योतिर्भिरनैकान्तिकम् ।
यतोऽप्रत्यक्षाण्यन्तःस्थानि च चक्षुरादिज्योतींषि भौतिकान्येव ।
तस्मात्तव मनोरथमात्रं विलक्षणमात्मज्योतिः सिद्धमिति ।
कार्यकरणसंघातभावभावित्वाच्च संघातधर्मत्वमनुमीयते ज्योतिषः सामान्यतो दृष्टस्य चानुमानस्य व्यभिचारित्वादप्रामाण्यम् ।
सामान्यतो दृष्टबलेन हि भवानादित्यादिवद्व्यतिरिक्तं ज्योतिः साधयति कार्यकरणेभ्यः ।
न च प्रत्यक्षमनुमानेन बाधितुं शक्यते ।
अयमेव तु कार्यकरणसंघातः प्रत्यक्षं पश्यति शृणोति मनुते विजानाति च ।
यदि नाम ज्योतिरन्तरमस्योपकारकं स्यादादित्यादिवन्न तदाऽत्मा स्यज्योतिरन्तरमादित्यादिवदेव ।
य एव तु प्रत्यक्षं दर्शनक्रियां करोति स एवाऽत्मा स्यात्कार्यकरणसंघातो नान्यः ।
प्रत्यक्षविरोधेऽनुमानस्याप्रामाण्यात् ।
नन्वयमेव चेद्दर्शनादिक्रायकर्ताऽत्मा संघातः कथमविकलस्यैवास्य दर्शनादिक्रियाकर्तृत्वं कदाचिद्भवति कदाचिन्नेति ।
नैष दोषो दृष्टत्वात् ।
नहि दृष्टेऽनुपपन्नं नाम ।
नहि खद्योते प्रकाशाप्रकाशत्वेन दृश्यमाने कारणान्तरमनुमेयम् ।
अनुमेयत्वे च केनचित्सामान्यात्सर्वं सर्वत्रानुमेयं स्यात् ।
तच्चानिष्टम् ।
न च पदार्थस्वभावो नास्ति न ह्यग्नेरुष्णस्वाभाव्यमन्यनिमित्तमुदकस्य वा शैत्यम् ।
प्राणिधर्माधर्माद्यपेक्षमिति चेत् ।
धर्माधर्मादेर्निमित्तान्तरापेक्षस्वभावप्रसङ्गः ।
अस्त्विति चेन्न तदनवस्थाप्रसङ्गः ।
स चानिष्टः ।
न ।
स्वप्नस्मृत्योर्दृष्टस्यैव दर्शनात् ।
यदुक्तं स्वभाववादिना देहस्यैव दर्शनादिक्रिया न व्यतिरिक्तस्येति ।
तन्न ।
यदि हि देहस्यैव दर्शनादिक्रिया स्वप्ने दृष्टस्यैव दर्शनं न स्यात् ।
अन्धः स्वप्नं पश्यन्दृष्टपूर्वमेव पश्यति न शाकद्वीपादिगतमदृष्टरूपम् ।
ततश्चेतत्सिद्धं भवति यः स्वप्ने पश्यति दृष्टपूर्वं वस्तु स एव पूर्वं विद्यमाने चक्षुष्यद्राक्षीन्न देह इति ।
देहश्चेद्द्रष्टास येनाद्राक्षीत्तस्मिन्नुद्धृते चक्षुषि स्वप्ने तदेव दृष्टपूर्वं न पश्येत् ।
अस्ति च लोके प्रसिद्धिः पूर्वं दृष्टं मया हिमवतः शृङ्गमद्याहं स्वप्नेऽद्राक्षमित्युद्धृतचक्षुषामन्धानामपु ।
तस्मादनुद्धृतेऽपि चक्षुषिः यः स्वप्नदृक्स एव द्रष्टा न देह इत्यवगम्यते ।
तथा स्मृतौ दृष्टृस्मर्त्रोरेकत्वे सति य एव द्रष्टास एव स्मर्ता यदा चैवं तदा निमीलिताक्षोऽपि स्मन्दृष्टपूर्वं यद्रूपं तद्दृष्टवदेव पश्यतीति ।
तस्माद्यन्निमीलितं तन्न द्रष्टृयन्निमीलिते चक्षुषि स्मरद्रूपं पश्यति तदेवानिमीलितेऽपि चक्षुषि द्रष्ट्रासीदित्यवगम्यते ।
मृते च देहेऽविकलस्यैव च रूपादिदर्शनाभावात् ।
देवस्यैव द्रष्ट्रुत्वे मृतेऽपि दर्शनादि क्रिया स्यात् ।
तस्माद्यपाये देहे दर्शनं न भवति .द्भावे च भवति तद्दर्शनादिक्रियाकर्तृ न देव इत्यवगम्यते ।
चक्षुरादीन्येव दर्शनादिक्रियाकर्तॄणीति चेत् ।
न ।
यदहमद्राक्षं तत्स्पृशामीति भिन्नकर्तृकत्वे प्रतिसंघानानुपपत्तेः ।
मनस्तर्हीति चेत् ।
न ।
मनसोऽपि विषयत्वाद्रूपादिवद्दृष्टृत्वाद्यनुपपत्ति ।
तस्मादन्तःस्थं व्यतिरिक्तमादित्यादिवदिति सिद्धम् ।
यदुक्तं कार्यकरणसंघातसमानजातीयमेव ज्योतिरन्तरमनुमेयम् ।
आदित्यादिभिस्तत्समानजातीयैरेवोपक्रियमाणत्वादिति ।
तदसत् ।
उपकार्योपकारकभावस्यानियमदर्शनात् ।
कथं पार्थिवैरिन्धनैः पार्थवत्वसमानजातीयैस्तृणोलपादिभिरग्नेः प्रज्वलनोपकारः क्रियमाणो दृश्यते ।
न च तावता तत्समानजातीयैरेवाग्नेः प्रज्वनोपकारः सर्वत्रानुमेयः स्यात् ।
येनोदकेनापि प्रज्वलनोपकारो भिन्नजातीयोन वैद्युतस्याग्नेर्जाठरस्य च क्रियमाणो दृश्यते ।
तस्मादुपकार्योपकारकभावे समानजातीयासमानजातीयनियमो नास्ति ।
कदाचित्समानजातीया मनुष्या मनुष्यैरेवोपक्रियन्ते कदाचित्स्थावरपश्वादिभिश्च भिन्नजातीयैः ।
तस्मादहेतुः कार्यकरणसंघातमानजातीयैरेवाऽदित्यादिज्योतिर्भिरुपक्रियमाणत्वादिति ।
यत्पुनरात्थ चक्षुरादिभिरादित्यादिज्योतिर्वददृश्यत्वादित्ययं हेतुर्ज्योतिरन्तरस्यान्तःस्थत्वं वैलक्षण्यं च न साधयति चक्षुरादिभिरनैकान्तिकत्वादिति ।
तदसत् ।
चक्षुरादिकरणेभ्योऽन्यत्वे सतीति हेतोर्विशेषणत्वोपपत्तेः ।
कार्यकरणसंघातधर्मत्वं ज्योतिष इति यदुक्तं तन्न ।
अनुमानविरोधात् ।
आदित्यादिज्योतिर्वत्कार्यकरणसंघातादर्थान्तरं ज्योतिरिति ह्यनुमानमुक्तं तेन विरुध्यत इयं प्रतिज्ञा कारयकरणसंघातधर्मत्वं ज्योतिष इति ।
तद्भावभावित्वं त्वसिद्धं मृते देहे ज्योतिषोऽदर्शनात् ।
सामान्यतो दृष्टस्यानुमानस्याप्रामाण्ये सति पानभोजनादिसर्वव्यवहारलोपप्रसङ्गः ।
स चानिष्टः ।
पानभोजनादिषु हि क्षुत्पिपासादिनिवृत्तिमुपलब्धवसस्तत्सामान्यात्पानभोजनाद्युपादानं दृश्यमानं लोके न प्राप्नोति ।
दृश्यन्ते ह्युपलब्धपानभोजनाः सामान्यतः पुनः पानभोजनान्तरैः क्षुत्पिपासादिनिवृत्तिमनुमिन्वन्तस्तादर्थेयन प्रवर्तमानाः ।
यदुक्तमयमेव तु देहो दर्शनादिक्रियाकर्तेति तत्प्रथममेव परिहृतं स्वप्नस्मृत्योर्देहादर्थान्तरभूतो द्रष्टेति ।
अनेनैव ज्योतिरन्तरस्यात्मत्वमपि प्रत्युक्तम् ।
यत्पुनः खद्योतादेः कादाचित्कं प्रकाशाप्रकाशत्वं सदसत् ।
पक्षाद्यवयवसंकोचविकासनिमितित्तत्वात्प्रकाशाप्रकाशत्वस्य ।
यत्पुनरुक्तं धर्माधर्मयोरवश्यं फलदातृत्वं स्वभावोऽभ्युपगन्तव्य इति ।
तदभ्युबगमे भवतः सिद्धान्तहानात् ।
एतेनानवस्थादोषः प्रत्युक्तः ।
तस्मादस्ति व्यतिरिक्तं चान्तःस्थं ज्योतिरात्मेति ॥४,३.६॥


_______________________________________________________________________

४,३.७

कतम आत्मेति योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः ।
स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव ।
स हि स्वप्नो भूत्वेमं लोकमतिक्रामति अद्द्. मृत्यो रूपाणि ॥ _४,३.७ ॥

__________



शा.भा._४,३.७ यद्यपि व्यतिरिक्तत्वादि सिद्धं तथापि समानजातीयानुग्राहकत्वदर्शननिमित्तभ्रान्त्या करणानामेवान्यतमो व्यतिरिक्तो वेत्यविवेकतः पृच्छतिकतम इति ।
न्यायसूक्ष्मताया दुर्विज्ञेयत्वादुपपद्यते भ्रान्तिः ।
अथवा शरीरव्यतिरिक्ते सिद्धेऽपि करणानु सर्वाणि विज्ञानवन्तीव विवेकत आत्मनोऽनुपलब्धत्वात् ।
अतोऽहं पृच्छामि कतम आत्मेति ।
कतमोऽसौ देहेन्द्रियप्राणमनःसु यस्त्वयोक्त आत्मा ।
येन ज्योतिषाऽस्त इत्युक्तम् ।
अथवा योऽयमात्मा त्वयाभिप्रेतो विज्ञानमयः ।
सर्व इमे प्राणा विज्ञानमया इवैषु प्राणेषु कतमः ।
यथा समुदितेषु ब्राह्मणेषु सर्व इमे तेजस्विनः कतम एषु षडङ्गविदिति ।
पूर्वस्मिन्व्याख्याने कतम आत्मेत्येतावदेव प्रश्नवाक्यं विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषःकतम इत्येदतन्तम् ।
योऽयं विज्ञानमय इत्येतस्यशब्दस्य सर्वमेव प्रश्नवाक्यं विज्ञानमयो हृद्यन्तर्ज्योतिः पुरुषः कतम इत्येदतन्तम् ।
योऽयं विज्ञानमय इत्येतस्य शब्दस्य निर्धारितार्थविशेषविषयत्वं कतम आत्मेतीतिशब्दस्य प्रश्नवाक्यपरिसमाप्त्यर्थत्वं व्यवहितसंबन्धमन्तरेण युक्तमिति कृत्वा कतम आत्मेत्येवमन्तमेव प्रश्नवाक्यं योऽयमित्यादि परं सर्वमेव प्रतिवचनमिति निश्चीयते ।
योऽयमित्यात्मनः प्रत्यक्षत्वान्निर्देशः ।
विज्ञानमयो विज्ञानप्रायो बुद्धिविज्ञानोपाधिसंप्रकाविवेकाद्विज्ञानमय इत्युच्यते ।
बुद्धिविज्ञान संपृक्त एव हि यस्मादुपलभ्यते राहुरिव चन्द्रादित्यसंपृक्तः ।
बुद्धिर्हि सर्वार्थकरणं तमसीव प्रदीपः पुरोवस्थितः ।
"मनसा ह्येव पश्यति मनसा शृणोती"ति ह्युक्तम् ।
बुद्धिविज्ञानालोकविशिष्टमेव हि सर्वं विषयजातमुपलभ्यते पुरोवस्थितप्रदीपालोकविशिष्टमिव तमसि ।
द्वारमात्राणि त्वन्यानि करणानु बुद्धेः ।
तस्मात्तेनैव विशेष्यते विज्ञानमय इति ।
येषां परमात्मविज्ञप्तिविकार इति व्याख्यानं तेषां विज्ञानमयो मनोमय इत्यादौ विज्ञानमयशब्दस्यान्यार्थदर्शनादश्रौतार्थतावसीयते ।
संदिग्धश्च पदारथोऽन्यत्र निश्चितप्रयोगदर्शनान्निर्धारयितुं शक्यो वाश्यशेषात् ।
निश्चतन्यायबलाद्वा ।
सधीरिति चोत्तरत्र पाठात् ।
हृद्यन्तरिति वचनाद्युक्तं विज्ञानप्रायत्वमेव ।
प्राणेष्विति व्यतिरेकप्रदर्शार्था सप्तमी यथा वृक्षेषु पाषाण इति सामीप्यलक्षणा ।
प्राणेषु हि व्यातिरेकाव्यतिरेकता संदिह्यत आत्मनः ।
प्राणेषु प्राणेभ्यो व्यतिरिक्त इत्यर्थः ।
यो हि येषु भवति स तद्व्यतिरिक्तो भवत्येव ।
यथा पाषाणेषु वृक्षः ।
हृदि तत्रातत्स्यात्प्राणेषु प्राणजातीयैव बुद्धिः स्यादित्यत आहहृद्यन्तरिति ।
हृदच्छब्देन पुण्डरीकाकारो मांसपुण्डस्तात्थ्याद्बुद्धिर्हृत्तस्या हृदि बुद्धौ ।
अन्तरिति बुद्धिवृत्तिव्यतिरेकप्रदर्शनार्थम् ।
ज्योतिरवभासात्मकत्वादात्मोच्यते ।
तेन ह्यवभासकेनाऽत्मना ज्योतिषाऽस्ते पल्ययते कर्म कुरुते चेनावानिव ह्ययं कार्यकरणपिण्डो यथाऽदित्यप्रकाशस्थो घटो यथा मरकतादिर्मणिः क्षीरादिद्रव्ये प्रक्षिप्तः परीक्षणायात्मच्छायमेव तत्क्षीरादिर्द्व्यं करोति तादृगेदात्मज्येतिपबुद्धेरपि हृदयात्सूक्ष्मत्वाद्धृद्यन्तःस्थमपि हृदयादिकं कार्यकरणसंघातं चैकीकृत्याऽत्मज्योतिश्छायं करोति ।
पारम्पर्येण सूक्ष्मस्थीलतारतम्यात्सर्वान्तरतमत्वा ।
बुद्धस्तावत्स्वच्छत्वादानन्तर्याच्चाऽत्मचैतन्यज्योतिः प्रतिच्छाया भवति ।
तेन हि विवेकिनामपु तत्राऽत्माभिमानबुद्धिः प्रथमा ।
ततोऽप्यानन्तर्यान्मनसि चैतन्यावभासता बुद्धिसंपर्कात् ।
तत इन्द्रियेषु ।
मनः संयोगात् ।
ततोऽनन्तरं शरीरे ।
इन्द्रियसंपर्कात् ।
पारम्पर्येण कृत्स्नं कार्यकरणसंघातमात्मा चैतन्यस्वरूपज्योतिषावभासयति ।
तेन हि सर्वस्य लोकस्य कार्यकरणसंघाते तद्वृत्तिषु चानियताऽत्माभिमानबुद्धिर्यथाविवेकं जायते ।
तथा च भगवतोक्तं गीतासु"यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारति" ॥
"यदादित्यगतं तेजः"इत्यादि च ।
"नित्योऽनित्यानां चेनश्चेतनानां"इति च काठके"तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति"इति च ।
"येन सूर्यस्तपति तेजसोद्धः"इति च मन्तर्वर्णः ।
तेनायं हृद्यन्तर्ज्योतिः ।
पुरुष आकाशवत्सर्वगत्वात्पूर्ण इति पुरुषः निरतिशयं चास्य स्वयञ्ज्योतिष्ट्वं सर्वावभासकत्वात्स्वयमन्यानवभास्यत्वाच्च ।
स एष पुरुषः स्वयमेव ज्योतिःस्वभावो यं त्वं पृच्छसि कतम आत्मेति ।
बाह्यानां ज्योतिषां सर्वकरणानुग्राहकाणां प्रत्यस्तमयेऽन्तःकरणद्वारेण हृद्यन्तर्ज्योतिः पुरुष आत्मानुग्राहकः करणानामित्युक्तम् ।
यदापि बाह्यकरणानुग्राहकाणामादित्यादिज्योतिषां भावस्तदाप्यादित्यादिज्योतिषां परार्थत्वात्कार्यकरणसंघातस्याचैतन्ये स्वार्थानुपपत्तेः स्वार्थज्योतिष आत्मनोऽनुग्रहाभावेऽयं कार्यकरणसंघातो न व्यवहाराय कल्पते ।
आत्मज्योतिरनुग्रहेणैव हि सर्वदा सर्वः संव्यवहारः ।
"यदेतद्धृदयं मनश्चैत्तसंज्ञानम्"इत्यादिश्रुत्यन्तरात् ।
साभिमानो हि सर्वप्राणिसंव्यवहापः ।
अभिमानहेतुं च मरकतमणिदृष्टान्तेनावोचाम ।
यद्यप्येवमेतत्तत्थापि जाग्रद्विषये सर्वकरणागोचरत्वादात्मज्योतिषो बुद्ध्यादिबाह्याभ्यन्तरकार्यकरणव्वहारसन्निपातव्याकुलत्वान्न शक्यते तज्ज्योतिरात्माख्यं मुञ्जेषीकावन्निष्कृष्य दर्शयितुमित्यतः स्वप्ने दिदर्शयिषुः प्रक्रमतेस समानः सन्नुभौ लोकावनुसंचरति ।
यः पुरुषः स्वयमेव ज्योतिरात्मा स समानः सदृशः सन् ।
केन ।
प्रकृतत्वात्सन्निहितत्वाच्च हृदयेन ।
हृदीति च हृच्छब्दवाच्या बुद्धः प्रकृता सन्निहिता च ।
तस्मात्तयैवा सामान्यम् ।
किं पुनः सामान्यमश्वमहिषवद्विवेकतोऽनुपलब्धिः अवभास्या बुद्धिरभासकं तदात्मज्योतिरालोकवत् ।
अवभास्यावभासकयोर्विवेकतोऽनुपलब्धिः प्रसिद्धा ।
विशुद्धत्वाद्ध्यालोकोऽवभास्येन सदृशो भवति ।
यथा रक्तमवभासयन्रक्तसदृशो रक्ताकारो भवति ।
यथा हरितं नीलं लोहितं चावभासयन्ना४ ओकस्तत्समानो भवति ।
तथा बुद्धिमवभासयन्बुद्धद्वारेण कृत्समं क्षेत्रमवभासयतीत्युक्तं मरकतमणिनिदर्शनेन ।
तेन सर्वेण समानो बुद्धिसामान्यद्वारेण ।
सर्वमय इति चात एव वक्ष्यति ।
तेनासौ कुतश्चित्प्रवभज्य मुञ्जेषीकावत्स्वेन ज्योतीरूपेण दर्शयितुं न शक्यत इति सर्वव्यापारं तत्राध्यारोप्य नामरूपगतं ज्योतिर्धर्मं च नामरूपयोर्नामरूपे चाऽत्मज्योतिषि सर्वो लोको मोमुग्यतेऽयमात्मा नायमाम्तैवन्धर्मा नैवधर्मा कर्ताकर्ता शुद्धोऽशुद्धो बद्धो मुक्तः स्थितो गत आगतोऽस्ति नास्तीत्यादिविकल्पैः ।
अतः समानः मन्नुभौ लोकौ प्रतिपन्नप्रतिपत्तव्याविहलोकपरलोकावुपात्तदेहेन्द्रियादि सङ्घातत्यागान्योपादानास्तानप्रबन्धशतसन्निपातैरनुक्रमेण सञ्चरति ।
धीसादृश्यमेवोभयलोकसंचरणहेतुर्न स्वत इति ।
तत्र नामरूपोपाधिसादृश्यं भ्रान्तिनिमित्तं यत्तदेव हेतुर्न स्वत इत्येतदुच्यते ।
यस्मात्स समानः सन्नुभौ लोकावनुक्रमेण सञ्चरति तदेतत्प्रत्यक्षमित्येतद्दर्शयतियतो ध्यायतीव ध्यानव्यापारं करोतीव चिन्तयतीव ध्यानव्यापवतीं बुद्धिं स तत्स्थेन चित्स्वभावज्योतरूपेणावभासयंस्तत्सदृशस्तत्समानः सन्ध्यातीवालोकवदेव ।
अतो भवति चिन्तयतीति भ्रान्तिर्लोकस्य ।
न तु परमार्थतो ध्यायति ।
तथा लेलायतीवात्यर्थं चलतीव ।
तेष्वेव करमेषु बुद्ध्यादिषु वायुषु च चलत्सु तदवभासकत्वात्तत्सदृशं तदिति लेलायतीव ।
न तु परमार्थतश्चलनधर्मकं तदात्मज्योतिः ।
कथं पुनरेतदवगम्यते तत्समानत्वभ्रान्तिरेवोभयलोकसंचरणादिर्हेतुत्वं स्वत इत्यस्यार्थस्य प्रदर्शनाय हेतरुपदिश्यते स आत्मा हि यस्मात्स्वप्नो भूत्वा ।
स यया धिया समानः सा धीर्यद्यद्भवति तत्तदसावपु भवतीव तस्माद्यदासौ स्वप्नो भवति स्वापवृत्तिं प्रतिपद्यते धीस्तदा सोऽपि स्वप्नवृत्तिं प्रतिपद्यते ।
दा धीर्जजागरिषति तदासावप्यत आहस्वप्नो भूत्वा स्वप्नवृत्तिमवभासयन्धियः स्वापवृत्याकारो भूत्वेम लोकं जागरितव्यवहारलक्षणं कार्यकरणसङ्घातात्मकं लौकिकशास्त्रीयव्यवहारास्पदमतिक्रामत्यतीत्य क्रामति विविक्तेन स्वेनाऽत्मज्योतिषा स्वप्नात्मिका धीवृत्तमवभायन्नवतिष्ठते यस्मात्तस्मात्स्वयञ्ज्योतःस्वभाव एवासौ विशुद्धः स कर्तृक्रियाकारकफलशून्यः ।
परमार्थतो धीसादृश्यमेव तूभयलोकसंचारादिसंव्यवहारभ्रान्तिहेतुः ।
मृत्योरूपा णि मृत्युः कर्माविद्यादिर्न तस्यान्यद्रूपं स्वतः कार्यकरणान्येवास्य रूपाणि ।
अतस्तानु मृत्यो रूपाण्यतिक्रामति क्रियाफलाश्रयाणि ।
ननु नास्त्येव धिया समानमन्यद्धियोऽवभासकमात्मज्योतिः प्रत्यक्षेण वानुमानेन पलम्भात् ।
यथान्या तत्काल एव द्वितीया धीः ।
यत्त्वावभास्यावभासकयोरन्यत्वेऽपि विवेकानुपलम्भात्सादृश्यमिति (तिः) घटाद्यालोकयोः ।
तत्र भवत्वन्यत्वेनाऽलोकस्योपम्भाद्घटादेः संश्लिष्टयोः सादृश्यं भिन्नयोरेव न च तथेह घटादेरिव धियोषऽवभासकं ज्योतिरिन्तरं प्रत्यक्षेण वानुमानेन वोपलभामहे ।
धीरेव हि चित्स्वरूपावभासकत्वेनस्वाकारा विषयाकारा च ।
तस्मान्नानुमानतो नापि प्रत्यक्षतो धियोऽवभासकं ज्योतिः शक्यते प्रतिपादयितुं व्यतिरिक्तम् ।
यदपि दृष्टान्तरूपमभिहितमवभास्यावशासकयोर्भिन्नयोरेव घटाद्यालोकयोः संयुक्तायोः सादृश्यमिति ।
तत्राभ्युपगममात्रमस्माभिरुक्तं न तत्र घटाद्यवभास्यावभासकौ भिन्नौ ।
परमार्थस्तु घटादिरेवावभासात्मकः सालोकः ।
अन्योऽन्यो हि घटादिरुत्पद्यते ।
विज्ञानमात्रमेव सालोकघटादिविषयाकारमवभासते ।
यदेवं तदा न बाह्यो दृष्टान्तोऽस्ति विज्ञानलक्षणमात्रत्वात्सर्वस्य ।
एं तस्यव विज्ञानस्ग्राह्याग्राहकाकारतामलं पकरिकल्प्य तस्यैव पुनर्विशुद्धं परिकल्पयन्ति ।
तद्ग्राहकविनिर्मुक्तं विज्ञानं स्वच्छीभूतं क्षणिकं व्यवतिष्ठत इति केचित् ।
तस्यापु शान्तिं केचिदिच्छन्ति ।
तदपि विज्ञानं संवृतं ग्राह्यग्राहकांशविनिरुमुक्तं शून्यमेव घटादिबाह्यवस्तुवदित्यपरे माध्यमिका आचक्षते ।
सर्वा एताः कल्पना बुद्धविज्ञानावभासकस्य व्यतिरिक्तस्याऽत्मज्योतिषोऽपह्नवादस्य श्रेयोमार्गस्य प्रतिपक्षभूता वैदिकस्य ।
तत्र येषां बाह्योर्ऽथोऽस्ति तान्प्रत्युच्यते तावत् ।
न स्वात्मावभासकत्वं घटादेः ।
तमस्यवस्थितो घटादिस्तावन्न कदाचिदपु स्वात्मनावभास्यते ।
प्रदीपाद्यालोकसंयोगेन तु नियमेनैवावभास्यमानो दृष्टः सालोको घट इति ।
संश्लिष्टयोरपु घटालोकयोरन्यत्वमेव पुनः पुनः संश्लेषे विश्लेषे च विशेषदर्शनाद्रज्जुघटयोरिव ।
अन्यत्वे च व्यतिरिक्तावभासकत्वं न स्वात्मनैव स्वमात्मानमवभासयति ।
ननु प्रदीपः स्वात्मानमेवावभासयन्तदृष्ट इति ।
न हि घटादिवत्प्रदीपदर्शनाय प्काशान्तरमुपाददते लौकिकाः ।
तस्मात्प्रदीपः स्वात्मानं प्रकाशयति ।
न ।
अवभास्यत्वाविशेषात् ।
यद्यपि प्रदीपोऽन्यस्यावभासकः स्वयमवभासात्कत्वात्तथापु व्यतिरिक्तचैतन्यावभास्यत्वं न व्यभिचरति घटादिवदेव ।
यदा चैवं तदा व्यतिरिक्तावभास्यत्वं तावदवश्यंभावि ।
ननु यथा घटश्चैतन्यावभास्यत्वेऽपि सन्नात्मानं घटं चावभासयति ।
न ।
स्वतः परतो वा विशेषाभावात् ।
यथा चैतन्यावभास्यत्वं घटस्य तथा प्रदीपस्यापि चैतन्यावभास्यत्वमविशिष्टम् ।
यत्तूच्यते प्रदीप आत्मानं घटं चावभासयतीति तदसत् ।
कस्मात् ।
यदाऽत्मानं नावभासयति तदा कीदृशः स्यात् ।
न हि तदा प्रदीपस्य स्वतो वा परतो वा विशेषः कश्चिदुपलभ्यते ।
स ह्यवभास्यो भवति यस्यावभासकसंनिधावसंनिधौ च विशेष आत्मानं प्रदीपः प्रकाशयतीति मृषैवाच्योत् ।
चैतन्यग्राह्यत्वं तु घटादिभिरविशिष्टं प्रदीपस्य ।
तस्माद्विज्ञनस्याऽत्मग्राहकत्वे न प्रदीपो दृष्टान्तः ।
चैतन्यग्राह्यत्वं च विज्ञानस्य बाह्यविषयैरविशिष्टम् ।
चैतन्यग्राह्यत्वे च विज्ञानस्य किं ग्राह्यविज्ञानग्राह्यतैव किंवा ग्राहकविज्ञानग्राह्यतेति तत्रसंदिह्यमाने वस्तुनि योऽन्यत्र दृष्टो न्यायः स कल्पयितुं युक्तो न तु दृष्टविपरीतः ।
तथा च सति यथा व्यितिरिक्तेनैव ग्राहकेण बाह्यानां प्रदीपानां ग्राह्यत्वं दृष्टं तथा विज्ञानस्यापि चैतन्यग्राह्यत्वात्प्काशकत्वे सत्यापि प्रदीपवद्व्यतिरिक्तचैतन्यग्राह्यत्वं युक्तं कल्पयितुं न त्वनन्यग्राह्यत्वम् ।
यश्वान्यो विज्ञानस्य ग्रहीता स आत्मा ज्योतिरन्तरं विज्ञानात् ।
तदानवस्थेति चेत् ।
नः ग्राह्यत्वमात्र हि तद्ग्राहकस्य वस्त्वन्तरत्वे लिङ्गमुक्तं न्यायतः ।
न त्वेकान्ततो ग्राहकत्वे तद्ग्राहकान्तरास्तित्वे वा कदाचिदपि लिङ्गं संभवति ।
तस्मान्न तदनवस्थाप्रसङ्गः ।
विज्ञानस्य व्यक्तिरिक्तग्राह्यत्वे करणान्तरापेक्षायामनवस्थेति चेत् ।
न ।
नियमाभावात् ।
न हि सर्वत्रायं नियमो भवति ।
यत्र वस्त्वन्तरेण गृह्यते वस्त्वन्तरं तत्रग्राह्यग्राहकव्यतिरिक्तं करणान्तरं स्यादिति नैकान्तेन नियन्तुं शक्यते ।
वैचित्र्यदर्शनात् ।
कथम् ।
घटस्तावत्स्वात्मव्यतिरिक्तेनाऽत्मना गृह्यते तत्प प्रदीपादिरालोको ग्राह्यग्राहकव्यतिरिक्तं करणम् ।
न हि प्रदीपाद्यालोको घटांशश्चक्षुरंशो वा ।
घटवच्चक्षुर्ग्राह्यत्वेऽपि प्रदीपस्य चक्षुः प्रदीपव्यतिरेकेण न बाह्यमालोकस्थानीयं किञ्चित्करणान्तरमपेक्षते ।
तस्मान्नैव नियन्तुं शक्यते यत्र यत्र व्यतिरिक्तग्राहकग्राह्यत्वं तत्र तत्र करणान्तरं स्यादेवेति ।
तस्माद्विज्ञानस्य व्यक्तिरिक्तग्राहकग्राह्यत्वे न करणद्वारानवस्था नापि ग्राहकत्वद्वारा कदाचिदप्युपपादयितुं शक्यते ।
तस्मात्सिद्धं विज्ञानव्यतिरिक्तमात्मज्योतिरन्तरमिति ।
ननु नास्त्येव बाह्योर्ऽथो घटादिः प्रदीपो वा विज्ञानव्यतिरिक्तः ।
यद्धि यद्व्यतिरेकेण नोपलम्यते तत्तावन्मात्रं वस्तु दृष्टम् ।
यथास्वप्नविज्ञानग्राह्यं घटपटादिवस्तु स्वप्नविज्ञानव्यतिरेकेणानुपलम्भात्स्वप्नघटप्रदीपादेः स्वप्नविज्ञानमात्रतावगम्यते, तथा जागरितेऽपि घटप्रदीपादेर्जागरितेऽपि घटप्रदीपादेर्जाग्रद्विज्ञानमात्रमेव तु सर्वम् ।
तत्र यदुक्तं विज्ञानस्य व्यतिरिक्तावभास्यत्वाद्विज्ञानव्यतिरिक्तमस्ति ज्योतिरन्तरं गटादेरिवेति तन्मिथ्या ।
सर्वस्य विज्ञानमात्रत्वे दृष्टान्ताभावात् ।
न ।
यावत्तावदभ्युपगमात् ।
न तु बाह्योर्ऽथो भवतैकान्तेनैव नाभ्युपगम्यते ।
ननु मया नाभ्युपगम्यत एव ।
न ।
विज्ञानं घटः प्रदीप इति च शब्दार्थपृथक्त्वाद्यावत्तावजदपि बाह्यमर्थान्तरमवश्यमभ्युपगन्तव्यम् ।
विज्ञानादर्थान्तरं वस्तु न चेदभ्युपगम्यते विज्ञानं घटः पट इत्येवमादीनां भब्दानामेकार्थत्वे पर्यायशब्दत्वं प्राप्नोति ।
तथा साधनानां फलस्य चैकत्वे साध्यसाधनभेदोपद्शशास्त्रानर्थप्रसङ्गः ।
तत्कर्तुरज्ञानप्रसङ्गो वा ।
किञ्चान्यत् ।
विज्ञानव्यतिरेकेण वादिप्रतिवादवाददोषभ्युपगमात् ।
न ह्यात्मविज्ञानमात्रमेव वादिप्रतिवादिवादस्तद्दोषो वाभ्युगम्यते निराकर्तव्यत्वात्प्रतिवाद्यादीनाम् ।
न ह्यात्मीयं विज्ञान निराकर्तव्यमभ्युपगम्यते स्वयं वाऽत्मा कस्यचित् ।
तथा च सति सर्वसंव्यवहारलोपप्रसङ्गः ।
न च प्रवाद्यादयः स्वात्मनैव गृह्यन्त इत्यभ्युपगमः ।
व्यतिरिक्तग्राह्या हि तेऽभ्युपगम्यन्ते ।
तस्मात्तद्वत्सर्वमेव व्यतिरिक्तग्राह्यं वस्तु जाग्रद्विषयत्वाज्जाग्रद्वस्तुप्रतिपाद्यादिवदिति सलाभौ दृष्टान्तः ।
संतत्यन्तरवद्विज्ञानान्तरवच्चेति ।
तस्माद्विज्ञानवादिनापि न शक्यं विज्ञानव्यतिरिक्तं ज्योतिरन्तरं निराकर्तुम् ।
स्वप्ने विज्ञानव्यतिरेकाभावादयुक्तमिति चेत् ।
न ।
अभावादपि भावस्य वस्त्वन्तरत्वोपपत्तेः ।
भवतैव विषयो घटादिर्यद्यभावो यदि वा भावः स्यादुभयथापि घटादिविज्ञानस्य भावभूतत्वमभ्युपगतमेव ।
न तु तन्निवर्तयितुं शक्यते तन्निवर्तकन्यायाभावात ।
एतेन सर्वस्य शून्यताप्रत्युक्ता ।
प्रत्यगात्माग्राह्यता चाऽत्मनोऽहमिति मीमांसकपक्षः प्रत्युक्तः ।
यत्तूक्तं सालोकोऽन्यश्चान्यश्च घटो जायत इति तदसत् ।
क्षणान्तरेऽपि स एवायं घट इति प्रत्यभिज्ञानात् ।
सादृश्यात्प्रत्ययभिज्ञानं कृत्तोत्थितकेशनखादिष्वेवेति चेत् ।
न ।
तत्रापि क्षणिकत्वस्यासिद्धत्वात् ।
जात्येकत्वाच्च ।
कृत्तेषु पुनरुत्थितेषु ।
च केशनखादिषु केशनखत्वाजातेरेकेशनखत्वप्रत्ययस्तन्निमित्तोऽभ्रान्त ए ।
न हि दृश्यमानलूनोत्थितकेशनखादिषु व्यक्तिनिमित्तः स एवेति प्रत्ययो भवति ।
कस्यचिद्दीर्खकालव्यवहितदृष्टेषु स एवेति प्रत्ययः ।
तस्मान्न समो दृष्टान्तः ।
प्रत्यक्षेण हि प्रत्यभिज्ञायमाने वस्तुनि तदेवेति न चान्यत्वमनुमातुं युक्तं प्रत्यक्षविरोधे लिङ्गस्याऽभासत्वोपपत्तेः ।
सादृश्यप्रत्ययानुपपत्तेश्च ।
ज्ञानस्य क्षणिकत्वात् ।
एकस्य हि वस्तुदर्शिनो वस्त्वन्तरदर्शने सादृश्यप्रत्ययः स्यात् ।
न तु वस्तुदर्श्येको वस्त्वन्तरदर्शनाय क्षणान्तरमवतिष्ठते ।
विज्ञानस्य क्षणिकत्वात्सकृद्वस्तुदर्शनेनैव क्षयोपपत्तेः ।
तेनेदं सदृशमिति हि सादृश्यप्रत्ययो भवति ।
तेनेति दृष्टस्मरणमिमिति वर्तमानप्रत्ययः ।
तेनेति दृष्टं स्मृत्वा यावदिदिमिति वर्तमानक्षणकालमवतिष्ठेत ततः क्षणिकवादहानिः ।
अथ तेनेत्यवोपक्षीणः स्मार्तः प्रत्यय इदमिति चान्य एव वार्तमानिकः प्रत्ययः क्षीयते ततः सादृश्यप्रत्यतानुपपत्तिस्तेनेदं सदृशमिति ।
अनेकदर्शिन एकस्याभावात् ।
व्यपदेशानुपपत्तिश्च द्रष्टव्यदर्शनेनैवोपक्षयाद्विज्ञानस्येदं पश्याम्यदोऽद्राक्षमितिव्यपदेशानुपपच्चर्दृष्टवतो व्यपदेशक्षणानवस्थानात् ।
अथावतिष्टेत क्षणिकवादहानिः ।
अथादृष्टवतो व्यपदेषः सादृश्यप्रत्ययश्च तदानूं जात्यन्धस्येव रूपविशेषव्यपदेशस्तत्सादृश्यप्रत्ययश्च सर्वमन्धपरम्परेति प्रसज्येत सर्वज्ञशास्त्रप्रणयनादि ।
न चैतदिष्यते ।
अकृताभ्यागमकृतविप्रणाशदोषौ तु प्रसिद्धतरौ क्षणवादे ।
दृष्टव्यपदेशहेतुः पूर्वेत्तरसहित एक एव हि शृङ्गलावत्प्रत्ययो जायत इति चेत् ।
तेनेदं सदृशमिति च ।
न ।
वर्मानातीतयोर्भिन्नकालत्वात् ।
तत्र वर्तमानप्रत्यय एकः शृङ्गलावयवस्थानीयोऽतीतश्चापरस्तौ प्रत्ययौ भिन्नकालौ तदुभयप्रत्ययविषयस्पृक्चेच्छृङ्खलाप्रत्ययस्ततः क्षणद्वयाव्यापित्वादेकस्य विज्ञानस्य पुनः क्षणवादहानिः ।
ममतवतादिविशेषानुपपत्तेश्च सर्वसंव्यवहारलोप्रसङ्गः ।
सर्वस्य च स्वसंवेद्यविज्ञानमात्रत्वे विज्ञानस्य च स्वच्छावबोधाभासमात्रस्वाभाव्याभ्युपगमात्तद्दर्शिनश्चान्यस्याभावेऽनित्यदुःख शून्यानात्मत्वाद्यनेककल्पनानुपत्तिः ।
न च दाडिमादेरिव विरुद्धानेकांशवत्वं विज्ञानस्य ।
स्वच्छावभासस्वाभाव्याद्द्विज्ञानस्य ।
अनित्यदुःखादीनां विज्ञानांशत्वे च सत्यनुभीयमानत्वाद्व्यतिरिक्तविषयत्वप्रसङ्गः ।
अथानित्यदुःखाद्यात्मैकत्वमेव विज्ञानस्य तदा तद्वियोगाद्विशुद्धिकल्पनानुपपत्तिः ।
संयोगिमलविगाद्धि विशुद्धर्भवति ।
यथाऽदर्शप्रभृतीनाम् ।
न तुस्वाभाविकेन रक्तत्वादीनां द्रव्यान्तरयोगेन वियोजनं दृश्यते तत्रापि संयोगपूर्वत्वमनुमीयते ।
बीजभावनया पुष्पफलादीनां गुणान्तरोत्पत्तिदर्शनात् ।
अतो विज्ञानस्य विशुद्धिकल्पनानुपपत्तिः ।
अतो विज्ञानस्य विशुद्धिकल्नानुपत्तिः ।
विषयविषय्याभासत्वं च यन्मलं परिकल्प्यते विज्ञानस्य तदप्यन्यसंसर्गाभावादानुपपन्नम् ।
न ह्यविद्यमानेन विद्यमानस्य संसर्गः स्यात् ।
असति चान्यसंसर्गेयो धर्मो यस्य दृष्टः स तत्स्वभात्वान्न तेन वियोगमर्हति ।
यथाग्नेरौष्ण्यं सवितुर्वा प्रभा ।
तस्मादनित्यसंसर्गेण मलिनत्वं तद्विशुद्धिश्च विज्ञानस्येतीयं कल्पनान्धपरम्परैव प्रमाणशून्येत्यवगम्यते ।
यदपि तस्य विज्ञानस्य निर्वाणं पुरुषार्थं कल्पयन्ति तत्रापि फलाश्रयानुपपत्तिः ।
कण्टकविद्धस्य हि कण्टकवेधजनितदुःखनिवृत्तिः फलं न तु कण्टकविद्धमरणे तद्दुःखनिवृत्तफलस्याऽश्रय उपपद्यते ।
तद्वत्सर्वनिर्वाणेऽसति च फलाश्रये पुरुषार्थकल्पना व्यर्थैव ।
यस्य हि पुरुषशब्दवाच्यस्य सत्वस्यात्मनो विज्ञानस्य चार्थः परिकल्प्यते तस्य पुनः पुरुषस्य निर्वाणे कस्यार्थः पुरुषार्थ इति स्यात् ।
यस्य पुनरस्त्यनेकार्थदशीं विज्ञानव्यतिरिक्त आत्मा तस्य दृष्टस्मरणदुखसंयोगवियोगादि सर्वमेवोपपन्नमन्यसंयोगनिमित्तं कालुष्यं तद्वियोगनिमित्ता च विशुद्धिरिति ।
शून्यवादिपक्षस्तु सर्वप्रमाणविप्रतिषिद्ध इति तन्निराकरणाय नाऽदरः क्रियते ॥४,३.७॥



_______________________________________________________________________

४,३.८

स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते ।
स उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ _४,३.८ ॥

__________



शा.भा._४,३.८ यथैवेहैकस्मिन्देहे स्वप्नो भूत्वा मृत्यो रूपाणि कार्यकरणान्यतिक्रम्य स्वप्ने स्व आत्मज्येतिष्यास्त एवं स वै प्रकृतः पुरुषोऽजायमानः ।
कथं जायमान इत्युच्यतेशरीरं देहेन्द्रियसंघातमभिसंपद्यमानः शरीर आत्मभावमापद्यमान इत्यर्थः ।
पाप्मभिः पाप्मसमवायिभिर्धर्माधर्माश्रयैः कार्यकरणैरित्यर्थः, संसृज्यते संयुज्यते ।
स एवोत्क्रामञ्छरीरान्तरमूर्धंव क्रामन्गच्छन्म्रियमाण इत्येतस्य व्याख्यानमुत्क्रामन्निति ।
तानेव संश्लिष्यान्पाप्मरूपकार्यकरणोपादानपरित्यागाभ्यामनवरचं संचरति धिया समानः सन्, तथा सोऽयं पुरुष उभाविहलोकपरोकौ जन्ममरणाभ्यां कार्यकरणोपादानपरित्यागावनवरतं प्रतिपद्यमान आ संसारमोक्षात्संचरति ।
तस्मात्सिद्धमस्याऽत्मयज्योतिषोऽन्यत्वं कार्यकरणरूपेभ्यः पाप्मभ्यः संयोगवियोगाभ्याम् ।
न हि तद्धर्मत्वे सति तैरेव संयोगो वियोगो वा युक्तः ॥४,३.८॥



_______________________________________________________________________

४,३.९

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवतः ।
इदं च परलोकस्थानं च ।
सन्ध्यं तृतीयं स्वप्नस्थानम् ।
तस्मिन्सन्ध्ये स्थाने तिष्ठनुभे स्थाने पश्यतीदं च परलोकस्थानं च ।
अथ यथाक्रमोऽयं परलोकस्थाने भवति ।
तमाक्रममाक्रम्योभयान् पाप्मन आनन्दांश्च पश्यति ।
स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति ।
अत्रायं पुरुषः स्वयंज्योतिर्भवति ॥ _४,३.९ ॥

__________



शा.भा._४,३.९ ननु न स्योऽस्योभौ लोकौ यौ जन्ममरणाभ्यामनुक्रमेण संचरति स्वप्नजागरिते इव ।
स्वप्नजागरिते तु प्रत्यक्षमवगम्येते न त्विहलोकपरलोकौ केनचित्प्रमणेन ।
तस्मादेते एव स्वप्नजागगरिते इहलोकपरलोकाविति ।
उच्यतेतस्यैतस्य पुरुषस्य वै द्वे ए स्थाने भवतो न तृतचीयं चतुर्थं वा ।
के ते ।
इदं च .त्प्रतिपन्नं वर्तमानं जन्म शरीरेन्जद्रियविषयवेदनाविशिष्टं स्थानं प्रत्यक्षतोऽनुभूयमानम् ।
परलोक एव स्थानं परलोकस्थानम् ।
तच्च शरीरादिविवियोगोत्तरकालानुभाव्यम् ।
ननु स्वप्नोऽपि परलोकस्था च सति द्वे एवेत्यवधारणमयुक्तम् ।
न ।
कथं तर्हि ।
संध्यं तत् ।
इहलोकपरलोकयोर्यः संधिस्तस्मिन्भवं संध्यं यत्तृतीयं तत्स्वप्नस्थानम् ।
तेन स्थानद्वित्वावधारणम् ।
न हि ग्रामयोः संधस्तावेव ग्रामावपेक्ष्य तृतीयत्वपरिगणनमर्हति ।
कथं पुनस्तस्य परलोकस्थास्यास्तित्वमवगम्यते यदपेक्ष्य स्वप्नस्थानं संध्यं भवेत् ।
यतस्तस्मिन्संध्ये स्वप्नस्थाने तिष्टन्भवन्वर्तमान एते उभे स्थाने पश्यति ।
के ते उभे ।
इदञ्च परलोकस्थानं च ।
तस्मात्स्तः स्वप्नजागरितव्यतिरेकेणोभौ लोकौ यो धिया समानः सन्ननुसंचरति जन्ममरणसंतानप्रबन्धेन ।
कथं पुनः स्वप्ने स्थितः लोकौ पश्यति ।
किमाश्रयः केन विधिनेति ।
उच्येतेअथ कथं पश्यतीति शृणु ।
यथाक्रम अक्रामत्यनेनेत्याक्रम आश्रयोऽवष्टम्भ इत्यर्थः ।
यादृश आक्मयोऽस्य सोऽयं यथाक्रमः ।
अयं पुरुषः परलोकस्थाने प्रतिपत्तव्ये निमित्ते यथाक्रमो भवति यादृशेनपरलोकप्रतिपत्तिसाधनेन विद्याकर्मपूर्वप्रज्ञानलक्षणेन युक्तो भवतीत्यर्थः ।
तमाक्रमं परलोकस्थानायोन्मुखीभूतं प्राप्ताङ्कुरीभावमिव बीजं तमाक्रम्यावष्टभ्याऽश्रित्योभयान्पश्यति बहुवचनं धर्माधर्मफलोनेकत्वादुभयप्रकारानित्यर्थः ।
कांस्तान्पाप्मनः पापफलानि ।
न तु पुनः साक्षादेव पाप्मनां दर्शनं संभवति तस्मात्पापफलानि दुःखानीत्यर्थः ।
आनन्दांश्च धर्मफलानि सुखानीत्येतत् ।
तानुभयान्पाप्मन आनन्दांश्च पश्यति जन्मान्तरदृष्टवासनामयात् ।
यानि च प्रतिपत्तव्यजन्मविषयाणि क्षुद्रधर्माधर्मफलानि धर्माधर्मप्रयुक्तो देवतानुग्रहाद्वापश्यति ।
तत्कथमवगम्यते परलोकस्थानसंबन्धिपाप्मानान्ददर्शनं स्वप्न इति ।
उच्यतेयस्मादिह जन्मन्यननुभाव्यमपि पश्यति बहु ।
न च स्वप्नो नामापूर्वं दर्शनम् ।
पूर्वदृष्टस्मृतिर्हि स्वप्नः प्रायेण ।
तेन स्वप्न्जागरितस्थानव्यतिरेकेण स्त उभौ लोकौ ।
यदादित्यादिबाह्यज्योतिषामभावेऽयं कार्यकारणसंगातः पुरुषो येन व्यतिरिक्तेनाऽत्मना ज्योतिषा व्यवहरतीत्युक्तं तदेव नास्ति ।
यदाऽदित्यादिज्योतिषामभावगमनं यत्रेदं विविक्तं स्वयञ्ज्योतिरुपलभ्योत ।
येन सर्वदैवायङ्कार्यकरणसंघातः संसृष्ट एवोपलभ्येत ।
तस्मादसत्समोऽसन्नेव वा स्वेन विविक्तस्वभावेन ज्योतीरूपेणाऽत्मेति ।
अथ क्वचिद्विविक्तः स्वेन ज्योतीरूपेणोपलभ्येत बाह्याध्यात्मिकभूतभौतिकसंसर्गशून्यस्ततो यथोक्तं सर्वं भविष्यतीत्येदर्थमाहस यः प्रकृत आत्मा यत्र यस्मिन्काले प्रस्वपिति प्रकर्षेण स्वापमनुभवति तदा किमुपादानः केन विधिना स्वपिति संध्यं स्थानं प्रतिपद्यत इत्यच्यते ।
अस्य दृष्टस्य लोकस्यजागरितलक्षणस्य सर्वावतः सर्वमवतीति सर्वावानयं लोकः कार्यकरणसंघातो विषयवेदनासंयुक्तः ।
सर्वावत्वमस्य व्याख्यातमन्नत्रयप्रकरणेऽथो अयं वा आत्मेत्यादिना ।
सर्वा वा भूतभौतिकमात्रा अस्य संसर्गकाणभूता विद्यन्त इति सर्ववान्सर्वानेव सर्वावांस्तस्य सर्वावतो मात्रामेकदेशमवयवमपादायापच्छिद्याऽदाय गृहीत्वा दृष्टजन्मवासनावासितः सन्नित्यर्थः ।
स्वयमात्मनैव विहत्य देहं पातयित्वा निःसंबोधमापाद्य ।
जागरिते ह्योदित्यादीनां चक्षुरादिष्वनुग्रहो देहव्यववहारार्थः ।
देहव्यवहारश्चाऽत्मनो धर्माधर्मफलोपभोगप्रयुक्तस्तद्धर्माधर्मफलोपभोगोपरमणमस्मिन्देह आत्मकर्मोपरमकृतमित्यात्मास्य विहन्तेत्युच्यते ।
स्वयं निर्माय निर्माणं कृत्वा वासनामयं स्वप्नदेहं मायामयमिव ।
निर्माणमपि तत्कर्मापेक्षत्वात्स्वयङ्कर्तृकमुच्यते ।
स्वेनाऽत्मीयेन भासा मात्रोपादानलक्षणेन भासा दीप्त्या प्रकाशेन सर्ववासनात्मकेनान्तःकरणवृक्किप्रकाशेनेत्यर्थः ।
सा हि तत्र विषयभूता सर्ववासनामयी प्रकाशते ।
सा तत्र स्वयं भा उच्यते ।
तेन स्वेन भासा विषयभूतेन स्वेन च ज्योतिषा तद्विषयिणा विविक्तरूपेणालुप्तदृक्स्वभावेन तद्भावरूपं वासनात्मकं विषयीकुर्वन्प्रस्वपिति ।
यदेवं वर्तनं तत्प्रस्वपितीत्युच्यते ।
अत्रैतस्यामवस्थायामेतस्मिन्कालेऽयं पुरुष आत्मा स्वयमेव विवक्तज्योतिर्भवति ।
बाह्याध्यात्मिकभूतभौतिकसंसर्गरहितं ज्योतिर्भवति ।
नन्वस्य लोकस्यमात्रोपादानं कृतं कथं तस्मिन्सत्यत्रायं पुरषः स्वयञ्ज्योतिर्भवतीत्युच्यते ।
नैष दोषः ।
विषयभूतमेव हि तत् ।
तेनैव चात्रायं पुरुषः स्वयं ज्योतिर्दर्शयितुं शक्यः ।
न त्वन्यथासति विषये कस्मिंश्चित्सुषुप्तकाल इव ।
यदा पुनः सा भा वासनात्मिका विषयभूतोपलभ्यमाना भवति तदासिः कोशादिव निष्कृष्टः सर्वसंसर्गरहितं चक्षुरादिकार्यकरणव्यावृत्तस्वरूपमलुप्तदृगात्मज्योतिः स्वेन रूपेणावभासयद्गृह्यते ।
तेनात्रायं पुरुशः स्वयञ्ज्योतिर्भवतीति सिद्धम् ॥४,३.९॥



_______________________________________________________________________

४,३.१०

न तत्र रथा न रथयोगा न पन्थानो भवन्ति ।
अथ रथान् रथयोगान् पथः सृजते ।
न तत्रानन्दा मुदः प्रमुदो भवन्ति ।
अथानन्दान्मुदः प्रमुदः सृजते ।
न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यो भवन्ति ।
अथ वेशान्तान् पुष्करिणीः स्रवन्तीः सृजते ।
स हि कर्ता ॥ _४,३.१० ॥

__________



शा.भा._४,३.१० नन्वत्र कथं पुरुषः स्वयञ्ज्योतिर्येन जागरत इव ग्राह्यग्राहकादिलक्षणः सर्वे व्यवहारो दृश्यते ।
चक्षुराद्यनुग्राहकाश्चाऽदित्याद्या लोकास्तथैव दृश्यन्ते यथा जागरिते ।
तत्र कथं विशेषावधारणं क्रियतेऽत्रायं पुरुषः स्वयं ज्योतिर्भवतीति ।
उच्यतेवैलक्षण्यात्स्वप्नदर्शनस्य ।
जागरितं हीन्द्रियबुद्धमन आलोकादिव्यापारसंकीर्णमात्मज्योतिः ।
इह तु स्वप्निन्द्रियाभावात्तदनुग्राहकादित्याद्यालोकाभावाच्च विविक्तं केवलं भवति ।
तस्माद्विलक्षणम् ।
ननु तथैव विषया उपलभ्यन्ते स्वप्नेऽपि यथा जागरिते तत्र कथमिन्द्रायाभावाद्वैलक्षम्यमुच्यते इति ।
शृणु न तत्र लिषयाः स्वप्ने रथादिलक्षणाः ।
तथा न रथयोगा रथेषु युज्यन्त इति रथयोगा अश्वादयस्तत्र न विद्यन्ते ।
न च पन्थानो रथमार्गा भवन्ति ।
अथ रथान्रथयोगान्पथश्च सृजते स्वयम् ।
कथं पुनः सृजते रथादिसाधनानां वृक्षादीनांमभावे ।
उच्येतेननूक्तमस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्मायेत्यन्तःकरणवृत्तिरस्य लोकस्य व्यवतिष्ठते तदुच्यते स्वयं निर्मायेति ।
तदेवाऽहरथादीन्सृजत इति ।
नतु तत्र करणं वा करणानुग्रागकाणिवाऽदित्यादिज्योतींषि तदवभास्या वा रथादयो विषया विद्यन्ते ।
तद्वासनामात्रं तु केवलं तदुपलब्धिकर्मनिमित्तचोदितोद्भूतान्तःकरणवृत्याश्रयं दृश्यते ।
तद्यस्य ज्योतिषो दृश्यतेऽलुप्तदृशस्तदात्मज्योतिरत्र केवलमसिरिव कोशाद्विविवक्तम् ।
तथा न तत्राऽनन्दाः सुखविशेषा मुदो हर्षा पुत्रादिलाभनिमित्ताः प्रमुदस्त एव प्रकोर्षोपेताः ।
अथ चाऽनन्दादीन्सृजते ।
तथा न तत्र वेशान्ताः पल्वलाःपुष्करिण्यस्तडागाः स्रवन्त्यो नद्यो भवन्ति ।
अथ वेशान्तादीन्सृजते वासनामात्ररूपान् ।
यस्मात्स हि कर्ता ।
त्दवासनाश्रचित्तवृत्युद्भवनिमित्तकर्महेतुत्वेनेत्यवोचाम ।
तस्य कर्तृत्वं न तु साक्षादेव तत्र क्रिया संभवति साधनाभावात् ।
न हि कारकमन्तरेण क्रिया संभवति ।
न च तत्र हस्तपादादीनि क्रियाकारकाणि संभवन्ति ।
यत्क तु तानि विद्यन्ते जागरिते तत्राऽत्मज्योतिरवभासितैःकार्यकरणै रथादिवासनाश्रयान्तःकरणवृत्युद्भवनिमित्तं कर्म निवर्त्यते तेनोच्यते स हि कर्तेति ।
तदुक्तमात्मनैवायं ज्योतिषाऽस्ते पल्ययते कर्म कुरुत इति ।
तत्रापि न परमार्थतः स्वतः कर्तृत्वं चैतन्यज्योतिषोऽवभासकत्वव्यतिरेकेण ।
यच्चैतन्यात्मज्योतिषान्तःकरणद्वारेणावभासयति कार्यकरणानि सदवभासितानि कर्मसु व्याप्रियन्ते कार्यकरणानि तत्र कर्तृत्वमुपचर्यत आत्मनः ।
यदुक्तं ध्यायतीव लेलायतीवेति तदेवानूद्यते ।
स हि कर्तेतीह हेत्वर्थम् ॥४,३.१०॥



_______________________________________________________________________

४,३.११

तदेते श्लोका भवन्ति
स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति ।
शुक्रमादाय पुनरैति स्थानं हिरण्मयःपुरुष एकहंसः ॥ _४,३.११ ॥
__________



शा.भा._४,३.११ तदेव एतस्मिन्नुक्तेर्ऽथ एते श्लोका मन्त्रा भवन्ति ।
स्वप्नेन स्वप्नभावेन शारीरं शरीरमभिहत्य निश्चेष्टमापाद्यासुप्तः स्वयमलुप्तदृगादिशक्तिस्वाभाव्यात्सुप्तान्वसनाकारोद्भूतानन्तःकरणवृत्याश्रया न्बाह्याध्यात्मिकान्सर्वानेल भावान्स्वेन रूपेण प्रत्यस्तमितान्सुप्तानभिचाकशीत्यलुप्याऽत्मदृष्ट्या पश्यत्यवभासतीत्यर्थः ।
शुक्रं शुद्धं ज्योतिष्मदिन्द्रियमात्र रूपमादाय गृहीत्वा पुनोः कर्मणे जागरितस्थानमैति आगच्छति हिरण्मयो हिरण्मय इव चैतन्यज्योतिःस्वभावः पुरुष एकहंस एक इव हन्तीत्येकहंसः ।
एको जाग्रत्स्वप्नेहलोकपरलोकादीन् गच्छतीत्येकहंसः ॥४,३.११॥



_______________________________________________________________________

४,३.१२

प्राणेन रक्षन्नवरं कुलायं बहिष्कुलायादमृतश्चरित्वा ।
स ईयतेऽमृतो यत्रकामं हिरण्मयः पुरुष एकहंसः ॥ _४,३.१२ ॥

__________



शा.भा._४,३.१२ तथा प्राणेन पञ्चवृत्तिना रक्षन्परिपालयन्नन्यथा मृतभ्रान्तिः स्यादवरं निकृष्टमनेकाशुचिसंघातत्वादत्यन्तबीभत्सं कुलायं नीडं शरीरं स्वयं तु बहिस्तस्मात्कुलायाच्चरित्वा ।
यद्यपि शरीरस्थ एव स्वप्नं पश्यति तथापि तत्संबन्धाभावात्तत्स्थ इवाकाशो बहिश्चरित्वेत्युच्य ।
अमृतः स्वयममरणधर्मेयते गच्छति यत्र कामं यत्र यत्र कामी विषयेषूद्भूतवृत्तिर्भवति तं तं कामं वासनारूपेणोद्भूते गच्छति ॥४,३.१२॥



_______________________________________________________________________

४,३.१३

स्वप्नान्त उच्चावचमीयमानो रूपाणि देवः कुरुते बहूनि ।
उतेव स्त्रीभिः सह मोदमानो जक्षदुतेवापि भयानि पश्यन् ॥ _४,३.१३ ॥

__________


शा.भा._४,३.१३ किञ्च स्वप्नान्ते स्वप्नस्थान उच्चावचमुच्चं देवादिभावमवचं तिर्यगादिभावं निकृष्टं तदुच्चावचमीयमानो गम्यमानः प्राप्नुवन्रूपाणि देवो द्योतनावान्कुरुते निर्वर्तयति वासनारूपाणि बहून्यसंख्येयानि उतापि स्त्रीभिः सह मोदमान इव जक्षदिव हसन्निव वयस्यैः ।
उतेवापि भयानि बिभेत्येभ्य इति भयानि संहव्य्घ्रादीनि पश्यन्निव ॥४,३.१३॥



_______________________________________________________________________

४,३.१४

आराममस्य पश्यन्ति न तं पश्यति कश्चनेति ।
तं नायतं बोधयेदित्याहुः ।
दुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते ।
अथो खल्वाहुर्जागरितदेश एवास्यैस इति ।
यानि ह्येव जाग्रत्पश्यति तानि सुप्त इति ।
अत्रायं पुरुषः स्वयंज्योतिर्भवति ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षाय ब्रूहीति ॥ _४,३.१४ ॥

__________



शा.भा._४,३.१४ आराममारमणमाक्रीडामनेन निर्मितां वासनारूपामस्याऽत्मनः पश्यन्ति सर्वे जनाः ।
ग्रामं नगरं स्त्रियमन्नाद्यमित्यादिवासनानिर्मितमाक्रीडनरूपम् ।
न ते पश्यति तं न पश्यति कश्चन ।
कष्टं भो वर्ततेऽत्यन्तविविक्तं दृष्टिगोचरापन्नमप्यहो भाग्यहीनता लोकस्य यच्छक्यदर्शनमप्यात्मानं न पश्यतीति लोकं प्रत्यनुक्रोशं दर्शयति श्रुतिः ।
अत्यन्तविविक्तः स्वयञ्ज्योतिरात्मा स्वप्ने भवतीत्यभिप्रायः ।
तं नाऽयतं बोधयेदित्याहुः ।
प्रसिद्धिरपि लोके विद्यते स्वप्न आत्मज्योतिषो व्यतिरिक्तत्वे ।
कासौ ।
तमात्मानं सुप्तमायतं सहसा भृशं न बोधयेदित्याहुरेवं कथयन्ति चिकत्सकादयो जना लोके ।
नूनं ते पश्यन्ति जाग्रद्देहादिन्द्रियद्वारतोऽपसृत्य केवलो बहिर्वर्तत इति यत आहुस्तं नाऽयतं बोधयेदिति ।
तत्र च दोषं पश्यन्तिभृशं ह्यसौ बोध्यमानस्तानीन्द्रियद्वाराणि सहसा प्रतिबोध्यमानो न प्रतिपद्यत इति ।
तदेतदाहदुर्भिषज्यं हास्मै भवति यमेष न प्रतिपद्यते यमिन्द्रियद्वारदेशं यस्माद्देशाच्छुक्रमादायपसृतस्तमिन्द्रियदेशमेष आत्मा पुनर्न प्रतिपद्यते ।
कदाचिद्व्यत्यासेनेन्द्रियमात्राः प्रवेशयति ।
तत आन्ध्यबाधिर्यादिदोषप्राप्तौ दुर्भषज्यो दुःखभिषक्वर्मता हास्मै देहाय भति दुःखेन चिकित्सनीयोऽसौ देहो भवतीत्यर्थः ।
तस्मात्प्रसिद्ध्ध्यापि स्वप्ने स्वयं ज्योतिष्ट्वामस्य गम्यते ।
स्वप्नो भूत्वातिक्रान्तो मृत्यो रूपाणीति तस्मात्स्वप्ने स्वयोज्योतिरात्मा ।
अथो अपि खल्वन्य आहुर्जागरितदेश एवास्यैष यः स्वरः ।
न संध्यं स्थानान्तरमिहलोकपरलोकाभ्यां व्यतिरिक्तं किं तर्हीहलोक एव जागरितदेशः ।
यद्येवं, किञ्चातः ।
शृण्वतो यद्भवति, यदा जागरितदेश एवायं स्वप्नस्तदायमात्मा कार्यकरणेभ्यो न व्यावृत्तस्तैर्मिश्रीभूतः ।
अतो न स्वयञ्ज्योतिरात्मेत्यतः स्वयञ्ज्योतिष्ट्वबाधनायान्य आहुर्जागरितदेश एवास्यैष इति ।
तत्र च हेतुमाचक्षते जागरितदेशत्वे यानि हि यस्माद्धस्त्यादीनि पदार्थजातानि जाग्रज्जागरितदेशे पश्यति लौकिकस्तान्येव सुप्तोऽपि पश्यतीति ।
तदसत् ।
इन्द्रियोपरमात् ।
उपरतेषु हीन्द्रियेषु स्वप्नान्पश्यति ।
तस्मान्नान्यस्य ज्योतिषस्तत्र संभवोऽस्ति ।
तदुक्तं न तत्र रथा न रथयोगा इत्यादि ।
तस्मादत्रायं पुरषः स्वयञ्ज्योतिर्भवत्येव ।
स्वयञ्ज्योतिरात्मास्तीति स्वप्ननिदर्शेनप्रदर्शितम् ।
अतिक्रामति मृत्यो रूपाणीति च ।
क्रमेणसंचरन्निगलोकपरलोकादीनिहलोकपरलोकादिव्यतिरिक्तः ।
तथा जाग्रत्स्वप्नकुलायाभ्यां व्यतिरिक्तः ।
तत्र च कामसंचारान्नित्यश्चेत्येतत्प्रतिपदादितं याज्ञवल्क्येन ।
अतो विद्यानिष्क्रियार्थं सहस्रं ददामीत्याह जनकः सोऽहमेवं बोधितस्त्वयाभगवते तुभ्यं सहस्रं ददामि ।
विमोक्षश्च कामप्रश्नो मयाभिप्रेतः ।
तदुपयोग्ययं तदार्थ्यात्तदेकदेश एव ।
इतस्त्वां नियोक्ष्यामि समस्तकामप्रश्ननिर्णयश्रवणेन विमोक्षायात ऊर्ध्वं ब्रूहीति ।
येन संसाराद्विप्रमुच्येयम्, त्वत्प्रसादात् ।
विमोक्षपदार्थैकदेशनिर्णयहेतोः सहस्रदानम् ॥४,३.१४॥



_______________________________________________________________________

४,३.१५

स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नायैव ।
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति ।
असङ्गो ह्ययं पुरुष इति ।
एवमेवैतत्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ _४,३.१५ ॥

__________


शा.भा._४,३.१५ यत्प्रस्तुतमात्मनैवायं ज्योतिषाऽस्त इति ।
तत्प्रत्यक्षतः प्रतिपादितमत्रायं पुरुषः स्वयञ्ज्योतिर्भवतीति स्वप्ने ।
यत्तूक्तं स्व्पनो भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणीति ।
तत्रैतदाशङ्कय्ते मृत्यो रूपाण्येवातिक्रामति न मृत्युम् ।
प्रत्यक्षं ह्येतत्स्वप्ने कार्यरकरणव्यावृत्तस्यापु मोदत्रासादिदर्शनम् ।
तस्मान्नूनं नैवायं मृत्युमतिक्रामति ।
कर्मणो हि मृत्योः कार्यं मोदत्रासादि दृश्यते ।
यदि च मृत्युना बद्ध एवायं स्वभावतस्ततो विमोक्षो नोपपद्यते ।
न हि स्वभावस्ततो विमोक्षो नोपपद्यते ।
न हि स्वभावात्कश्चिद्विमुच्यते ।
अथ स्वभावो न भवति मृत्युस्ततस्तस्मान्मोक्ष उपपत्स्यते ।
यथासौ मृत्युरात्मायो धर्मो न भवति तथा प्रदर्शनायात ऊर्ध्वं विमोक्षाय ब्रूहीत्येवं जनकेन पर्यनुयुक्तो याज्ञवल्क्यस्तद्दिदर्शयिषया प्रववृते स वै प्रकृतः स्वयञ्ज्योतिः पुरुषः ।
एष यः स्वप्ने प्रदर्शित एतस्मिन्संप्रसादे सम्यक्प्रसीदत्यस्मिन्निति संप्रसादः ।
जागरिते देहेन्द्रियव्यापारशतसंनिपातजं हित्वा कालुष्यं तेभ्यो विप्रमुक्त ईषत्प्रसीदति स्वप्ने ।
इह तु सुषुप्ते सम्यक्प्रसीदतीत्यतः सुषुप्तं संप्रसाद उच्यते ।
"तीर्णो हि तदा सर्वान् शोकान्""सलिल एको द्रष्टे"ति वक्ष्यति सुषुप्तस्थमात्मानम् ।
स वा एष एतस्मिन्संप्रसादे क्रमेण संप्रन्नः सन्सुषुप्ते स्थित्वा ।
कथं संप्रसन्नः ।
स्वप्नात्सुषुप्तं प्रविविक्षुः स्वप्नावस्थ एव रत्वा रतिमनुभूय मित्रबन्धुजनदर्शनादिता तरित्वा विहृत्यानेकधा चरणफलं श्रममुपलभ्येत्यर्थः ।
दृष्ट्वैव न कृत्वेत्यर्थः पुण्यं च पुण्यफलं पापं च पापफलम् ।
न तु पुण्यपापयोः साक्षाद्ददर्शनमस्तीत्यवोचाम ।
तस्मान्न पुण्यपापाभ्यामनु बद्धः ।
यो हि करोति पुण्यपापे स ताभ्यामनुबध्यते ।
न हि दर्शनमात्रेण तदनुबद्धः स्यात् ।
तस्मात्स्वप्नो भूत्वा मृत्युमतिक्रामत्येव न मृत्युमतिक्रामत्येव न मृत्युरूपाण्येव केवलम् ।
अतो न मृत्योरात्मस्वभावत्वाशङ्का ।
मृत्युश्चेत्स्वभावोऽस्थ स्वप्नेऽपि कुर्यात् ।
न तु करोति ।
स्वभावश्चेत्क्रिया स्यादनिर्मोक्षतैव स्याव ।
न तु स्वभावः स्वप्नेऽभावात् ।
अतो विमोक्षोऽस्योपपद्यते मृत्योः पुण्यपापाभ्याम् ।
ननु जागरितेऽस्य स्वभाव एव ।
न ।
बुद्ध्याद्युपाधिकृतं हि तत् ।
तच्च प्रतिपादितं सादृश्याद्ध्यायतीव लेलायतीवेति ।
तस्मादेकान्तेनैव स्वप्ने मृत्युरूपातिक्रमणान्न स्वाभाविकत्वशङ्कानिर्मोक्षता वा ।
तत्र चरित्वेति चरणफलं श्रममुपलभ्येत्यर्थः ।
ततः संप्रसादानुवभोत्तरकालं पुनः प्रतिन्यायं यथान्यायं यथागतं निश्चित आयो न्यायः ।
अयनमायो निर्गमनं पुनः पूर्वगमनपरीत्येन यदागमनं स प्रतिन्यायः ।
यथागतं पुनरागच्छतीत्यर्थः ।
प्रतियोनि यथास्थानम् ।
स्वप्नस्थानाद्धि सुषुप्तं प्रतिपन्नः सन्यथास्थानमेव पुनरागच्छति ।
प्रतियोन्याद्रवति स्वप्नायैव स्वप्नस्थानायैव ।
ननु स्वप्ने न करोति पुण्यपापे तयोः फलमेव कथमवगम्यते तथा जागरिते यथा करोत्येव स्वप्नेऽपि तुल्यत्वाद्दर्शनस्येति, अत आह स आत्मा यत्किञ्चित्तत्र स्वप्ने पश्यति पुण्यपापफलमन्वागतोऽननुबद्धस्तेन इष्टेन भवति नैवानुबद्धो भवति ।
यदि हि स्वप्ने कृतमेव तेन स्यात्तेनानुबध्येत ।
स्वप्नादुत्थितोऽपि समन्वागतः स्यात् ।
न च तल्लोके स्वप्नकृतकर्मणान्वागतप्रसिद्धिः ।
न हि स्वप्नकृतेनाऽगसाऽगस्कारिणमात्मानं मन्यते कश्चित् ।
न च स्वप्नदृशः आगः श्रुत्वा लोकस्तं गर्हति परिहरति वा ।
अतोऽनन्वागत एव तेन भवति ।
आख्यातारश्चस्वप्नल्सहेवशब्देनाऽचक्षते हस्तिनोऽद्य घटीकृता धावन्तीव मया दृष्टा इति ।
अतो न तस्य कर्तृत्वमिति ।
कथं पुनरस्यार्तृत्वमिति ।
कार्यकरणैर्मूर्तैः संश्लेषो मूर्तस्य स तु क्रियाहेतुर्दृष्टः ।
नह्यमूर्तः कश्चित्क्रियावान्दृश्यतेऽमूर्तश्चाऽत्मातोऽसङ्गः ।
यस्माच्चासङ्गोऽयं पुरुशस्तस्मादनन्वागतस्तेन स्वप्नदृष्टेन ।
अत एव न क्रियाकर्तृत्वमस्य कथञ्चिदुपपद्यते ।
कार्यकरणसंश्लेषेण हि कर्तृत्वं स्यात्स च सश्लेषः सङ्गोऽस्य नास्ति यतोऽसङ्गो ह्ययं पुरुषः ।
तस्मादमृतः ।
एवमेवैतद्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददाम्यत ऊर्ध्वं विमोक्षायैव ब्रूहि ।
मोक्षपदार्थकदेशस्य कर्मप्रविवेकस्य सम्यग्दर्शुतत्वात् ।
अत ऊर्ध्वंविमोक्षायैव ब्रूहीति ॥४,३.१५॥



_______________________________________________________________________

४,३.१६

स वा एष एतस्मिन् स्वप्ने रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ।
स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवति ।
असङ्गो ह्ययं पुरुष इति ।
एवमेवैतत्याज्ञवल्क्य ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ॥ _४,३.१६ ॥

__________



शा.भा._४,३.१६ तत्रासङ्गो ह्ययं पुरुष इत्यसङ्गताकर्तृत्वे हेतुरुक्तः ।
उक्तं च पूर्वं कर्मवशात्स ईयते यत्र काममिति ।
कामश्च सङ्गऽतोऽसिद्धो हेतुरुक्तोऽसङ्गो ह्ययं पुरुष इति ।
न त्वेतदस्ति ।
कथं तर्हि ।
असङ्ग एवेत्येतदुच्यते स वा एष एतस्मिन्स्वप्ने व वा एष पुरुषः ।
संप्रदात्प्रत्यागतः स्वप्ने रत्वा चरित्वा यथाकामं दृष्टैव पुण्यं च पापं चेति सर्वं पूर्ववत् ।
बुद्धान्तायैव जागरितस्थानाय ।
तस्मादसङ्ग एवायं पुरुषः ।
यदि स्वप्ने सङ्गवान्स्यात्कामी ततस्तत्सङ्गजैर्देषैर्बुद्धान्ताय प्रत्यागतो लिप्येत ॥४,३.१६॥



_______________________________________________________________________

४,३.१७

स वा एष एतस्मिन् बुद्धान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति स्वप्नान्तायैव ॥ _४,३.१७ ॥

__________



शा.भा._४,३.१७ यथासौ स्वप्नेऽसङ्गत्वात्स्वप्नसङ्गजैर्देषैर्जागरिते प्रत्यागतो न लिप्यत एवं जागरितसङ्गजैरपु दोषान्र लिप्यत एव बुद्धान्तेन तदेतदुच्यते स वा एष एतस्मिन्बुद्धान्ते जागरिते रत्वा चरित्वेत्यादि पूर्ववत् ।
स यत्तत्र बुद्धान्ते किञ्चित्पश्यत्यनत्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुष इति ।
ननु दृष्ट्वैवेति कथमवधार्यते करोति च तत्र पुण्यपापे तत्फलं च पश्यति ।
कारकावभासकत्वे कर्तृत्वोपपत्तेः ।
आत्मनैवायं ज्योतिषाऽस्त इत्यादिनाऽत्मज्योतिषावभासितः कार्यकरणसङ्घातो व्यवहरति तेनास्य कर्तृत्वमुपचर्यते न स्वतःकर्तृत्वम् ।
तथा चोक्तं ध्यायतीव लेलायतीवेति ।
बुद्ध्याद्युपाधिकृतमेव न स्वतः ।
इह तु परमार्थापेक्षयोपाधिनिरपेक्ष उच्यते दृष्ट्वैव पुण्यं च पापञ्च न कृत्वेति तेन न पूर्वापरव्याघाताशङ्का ।
यस्मान्निरुपाधिकः परमार्थतो न करोति न लिप्यते क्रियाफलेन ।
तथा च भगवतोक्तम्"अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते" ॥
इति ॥
तथा सहस्रदानं तु कामप्रविवेकस्य दर्शितत्वात् ।
तथा स वा एष एतस्मिन्स्वप्ने स वा एष एतस्मिन्बुद्धान्त इत्येताभ्यां कण्डिकाभ्यामसङ्गतैव प्रतिपादिता ।
यस्माद्बुद्धान्ते कृतेन स्वप्नान्ते गतः संप्रसन्नोऽसंबद्धो भवति स्तैन्यादिकार्यादर्शनात्तस्मात्त्रिष्वपि स्थानेषु स्वतोऽसङ्ग एवायम् ।
अतोऽमृतः ।
स्थानत्रयधर्मविलक्षणः प्रतियोन्याद्रवति स्वप्नान्तायैव संप्रसादायेत्यर्थः ।
दर्शनवृत्तेः स्वप्नस्यस्वप्नशब्देनाभिधानदर्शनादन्तशब्देन च विशेषणोपपत्तेः ।
एतस्मा अन्ताय धावतीति च सुषुप्तं दर्शयिष्यति ।
यदि पुनरेवमुच्यते"स्वप्नान्ते रत्वा चरित्वैतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं चे"ति दर्शनात्स्वप्नान्तायैवेत्यत्रापु दर्शवृत्तिरेव स्वप्न उच्यत इति तथापि न किञ्चिद्दुष्यत्यसङ्गता हि सिषाधयिषिता सिध्यत्येव ।
यस्माज्जागरिते दृष्ट्वैव पुण्यं च पापं च रत्वा चरित्वा च स्वप्नान्तमागतो न जागरितदोषाणानुगतो भवति ॥४,३.१७॥



_______________________________________________________________________

४,३.१८

तद्यथा महामत्स्य उभे कूले अनुसंचरति पूर्वं चापरं च ।
एवमेवायं पुरुष एतावुभावन्तावनुसंचरति स्वप्नान्तं च बुद्धान्तं च ॥ _४,३.१८ ॥

__________



शा.भा._४,३.१८ एवमयं पुरुष आत्मा स्वयञ्ज्योतिः कार्यकरणविलक्षणस्तत्प्रयोजकाभ्या कामकर्मभ्यां विलक्ष णो यस्मादसङ्गो ह्ययं पुरुषोऽसङ्त्वादित्ययमर्थः"स वा एष एतस्मिन्संप्रसाद"इत्याद्याभिस्तसृभिः कण्डकाभिः प्रतिपादितः ।
तत्रासङ्गतैवाऽत्मनः कुतो यस्माज्जागरितात्स्वप्नं स्वप्नाच्च संप्रसादं संप्रसादाच्च पुनः स्वप्न् क्रमेण बुद्धान्तं जागरितं बुद्धन्ताच्च पुनः स्वप्नान्तमित्येवमनुक्मसंचारेण स्थात्रयस्य व्यतिरेकः साधितः ।
पूर्वमप्युपन्यस्तोऽयमर्थः स्वप्ने भूत्वेमं लोकमतिक्रामति मृत्यो रूपाणीति तं विस्तरेण प्रतिपाद्य केवलं दृष्टान्तमात्रमवशिष्टं तद्वक्ष्यामीत्यारभ्यते तत्तत्रैतस्मिन्यथाप्रदर्शितेर्ऽथे दृष्टान्तेऽमुपादीयतेयथा लोके महामत्स्यो महांश्चासौ मत्स्यश्च नादेयेन स्रोतसाहार्य इत्यर्थः ।
स्रोतश्च विष्टम्भयति स्वच्छन्दचार्युभे कूले नद्याः पूर्वं चापरं चानुक्रमेण संचरति ।
संचरन्नपिकूलद्वयं तन्मध्यवर्तोनदकस्रोतोवेगेन न परवशी क्रियते ।
एवमेवायं पुरुष अतावुभा अन्ता अनुसंचरति ।
कौ तौ ।
स्वप्नान्तं च बुद्धान्तं च ।
दृष्टान्तप्रदर्शनफलं तु मृत्युरूपः कार्यकरणसंघातः सह तत्प्रयोजकाभ्यां कामकर्मभ्यामनात्मधर्मोयं चाऽत्मैतस्माद्विलक्षण इति विस्तरतो व्याख्यातम् ॥४,३.१८ ॥


_______________________________________________________________________

४,३.१९

तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णो वा विपरिपत्य श्रान्तः संहत्य पक्षौ संलयायैव ध्रियते ।
एवमेवायं पुरुष एतस्मा अन्ताय धवति ।
यत्र सुप्तो न कं चन कामं कामयते न कं चन स्वप्नं पश्यति ॥ _४,३.१९ ॥

__________



शा.भा._४,३.१९ अत्र च स्थानत्रयानुसंतारेण स्वयञ्ज्योतिष आत्मनः कार्यकरणसंघातव्यतिरिक्तस्य कामकर्मभ्यां विवक्ततोक्ता स्वतो नायं संसारधर्मवानुपाधिनिमित्तमेव त्वस्य संसारित्वमविद्याध्यारोपितमित्येष समुदायार्थ उक्तः ।
तत्र च जाग्रत्स्वप्नसुषुप्तस्थानानां त्रयाणां विप्रकीर्णरूप उक्तो न पुञ्जीकृत्यैकत्र दर्शितः ।
यस्माज्जागरिते ससङ्गः समृत्युः सकार्यकरणसंघात उपलक्ष्यतेऽविद्यया ।
स्वप्ने तु कामसंयुक्तो मृत्युरूपविनिर्मुक्त उपलभ्यते ।
सुषुप्ते पुनर्बुद्धान्तमागतो बुद्धान्ताच्च सुषुप्ते संप्रसन्नोऽसङ्गो भवतीत्यसंगतापि दृश्यते ।
एकवाक्यतया तूपसंह्रयमाणं फलं नित्यमुक्तबुद्धशुद्धस्वभावतास्य नैकत्र पुञ्जीकृत्य प्रदर्शितेति तत्प्रदर्शनाय कण्डिकाऽरभ्यते ।
सुषुप्ते ह्येवंरूपतास्य वक्ष्यमाणा"तद्वा अस्यैतदतिच्छन्दा अपहतपाप्माभयं रूपामि"ति ।
यस्मादेवंरूपं विलक्षणं सुषुप्तं प्रविविक्षति ।
तत्कथमित्याहदृष्टान्तेनास्यार्थस्य प्रकटीभावो भवतीति तत्र दृष्टान्त उपादीयते ।
तद्यथास्मिन्नाकाशे भौतिके श्येनो वा सुपर्णो वा ।
सुप्रणशब्देन क्षिप्रः श्येन उच्यते ।
यथाऽकाशेऽस्मिन्विहृत्य विपरिपत्य श्रान्तो नानापरिपतनलक्षणेन कर्मणा परिखिन्नः संहृत्य पक्षौ संगमय्य पक्षौ सम्यग्लीयतेऽस्मिन्निति संलयो नीडो नीडायैव ध्रियते स्वात्मनैव ध्रायते स्वयमेव ।
यथायं दृष्टान्त एवमेवायं पुरुष एतस्या एतस्मै अन्ताय धावति ।
अन्तशब्दवाच्यस्य विशेषणं यत्र यस्मिन्नन्ते सुप्तो न कञ्चन न कञ्चिदपि कामं कामयते ।
तथा च न कञ्चन स्वप्नं पश्यति ।
न कञ्चन कामिति स्वप्न्बुद्धान्तयोरविशेषेण सर्वः कामः प्रतिषिध्यते ।
कञ्चनेत्यवशेषिताभिधानात् ।
तथा न कञ्चन स्वप्नमिति ।
जागरितेऽपि यद्दर्शनं तदपि स्वप्नं मन्यते श्रुतिरत आहन कञ्चन स्वप्नं पश्यतीति ।
तथा च श्रुत्यन्तरम्"तस्य त्रय आवसथास्त्रयः स्वप्नाः"इति ।
यथा दृष्टान्ते पक्षिणः परिपतनजश्रमापनुपत्तये स्वनीडौपसर्पणमेवं जाग्रत्स्वप्नयोः कार्यकरणसंयोगजक्रियाफलैः संयुज्यमानस्य पक्षिणः परिपतनज इव श्रमो भवचि तच्छ्मापनुत्तये स्वात्मनो नीडामायतनं सर्वसंसारधर्मविलक्षणं सर्वक्रियाकारकफलायासशून्यं स्वमात्मानं प्रविशति ॥४,३.१९॥



_______________________________________________________________________

४,३.२०

ता वा अस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावताणिम्ना तिष्ठन्ति ।
शुक्लस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णाः ।
अथ यत्रैनं घ्नन्तीव जिनन्तीव हस्तीव विच्छाययति गर्तमिव पतति ।
यदेव जाग्रद्भयं पश्यति तदत्राविद्यया मन्यते ।
अथ यत्र देव इव राजेवाहमेवेदं सर्वोऽस्मीति मन्यते ।
सोऽस्य परमो लोकः ॥ _४,३.२० ॥

__________



शा.भा._४,३.२० यद्यस्यायं स्वभावः सर्वसंसारधर्मशून्यता परोपाधिनिमित्तं चास्य संसारधर्मित्वम् ।
यन्निमित्तं चास्य परोपाधिकृतं संसारधर्मित्वं सा चाविद्या ।
तस्या अविद्याया किं स्वाभाविकत्वमाहोस्वित्कामकर्मादिवदागन्तुकत्वम् ।
यदि चाऽगन्तुकत्वं ततो विमोक्ष उपपद्यते ।
तस्याश्चाऽगन्तुकत्वे कोपपत्तिः कथं वा नाऽत्मधर्मोऽविद्येति, सर्वानर्थबीजभूताया अविद्यायाः सतत्वावधारणार्थं परा कण्डिकाऽरभ्यते ता वा अस्य शिरःपाण्यादिलक्षणस्य पुरुषस्यैता हिता नाम नाड्यो यथा केशः सहस्रधा भिन्नस्तावता तावत्परिमाणेनाणिम्नाणुत्वेन तिष्ठन्ति ।
ताश्ट शुक्लस्य रसस्य नीलस्य पिङ्गलस्य हरितस्य लोहितस्य पूर्णा एतैः शुक्लत्वादिभी रसविशेषैः पूर्णा इत्यर्थः ।
एथे च रसानां वर्णविशेषा वातपित्तश्लेष्मणामितरेतरसंयोगवैषम्यविशेषाद्विचित्रा बहवश्च भवन्ति ।
तास्वेवविधासु नाडीषु सूक्ष्मासु बालाग्रसहस्रभेदपरिमाणासु शुक्लादिरसपूर्णासु सरलदेहव्यापिनीषु सप्तदशकं लिङ्गं वर्तते ।
तदाश्रिताः सर्वा वासना उच्चावचसंसारधर्मानुभवजनिताः ।
तल्लिङ्गं वासनाश्रयं सूक्ष्मत्वात्स्वच्छं स्फटिकमणिकल्पं नाडीगतरसोपाधिसंसर्गवशाद्धर्माधर्मप्रेरितोद्भूतवृत्तिविशेषं स्त्रीरथहस्त्याद्याकारविशेषैर्वासनाभिः प्रत्यवभासते ।
अथैवं सति यत्र यस्मिन्काले केचन शत्रवोऽन्ये वा तस्करा मामागत्य घ्नन्तीति मृषैव वासनानिमित्तः प्रत्ययोऽविद्याख्यो जायते तदेतदुच्यत एनं स्वप्नदृशङ्घ्नन्तीवेति ।
तथा हस्तीवैनं विच्छाययति विच्छादयति विद्रावयति धावयतीवेत्यर्थः ।
गर्तमिव पतति गर्तं जीर्णकूपादिकमिव पतन्तमात्मानमुपलक्षयति ।
तादृशी ह्यस्य मृषा वासनोद्भवत्यत्यन्तनिकृष्टाधर्मोद्भासितान्तःकरणवृत्याश्रया दुःखस्वरूपवृत्याश्रया दुःखस्वरूपत्वात् ।
किंबहुना यदेव जाग्रद्भयं हस्त्यादिलक्षणं तदेव भयरूपमत्रास्मिन्स्वप्ने विनैव हस्त्यादिरूपं भयमविद्यावासनया मृषैवोद्भूतया मन्यते ।
अथ पुनर्यत्राविद्यापकृष्यमाणा विद्या चोत्कृष्यमाणा किंविषया किंलक्षणा चेत्युच्यतेअथ पुनर्यत्र यस्मिन्काले देव इव स्वयं भवति ।
देवताविषया विद्या यदोद्भूता जागरितकाले तदोद्भूतया वासनया देवमिवाऽत्मानं मन्यते ।
स्वप्नेऽपि तदुच्यते देव इव राजेव राज्यस्थोऽभिषिक्तः स्वप्नेऽपि राजाहमिति मन्यते राजवासनावासितः ।
एवमत्यन्तप्रक्षीयमाणाविद्योद्भूता च विद्या सर्वात्मविषया यदा यदा स्वप्नेऽपि तद्भावितोऽहमेवेदं सर्वोऽस्मीति मन्यते ।
स यः सर्वात्मभावः सोऽस्याऽत्मनः परमो लोकः परम आत्मभावः स्वाभावकः ।
यत्तु सर्वात्मभावादर्वाग्बालाग्रमात्रमप्यन्यत्वेन दृश्यते नाहमस्मीति ।
तदवस्थाविद्यी तयाविद्यया ये प्रत्युपस्थापिता अनात्मभावा लोकास्तेऽपरमाः स्थावरान्तास्तान्संव्यवहारविषयांल्लोकानपेक्ष्मायं सर्वात्मभावः समस्तोऽनन्तरोऽबाह्यः सोऽस्य परमो लोकः ।
तस्मादपकृष्यमाणायामविद्यायां विद्यायां च काष्टां गतायां सर्वात्मभावो मोक्षः ।
यथा स्वयञ्ज्योतिष्ट्वं स्वप्ने प्रत्यक्षत एवोपलभ्यतेऽथ यत्रैनं घ्नन्तीव जिनन्तीवेति ।
ते एते विद्याविद्याकार्ये सर्वात्मभावः परिच्छिन्नात्मभावश्च ।
विद्यया शुद्धया सर्वात्मा भवति ।
अविद्यया चासर्वो भवति ।
अन्यतः कुतश्चत्प्रविभक्तो भवति ।
यतः प्रवभक्तो भवति तेन विरुध्यते ।
विरुद्धत्वाद्धन्यते जीयते विच्छाद्यते च ।
असर्वविषयत्वे च भिन्नत्वादेतद्भवति ।
समस्तस्तु सन्कुतो भिद्यते येन विरुध्येतविरोदाभावे केन हन्यते जीयते विच्छाद्यते च ।
अत इदमविद्यायाः सत्त्वमुक्तं भवति ।
सर्वात्मानं सन्तमसर्वात्मत्वेन ग्राहयति ।
आत्मनोऽन्यद्धस्त्वरमविद्यमानं प्रत्युपस्थापयति ।
आत्मानमसर्वमापादयति ।
ततस्तद्विषयः कामो भवति ।
यतो भिद्यते कामतः क्रियामुपादत्ते ।
ततः फलम् ।
तदेतदुक्तम् ।
वक्ष्यमाणं च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यतीत्यादि ।
इदमविद्यायाः सतत्वं सहकार्येण प्रदर्शितम् ।
विद्यायाश्च कार्यं सर्वमात्मभावः प्रदर्शितोऽविद्याया विपर्येण ।
सा चाविद्या नाऽत्मनः स्वाभाविको धर्मो यस्माद्विद्यायामुत्कृष्यमाणायां स्वयमपचीयमाना सती काष्ठां गतायां विद्यायांपरिनिष्ठिते सर्वात्मभावे सर्वात्मना निवर्तते रज्ज्वामिव सर्पज्ञानं रज्जुनिश्चये ।
तच्चोक्तं यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येदित्यादि ।
तस्मान्नाऽत्मधर्मोऽविद्या ।
न हि स्वाभाविकस्योच्छित्तिः कदाचिदप्युपद्यते सवितुरिवोष्ण्यप्रकाशयोः ।
तस्मात्तस्या मोक्षौपपद्यते ॥४,३.२०॥



_______________________________________________________________________

४,३.२१

तद्वा अस्यैतदतिच्छन्दोऽपहतपाप्माभयं रूपम् ।
तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किं चन वेद नान्तरम् ।
तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपं शोकान्तरम् ॥ _४,३.२१ ॥

__________


शा.भा._४,३.२१ इदानीं योऽसौ सर्वात्मभावो मोक्षो विद्याफलं क्रियाकारकफलशून्यं स प्रत्यक्षतो निर्दिश्यते यत्राविद्याकामकर्माणि न सन्ति ।
तदेतद्प्रस्तुतं यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यातीति ।
तदेतद्वा अस्य रूपं यः सर्वात्मभावःऽसोऽस्य परमो लोकःऽइत्युक्तःतदतिच्छन्दा अतिच्छन्दमित्यर्थः, रूपपरत्वात् ।
छन्दः कामः, अतिगतश्चन्दो यस्माद्रूपात्तदतिच्छन्दं रूपम्॑ अन्योऽसौ सान्तश्छन्दःशब्दो गायत्र्यादिछन्दोवाची॑ अयं तु कामवचनः, अतः स्वरान्त एव॑ तथाप्यतिच्छन्दा इति पाठः स्वाध्यायधर्मो द्रष्टव्यः ।
अस्ति च लोके कामवचनप्रयुत्त्कश्छन्दशब्दःऽस्वच्छन्दःऽऽपरच्छन्दःऽ इत्यादौ॑ अतःऽअतिच्छन्दम्ऽ इत्येवमुपनेयम्, कामवर्जितमेतद्रूपमित्यस्मिन्नर्थे ।
तथापहतपाप्मपाप्मषब्देन धर्माधर्मावुच्येते,"पाप्मभिः संसृज्यते" "पाप्मनो विजहाति"इत्युत्त्कत्वात्॑ अपहतपाप्म धर्माधर्मवर्जितमित्येतत् ।
किञ्च, अभयम्भयं हि नामाविद्याकार्यम्,ऽअविद्यया भयं मन्यतेऽ इति ह्युत्त्कम् ।
तत्कार्यद्वारेण कारणप्रतिषेधोऽयम्॑ अभयं रूपमित्याविद्यावर्जितमित्येतत् ।
तदेतद्विद्याफलं सर्वत्मभावः, तदेतदितच्छन्दापहतपाप्माभयं रूपम्सर्वसंसारधर्मवर्जितम्, अतेऽभयं रूपमेतत् ।
इदं च पूर्वमेवोपन्यस्यमतीतानन्तरब्रह्मणसमाप्तौ "अभयं वै जनक प्राप्तोऽसि"इत्यागमतः ।
इह तु तर्कतः प्रपञ्चितं दर्शितागमार्थप्रत्ययदार्ढ्याय ।
अयमात्मा स्वयं चैतन्यज्योतिःस्वभावः सर्वं स्वेन चैतन्यज्योतिषावभासयति ।
स यत्तत्र किञ्चित्पश्यति, रमते,चरति,जानाति चेत्युत्त्कम् ।
स्थितं चैतन्न्यायतो नित्यं स्वरूपं चैतन्यज्योतिष्ट्वमात्मनः ।
स यद्यात्मात्राविनष्टः स्वेनैव रूपेण वर्तते, कस्मादयमहमस्मीत्यात्मानं वा, बहिर्वाइमानि भूतानीति, जाग्रत्स्वप्नयोरिव न जानाति? इत्यत्रोच्यते॑ शृण्वात्राज्ञानहेतुमेकत्वमेवाज्ञानहेतुः॑ तत्कथम्? इत्युच्यते ।
दृष्टान्तेन हि प्रत्यक्षीभवति विवक्षितोर्ऽथ इत्याहतत्तत्र यथा लोके प्रिययेष्टाया स्त्रिया सम्परिष्वत्तकः सम्यक्परिष्वत्त्कः कामयन्त्या कामुकः सन्न बाह्यमात्मनः किञ्चन किञ्चिदपि वेदमत्तोऽन्यद्वस्त्विति, न चान्तरमयमहमास्मि सुखी दुःखी वेति॑ अपरिष्वत्त्कस्तु तथा प्रविभत्त्को जानाति सर्वभेव ब्राह्यमाभ्यन्तरं च॑ परिष्वङ्गोत्तरकालन्त्वेकत्वापत्तेर्न जानाति ।
एवमेव, यथा दृष्टान्तोऽयं पुरुषः क्षेत्रज्ञो भूतमात्रासंसर्गतः सैन्धवखिल्यवत्प्रविभत्त्कः, जलादौ चन्द्रादिप्रतिबिम्बवत्कार्यकरण इह प्रविष्टः, सोऽयं पुरुषः, प्रज्ञेन परमार्थेन स्वाभाविकेन स्वेनात्मना परेण ज्योतिषा, सम्परिष्वत्त्कः सम्यक्परिष्वक्त एकीभूतो निरन्तरः सर्वात्मा, न बाह्यं किञ्चन वस्त्वन्तरम्, नाप्यान्तरमात्मनिअयमहमस्मि सुखी दुःखी वेति वेद ।
तत्र चैतन्यज्योतिः स्वभावत्वे कस्मादिह न जानातीति यदप्राक्षीः, तत्रायं हेतुर्मयोत्त्क एकत्वम्, यथा स्त्रीपुंसयोः सम्परिष्वत्त्कयोः ।
तत्रार्थान्नानात्वं विशेषविज्ञानहेतुरित्युत्त्कं भवति॑ नानात्वे च कारणात्मनो वस्तवन्तरस्य प्रत्युपस्थापिकाविद्येत्युक्तम् ।
तत्र चाविद्याया यदा प्रविविक्तो भवति तदा सर्वेणैकत्वमेवास्य भवति ।
ततश्च ज्ञानज्ञेयादिकारकविभागेऽसति कुतो विशेषविज्ञानप्रादुर्भावः कामो वा सम्भवति स्वाभाविके स्वरूप्स्थ आत्मज्योतिषि ।
यस्मादेवं सर्वैकत्वमेवास्य रूपमतस्तद्वा अस्याऽत्मनः स्वयञ्ज्योतिः स्वभवस्यैतद्रूपमाप्तकामं यस्मात्मस्तमेतत्तस्मादाप्ताः कामा अस्मिन्रूपे तदिदमाप्तकामम् ।
स्य ह्यन्यत्वेन प्रविभक्तः कामस्तदनाप्तकामं भवति ।
यथा जागरितावस्थायां देवदत्तादिरूपं न त्विदं तथा कुतश्चित्प्रविभज्यतेऽतस्तदाप्तकामं भवति ।
किमन्यस्माद्वस्त्वन्तरान्न प्रविभज्यत आहोस्विदात्मैव तद्वस्त्वन्तरमत आह नान्यदस्त्यात्मनः ।
कथम् ।
यत आत्मकाममात्मैव कामा यस्मिन् रूपेऽन्यत्र प्रविभक्ता इवान्यत्वेन काम्यमाना यथा यथा जाग्रत्स्वप्नयोस्तस्याऽत्मैवान्यत्वप्रत्युपस्थापकहेतोरविद्याया अभावादात्मकाममत एवाकाममेतद्रूपं काम्यविषयाभावाच्छोकान्तरं शाकच्छिद्रं शोकशून्यमित्येतच्छोकमध्यमिति वा सर्वथाप्यशोकमेतद्रूपं शोकवर्जितमित्यर्थः ॥४,३.२१॥



_______________________________________________________________________

४,३.२२

अत्र पितापिता भवति मातामाता लोका अलोका देवा अदेवा वेदा अवेदाः ।
अत्र स्तेनोऽस्तेनो भवति भ्रूणहाभ्रूणहा चाण्ड्यालोऽचण्ड्यालः पौल्कसोऽपौल्कसः श्रमणोऽश्रमणस्तापसोऽतापसः ।
अनन्वागतं पुण्येनानन्वागतं पापेन ।
तीर्णो हि तदा सर्वाञ्शोकान् हृदयस्य भवति ॥ _४,३.२२ ॥
__________



शा.भा._४,३.२२ प्रकृतः स्वयञ्ज्योतिरात्माविद्याकामकर्मविनिर्मुक्त इत्युक्तम् ।
असङ्गत्वादात्मन आगन्तुकत्वाच्च तेषाम् ।
तत्रैवमाशङ्का जायते चैतन्यस्वभावत्वे सत्यप्येकीभावान्न जानाति स्त्रीपुंसयोरिव संपरिष्वक्तयोरित्युक्तम् ।
तत्र प्रासङ्गिकमेतदुक्तं कामक्रमादिवत्स्वयञ्ज्योतिष्ट्वमप्यस्याऽत्मनो न स्वभावः ।
यस्मात्संप्रसादे नोपलभ्यत इत्याशङ्कायां प्राप्तायां तन्निराकरणाय स्त्रीपुंसयोर्दृष्टान्तोपादानेन विद्यमानस्यैव स्वयञ्ज्योतिष्ट्वस्य सुषुप्तेऽग्रहणमेकीभावाद्धेतोर्न तु कामकर्मादिवदागन्तुकम् ।
इत्येतत्प्रासङ्गिकमभिधाय यत्प्रकृतं तदेवानुप्रवर्तयति ।
अत्र चैतत्प्रकृतमविद्याकामकर्मविनिर्मुक्तमेव तद्रूपं यत्सुषुप्त आत्मनो गृह्यते प्रत्यक्षत इति ।
तदेतद्यथाभूतमेवाभिहितं सर्वसंबन्धातीतमेतद्रूपमिति यस्मादत्रैतस्मिन्सुषुप्तस्थानेऽतिछ्छन्दापहतपाप्माभयमेतद्रूपं तस्मादत्र पिता जनकः ।
तस्य च जनयितृत्वाद्यत्पितृत्वं पुत्रं प्रति तत्कर्मनिमित्तं तेन च कर्मणायमसंबद्धोऽस्मिन्काले तस्मात्पितापुत्रसंबन्धनिमित्तात्कर्मणो विनिर्मुक्तत्वात्पिताप्यपिता भवति ।
तथा पुत्रोऽपि पितुरपुत्रोभवतीति सामर्थ्याद्गम्यते ।
उभयोर्हि संबन्धनिमित्तं कर्म तमयतिक्रान्तो वर्तते ।
अपहतपाप्मेति ह्युक्तम् ।
तथामातामातालोकाः कर्मणा जेतव्या जिताश्च तत्कर्मसंबन्धाभावाल्लोका अलोकाः ।
तथा देवाः कर्माङ्गभूतास्तत्कर्मसंबन्धात्ययाद्देवा अदेवाः ।
तथा वेदाः साध्यसाधनसंबन्धाभिधायका मन्त्रलक्षणाश्चाभिधाकत्वेन कर्माङ्गभूता अधीता अध्येतव्याश्च कर्मनिमित्तमेव संबध्यन्ते पुरुषेण तत्कर्मातिक्रमणादेतस्मिन्काले वेदा अप्यवेदाः संपद्यन्ते ।
न केवलं शुभकर्मसंबन्धातीतः किं तर्ह्यशुभैरप्यत्यन्तघोरैः कर्मभिरसंबद्ध एवायं वर्तत इत्यतमर्थामाहअत्र स्तेनो ब्राह्मणसुवर्णहर्ता भ्रूणघ्ना सह पाठादवगम्यते ।
स तेन घोरोण कर्मणैतस्मिन्काले विनिर्मुक्तो भवति ।
येनायं कर्मणा महापातकी स्तेन उच्यते ।
तथा भ्रूणहाभ्रूणहा तथा चाण्डालो न केवलं प्रत्युत्पन्नेनैव कर्मणा विनिर्मुक्तः ।
किं तर्हि सहजेनाप्यत्यन्तनिकृष्टजातिप्रापकेणापि विनिर्मुक्त एवायम् ।
चाण्डालो नाम शूद्रेण ब्राह्मण्यामुत्पन्नश्चण्डाल एव चाण्डालः ।
स जातिनिमित्तेन कर्मणासंबद्धत्वादचाण्डालो भवति ।
पौल्कसः पुल्कस एव पौल्कसः शूद्रेणैव क्षत्रियायामुत्पन्नः ।
सोऽप्यपुल्कसो भवति ।
तथाऽश्रमलक्षणैश्च कर्मभिरसंबगद्धो भवतीत्युच्यते ।
श्रमणः परिव्राड्यत्कर्मनिमित्तो भवति स तेन विनिर्मुक्तत्वादश्रमणः ।
तथा पापसो वानप्रस्थोऽतापसः सर्वेषां वर्णाश्रमादीनामुपलक्षणार्थमुभयोर्ग्रहणम् ।
किं बहुनान्वागतं नान्वागतमनन्वागतमसंबन्धमित्येतत्पुण्येन शास्त्रविहितेन कर्मणा तथा पापेन विहिताकरणप्रतिषिद्धक्रियालक्षणेन ।
रूपपरत्वान्नपुंसकलिङ्गम् ।
अभयं रूपिति ह्यनुवर्तते ।
किं पुनरसंबद्धत्वे कारणमिति तद्धेतुरुच्यतेतीर्णोऽतिक्रान्तो हि यस्मादेवंरूपस्तदा तस्मिन्काले सर्वाञ्छोकाञ्शोकाः कामाः ।
इष्टविषयप्रार्थना हि तद्विषयवियोगे शोकत्वमापद्यते ।
इष्टं हि विषयंमप्राप्तं वियुक्तं चोद्दिश्य चिन्तयानस्तद्गुणान्संतप्यते पुरुषोऽतः शोको रतिः काम इति पर्यायाः ।
यस्मात्सरवकामातीतो ह्यत्रायं भवति ।
न कञ्चन कामं कामयतेऽतिच्छन्दा इति ह्युक्तं तत्प्रक्रियापततोऽयं शोकशह्दः कामवचन एव भवितुमर्हति ।
कामश्च कर्महेतुः ।
वक्ष्यति हि"स यथाकामो भवति तत्क्रयुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते"इति ।
अतः सर्वकामातितीर्णत्वाद्युक्तमानन्वागतं पुण्येनेत्यादि ।
हृदयस्य हृदयमिति पुण्डरीकाकारो मांसपिण्डस्तत्स्थमन्तःकरणं बुद्धर्हृदयमित्युच्यते ।
तात्स्थान्मञ्चक्रोशनवत् ।
हृदयस्य बुद्धेर्ये शोकाः बुद्धिसंश्रया हि ते ।
ऽकामः संकल्पो विचिकित्सेत्यादि सर्वं मन एवऽत्युक्तत्वात् ।
वक्ष्यति च "कामा येऽस्य हृदि श्रिताः"इति ।
आत्मसंश्रयभ्रान्त्यपनोदाय हीदं वचनंहृदि श्रिता हृदयस्य शोका इति च ।
हृदयकरणसंबन्धातीतश्चायमस्मिन्कालेऽतिक्रामति मृत्यो रूपाणीति ह्युक्तम् ।
हृदयकरणसहन्धातीतत्वात्तत्संश्रयकामसंबन्धातीतो भवतीति युक्ततरं वचनम् ।
ये तु वादिनो हृदि श्रिताः कामा वासनाश्च हृदयसंबन्धिनमात्मनमुपसृप्योपश्लिष्यन्ति हृदयवियोगेऽपि चाऽत्मन्यवतिष्ठन्ते पुटतैलस्य इव पुष्पादिगन्ध इत्याचक्षते ।
तेषां कामः संकल्पो हृदये हर्योव रूपाणि हृदयस्य शोका इत्यादीनां वचनानामानर्थक्यमेव ।
हृदयकरणोत्पाद्यत्वादिति चेत् ।
न ।
हृदि श्रिता इति विशेषणात् ।
न हि हृदयस्य करणमात्रत्वे हृदि श्रिता इति वचनं समञ्जसं हृदये ह्येव रूपाणि प्रतिष्ठितानीति च ।
आत्मविशद्देश्च विवक्षितत्वाद्धृच्छ्रयणवचनं यथार्थमेव युक्तम् ।
ध्यायतीव लेलायतीवेति च श्रुरेरन्यार्थासंभवात् ।
कामा येऽस्य हृदि श्रिता इति विशेषणादात्माश्रया अपि सन्तीति चेत् ।
न ।
अनाश्रितापेक्षत्वात्नात्राऽश्रयान्तरमपेक्ष्य ये हृदीति विशेषणं किं तर्हि ये हृद्यनाश्रिताः कामास्तानपेक्ष्य विशेषणम् ।
ये त्वप्ररूञा भविष्या भूताश्च प्रतिपक्षतो निवृत्तास्ते नैव हृदि श्रिताः संभाव्यन्ते च ते ।
अतो युक्तं तानपेक्ष्य विशेषणम् ।
ये प्ररूढा वर्तमाना विषये ते सर्वे प्रमुच्यन्त इति ।
तथापि विशेषणानर्थक्यमिति चेत् ।
न ।
तेषु यतन्माधिक्याद्धेयार्थत्वात् ।
इतरथाश्रुतमनिष्टं चकल्पितं स्यादात्माश्रयत्वं कामानाम् ।
न कञ्चन कामं कामयत इति प्राप्तप्रतिषेधादात्माश्रयत्वं कामानां श्रुतमेवेति चेत् ।
न ।
सधीः स्वप्नो भूत्वेति परनिमित्तत्वात्कामाश्रयत्वप्राप्तेरसङ्गवचनाच्च ।
न हि कामाश्रयत्वेऽसङ्गवचनमुपपद्यते ।
सङ्गश्च काम इत्यवोचाम ।
आत्मकाम इति श्रुतेरात्मविषयोऽस्य कामो भवतीति चेत् ।
न व्यतिरिक्तकामाभावार्थत्वात्तस्याः ।
वैशेषिकादितन्त्रन्यायोपपन्नमात्मनः कामाद्याश्रयत्वमिति चेत् ।
न हृदि श्रिता इत्यादिविशेषश्रुतिविरोधानपेक्ष्यास्ता वेशेषिकादितन्त्रोपपत्तयः ।
श्रुतिविरोधे न्यायभासत्वोपगमात् ।
स्वयञ्ज्योतिष्ट्वबाधनाच्च ।
कामादीनां च स्वप्ने केवलदृशिमात्रविषयत्वात्स्वयञ्ज्योतिष्ट्वं सिद्धं स्थितं च बाध्येत ।
आत्मसमवायित्वे दृश्यत्वानुपपत्तेश्चक्षुर्गतविशेषवत् ।
द्रष्टुर्हि दृश्यमर्थान्तरभूतमिति द्रष्टुः स्वयञ्ज्योतिष्ट्वं सिद्धम् ।
तद्बाधितं स्याद्यदि कामाद्याश्रयत्वं परिकल्प्येत् ।
सर्वशास्त्रार्थ विप्रतिषेधाच्च ।
परस्यैकदेशकल्पनायां कामाद्याश्रयत्वे च सर्वशास्त्रार्थजातं कुप्येत ।
एतच्च विस्तरेण चतुर्थेऽवोचाम ।
महता हि प्रयत्नेन कामाद्याश्रयत्वकलप्नाझ प्रतिषेद्धव्या आत्मानः परेणैकत्वशास्त्रार्थसिद्धयेः तत्कल्पनायां पुनः क्रियमाणायां शास्त्रार्थं एव बाधितः स्यात् ।
यथेच्चाधीनामात्मधर्मत्वं कल्पयन्तो वैशेषिका नैयायिकाश्चोपनिषच्छास्त्रार्थबाधनान्नाऽदरणीया ॥४,३.२२॥



_______________________________________________________________________

४,३.२३

यद्वै तन्न पश्यति पश्यन् वै तन्न पश्यति ।
न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् ॥ _४,३.२३ ॥

__________



शा.भा._४,३.२३ स्त्रीपुंसयोरिवैकत्वान्न पश्यतीत्युक्तं स्वयञ्ज्योतिरिति च ।
स्वयञ्ज्योतिरिति च ।
स्वञ्ज्योतिष्ट्वं नाम चैतन्यात्मस्वभावता ।
यदि ह्यग्न्युष्णत्वादिवच्चैतन्यात्मस्वभाव आत्मा स कथमेकत्वेऽपि हि स्वभावं जह्यान्न जानीयात् ।
अथ न जहाति कथमिह सुषुप्ते न पश्यति ।
विप्रतिषिद्धमेतच्चैतन्यमात्मस्वभावो न जानाति चेति ।
न विप्रतिषिद्धमुभयमप्येतदुपपद्यत एव ।
कथम्यद्वै सुषुप्ते तन्न पश्यति पश्यन्वै तत्तत्र पश्यन्नेव न पश्यति ।
यत्तत्र सुषुप्ते न पश्यतीति जानीषे तन्न तथा गृह्णीयाः ।
कस्मात् ।
पश्यन्वै भवति तत्र ।
नन्वानं न पश्यतीति सुषुप्ते जानीमे यतो न चक्षुर्वा मनो वा दर्शने करणं व्यापृतमस्ति ।
व्यापृतेषु हि दर्शनश्रवणादिषु पश्यतीति व्यवहारो भवति शृणोतीति वा ।
न च व्यापृतानि करणानि पश्यामः ।
तस्मान्न पश्यत्येवायम् ।
न हि ।
किं तर्हि पश्यन्नेव भवति ।
कथम् ।
न हि यस्माद्द्रष्टुर्दृष्टकर्तुर्या दृष्टिस्तस्या दृष्टेर्विपरिलोपो विनाशः ।
स न विद्यते ।
यथाग्नेरौष्ण्यं हि सा ।
ननु विप्रतिषिद्धमिदमभिधीयते द्रष्टुः सा दृष्टिर्न विपरिलुप्यत इत चाशक्यं वक्तुम् ।
ननु न विपरिलुप्यत इति वचनादविनाशिनी स्यात् ।
न ।
वनचस्य ज्ञापकत्वात् ।
नहि न्यायप्राप्तो विनाशः कृतकस्य वचनशतेनापि वारयितुं शक्यते ।
वचनस्य ज्ञापकत्वात् ।
नहि न्यायप्राप्तो विनाशः ।
कृतकस्य वचनशतेनापु वारयितुं शक्यते ।
वचनस्य यथाप्राप्तार्थज्ञापकत्वात् ।
नैष दोषः ।
आदित्यादिप्रकाशकत्ववद्दर्शनोपपत्तेः ।
यथाऽदित्यादयो नित्यप्रकाशस्वभावा एव सन्तः स्वाभाविकेन नित्येनैव प्रकाशेन प्रकाशयन्ति ।
न ह्यप्रकाशात्मानः सन्तः प्रकाशं कुर्वन्तः प्रकाशयन्तीत्युच्यन्ते ।
किं तर्हि स्वभावेनैव नित्येन प्रकाशेन ।
तथायमप्यात्माविपरिलुप्तस्वभावया दृष्ट्या नित्यया द्रष्टेत्युच्यन्ते ।
गौणं तर्हि द्रष्टुत्वम् ।
नैवमेव मुख्यत्वोपपत्तेः यदि ह्यन्यथाप्यात्मनो द्रष्टुत्वं दृष्टं तदास्य द्रष्टुत्वस्य गौणत्वं न त्वात्मनोऽन्यो दर्शनप्रकारोऽस्ति तदेवमेव मुख्यं द्रष्टुत्वमुपपद्यते नान्यथा ।
यथाऽदित्यादीनां प्रकाशयितृत्वं नित्येनैव स्वभाविकेनाक्रियमाणेन प्रकाशकेन तदेव च प्रकाशयितृत्वं मुख्यं प्रकाशयितृत्वान्तरानुपपत्तेः ।
तस्मान्न द्रष्टुर्दृष्टिर्विपरिलुप्यत इत न विप्रतिषेधगन्धोऽप्यस्ति ।
नन्वनित्यक्रियाकर्तृविषय एव तृच्प्रत्ययान्तस्य शब्दस्य प्रयोगो दृष्टो यथा छेत्ता भेत्ता गन्तेति तथा द्रष्टेत्यत्रापीति चेत् ।
न ।
प्रकाशयितेति दृष्टत्वात् ।
भवतु प्रकाशकेष्वन्यथासंभवान्न त्वात्मनीति चेत् ।
न, दृष्ट्यविपरिलोपश्रुतेः ।
पश्यामि न पश्यामीत्यनुभवदर्शनान्नेति चेत् ।
न ।
करणव्यापारविशेषापेक्षत्वात् ।
उद्धृतचक्षुषां च स्वप्नात्मदृष्टेरविपरुलोपदर्शनात् ।
तस्मादविपुलुप्तस्वभावैवाऽत्मनो दृष्टः ।
अतस्याविपरिलुप्तया दृष्ट्या स्वयञ्ज्योतिःस्वभावया पश्यन्नेव भवति सुषुप्ते ।
कथं तर्हि न पश्यतीति ।
उच्यते ।
न तु तदस्ति किं तत् ।
द्वितीयं विषयभूतम् ।
किंवशिष्टम् ।
ततो द्रष्चिरन्यदन्यत्वेन विभक्तं यत्पश्येद्यदुपलभेत यद्धि तद्विशेषदर्शनकारणमन्तःकरणं चक्षू रूपं च तदविद्ययान्यत्वेन प्रत्युपस्थापितमासीत् ।
तदेतस्मिन्काल एकीभुतम् ।
आत्मनः परेण परिष्वङ्गात् ।
द्रष्टुर्हि परिच्छिन्नस्यविशेषदर्शनाय करणमन्यत्वेन व्यतिष्ठते ।
अयं तु स्वेन सर्वात्मना संपिष्वक्तः स्वेन परेण प्राज्ञेनाऽत्मना प्रिययेव पुरुषः ।
तेन न पृथक्त्वेन व्यवस्थितानि करणानि विषयाश्च ।
तदभावाद्विशेषदर्शनं नास्ति ।
करणादिकृतं हि तन्नाऽत्मकृतम् ।
आत्मकृतमिव प्रत्यवभासते ।
तस्मात्तकृतेयं भ्रान्तिरात्मनो दृष्टिः परिलुप्यतच इति ॥४,३.२३॥



_______________________________________________________________________

४,३.२४३०

यद्वै तन्न जिघ्रति जिघ्रन् वै तन्न जिघ्रति ।
न हि घ्रातुर्घ्रातेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यज्जिघ्रेत् ॥ _४,३.२४ ॥


यद्वै तन्न रसयति रसयन् वै तन्न रसयति ।
न हि रसयितू रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ _४,३.२५ ॥


यद्वै तन्न वदति वदन् वै तन्न वदति ।
न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ _४,३.२६ ॥

यद्वै तन्न शृणोति शृण्वन् वै तन्न शृणोति ।
न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ _४,३.२७ ॥


यद्वै तन्न मनुते मन्वानो वै तन्न मनुते ।
न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ _४,३.२८ ॥


यद्वै तन्न स्पृशति स्पृशन् वै तन्न स्पृशति ।
न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ _४,३.२९ ॥


यद्वै तन्न विजानाति विजानन् वै तन्न विजानाति ।
न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् ।
न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ _४,३.३० ॥

__________



शा.भा._४,३.२४३० समानमन्यत् ।
यद्वै तन्न जिघ्रति ।
यद्वै तन्न रसयते ।
यद्वै तन्न वदति ।
यद्वै तन्न शृणोति ।
यद्वै तत्र मनुते ।
यद्वै तन्न स्पृशति ।
यद्वै तन्न स्पृशति ।
यद्वै तन्न विजानातीति मननविज्ञानयोर्दृष्ट्यादिसहकारित्वेऽपि सति चक्षुरादिनिरपेक्षे भूतभविष्यद्वर्तमानविषयव्यापारो विद्यत इति पृथग्ग्रहणम् ।
किं पुनर्दृष्ट्यादीनामग्नेरौष्ण्यप्रकाशनज्वलनादिवद्धर्मभेद आहोस्विदभिन्नस्यैव धर्मस्य परोपाधिनिमित्तं धर्मान्यत्वमिति ।
अत्र केचिद्व्याचक्षते ।
आत्मवस्तुनः स्वत एवैकत्वं नानात्वं च यथा गोर्गोद्रव्यतयैकत्वं नानात्वं चानुमेयम् ।
सर्वत्राव्यभिचारदर्शनादात्मनोऽपि तद्वदेव दृष्ट्यादीनां परस्परं नानात्वमात्मना चैकत्वमिति ।
नान्यपरत्वात् ।
न हि दृष्ट्यादिधर्मभेदप्रदर्शपरमिदं वाक्यं यद्वै तदित्यादि ।
किं तर्हि ।
यदि चैतन्यात्मज्योतिः कथं न जानाति सुषुप्ते नूनमतो न चैतन्यात्मज्योतिरित्येवमाशङ्काप्राप्तौ तन्निराकरणयैतदारब्धं यद्वै तदित्यादि ।
यदस्य जाग्रत्स्वप्नयोश्चक्षुराद्यनेकोपाधिद्वारं चैतन्यात्मज्योतिः स्वाभाव्यमुपलक्षितं दृष्ट्याद्यभिधेयव्यवहारापन्नं सुषुप्तं उपाधिभेदव्यापारनिवृत्तावनुद्भास्यमानत्वादनुपलक्ष्यमाणस्वभावमप्युपाधिभेदेन भिन्नमिव यथाप्राप्तानुवादेनैव विद्यमान्तवमुच्यते ।
तत्र दृष्ट्यादिधर्मभेदकल्पनाविवक्षितार्थानभिज्ञतया ।
सैन्धवघनवत्प्रज्ञानैकरसघनश्रुतिविरोधाच्च ।
"विज्ञानमनन्दम्" "सत्यं ज्ञानम्" "प्रज्ञानं ब्रह्म"इत्यादिश्रुतिभ्यश्च ।
शब्दप्रवृतेश्च ।
लौकिको च शब्दप्रवृत्तश्चक्षुषा रूपं विजानाति श्रोत्रेण शब्दं विजानाति रसनेनान्नस्य रसं विजानातीति च सर्वत्रैव च दृष्ट्यादिशब्दाभिधेयानां विज्ञानशब्दवाच्यतामेव दर्शयति ।
शब्दप्रवृत्तिश्च प्रमाणम् ।
दृष्टान्तोपपत्तेश्च ।
यथा हि लोके स्वच्छस्वाभाव्ययुक्तः स्फचिकस्तन्निमित्तमेव केवलं हरितनीललोहिताद्युपाधिभेदसोयागात्तदाकारत्वं शक्यन्ते ।
तथा चक्षुराद्युपाधिभेदसंयोगत्प्रज्ञानघनस्वभावस्यैवाऽत्मज्योतिषो दृष्ट्यादिशक्तिभेद उपलक्ष्यते ।
प्रज्ञानघनस्य स्वच्छस्वाभाव्यात्स्फटिकस्वच्छस्वाभाव्यवत्स्वयञ्ज्योतिष्ट्वाच्च ।
यथा शक्तिभेद उपलक्ष्यते ।
यथा चाऽदित्यज्योतिरवभास्यभेदैः संयुज्यमानं हरितनीलपीतलोहितादिभेदैरविभाग्यं तदाकाराभावं भवति ।
तथा च कृत्स्नञ्जगदवभासयच्चक्षुरादीनि च तदाकारं भवति ।
तथा चोक्तमात्मनैवायं ज्योतिषाऽस्त इत्यादि ।
न च निवयवेष्वनेकात्मता शक्यते कल्पयितुम् ।
दृष्टान्ताभावात् ।
यदप्याकाशस्य सर्वगतत्वादिधर्मभेदः परिकल्प्यते परमाण्वादीनां च गन्धरसाद्यनेकगुणत्वं तदपि निरीप्यमाणं परोपाधिनिमित्तमेव भवति ।
आकाशस्यतावत्सर्वगत्वं नाम न स्वतो धर्मोऽस्ति ।
सर्वोपाधिसंश्रयाद्धि सर्वत्र स्वेन रूपेण सत्त्वमपेक्ष्य सर्वगत्वव्यवहारो न त्वाकाशः क्वचिद्गतो वागतो वा स्वतः ।
गमनं हि नाम देशान्तरस्थस्य देशान्तरेण संयोगकारणम् ।
सा च क्रिया नैवाविशेषे संभवति ।
एव धर्मभेदा नैव सन्त्याकाशे ।
तथा परमाण्वादावपि ।
परमाणुर्नाम पृथिव्या गन्धघनायाः परमसूक्ष्मोऽवयवो गन्धात्मक एव न तस्य पुर्गन्धवत्त्व नाम शक्यते कल्पयितुम् ।
अथ तस्यैव रसादिमत्वं स्यादिति चेन्न ।
तत्राप्यबादिसंससर्गनिमित्तत्वात्तस्मान्न निरवयवस्यानेकधर्मवत्त्वे दृष्टान्तो ।
स्ति ।
एतेन दृगादिशक्तिभेदानां पृथक्चक्षुरूपादिभेदेन परिणामभेदकल्पना परमात्मनि प्रयुक्ता ॥४,३.२४३० ॥



_______________________________________________________________________

४,३.३१

यत्र वा अन्यदिव स्यात्तत्रान्योऽन्यत्पश्येदन्योऽन्यज्जिघ्रेदन्योऽन्यद्रसयेदन्योऽन्यद्वदेदन्योऽन्यच्छृणुयादन्योऽन्यन्मन्वीतान्योऽन्यत्स्पृशेदन्योऽन्यद्विजानीयात् ॥ _४,३.३१ ॥

__________



शा.भा._४,३.३१ जाग्रत्स्वप्नयोरिव यद्विजानीयात्तद्द्वितीयं प्रविभक्तमन्यत्वेन नास्तीत्युक्तमतः सुषुप्ते न विजानाति विशेषम्ष ननु यद्यस्यायमेव स्वभावः किंनिमित्तमस्य विशेषविज्ञानं स्वभावपरित्यागेन ।
अथ विशेषविज्ञानमेवास्य स्वभावः कस्मादेष विशेषं न विजानातीति ।
उच्यते शृणु ।
यत्र यस्मिढ्जागरिते स्वप्ने वा अन्यदिवाऽत्मनो वस्त्वन्तरमिवाविद्यया प्रत्युपस्थापितं भवति तत्र तस्मादविद्याप्रत्युपस्थापितादन्योऽन्यमिवाऽत्मानं मन्यमानोऽसत्यात्मनः प्रविभक्ते वस्त्वन्तरेऽसति चात्मनि ततः प्रविभक्तेऽन्योऽन्यत्पश्येदुपलभेत ।
तच्च दर्शितं स्वप्ने प्रत्यक्षतो घ्नन्तीव जिनन्तीवेति ।
तथान्योऽन्यज्जिघ्रेद्रसयेद्वदेच्छृणुयान्मन्वाति स्पृशेद्विजानीयादिति ॥४,३.३१॥



_______________________________________________________________________

४,३.३२

सलिल एको द्रष्टाद्वैतो भवति ।
एष ब्रह्मलोकः सम्राट् ।
इति हैनमनुशशास याज्ञवल्क्यः ।
एषास्य परमा गतिः ।
एषास्य परमा संपत् ।
एषोऽस्य परमो लोकः ।
एषोऽस्य परम आनन्दः ।
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ॥ _४,३.३२ ॥

__________



शा.भा._४,३.३२ यत्र पुनः साविद्या सुषुप्ते वस्त्वन्तरप्रत्युपस्थापिका शान्ता तेनान्यत्वेनाविद्याप्रविभक्तस्य वस्तुनोऽभावात्केन कं पश्येज्जिघ्रेद्विजानीयाद्वा ।
अतः स्वेनैव हि प्राज्ञेनऽऽत्मना स्वयञ्ज्योतिःस्वभावेन संपरिष्वक्तःसमस्तः संप्रसन्न आप्तकाम आत्मकामः सलिलवस्त्वच्छीभूतः सलिल इव एको द्वितीयस्याभावात् ।
अविद्याया हि द्वितीयस्याभावात् ।
एतदमृतमभयमेष भ्मलोको ब्रह्मैव लोको ब्रह्मलोकः पर एवायमस्मिन्काले व्यावृत्तकार्यकरणोपाधिभेदः स्वात्मज्योतिषि शान्तसर्वसंबन्धो वर्तते ।
हे सम्राडिति हैवं हैनं जनकमनुशशासानुष्टवान्याज्ञवल्क्य इति श्रुतिवचनमेतत् ।
कथं वानुशशास ।
एषास्य विज्ञानमयस्य परमा गतिः ।
यास्त्वन्या देहग्रहलक्षणा ब्रह्मादिस्तम्बपर्यन्ता अविद्याकल्पितास्ता गतयोऽतोऽपरमा अविद्याविषयत्वात् ।
इयं तु देवत्वादिगतीनां कर्मविद्यासाध्यानां परमोत्तमा यः समस्तात्मभावो यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानातीत्येषैव च परमा संपत्सर्वासां संपदां विभूतीनामियं परमा स्वाभाविकत्वादस्याः कृतका ह्यन्याः संपदः ।
तथैषोऽस्य परमो लोकः ।
येऽन्ये कर्मफलाश्रया लोकास्तेऽस्मादपरमाः ।
अयं तु न केनचन कर्मणा मीयते स्वाभाविकत्वादेषो.स्य परमो लोकः ।
तथैषोऽस्यपरम आनन्दः ।
यान्यन्यानि विषयेन्द्रियसंबन्धजनितान्यानन्दजातानि तान्यपेक्ष्यैषोऽस्य परम आनन्दो नित्यत्वात् ।
"यो वै भूमा तत्सुखम्" इति श्रुत्यन्तरात् ।
यत्रान्यत्पश्यन्यद्विजानाति तान्यपेक्ष्यैषोऽस्य परम आनन्दोनित्यत्वात् ।
"यो वै भूमा तत्सुखम्"इति श्रुत्यन्तरात् ।
यत्रान्यत्पश्यद्विजानाति तदल्पं मर्त्यममुख्यं क्षुखमिदं तु तद्विपरीतम् ।
एत एषोऽस्य परम आनन्दः ।
एतस्यैवैऽऽनन्दस्य मात्रां कलामविद्याप्रत्युपस्थापितां विषयेन्द्रियसंबन्धकालविभाव्यामन्यानि भूतान्युपजीवन्ति ।
कानि तानि तत एवाऽनन्दादविद्यथाप्रविभज्यमानस्वरूपाण्यन्यत्वेन तानि ब्रह्मणः परिकल्प्यमानान्यन्यानि सन्त्युपजीवन्ति भूतानि विषयेन्द्रियसंपर्कद्वारेण विभाव्यमानाम् ॥४,३.३२॥



_______________________________________________________________________

४,३.३३

स यो मनूष्याणां राद्धः समृद्धो भवत्यन्येषामधिपतिः सर्वैर्मानुष्यकैर्भोगैः सम्पन्नतमः स मनुष्याणां परम आनन्दः ।
अथ ये शतं मनुष्याणामानन्दाः स एकः पितॄणां जितलोकानामानन्दः ।
अथ ये शतं पितॄणां जितलोकानामानन्दाः स एको गन्धर्वलोक आनन्दः ।
अथ ये शतं गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्ते ।
अथ ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतमाजानदेवानामानन्दाः स एकः प्रजापतिलोक आनन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः ।
यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।
अथैष एव परम आनन्दः ।
एष ब्रह्मलोकः सम्राट् ।
इति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते सहस्रं ददामि ।
अत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।
अत्र ह याज्ञवल्क्यो बिभयां चकार मेधावी राजा सर्वेभ्यो मान्तेभ्य उदरौत्सीदिति ॥ _४,३.३३ ॥
__________



शा.भा._४,३.३३ यस्य परमान्दस्य मात्रा अवयवा ब्रह्मादिभिर्मनुष्यपर्यन्तैर्भूतैरुपजीव्यन्ते तदानन्दमात्राद्वारेण मात्रिणं परमानन्दमधिजिगमियिषन्नाह सैन्धवलवणशकलैरिव लवणशैलम् ।
स यः कस्मिन्मनुष्याणां मध्ये राद्धः संसिद्धोऽविकलः समग्रावयव इत्यर्थः ।
समृद्ध उपभोगोपकरणसंपन्नो भवति ।
किञ्चान्येषां समानजातीयानामधिपतिः स्वतन्त्र पतिर्न माण्डलिकः सर्वैः समस्तैर्मानुष्यकैरिति दिव्यभोगोपकरणनिवृत्यर्थं मनुष्याणामेव यानि भोगोपकरणानि तैः संपन्नानामप्यतिषयेन संपन्नः संपन्नतमः स मनुष्याणां परम आनन्दः ।
तत्राऽनन्दान्दितोरभेदनिर्देशान्नार्थान्तरभूतत्वमित्येतत् ।
परमानन्दरस्यैवेयं विषयाविषय्याकरेण मात्रा प्रसृतेति हयुक्तं यत्र वा अन्यदिव स्यादित्यादिवाक्येन ।
तस्माद्युक्तोऽयं परम आनन्द इत्यभेदनिर्देशः ।
युधिष्ठिरादितुल्यो राजात्रोदाहरणम् ।
दृष्टं मनुष्यानन्दरमादिं कृत्वा शतगुणोत्तरक्रमेणोन्नीय परमानन्दं यत्र भेदो निवर्तते तमधिगमयति ।
अत्रायमानन्दः शतगुणोत्तरोत्तरक्रमेण वर्धमानो यत्र वृद्धिकाष्टामनुभवति ।
यत्र गणितभेदो निवर्ततेऽन्यदर्शनश्रवणमननाभावात्तं परमानन्दं विवक्षन्नाह ।
अथ ये मनुष्याणामेवंप्रकाराः शतमानन्दभेदाः स एकः पितॄणाम् ।
तेषां विशेषणं जितलोकानामिति ।
श्राद्धादिकर्मभिःपितॄंस्तोषयित्वा तेन कर्मणा जितो लोको येषां ते जितलोकाः पितरस्तेषां पितृणां जितलोकानां मनुष्यानन्दशतगुणीकृतपरिमाण एक आनन्दो भवति ।
सोऽपि शतगुणीकृतो गन्धर्वलोक एक आनन्दो भवति ।
स च शतगुणीकृतः कर्मदेवानामेक आनन्दः ।
अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति ते कर्मदेवैः ।
तथैवैऽऽजानदेवानामेक आनन्दः ।
आजानत एवोत्पत्तित एव ये देवास्त आजानदेवाः ।
यश्च श्रोत्रियोऽधीतवेदोऽवडजिनो वृजिनं पापं तद्रहितो यथोक्तकारित्यर्थः ।
अकामहतो वीततृष्ण आजानदेवोऽभ्योर्ऽवाग्यावन्तो विषयास्तेषु ।
तस्य चैवंभूतस्याऽजानदेवैः समान आनन्द इत्येतदन्वाकृष्यते च शब्दात्तच्छतगुणीकृतपरिमाणः प्रजापतिलोक एक आनन्दो विराट्शरीरे ।
तथा तद्विज्ञानवाञ्श्रोत्रियोऽधीतवेदश्चावृजिन इत्यादि पूर्ववत् ।
तच्छतगुणीकृतपरिमाण एक आनन्दो ब्रह्मलोके हिरण्यगर्भात्मनि ।
यश्चेत्यादि पूर्ववदेव ।
अतः परं गणितनिवृत्तः ।
एष परम आनन्द प्रयुक्तः ।
यस्य च परमानन्दजस्य ब्रह्मलोकाद्यानन्दा मात्रा उदधेरिव विप्रुषः ।
एवं शतगुणोत्तरोत्तरवृद्ध्युपेता आनन्दा यत्रैकता यान्ति यश्च श्रोत्रियप्रत्यक्षोऽथैष एव संप्रसादलक्षणः परम आनन्दस्तत्र हि नान्यत्पश्यति नान्यच्छृणोति ।
अथो भूमा भूमत्वादमृतः ।
इतरे तद्विपरीताः ।
अत्र च श्रोत्रयित्वाद्वृजिनत्वे तुल्ये ।
अकामहतत्वकृतो विशेष आनन्दशतगुणवृद्धिहेतुः ।
अत्रैतानि साधनानि श्रोत्रियत्वावृजिनत्वाकामहतत्वानि तस्य तस्याऽनन्दस्य प्राप्तावर्थादिभिहितानु यथा कर्माण्ग्निहोत्रादीनि देवानां देवत्वप्राप्तौ ।
तत्र च श्रोत्रियत्वावृजिनत्वलक्षणे कर्मणी अधरभूमिष्वपि समाने इति नोत्तरानन्दप्राप्तिसाधने अभ्युपेयेते ।
अकामहतत्वं तु वैराग्यतारतम्योपपत्तेरुत्तरोत्तरभूम्यानन्दप्राप्तिसाधनमित्यवगम्यते ।
स एष परम आनन्दो वितृष्णश्रोत्रियप्रत्यक्षोऽधिगतः ।
तथा च वेदव्यासः"यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्" ॥
इति ।
एष ब्रह्मलोको हे सम्राडिति होवाच याज्ञवल्क्यः सोऽहमेवनुशिष्टो भगवते तुभ्यं सहस्रं ददामि गवाम् ।
अत ऊध्वं विमोक्षायैव ब्रूहीति व्याख्यातमेतत् ।
अत्र ह विमोक्षायेत्यस्मिन्वाक्ये याज्ञवल्क्यो बिभयाञ्चकार भीतवान् ।
याज्ञवल्क्यस्य भयकारणमाह श्रुतिः ।
न याज्ञवल्क्यो वक्तृत्वसामर्थ्याभावाद्भीतवानज्ञानाद्वा किं तर्हि मेधावी राजा सर्वेभ्यो मा मामन्तेभ्यः प्रश्ननिर्णयवसानेभ्य उदरौत्सीदावृणोदवरोधं कृतवानित्यर्थः ।
यद्यान्मया निर्णीतं प्रश्नरूपं विमोक्षार्थं तत्तदेकदेशत्वेनैव कामप्रश्नस्य गृहीत्वा पुनः पुनर्मां पर्यनुयुङ्क्त्त एव मेधावित्वादित्येतद्भयकारणं सर्वं मदीयं विज्ञानं कामप्रश्नव्याजेनोपादित्सतीति ॥४,३.३३॥



_______________________________________________________________________

४,३.३४

स वा एष एतस्मिन् स्वप्नान्ते रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैव ॥ _४,३.३४ ॥

__________



शा.भा._४,३.३४ अत्र विज्ञानमयः स्वयञ्ज्योतिरात्मा स्वप्ने प्रदर्शितः ।
स्वप्नान्तबुद्वान्तसंचारेण कार्यकरणव्यतिरित्त्कता ।
कामकर्मप्रविवेकश्चासङ्गतया महामत्स्यदृष्टान्तेन प्रदर्शितः ।
पुनश्चाविद्याकार्यं स्वप्न एव ध्नन्तोवेत्यादिना प्रदर्शितम् ।
अर्थादविद्यायाः सतत्त्वंनिर्धीरितमतद्वर्माध्यारोपणरूपत्वमनात्मधर्मत्वं च ।
तथा विद्यायाश्च कार्यं प्रदर्शितं सर्वत्मभावः स्वप्न एव प्रत्यक्षतः सर्वोऽस्मीति मन्यते सोऽस्य परमो लोक इति ।
तत्र च सर्वात्मभावः स्वभावोऽस्यैवमविद्याकामकर्मादिसर्वसंसारधर्मसंबन्धातीतं रूपमस्य साक्षात्सुषुप्ते गृह्यत इत्येनद्विज्ञापितं स्वयञ्ज्योतिरात्मैष परम आनन्दः ।
एष विद्याया विषयः ।
स एष परमः संप्रसादः सुखस्य च परा काष्ठेत्येतदेवमन्तेन ग्रन्थेन व्याख्यातम् ।
तच्चैत्सर्वं विमोक्षपदार्थसर्वं विमोक्षपदार्थस्य दृष्टान्तभूतं बन्धनस्य च ।
ते चैते मोक्षबन्धने सहेतुके सप्रपञ्चे निर्दिष्टे विद्याविद्याकार्ये तत्सर्वं दृष्टान्तभूतमेवेति तद्दार्ष्टान्तिकस्थानीये मोक्षहन्धने सहेतुके कामप्रश्नार्थभूते त्वया वत्त्कव्ये इति पुनः पर्थनुयुङ्त्त्के जनकोऽत ऊर्ध्वं विमोक्षायैव ब्रूहीति ।
तत्र महामत्स्यवत्स्वबुद्धान्तावसङ्गः संचरत्येक आत्मा स्वयञ्ज्योतिरित्युक्तम् ।
यथा चासौ कार्यकरणानु मृत्युरूपाणि परित्यजन्नुपाददानश्च महामत्स्यवत्स्वप्नबुद्धान्तावनुसंचरति तथा जायमानो म्रियमाणश्च तैरेव मृत्युरूपैः संयुज्यते वियुज्यते च ।
उभौ लोकानुसंचरतीति संचरणं स्वप्नबुद्धन्तानुसंचारस्य दार्ष्टान्तिकत्वेन सूचितम् ।
तदिह विस्तरेण सनिमित्तं संचरणं वर्णयितव्यमिति तदर्थोऽयमारम्भः तत्र च बुद्धान्तात्स्वप्नान्तमयमात्मानुप्रवेशितः ।
तस्मात्संप्रासादस्थानं मोक्षदृष्टनान्तभूतम् ।
ततः प्रच्याव्य बुद्धान्ते संसारव्यवहारः प्रदरिश्यितव्य इति तेनास्य संबन्धः ।
स वै बुद्धान्तात्स्प्नान्तक्रमेण संप्रसन्न एष एतस्मिन्संप्रसादे स्थित्वा ततः पुनरीषत्प्रच्युतः स्वप्नान्ते रत्वा चरित्वेत्यादि पूर्ववद्बुन्दायैवाऽद्रवति ॥४,३.३४॥



_______________________________________________________________________

४,३.३५

तद्यथानः सुसमाहितमुत्सर्जं यायादेवमेवायं शारीर आत्मा प्राज्ञेनात्मनान्वारूढ उत्सर्जं याति ।
यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ _४,३.३५ ॥

__________



शा.भा._४,३.३५ इत आरभ्यास्य संसारो वर्ण्यते ।
यथायमात्मा स्वप्नान्ताद्बुद्धान्तमागत एवमयमस्माद्देहद्देहान्तरं प्रतिपत्स्यत इत्याहात्र दृष्टान्तम् ।
तत्तत्र यथा लोकेऽनः शकटं सुसमाहितं सुष्ठु भृशं वा समाहितं भाण्डोपस्करणेनोलूखलमुसलशूर्पपिठरादिनान्नाद्येन च संपन्नं संभारेणाऽक्रनान्तमित्यर्थः ।
तथा भाराक्रान्तं सदुत्सर्जच्छब्दं कुर्वद्यथा ययाद्गच्छेच्छाकटिकेनाधिष्ठितं सत् ।
एवमेव यथोक्तो दृष्टान्तोऽयं शरीरः शारीरे भवः ।
कोऽसौ ।
आत्मा लिङ्गोपाधिः ।
यः स्वप्नबुद्धान्ताविवि जन्ममरणाभ्यां पाप्मसंसर्गवियोगलक्षणाभ्यामिहलोकपरलोकावनुसंचरति ।
यस्योत्क्रमणमनु प्राणाद्युत्क्रमणं स प्राज्ञेन परेणाऽत्मना स्वयञ्ज्योतिःस्वभावेनान्वारूठोऽधिष्ठितोऽवभास्यमानः ।
तथा चोक्तमात्तमनैवायं ज्योतिषाऽस्ते पल्ययत इति ।
उत्सर्जन्याति ।
तत्र चैतन्यात्मज्योतिषा भास्ये लिङ्गे प्राणप्रधाने गच्छति तदुपाधिरप्यात्मा गच्छतीव ।
तथा श्रुत्यन्तरम्"कस्मिन्न्वहम्"इत्यादि"ध्यायतीव"इति च ।
अत एवोक्तं प्राज्ञेनाऽत्मनान्वारूठ इति ।
अन्यथा प्राज्ञेनैकीभूतः शकटवत्कथमुत्सर्जन्याति ।
तेन लिङ्गोपाधिरात्मोत्सर्जन्मर्मसु निकृत्यमानेषु दुःखवेदनयार्ऽऽतः शब्दं कुर्वन्याति गच्छति तत्कस्मिन्काल इति ।
उच्यतेयत्रैतद्भवति ।
एतदिति क्रियाविशेषणम् ।
ऊर्ध्वोच्छ्वासी यत्रोर्ध्वोच्छासितत्वमस्य भवतीत्यर्थः ।
दृश्यमानस्याप्यनुवदनं वैराग्यगहेतोः ईदृशः कष्टः खल्वयं संसारः येनोत्क्रान्तिकाले मर्मसूत्कृत्यमानेषु स्मृतिलोपो दुःखवेदनार्तस्य पुरुषार्थसाधनप्रतिपत्तौ चासामर्थ्यं परवशीकृतचित्तस्य ।
तस्माद्यावदियमवस्था नाऽगमिष्यति तावदेव पुरुषार्थसाधनकर्व्यतायामप्रमत्तो भवेदित्याह कारुण्याच्छ्रुतिः ॥४,३.३५॥



_______________________________________________________________________

४,३.३६

स यत्रायमणिमानं न्येति जरया वोपतपता वाणिमानं निगच्छति ।
तद्यथाम्रं वोदुम्बरं वा पिप्पलं वा बन्धनात्प्रमुच्यते ।
एवमेवायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्य पुनः प्रतिन्यायं प्रतियोन्याद्रवति प्राणायैव ॥ _४,३.३६ ॥

__________



शा.भा._४,३.३६ तदस्योर्ध्वोच्छ्वासित्वं कस्मिन्काले किंनिमित्तं कथं किमर्थं वा स्यादित्येतदुच्यतेसोऽयं प्राकृतः शिरः पाण्यादिमान्पिण्डो यत्र यस्मिन्कालेऽयमणिमानमणोर्भावमणुत्वं कार्श्यमित्यर्थः ।
न्येति निगच्छति ।
किंनिमित्तं जरया वा स्वयमेव कालपक्वफलवज्जीर्णः कार्श्यं गच्छति ।
उपतपतीत्युपतपञ्ज्वरादिरोगस्तेनोपतपता वा ।
उपतप्यमानो हिरोगेण विषमाग्नितयान्नं भुक्तं न जरयति ततोऽन्नरसेनानुपचीयमानः पिण्डः कार्श्यमापपद्यते तदुच्यत उपतपता वेति ।
अणिमानं निगच्छति ।
यदात्यन्तकार्श्यं प्रतिपन्नो जरादिनिमित्तैस्तदोर्ध्वोच्छवासी भवति ।
यदोर्ध्वोच्छ्वासी तदा भृशाहितसंभारशकटवदुत्सर्जन्याति ।
जरिभाभवो रोगादिपीडनं कार्श्यापत्तिश्च शरीरवतोऽवश्यंभाविन एतेऽनर्था इति वैराग्यायेदमुच्यते ।
यदासावुत्सर्जन्याति तदा कथं शरीरं विमुञ्चतीति दृष्टान्त उच्यतेतत्तत्र यताम्रं वा फलमुदुम्बरं वा पिप्पलं वाफलम् ।
विषमानेकदृष्टान्तोपादानं मरणस्यानियतनिमित्तत्वख्यापनार्थम् ।
अनियतानि हि मरणस्य निमित्तान्यसंख्यातानि च ।
एतदपि वैराग्यार्थमेव ।
यस्मादयमनेकमरणनिमित्तवांस्तस्मात्सर्वदा मृत्योरास्ये वर्तत इति ।
बन्धनाद्बध्यते येन वृन्तेन सह स बन्धनकारणो रसो यस्मिन्वा बध्यत इति वृन्तमेवोच्यते बन्धन तस्माद्रसाद्वृन्ताद्वा बन्धनात्प्रमुच्यते वाताद्यनेकनिमितमेवमेवायं पुरुषो लिङ्गात्मा लिङ्गोपाधिरेभ्योऽङ्गेभ्यश्चक्षुरादिदेहावयवेभ्यः संप्रमुच्य सम्यङ्निर्लेपेन प्रमुच्य ।
न सुषुप्तगमनकाल इव प्राणेन रक्षन् ।
किं तर्हि सह वायुनोपसंहृत्य ।
पुनः प्रतिन्यायं पुनःशबन्दात्पूर्वमप्ययं देदाद्देहान्तरमसकृद्गतवान्यथा स्वप्नबुद्धान्तौ पुनः पुर्गच्छति तथा पुनः प्रतिन्यायं प्रतिगमनं यथागतमित्यर्थः ।
प्रतियोनि योनिं योनि प्रति कर्मश्रुतादिवशादाद्रवति ।
किमर्थम् ।
प्राणायैव प्राणव्यूहायैवेत्यर्थः ।
सप्राण एव हि गच्छति ततः प्राणयैवेति विशेषणमनर्थकम् ।
प्राणव्यूहाय हि गमनं देहाद्देहान्तरं प्रति ।
तेन ह्यस्य कर्मफलोपभोगार्थसिद्धिर्न प्राणसत्तामात्रेण ।
तस्मात्तादर्थायर्थं युक्तं विशेषणं प्राणव्यूहायेति ॥४,३.३६॥



_______________________________________________________________________

४,३.३७

तद्यथा राजानमायन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽन्नैः पानैरवसथैः प्रतिकल्पन्तेऽयमायात्ययमागच्छतीति ।
एवं हैवंविदं सर्वाणि भूतानि प्रतिकल्पन्त इदं ब्रह्मायातीदमागच्छतीति ॥ _४,३.३७ ॥

__________



शा.भा._४,३.३७ तत्रास्येदं शरीरं परित्यज्य गच्छतो नान्यस्य देहान्तरस्योपादाने सामर्थ्यमस्ति ।
देहेन्द्रियवियोगात् ।
न चान्येऽस्य भृत्यस्थानीया गृहमिव राज्ञे शरीरान्तरं कृत्वा प्रतीक्षमाणा विद्यन्ते ।
अथैवं सति कथमस्य शरीरान्तरोपादानमिति ।
उच्यतेसर्वं ह्यस्य जगत्स्वकर्मफलोपभोगसाधनत्वायोपात्तं स्वकर्मफलोपभोगाय चायं प्रवृत्तो देहाद्देहान्तरं प्रतिपित्सुस्तस्मात्सर्वमेव जगत्स्वकर्मणा प्रयुक्तं तत्कर्मफलोपभोगायोग्यं साधनं कृत्वा प्रतीक्षत एव ।
"कृतं लोकं पुरुषोऽभिजायते"इति श्रुतेः ।
यथा स्वप्नाज्जागरितं प्रतिपित्सोः ।
तत्कथमिति लोकप्रसिद्धो दृष्टान्त उच्यतेतत्तत्र यथा राजानं राज्याभिषिक्तमायान्तं स्वराष्ट्र उग्रा जातिविशेषाः क्रूरकर्मणो वा प्रत्येनसः प्रति प्रतेनसि पापकर्मणि नियुक्ताः प्रत्येनसस्तस्करादिदण्डनादौ नियुक्ताः सूताश्च ग्रामण्यो ग्रामनेतारस्ते पूर्वमेव राज्ञ आगमनं बुद्ध्वान्नैर्भोज्यभक्ष्यादिप्रकारैः पानैर्मदिरादिभिरावसथैश्च प्रासादादिभिः प्रतिकल्पन्ते निष्पन्नैरेव प्रितीक्षन्तेऽयं राजाऽयात्ययमागच्छतीत्येवं वदन्तः ।
यथायं दृष्टान्त एवं हैवंविदं कर्मफलस्य वेदितारं संसारिणमित्यर्थः ।
कर्मफलं हि प्रस्तुतं तदेवंशब्देन परामृश्यते ।
सर्वाणि भूतानि शरीरकर्तॄणि करणानुग्रहीतॄणि चाऽदित्यादीनि तत्कर्मप्रयुक्तानि कृतैरेव कर्मफलोबभोगसाधनैः प्रतीक्षन्ते ।
इदं ब्रह्म भोक्तृकर्तृ चास्माकमायाति तथेदमागच्छतीत्येवमेव च कृत्वा प्रतीक्षन्त इत्यर्थः ॥४,३.३७॥



_______________________________________________________________________

४,३.३८

तद्यथा राजानं प्रयियासन्तमुग्राः प्रत्येनसः सूतग्रामण्योऽभिसमायन्ति ।
एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति ।
यत्रैतदूर्ध्वोच्छ्वासी भवति ॥ _४,३.३८ ॥

__________



शा.भा._४,३.३८ तमेव जिगमिषुं के सह गच्छन्ते ।
ये वा गच्छन्ति ते किं तत्क्रियाप्रणुन्ना आहोस्वित्तत्कर्मवशात्स्वयमेव गच्छन्ति परलोकशरीरकर्तॄणि च भूतानीति ।
अत्रोच्यते दृष्टान्तः ततद्यथा राजानं प्रयियासन्तं प्रकर्षेण यातुमिच्छन्तमुग्राः प्रत्येनसः सूतग्रामण्यस्तं यथाभिसमायन्त्याभुमिख्येन समायन्त्येकीभावेन तमभिमुखा आयन्त्यनाज्ञप्ता एव राज्ञा केवलं तज्जिगमिषाभिज्ञाः, एवमेवेममात्मानं भोक्तारमन्तकाले मरणकाले सर्वे प्राणा वागादयोऽभिसमायन्ति ।
यत्रातदूर्ध्वोच्छ्वासी भवतीति व्याख्यातम् ॥४,३.३८॥

इति बृहदारण्यकोपनिषद्भाष्ये चतुर्थाध्यायस्य तृतीयं ब्राह्मणम् ॥



_______________________________________________________________________

४,४.१

स यत्रायमात्माबल्यं न्येत्य संमोहमिव न्येति ।
अथैनमेते प्राणा अभिसमायन्ति ।
स एतास्तेजोमात्राः समभ्याददानो हृदयमेवान्ववक्रामति ।
स यत्रैष चाक्षुषः पुरुषः पराङ्पर्यावर्तते ।
अथारूपज्ञो भवति ॥ _४,४.१ ॥

__________



शा.भा._४,४.१ स यत्रायममात्मा ।
संसारोपवर्णनं प्रस्तुतम् ।
तत्रायं पुरुष एभ्योऽङ्गेभ्यः संप्रमुच्येत्युक्तम् ।
तत्संप्रमोक्षणं कस्मिन्काले कथे वेति सविस्तरं संसरणं वर्णयितव्यमित्यापभ्यतेसोऽयमात्मा प्रस्तुतो यत्र यस्मिन्कालेऽबल्यमबलभावं नि एत्य गत्वा ।
यद्देहस्य दौर्बल्यं तदात्मन एव दौर्बल्यमित्युपर्यतेऽबल्यं न्येत्येति ।
न ह्यसौ स्वतोऽमूर्तत्वादबलभावं गच्छति ।
तथा संमोहमिव संमूठता संमोहो विवेकाभावः संमूढतामिव न्येति निगच्छति ।
न चास्य स्वतः संमोहोऽसंमोहो वास्ति ।
नित्यचैतन्यज्योतिःस्वभावत्वात् ।
तेनेवशब्दः संमोहमिव न्येतीति ।
उत्क्रान्तिकालं हि करणोपसंहारनिमित्तो व्याकुलीभाव आत्मन इव लक्ष्यते लैकिकैः ।
तथा च वक्तारो भवन्ति संमूढः संमूढोऽयमिति ।
अथ वोभयत्रेवशब्दप्रयोगो योज्यः ।
अबल्यमिव न्येत्संमोहमिव न्येतीति ।
उभयस्परोपाधिनिमित्तत्वाविशेषात् ।
समानकर्तृकनिर्देशाच्च ।
अथास्मिन्काल एते प्राणा वागादय एनमात्मनमभिसमायन्ति तदास्य शारीरस्याऽत्मनोऽङ्गेभ्यः संप्रमो७णम् ।
कथं पुनः संप्रमोक्षणं केन वा प्रकारेणाऽत्मानमभिसमायन्तीति ।
उच्यतेस आत्मैतास्तेजोमात्रास्तेजसो मात्रास्तेजोमात्रास्तेजोवयवा रूपादिप्रकाशकत्वाच्चक्षुरादीनि करणानीत्यर्थः ।
ता एताः समभ्याददानः सम्यङ्निर्लेपेनाभ्याददान आभिमुख्येना ।
ञऽददानः संहरमाणस्तत्स्वप्नापेक्षया विशेषणं समिति ।
न तु स्वप्ने निर्लेपेन सम्यागादानम् ।
अस्ति त्वादानमात्रम् ।
ऽगृहीता वाग्गृहीतं चक्षुःऽऽअस्य लोकस्य सर्वावतो मात्रामपादायऽऽशुक्रमादायेऽत्यादिवाक्येभ्यः ।
हृदयमेव पुण्डरीकाकारमन्वक्रामत्यन्वागच्छति ।
हृदयेऽभिव्यक्तविज्ञानो भवतीत्यर्थः ।
बुद्ध्यादिविक्षेपोपसंहापे सति ।
न हि तस्य स्वतश्चलनं विक्षेपोपसंहारादिविक्रिया वा ।
ध्यायतीव लेलायतीवेत्युक्त्वात् ।
बुद्ध्याद्युपाधिद्वारैव हि सर्वविक्रियाऽध्यारोप्यतेतस्मिन् ।
कदा पुनस्तस्य तेजोमात्राभ्यादामिति ।
उच्.तेस यत्रैष चक्षुषि भवश्चाक्षुष पुरुष जादित्यांशो भोक्तुः कर्मणा प्रयुक्तो यादवद्देहधारणं तावच्चक्षुषोऽनुग्रहं कुर्वन्वर्तते ।
मरणकाले त्वस्य चक्षुरनुग्रहं परित्यजति स्वमादित्यात्मानं प्रतिपद्यते ।
तदेतदुक्तं"यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यामि"त्यादि ।
पुनर्देहग्रहणकाले संश्रयिष्यन्ति ।
तथा स्वप्स्यतः प्रबुध्यतश्च ।
तदेतदाहिचाक्षुषः पुरुषो यत्र यस्मिन्काले पराङ्पर्यावर्तते परिसमन्तात्पराङ्व्यावर्तत इति ।
अथात्रास्मिन्कालेऽरूपज्ञो भवति मुमूर्षू रूपं न जानाति तदायमात्मा चक्षुरादितेजोमात्राः समभ्याददानो भवति स्वप्न्काल इव ॥४,४.१॥



_______________________________________________________________________

४,४.२

एकीभवति न पश्यतीत्याहुः ।
एकीभवति न जिघ्रतीत्याहुः ।
एकीभवति न रसयतीत्याहुः ।
एकीभवति न वदतीत्याहुः ।
एकीभवति न शृणोतीत्याहुः ।
एकीभवति न मनुत इत्याहुः ।
एकीभवति न स्पृशतीत्याहुः ।
एकीभवति न विजानातीत्याहुः ।
तस्य हैतस्य हृदयस्याग्रं प्रद्योतते ।
तेन प्रद्योतेनैष आत्मा निष्क्रामति ।
चक्षुष्टो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्यः ।
तमुत्क्रामन्तं प्राणोऽनूत्क्रामति ।
प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति ।
सविज्ञनो भवति ।
संजानमेवान्ववक्रामति ।
तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च ॥ _४,४.२ ॥

__________



शा.भा._४,४.२ एकीभवति करणजातं स्वेन लिङ्गात्मना ।
तदैवन पार्श्वस्था आहुर्न पश्यतीति ।
तथा घ्राणदेवतानिवृत्तौ घ्राणमेकीभवति लिङ्गात्मना तदा न जिघ्रतीत्याहुः ।
समानमन्यत् ।
जिह्वायां सोमो वरुणो वा देवता तन्निवृत्यपेक्षया न रसयत इत्याहुः ।
तथा न वदति न शृणोति न मनुते न स्पृशति न विजानातीत्याहुः ।
तदोपलक्ष्यते देवतानिवृत्तिः करणानां च हृदय एकीभावः ।
तत्र हृदय उपसंहृतेषु करणेषु योऽन्तर्वायपारः स कथ्यतेतस्य हैतस्य प्रकृतस्य हृदयस्य हृदयच्छिद्रस्येत्येतत् ।
अग्रं नाडीमुखं निर्गमद्वारं प्रद्योतते स्वप्नकाल इव स्वेन भासातेजोमात्रादानकृतेन स्वोनाव ज्योतिषाऽत्मनैव च ।
तेनाऽत्मज्योतिषा प्रद्योतेन हृदयाग्रेणैष आत्मा विज्ञानमयो लिङ्गोपाधिर्निग्रच्छति निष्क्रमाति ।
तथाऽथर्वणे"कस्मिन्न्वहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठते प्रतिष्ठास्यामीति स प्राणमसृजत"इति ।
तत्र चाऽत्मचैतन्यज्योतिः सर्वदाभिव्यक्ततरम् ।
तदुपाधिद्वारा ह्यात्मनि जन्ममरणगमनागमनादिसर्वविक्रियालक्षणः संव्यवहारः ।
तदात्मकं हि द्वादशविधं करणं बुद्ध्यादि तत्सूत्रं तज्जीवनं सोऽन्तरात्मा जगतस्तस्थुषश्च ।
तेन प्रद्योतेन हृदयाग्रप्रकाशेन निष्क्रममाणः केन मार्गेण निष्क्रामतीति ।
उच्यतेचक्षुष्टो वा ।
आदित्यलोकप्राप्तिनिमित्तं ज्ञानं कर्म वा यदि स्यात् ।
मूर्ध्नो वा ब्रह्मलोकप्राप्तिनिमित्तं चेत् ।
अन्येभ्यो वा शरीरदेशेभ्यः शरीरावयवेभ्यो यथाकर्म यथाश्रुतम् ।
तं विज्ञानात्मानमुत्क्रामन्तं परलोकस्य प्रस्थितं परलोकायोद्भूताकूतमित्यर्थ ।
प्राणः सर्वाधिकारिस्थानीयो राज्ञ इवानूत्क्रामति ।
तं च प्राणमनूत्क्रामन्तं वागादयः सर्वे प्राणां अनूत्क्रामन्ति ।
यथाप्रधानान्वाचिख्यासेयं न तु क्रमेण सार्थवद्ग्मनमिह विवक्षितम् ।
तदैष आत्मा सविज्ञानो भवति स्वप्निव विशेषविज्ञानवान्भवति कर्मवशान्न् स्वतन्त्रः स्वातन्त्र्येण हि सविज्ञानत्वे सर्वः कृतकृत्यः स्यात् ।
नैव तु तल्लभ्यते ।
अत एवाऽह व्यासः"सदा तद्भावभावितः"इति ।
कर्मणा तूद्भाव्यमानेनान्तःकरणवृत्तिविशेषाश्रितवासनात्मकविशेषविज्ञानेन सर्वो लोक एतस्मिन्काले सविज्ञानो भवति ।
सविज्ञानमेव च गन्तव्यमन्ववक्रामत्यगच्छति विशेषविज्ञानोद्भासितमेवेत्यर्थः ।
तस्मात्तत्काले स्वातन्त्र्यार्थं योगधर्मानुसेवनं परिसंख्यानाभ्यासश्च विशिष्टपुण्योपयश्च श्रद्धधानैः परलोकार्थिभिरप्रमत्तैः कर्तव्य इति ।
सर्वशास्त्राणां यत्नतो विधेयोर्ऽथो दुश्चरिताच्चोपरमणम् ।
न हि तत्काले शक्यते किञ्चित्सम्पादयितुम् ।
कर्मणा नीयमानस्य स्वातन्त्र्याभावात् ।
ऽपुण्यो वै पुण्येन कर्मणा भवति पापः पापेनऽत्युक्तम् ।
एतस्य ह्यनर्थस्योपशमोपायविधानाया सर्वशाखोपनिषदः प्रवृत्ताः ।
न हि तद्विहितोपायानुसेवनं मुक्त्वाऽत्यन्तिकोऽस्यानर्थस्योपशमोपायोऽस्ति ।
तस्मादत्रैवोपनिषद्विहितोपाये यत्नपरैर्भवितव्यमित्येष प्रकरणार्थः ।
शकटवस्तंभृसंभारं उत्सर्जन्यातीत्युक्तं, किं पुनस्तस्य परलोकाय प्रवृत्तस्य पथ्दनं शाकटिकसंभारस्थानीयं गत्वा वा परलोकं यद्भुङ्क्ते शरीराद्यारम्भकं च यत्तत्किमिति ।
उच्यतेतं परलोकाय गच्छन्तमात्मानं विद्याकर्मणी विद्या च कर्म च विद्याकर्मणी विद्या स्रवप्रकारा विहिता प्रतिषिद्धा चाविहिताप्रतिषिद्धा च ।
तथा कर्म विहितं प्रतिषिद्धं चाविहितप्रतिषिद्धं च समन्वारभेते सम्यगन्वारभेते अन्वालभेते अनुगच्छतः पूर्वप्रज्ञा च पूर्वानुभूतविषया प्रज्ञापूर्वप्रज्ञातीतकर्मफलानुभववासनेत्यर्थः ।
सा च वासनापूर्वकर्मरम्भे कर्मविपाके चाङ्गं भवति ।
तेनासावप्यन्वापभते ।
न हि तया वासनया विना कर्म कर्तुं फलं चोपभोक्तुं शक्यते ।
न ह्यनभ्यस्ते विषये कौशलमिन्द्रयाणां भवति ।
पूर्वानुभववासनाप्रवृत्तानां त्विन्द्रियाणामिहाभ्यासमनन्तरेण कौशलमुपपद्यते ।
दृश्यते च केषाञ्चित्कासुचित्क्रियासु चित्रकर्मादिलक्षणासु विनैवेहाभ्यासेन जन्मत एव कौशलं कासुचिदत्यन्तसौकर्ययुक्तास्वप्यकौशलं कोषाञ्चित् ।
तथा पूर्वप्रज्ञया विना कर्मणि वा फलोपभोगे वा न कस्यचित्प्रवृत्तिरुपपद्यते ।
तस्मादेतत्त्रयं शाकटिकसम्भारस्थानीयं परलोकपथ्यदन विद्याकर्मपूर्वप्रज्ञाख्यम् ।
यस्माद्विद्याक्रमणी पूर्वप्ज्ञा च देहान्तरप्रतिपत्युपभोगसाधनं तस्मद्विद्याकर्मादि शुभमेव समातरेद्यथेष्टदेहसम्भोगोपभोगौ स्यातामिति प्रकरणार्थः ॥४,४.२॥



_______________________________________________________________________

४,४.३
तद्यथा तृणजलायुका तृणस्यान्तं गत्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ।
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यमाक्रममाक्रम्यात्मानमुपसंहरति ॥ _४,४.३ ॥

__________



शा.भा._४,४.३ एवं विद्यादिसम्बारसम्फृतो देहान्तरं प्रतिपद्यमानो मुक्त्वा पूर्वं देहं पक्षीव वृक्षान्तरं देहान्तरं प्रतिपद्यते ।
अथवाऽतिवाहिकेन शरीरान्तरेण कर्मफलजन्मदेशं नीयते ।
किञ्चात्रस्थस्यैव सर्वगतानां करणानां वृत्तिलाभो भवत्याहोस्विच्छरीरःस्य संकुचितानि करणानि मृतस्य भिन्नघटप्रदीपप्रकाशवत्सर्वतो व्यप्य पुनर्देहान्तरारम्भे सङ्कोचमुपगच्छन्ति ।
किञ्च मनोमात्रं वैशेषिकसमय इव देहान्तरारम्भदेशं प्रति गच्छति किंवा कल्पनानान्तरमेव वेदान्तसमय इति ।
उच्यते"त एते सर्व एव समाः सर्वेऽनन्ताः"इति श्रुतेः सर्वात्मकानि तावत्करणानि ।
सर्वात्मकप्राणसंश्रयाच्च ।
तेषामाध्यामिकाधिभौतिकपरिच्छेदः प्राणिकर्मज्ञानभावनानिमित्तः ।
अतस्तद्वशात्स्वभावतः सर्गतानामनन्तानामपि प्राणानां कर्ज्ञानवासनानुरूपेणैव देहान्नरारम्भवशात्प्राणानां वृत्तिः संकुचति विकसति च ।
तथा चोक्तम्"समः प्लुषिणा समो मशकेन समो नागेन सम एभिस्त्रिभिर्लोकैः समोऽनेन सर्वेण"इति ।
तथा चेदं वचनमनुकूलम्",स यो हैताननन्तानुपास्ते"इत्यादि ।
"तं यथा यथोपासते"इति च ।
तत्र वासना पूर्वप्रज्ञाख्या विद्याकर्मतन्त्रा जलूकवत्संततैव स्वप्नकाल इव कर्मकृतं देहाद्देहान्तरमारभते हृदयस्यैव पुनर्देहान्तरारम्भे देहान्तरं पूर्वाश्रयं विमुञ्चतीत्येतस्मिन्नर्थे दृष्टान्त उपादीयतेतत्तत्र देहान्तरसञ्चार इदं निदर्शनम् ।
यथा येन प्रकारेण तृणजलायुका तृणजलूका तृणस्यान्तमवसानं गत्वा प्राप्यान्यं तृणान्तरमाक्रममाक्रम्यत इत्याक्रमस्तमाक्रममाक्रम्याऽश्चित्याऽत्मानमात्मनः पूर्ववयवमुपसंहरत्यन्त्यावयवस्थाने ।
एवमेवायमात्मा यः प्रकृतः संसारीदं शरीरं पूर्वोपात्तं निहत्य स्वप्नं प्रतिपित्सुरिव पातयित्वाविद्यां गमयित्वाचेतनं कृत्वा स्वात्मोसंहारेणान्यमाक्रमं तृणान्तरमिव तृणजलूका शरीरान्तरं गृहीत्वा प्रसारित्या वासनयाऽमानमुपसंहरति ।
तत्राऽत्मभावमारभते यथा स्वप्ने देहान्तरमारभते स्वप्नदेहान्तरस्य शरीराम्भदेश आरभ्यमाणे देहे जङ्गमे स्थावरे वा ।
तत्र च कर्मवशात्करणानि लब्धवृत्तीनि संहन्यन्ते ।
बाह्यं च कुशमृत्तिकास्थानीयं शरीरमारभ्यते ।
तत्र च करणव्यूहमपेक्ष्य वागाद्यनुग्रहायाग्न्यादिदेवताः संश्चयन्ते ।
एष देहान्तरारम्भविधिः ॥४,४.३॥



_______________________________________________________________________

४,४.४

तद्यथा पेशस्कारी पेशसो मात्रामपादायान्यन्नवतरं कल्याणतरं रूपं तनुते ।
एवमेवायमात्मेदं शरीरं निहत्याविद्यां गमयित्वान्यन्नवतरं कल्याणतरं रूपं कुरुते ।
पित्र्यं वा गान्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वान्येषां वा भूतानाम् ॥ _४,४.४ ॥


__________


शा.भा._४,४.४ तत्र देहान्तरारम्भे नित्थोपात्तमेवोपादानमुपमृद्योपमृद्य देहान्तरमारभत आहोस्तिदपूर्वमेव पुनः पुनरादत्त इति ।
अत्रोच्यते दृष्टान्तःतत्तत्रेतस्मिन्नर्थेयथा पेशस्कारी पेशः सुवर्ण तत्करोतीति पेशस्कारी सुवर्णकारः, पेशसः सुवर्णस्य मात्रामपादायापिच्छिद्य गृहीत्वा अन्यत्पूर्वस्माद्रचनाविशेषान्नवतरमभिनवतरं कल्याणात्कल्याणतरं रूपं तनुते निर्मिनोति ।
एवमेवायमात्मेत्यादि पूर्ववत् ।
नित्योपात्तान्येव पृथिव्यादीन्याकाशान्तानि पञ्च भूतानि यानिऽद्वे वाव ब्रह्मणो रूपेऽ इति चतुर्थे व्याख्यातानि पेशःस्थानायानि,तान्येवोपमृद्योपमृद्य, अन्यदन्यच्च देहान्तरं नवतरं कल्याणतरं रूपं संस्थानवेशेषं वा पितृभ्यो हितं पितृलोकोपभोगयोग्यमित्यर्थः, गान्धर्वं गन्धर्वाणामुपभोगयोग्यम्, तथा देवानां दैवम्, प्रजापतेः प्रजापत्यम्, ब्रह्मण इदं ब्राह्मं वा॑ यथाकर्म यथाश्रुतमन्येषांवा भूतानां सम्बन्धि शरीरान्तरं कुरुत इत्यभिसम्बन्यते ॥४,४.४॥



_______________________________________________________________________

४,४.५

स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमयो प्राणमयश्चक्षुर्मयः श्रोत्रमयः पृथिवीमय आपोमयो वायुमय आकाशमयस्तेजोमयोऽतेजोमयः काममयोऽकाममयः क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्ममयः सर्वमयः ।
तद्यदेतदिदंमयोऽदोमय इति ।
यथाकारी यथाचारी तथा भवति ।
साधुकारी साधुर्भवति ।
पापकारी पापो भवति ।
पुण्यः पुण्येन कर्मणा पापः पापेन ।
अथो खल्वाहुः ।
काममय एवायं पुरुष इति ।
स यथाकामो भवति तत्क्रतुर्भवति ।
यत्क्रतुर्भवति तत्कर्म कुरुते ।
यत्कर्म कुरुते तदभिसंपद्यते ॥ _४,४.५ ॥

__________



शा.भा._४,४.५ योऽस्य बन्धनसंज्ञका उपाधिभूताः, यैः संयुत्त्कस्तन्मयेऽयमिति विभाव्यते, ते पदार्थाः पुञ्जीकृत्येहैकत्र प्रतिनिर्दिश्यन्तेस वा अयं य एवं संसरत्यात्मा ब्रह्मैव पर एव योऽशनायाद्यतीतो, विज्ञानमयो विज्ञानं बुद्विस्तेनोपलङ्यमाणस्तन्मयः ।
कतम आत्मेति योऽयं विज्ञानमयः प्राणेष्विति हयुक्तम् ।
विज्ञानमयो वीज्ञानप्रायो यस्मात्तद्वर्मत्वमस्य विभाव्यते ध्यायतीव लेलायतीवेति ।
तथा मनोमयो मनः संनिकर्षान्मनोमयः ।
तथा प्राणमयः प्राणः पञ्चवृत्तिस्तन्मयो येन चेतनश्चलतीव लक्ष्यते ।
तथा चक्षुर्मयो रूपदर्शनकाले ।
एवं श्रोत्रमयः शब्दश्रवणकाले ।
एवं तस्य तस्येन्द्रियस्य व्यापारोद्भवे तत्तन्मयो भवति ।
एवं बुद्विप्राणद्वारेण चक्षुरादिकरणमयः सञ्शरीरारम्भकपृथिव्यादिभूतमयो भवति ।
तत्र पार्थिवशरीरारम्भे पृथिवीमयो भवति ।
तथा वरुणादिलोकेष्वाप्यशरीरारम्भ आपोमयो भवति ।
तथा वायव्यशरीरारम्भे वायुमयो भवति ।
तथाऽकाशशरीरारम्भ आकाशमयो भवति ।
एवमेतानि तैजसानि देवशरीराणि ।
तेष्वारभ्यमाणेषु तन्मयस्तेजोमयो भवति ।
अतो व्यतिरिक्तानि पश्वादिशरीराणि नरकप्रेतादिशरीराणि चातेजोमयानि तान्यपेक्ष्याऽहातेजोमय इति ।
एवं कार्यकरणसंघातमयः सन्नात्मा प्राप्तव्यं वस्त्वन्तरं पश्यन्निदं मया प्राप्तमदो मया प्राप्तव्यमित्येवं विपरीतप्रत्ययस्तदभिलाषः काममयो भवति ।
तस्मिन्कामे दोषं पश्यतस्तद्विषयाभिलाषप्रशामे चितं प्रसन्नमकलुषं शान्तं भवति ।
तन्मयोऽकाममयः ।
एवं तस्मिन्विहते कामेकेनाचित्स कामः क्रोधत्वेन परिणमते तेन तन्मयो भवन्क्रोधमयः ।
स क्रोधः केनचिदुपायेन निवर्तितो यदा भवति तदा प्रसन्नमनाकुलं चितं सदक्रोध उच्यते तेन तन्मयः ।
एवं कामक्रोधाभ्यामकामाक्रोधाभ्यां च तन्मयो भूत्वा धर्ममयोऽधर्ममयश्च भवति ।
न हि कामक्रोधादिभिर्विना धर्मादिप्रवृत्तिरूपपद्यते ।
"यद्यद्वि कुरुते कर्म तत्तत्कामस्य चेष्टितम्" ।
इति स्मरणात् ।
धर्ममयोऽधर्मयश्च भूत्वा सर्वमयो भवति ।
समस्तं धर्माधर्मयोः कार्यं यावर्त्किचिद्व्याकृतं तत्सर्वं धर्माधर्मयोः फलं तत्प्रतिपद्यामानस्तन्मयो भवति ।
किं बहुना तदेतत्सिद्वमस्य यदयमिदंमयो गृह्यमाणविषयादिदंमयस्तस्मादयमदोमयः ।
अद इति परोक्षं कार्येण गृह्यमाणेन निर्दिश्यते ।
अनन्ता ह्यन्तःकरणे भावनाविशेषाः ।
नैव ते विशेषतो निर्देष्टुं शक्यन्ते ।
तस्मिस्तस्मिन्क्षणे कार्यतोऽवगम्यन्त इदमस्य ह्रदि वर्ततेऽदोस्यते तेन गृह्यमाणकार्येणेदंमयतया निर्दिश्यते परोक्षोऽन्तःस्थो व्यवहारोऽयमिदानीमदोमय इति ।
संक्षेपतस्तु यथा कर्तुं यथा वा चरितुं शीलमस्य सोऽयं यथाकारी यथा चारी स तथा भवति ।
करणं नाम नियता क्रिया विधिप्रतिषेधादिगम्या चरणं नामानियतमिति विशेषः ।
साधुकारी साधुर्भवतीति यथाकारीत्यस्य विशेषणं पापकारी पापो भवतीति च यथाचारीत्यस्य ।
ताच्छील्यप्रत्ययोपादानादत्यन्ततात्पर्यतैव तन्मयत्वं न तु तत्कर्ममात्रेणोत्याशङ्कयाऽहपुण्यः पुण्येन कर्मणा भवति पापः पापेनेति ।
पुण्यपापकर्ममात्रेणैव तन्मयता स्यान्न तु ताच्छील्यमपेक्षते ।
ताच्छील्ये तु तन्मयत्वातिशय इत्ययं विशेषः ।
तत्र कामक्रोधादिपूर्वकपुण्यकारिता सर्वमयत्वे हेतुः संसारस्य कारणं देहाद्देहान्तरसंचारस्य च ।
एतत्प्रयुक्तो ह्यन्यदन्यद्देहान्तरमुपादत्ते ।
तस्मात्पुण्यापुण्ये संसारस्य कारणम् ।
एतद्विषयौ हि विधिप्रतिषेधौ ।
अत्र शास्त्रस्य साफल्यमिति ।
अथो अप्यन्ये बन्धमोक्षकुशलाः खल्वाहुःसत्यं कामादिपूर्वके पुण्यापुण्ये शरीरग्रहणकारणं तथापि कामप्रयुक्तो हि पुरुषः पुण्यपुण्ये कर्मणी उपचिनोति कामप्रहाणे तु कर्म विद्यामानमपि पुण्यपुण्येपचयकरं न भवति ।
उपचिते अपि पुण्यपुण्ये कर्मणी कामशून्ये फलारम्भके न भवतः ।
तस्मात्काम एव संसारस्य मूलम् ।
तथा चेक्तमाथर्वणेकामान्यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र इति ।
तस्मात्काममय एवायं पुरुषो यदन्यमयत्वं तदकारणं विद्यानमपीत्यप्तोऽवधारयति काममय एवेति ।
यस्मात्स च काममयः सन्यादृशेन कामेन यथाकामो भवति तत्क्रतुर्बवति स काम ईषदभिलाषमात्रेणाभिव्यक्तो यस्मिन्विषये भवति सोऽविहन्यमानः स्फुटीभवन्क्रतुत्वामापद्यते ।
क्रतुर्नाध्यवसायो निश्चयो यदनन्तरा क्रिया प्रवर्तते ।
यत्क्रतुर्भवति यादृक्कामकार्येण क्रतुना यथारूपः क्रतुरस्य सोऽयं यत्क्रतुर्भवति तत्कर्म कुरुतेयद्विषयः क्रतुस्तत्फलनिर्वृत्तये यद्योग्यं कर्म तत्कुरुते निर्वर्तयति ।
यत्कर्म कुरुते तदभिसंपद्यते, तदीयं फलमभिसंपद्यते ।
तस्मात्सर्वमयत्वेऽस्य संसारित्वे च काम हेतुरिति ॥४,४.५॥



_______________________________________________________________________

४,४.६

तदेष श्लोको भवति
तदेव सक्तः सह कर्मणैति लिङ्गं मनो यत्र निषक्तमस्य ।
प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् ।
तस्माल्लोकात्पुनरैत्यस्मै लोकाय कर्मणे ।
इति नु कामयमानः ।
अथाकामयमानो योऽकाम
ो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्ति ।
ब्रह्मैव सन् ब्रह्माप्येति ॥ _४,४.६ ॥

__________



शा.भा._४,४.६ तत्तस्मिन्नर्थ एष श्लोको मन्त्रोपि भवति ।
तदेवैति तदेव गच्छति सक्त आसक्तस्तत्रोद्भूताभिलाषः सन्नित्यर्थः ।
कथमेति ।
सह कर्मणा यत्कर्मफलासक्तः सन्नकरोत्तेन कर्मणा सहैव तदेति तत्फलमेति ।
किं तल्लिङ्गमनः ।
मनः प्रधानत्वाल्लिङ्गस्य मनो लिङ्गमित्युच्यते ।
अथवा लिङ्गयतेऽवगम्यतेऽवगच्छति येन तल्लिङ्गं तन्मनो यत्र यस्मिन्निषक्तं निश्चयेन सक्तमुद्भूताभिलाषमस्य संसारिणः ।
तदभिलाषो हि तत्कर्म कृतवान् ।
तस्मात्तन्मनोऽभिषङ्गवशादेवास्य तेन कर्मणा तत्फलप्राप्तिः ।
तेनैतसिद्वं भवति कामो मूलं संसारस्येति ।
अत उच्छिन्नकामस्य विद्यमानान्यपि कर्माणि ब्रह्मविदो वन्ध्यप्रसवानि भवन्ति ।
"पर्याप्तकामसय कृतात्मनश्च इहैव सर्वे प्रविलीतन्ति कामाः"इति श्रुतेः ।
किञ्च प्राप्यान्तं कर्मणः प्राप्य भुक्त्वान्तमवसानं तस्य कर्मणः फलं भुक्त्वान्तं प्राप्य तस्माल्लोकात्पुनरैत्यागच्छत्यस्मै लोकाय कर्मणेऽयं हि लोकः कर्मप्रधानस्तेनाऽह कर्मण इति ।
पुनः कर्मकरणाय पुनः कर्म कृत्वा फलासङ्गवशात्पुनरमुं लोकं यातीत्येवम् ।
इति न्वेवं नु कामयमानः संसरति ।
य मात्कामयमान एवैवं संसरत्यथ तस्मादकामयमानो न क्वचित्संसरति ।
फलासक्तस्य हि गतिरुक्ता ।
अकामस्य हि क्रियानुपपत्तेरकामयमानो मुच्यत एव ।
कथं पुनकामयमानो भवति ।
योऽकामो भवत्यसावकामयमानः कथमकामतेत्युच्यतेयो निष्टकामो यस्मान्निर्गताः कामाः सोऽयं निष्कामः ।
कथं कामा निर्गच्छन्ति ।
य आप्तकामो भवत्याप्ताः कामा येन स आप्तकामः ।
कथमाप्यन्ते कामा आत्मकामत्वेन यस्याऽमैव नान्यः कामयितव्यो वस्त्वन्तरभूतः पदार्थो भवति ।
आत्मैवानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एकरसो नोर्ध्व न तिर्यङ्नाध आत्मनोऽन्यत्कामयितव्यं वस्त्वन्तरम् ।
यस्य सर्वमात्मैवाभूत्तत्केन कं पश्येच्छृणुयान्मन्वीत विजानीयाद्वैवं विजानन्कं कामयेत ।
ज्ञायमानो ह्यन्यत्वेन पदार्थः कामयितव्यो भवति ।
न चासावन्यो ब्रह्मविद आप्तकामस्यास्ति ।
य एवाऽत्मकामतयाऽप्तकामः स निष्कामोऽकामोऽकामयमानश्चेति मुच्यते ।
न हि यस्याऽत्मैव सर्वं भवति तस्यानात्मा कामयितव्योऽस्ति ।
अनात्मा चान्यः कामयितव्यः सर्वं चाऽत्मैवाभूदिति विप्रतिषिद्वम् ।
सर्वात्मदर्शिनः कामयितव्याभावात्कर्मानुपपत्तिः ।
ये तु प्रत्यवायपरिहारार्थं कर्म कल्पयन्ति ब्रह्मविदोऽपि तेषां सर्व भवति ।
प्रत्यवायस्य जिहासितव्यस्याऽत्मनोऽन्यस्याभिप्रेतत्वात् ।
येन चाशनायाद्यतीतो नित्यं प्रत्यवायसंबद्वो विदित आत्मा तं वयं ब्रह्मविदं ब्रूमः ।
नित्यमेवाशनायाद्यतीतमात्मनं पश्यति ।
यस्माच्च जिहासितव्यमन्यमुपादेयं वा यो न पश्यति तस्य कर्म न शक्यत एव संबद्धु म् ।
यस्त्वब्रह्मवितस्य भवत्येव प्रत्यवायपरिहारार्थं कर्मेति न विरोधः ।
अतः कामाभावादकामयमानो न जायते मुच्यत एव ।
तस्यैवमकामयमानस्य कर्माभावे गमनकारणाभावात्प्राणा वागादयो नोत्क्रामन्ति नोर्ध्व क्रामन्ति देहात् ।
स च विद्वानाप्तकाम आत्मकामतयेहैव ब्रह्मभूतः ।
सर्वात्मनो हि ब्रह्मणो दृष्टान्तत्वेन प्रदर्शितमेतद्रूपं तद्वा अस्यैतदाप्तकाममात्मकाममकामं रूपमिति ।
तस्य हि दार्ष्टान्तिकभूतोऽयमर्थ उपसंह्रियतेऽथाकामयमान इत्यादिना ।
स कथमेवंभूतो मुच्यत इत्युच्यतेयो हि सुषुप्तावस्थमिव निर्विशेषमद्वैतमलुप्तचिद्रूपज्योतिः स्वभावमात्मानं पश्यति तस्यैवाकामयमानस्य कर्मभावे गमनकारणभावत्प्राणा वागादयो नोत्क्रामन्ति ।
किन्तु विद्वान्सैहैव ब्रह्म, यद्यपि देहावानिव लक्ष्यते स ब्रह्मैव सन्ब्रह्माप्येति ।
यस्मान्न हि तस्याब्रह्मत्वपरिच्छेदहेतवः कामाः सन्ति तस्मादिहैव ब्रह्मैव सन्ब्रह्माप्येति न शरीरपातेत्तरकालम् ।
न हि विदुषो मृतस्य भावान्तरापत्तिर्जीवतोऽन्यभावो देहान्तरप्रतिसंधानाभावमात्रेणोव तु ब्रह्माप्येतीत्युच्यते ।
भावान्तरारापत्तौ हि मोक्षस्य सर्वोपनिषनिद्विवक्षितोर्ऽथ आत्मैकत्वाख्यः स बाधितो भवेत् ।
कर्महेतुकश्च मोक्षः प्राप्नोति न ज्ञाननिमित्त इति ।
स चानिष्टोऽनित्यत्वं च मोक्षस्य प्राप्नोति ।
न हि क्रियानिर्वृत्तोर्ऽथो नित्यो दृष्टः ।
नित्यश्च मोक्षोऽभ्युपगम्यते ।
"एष नित्यो महिमा"इति मन्त्रवर्णात् ।
न च स्वाभाविकात्स्वभावादन्यन्नित्यं कल्पयितुं शक्यम् ।
स्वाभाविकश्चेदग्न्युदात्मनः स्वभावः स न शक्यते पुरुषव्यापारानुभावीति वक्तुम् ।
न ह्यग्नेरौष्ण्यं प्रकाशो वाग्नुव्यापारानन्तरानुभावी ।
अग्निव्यापारानुभावी स्वाभाविकश्चेति विप्रतिषिद्धम् ।
ज्वलनव्यापानानुभावित्वमुष्णप्राकाशगुणाभ्यामभिव्यज्यते तन्नाग्न्येपेक्षया किं तर्ह्यन्यदृष्टेरग्नेरौष्ण्यप्रकाशौ धर्मौ व्यवहितै कस्यचिद्दृष्ट्या त्वसंबध्यमानौ ज्वलनापेक्षया व्यधानापगमे दृष्टेरभिव्यज्येते तदपेक्षया भ्रान्तिरुपजायते ज्वलनपूर्वकावेताविष्णप्राकाशौ धर्मौ जाताविति ।
यद्युष्णप्रकाशयोरपि स्वाभाविकत्वं न स्यात् ।
यः स्वाभावकिऽग्नेर्धर्मस्तमुदाहरिष्यामः ।
न च स्वाभाविको धर्म एव नास्ति पदार्थानामिति शक्यं वक्तुम् ।
न च निगडभङ्ग इवाभावभूतो मोक्षो बन्धननिवृत्तिरुपपद्यते ।
परमात्मैकत्वाभ्युपगमात्ऽएकमेवाद्वितीयम्ऽइति श्रुतेः ।
न चान्यो बद्धोऽस्ति यस्य निगडनिवृत्तिवद्बन्धननिवृत्तर्मोक्षः स्यात् ।
परमात्मव्यतिरेकेणान्यस्याभावं विस्तरेणावादिष्म ।
तस्मादविद्यानिवृत्तिमात्रे मोक्षव्यवहार इति चावोचाम यथा रज्ज्वादौ सर्पाद्यज्ञाननिवृत्तौ सर्पादिनिवृत्तिः ।
येऽप्याचक्षते मोक्षे विज्ञानान्तरमानन्दान्तरं चाभिव्यज्यत इति सैर्वक्तव्योऽभिव्यक्तिशब्दार्थः ।
यदि तावत्लौकिकिक्येवोपलब्धिविषयव्याप्तिरभिव्यक्तिशब्दार्थः ।
ततो वक्तव्यं किं विद्यमानमभिव्यज्यतेऽविद्यमानमिति वा ।
विद्यमानं चेद्यस्य मुक्तस्य तदभिव्यज्यते तस्याऽत्मभूतमेव तदित्युपलब्धिव्यवधानानुपपत्तेर्नित्याभिव्यक्तत्वान्मुक्तस्याभिव्यज्यत इति विशेषवचनमर्थकम् ।
अथ कदाचिदेवाभिव्यज्यत उपलब्धिव्यवधानादनात्मभूतं तदित्यन्यतोऽभिव्यक्तिप्रसङ्गः ।
तथा चाभिव्यक्तिसाधनापेक्षया ।
उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदाभिव्यक्तिप्रसङ्गः ।
तथा चाभिव्यक्तिसाधनापेक्षता ।
उपलब्धिसमानाश्रयत्वे तु व्यवधानकल्पनानुपपत्तेः सर्वदाभिव्यक्तिरनभिव्यक्तिर्वा ।
नत्वन्तरालकल्पनाया प्रमाणमस्ति ।
न च समानाश्रयणामेकस्याऽत्मभूतानां धर्माणामितरेतरविषयविषयित्वं संभवति ।
विज्ञानसुखयोष्च प्रागभिव्यक्तेः संसारित्वमभिव्यक्त्युत्तरकालं च मुक्तत्वंस्य सोऽन्यः परस्मान्नित्याभिव्यक्तज्ञानस्वरूपादत्यन्तवैलक्षण्याच्छैत्यमिवौष्ण्यात् ।
परमात्मभेदकल्पनायाञ्च वैदिकः कृतान्तः परित्यक्तः स्यात् ।
मोक्षस्येदानीमिव निर्विशेषत्वे तदर्थाधिकयत्नानुपपत्तिः शास्त्रवैयर्थ्यं च प्राप्नोतीति चेन्न ।
न, अविद्याभ्रमापोहाप्थत्वात् ।
न हि वस्तुतो मुक्तामुक्तत्वाविशेषोऽस्ति ।
आत्मनो नित्याकरूपत्वात् ।
किन्तु तद्विषयाविद्यापोह्यते शास्त्रोपदेशजनितविज्ञानेन ।
प्राक्तदुपदेशप्राप्तेस्तदर्थश्च प्रयत्न उपपद्यत एव ।
अविद्यावतोऽविद्यानिवृत्यनिवृत्तिकृतो वेशेष आत्मनः स्यादिति चेत् ।
अविद्याकल्पनाविषयत्वाभ्युपगमाद्रज्जूषरशुक्तकागगनानां सर्वोदकरजतमलिनत्वादिवददोष इत्यवोचाम ।
तिमिरातिमितरदृष्टिवदविद्याकर्तृत्वाकतृत्वाकृत आत्मनो विशेषः स्यादिति चेत् ।
न ।
ध्यातीव लेलायतीवेति स्वतोऽविद्याकर्तृत्वस्व प्रतिषिद्धत्वा ।
अनेकव्यापारसन्निपातजनितत्वाच्चाविद्याभ्रमस्य ।
विषत्वोपपत्तेष्च ।
यस्य चाविद्याभ्रमो घटादिवद्विविक्तो गृह्यते स नाविद्याभ्रमवान् ।
अहं न जाने मुग्धेऽस्मीति प्रत्यतदर्शनादविद्याभ्रमवत्वमेवेति चेन्न ।
तस्यापि विवेकग्रहणात् ।
न हि यो यस्य विवेकेन ग्रहीता स तस्मिन्भ्रान्त इत्युच्यते ।
तस्य च विवेकग्रहणं तस्मिन्नेव च भ्रम इति विप्रतिषिद्धम् ।
न जाने मुग्धोऽस्मीति दृश्यत इति ब्रवीषि तद्दर्शिनश्चाज्ञानं मुग्धरूपता दृश्यत इति च तद्दर्शनस्य विषयो भवति कर्मतामापद्यत इति तत्कथं कर्मभूतं सत्कर्तृस्वरूपदृशिविशेषणज्ञानमुग्धते स्याताम् ।
अथ दृशिविशेषणत्वं तयोः कथं कर्म स्यातां दृशिना व्याप्येते ।
कर्म हि कर्तृक्रियया व्याप्यमानं भवति ।
अन्यच्च व्याप्यमन्यद्व्यापकं न तेनैव तद्व्याप्यते ।
वद कथमेवं सत्यज्ञानमुग्धते दृशिविशेषणे स्याताम् ।
न चाज्ञानाविवेकदर्श्यज्ञानमात्मनः कर्मभूतमुपलभमान उपलब्धृधर्मत्वेन गृह्माति शरीरे कार्श्यरूपदादवत्तथा ।
सुखदुःखेच्छाप्रयत्नादीन्सर्वो लोको गृह्णातीति चेत् ।
तथापि ग्रहीतुर्लोकस्य विवक्ततैवाभ्युपगता स्यात् ।
न जानेऽहं त्वदुक्तं मुग्ध एवेति चेत् ।
भवत्वज्ञो मुग्धो यस्त्वेवन्दर्शू तं ज्ञममुग्धं प्रतिजानीमहे वयम् ।
तथा व्योसेनोक्तम् ।
इच्छादि कृत्स्नं क्षेत्रं क्षेत्री प्रकाशयतीति ।
"समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तम्"इत्यादि शतश उक्तम् ।
तस्मान्नाऽत्मनः स्वतो बद्धमुक्तज्ञानकृतो विशेषोऽस्ति ।
सर्वदा समैकरसस्वाभाव्याभ्युपगमात् ।
ये त्वतोऽन्यथाऽत्मवस्तु परिकल्प्य बन्धमोक्षादिशास्त्रिं चार्थवादमापादयन्ति त उत्सहन्ते खेऽपि शाकुनं पदं द्रष्टुं खं वा मुष्टिनाऽक्रष्टुं चर्मवद्वेष्टितुम् ।
वयं तु तत्कर्तुमशक्ताः सर्वादा समैकरमसद्वैतमविक्रियमजमजरममरममृतमभयमात्मतत्त्वं ब्रह्मैव स्म इत्येष सर्ववेदान्तनिश्चितोर्ऽथ इत्येवं प्रतिपद्यामहे ।
तस्माद्ब्रह्माप्येतीत्युपचारमात्रमेतद्विपीरतग्रहवद्देहसंततेर्वि च्छेदमात्रं विज्ञानफलमपेक्ष्य ॥४,४.६॥



_______________________________________________________________________

४,४.७

तदेष श्लोको भवति
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत इति ।
तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीत ।
एवमेवेदं शरीरं शेते ।
अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव ।
सोऽहं भगवते सहस्रं ददामीति होवाच जनको वैदेहः ॥ _४,४.७ ॥

__________



शा.भा._४,४.७ स्वप्नबुद्धान्तगमनदृष्टान्तस्य दार्ष्टान्तिकः संसारो वर्णितः ।
संसारहेतुश्च विद्याकर्मपूर्वप्रज्ञा वर्णिता ।
यैश्चोपाधिभूतैः कार्यकरणलक्षणभूतैः परिवेष्टितः संसारित्वमनुभवति तानि चोक्तानि ।
तेषां साक्षात्प्रयोजकौ धर्माधर्वाविति पूर्वपक्षं कृत्वा काम एवेत्यवधारितम् ।
यथा च ब्रह्मणेनायमर्थोऽयवधारित एवं मन्त्रेणापीति बन्धं बन्धकारणं चोक्त्वोपसंहृतं प्रकरणं"इति न कामयमान"इति ।
अथाकायमान इत्यारभ्य सुषुप्तदृष्टनातस्य दार्ष्टान्तिकभूतः सर्वात्मभावो मोक्ष उक्तः ।
मोक्षकारणं चाऽत्मकामतया यदाप्तकामत्वमुक्तं तच्च सामर्थायदनात्मज्ञानमन्तरेणाऽत्मकामयतयाऽप्तकामत्वमिति सामर्थ्याद्ब्रह्मविद्यैव मोक्षकारणमित्युक्तम् ।
अतो यद्यपि कामो मूलमित्युक्तं तथापि मोक्षकारणविपर्ययेण बन्धकारणमविद्येत्येदप्युक्तमेव भवति ।
अत्रापि मोक्षो मोक्षसाधनं च ब्राह्मणेनोक्तम् ।
तस्यैव दृढीकरणाय मन्त्र उदाह्रियते श्लोकशब्दवाच्यः तत्तस्मिन्नेवार्थ एष श्लोको मन्त्रो भवति ।
यदा यस्मिन्काले सर्वे समस्ताः कामास्तृष्णाप्रभेदाः प्रमुच्यन्ते ।
आत्मकाम्य ब्रह्मविदः समूलतो विशीर्यन्ते ।
ये प्रसिद्धा लोक इहामुत्रार्थाः पुत्रवित्तलोकैषणालक्षणा अस्य प्रसिद्धस्य पुरुषस्य हृदि बुद्धौ श्रिता आश्रिताः ।
अथ तदा मर्त्यो मरणधर्मा सन्कामवियोगात्समूलतोऽमृतो भवति ।
अत्रास्मिन्नेव शरीरे वर्तमानो ब्रह्म समश्नुते ब्रह्मभावं मोक्षं प्रतिपद्यत इत्यर्थः ।
अतो मोक्षो न देशान्तरगमनाद्यपेक्षते ।
तस्माद्विदुषो नोत्क्रामन्ति प्राणा यावस्थिता एव स्वकारणे पुरुषे समवनीयन्ते ।
नाममात्रं ह्यवशिष्यत इत्युक्तम् ।
कथं पुनः समनवीतेषु प्राणेषु देहे च स्वकारणे प्रलीने विद्वान्मुक्तोऽत्रैवसर्वात्मा सन्वर्तमानः पुनः पूर्ववद्देहित्वं संसारित्वलक्षणं न प्रतिपद्यत इति ।
अत्रोच्यतेतत्तत्रायं दृष्टान्तो यथा लोकेऽहिः सर्पस्तस्य निर्ल्वयनी निर्मेकः साहिनिर्ल्वयनी वल्मीके सर्पाश्रये वल्मीकादावित्यर्थः ।
मृता प्रत्यस्ता प्रक्षिप्तानात्मभावेन सर्पेण परित्यक्ता शयीत वर्ते ।
एवमेव यथायं दृष्टान्त इदं शरीरं सर्पस्थानीयेन मुक्तेनानात्मभावेन परित्यक्तं मृतमिव शेते ।
अथेतरः सर्पस्थानीयो मुक्तः सर्मातमभूतः सर्पवत्तत्रैव वर्तमानोऽप्यशरीर एव न पूर्वव्तुपनः सशरीरो भवति ।
कामकर्मप्रयुक्तशरीरात्मभावेन हि पूर्वं शरीरो मर्त्यश्च ।
तद्वियोगादथेदानीमशरीरोऽत एव चामृतः ।
प्राणः प्राणितीति प्राणः ।
प्राणस्य प्राणमिति हि वक्ष्यमाणे श्लोके ।
"प्राणबन्धनं हि सोम्य मनः"इति च श्रुत्यन्तरे ।
प्रकरणवाक्यसमार्थाच्च पर एवाऽत्मात्र प्राणशब्दवाच्यः ।
ब्रह्मैव परमात्मैव ।
किं पुनस्तत्तेज एव विज्ञानं ज्योतिर्येनाऽत्मज्योतिषा जगदवभास्यमानं प्रज्ञानेत्रं विज्ञानज्योतिष्मत्सदविब्रंशद्वर्तते ।
यः कामप्रश्नो विमोक्षार्थो याज्ञवल्क्येन वरो दत्तो जनकाय सहेतुको बन्धमोक्षार्थलक्षणो दृष्टान्तिकभूतः स एष निर्णीतः सविस्तरो जनकयाज्ञवल्क्याख्यायिकारूपधारिण्या श्रुत्या ।
संसारविमोक्षोपाय उक्तः प्राणिभ्यः ।
इदानीं श्रुतिः स्वयमेवाऽह विद्यानिष्क्रियार्थं जनकेनैवमुक्तमिति ।
कथं? सोऽहमोवं विमोक्षितस्त्वया भगवते तुभ्यं विद्यानिष्क्रियार्थं सहस्रं ददामीति हैव किलोवाचोक्तवाञ्जनको वैदेहः ।
अत्र कस्म्दाविमोक्षपदार्थे निर्णीते विदेहराज्यमात्मानमेव च न निवेदयत्येकदेशोक्ताविव सहस्रमेव ददाति तत्र कोऽभिप्राय इति ।
अत्र केचिद्वर्णयन्तिअध्यात्मविद्यारसिको जनकः श्रुतमप्यर्तं पुनर्मन्त्रैः शुश्रूषति ।
अतो न सर्वमेव निवेदयति ।
श्रुत्वाभिप्रेतं याज्ञवल्क्यात्पुनरन्ते निवेदयिष्यामीति हि मन्यते ।
यदि चात्रैव सर्व निवेदयामि निवृत्ताभिलाषोऽयं श्रवणादिति मत्वा श्लोकान्नवक्ष्यतीति च भयात्सहस्रदानं शुश्रूषालिङ्गज्ञापनायेति ।
सर्वमप्येतदसत् ।
पुरुषस्येव प्रमाणभूतायाः श्रुतेर्व्याजानुपपत्तेः ।
अर्थशेषोपपत्तेश्च ।
विमोक्षपदार्थ उक्तेऽप्यात्मज्ञानसाधन आत्मज्ञानशेषभूतः सर्वेषणापरित्यागः संन्यासाख्यो वक्तव्योर्ऽथशेषो विद्यते ।
तस्माच्छ्लोकमात्रशुश्रूषाकल्पनानृज्वो ।
अगतिका हि गतिः पुवरुक्तार्थकल्पना ।
सा चायुक्ता सत्यां गतौ ।
न च तत्स्तुतिमात्रमित्यवोचाम ।
नन्वेवं सत्यत ऊर्ध्वं विमोक्षायैवेति वक्तव्यम् ।
नैष दौषः आत्मज्ञानवदप्रयोजकः संन्यासः पक्षे प्रतिपत्तिकर्मवदिति हि मन्यते ।
"संन्यासेन तनुं त्यजेत्"इति स्मृतेः ।
साधुत्वापक्षेऽपि नात ऊर्ध्वं विमोक्षायैवेति प्रश्नमर्हति मोक्षसाधनभूतात्मज्ञानपरिपाकार्थत्वात् ॥४,४.७॥



_______________________________________________________________________

४,४.८

तदेते श्लोका भवन्ति
अणुः पन्था विततः पुराणो मां स्पृष्टोऽनुवित्तो मयैव ।
तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः ॥ _४,४.८ ॥

__________



शा.भा._४,४.८ आत्मकामस्य ब्रह्मविदो मोक्ष इत्येतस्मिन्नर्थे मन्त्रब्रह्मणोक्ते विस्तरप्रतिपादका एते श्लोका भवनाति ।
अणुः सूक्ष्मः पन्था दुर्विज्ञेयत्वाद्विततो विस्तीर्णो विस्पष्टतरणहेतुत्वाद्वा वितर इति पाठान्तरान्मोक्षसाधनो ज्ञानमार्गः पुराणश्चिरन्तनो नित्यश्रुतिप्रकाशितत्वान्न तार्किकबुद्धिप्रभवकुदृष्टिमार्गवदर्वाक्कालिको मा स्पृष्टो मया लब्ध इत्यर्थः ।
यो हि येन लभ्यते स तं स्पृशतीव संबध्यते तेनायः ब्रह्मविद्यालक्षणो मोक्षमार्गो मया लब्धत्वान्मा स्पृष्ट इत्युच्यते ।
न केवलं मया लब्धः किन्त्वनुवित्तो मयैव ।
अनुवेदनं नाम विद्यायाः परिपाकापेक्षया फलावसानतानिष्ठा प्राप्तिः ।
भुजेरिव तृप्त्यवसानता ।
पूर्वं तु ज्ञानप्राप्तिसंबन्धमात्रमेवेति विशेषः ।
किमसावेन मन्त्रदृगेको ब्रह्मविद्याफलं प्राप्तो नान्यः प्राप्तवान्येनानुवित्तो मयावेत्यवधारयति ।
नैष दोषः ।
अस्याः फलमात्मसाक्षिकमनुत्तममिति ब्रह्मविद्यायाः स्तुतिपरत्वात् ।
एवं हि कृतार्थात्माभिमानकरमात्मप्रत्ययसाक्षिकमात्मज्ञानं किमतः परमन्यत्स्यादिति ब्रह्मविद्या स्तौति ।
न तु पुरन्यो ब्रह्मवित्तत्फलं न प्राप्नोतीति ।
"तद्यो यो देवानाम्"इति सर्वार्थश्रुतेः ।
तदेवाऽहतेन ब्रह्मविद्यामार्गेण धीराः प्रज्ञावन्तोऽन्येऽपि ब्रह्मविद इत्यर्थः ।
अपियन्त्पिगच्छन्ति ब्रह्मविद्याफलं मोक्षं स्वर्गं लोकं स्वर्गलोकशब्दविष्टपवाच्यमपि सन्निह प्रकरणान्मोक्षाभिधायकः ।
इतोऽस्माच्छरीरपातादूर्ध्वं जीवन्त एव विमुक्ताः सन्तः ॥४,४.८॥



_______________________________________________________________________

४,४.९

तस्मिञ्शुक्लमुत नीलमाहुः पिङ्गलं हरितं लोहितं च ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति ब्रह्मवित्पुण्यकृत्तैजसश्च ॥ _४,४.९ ॥

__________



शा.भा._४,४.९ तस्मिन्मोक्षसाधनमार्गे विप्रतिपत्तिर्मुमुक्षूणाम् ।
कथम् ।
तस्मिञ्शुक्लं शुद्धं विमलमाहुः केचिन्मुमुक्षवो नीलमन्ये पिङ्गलमन्ये हरितं लोहितं च यथादर्शनम् ।
नाढ्यस्त्वेताः सुषुम्नाद्याः श्लेष्मादिरसंसंपूर्णाः शुक्लस्य नीलस्य पिङ्गलस्येत्याद्युक्तत्वात् ।
आदित्यं वा मोक्षमार्गमेवंविधं मन्यन्ते ।
"एष शुक्ल एष नीलः"इत्यादिश्रुत्यन्तारात् ।
दर्शनमार्गस्य शुक्लादिवर्णासंभवात् ।
सर्वथापि तु प्रकृताद्ब्रह्मविद्यामार्गादन्य एते शुक्लादयः ।
ननु शुक्लः शुद्धोऽध्वतैयमार्गः ।
नः नीलपूतादिशब्दैर्वर्णवाचकैः सहानुद्रवणात् ।
याञ्शुक्लादीन्योगिनो मोक्षपथानाहुर्न ते मोक्षमार्गाः संसारविषया वे हि ते ।
चक्षुषो वा मूर्ध्नो वान्येभ्यो वा शरीरदेशेभ्य इति शरीदेशान्निःसरणसंबन्धात् ।
ब्रह्मादिलोकप्रापकाहि ते ।
तस्मादयमेव मोक्षमार्गो य आत्कामत्वेनाऽप्तकामतया सर्वकामक्षे गमनानुपपत्तौ प्रदीपनिर्वाणवच्चक्षुरादीनां कार्यकरणानामत्रैव समवनय इत्येष ज्ञानमार्गः पन्था ब्रह्मणा परमात्मस्वरूपेणैव ब्राह्मणेन त्यक्तसर्वैशणेननानुवित्तः ।
तेन ब्रह्मविद्यामार्गेण ब्रह्मविदन्योऽप्येति ।
कीदृशो ब्रह्मवित्तेनैतीत्युच्यतेपूर्वं पुण्यकृद्भूत्वा पुनस्त्यक्तुपुत्राद्येषणः परात्मतेजस्यात्मानं संयोज्य तस्मिन्नभिनिर्वृत्तस्तैजमसश्चाऽत्मभूत इहैवेत्यर्थः ।
ईदृशो ब्रह्मवित्तेन मार्गेणैति ।
न पुनः पुण्यादिसमुच्चयकारिणो ग्रहणं विरोधादित्यवोचाम ।
"अपुण्यपुण्योपरमे यं पुनर्भवनिर्भाः ।
शान्ताः संन्यासिनो यान्ति तस्मै मोक्षात्मने नमः ॥
इति च स्मृतेः ।
त्यज धर्ममध्रमं च"इत्यादिपुण्यापुण्यत्यागोपदेशात् ।
"निराशिषमनारम्भं निर्नमस्कारमस्तुतुम् ।
अक्षोणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः" ॥
"नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्तोपरमः क्रियाभ्यः" ॥
इत्यादिस्मृतिभ्यश्च ।
उपदेक्ष्यति चेहापि तु"एष नित्यो महिमा ब्रह्मणस्य न वर्धते कर्मणा नो कनीयान्"इति कर्मप्रयोजनाभावे हेतुमुक्तवा"तस्मादेवविच्छान्तो दान्त"इत्यादिना सर्वक्रियोपरमम् ।
तस्माद्यथाव्याख्यातमेव पुण्यकृत्वम् ।
अथवा यो ब्रह्मवित्तेनैति स पुण्यकृतैजसश्चेति ब्रह्मवित्सुतिरेषा ।
पुण्यकृति तैजसे च योगिनि महाभाग्यं प्रसिद्धं लोके ताभ्यामतो ब्रह्मवित्सतूयते प्रख्यातमहाभाग्यत्वाल्लोके ॥४,४.९॥



_______________________________________________________________________

४,४.१०

अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ _४,४.१० ॥

__________



शा.भा._४,४.१० अन्धमदर्शनात्मकं तमः संसारनियामकं प्रविशन्ति प्रतिपद्यन्ते ।
के ।
येऽविद्यां विद्यातोऽन्यां साध्यसाधनलक्षणमुपासते कर्मानुवर्तन्त इत्यर्थः ।
ततस्तस्मादपि भूय इव बहुतरमिव तमः प्रविशन्ति ।
के ।
य उ विद्यायामविद्यावस्तुप्रतिपादिकायां कर्मार्थायां त्रय्यामेव विद्यायां रता अभिरताः विधिप्रतिषेधपर एव वेदो नान्योऽस्तीत्युपनिषदर्थानपेक्षिण इत्यर्थः ॥४,४.१०॥



_______________________________________________________________________

४,४.११

अनन्दा नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छत्यविद्वांसोऽबुधा जनाः ॥ _४,४.११ ॥

__________



शा.भा._४,४.११ यदि तेऽदर्शनलक्षणं तमः प्रविसन्ति को दोष इत्युच्यतेअनन्दा अनानन्दा असुखा नाम ते लोकास्तेनान्धेनादर्शनलक्षणेन तमसाऽवृता व्याप्तास्ते तस्याज्ञानतमसो गोचरास्तांस्ते प्रेत्य मृत्वाभिगच्छन्त्यभियान्ति ।
के ।
येऽविद्वांसः ।
किं सामान्येनाविद्वत्तामात्रेण नेत्युच्यतेअबुधः ।
बुधेरवगमनार्थस्य धातोः क्विप्प्रत्ययान्तस्य रूपम् ।
आत्मावगमवर्जिता इत्यर्थः ।
जनाः प्रकृता एव ।
जननधर्मिणो वेत्येतत् ॥४,४.११॥



_______________________________________________________________________

४,४.१२

आत्मानं चेद्विजानीयादयमस्मीति पुरुषः ।
किमिच्छन् कस्य कामाय शरीरमनु संज्वरेत् ॥ _४,४.१२ ॥

__________



शा.भा._४,४.१२ आत्मानं स्वं परं रूपं सर्वप्राणिमनीषितज्ञं हृत्स्थमशनायादिधर्मातीतं चोद्यदि विजानीयात्सहस्रेषु कश्चित् ।
चेदित्यात्मविद्याया दुर्लभत्वं दर्शयति ।
कथमयं पर आत्मा सर्वप्राणिप्रत्ययसाक्षी यो नेति नेतीत्याद्युक्तो यस्मान्नान्योऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता समः सर्वभूतस्थो नित्यशुद्धबुद्धमुक्तस्वभावोऽस्मि भवामीति पूरुषः पुरुषः ।
स किमिच्छंस्तत्सवरूपव्यतिरिक्तमन्यदस्तु फलभूतं किमिच्छन्कस्य वान्यस्याऽत्मनो व्यतिरिक्तस्य कामाय प्रयोजनाय ।
न हि तस्याऽत्मन एष्टव्यं फलम् ।
न चात्मनोऽन्योस्ति यस्य कामायेच्छति सर्वस्यात्मभूतत्वात् ।
अतः किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेद्भ्रंशेत् ।
शरीरोपाधिकृतदुःखमनुदुःखी स्यात् ।
शरीरतापमनुतप्येत ।
अनात्मदर्शिनो हि तद्व्यतिरिक्तवस्तवन्तरेप्सोः ममेदं स्यात्पुत्रस्येदं भार्याया इदमित्येवमीहमानः पुनः पुनर्जननमरणप्रबन्धरूढः ।
शरीररोगमनु रुज्यते सर्वात्मदर्शिनस्तु तदसंभव इत्येतदाह ॥४,४.१२॥



_______________________________________________________________________

४,४.१३

यस्यानुवित्तः प्रतिबुद्ध आत्मास्मिन् संदेह्ये गहने प्रविष्टः ।
स विश्वकृत्स हि सर्वस्य कर्ता तस्य लोकः स उ लोक एव ॥ _४,४.१३ ॥

__________



शा.भा._४,४.१३ किञ्च यस्य ब्राह्मणस्यानुवित्तोऽनुलब्धः प्रतिबुद्धःसाक्षात्कृतः कथम्? अहमस्मि परं ब्रह्मेत्येवं प्रत्यगात्मत्वेनावगत आत्मा अस्मिन्संदह्ये संदेहेऽनेकानर्थसंकटोपचये गहने विषमेऽनेकशतसहस्रविवेकविज्ञानप्रतिपक्षे विषमे प्रविष्टः स यस्य ब्राह्मणस्यानुवित्तः प्रतिबोधेनेत्यर्थः ।
स विश्वकृद्विश्वस्य कर्ता ।
कथं विश्वकृत्तवं तस्य? किं विश्वकृदिति नामेत्याशङ्क्याऽह स हि यस्मात्सर्वस्य कर्ता न नाममात्रं न केवलं विश्वकृत्परप्रयुक्तः सन् ।
किं तर्हि तस्य लोकः सर्वः ।
किमन्या लोकोऽन्योऽसावित्युच्यते स उ लोक एव ।
लोकशब्देनाऽत्मोच्यते ।
तस्य सर्व आत्मा स च सर्वस्या ।
ञऽत्मेत्यर्थः ।
य एष ब्राह्मणेन प्रत्यगात्मा प्रतिबुद्धतयानुवित्त आत्मानर्थसंकटे गहने प्रविष्टः स न संसारी किन्तु पर एव ।
यस्माद्विश्वस्य कर्ता सर्वस्याऽत्मा तस्य च सर्व आत्मा ।
एक एवाद्वितीयः पर एवास्मीत्यनुसंधातव्य इति श्लोकार्थः ॥४,४.१३॥


_______________________________________________________________________

४,४.१४

इहैव सन्तोऽथ विद्मस्तद्वयं न चेदवेदिर्महती विनष्टिः ।
ये तद्विदुरमृतास्ते भवन्त्यथेतरे दुःखमेवापियन्ति ॥ _४,४.१४ ॥

__________



शा.भा._४,४.१४ किञ्चेहैवालेकार्थसंकुले सन्तो भवन्तोज्ञानदीर्घनिद्रामोहिताः सन्तः कथञ्चिदिव ब्रह्मतत्त्वमात्मत्वेनाथ विद्मो विजानीमः ।
तदेतद्ब्रह्म प्रकृतमहो वयं कृतार्था इत्यभिप्रायः ।
यदेतद्ब्रह्म विजानीमस्तन्न चेद्विदितवन्तो वयं वेदनं वेदो वेदोऽस्यास्तीति वेदी वेद्येव वेदिर्न वेदिरवेदिः ।
ततोऽहमवेदिः स्याम् ।
यद्यवेदिः स्यां को दोषः स्यान्महत्यनन्तपरिमाणा जन्ममरणादिलक्षणा विनष्टिर्विनशनम् ।
अहो वयमस्मान्महतो विनशनान्निर्मुक्ता यदद्वयं ब्रह्म विदितवन्त इत्यर्थः ।
यथा च वयं ब्रह्म विदित्वास्माद्विनशनाद्विप्रमुक्ता एवंये तद्विदुरमृतास्ते भवन्ति ये पुनर्नैव ब्रह्म विदुस्त इतरे ब्रह्मविद्भ्योऽन्येऽब्रह्मविद इत्यर्थः ।
दुःखमेव जन्ममरणादिलक्षणमेवापियन्ति प्रतिपद्यन्ते न कदाचिदप्यविदुषां ततो विनिवृत्तिरित्यर्थः ।
दुःखमेव हि त आत्मत्वेनोपगच्छन्ति ॥४,४.१४॥



_______________________________________________________________________

४,४.१५

यदैतमनुपश्यत्यत्मानं देवमङ्जसा ।
ईशानं भूतभव्यस्य न ततो विजुगुप्सते ॥ _४,४.१५ ॥

__________



शा.भा._४,४.१५ यदा पुनरेतमात्मानं कथञ्चित्परमकारुणिकं कञ्चिदाचार्यं प्राप्य ततो लब्धप्रयादः सन्ननु पश्चात्पश्यति साक्षात्करोति स्वमात्मानं देवं द्योतनवन्तं दातारं वा सर्वप्राणिकर्मफलानां यथाकर्मानुरूपमञ्जसा साक्षादीशानं सावामिनं भूतभव्यस्य कालत्रयस्येत्येतत् ।
न ततस्तस्मादीशानाद्देवादात्मानं विशेषेण जुगुप्सते गोपायितुमिच्छति ।
सर्वो हि लेक ईश्वराद्गुप्तमिच्छति भेदेर्शी ।
अयं त्वेकत्वदर्शी न बिभेति कुतश्चन ।
अतो न तदा विजुगुप्सते ।
यदेशानं देवमञ्जसाऽत्मत्वेन पश्यति न तदा निन्दति वा किञ्चित् ।
सर्वमात्मानं हि पश्यति स एवंपश्यन्कमसौ निन्द्यात् ॥४,४.१५॥



_______________________________________________________________________

४,४.१६

यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते ।
तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ _४,४.१६ ॥

__________



शा.भा._४,४.१६ किञ्च यस्मादीशानादर्वाग्यस्मादन्यविषय एवेत्यर्थः ।
संवत्सरः कालात्मा सर्वस्य जनिमतः परिच्छेत्ता यमपरिच्छिन्दन्नर्वागेव वर्ततेऽहोभिः स्वावयवैरहोरात्रैरित्यर्थः ।
तज्ज्योतिषां ज्योतिरादित्यादिज्योतिषामप्यवभासकत्वादायुरित्युपासने तस्मादायुष्मन्तस्ते ।
तस्मादायुष्कामेनाऽयुर्गुणेनोपास्यं ब्रह्मेत्यर्थः ॥४,४.१६॥



_______________________________________________________________________

४,४.१७

यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः ।
तमेव मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ _४,४.१७ ॥

__________



शा.भा._४,४.१७ किञ्च यस्मिन्यत्र ब्रह्मणि पञ्च पञ्चजना गन्धर्वादयः पञ्चैव संख्याता गन्धर्वाः पितरो देवा असुरा रक्षांसि निषादपञ्चमा वा वर्णा आकाशश्चाव्याकृताख्यो यस्मिन्सूत्रमिमोतं च प्रोतं च ।
यस्मिन्प्रतिष्ठित एतस्मिन्नु खल्वक्षरे गार्ग्याकाश इत्युक्तं तमेवाऽत्मानममृतं ब्रह्म मन्येऽहं न चाहमात्मानं ततोऽन्यत्वेन जाने ।
किं तर्ह्यमृतोऽहं ब्रह्म विद्वान्सन्नज्ञानमात्रेण तु मर्त्योऽहमासं तदपगमाद्विद्वानहममृत एव ॥४,४.१७॥


_______________________________________________________________________

४,४.१८

प्राणस्य प्राणमुत चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः ।
ते निचिक्युर्ब्रह्म पुराणमग्र्यम् ॥ _४,४.१८ ॥

__________



शा.भा._४,४.१८ किञ्च तेन हि चैतन्यात्मज्योतिषावभास्यमानः प्राण आत्मभूतेन प्राणीति तेन प्राणस्यापि प्राणः स तं प्राणस्य प्राणम् ।
तथा चक्षुषोऽपि चक्षुरुत श्रौत्रस्यापि श्रोत्रम् ।
ब्रह्ममशक्त्योधिष्ठितानां हि चक्षुरादीनां दर्शनादिसामर्थ्यं स्वतः काष्ठलोष्टसमानि हि तानि चैतन्यात्मज्योतिःशून्यानि ।
मनसोऽपि मन इति ये विदुश्चक्षुरदाव्यापारानुमितास्तिवं प्रत्यागात्मानं न विषयभूतं ये विदुस्ते निचिक्युर्निश्चयेन ज्ञातवन्तो ब्रह्म पुराणं चिरन्तनमग्र्यमग्रे भवम् ।
"तद्यदात्मविदो विदुः"इति ह्याथर्वणे ॥४,४.१८॥



_______________________________________________________________________

४,४.१९

मनसैवानुद्रष्टव्यं नेह नानास्ति किं चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति। _४,४.१९ ॥

__________



शा.भा._४,४.१९ तद्ब्रह्मदर्शने साधनमुच्यते मनसैव परमार्थज्ञानसंसकृतेनाऽचार्योवदेशापूर्वकं चानुद्रष्टव्यम् ।
तत्र च दर्शनविषये ब्रह्मणि नेह नानास्ति किञ्चन किञ्चिदपु ।
असति नानात्वे नानात्वमध्यारोपयत्यविद्यया ।
स मृत्योर्मरणान्मृत्युं मरणमाप्नोति ।
कोऽसौ ।
य इह नानेव पश्यति ।
अविद्याध्यारोपणव्यतिरेकेण नास्ति परमार्थतो द्वैतमित्यर्थः ॥४,४.१९॥



_______________________________________________________________________

४,४.२०

एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् ।
विरजः पर आकाशादज आत्मा महान् ध्रुवः ॥ _४,४.२० ॥

__________



शा.भा._४,४.२० यस्मादेवं तस्मादेधैवैकेनैव प्रकारेण विज्ञानघनैकरसप्रकारेणाऽकाशवन्निरन्तरेणानुद्रष्टव्यम् ।
यस्मादेतद्ब्रह्माप्रमेयम् ।
सर्वैकत्वात् ।
अन्येन ह्यन्यत्प्रमीयत इदं त्वेकमेवातोऽप्रमेयं ध्रुवं नित्यं कूटस्थमविचालीत्यर्थः ।
ननु विरुद्धमिदमुच्यतेऽप्रमेयं ज्ञायत इति च ।
ज्ञायत इति प्रमाणैर्मीयत ।
इत्यर्थोऽप्रमेयमिति च तत्प्रतिषेधः ।
नैष दोषः ।
अन्यदवस्तुवदनागमप्रमाणप्रमेयत्वप्रतिषेधार्थत्वात् ।
यथाऽन्यानि वस्तून्यागमनिरपेक्षैः प्रमाणैर्विषयीक्रियन्ते न तथैतदात्मतत्वं प्रमाणान्तरेण विषयीकर्तुं शक्यते ।
सर्वस्याऽमत्वे केन कं पश्येद्विजीनायदिति प्रमातृप्रमाणादिव्यापारप्रतिषेधेनैवाऽगमोऽपि विज्ञापयति न त्वभिधानाभिधेलक्षणवाक्यधर्माङ्गीकरणेन ।
तस्मान्नाऽगमनापि स्वर्गमेर्वादिवत्तत्प्रतिपाद्यते ।
प्रतिपादयित्रात्मभूतं हि तत् ।
प्रतिपादयितुः प्रतिपादनस्य प्रतिपाद्यविषयत्वात् ।
भेदे हि सति तद्भवति ।
ज्ञानं च तस्मिन्परात्भावनिवृत्तिरेव ।
न तस्मिन्साक्षादात्मभावः कर्तव्ये विद्यमान्वादात्मभवस्य ।
नित्यो ह्यात्मभावः सर्वस्यातद्विषय इव प्रत्यवभसते ।
तस्मादतद्विषयावभासनिवृत्तव्यतिरेकेण न तस्मिन्नात्मभावो विधीयते ।
अन्यात्भावनिवृत्तावात्मभावः स्वात्मनि स्वाभाविको यः स केवलो भवतीत्यात्मा ज्ञायत इत्युच्यते ।
स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियत इत्युच्चयते ।
स्वतश्चाप्रमेयः प्रमाणान्तरेण न विषयीक्रियत इत्युभयमप्यविरुद्धमेव ।
विरजो विगतरजो रजो नाम धर्माधर्मादिमलं तद्रहित इत्येतत् ।
परः परो व्यतिरिक्तः सूक्ष्मो व्यापी वाऽकाशादप्यव्याकृताख्यात् ।
अजो न जायते जन्मप्रतिषेधादुत्तरेऽपि भावविकाराः प्रतिषिद्धाः ।
सर्वेषां जन्मादित्वात् ।
आत्मा महान्परिमाणतो महतत्रः सर्वस्मात् ।
ध्रुवोऽविनाशी ॥४,४.२०॥



_______________________________________________________________________

४,४.२१

तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः ।
नानुध्यायाद्बहूञ्छब्दान् वाचो विग्लापनं हि तदिति ॥ _४,४.२१ ॥

__________



शा.भा._४,४.२१ तमीदृशमात्मानमेव धीरो धामान्विज्ञायोपदेशतः शास्त्रतश्च प्रज्ञां शास्त्राचार्योपदिष्टविषयां जिज्ञासापरिसमाप्तिकरीं कुर्वीत ब्राह्मणः ।
एवं प्रज्ञाकरणसाधनानि संन्यासशमदमोपरमतितिक्षासमाधानानि कुर्यीदित्यर्थः ।
नानुध्यायान्नानुचिन्तयेद्बहून्प्रभूताञ्छब्दान् ।
तत्र बहुत्वप्रतिषेधात्केवलात्मकत्वप्रतिपादकाः स्वल्पाः शब्दा अनुज्ञायन्ते"ओमित्येवं ध्यायथ आत्मानमन्या वाचो विमिञ्चथ"इति चाऽथर्वणे ।
वाचो विग्लापनं विशेषेण ग्लानिकरं श्रमकरं हि यस्मात्तद्बहुशब्दाभिध्यानमिति ॥४,४.२१॥



_______________________________________________________________________

४,४.२२

स वा एष महानज आत्मा योऽयं विज्ञानमयः प्राणेषु ।
य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते ।
सर्वस्य वशी ।
सर्वस्येशानः ।
सर्वस्याधिपतिः ।
स न साधुना कर्मणा भूयान् ।
नो एवासाधुना कनीयान् ।
एष सर्वेश्वरः ।
एष भूताधिपतिः ।
एष भूतपालः ।
एष सेतुर्विधरण एषां लोकानामसंभेदाय ।
तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसानाशकेन ।
एतमेव विदित्वा मुनिर्भवति ।
एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति ॥ _४,४.२२ ॥

__________



शा.भा._४,४.२२ सहेतुकौ बन्धमोक्षावभिहितौ मन्त्रब्राह्मणभ्यां श्लोकैश्च पुनर्मोक्षस्वरूपं विस्तरेण प्रतिपादितमेवमेतस्मिन्नात्मविषये सर्वो वेदो यथोपयुक्तो भवति तत्तथा वक्तव्यमिति तदर्थेयं कण्डिकाऽरभ्यते ।
तच्च तथास्मिन्प्रपाठकेऽभिहितं सप्रयोजनमनूद्यात्रैवोपयोगः कृत्स्नस्य वेदस्य काम्यराशिवर्जितस्येत्येवमर्थं उक्तार्थानुवादः स वा एष इत्यादिः ।
स इत्युक्तपरामर्शार्थः ।
कोऽसावुक्तः परामृश्यते तं प्रति निर्दिशति य एष विज्ञानमय इति ।
अतीन्तरवाक्योक्तसंप्रत्ययो मा भूदिति य एषः ।
कतम एष इत्युच्यतेविज्ञानमयः प्राणेष्विति ।
उत्तरवाक्योल्लिङ्गनं संशयनिवृत्यर्थम् ।
उक्तं हि पूर्वं जनकप्रश्नारम्भे कतं आत्मेति योऽयं विज्ञानमयः प्राणेष्वित्यादि ।
एतदुक्तं भवति योऽयं विज्ञानमयः प्राणेष्वित्यादिना वाक्येन प्रतिपादितः स्वयञ्ज्योतिरात्मा स एष कामकर्माविद्यानामनात्मधर्मत्वप्रतिदापादनद्वारेण मोक्षितः परमात्मभावमापादितः पर एवायं नान्य इत्येष स साक्षान्महानज आत्मेत्युक्तः ।
योऽयं विज्ञानमयः प्राणेष्विति यथाव्याख्यातार्थ एव ।
य एषोऽन्तर्हृदये हृदयेपुण्डरीकमध्ये हृदयपुण्डरीकमध्ये य एष आकाशः पर एवाऽत्मा निरुपाधिको विज्ञानमयस्य स्वस्वभास्तस्मिन्स्वस्वभावे परमात्मन्याकाशाख्ये सेते ।
चतुर्थं एतद्व्याख्यातं क्वैष तदाभूदित्यस्य प्रतिवचनत्वेन ।
स च सर्वस्य ब्रह्मेन्द्रादेर्वशी ।
सर्वो ह्यस्य वशे वर्तते ।
उक्तं चैतस्य वा अक्षरस्य प्रशासन इति ।
न केवलं वशी सर्वस्येशान ईशिता च ब्र्हमेन्द्रप्रभृतीनामीशितृत्वं च कदाचिज्जातिकृतं यथा राजकुमारस्य बलवत्तरानपि भृत्यान्प्रति तद्वन्मा भूदित्याह सर्वस्याधिपतिरधिष्ठाय पालयिता स्वतन्त्र इत्यर्थः ।
न राजपुत्रवदमात्यादिभृत्यतन्त्रः ।
त्रयमप्येतद्वशित्वादिहेतुहेतुमद्रूपम् ।
यस्मात्सर्वस्याधिपतिस्ततोऽसौ सर्वस्येशानः ।
यो हि यमधिष्टाय पालयति स तं प्रतीष्ट एवेति प्रसिद्धम् ।
यस्माच्च सर्वस्येशानस्तस्मात्सर्वस्य वशीति ।
किचान्यत्स एवंभूतो हृद्यन्तर्ज्योतिः पुरुषो विज्ञानमयो न साधुना शास्त्रविहितेन कर्मणा भूयान्भवति न वर्धते पूर्वावस्थातः केनचिद्धर्मेण ।
नो एव शास्त्रप्रिषिद्धेनासाधुना कर्मणा कनीयानल्पतरो भवति पूर्वावस्थातो न हीयत इत्यर्थः ।
किञ्च सर्वो ह्यधिष्ठानपालनादि कुर्वन्परानुग्रहपीडाकृतेन धर्माधर्माख्योन युज्यतेऽस्यैव तु कथं तदभाव इति ।
उच्यतेयस्मादेष सर्वेश्वरः सन्कर्मणोऽपीशितुं भवत्येव शीलमस्य तस्मान्न कर्मणा संबन्ध्यते ।
किञ्चाष भूताधिपतिर्ब्रह्मादिस्तम्भपर्यन्तानां भूतानामधिपतिरित्युक्तार्थं पदम् ।
एष भूतानां तेषामेव पालयिता रक्षिता ।
एष सेतुः ।
किंविशिष्ट इत्याह विधरणो वर्णाश्रमादिव्यवस्थाया विधारयिता ।
तदाहैषां भूरादीना ब्रह्मलोकान्तानां लोकानामसंभेदायासंभिन्नमर्यादायै ।
परमेश्वरेण सेतुवदविधार्यमाणा लोकाः संभिन्नमर्यादाः स्युः ।
अतो लोकानामसंभेदाय सेतुभूतोऽयं परमेश्वरो यः स्वयञ्ज्योरात्मैव ।
एवंवित्सर्वस्य वशीत्यादि ब्रह्मविद्यायाः फलमेतन्निर्द्दिष्मटम् ।
किज्येतिरियंपुरुष इत्येवमादिषष्ठप्रपाठकविहितायामेतस्यां ब्रह्मविद्यायामेवंफलायां काम्यैकदेशवर्जितं कृत्स्नं कर्मकाण्डं तादर्थ्येन वनियुज्यते ।
तत्कथमित्युच्यतेतमेतमेवभूतमौपनिषदं पुरुषं वेदानुवचनेन मन्त्रब्राह्मणाध्ययनेन नित्यस्वाध्यायलक्षणेन विविदिषन्ति वेदितुमिच्छन्ति ।
के ।
ब्राह्मणाः ।
ब्राह्मणग्रहणमुपलक्षणार्थम् ।
अविशिष्टो ह्यधिकारस्त्रयाणां वर्णानाम् ।
अथवा कर्मकाण्डेन मन्त्रहब्राह्मणेन वेदानुवचनेन विविजिषन्ति ।
कथं विविदिषन्तीत्युच्यतेयज्ञेनेत्यादि ।
य पुनर्मन्त्रब्राह्मणलक्षणेन वेदानुवचनेन प्रकाश्यमानं विविदषन्तीति व्याचक्षते तेषामारण्यकमात्रमेव वेदानुवचनं स्यात् ।
न हि कर्मकाणेन पर आत्मा प्रकाश्यते ।
तो त्वैपनिषदमिति विशेषश्रुतेः ।
वेदानुवचनेनेति चाविशेषितत्वात्समस्तग्राहिदं वचनम् ।
न च तदेकदेशोत्सर्हे युक्तः ।
ननु त्वत्पक्षेऽप्युपनिषद्वर्जमित्येकदेशत्वं स्यात् ।
नाऽद्यव्याख्यानेऽविरोधादस्मत्पक्षे नैष दोषो भवति ।
यदा वेदानुवचनशब्देन नित्यः स्वाध्यायो विधीयते तदोपनिषदपु गृहीतैवेति वेदानुवचनशब्दार्थैकदेशो न परित्यक्तो भवति ।
यज्ञादिसहपाठाच्च ।
यज्ञादीनि कर्माण्येवानुक्रमिष्यन्वेदानुवचनशब्दं प्रयुङ्क्ते ।
तस्मात्क्रमैव वेदानुवचनशब्देनोच्यत इति गम्यते ।
कर्म हि नित्यस्वाध्यायः ।
कथं पुनर्नित्यस्वाध्यायादिभिः कर्मभिरात्मानं विविदषन्ति ।
नैव हि तान्यात्मानं प्रकाशनयन्त यथोपनिषदः ।
नैष दोधःकर्मणां विशुद्धिहेतुत्वात् ।
कर्मभिः संस्कृता हि विशुद्धात्मानः शक्नुवन्त्यात्मानमुपनिषत्प्रकाशितमप्रतिबन्धेन वेदितुम् ।
तथा ह्याथर्वणे"विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः"इति स्मृतिश्च"ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः"इत्यादिः ।
कथं पुनर्नित्यानि कर्माणि संस्कारार्थानीत्यवगम्यते"स ह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्गं संस्क्रियत इदं मेऽनेनाङ्गमुपधीयते"इत्यादिश्रुतेः ।
सर्वेषु च स्मृतिशास्त्रेषु कर्माणि संस्कारार्थान्येवाऽचक्षतेऽष्टाचत्वारिंशत्संस्कारा इत्यादिषु ।
गीतासु च"यज्ञो दैन तपश्चैव पावनानि मनीषिणाम् ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः" ॥
इति ।
यज्ञेनेति द्रव्ययज्ञा ज्ञानयज्ञाश्च संस्कारार्थाः ।
संस्कृतस्य च विशुद्धसत्वस्य ज्ञानोत्पत्तिरप्रतिबन्धेन भविष्यत्यतो यज्ञेन विविदिष्टि ।
दानेन दानमपि पापक्षयहेतुत्वाद्धर्मवृद्धिहेतुत्वाच्च ।
तपसा तप इत्यविशेषेण कृच्छ्रचान्द्रायणादिप्राप्तौ विशेषणमनाशकेनेति ।
कामानशनमनाशकं न तु भोजननिवृत्तिः भोजननिवृत्तौ म्रियत एव नाऽत्मवेदनम् ।
वेदानुवचनयज्ञदानतपःशब्देन सर्वमेव नित्यं कर्मोपलक्ष्यते ।
एवं काम्यवर्जितं नित्यं कर्मजातं सर्वमात्मज्ञानोत्पत्तिद्वारेण मोक्षसाधनत्वं प्रितपद्यते ।
एवं कर्मकाण्डेनास्यैकवाक्यतावगतिः ।
एवं यथोक्तेन न्यायेनैतमेवाऽत्मानं विदित्वा यथाप्रकाशितं मुनिर्भवति मननान्मुनिर्योगी भवतीत्यर्थ ।
एतमेव विदित्वा मुनिर्भवति नान्यम् ।
नन्वन्यवेदनेऽपि मुनित्वं स्यात्कथमवधार्यत एतमेवेति ।
बाढमन्यवेदनेऽपि मुनिर्भवेत् ।
कित्वन्यवेदने न मुनिरेव स्यात्किं तर्हि कर्म्यपि भवेत्सः ।
एतं त्वौपनिषदं पुरुषं विदित्वा मुनिरेव स्यान्न तु कर्मी ।
अतोऽसाधारणं मुनित्वं विवक्षितमस्येत्यवधारयत्येतमेवेति ।
एतस्मिन्हि विदिते केन कं पश्येदित्येवं क्रियासम्भवान्मननमेव स्यात् ।
किञ्चैचमेवाऽत्मानं स्वं लोकमिच्छन्तः प्रार्थयन्तः प्रव्राजिनः प्रव्रजनशीलाः प्रव्रडन्ति प्रकर्षेण व्रजन्ति सर्वाणि कर्माणि संन्यस्यन्तीत्यर्थः ।
एतमेव लोकमिच्छन्त इत्यवधारणान्न बाह्यलोकत्रयेप्सूनां पारिव्राज्योधिकार इति गम्यते ।
न हि गङ्गाद्वारं प्रतिपित्सुः काशीदेशनिवासी पूर्वाभिमुखः प्रैति ।
तस्माद्बाह्यलोकत्रयार्थिनां पुत्रकर्मापरब्रह्मविद्याः साधनम् ।
"पुत्रेणायं लोको जय्यो नान्येन कर्मणा" इत्यादिश्रुतेः ।
अथस्तदर्थिभिः पुत्रादिसाधनं प्रत्याख्याय न पारिव्राज्यं प्रतिपत्तुं युक्तम् ।
अतत्साधनत्वात्पारिव्राज्यस्य ।
तस्मादेतमेव लोकमिच्छन्तः प्रव्रजन्तीति युक्तमवधारणम् ।
आत्मलोकप्राप्तिर्ह्यविद्यानिवृत्तौ स्वात्मन्यवस्थानमेव ।
तस्मादात्मानं चेल्लोकमिच्छचि यस्तस्य सर्वक्रियोपरम एवाऽत्मवलोकसाधनं मुख्यमन्तरङ्गम् ।
यथा पुत्रादिरेव बाह्यलोकत्रयस्य ।
पुत्रादिकर्मणः आत्मलोकं प्रत्यसाधनत्वात् ।
असम्भवेन विरुद्धत्वमवोचाम ।
तस्मादात्मानं लोकमिच्छन्तः प्र्व्रजन्त्येव सर्वक्रियाभ्यो निवर्तेरन्नेवेत्यर्थः ।
यथा च बाह्यलोकत्रयार्थिनः प्रतिनियतानि पुत्रादीनि साधनानि विहतान्येवमात्मलोकार्थनः सर्वैषणानिवृत्तिः पारिव्राज्यं ब्रह्मविदो विधीयत एव ।
कुतः पुनस्त आत्मलोकार्थनः प्रव्रडन्त्येवेत्युच्यते ।
तत्रार्थवादवाक्यरूपेण होतुं दर्शयतु ।
एतद्ध स्म वै तत् ।
तदेतत्पारिव्राज्ये कारणमुच्यते ह स्म वै किल पूर्वेतिक्रान्तकालीना विद्वांस आत्मज्ञाः प्रजां कर्मापरब्रह्मविद्या च ।
प्रजोपलभितं हि त्रयमेतद्बाह्यलोकत्रयसाधनं निर्दिश्यते प्रजामिति ।
प्रजां किं? न कामयन्ते पुत्रादिलोकत्रयसाधनं नानुतिष्ठन्तीत्यर्थः ।
नन्वपरब्रह्मदर्शमनुतिष्ठन्त्येव ।
तद्बलाद्धि व्युत्थानम् ।
न, अपवादात् ।
ब्रह्म तं परादाद्योऽन्यत्राऽत्मनो ब्रह्म वेद सर्वं तं परादादित्यपरब्रह्मदर्शमप्यपवदत्येव ।
अपरब्रह्मणोऽपि सर्वमध्यान्तरर्भावात् ।
यत्र नान्यत्पश्यतीति च ।
पूर्वापरबाह्यान्तरदर्शनप्रतिषेधाच्चापूर्वमनपरमनन्तरमबाह्यमिति ।
तत्केन कं पश्येद्विजीनायीदिति च ।
तस्मान्नाऽत्मदर्शनव्यतिरेकेणान्यद्व्युत्थानकारणमपेक्षते ।
कः पुनस्तेषामभिप्राय इत्युच्यते किं प्रयोजनं फलं साध्यं करिष्यामः प्रजया साधनेन ।
प्रजा हि बाह्यलोकसाधनं निर्ज्ञाता ।
स च बाह्यलोको नास्त्यस्माकमात्मव्यतिरिक्तः ।
सर्वं ह्यस्माकमात्मभूतमेव सर्वस्य च वयमात्मभूताः ।
आत्मा च नाऽत्मत्वादेव न केनचित्साधनेनोत्पाद्य आप्यो विकार्यः संस्कार्यो वा यदप्यात्मयाजिनः संस्कारार्थं कर्मेति तदपि कार्यकरणात्मदर्शनविषयमेव ।
इदं मेऽनेनाङ्गं संस्क्रियत इत्यङ्गाङ्गित्वादिश्रवणात् ।
न हि विज्ञानघनैकरसनैरन्तर्यदर्शिनोऽङ्गाङ्गिसंस्कारोपधानदर्शनं सम्भवति ।
तस्मान्न किञ्चित्प्रडादिसाधनैः करिष्यामः ।
अविदुषां हि तत्प्रदाजिसाधनैः कर्व्यं फलम् ।
न हि मृगतृष्णिकायामुदकपानां तदुदकदर्शी प्रवृत्त इति तत्रोषरमात्रमुदकाभावं पश्येतोऽपि प्रवृत्तिर्युक्ता ।
एवमस्माकमपि परमार्थात्मलोकदर्शिनां प्रजादिसाधनसाध्ये मृगतृष्णिकादिसमेऽविद्वद्दर्शनविषये न प्रवृत्तिर्युक्तेत्यभिप्रायः ।
तदेतदुच्यतेयेषामस्माकं परमार्थदर्शिनां नोऽयमात्माशनायादिविनिर्मुक्तः साध्वसाधुब्यामविकार्योऽयं लोकः फलमभिप्रतम् ।
न चा.ऽस्याऽत्मनः साध्यसाधनादिसर्वसंसारधर्मविनिर्मुक्तस्य साधनं किञ्चिदेषितव्यम् ।
साध्यस्य हि साधनान्वेषणा क्रियते ।
असाध्यस्य साधनान्वेषणायां हि जलबुद्ध्या स्थल इव तरणं कृतं स्यात् ।
खे वा शाकुनपदान्वेषणम् ।
तस्मादेतमात्मानं विदित्वा प्र्व्जेयुरेव ब्राह्मणा न कर्माऽरभेरन्नित्यर्थः ।
यस्मात्पूर्वे ब्राह्ना एवं विद्वांसः प्रजामकामयमानाः ।
त एवं साध्यसाधनसंव्यवहारं निन्दन्तोऽविद्वद्विषयोऽयमिति कृत्वा किं कृतवन्त इत्युच्यतेते ह स्म किल पुत्राषणायाश्च विस्तैषणायाश्च लोकाषणायाश्च व्युत्थायाथ भिक्षाचर्यं चनरन्तीत्यादि व्याख्यातम् ।
तस्मादात्मानं लोकमिच्छन्तः प्रव्रजन्ति प्रव्रजेयुरित्येषविधिरर्थवादेन संगच्छते ।
हि सार्थवादस्यास्य लोकस्तुत्याभिमुख्यमुपपद्यते ।
प्रव्रजन्तीत्यस्यार्थवादरूपो ह्येतद्ध स्मेत्यादिरुत्तरो ग्रन्थः ।
अर्थवादश्चेन्नार्थवादान्तरमपेक्षेत ।
अपेक्षते त्वेतद्ध स्मेत्याद्यर्थवादं प्रव्रजन्तीत्येतत् ।
यस्मात्पूर्वे विद्वांसः प्रजादिकर्मभ्यो निवृत्ताः प्रव्जितवन्त अव तस्मादधुनातना अपि प्रव्रजन्ति प्रव्जेयुरित्येवं सम्बध्यमानं न लोकस्तित्यभिमुखं भवितुमर्हति ।
विज्ञानसमानकर्तृकत्वोपदेशादित्यानावोचाम ।
वेदानुवचनादिसहपाठाच्च ।
यथाऽत्मवेदनसाधनत्वेन विहितानां वेदानुवचनादीनां यथार्थत्वमेव नार्थवादत्वं तथा तैरेव सह पठितस्य पारिव्राज्यस्याऽत्मलोकप्राप्तिसाधनत्वेनार्थवादत्वमयुक्तम् ।
फलविभागोपदेशाच्च ।
एतमेवात्मानं लोकं विदित्वेत्यन्यस्माद्बाह्याल्लोकादात्मानं फलान्तरत्वेन प्रविभजति ।
यथा पुत्रैणैवायं लोको डय्यो नान्येन कर्मणा कर्मणा पितृलोक इति ।
न च प्रव्रजन्तीत्येतत्पार्पतल्लोकस्तुतिपरम् ।
प्रधानवच्चार्थवादापेक्षं सकृच्छ्रुतं स्यात् ।
तस्मादभ्रान्तिरेवैषा लोकस्तितिपरमिति ।
न चानुष्ठेयेन पारिव्राज्येन स्तुतुरुपपद्यते ।
दि पारिव्राज्यमनुष्ठेयमपि सदन्यस्तुत्यर्थं स्याद्दर्शपूर्णमासादीनामप्यनुष्ठायानां स्तुत्यर्थता स्यात् ।
न चान्यत्र कर्तव्यतैतस्माद्विषयार्ज्ञाता यत इह स्तुत्यर्थो भवेत् ।
यदि पुनः क्वचिद्विधिः परिकल्प्येत पारिव्राज्यस्य स इहैव मुख्यो नान्यत्र सम्भवति ।
यदप्यनधिकृतविषये पारिव्राज्यं परिकल्प्यते तत्र वृक्षाद्यारोहणाद्यपु पारिव्राज्यत्कल्प्येत ।
कर्तव्यत्वेनानिर्ज्ञातत्वाविशेषात् ।
तस्मात्स्तुतित्वगन्धोऽऽप्यत्र न शक्यः कल्पयितुम् ।
यद्ययात्मा लोक इष्यते किमर्थं तत्प्राप्तिसाधनत्वेन कर्माण्येव नाऽभेरन्किं पारिव्राज्येनेति ।
अत्रोच्यतेअस्याऽत्मलोकस्य कर्मभिरसंबन्धात् ।
यमात्मानमिच्छन्तः प्रव्रजेयुः स आत्मा साधनत्वेन फलत्वेन चोत्पाद्यत्वादिप्रकाराणामन्यतमत्वेनापु कर्मभिर्न संबध्यते ।
तस्मात्स एष नेति नेत्यात्मागृह्यो न हि गृह्यत इत्यादिलक्षणः ।
यस्मादेवलक्षण आत्मा कर्मफलसाधनासंबन्धी सर्वसंसारधर्मविलक्षणोऽशनायाद्यतीतोऽस्थूलादिधर्मवानजोऽजरोऽमरोऽमृतोऽभयः सैन्धवघनवद्विज्ञानैकरसस्वभावः स्वयञ्ज्योतिरेक एवाद्वयोऽपूर्वोऽनपरोऽनन्तरोऽबाह्य इत्यतदागमतस्तर्कतश्च स्थापितं विशेषतश्चेह जनकयाज्ञवल्क्यसंवादेऽस्मिंस्तस्मादेवंलक्षण आत्मनि विदित आत्मत्वेन नैव कर्मारम्भ उपपद्यते ।
तस्मादात्मा निर्विशेषः ।
न हि चक्षुष्मान्पथि प्रवृत्तोऽहिनि कूपे कण्के वा पतति ।
कृत्स्नस्य च कर्मफलस्य विद्याफलेऽन्तर्भावात् ।
न चायत्नप्राप्ये वस्तुनि विद्वान्यत्नमातिष्ठति ।
"अङ्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संप्राप्तौ को विद्वान्यत्नमाचरेत्" ॥
"सर्वं कर्माखिलं पार्थं ज्ञाने परसमाप्यते" ।
इति गीतामु ।
इहापि चैतस्यैव परमानन्दस्य ब्रह्मवित्प्राप्यस्यान्यानि भूतानि मात्रामुपजीवन्तीत्युक्तम् ।
अतो ब्रह्मविदा न कर्मारम्भः ।
यस्मात्सर्वैषणाविनिवृत्तः स एव नेति नेत्यात्मानमात्मत्वेनोपगम्य तद्रूपेणैव वर्तते तस्मादेतमेवविदं नेति नेत्यात्मभूतमु हैवैते वक्ष्यमाणे न तरतो न प्राप्नुत इति युक्तमेवेति वाक्यशेषः ।
के ते इत्युच्यते अतोऽस्मान्निमित्ताच्छरीरधारणादिहेतोः पापमपुण्यं कर्माकरं कृतवानस्मि कष्टं खलु मम वृत्तमनेन पापेन कर्मणाहं नरकं प्रतिपत्स्य इति योऽयं पश्चात्पापं कर्म कृतवतः परितामपः स एनं नेति नेत्यात्मभूतं न तरति ।
यथातः कल्याणं फलविषयकामान्निमित्ताद्यज्ञदानादिलक्षणं पुण्यं शोभनं कर्म कृतवानस्मि ।
जतोऽहमस्य फलंसुखमुपभोक्ष्य देहान्तर इत्येषोऽपि हर्षस्तं न तरति ।
उभे उ हैवैष ब्रह्मविदेते कर्मणी तरति पुण्यपापलक्षणे ।
एवं ब्रह्मविदः संन्यासिन उभे अपि कर्मणो क्षीयते पूर्वजन्मनि कृते ये ते चापूर्वे च नाऽरभ्येते ।
किञ्च नैनं कृताकृते कृतं नित्यानुष्ठानमकृतं तस्यैवाक्रिया ते अपि कृताकृते एनं न तपतः ।
अनात्मज्ञं हि कृतं फलदानेनाकृतं प्रत्यवायोत्पादनेन तपतः ।
अयं तु ब्रह्मविदात्मविद्याग्निना सर्वाणि कर्माणि भस्मीकरोति"यथेधांसि समिद्वोऽग्निः" इत्यादिस्मृतेः ।
शरीरारम्भकयोस्तूपभोगेनैव क्षयः ।
अतो ब्रह्मविदकर्मसंबन्धी ॥४,४.२२॥


_______________________________________________________________________

४,४.२३

तदेतदृचाभ्युक्तम्
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा वर्धते नो कनीयान् ।
तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेनेति ।
तस्मादेवंविच्छान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वात्मन्येवात्मानं पश्यति ।
सर्वमात्मानं पश्यति ।
नैनं पाप्मा तरति ।
सर्वं पाप्मानं तरति ।
नैनं पाप्मा तपति ।
सर्वं पाप्मानं तपति ।
विपापो विरजोऽविचिकित्सो ब्राह्मणो भवति ।
एष ब्रह्मलोकः सम्राट् ।
एनं प्रापितोऽसीति होवाच याज्ञवल्क्यः ।
सोऽहं भगवते विदेहान् ददामि मां चापि सह दास्यायेति ॥ _४,४.२३ ॥

__________



शा.भा._४,४.२३ तदेतद्वस्तु ब्राङ्मणेनोक्तमृचा मन्त्रेणाभ्युक्तं प्रकाशितम् ।
एष नेति नेत्यादिलक्षणो नित्यो महिमा ।
अन्ये तु महिमानः कर्मकृता इत्यनित्याः ।
अयं तु तद्विलक्षणो महिमा स्वाभाविकत्वान्नित्यो ब्रह्मविदो ब्राह्मणस्य त्यक्तसर्वेषणस्य ।
कुतोऽस्य नित्यत्वमिति हेतुमाह कर्मणा न वर्धते शुभलक्षणेन कृतेन वृद्विलक्षणां विक्रियां न प्राप्नेति ।
अशुभेन कर्मणा नो कनीयान्नाप्यपक्षयलक्षणां विक्रियां प्राप्नोति ।
उपचयापचयहेतुभूता एव हि सर्वा विक्रिया इत्येताभ्यां प्रतिषिध्यन्ते ।
अतोऽविक्रियत्वान्नित्य एष महिमा ।
तस्मात्तस्यैव महिम्नः स्याद्भवेत्पदवित्पदस्य वेत्ता पद्यते गम्यते ज्ञायत इति महिम्नः स्वरूपमेव पदं तस्य पदस्य वेदिता ।
किं तत्पदवेदनेन स्यादित्युच्यतेतं विदित्वा महिमानं न लिप्यते न संबध्यते कर्मणा पापकेन धर्माधर्मलक्षणेनोभयमपि पापकमेव विदुषः ।
तस्मादेवमकर्मसंबन्ध्येष ब्राह्मणस्य महिमा नेति नेत्यादिलक्षणस्तस्मादेवंविच्छान्तो बाह्येन्द्रियव्यापारत उपशान्तस्तथा दान्तोऽन्तः करणतृष्णातो निवृत्त उपरतः सर्वैषणाविनिर्मुक्तः संन्यासी तितिक्षुर्द्वन्द्वसहिष्णुः समाहित इन्द्रियान्तः करणाचलनरूपाद्व्यावृत्यैकाग्र्यरूपेण समाहितो भूत्वा ।
तदेतदुक्तं पुरस्ताद्बाल्यं च पाण्डित्यं च निर्विद्येति ।
आत्मन्येव स्वे कार्यकरणसंघात आत्मानं प्रत्यक्चेतयितारं पश्यति ।
तत्र किं तावन्मान्नं परिच्छिनं नेत्युच्यतेसर्वं समस्तमात्मानमेव पश्यति नान्यदात्मव्यतिरिक्तं वालाग्रमान्नमप्यस्तीत्येवं पश्यति ।
मननान्मुनिर्भवति जाग्रत्स्वप्नसुषुप्ताख्यं स्थानन्नयं हित्वा ।
एवं पश्यन्तं ब्राह्मणं नैनं पाप्मा पुण्यपापलक्षणस्तरति न प्राप्नेति ।
अयं तु ब्रह्मवित्सर्वं पाप्मानं तरत्यात्मभावेनैव व्याप्नोत्यतिक्रामति ।
नैनं पाप्मा कृताकृतलक्षणस्तपतीष्टफलप्रत्यवायोत्पादनाभ्याम् ।
सर्वं पाप्मानमयं तपति ब्रह्मवित्सर्वत्मदर्शनवह्रिना भस्मीकरोति ।
स एष एवंविद्विपायो विगतधर्माधर्मो बिरजो विगतरजो रजःकामो विगतकामोऽविचिकित्सश्छिन्नसंशयोऽहमस्मि सर्वात्मा परं ब्रह्मेति निश्चितमतिर्ब्राह्मणो भवति ।
अयं त्वेवंभूत अतस्यामवस्थायां मुख्यो ब्राह्मणः प्रागेतस्माद्ब्रह्मस्वरूपावस्थानाद्गौणमस्य ब्राह्मण्यम् ।
एष ब्रह्मलोको ब्रह्मैव लोको ब्रह्मलोको मुख्यो निरुपचरितः सर्वात्मभावलक्षणो हे स्मारट् ।
एनं ब्रह्मलोकं परिप्रापितोऽस्यभयं नेति नेत्यादिलक्षणमिति होवाच याज्ञवल्क्यः ।
एवं ब्रह्मभूतो जनको याज्ञवल्क्येन ब्रह्मभावमापादितः प्रत्याहसोऽहं त्वया ब्रह्मभावमापादितः सन्भगवते तुभ्यं विदेहान्देशान्मम राज्य समस्तं ददामि मां च सह कर्तव्यताका ।
परिसमाप्तः परमपुरुषार्थः ।
एतावत्पुरुषेण कर्तव्यमेषा निष्ठैषा परा गतिरेतन्निःश्रेयसमेतत्प्राप्य कृतकृत्यो ब्राह्मणो भवत्येतत्सर्ववेदानुशासनमिति ॥४,४.२३॥



_______________________________________________________________________

४,४.२४

स वा एष महानज आत्मान्नादो वसुदानः ।
विन्दते वसु य एवं वेद ॥ _४,४.२४ ॥

__________



शा.भा._४,४.२४ योऽयं जनकयाज्ञवल्क्याख्यायिकायां व्याख्यात आत्मा स वा एष महानज आत्मान्नादः सर्वभूतस्थः सर्वान्नानामत्ता वसुदानो वसु धनं सर्वप्राणिकर्मफलं तस्य दाता प्राणिनां यथाकर्म फलेन योजयितेत्यर्थः ।
तमेकमजमन्नादं वसुदानमात्मानमन्नादवसुदानगुणाभ्यां युक्तं यो वेद स सर्वभूतेष्वात्मभूतोऽन्नमत्ति विन्दते च वसु सर्वं कर्मफलजातं लभते सर्वात्मत्वादेन य एवं यथोक्तं वेद ।
अथवा दृष्टफलार्थिभिरप्येवङ्गुण उपास्यः ।
तेनान्नादो वसोश्च लब्धा दृष्टेनैव फलेनान्नातृत्वेन गोश्चादिना चास्य योगो भवतीत्यर्थः ॥४,४.२४॥



_______________________________________________________________________

४,४.२५

स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म ।
अभयं वै ब्रह्म ।
अभयं हि वै ब्रह्म भवति य एवं वेद ॥ _४,४.२५ ॥
__________



शा.भा._४,४.२५ इदानीं समस्तस्यैवाऽरण्यरकस्य योर्ऽथ उक्तः स समुच्चित्यास्या कण्डिकायां निर्दिश्यत एतावान्समस्तारण्यकार्थ इति ।
स वा एष महानज आत्माजरो न जीर्यत इति न विपरिणमत इत्यर्थः ।
अमरो यस्माच्चाजरस्तस्मादमरो न म्रियत इत्यमरः ।
यो हि जायते जीर्यते च स विनश्यति म्रियते वा ।
अयं त्वजत्वादजरत्वाच्चाविनाशी यतोऽत एवामृतः ।
यस्माज्जनिप्रभृतिस्त्रिभिर्भावविरिपैर्वर्जितस्तस्मादितरैरपि भावविकारैस्त्रिभिस्तत्कृतैश्च कामकर्ममोहादिभिर्मृत्युरूपैर्वीजत इत्येतत् ।
अभयोऽत एव ।
यस्माच्चैवं पूर्वोक्तविशेषणस्तस्मस्माद्भयवर्जितः भयं च हि नामाविद्याकार्यं तत्कार्यप्रितिषेधेन भावविकारप्रतिषेधेन चाविद्यायाः प्रतिषेधः सिद्धो वेदितव्यः ।
अभय आत्मैवङ्गुणविशिष्टः किमसौ ब्रह्म परिवृढं निरतिशयं महदित्यर्थः ।
अभयं वै ब्रह्म ।
प्रसिद्धमेतल्लोकेऽभयं ब्रह्मेति ।
तस्माद्युक्तमेवङ्गुणविशिष्ट आत्मा ब्रह्मेति ।
य एवं यथोक्तमात्मानमभयं ब्रह्म वेद सोऽभयं हि वै ब्रह्म भवति ।
एष सर्वस्या उपनिषदः संक्षिप्तोर्ऽथ उक्तः ।
एतस्यैवार्थस्सम्यक्प्रबोधायोत्पत्तिस्थितिप्रलयादिकल्पना क्रियाकारकफलाध्यारोपणा चाऽत्मनि कृता तदपोहेन च नेति नेतीत्यध्यारोपिताविशेषापनयद्वारेणपुनस्तत्वमावेदितम् ।
यथैकप्रभृत्यापरार्धसंख्यास्वरूपपरिज्ञानाया रेखाध्यारोपणं कृत्वैकेयं रेखा दशेयं शतेयं सहस्रेयमिति ग्राहयत्यवगमयति संख्यास्वरूपं केवलं न तु संख्याया रेखात्मत्वमेव यथा चाकारादीन्यक्षराणि ग्राहयति तथा चेहोत्पत्याद्यनेकोपायमास्थायैकं ब्रह्मतत्त्वमावेदितम् ।
पुनस्तत्कल्पितोपायजनितविशेषपरिशोधनार्थं नेति नेतीति तत्त्वोपसंहारः कृतः ।
तदुपसंहृतं पुनः परिशुद्धं केवलमेव सफलं ज्ञानमन्तेऽस्य कण्डिकायामिति ॥४,४.२५॥

इति चतुर्थं ब्राह्मणम् ॥



_______________________________________________________________________

४,५.१

अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुर्मैत्रेयी च कात्यायनी च ।
तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव ।
स्त्रीप्रज्ञैव तर्हि कात्यायनी ।
अथ ह याज्ञवल्क्योऽन्यद्वृत्तमुपाकरिष्यन् ॥ _४,५.१ ॥

__________


शा.भा._४,५.१ आगमप्रधानेन मधुकाण्डेन ब्रह्मतत्त्वं निर्धारितम् ।
पुनस्तस्यैवोपत्तिप्रधानेन याज्ञवल्कीयेन काण्डेन पक्षप्रतिपक्षपरिग्रहं कृत्वा विगृह्यवादेन विचारितम् ।
शैष्याचार्यसंबन्धेन च षष्ठे प्रश्नप्रतिवचनन्यायेन सविस्तरं विचार्योपसंहृतम् ।
अथेदानीं निगमनस्थानीयं मैत्रेयीब्राह्मणमारभ्येते ।
अयं च न्यायो वाक्यकोविदैः परिगृहीतो हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनमिति ।
अथवाऽगमप्रधानेन मधुकाण्डेन यदमृतत्वसाधनं ससंन्यासभात्मज्ञानमभिहितं तदेव तर्केणाप्यमृतत्वसाधनं ससंन्यासमात्मज्ञानमधिगम्यते ।
तर्कप्रधानंहि याज्ञवल्कीयं काण्डम् ।
तस्माच्छास्त्रतर्काभ्यां निश्चितमेतद्यदेतदात्मज्ञानं ससंन्यासममृतत्वसाधनमिति ।
तस्माच्छास्त्रश्रद्धावद्भिरमृतत्वप्रतिपित्सुभिरेतत्प्रतिपत्तव्यमिति ।
आगमोपपत्तिभ्यां हि निश्चितोर्ऽथः श्रद्धेयो भवत्यव्यभिचारादिति ।
अक्षराणां तु चतुर्थे यथा व्याख्यातोर्ऽथस्तथा प्रतिपत्तव्योऽत्रापि ।
यान्यक्षराण्यव्याख्यातानि तानि व्याख्यास्यामः ।
अथेति हेतूपदेशानन्तर्यप्रदर्शनार्थः ।
हेतुप्रधानानि हि वाक्यान्यतीतानि तदनन्तरमागमप्रधानेन प्रतिज्ञातोर्ऽथो निगम्यते मैत्रेयीब्राह्मणेन ।
हशब्दो वृत्तावद्योतकः ।
याज्ञवल्क्यस्यर्षेः किल द्वे भार्ये पत्न्यौ बभूवतुरास्तां मैत्रेयी च नामत एकापरा कात्यायनी नामतः तयोर्भार्ययोर्मैत्रेयीह किल ब्रह्मवादिनी ब्रह्मवदनशीला बभूवाऽसीत् ।
स्त्रीप्रज्ञा स्त्रियां योचिता सा स्त्रीप्रज्ञा सैव यस्याः प्रज्ञा गृहप्रयोजनान्वेषणालक्षणा सा स्त्रीप्रज्ञैव तर्हि तस्मिन्काल आसीत्कात्यायनी ।
अथैवं सति ह किल याज्ञवल्क्योऽन्यत्पूर्वस्माद्गार्हस्थ्यलक्षणाद्वृत्तात्पारिव्राज्यलक्षणं वृत्तमुपाकरिष्यन्नुपाचिकीर्षुः सन् ॥४,५.१॥



_______________________________________________________________________

४,५.२

मैत्रेयीति होवाच याज्ञवल्क्यः ।
प्रव्रजिष्यन् वा अरेऽहमस्मात्स्थानादस्मि ।
हन्त तेऽनया कत्यायन्यान्तं करवाणीति ॥ _४,५.२ ॥

__________



शा.भा._४,५.२ हे मैत्रेयीति ज्येष्ठां भार्यामामन्त्रयामास ।
आमन्ञ्य चोवाच ह प्रव्रजिष्यन्पानिव्राज्यं करिष्यन्वा अरे मैत्रेय्यस्मात्स्थानाद्गार्हस्थ्यादहमस्मि भवामि ।
मैत्रेय्यनुजानीहि मां हन्तेच्छसि यदि तेऽनया कात्यायन्यान्तं करवाणोत्यादि व्याख्यातम् ॥४,५.२॥


_______________________________________________________________________

४,५.३४

सा होवाच मैत्रेयी
यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्स्यां न्वहं तेनामृताहो३ नेति ।
नेति होवाच याज्ञवल्क्यः ।
यथैवोपकरणवतां जीवितम् ।
तथैव ते जीवितं स्यात् ।
अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ _४,५.३ ॥


सा होवाच मैत्रेयी
येनाहं नामृता स्यां किमहं तेन कुर्याम् ।
यदेव भगवान् वेद तदेव मे ब्रूहीति ॥ _४,५.४ ॥

__________



शा.भा._४,५.३४ सैवमुक्तोवाच मैत्रेयी सर्वेयं पृथिवी वित्तेन पूर्णा स्यान्नु किं स्यां किमहं वित्तसाध्येन कर्मणामृताऽहो न स्यामिति ।
नेति होवाच याज्ञवल्क्य इत्यादि समानमन्यत् ॥४,५.३४ ॥



_______________________________________________________________________

४,५.५

स होवाच याज्ञवल्क्यः
प्रिया वै खलु नो भवती सती प्रियमवृधत् ।
हन्त तर्हि ।
भवत्येतद्व्याख्यास्यामि ते ।
व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ _४,५.५ ॥

__________


शा.भा._४,५.५ स होवाच प्रियैव पूर्वं खलु नोऽस्मभ्यं भवती भवन्ति सतो प्रियमेवावृधद्वर्धितवती निर्धारितवत्यसि ।
अतस्तुष्टोऽहं हन्तेच्छसि चेदमृतत्वसाधनं ज्ञातुं हे भवति ते तुभ्यं तद्मृतत्वसाधनं व्याख्यास्यामि ॥४,५.५॥



_______________________________________________________________________

४,५.६

स होवाच ।
न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति ।
न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति ।
न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति ।
न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति ।
न वा अरे पशूनां कामाय पशवः प्रियं भवत्यात्मनस्तु कामाय पशवः प्रियं भवति ।
न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति ।
न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति ।
न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति ।
न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति ।
न वा अरे वेदानां कामाय वेदाः प्रिया भवन्त्यात्मनस्तु कामाय वेदाः प्रिया भवन्ति ।
न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति ।
न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेयि ।
आत्मनि खल्वरे दृष्टे श्रुते मते विज्ञात इदं सर्वं विदितम् ॥ _४,५.६ ॥

__________



शा.भा._४,५.६ आत्मनि खल्वरे मैत्रेयी दृष्टे ।
कथं दृष्ट आत्मनीति, उच्यतेपूर्वमाचार्यागमाभ्यां श्रुते पुनस्तर्केणोपपत्तया मते विचारिते ।
श्रवणं त्वागममात्रेण मत उपपत्त्या पश्चाद्विज्ञान एवमेतन्नान्यथेति निर्धारिते ।
किं भवतीत्युच्यत इदं विदितं भवति ।
इदं सर्वमिति यदात्मनोऽन्यत् ।
आत्मव्यतिरेकेणाभावात् ॥४,५.६॥


_______________________________________________________________________

४,५.७१०

ब्रह्म तं परादाद्योऽन्यत्रात्मनो वेदान् वेद ।
क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद ।
लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद ।
देवास्तं परादुर्योऽन्यत्रात्मनो देवान् वेद ।
वेदास्तं परादुर्योऽन्यत्रात्मनो वेदान् वेद ।
भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद ।
सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद ।
इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमे वेदा इमानि भूतानीदं सर्वं यदयमात्मा ॥ _४,५.७ ॥


स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः ॥ _४,५.८ ॥


स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
शङ्खस्य तु ग्रहणेन शङ्खध्मस्य वा शब्दो गृहीतः ॥ _४,५.९ ॥


स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय ।
वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो ग्र्हीतः ॥ _४,५.१० ॥

__________



शा.भा._४,५.७१० तमयथार्थदर्शितं परादात्पराकुर्यात्कैवल्यासंबन्धिनं कुर्यादयमनात्मस्वरूपेण मां पश्यतीत्यपराधादिति भावः ॥४,५.७१० ॥



_______________________________________________________________________

४,५.१११२

स यथार्द्रैधाग्नेरभ्याहितस्य पृथग्धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्याननीष्टं हुतमाशितं पायितमयं च लोकः परश्च लोकः सर्वाणि च भूतानि ।
अस्यैवैतानि सर्वाणि निश्वसितानि ॥ _४,५.११ ॥


स यथा सर्वासामपां समुद्र एकायनम् ।
एवं सर्वेषां स्पर्शानां त्वगेकायनम् ।
एवं सर्वेषां गन्धानां नासिके एकायनम् ।
एवं सर्वेषां रसानां जिह्वैकायनम् ।
एवं सर्वेषां रूपाणां चक्षुरेकायनम् ।
एवं सर्वेषं शब्दानां श्रोत्रमेकायनम् ।
एवं सर्वेषां संकल्पानां मन एकायनम् ।
एवं सर्वासां विद्यानां हृदयमेकायनम् ।
एवं सर्वेषां कर्मणां हस्तावेकायनम् ।
एवं सर्वेषामानन्दानामुपस्थ एकायनम् ।
एवं सर्वेषां विसर्गाणां पायुरेकायनम् ।
एवं सर्वेषामध्वनां पादावेकायनम् ।
एवं सर्वेषां वेदानां वागेकायनम् ॥ _४,५.१२ ॥

__________



शा.भा._४,५.१११२ चतुर्थे शब्दनिःश्वासेनेव लोकाद्यर्थनिःश्वासः सामर्थ्यादिक्तो भवतीति पृथङ्नोक्तः ।
इह तु सर्वशास्त्रोप संहारं इति कृत्वार्ऽथप्राप्तोऽप्यर्थः स्पष्टीकर्तव्य इति पृथगुच्यते ॥४,५.१११२ ॥



_______________________________________________________________________

४,५.१३

स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एव ।
एवं वा अरेऽयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव ।
एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनयति ।
न प्रेत्य संज्ञास्तीत्यरे ब्रवीमि ।
इति होवाच याज्ञवल्क्यः ॥ _४,५.१३ ॥

__________


शा.भा._४,५.१३ सर्वकार्यप्रलये विद्यानिमित्ते सैन्धवघनवदनन्तरोऽवाह्यः कृत्स्नः प्रज्ञानधन एक आत्मावतिष्ठते ।
पूर्वं तु भूतमान्नासंसर्गविशेषल्लब्धविशेषविज्ञानः सन् ।
तस्मिन्प्रविलापिते विद्यया विशेषविज्ञाने तन्निमित्ते च भूतसंसर्गे न प्रेत्य संज्ञास्तीत्येवं याज्ञवल्क्येनोक्ता ॥४,५.१३॥



_______________________________________________________________________

४,५.१४

सा होवाच मैत्रेयी
अत्रैव मा भगवान्मोहान्तमापीपदत् ।
न वा अहमिमं विजानामीति ।
स होवाच न वा अरेऽहं मोहं ब्रवीमि ।
अविनाशी वा अरेऽयमात्मानुच्छित्तिधर्मा ॥ _४,५.१४ ॥

__________



शा.भा._४,५.१४ सा होवाचात्रैव मा भगवानेतस्मिन्नैव वस्तुनि प्रज्ञानघन एव न प्रेत्य संज्ञाऽस्तीति मोहान्तं मोहमध्यमापीपिदापीपददवगमितवानसि संसोहितवानसीत्यर्थः ।
अतो न वा अहमिममात्मानमुक्तलक्षणं विजानामि विवेकत इति ।
स होवाच नाहं मोहं ब्रवीम्यविनाशी वा अरेऽयमात्मा यतो विन(नं)ष्टुं शीलमस्येति विनाशी न विनाश्यविनाशी विनाशब्देन विक्रियाविनाशीत्यविक्रिय आत्मेत्यर्थः ।
अरे मैत्रेय्ययमात्मा प्रकृतोऽनुच्छित्तिधर्मा ।
उच्छित्तिरुच्छेद उच्छेदोऽन्तो विनाश उच्छित्तिर्धर्मोऽस्येत्युच्छित्तिरर्धर्मा नोच्छित्तिधर्मानुच्छित्तिधर्मा नापि विक्रियालक्षणो नाप्यपच्छेदलक्षणो वीनाशोऽस्य विद्यत इत्यर्थः ॥४,५.१४॥



_______________________________________________________________________

४,५.१५

यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, तदितर इतरं जिघ्रति, तदितर इतरं रसयते, तदितर इतरमभिवदति, तदितर इतरं शृणोति, तदितर इतरं मनुते. तदितर इतरं स्पृशति, तदितर इतरं विजानाति ।
यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्तत्केन कं जिघ्रेत्तत्केन कं रसयेत्तत्केन कमभिवदेत्तत्केन कं शृणुयात्तत्केन कं मन्वीत तत्केन कं स्पृशेत्तत्केन कं विजानीयात् ।
येनेदं सर्वं विजानाति तं केन विजानीयात् ।
स एष नेति नेत्यात्मा ।
अगृह्यो न हि गृह्यते ।
अशीर्यो न हि शीर्यते ।
असङ्गो न हि सज्यते ।
असितो न व्यथते न रिष्यति ।
विज्ञातारमरे केन विजानीयादित्युक्तानुशासनासि मैत्रेयि ।
एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहार ॥ _४,५.१५ ॥

__________



शा.भा._४,५.१५ चतुर्ष्वपि प्रपाठकेष्वेक आत्मा तुल्यो निर्धारितः परं ब्रह्म ।
उपायविशेषस्तु तस्याधिगमेऽन्यश्चान्यश्च ।
उपेयस्तु स एवाऽत्मा यश्चतुर्थेऽथात आदेशो नेति नेतीति निर्दिष्टः ।
स एव पञ्चमे प्राणपणोपन्यासेन शाकल्ययाज्ञवल्क्यसंवादे निर्धारितः ।
पुनः पञ्चमसमाप्तौ ।
पुनर्जनकयाज्ञवल्क्यसंवादे ।
पुनरिहोपनिषत्समाप्तौ ।
चतुर्णामपि प्रपाठकानामेतदात्मनिष्ठता नान्योऽन्तराले कश्चिदपि विवक्षितेर्ऽथ इत्येतत्प्रदर्शनायान्त उपसंहारः स एष नेति नेत्यादिः ।
यस्मात्प्रकारशतेनापि निरूप्यमाणे तत्तवे नेति नेत्यात्मैव निष्ठा नान्योपलभ्यते तर्केण वाऽगमेन वा तस्मादेतदेवामृतत्वसाधनं यदेतन्नेति नेत्यात्मपरिज्ञानं सर्वसंन्यासश्चेत्येतमर्थमुपसंजिहीर्षन्नाहएतावदेतावन्मात्रं यदेतन्नेति नेत्यद्वैतात्मदर्शनमिदं चान्यसहकारिकारणनिरपेक्षमेवारे मैत्रेय्यमृतत्वसाधनम् ।
यत्पृष्टत्यसि यदेव भगवान्वेद तदेव मे ब्रूह्यमृतत्वसाधनमिति तदेतावदेवेतु विज्ञेयं त्वयेति हैवं किलामृतत्वसाधनमात्मज्ञानं प्रियायै भार्याया उक्त्वा संन्यासपर्यवसाना ।
एतावानुपदेश एतद्वेदानुशासनमेषा परमनिष्ठैष पुरुषार्थकर्तव्यतान्त इति ।
इदानीं विचार्यते शास्त्रार्थविवेकप्रतिपत्तये ।
यत आकुलानि हि वाक्यानि दृश्यन्ते"यावज्जीवमग्निहोत्रं जुहुयात्" "यावज्जीवं दर्शपूर्णमासाभ्यां यजेत" "कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः" "एतद्वै जरामर्यं सर्वं यदग्निहोत्रम्"इत्यादीन्यैकाश्रम्याज्ञापकान्यानि चाऽश्रमान्तरप्रतिपादकानि वाक्यानि"विदित्वा व्युत्थाय प्रव्रजन्ति" "ब्रह्मचर्यं समाप्य गृही भवेद्ग्रहाद्वनी भूत्वा प्रव्रजेत्" "यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा"इति ।
"न कर्मणा न प्रजया धनेन त्यागेनैकेमृतत्वमानशुः"इत्यादीनि ।
तथा स्मृतयश्च"ब्रह्मचर्यवान्प्रव्रजति" "अविशीर्णब्रह्मचर्यो यमिच्छत्तमावसेति"तस्याऽश्रममविकल्पमेकेब्रुवते"तथा"वैदाननधीत्य ब्रह्मचर्येण पुत्रपौत्रानिच्छेत्पावनार्थं पितृणाम् ।
अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत्" ॥
"प्राजापत्यां निरुप्येष्टिं सर्ववेसदक्षिणाम् ।
आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्" ॥
इत्याद्याः ।
एवं व्युत्थानविकल्पक्रमयतेष्टाश्रमप्रतिपत्तिप्रतापादकानि हि श्रुतिस्मृतिवाक्यानि शतश उपलंभ्यन्त इतरेतरविरुद्धानि ।
आचारश्च तद्विदाम् ।
विप्रतिपत्तिश्च शास्त्रार्थप्रतपत्तॄणां बहुविदामपि ।
अतो न शक्यते शास्त्रार्थो मन्दबुद्धिभिर्विवेकेन प्रतिपत्तुम् ।
परिनिष्ठतशास्त्रन्यायबुद्धिभिरेव ह्योषां वाक्यानां विषयविभागः शक्यतेऽवधारयितुम् ।
तस्मादेषां विषयविभागज्ञापनाय यथाबुद्धिसामर्थंय विचारयिष्यामः ।
यावज्जीवश्रुत्यादिवाक्यानामन्यार्थासंभवात्क्रियावसान अव वेदार्थ ।
तं यज्ञपात्रैर्दहन्तीत्यन्त्यकर्मश्रवणाज्जरामर्यश्रवणाच्च लिङ्गाच्च भस्मान्तं शरीरमिति ।
न हि पारिव्राज्यपक्षे भस्मान्तता शरीरस्य स्यात् ।
स्मृतिश्च"निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
तस्या शास्त्रेऽधिकारोऽस्मिञ्ज्ञेयो नान्यस्य कस्यचित्"इति ।
समन्त्रकं हि यत्कर्म वेदेनेह विधीयते तस्य श्मशानान्ततां दर्शयति स्मृतिः ।
अधिकाराभावप्रदर्शनाच्चात्यन्तमेव श्रुत्यधिकाराभावोऽकर्मिणो गम्यते ।
अग्न्युद्वासनापवादाच्चऽवीरहा वा एष देवानां योऽग्निमुद्वासयतेऽ इति ।
ननु व्युत्थानादिविझधानाद्वैकल्पिकं क्रियावसानत्वं वेदार्थस्य ।
न ।
अन्यार्थत्वाद्व्युत्थानादिश्रुतीनाम् ।
ऽयावज्जीवमन्निहोत्रं जुहोतिऽ"याज्जीवं दर्शपूर्णमासाभ्यां यजेत"इत्येवमादीनां श्रुतीनां जीवनमात्रनिमित्तत्वाद्यदा न शक्यतेऽन्यार्थता कल्पयितुं तदा व्युत्थानादिवाक्यानां कर्मानधिकृतविषयत्वसंभवात् ।
"कुर्वन्नेवेह कर्माणि जिजीवषेच्छतं समाः"इति च मन्त्रवर्णाज्जरया वा ह्येवास्मान्मुच्यते मृत्युना वेति च जरामृत्युभ्यामन्यत्र कर्मवियोगाच्छिद्रासंभवात्कर्मिणां श्मशानान्तत्वं न वैकल्पिकम् ।
काणकुब्जादयोऽपि कर्मण्यनधिकृता अनुग्राह्या एव श्रुत्येति व्युत्थानाद्याश्रमान्तरविधानं नानुपपन्नम् ।
पारिव्राज्याक्रमविधानस्यानवकाशत्वमिति चेत् ।
न ।
विश्वजित्सर्वमेधयोर्यावज्जीवविध्यपवादत्वात् ।
यावज्जीवाग्निहोत्रादिविधेर्विश्वजित्सर्वमेधयोरेवापवादस्तत्र च क्रमप्रतिपत्तिसंभवो"ब्रह्मचर्यं समाप्य गृही भवेद्गृहाद्वनी भुत्वा प्रव्रजेदि"ति विरोधानुपपत्तेः ।
न ह्येवंविषयत्वे पारिव्राज्यकमविधानवाक्यस्य कश्चिद्विरोधः क्रमप्रतिपत्तेः ।
अन्यविषयपरिकल्पनायां कश्चिद्बाधः ।
नाऽत्मज्ञानस्यामृतत्वहेतुत्वाभ्युपगमात् ।
यत्तावदात्मेत्येवोपासीतेत्यारभ्य स एष नेति नेत्येतदन्तेन ग्रन्थेन यदुपसंहृतमात्मज्ञानं तदमृतत्वसाधनमित्यभ्युपगतं भवता ।
तत्रैतावदेवामृतत्वसाधनमन्यनिरपेक्षमित्येतन्न मृष्यते ।
तत्र भवन्तं पृच्छामि किमर्थमात्मज्ञानं मर्षयति भवानिति ।
शृणु तत्र कारणं यथास्वर्गकामस्य स्वर्गप्राप्त्युपायमजानतोऽग्निहोत्रादि स्वर्गसाधनमभ्युपगम्यते तथेहाप्यात्मज्ञानम् ।
यथा ज्ञाप्यते तताभूतमेवामृतत्वसाधनमात्मज्ञानमभ्युपगन्तुं युक्तं तुल्यप्रामाण्यादुभयत्र ।
यद्येवं किं स्यात् ।
सर्वकर्महेतूपमर्दकत्वादात्मज्ञानस्य विद्योद्भवे कर्मनिवृत्तिः स्यात् ।
दाराग्निसंबद्धानां तावदग्निहोत्रादिकर्मणां भेदबुद्धिविषयसंप्रदानकारकसाध्यत्वम् ।
अन्यबुद्धिपरच्छेद्यां ह्यग्न्यादिदेवतां संप्रदानकारकभूतामन्त्रेण न हि तत्कर्म निर्वर्त्यते ।
यया हि संप्रदानकारकबुद्ध्या संप्रदानकारकं कर्मसाधनत्वेनोपदिश्यते सेह विद्यया निवर्त्यते"अन्योऽसावन्योऽहमस्मीति न स वेद" "देवास्तं परादुर्योऽन्यत्राऽत्मनो देवान्वेद" "मृत्यो स मृत्युमाप्नोति य इह नानेव पश्यति" "एकधैवानुद्रष्टव्यं सर्वमात्मानं पश्यति"इत्यादिश्रुतिभ्यः ।
न च देशकालनिमित्त द्यपेक्षत्वं व्यवस्थितात्मवस्तुविषयत्वादात्मज्ञानस्य ।
क्रियायास्तु पुरुषतन्त्रत्वात्स्याद्देशकालनिमित्ताद्येपेक्षत्वम् ।
ज्ञानं तु वस्तुतन्त्रत्वान्न देशकालनिमित्ताद्यपेक्षते ।
यथाग्निरुष्ण आकाशोऽमूर्त इति तथाऽत्मविज्ञानमपु ।
नन्वेवं सति प्रामाणभूतस्य कर्विधेर्निरोधः स्यात् ।
न च तुल्यप्रमाणयोरितरेतरनिरोधो युक्तः ।
न ।
स्वाभाविकभेदबुद्धिमात्रनिरोधकत्वात् ।
न हि विध्यन्तरनिरोधकमात्मज्ञानं स्वाभाविकभेदबुद्धिमात्रं निरुणद्धि ।
तथापि हेत्वपहारात्कर्मानुपपत्तेर्विधैनिरोध एव स्यादिति चेत् ।
न ।
कामप्रतिषेधात्काम्यप्रवृत्तिनिरोधवददोषात् ।
यथा स्वर्गकामो यजेतेति स्वर्गसाधने यागे प्रवृत्तस्य कामप्रतिषेविधेः कामे विहते काम्ययागानुष्ठानप्रवृत्तिर्निरुध्यते ।
न चैतावता काम्यविधिर्निरुद्धो भवति ।
कामप्रतिषेधविधिना काम्यविधेरनर्कत्वज्ञानात्प्रवृत्यनुपपत्तिरिति चेत् ।
अननुष्ठेयत्वेऽनुष्ठातुरभावादनुष्ठानविध्यानर्थक्यादप्रामाण्यमेव कर्मविधीनामिति चेत् ।
न ।
प्रागात्मज्ञानात्प्रवृत्युपपत्तेः स्वाभाविकस्य क्रियाकारकफलभेदविज्ञानस्य प्रागात्मज्ञानात्कर्महेतुत्वमुपपद्यत एव ।
यथा कामविषये दोषविज्ञानोत्पत्तेः प्राक्काम्यकर्मप्रवृत्तिहेतुत्वं स्यादेव स्वर्गादीच्छायाः स्वाभाविक्यास्तद्वात् ।
तथा सत्यनर्थार्थो वेद इति चेत् ।
न ।
अर्थानर्थयोरभिप्राततन्त्रत्वात् ।
मोक्षमेकं वर्जयित्वान्यस्याविद्याविषयत्वात ।
पुरुषाभिप्रायतन्त्रौ ह्यार्थानर्थौ ।
मरणादिकाम्येष्टदर्शनात् ।
तस्माद्यावदात्मज्ञानविधेराभिमुख्यं तावदेव कर्मविधय ।
तस्मान्नाऽत्मज्ञानसहभावित्वं कर्मणामित्यतः सिद्धमात्मज्ञानमेवामृतत्वसाधनमेतावदरे खल्वमृतत्वमिति ।
कर्मनिरपेक्षत्वाज्ज्ञानस्य ।
अतो विदुषस्तावत्पारिव्राज्यं सिद्धं संप्रदानादिकर्मकारकजात्यादिशून्याविक्रियब्रह्मात्मदृढप्रतिपत्तिमात्रेण वचनमन्तरेणाप्युक्तन्यायतः ।
तथाच व्याख्यातमेतत्"येषां नोऽयमात्मायं लोक"इति होतुवचनेन ।
पूर्वे विद्वासः प्रजामकामयमाना व्युत्तिष्ठन्तीति पारिव्राज्यं विदुषामात्मलोकावबोधादेव ।
तथाच विविदिषोरपु सिद्धं पारिव्राज्यम् ।
"एतमेवाऽत्मानं लोकमिच्छन्तः प्रव्रजन्ति"इति वचनात् ।
कर्मणां चाविद्वद्विषयत्वमवोचाम ।
अविद्याविषये चोत्पत्याप्तिविकारसंस्कार्थानि कर्माणीत्यतः आत्मसंस्कारद्वैरेणाऽत्मज्ञानसाधनत्वमपि कर्मणामवोचाम यज्ञादिभिर्विविदषन्तीति ।
अथैत सत्यविद्विषयाणामाश्रमकर्मणां बलाबलविचारणायामात्मज्ञानोत्पादनं प्रति यमप्रधानानाममानित्वादीनां मानसानां च ध्यानज्ञानवैराग्यादीनां सन्निपत्योपकारत्वम् ।
हिंसारागद्वेषादिबाहुल्याद्बहुक्लिष्टकर्मविमिश्रिता इतर इत्यतः पारिव्राज्यं मुमुक्षूणां प्रशंसन्ति"त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।
वैराग्यं पुनरेतस्य मोक्षस्य परमोऽवधिः" ॥
"किं ते धनेन किमु बन्धुभिस्ते किं ते दारैर्ब्राह्मण यो मरिष्यसि ।
आत्मानमन्विच्छ गुहा प्रविष्टं पितामहास्ते क्व गताः पिता च ॥
"एवं साख्ययोगशास्त्रेषु च संन्यासो ज्ञानं प्रति प्रत्यासन्न उच्यते ।
कामप्रवृत्त्यभावाच्च ।
कामप्रवृत्तेर्हि ज्ञानप्रतिकूलता सर्वशास्त्रेषु प्रसिद्धा ।
तस्माद्विरक्तस्य मुमुक्षोर्विनापि ज्ञानेन ब्रह्मचर्यादेव प्रव्रजेदित्याद्यूपपन्नम् ।
ननु सावकाशत्वादनधिकृतविषयमेतदित्युक्तं यावज्जीवश्रुत्युपरोधात् ।
नैष दोषः ।
नितरां सावकाशत्वाद्यावज्जीवश्रुतीनाम् ।
अवद्वित्कामिकर्तव्यता ह्यवोचाम सर्वकर्मणाम् ।
न तु निरपेक्षमेव जीवननिमित्तमेव कर्तव्यं कर्म ।
प्रायेणहि पुरुषाः कामबहुलाः ।
कामश्चानेकविषयोऽनेककर्मसाधनसाध्यश्च ।
अनेकफलसाधनानि च वैदिकानि कर्माणि दाराग्निसंबन्धपुरुषकर्तव्यानु पुनः पुनश्चानुष्ठीयमानानु बहुफलानु कृष्यादिवद्वर्षशतसमाप्तीनि च गार्हस्थ्ये वारण्ये वातस्तदपेक्षया यावज्जीवश्रुतयः ।
ऽकुर्वन्नेवेह कर्माणिऽ इति च मन्त्रवर्णः ।
तस्मिंश्च पक्षे विश्वजित्सर्वमेधयोः कर्मपरित्यागः ।
यस्मिंश्च पक्षे यावज्जीवानुष्ठानं तदा श्मशानान्तत्वं भस्मान्तता च शरीरस्य ।
इतरवर्णापेक्षया वा यावज्जीवश्रुतिः ।
न हि क्षत्त्रियवैश्ययो पारिव्राज्यप्रतिपत्तिरस्ति ।
तथाऽमन्त्रैर्यस्योदितो विधिःऽ ।
ऽऐकाश्रम्यं त्वाचार्याऽ इत्येवमादीनां क्षत्रियवैश्यापेक्षत्वम् ।
तस्मात्पुरुशसामर्थयज्ञानवैराग्यकामाद्यपेक्षया व्युत्थानविकल्पक्रमपारिव्राज्यप्रिपत्तप्रकारा न विरुध्यन्ते ।
अनधिकृतानां च पृथग्विधानात्पारिव्राज्यस्ऽस्नातको वास्नातको वोत्सन्नाग्निरनग्निको वेऽत्यादिना ।
तस्मात्सिद्धाश्रमान्तराण्यधिकृतानामेव ॥४,५.१५॥

इति पञ्चमं ब्राह्मणम् ॥



_______________________________________________________________________

४,६.१३

अथ वंशः ।
पौतिमाष्यो गौपवनात् ।
गौपवनः पौतिमाष्यात् ।
पौतिमाष्यो गौपवनात् ।
गौपवनः कौशिकात् ।
कौशिकः कौण्डिन्यात् ।
कौण्डिन्यः शाण्डिल्यात् ।
शाण्डिल्यः कौशिकाच्च गौतमाच्च ।
गौतमः ॥ _४,६.१ ॥


अग्निवेश्यात् ।
अग्निवेश्यो गार्ग्यात् ।
गार्ग्यो गार्ग्यात् ।
गार्ग्यो गौतमात् ।
गौतमः सैतवात् ।
सैतवः पाराशर्यायणात् ।
पाराशर्यायणो गार्ग्यायणात् ।
गार्ग्यायण उद्दालकायनात् ।
उद्दालकायनो जाबालायनात् ।
जाबालायनो माध्यन्दिनायनात् ।
माध्यन्दिनायनः सौकरायणात् ।
सौकरायणः काषायणात् ।
काषायणः सायकायनात् ।
साकायनः कौशिकायनेः
कौशिकायनिः ॥ _४,६.२ ॥


घृतकौशिकात् ।
घृतकौशिकः पाराशर्यात् ।
पाराशर्यः पाराशर्यात् ।
पाराशर्यो जातुकर्ण्यात् ।
जातुकर्ण्य आसुरायणाच्च यस्काच्च ।
आसुरायणस्त्रैवणेः ।
त्रैवणिरौपजन्धनेः ।
औपजन्धनिरासुरेः ।
आसुरिर्भारद्वाजात् ।
भारद्वाज आत्रेयात् ।
आत्रेयो माण्टेः ।
माण्टिर्गौतमात् ।
गौतमो गौतमात् ।
गौतमो वात्स्यात् ।
वात्स्यः शाण्डिल्यात् ।
शाण्डिल्यः कैशोर्यात्काप्यात् ।
कैशोर्यः काप्यः कुमारहरितात् ।
कुमारहरितो गालवात् ।
गालवो विदर्भीकौण्डिन्यात् ।
विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात् ।
वत्सनपाद्बाभ्रवः पथः सौभरात् ।
पन्थाः सौभरोऽयास्यादङ्गिरसात् ।
अयास्य आङ्गिरस आभुतेस्त्वाष्ट्रात् ।
आभुतिस्त्वाष्ट्रो विश्वरूपात्त्वाष्ट्रात् ।
विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम् ।
अश्विनौ दधिच आथर्वणात् ।
दध्यङ्ङाथर्वणोऽथर्वणो दैवात् ।
अथर्वा दैवो मृत्योः प्राध्वंसनात् ।
मृत्युः प्राध्वंसनः प्राध्वंसनात् ।
प्राध्वंसनः एकर्षेः ।
एकर्षिर्विप्रजित्तेः ।
विप्रजित्तिर्व्यष्टेर् ।
व्यष्टिः सनारोः ।
सनारुः सनातनात् ।
सनातनः सनगात् ।
सनगः परमेष्टिणः ।
परमेष्टी ब्रह्मणः ।
ब्रह्म स्वयम्भु ।
ब्रह्मणे नमः ॥ _४,६.३ ॥

__________



शा.भा._४,६.१३ अथानन्तरं याज्ञवल्कीयस्य काण्डस्य वंश आरभ्यते यथा मधुकाण्डस्य वंशः ।
व्याख्यानं तु पूर्ववत् ।
ब्रह्म स्वयंभु ब्रह्मणे नम ओंमिति ॥४,६.१३ ॥


इति बृहदारण्यकोपनिषदि चतुर्थाध्यायस्य षष्ठं ब्राह्मणम् ॥६ ॥

इति बृहदारण्यकोपनिषदि चतुर्थोऽध्यायः ॥४ ॥

बृहदारण्यकक्रमेण षष्ठोऽध्यायः ॥६॥



अध्याय ५[सम्पाद्यताम्]



ओं अथ पञ्चमोऽध्यायः
अथ पञ्चमाध्यायस्य प्रथमं ब्राह्मणम्



_______________________________________________________________________

५,१.१

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।
खं ब्रह्म ।
खं पुराणम् ।
वायुरं खम् ।
इति ह स्माह कौरव्यायणीपुत्रः ।
वेदोऽयं ब्राह्मणा विदुः ।
वेदैनेन यद्वेदितव्यम् ॥ _५,१.१ ॥


__________


शा.भा._५,१.१ पूर्णमदः पूर्णं न कुतश्चिद्व्यावृत्तं व्यापीत्येतत् ।
निष्ठा च कर्तरि द्रष्टव्या ।
अद इति परोक्षाभिधायि सर्वनाम, तत्परं ब्रह्मेत्यर्थः ।
तत्सम्पूर्णमाकाशवद्व्यापि निरन्तरं निरुपाधिकं च तदेवेदं सोपाधिकं नामरूपस्थंव्यवहारापन्नं पूर्णं स्वेन रूपेण परमात्मना व्याप्येव नोपाधिपरिच्छिन्नेन विशेषात्मना ।
तदिदं विशेषापन्नं कार्यात्मकं ब्रह्म पूर्णात्कारणात्मन उदच्यत उद्रिच्यत उद्गच्छतीत्येतत् ।
यद्यपि कार्यात्मनोद्रिच्यते तथापि यत्स्वरूपं पूर्णत्वं परमात्मभावं तन्न जाहाति पूर्णमेवोद्रिच्यते ।
पूर्णस्य कार्यात्मनो ब्रह्मणः पूर्ण पूर्णत्वमादाय गृहीत्वा आत्मस्वरूपैकरसत्वमापद्य, विद्यया अविद्याकृतं भूतमात्रोपाधिसंसर्गजमन्यत्वावभासं तिरस्कृत्य पूर्णमेवानन्तरमवाह्यं प्रज्ञानघनैकरसस्वभावं केवलं ब्रह्मावशिष्यते ।
यदुक्तं ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावेत्तस्मात्तत्सर्वमभवदित्येषोऽस्य मन्त्रस्यार्थः ।
तत्र ब्रह्मेत्यस्यार्थः पूर्णमद इति ।
इदं पूर्णमिति ब्रह्म वा इदमग्र आसीदित्यस्यार्थः ।
तथा च श्रुत्यन्तरम्"यदेवेह तदमुत्रयदमुत्र तदन्विह"इति ।
अतोऽदःशब्दवाच्यं पूर्णं ब्रह्म तदेवेदं पूर्णं कार्यस्थं नामरूपोपाधिसंयुक्तमविद्ययोद्रिक्तम् ।
तस्मादेव परमार्थस्वरूपादन्यदिव प्रत्यवभासमानम् ।
तद्यदात्मानमेव परं पूर्णं ब्रह्म विदित्वाहमदः पूर्णं ब्रह्मास्मीत्येवं पूर्णमादाय तिरस्कृत्यापूर्णस्वरूपतामविद्याकृतां नामरूपोपाधिसंपर्कजामेतया ब्रह्मविद्यया पूर्णमेव केवलमवशिष्यते ।
तथा चोक्तम्"तस्मात्तत्सर्वमभवत्"इति ।
यः सर्वोपनिषदर्थो ब्रह्म स एषोऽनेन मन्त्रेणानूद्यत उत्तरसम्बन्धार्थम् ।
ब्रह्मविद्यासाधनत्वेन हि वक्ष्यमाणानि साधनान्योङ्कारदमदानदयाख्यानि विधित्सितानि खिलप्रकरणसम्बन्धात्सर्वोपासनाङ्गभूतानि च ।
अत्रैके वर्णयन्तिपूर्णात्कारणात्पूर्णं कार्यमुद्रिच्यते ।
उद्रिक्तं कार्यं वर्तमानकालेऽपि पूर्णमेव परमार्थवस्तुभूतं द्वैतरूपेण ।
पुनः प्रलयकाले पूर्णस्य कार्यस्य पूर्णतामादायाऽत्मनि धित्वा पूर्णमेवावशिष्यते कारणरूपम् ।
एवमुत्पत्तिस्थितिप्रलयेषु त्रिष्वपि कालेषु कार्यकारणयोः पूर्णतैव ।
सा चैकैव पूर्णता कार्यकारणयोर्भेदेन व्यपदिश्यते ।
एवं च द्वैताद्वैतात्मकमेकं ब्रह्म ।
यथा किल समुद्रो जलतरङ्गफेनबुद्बुदाद्यात्मक एव ।
यथा च जलं सत्यं तदुद्भवाश्च तरङ्गफेलबुद्बुदादयः समुद्रात्मभूता एवाऽविर्भावतिरोभावधर्मिणः परमार्थसत्या एव ।
एवं सर्वमिदं द्वैतं परमार्थसत्यमेव जलतरङ्गादिस्थानीयं समुद्रजलस्थानीयं तु परं ब्रह्म ।
एवं च किल द्वैतस्य सत्यत्वे कर्मकाण्डस्य प्रामाण्यं यदा पुनर्द्वैतं द्वैतमिवाविद्याकृतं मृगतृष्णिकावदनृतमद्वैतमेव परमार्थतस्तदा किल कर्मकाण्डं विषयाभावादप्रमाणं भवति ।
तथा च विरोध एव स्यात् ।
वेदैकदेशभूतोपनिषत्प्रमाणं परमार्थाद्वैतवस्तुप्रतिपादकत्वादप्रमाणं कर्मकाण्डमसद्द्वैतविषयत्वात् ।
तद्विरोधपरिजिहीर्षया श्रुत्यैतदुक्तं कार्यकारणयोः सत्यत्वं समुद्रवत्पूर्णमद इत्यादिनेति ।
तदसत् ।
विशिष्टविषयापवादविकल्पयोरसम्भवात् ।
न हीयं सुविवक्षिता कल्पना ।
कस्मात् ।
यथा क्रियाविषय उत्सर्गप्राप्तस्यैकदेशेऽपवादः क्रियते ।
यथाहिंसन्सर्वभूतान्यन्यत्र तीर्थेभ्य इति हिंसा सर्वभूतविषयोत्सर्गेण निवारिता तीर्थे विशिष्टविषये ज्योतिष्टोमादावनुज्ञायते ।
न च तथा वस्तुविषय इहाद्वैतं ब्रह्मोत्सर्गेण प्रतिपाद्य पुनस्तदेकदेशेऽपवदितुं शक्यते ।
ब्रह्मणोऽद्वैतत्वादेवैकदेशानुपपत्तेः ।
तथा विकल्पानुपपत्तेश्च ।
यथातिरात्रे षोडशिनं गृह्णाति नातिरात्रे षोडशिनं गृह्णातीति ग्रहणाग्रहणयोः पुरुषाधीनत्वाद्विकल्पो भवति ।
न त्विह तथा वस्तुविषये द्वैतं वा स्यादद्वैतं वेति विकल्पः सम्भवत्यपुरुषतन्त्रत्वादात्मवस्तुनः ।
विरोधाच्च द्वैताद्वैतत्वयोरेकस्य ।
तस्मान्न सुविवक्षितेयं कल्पना ।
श्रुतिन्यायविरोधाच्च ।
सैन्धवघनवत्प्रज्ञानैकरसघनं निरन्तरं पूर्वापरबाह्याभ्यन्तरभेदविवर्जितं सबाह्याभ्यन्तरमजं नेति नेत्यस्थूलमनण्वजमजरमभयममृतमित्येवमाद्याः श्रुतयो निश्चितार्थाः संशयविपर्यासाशङ्कारहिताः सर्वाः समुद्रे प्रक्षिप्ताः स्युरकिञ्चित्करत्वात् ।
तथा न्यायविरोधोऽपि सावयवस्यानेकात्मकस्य क्रियावतो नित्यत्वानुपपत्तेः ।
नित्यत्वं चाऽत्मनः स्मृत्यादिदर्शनादनुमीयते ।
तद्विरोधश्च प्राप्नोत्यनित्यत्वे ।
भवत्कल्पनानर्थक्यं च ।
स्फुटमेव चास्मिन्पक्षे कर्मकाण्डानर्थक्यम् ।
अकृताभ्यागमकृतविप्रणाशप्रसङ्गात् ।
ननु ब्रह्मणो द्वैताद्वैतात्मकत्वे समुद्रादिदृष्टान्ता विद्यन्ते कथमुच्यते भवतैकस्य द्वैताद्वैतत्वं विरुद्धमिति ।
न ।
अन्यविषयत्वात् ।
नित्यानिरवयववस्तुविषयं हि विरुद्धत्वमवोचाम द्वैताद्वैतत्वस्य न कार्यविषये सावयवे ।
तस्माच्छ्रुतिस्मतिन्यायविरोधादनुपपन्नेयं कल्पना ।
अस्याः कल्पनाया वरमुपनिषत्परित्याग एव ।
अध्येयत्वाच्च न सास्त्रार्थेयं कल्पना ।
न हि जननमरणाद्यनर्थशतसहस्रभेदसमाकुलं समुद्रवनादिवत्सावयवमनेकरसं ब्रह्म ध्येयत्वेन विज्ञेयत्वेन वा श्रुत्योपदिश्यते ।
प्रज्ञानघनतां चोपदिशति ।
एकधैवानुद्रष्टव्यमिति च ।
अनेकधादर्शनापवादाच्च"मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति"इति ।
यच्च श्रुत्या निन्दितं तन्न कर्तव्यम् ।
यच्च न क्रियते न स शास्रार्थः ।
ब्रह्मणोऽनेकरसत्वमनेकधात्वं च द्वैतरूपं निन्दितत्वान्न द्रष्टव्यम् ।
अतो न शास्रार्थः ।
यत्त्वेकरसत्वं ब्रह्मणस्तद्द्रष्टव्यत्वात्प्रशस्तं प्रशस्तत्वाच्च शास्त्रार्थो भवितुमर्हति ।
यत्तूक्तं वेदैकदेशस्याप्रामाण्यं कर्मविषये द्वैताभावादद्वैते च प्रामाण्यमिति ।
तन्न ।
यथाप्राप्तोपदेशार्थत्वात् ।
न हि द्वैतमद्वैतं वा वस्तु जातमात्रमेव पुरुषं ज्ञापयित्वा पश्चात्कर्म वा ब्रह्मविद्यां वोपदिशति शास्रम् ।
न चोपदेशार्हं द्वैतं जातमात्रप्राणिबुद्धिगम्यत्वात् ।
न च द्वैतस्यानृतत्वबुद्धिः प्रथममेव कस्याचित्स्यात् ।
येन द्वैतस्य सत्यत्वमुपदिश्य पश्चादात्मनः प्रामाण्यं प्रतिपादयेच्छास्रम् ।
नापि पाषण्डिभिरपि प्रस्थापिताः शास्रस्य प्रामाण्यं न गृह्णीयुः ।
तस्माद्यथाप्राप्तमेव द्वैतमविद्याकृतं स्वाभाविकमुपादाय स्वाभाविक्यैवाविद्यया युक्ताय रागद्वेषादिदोषवते यथाभिमतपुरुषार्थसाधनं कर्मोपदिशत्यग्रे पश्चात्प्रसिद्धक्रियाकारकफलस्वरूपदोषदर्शनवते तद्बिपरीतौदासीन्यस्वरूपावस्थानफलार्थिने तदुपायभूतामात्मैकत्वदर्शनात्मिकां ब्रह्मविद्यामुपदिशति ।
अथैवं सति तदौदासीन्यस्वरूपावस्थाने फले प्राप्ते शास्रस्य प्रामाण्यं प्रत्यर्थित्वं निवर्तते ।
तदभावाच्छास्रस्यापि शास्रत्वं तं प्रति निवर्तत एव ।
तथा प्रतिपुरुषं परिसमाप्तं शास्रमिति न शास्रविरोधगन्धोऽप्यस्ति ।
अद्वैतज्ञानावसानत्वाच्छास्रशिष्यशासनादिद्वैतभेदस्य ।
अन्यतमावस्थाने हि विरोधः स्यादवस्थितस्येतरेतरापेक्षत्वात्तु शास्रशिष्यशासनानां नान्यतमोऽप्यवतिष्ठते ।
सर्वसमाप्तौ तु कस्य विरेध आशङ्क्येताद्वैते केवले शिवे सिद्धे ।
नाप्यविरोधतात एव ।
अथाप्यभ्युपगम्य ब्रूमःद्वैताद्वैतात्मकत्वेऽपि शास्रविरोधस्य तुल्यत्वात् ।
यदापि समुद्रादिवद्द्वैतात्मकमेकमेव ब्रह्म नान्यदस्तीति विरुध्यते ।
यस्मिन्द्वैतविषयेऽन्योन्योपदेशः सोऽन्यो द्वैतं चान्यदेवेति समुद्रदृष्टान्तो विरुद्धः ।
न च समुद्रोदकैकत्ववद्विज्ञानैकत्वे ब्रह्मणोऽन्यत्रोपदेशग्रहणादिकल्पना सम्भवति ।
न हि हस्तादिद्वैताद्वैतात्मके देवदत्ते वाक्कर्णयोर्देवदत्तैकदेशभूतयोर्वागुपदेष्ट्री कर्णः केवल उपदेशस्य ग्रहीता देवदत्तस्तु नोपदेष्टा नाप्युपदेशस्य ग्रहीतेति कल्पयितुं शक्यते ।
समुद्रैकोदकात्मत्ववदेकविज्ञानवत्वाद्देवदत्तस्य ।
तस्माच्छ्रतिन्यायविरोधश्चाभिप्रेतार्थासिद्धिश्चैवङ्कल्पनायां स्यात् ।
तस्माद्यथाव्याख्यात एवास्माभिः पूर्णमद इत्यस्य मन्त्रस्यार्थः ।
ओं खं ब्रह्मेति मन्त्रोऽयं चान्यत्राविनियुक्त इह ब्राह्मणेन ध्यानकर्मणि विनियुज्यते ।
अत्र च ब्रह्मेति विशेष्याभिधानं खमिति विशेषणम् ।
विशेषणविशेष्ययोश्च सामानाधिकरण्येन निर्देशो नीलोत्पलवत्खं ब्रह्मेति ।
ब्रह्मशब्दो बृहद्वस्तुमात्रास्पदोऽविशेषितोऽतो विशेष्यते खं ब्रह्मेति ।
यत्तत्खं ब्रह्म तदोंशब्दवाच्यमोंशब्दस्वरूपमेववोभयथापि सामानाधिकरण्यमविरुद्धम् ।
इह च ब्रह्मोपासनसाधनत्वार्थमोंशब्दः प्रयुक्तः ।
तथा च श्रुत्यन्तरात्"एतदालम्बनं श्रेष्ठमेतदालम्बनं परम्" "ओमित्यात्मानं युञ्जीत" "ओमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत""ओमित्येवं ध्यायथ आत्मानम्"इत्यादेः ।
अन्यार्थासंभवाच्चोपदेशस्य ।
यथाऽन्यत्रोमिति शंसत्योमित्युद्गायतीत्येवमादौ स्वाध्यायारम्भापवर्गयोश्चोङ्कारप्रयोगो विनियोगादवगम्यते न च तथार्ऽथान्तरमिहावगम्यते ।
तस्माद्ध्यानसाधनत्वेनैवेहोङ्कारशब्दस्योपदेशः ।
यद्यपि ब्रह्मात्मादिशब्दा ब्रह्मणो वाचकास्तथापि श्रुतिप्रामाण्याद्ब्रह्मणो नेदिष्ठमभिधानमोङ्कारः ।
अत एव ब्रह्मप्रतिपत्ताविदं परं साधनम् ।
तच्च द्विप्रकारेण प्रतीकत्वेनाभिधानत्वेन च ।
प्रतीकत्वेन यथा विष्ण्वादिप्रतिमाभेदेन, एवमोङ्कारो ब्रह्मेति प्रतिपत्तव्यः ।
तथा ह्योङ्कारालम्बनस्य ब्रह्म प्रसीदति ।
"एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते"इति श्रुतेः ।
तत्र खमिति भौतिके खे प्रतीतिर्मा भूदित्याहखं पुराणं चिरतनं खं परमात्माकाशमित्यर्थः ।
यत्तत्परमात्माकाशं पुराणं खं तच्चक्षुराद्यविषयत्वान्निरालम्बनमशक्यं ग्रहीतुमिति श्रद्धाभक्तिभ्यां भावविशेषेण चोङ्कार आवेशयति ।
यथा विष्ण्वङ्गाङ्कितायां शिलादिप्रतिमायां विष्णुं लोक एवम् ।
वायुरं खं वायुरस्मिन्विद्यत इति वायुरं खं खमात्रं खमित्युच्यते न पुराणं खमित्येवमाह स्म ।
कोऽसौ ।
कौरव्यायणीपुत्रः ।
वायुरे हि खे मुख्यः स्वशब्दव्यवहारस्तस्मान्मुखे संप्रत्ययो युक्त इति मन्यते ।
तत्र यदि पुराणं खं ब्रह्म निरूपाधिस्वरूपं यदि वा वायुरं खं सोपाधिकं ब्रह्म सर्वथाप्योङ्कारः प्रतीकत्वेनैव प्रतिमावत्साधनत्वं प्रतिपद्यते ।
एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कारः इति श्रुत्यन्तरात् ।
केवलं स्वशब्दार्थे विप्रतिपत्तिः ।
वेदोऽयमोङ्कारो वेद विजानात्यनेन यद्वेदितव्यम् ।
तस्माद्वेद ओङ्कारो वाचकोऽभिधानम् ।
तेनाभिधानेन यद्वेदितव्यं ब्रह्म प्रकाश्यमानमभिधीयमानं वेद साधको विजानात्युपलभते ।
तस्माद्वेदोऽयमिति ब्राह्मणा विदुः ।
तस्माद्ब्राह्यणानामभिधानत्वेन साधनत्वमभिप्रेतमोङ्कारस्य ।
अथवा वेदोऽयमित्याद्यर्थवादः ।
कथमोङ्कारो ब्रह्मणः प्रतीकत्वेन विहितः ।
ओं खं ब्रह्मेति सामानाधिकरण्यात्तस्य स्तुतिरिदानीं वेदत्वेन ।
सर्वो ह्ययं वेद ओङ्कार एव ।
एतत्प्रभव एतदात्मकः सर्वं ऋग्यजुःसामादिभेदभिन्न एव ओङ्कारः तद्यथा शङ्कुना सर्वाणि पर्णानि इत्यादिश्रुत्यन्तरात् ।
इतश्चायं वेद ओङ्कारो यद्वेदितव्यं तत्सर्वं वेदितव्यमोङ्कारो वेदः ।
इतरस्यापि वेदस्य वेदत्वमत एव ।
तस्माद्विशिष्टोऽयमोङ्कारः साधनत्वेन प्रतिपत्तव्य इति ।
अथवा वेदः सः ।
कोऽसौ ।
यं ब्राह्मणा विदुरोङ्कारात् ।
ब्राह्मणानां ह्यसौ प्रणवोद्गोथादिविकल्पैर्विज्ञेयः ।
तस्मिन्हि प्रयुज्यमाने साधनत्वेन सर्वो वेदः प्रयुक्तो भवतीति ॥१॥

इति श्रीबृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य प्रथमं ब्राह्मणम् ॥१॥



_______________________________________________________________________

५,२.१

त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः ।
देवा मनुष्या असुराः ।
उषित्वा ब्रह्मचर्यं देवा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दाम्यतेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ _५,२.१ ॥


__________


शा.भा._५,२.१ अधुना दमादिसाधनत्रयविधानार्थोंऽयमारम्भः त्रयास्त्रिसंख्याकाः प्रजापत्याः प्रजापतेरपत्यानि प्राजापत्यास्ते किं प्रजापत्तौ पितरि ब्रह्मचर्यं शिष्यत्ववृत्तेर्ब्रह्मचर्यस्य प्राधान्याच्छिष्याः सन्तो ब्रह्मचर्यमूषुरुषितवन्त इत्यर्थः ।
के ते ।
विशेषतो देवा मनुष्या असुराश्च ।
ते चोषित्वा ब्रह्मचर्यं किमकुर्वन्नित्युच्यते तेषां देवा ऊचुः पितरं प्रजापतिम् ।
किमिति ।
ब्रवीतु कथयतु नोऽस्मभ्यं यदनुशासनं भवानिति ।
तेभ्य एवमर्थिभ्यो हैतदक्षरं वर्णमात्रमुवाच द इति ।
उक्त्वा च तान्पप्रच्छ पिता किं व्यज्ञासिष्टा३ ति ।
मयोपदेशार्थमभिहितस्याक्षरस्यार्थं विज्ञातवन्त आहोस्विन्नेति ।
देवा ऊचुर्व्यज्ञासिष्मेति विज्ञातवन्तो वयम् ।
यद्येवमुच्यतां किं मयोक्तमिति ।
देवा ऊचुर्दाभ्यतादान्ता यूयं स्वभावतोऽतो दान्ता भवतेति नोऽस्मानात्थ कथयति ।
इतर आहोमिति सम्यग्व्यज्ञासिष्टेति ॥१॥



_______________________________________________________________________

५,२.२

अथ हैनं मनुष्या ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दत्तेति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ॥ _५,२.२ ॥


__________


शा.भा._५,२.२ समानमन्यत् ।
स्वभावतो लुब्धा यूयमतो यथाशक्ति संविभजत दत्तेति नोऽस्मानात्थ किमन्यद्ब्रूयान्नो हितमिति मनुष्याः ॥२॥



_______________________________________________________________________

५,२.३

अथ हैनमसुरा ऊचुर्ब्रवीतु नो भवानिति ।
तेभ्यो हैतदेवाक्षरमुवाच द इति ।
व्यज्ञासिष्टा३ इति ।
व्यज्ञासिष्मेति होचुः ।
दयध्वमिति न आत्थेति ।
ओमिति होवाच व्यज्ञासिष्टेति ।
तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर्द द द इति ।
दम्यत दत्त दयध्वमिति ।
तदेतत्त्रयं शिक्षेद्दमं दानं दयामिति ॥ _५,२.३ ॥


__________


शा.भा._५,२.३ तथासुरा दयध्वमिति ।
क्रूरा यूयं हिंसादिपरा अतो दयध्वं प्राणिषु दयां कुरुतेति ।
तदेतत्प्रजापतेरनुशासनमद्याप्यनुवर्तत एव ।
यः पूर्वं प्रजापतिर्देवादीननुशशास सोऽद्याप्यनुशास्त्येव दैव्या स्तनयित्नुलक्षणया वाचा कथमेषा श्रूयते दैवो वाक् ।
कासौ स्तनयित्नुर्द द द इति दाम्यत दत्त दयध्वमित्येषां वाक्यानामुपलक्षणाय त्रिर्दकार उच्चार्यतेऽनुकृतिर्न तु स्तनयित्नुशब्दस्त्रिरेव संख्यानियमस्य लोकोऽप्रसिद्धत्वात् ।
यस्मादद्यापि प्रजापतिर्दाम्यत दत्त दयध्वमित्यनुशास्त्येव तस्मात्कारणादेतत्त्रयम् ।
किं तत्त्रयमित्युच्यते दमं दानं दयामिति शिक्षेदुपादद्यात्प्रजापतेरनुशासनमस्माभिः कर्तव्यमित्येवं कर्तव्यमित्येवं मतिं कुर्यात् ।
तथा च स्मृतिः त्रिविधं नरकस्येदं द्वारं नाशतमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेतिति ।
अस्य हि विधेः शेषः पूर्वः ।
तथापि देवादीनुद्दिश्य किमर्थं दकारत्रयमुच्चारितवान्प्रजापतिः पृथगनुशासनार्थिभ्यः ।
ते वा कथं विवेकेन प्रतिपन्नाः प्रजापतेर्मनोगतं समानेनैव दकारवर्णमात्रेणेति पराभिप्रायज्ञा विकल्पयन्ति ।
अत्रैक आहुरदान्तत्वादानात्वादयासुत्वैरपराधित्वमात्मनो मन्यमानाः शङ्किता एव प्रजापतावूषुः किं नो वक्ष्यतीति ।
तेषां च दकारश्रवणमात्रादेवाऽत्माशङ्कावशेन तदर्थप्रतिपत्तिरभूत् ।
लोकेऽपि हि प्रसिद्धं पुत्राः शिष्याश्चानुशास्याः सन्तो दोषान्निवर्तयितव्या इति ।
अतो युक्तं प्रजापतेर्दकारमात्रोच्चारणम् ।
दमादित्रये च दकारान्वयादात्मनो दोषानुरूप्येण देवादीनां विवेकेन प्रतिपत्तुं चेति ।
फलं त्वेतदात्मदोषज्ञाने सति दोषान्निवर्तयितुं शक्यतेऽल्पेनाप्युपदेशेन दकारमात्रेणेति ।
नन्वेतत्त्रयाणां देवादीनामनुशासनं देवादिभिरप्येकैकमेवोपादेयमद्यत्वेऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति ।
अत्रोच्यते पूर्वैर्दैवादिभिरप्येकैकमेवोपादेयमद्यत्वेऽपि न तु त्रयं मनुष्यैः शिक्षितव्यमिति ।
अथवा न देवा असुरा वान्ये केचन विद्यन्ते मनुष्येभ्यः ।
मनुष्याणामेवादान्ता येऽन्यैरुत्तमैर्गुणैः संपन्नास्ते देवा लोभप्रधाना मनुष्यास्तथा हिंसापराः क्रूरा असुरास्त एव मनुष्या अदान्तत्वादिदोषक्षत्रयमपेक्ष्य देवादिविशब्दभाजो भवन्तीतरांश्च गुणान्सत्त्वरजस्तमांस्यपेक्ष्य ।
अतो मनुष्यैरेव शिक्षितव्यमेतत्त्रयमिति तदपेक्षयैव प्रजापतिनोपदिष्टत्वात् ।
तथा हि मनुष्यः अदान्ता लुब्धाः क्रूराश्च दृश्यन्ते ।
तथा च स्मृतिः कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेतिति ॥३॥

इति बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य द्वितीयं ब्राह्मणम् ॥२॥


_______________________________________________________________________

५,३.१

एष प्रजापतिर्यद्धृदयम् ।
एतद्ब्रह्म ।
एतत्सर्वम् ।
तदेतत्त्र्यक्षरं हृदयमिति ।
हृ इत्येकमक्षरम् ।
अभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद ।
द इत्येकमक्षरम् ।
ददत्यस्मै स्वाश्चान्ये च य एवं वेद ।
यमित्येकमक्षरम् ।
एति स्वर्गं लोकं य एवं वेद ॥ _५,३.१ ॥


__________


शा.भा._५,३.१ दमादिसाधनत्रयं सर्वोपासनशेषं विहितम् ।
दान्तोऽलुब्धो दयालुः सन्सर्वोपासनेष्वधिक्रियते ।
तत्र निरुपाधिकस्य ब्रह्मणो दर्शनमतिक्रान्तमथाधुना सोपाधिकस्य तस्यैवाभ्युदयफलानि वक्तव्यानीत्येवमर्थोऽयमारम्भः एष प्रजापतिर्यद्धृश्यं प्रजापतिरनुशास्तीत्यनन्तरमेवाभिहितम् ।
कः पुनरसावनुशास्ता प्रजापतिरिति ।
उच्यते एष प्रजापतिः ।
कोऽसौ यथृदयं हृदयमिति हृदयस्था बुद्धिरुच्यते ।
यस्मिञ्शाकल्यब्राह्मणान्ते नामरूपकर्मणामुपसंहार उक्तो दिग्विभागद्वारेण तदेतत्सर्वभूतप्रतिष्ठं सर्वभूतात्मभूतं हृदयं प्रजापतिः प्रजानां स्रष्टा ।
एतद्ब्रह्म बृहत्त्वात्सर्वात्मत्वाच्च ब्रह्म ।
एतत्सर्वम् ।
उक्तम पञ्चमाध्याये हृदयस्य सर्वत्वम् ।
तत्सर्वं यस्मात्तस्मादुपास्यं हृदयं ब्रह्म ।
तत्र हृदयनामाक्षरविषयमेव तावदुपासनमुच्यते ।
तदेतद्धृदयमिति नाम त्र्यक्षरं त्रीण्यक्षराण्यस्येति त्र्यक्षरम् ।
कानि पुनस्तानि त्रीण्यक्षराण्युच्यन्ते ।
हृ इत्येकमक्षरम् ।
अभिहरन्ति हृतेराहृतिकर्मणो हृ इत्येतद्रूपमिति यो वेद यस्माद्धृदयाय ब्रह्मणे स्वाश्चेन्द्रियाण्यन्ये च विषयाः शब्दादयः स्वं स्वं कार्यमभिहरन्तिहृदयं च भोक्त्रर्थमभिहरति ।
अतो हृदयनाम्नो हृ इत्येतदक्षरमिति यो वेदास्मै विदुषेऽभिहरन्ति स्वाश्च ज्ञातयोऽन्ये चासंबद्धाः ।
बलिमिति वाक्यशेषः ।
विज्ञानानुरूप्येणैतत्फलम् ।
तथा द इत्येतदप्येकाक्षरमेतदपि दानार्थस्य ददातेर्द इत्येतद्रूपं हृदयनामाक्षरत्वेन निबद्धम् ।
अत्रापि हृदयाय ब्रह्मणो स्वाश्च करणान्यन्ये च विषयाः स्वं स्वं वीर्यं ददति हृदयं च भोक्त्रे ददाति स्वं वीर्यमतो दकार इत्येवं यो वेदास्मै ददति स्वाश्चान्ये च ।
तथा यमित्येतदप्येकमक्षरम् ।
इणो गत्यर्थस्य यमित्येतद्रूपमस्मिन्नाम्नि निबद्धमिति यो वेद स स्वर्गं लोकमेति ।
एवं नामाक्षरादपीदृशं विशिष्टं फलं प्राप्नोति किमु वक्तव्यं हृदयस्वरूपो पासनादिति हृदयस्तुतये नामाक्षरोपन्यासः ॥१॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य तृतीयं ब्राह्मणम् ॥३॥



_______________________________________________________________________

५,४.१

तद्वै तदेतदेव तदास ।
सत्यमेव ।
स यो हैतं महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति जयतीमांल्लोकान् जित इन्न्वसावसत् य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति ।
सत्यं ह्येव ब्रह्म ॥ _५,४.१ ॥


__________


शा.भा._५,४.१ तस्यैव हृदयाख्यस्य ब्रह्मणः सत्यमित्युपासनं विधित्सन्नाहतत्तदिति हृदयं ब्रह्म परामृष्टम् ।
वा इति स्मरणार्थम् ।
तद्यद्धृदयं ब्रह्म स्मर्यत इत्येकस्तच्छब्दः ।
तदेतदुच्यते प्रकारान्तरेमेति द्वितीयस्तच्छब्दः ।
किं पुनस्तत्प्रकारान्तरम् ।
एतदेव तदित्येतच्छब्देन संबध्यते तृतीयस्तच्छब्दः ।
एतदिति वक्ष्यमाणं बुद्धौ संनिधीकृत्याऽह ।
आस बभूव ।
किं पुनरेतदेवाऽस यदुक्तं हृदयं ब्रह्मेति तदिति तृतीयस्तच्छब्दो विनियुक्तः ।
किं तदिति विशेषतो निर्दिशति सत्यमेव सच्च त्यच्च मूर्तं चामूर्तं च सत्यं ब्रह्म पञ्चभूतात्मकमित्येतत् ।
स यः कश्चित्सत्यात्मानमेतं महन्महत्त्वाद्यक्षं पूज्यं प्रथमजं प्रथमजातं सर्वस्मात्संसारिण एतदेवाग्रे जातं ब्रह्मातः प्रथमजं वेद विजानाति सत्यं ब्रह्मेति ।
तस्येदं फलमुच्यतेयथा सत्येन ब्रह्मणेमे लोका आत्मसात्कृता जिता एवं सत्यात्मानं ब्रह्म महद्यक्षं प्रथमजं वेद स जयतीमाल्लोकान् ।
किञ्च जितो वशीकृत इन्न्वित्थं यथा ब्रह्मणासौ शत्रुरिति वाक्यशेषः ।
असच्चासद्भवेदसौ शत्रुर्जितो भवेदित्यर्थः ।
कस्यैतत्फलमिति पुनर्निगमयतिय एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति ।
अतो विद्यानुरूपं फलं युक्तम् ।
सत्यं ह्येव यस्माद्ब्रह्म ॥१॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य चतुर्थं ब्राह्मणम् ॥४॥



_______________________________________________________________________

५,५.१

आप एवेदमग्र आसुः ।
ता आपः सत्यमसृजन्त ।
सत्यं ब्रह्म ।
ब्रह्म प्रजापतिम् ।
प्रजापतिर्देवान् ।
ते देवाः सत्यमेवोपासते ।
तदेतत्त्र्यक्षरं सतियमिति स इत्येकमक्षरम् ।
तीत्येकमक्षरम् ।
यमित्येकमक्षरम् ।
प्रथमोत्तमे अक्षरे सत्यं मध्यतोऽनृतम् ।
तदेतदनृतमुभयतः सत्येन परिगृहीतम् ।
सत्यभूयमेव भवति ।
नैवंविद्वांसमनृतं हिनस्ति ॥ _५,५.१ ॥


__________


शा.भा._५,५.१ सत्यस्य ब्रह्मणः स्तुत्यर्थमिदमाह ।
महद्यक्षं प्रथमजमित्युक्तं तत्कथं प्रथमजत्वमिति ।
उच्यतेआप एवेदमग्र आसुः ।
आप इति कर्मसमवायिन्योऽग्निहोत्राद्याहुतयः ।
अग्निहोत्राद्याहितेर्द्रवात्मकत्वादप्त्वम् ।
ताश्चाऽपोऽग्नि होत्रादिकर्मापवर्गोत्तरकालं केनचिद्दृष्टेन सूक्ष्मेणाऽत्मना कर्मसमवायित्वमपरित्यजन्त्य इतरभूतसहिता एव न केवलाः ।
कर्मसमवायित्वात्तु प्राधान्यमपामिति ।
सर्वाण्येव भूतानि प्रागुत्पत्तेरव्याकृतावस्थानि कर्तृसहितानि निर्दिश्यन्त आप इति ।
ता आपो बीजभूता जगतोऽव्याकृतात्मनावस्थितास्ता एवेदं सर्वं नामरूपविकृतं जगदग्र आसुर्नान्यत्किञ्चिद्विकारजातमासीत् ।
ताः पुनरापः सत्यमसृजन्त ।
तस्मात्सत्यं ब्रह्म प्रथमजम् ।
तदेतद्धिरण्यगर्भस्य सूत्रात्मनो जन्म यदव्याकृतस्य जगतो व्याकरणम् ।
तत्सत्यं ब्रह्म कुतः ।
महत्त्वात् ।
कथं महत्त्वमित्याह ।
यस्मात्सर्वस्य स्रष्ट्ट ।
कथम् ।
यत्सत्यं ब्रह्म तत्प्रजापतिं प्रजानां पतिं विराजं सूर्यादिकरणमसृजतेत्यनुषङ्गः ।
प्रजापतिर्देवान्स विराट्प्रजापतिर्देव नसृजत ।
यस्मात्सर्वमेवं क्रमेण सत्याद्ब्रह्मणो जातं तस्मान्महत्सत्यं ब्रह्म ।
कथं पुनर्यक्षमिति ।
उच्यतेत एवं सृष्टा देवाः पितरमपि विराजमतीत्य तदेव सत्यं ब्रह्मोपामते ।
अत एतत्प्रथमजं महद्यक्षम् ।
तस्मात्सर्वात्मनोपास्यं तत्तस्यापि सत्यस्य ब्रह्मणो नाम सत्यमिति तदेतत्त्र्यक्षरम् ।
कानि तान्यक्षराणीत्याहस इत्येकमक्षरम् ।
तीत्येकमक्षरम् ।
तीतीकारानुबन्धो निर्देशार्थः ।
यमित्येकमक्षरम् ।
तत्र तेषां प्रथमोत्तमे अक्षरे सकारयकारौ सत्यम् ।
मृत्युरूपाभावात् ।
मध्यतो मध्येऽनृतम् ।
अनृतं हि मृत्युः ।
मृत्य्वनृतयोस्तकारसामान्यात् ।
तदेतदनृतं तकाराक्षरं मृत्युरूपमुभयतः सत्येन सकारयकारलक्षणेन परिगृहोतंव्याप्तमन्तर्भावितं सत्यरूपाभ्यामतोऽकिञ्चित्करं तत्सत्यभूयमेव सत्यबाहुल्यमेव भवति ।
एवं सत्यबाहुल्यं सर्वस्य मृत्योरनृतस्याकिञ्चित्करत्वं च यो विद्वांस्तमेवं विद्वांसमनृतं कदाचित्प्रमादोक्तं न हिनस्ति ॥१॥



_______________________________________________________________________

५,५.२

तद्यत्तत्सत्यमसौ स आदित्यः ।
य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन् पुरुषस्तावेतावन्योऽन्यस्मिन् प्रतिष्ठितौ ।
रश्मिभिरेषोऽस्मिन् प्रतिष्ठितः प्राणैरयममुष्मिन् ।
स यदोत्क्रमिष्यन् भवति शुद्धमेवैतन्मण्डलं पश्यति ।
नैनमेते रश्मयः प्रत्यायन्ति ॥ _५,५.२ ॥


__________


शा.भा._५,५.२ अस्याधुना सत्यस्य ब्रह्मणः संस्थानविशेष उपासनमुच्यतेतद्यत् ।
किं तत्सत्यं ब्रह्म प्रथमजं किमसौ सः ।
कोऽसावादित्यः कः पुनरसावादित्यो य एष क एष य एतस्मिन्नादित्यमण्डले पुरुषोऽभिमानी सोऽसौ सत्यं ब्रह्म ।
यश्चायमध्यात्मं योऽयं दक्षिणेऽक्षन्नक्षणि पुरुषः ।
चशब्दात्स च सत्यं ब्रह्मेति संबन्धः ।
तावेतावादित्याक्षिस्थौ पुरुषावेकस्य सत्यस्य ब्रह्मणः संस्थानविशेषौ यस्मात्तस्मादन्योन्यस्मिन्नितरेतरस्मिन्नादित्यश्चाक्षुषे चाक्षुषश्चाऽदित्ये प्रतिष्ठितौ ।
अध्यात्माधिदैवतयोरन्योन्योपकार्योपकारकत्वात् ।
कथं प्रतिष्ठितावित्युच्यते रश्मिभिः प्रकाशेनानुग्रहं कुर्वन्नेष आदित्योऽस्मिंश्चाक्षुषेऽध्यात्मे प्रतिष्ठितः ।
अयं च चाक्षुषः प्राणैरादित्यमनुगृह्णन्नमुष्मिन्नादित्येऽधिदैवे प्रतिष्ठितः ।
सोऽस्मिञ्छरीरे विज्ञानमयो भोक्ता यदा यस्मिन्काल उत्क्रमिष्यन्भवति तदासौ चाक्षुष आदित्यपुरुषो रश्मीनुपसंहृत्य केवलेनौदासीन्येन रूपेण व्यवतिष्ठते ।
तदायं विज्ञानमयः पश्यति शुद्धमेव केवलं विरश्म्येतन्मण्डलं चन्द्रमण्डलमिव ।
तदेतदरिष्टदर्शनं प्रासह्गिकं प्रदर्शयते ।
कथं नाम पुरुषः करणीये यत्नवान्स्यादिति ।
नैनं चाक्षुषं पुरुषमुररीकृत्य तं प्रत्यनुग्रहायैते रश्मयः स्वामिकर्तव्यवशात्पूर्वमागच्छन्तोऽपि पुनस्तत्कर्मक्षयमनुरुध्यमाना इव नोपयन्ति न प्रत्यागच्छन्त्येनम् ।
अतोऽवगम्यते परस्परोपकार्योपकारकभावात्सत्यस्यैवैकस्याऽत्मनोंऽशा वेताविति ॥२॥



_______________________________________________________________________

५,५.३

य एष एतस्मिन्मण्डले पुरुषस्तस्य भूरिति शिरः ।
एकं शिर एकमेतदक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहरिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ _५,५.३ ॥

__________


शा.भा._५,५.३ तत्र योऽसौ को य एष एतस्मिन्मण्डले पुरुषः सत्यनामा तस्य व्याहृतयोऽवयवाः ।
कथम् ।
भूरिति येयं व्याहृतिः सा तस्य शिरः ।
प्राथम्यात् ।
तत्र सामान्यं स्वयमेवाह श्रुतिएकमेकसंख्यायिक्तं शिरस्तथैतदक्षरमेकं भूरिति ।
भुव इति बाहू द्वित्वसामान्याद्द्वौ बाहू द्वे एते अक्षरे ।
तथा स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे ।
प्रतिष्ठे पादौ प्रतितिष्ठत्याभ्यामिति ।
तस्यास्य व्याहृत्यवयवस्य सत्यस्य ब्रह्मण उपनिषद्रहस्यमभिधानम् ।
येनाभिधानेनाभिधीयमानं तद्ब्रह्माभिमुखो भवति लोकवत् ।
कासावित्याह अहरिति अहरिति चैतद्रूपं हन्तेर्जहातेश्चेति यो वेद स हन्ति जहाति च पाप्मानं य एवं वेद ॥३॥



_______________________________________________________________________

५,५.४

योऽयं दक्षिणेऽक्षन् पुरुषस्तस्य भूरिति शिरः ।
एकं शिर एकमेतदक्षरम् ।
भुव इति बाहू ।
द्वौ बाहू द्वे एते अक्षरे ।
स्वरिति प्रतिष्ठा ।
द्वे प्रतिष्ठे द्वे एते अक्षरे ।
तस्योपनिषदहमिति ।
हन्ति पाप्मानं जहाति च य एवं वेद ॥ _५,५.४ ॥


__________


शा.भा._५,५.४ एवं योऽयं दक्षिणेऽक्षन्पुरुषस्तस्य भूरिति शिर इत्यादि सर्वं समानम् ।
तस्योपनिषदहमिति ।
प्रत्यगात्मभूतत्वात् ।
पूर्ववद्धान्तेर्जहातेश्चेति ॥४॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य पञ्चमं ब्राह्मणम् ॥५॥



_______________________________________________________________________

५,६.१

मनोमयोऽयं पुरुषो भाःसत्यः ।
तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा ।
स एष सर्वस्येशानः सर्वस्याधिपतिः सर्वमिदं प्रशास्ति यदिदं किञ्च ॥ _५,६.१ ॥


__________


शा.भा._५,६.१ उपाधीनामनेकत्वादनेकविशेषणत्वाच्च तस्यैव प्रकृतस्य ब्रह्मणो मनौपाधिविशिष्टस्योपासनं विधित्सन्नाहमनोमयो मनःप्रायो मनस्युपलभ्यमानत्वात् ।
मनसा चोपलभत इति मनोमयोऽयं पुरुषो भाः सत्यो भा एव सत्यं सद्भावः स्वरूपं यस्य सोऽयं भाः सत्यो भास्वर इत्येतत् ।
मनसः सर्वार्थावभासमत्वान्मनोमयत्वाच्चास्य भास्वरत्वात् ।
तस्मिन्नन्तर्हृदये हृदयस्यान्तस्तस्मिन्नित्येतत् ।
यथा व्रीहिर्वा यवो वा परिणमत एवं परिमाणस्तस्मिन्नन्तर्हृदये योगिभिर्दृश्यत इत्यर्थः ।
स एष सर्वस्येशानः सर्वस्य स्वभेदजातस्येशानः स्वामी ।
स्वामित्वेऽपि सति कश्चिदमात्यादितन्त्रोऽयं तु न तथा किं तर्ह्यधिपतिरधिष्ठाय पालयिता ।
सर्वमिदं प्रशास्ति यदिदं किञ्च यत्किञ्च्चित्सर्वं जगत्तत्सर्वं प्रशास्ति ।
एं मनोमयस्योपासनात्तथारूपापत्तिरेव फलम् ।
तं तथा यथेपासते तदेव भवतीति ब्राह्मणम् ॥१॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य षष्ठं ब्राह्मणम् ॥६॥



_______________________________________________________________________

५,७.१

विद्युद्ब्रह्मेत्याहुः ।
विदानाद्विद्युत् ।
विद्यत्येनं पाप्मनो य एवं वेद विद्युद्ब्रह्मेति ।
विद्युद्ध्येव ब्रह्म ॥ _५,७.१ ॥


__________


शा.भा._५,७.१ तथैवोपासनान्तरं सत्यस्य ब्रह्मणो विशिष्टफलमारभ्यते विद्युद्ब्रह्मेत्याहुः ।
विद्युतो ब्रह्मणो निर्वचनमुच्यते विदानादवखण्डनात्तमसो मेधान्धकारं विदार्य ह्यवभासतेऽतो विद्युत् ।
एवं गुणं विद्युद्ब्रह्मेति यो वेदासै विद्यत्यवखण्डयति विनाशयति पाप्मन एनमात्मानं प्रति प्रतिकूलभूताः पाप्मानो ये तान्सर्वान्पाप्मनोऽखण्डयतीत्यर्थः ।
य एवं वेद विद्युद्ब्रह्मेति तस्यानुरूपं फलम् ।
विद्युद्धि यस्माद्ब्रह्म ॥१॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य सप्तमं ब्राह्मणम् ॥७॥



_______________________________________________________________________

५,८.१

वाचं धेनुमुपासीत ।
तस्याश्चत्वारः स्तनाः ।
स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारः ।
तस्यै द्वौ स्तनौ देवा उपजीवन्ति ।
स्वाहाकारं च वषट्कारं च ।
हन्तकारं मनुष्याः ।
स्वधाकारं पितरः ।
तस्याः प्राण ऋषभो मनो वत्सः ॥ _५,८.१ ॥


__________


शा.भा._५,८.१ पुनरुपासनान्तरं तस्यैव ब्रह्मणो वाग्वै ब्रह्मेति वागिति शब्दस्रयी तां वाचं धेनुं धेनुरिव धेनुर्यथा धेनुश्चतुर्भिः स्तनैः स्तन्यं पयः क्षरति वत्सायैवं वाग्धेनुर्वक्ष्यमाणैः स्तनैः पय इवान्नं क्षरति देवादिभ्यः ।
के पुनस्ते स्तना ये वा ते येभ्यः क्षरति ।
तस्या एतस्या वाचो धेन्वा द्वौ स्तनौ देवा उपजीवन्ति वत्सस्थानीयाः ।
कौ तौ ।
स्वाहाकारं च वषट्कारं च ।
आभ्यां हि हविर्दीयते देवेभ्यः ।
हन्तकारं मनुष्याः ।
हन्तेति मनुष्येभ्योऽन्नं प्रयच्छन्ति ।
स्वधाकारं च वषट्कारं च ।
आभ्यां हि हविर्दीयते देवेभ्यः ।
हन्तकारं मनुष्याः ।
हन्तेति मनुष्येभ्योऽन्नं प्रयच्छन्ति स्वधाकारं च वषट्कारं च ।
आभ्यां हि हविर्दीयते देवेभ्यः ।
हन्तकारं मनुष्याः ।
हन्तेति मनुष्येभ्योऽन्नं प्रयच्छन्ति ।
स्वधाकारं पितरः ।
स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति ।
तस्या धेन्वा वाचः प्राण ऋषभः ।
प्राणेन हि वाक्प्रसूयते ।
मनो वत्सः ।
मनसा हि प्रस्राव्यते ।
मनसा ह्यालोचिते विषये वाक्प्रवर्तते ।
तस्मान्मनो वत्सस्थानीयम् ।
एवं वाग्धेनूपासकस्ताद्भाव्यमेव प्रतिपद्यते ॥१॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्याष्टमं ब्राह्मणम् ॥८॥



_______________________________________________________________________

५,९.१

अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे ।
येनेदमन्नं पच्यते ।
यदिदमद्यते ।
तस्यैष घोषो भवति ।
यमेतत्कर्णावपिधाय शृणोति ।
स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥ _५,९.१ ॥


__________

शा.भा._५,९.१ अयमग्निर्वैश्वाननरः पूर्ववदुपासनान्तरमयमग्निर्वैश्वानरः ।
कोऽयमग्निरित्याहयोऽयमन्तःपुरुषे ।
किं शरीरारम्भको नेत्युच्यतेयेनाग्निना वैश्वानराख्येनेदमन्नं पच्यते ।
किं तदन्नम् ।
यदिदमद्यते भुज्यतेऽन्नं प्रजाभिजठिरोऽग्निरित्यर्थः ।
तस्य साक्षादुपलक्षणार्थमिदमाहतस्याग्नेरन्नं पचतो जाठरस्यैष घोषो भवति ।
कोऽसौ ।
यं घोषमेतदिति क्रियाविशेषणं कर्णावपिधायाङ्गुलीभ्यामपिधानं कृत्वा शृणोति तं प्रजापतिमुपासीत वैश्वानरमग्निम् ।
अत्रापि ताद्भाव्यं फलम् ।
तत्र प्रासङ्गिकमिदमरिष्टलक्षणमुच्यतेसोऽत्र शरीरे भोक्ता यदोत्क्रमिष्यन्भवति नैनं घोषं शृणोति ॥१॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य नवमं ब्राह्मणम् ॥९॥



_______________________________________________________________________

५,१०.१

यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुमागच्छति ।
तस्मै स तत्र विजिहीते यथा रथचक्रस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स आदित्यमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा लम्बरस्य खम् ।
तेन स ऊर्ध्व आक्रमते ।
स चन्द्रमसमागच्छति ।
तस्मै स तत्र विजिहीते ।
यथा दुन्दुभेः खम् ।
तेन स ऊर्ध्व आक्रमते ।
स लोकमागच्छत्यशोकमहिमम् ।
तस्मिन् वसति शाश्वतीः समाः ॥ _५,१०.१ ॥


__________


शा.भा._५,१०.१ सर्वेषामस्मिन्प्रकरण उपासनानां गतिरियं फलं चोच्यतेयदा वै पुरुषो विद्वानस्माल्लोकात्प्रैति शरीरं परित्यजति स तदा वायुमागच्छत्यन्तरिक्षे तिर्यग्भूतो वायुः स्तिमितोऽभेद्यस्तिष्ठति ।
स वायुस्तत्र स्वात्मनि तस्मै सम्प्राप्ताय विजिहोते स्वात्मावयवान्विगमयति च्छिद्रीकरोत्यात्मानमित्यर्थः ।
किंपरिमामं छिद्रमिति ।
उच्यतेयथा रथ वक्रस्य खं छिद्रं प्रसिद्धपरिमाणम् ।
तेन छिद्रेण स विद्वानूर्ध्व आक्रमत ऊर्ध्वः सन्गच्छति स आदित्यमागच्छति ।
आदित्यो ब्रह्मलोकं जिगमिषोर्मार्गनिरोधं कृत्वा स्थितः सोऽप्येवंविद उपासकाय द्वारं प्रयच्छति ।
तस्मै स तत्र विजिहोते ।
यथा लम्बरस्य खं वादित्रविशेषस्य च्छिद्रपरिमामं तेन स ऊर्ध्व आक्रमते स चन्द्रमसमागच्छति ।
सोऽपि तस्मै तत्र विजिहीते ।
यथा दुन्दुभेः खं प्रसिद्धं तेन स ऊर्ध्व आक्रमते स लोकं प्रजापतिलोकमागच्छति ।
किंविशिष्टम् ।
अशोकं मानसेन दुःखेन विवर्जितमित्येतत् ।
अहिमं हिमवर्जितं शारीरदुःखवर्जितमित्यर्थः ।
तं प्राप्य तस्मिन्वसति शाश्वतीर्नित्याः समाः संवत्सरानित्यर्थः ।
ब्रह्मणो बहून्कल्पान्वसतीत्येतत् ॥१॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य दशमं ब्राह्मणम् ॥१०॥



_______________________________________________________________________

५,११.१

एतद्वै परमं तपो यद्व्याहितस्तप्यते ।
परमं हैव लोकं जयति य एवं वेद ।
एतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति ।
परमं हैव लोकं जयति य एवं वेद ।
एतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति ।
परमं हैव लोकं जयति य एवं वेद ॥ _५,११.१ ॥


__________


शा.भा._५,११.१ एतद्वै परमं तपः ।
किं तत् ।
यद्याहितो व्याधितो ज्वरादिपरिगृहीतः सन्यत्तप्यते तदेतत्परमं तप इत्येवं चिन्तयेत् ।
दुःखसामान्यात् ।
तस्यैवं चिन्तयतो विदुषः कर्मक्षयहेतुस्तदेव तपो भवत्यनिन्दतोऽविषीदतः ।
स एव च तेन विज्ञानतपसा दग्धकिल्बषः परमं हैव लोकं जयति य एवं वेद ।
तथैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति ।
अग्निप्रवेशसामान्यात् ।
परमं हैव लोकं जयति य एवं वेद ॥१॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्यैकादशं ब्राह्मणम् ॥११॥



_______________________________________________________________________

५,१२.१

अन्नं ब्रह्मेत्येक आहुः ।
तन्न तथा ।
पूयति वा अन्नमृते प्राणात् ।
प्राणो ब्रह्मेत्येक आहुः ।
तन्न तथा ।
शुष्यति वै प्रण ऋतेऽन्नात् ।
एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः ।
तद्ध स्माह प्रातृदः पितरम् ।
किं स्विदेवैवं विदुषे साधु कुर्यां किमेवास्मा असाधु कुर्यामिति ।
स ह स्माह पाणिना मा प्रातृद ।
कस्त्वेनयोरेकधाभूयं भूत्वा परमतां गच्छतीति ।
तस्मा उ हैतदुवाच वीति ।
अन्नं वै वि ।
अन्ने हीमानि सर्वाणि भूतानि विष्टानि ।
रमिति ।
प्राणो वै रम् ।
प्राणे हीमानि सर्वाणि भूतानि रमन्ते ।
सर्वाणि ह वा अस्मिन् भूतानि विशन्ति ।
सर्वाणि भूतानि रमन्ते य एवं वेद ॥ _५,१२.१ ॥


__________


शा.भा._५,१२.१ अन्नं ब्रह्मेति ।
तथैतदुपासनान्तरं विधित्सन्नाहअन्नं ब्रह्मान्नमद्यते यत्तद्ब्रह्मेत्येक आचार्या आहुस्तन्न तथा ग्रहीतव्यमन्नं ब्रह्मेति ।
अन्ये चाऽहुः प्राणो ब्रह्मेति तच्च तथा न ग्रहीतव्यम् ।
किमर्थं पुनरन्नं ब्रह्मेति न ग्राह्यम् ।
यस्मात्पूयति क्लिद्यते पूतिभावमापद्यत ऋते प्राणात्तत्कथं ब्रह्म भवितुमर्हति ।
ब्रह्म हि नाम तद्यदविनाशि ।
अस्तु तर्हि प्राणो ब्रह्म ।
नैव ।
यस्माच्छुष्यति वै प्राण ऋतेऽन्नात् ।
अत्ता हि प्राणः ।
अतोऽन्नेनाऽद्येन विना न शक्नोत्यात्मानं धारयितुम् ।
तस्माच्छ्रुष्यति वै प्राण ऋतेऽन्नात् ।
अत एकैकस्य ब्रह्मता नोपपद्यते यस्मात्तस्मादेते ह त्वेवान्नप्राणदेवते एकधाभूयमेकधाबावं भूत्वा गत्वा परमतां परमत्वं गच्छतो ब्रह्मत्वं प्राप्नुतः ।
तदेतदेवमध्यवस्य ह स्माऽह स्म प्रातृदो नाम पितरात्मनः किंस्विदितिस्विदिति वितर्के ।
यथा मया ब्रह्म परिकल्पितमेवं विदुषे किंस्वित्साधु कुर्यां साधु शोभनं पूजां कां त्वस्मै कुर्यामित्यभिप्रायः ।
किनेवास्मै विदुषेऽसाधु कुर्यां कृतकृत्योऽसावित्यभिप्रायः ।
अन्नप्राणौ सहभूतो ब्रह्मेति विद्वान्नासावसाधुकरमेन खण्डितो भवति ।
नापि साधुकरणेन महीकृतः ।
तदेवंवादिनं स पिता ह स्माऽह पाणिना हस्तेन निवारयन्मा प्रातृद मैवं वोचः ।
कस्त्वेनयोरन्नप्राणयोरेकधाभूयं भूत्वा परमतां कस्तु गच्छति न कश्चिदपि विद्वाननेन ब्रह्मदर्शनेन परमतां गच्छति ।
तस्मान्नैवं वक्तुमर्हसि कृतकृत्योऽसाविति ।
यद्येवं ब्रवीतु भवान्कथं परमतां गच्छतीति ।
तस्मा उ हैतद्वक्ष्यमाणं वच उवाच ।
किं तत् ।
वीति ।
किं तद्वीति ।
उच्यतेअन्नं वै वि ।
अन्ने हि यस्मादिमानि सर्वाणि भूतानि विष्टान्याश्रितान्यतोऽन्नं वीत्युच्यते ।
किञ्च रमिति ।
रमिति चोक्तवान्पिता ।
किं पुनस्तद्रम् ।
प्राणो वै रम् ।
कुत इत्याह ।
प्राणे हि कश्चिदनायतनो निराश्रयो रमते ।
नापि सत्यप्यायतनेऽप्राणो दुर्बलो रमते ।
यदा त्वायतनवान्प्राणी बलवांश्च तदा कृतार्थमात्मानं मन्यमानो रमते लोकः ।
"युवा स्यात्साधुयुवाध्यायकः"इत्यादिश्रुतेः ।
इदानीमेवंविदः फलमाह सर्वाणि ह वा अस्मिन्भूतानि विशन्त्यन्नगुणज्ञानात्सर्वाणि भूतानि रमन्ते प्राणगुणज्ञानाद्य एवं वेद ॥१॥
इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य द्वादशं ब्राह्मणम् ॥१२॥



_______________________________________________________________________

५,१३.१

उक्थम् ।
प्राणो वा उक्थम् ।
प्राणो हीदं सर्वमुत्थापयति ।
उद्धस्मादुक्थविद्वीरस्तिष्ठति ।
उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ _५,१३.१ ॥


__________


शा.भा._५,१३.१ उक्थम् ।
तथोपासनान्तरमुक्थं शस्रम् ।
तद्धि प्रधानं महाव्रते क्रतौ ।
किं पुनस्तदुक्थम् ।
प्राणो वा उक्थम् ।
प्राणश्च प्रधान इन्द्रियाणामुक्थं च शस्राणामत उक्थमित्युपासीत ।
कथं प्राण उक्थमित्याहप्राणो हि यस्मादिदं सर्वमुत्थापयति ।
उत्थापनादुक्थ प्राणः ।
न ह्यप्राणः कश्चिदुत्तिष्ठति ।
तदुपासनफलमाहौद्धास्मादेवंविद उक्थवित्प्राणविद्वीरः पुत्र उत्तिष्ठति ह दृष्टमेतत्फलम् ।
अदृष्टं तूक्थस्य सायुज्यं सलोकतां जयति य एवं वेद ॥१॥



_______________________________________________________________________

५,१३.२

यजुः ।
प्राणो वै यजुः ।
प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते ।
युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय ।
यजुषः सायुज्यं सलोकतां जयति य एवं वेद ॥ _५,१३.२ ॥


__________


शा.भा._५,१३.२ यजुरिति चोपासीत प्राणम् ।
प्राणौ वै यजुः ।
कथं युजः प्राणः ।
प्राणे हि यस्मात्सर्वाणि भूतानि युज्यन्ते ।
न ह्यसति प्राणे केनचित्कस्यचिद्योगसामर्थ्यम् ।
अतो युनक्तीति प्राणो यजुः ।
एवंविदः फलमाहयुज्यन्त उद्यच्छन्त इत्यर्थः ।
हास्मा एवंविदे सर्वाणि भूतानि श्रैष्ठ्यं श्रेष्ठभावस्तस्मै श्रैष्ठ्याय श्रेष्ठभावाय नः श्रेष्ठो भवेदिति ।
यजुषः प्राणस्य सायुज्यमित्यादि सर्व समानम् ॥२ ॥ ॥



_______________________________________________________________________

५,१३.३

साम ।
प्राणो वै साम ।
प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि ।
सम्यञ्चि हास्मै सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते ।
साम्नः सायुज्यं सलोकतां जयति य एवं वेद ॥ _५,१३.३ ॥


__________


शा.भा._५,१३.३ सामेति चोपासीत प्राणम् ।
प्राणो वै साम ।
कथं प्राणः साम ।
प्राणे हि यस्मात्सर्वाणि भूतानि सम्यञ्चि संगच्छन्ते संगमनात्साम्यापत्तिहेतुत्वात्साम प्राणः ।
सम्यञ्चि संगच्छन्ते हास्मै सर्वाणि भूतानि ।
न केवलं संगच्छन्त एव श्रेष्ठभावाय चास्मै कल्पन्ते समर्थ्यन्ते ।
साम्नः सायुज्यमित्यादि पुर्ववत् ॥३॥



_______________________________________________________________________

५,१३.४

क्षत्रम् ।
प्राणो वै क्षत्रम् ।
प्राणो हि वै क्षत्रम् ।

त्रायते हैनं प्राणः क्षणितोः ।
प्र क्षत्रमत्रमाप्नोति ।
क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥ _५,१३.४ ॥


__________


शा.भा._५,१३.४ तं प्राणं क्षत्त्रमित्युपासीत ।
प्राणौ वै क्षत्त्रं प्रसिद्धमेतत्प्राणो हि वै क्षत्त्रम् ।
कथं प्रसिद्धमेतत्प्राणो हि वै क्षत्त्रम् ।
कथं प्रसिद्धतेत्याहत्रायते पालयत्येनं पिण्डं देहं प्राणः क्षणितोः शस्रादिहिंसितात्पुनर्मांसेनाऽपूरयति यस्मात्तस्मात्क्षतत्राणात्प्रसिद्धं क्षत्त्रत्वं प्राणस्य ।
विद्वत्फलमाहप्र क्षत्त्रमत्रं न त्रायतेऽन्येन केनचिदित्यत्रं क्षत्त्रं प्राणं प्राप्नोतीत्यर्थः ।
शाखान्तरे वा पाठात्क्षत्त्रमात्रं प्राणो भवतीत्यर्थः ।
क्षत्त्रस्य सायुज्यं सलोकतां जयति य एवं वेद ॥४॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य त्रयोदशं ब्राह्मणम् ॥१३॥



_______________________________________________________________________

५,१४.१

भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ _५,१४.१ ॥


__________


शा.भा._५,१४.१ ब्रह्मणो हृदयाद्यनेकोपाधिविशिष्टस्योपासनमुक्तमथेदानीं गायत्र्युपाधिविशिष्टस्योपासनं वक्तव्यमित्यारभ्यते ।
सर्वच्छन्दसां हि गायत्रीच्छन्दः प्रधानभूतम् ।
तत्प्रयोक्तृगयत्राणाद्गायत्रीति वक्ष्यति ।
न चान्येषां छन्दसां प्रयोक्तृप्राणत्राणसामर्थ्यम् ।
प्राणात्मभूता च सा सर्वच्छन्दसां चाऽत्मा प्राणः ।
प्राणश्च क्षतत्राणात्क्षत्त्रमित्युक्तम् ।
प्राणश्च गायत्री ।
तस्मात्तदुपासनमेव विधित्स्यते ।
द्विजोत्तमजन्महेतुत्वाच्च ।
गायत्र्या ब्राह्मणमसृजत त्रिष्टुभा राजन्यं जगत्या वैश्यमति द्विजोत्तमस्य द्वितीयं जन्म गायत्रीनिमित्तम् ।
तस्मात्प्रधाना गायत्री ब्राह्मणा व्युत्थाय ब्राह्मणा अभिवदन्ति स ब्राह्मणो विपापो विरजोऽविचिकित्सो ब्राह्मणो भवतीत्युत्तमपुरुषार्थसंबन्धं ब्राह्मणस्य दर्शयति ।
तच्च ब्राह्मणत्वं गायत्रीजन्ममूलमतो वक्तव्यं गायत्र्याः सतत्त्वम् ।
गायत्र्या हि यः सृष्टो द्विजोत्तमो निरङ्कुश एवोत्तमपुरुषार्थसाधनेऽधिक्रियतेऽतस्तन्मूलः परमपुरुषार्थसंबन्धः ।
तस्मात्तदुपासनविधानायाऽहभूमिरन्तरिक्षं द्यौरित्येतान्यष्टावक्षराणि ।
अष्टाक्षरमष्टावक्षराणि यस्य तदिदमष्टाक्षरम् ।
ह वै प्रसिद्धावद्योतकौ ।
एकं प्रथमं गायत्र्यै गायत्र्याः पदम् ।
यकारेणैवाष्टत्वपूरणम् ।
एतदु हैवैतदेवास्या गायत्र्याः पदं पादः प्रथमो भूम्यादिलक्षणस्रैलोक्यात्मा ।
अष्टाक्षरत्वसामान्यात् ।
एवमेतत्त्रैलोक्यात्मकं गायत्र्याः प्रथमं पदं यो वेदतस्यैतत्फलम्स विद्वान्यावत्किञ्चिदेषु त्रिषु जेतव्यं तावत्सर्वं ह जयति योऽस्या एतदेवं पदं वेद ॥१॥



_______________________________________________________________________

५,१४.२

ऋचो यजूषि सामानीत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ _५,१४.२ ॥


__________


शा.भा._५,१४.२ तदर्चो यजूंसि सामानीति त्रयीविद्यानामाक्षराण्येतान्यप्यष्टावेव तथैवाष्टाक्षरं ह वा एकं गायत्र्यै पदं द्वितीयमेतदु हैवास्या एतदृग्यजुःसामलक्षणमष्टाक्षरत्वसामान्यादेव ।
स यावतीयं त्रयी विद्या त्रय्या विद्यया यावत्फलजातमाप्यते तावद्ध जयति योऽस्या एतद्गायत्र्यास्रैविद्यलक्षणं पदं वेद ॥२॥



_______________________________________________________________________

५,१४.३

प्राणोऽपानो व्यान इत्यष्टावक्षराणि ।
अष्टाक्षरं ह वा एकं गायत्र्यै पदम् ।
एतदु हैवास्या एतत् ।
स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
यद्वै चतुर्थं तत्तुरीयम् ।
दर्शतं पदमिति ददृश इव ह्येषः ।
परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति ।
एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ _५,१४.३ ॥


__________


शा.भा._५,१४.३ तथा प्राणोऽपानो व्यान एतान्यपि प्राणाद्यभिधानाक्षराण्यष्टौ ।
तच्च गायत्र्यास्तृतीयं पदं यावदिदं प्राणिजातं तावद्ध जयति योऽस्या एतदेवं गायत्र्यास्तृतीयं पदं वेद ।
अथानन्तरं गायत्र्यास्रिपदायाः शब्दात्मिकायास्तुरीयं पदमुच्यतेऽभिधेयभूतमस्याः प्रकृताया गायत्र्या एतदेव वक्ष्यमामं तुरीयं दर्शतं पदं परोरजा य एष तपति ।
तुरीयमित्यादिवाक्यपदार्थं स्वमेव व्याचष्टे श्रुतिःयद्वै चतुर्थं प्रसिद्धं लोके तदिदं तुरीयशब्देनाभिधीयते ।
दर्शतं पदमित्यस्य कोर्ऽथ इत्युच्यतेददृश इव दृश्यत इव ह्येष मण्डलस्थः पुरुषो रजो रजोजातं समस्तं लोकमित्यर्थः ।
उपर्युपर्याधिपत्यभावेन सर्वं लोकं रजोजातं तपति ।
उपर्युपरीति वीप्सा सर्वलोकाधिपत्यख्यापनार्था ।
ननु सर्वशब्देनैव सिद्धत्वाद्वीप्सानर्थिका ।
नैष दोषः ।
येषामुपरिष्टात्सविता दृश्यते तद्विषय एव सर्वशब्दः स्यादित्याशङ्कानिवृत्त्यर्था वीप्सा ।
"ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकानां च"इति श्रुत्यन्रात् ।
तस्मात्सर्वावरोधार्था वीप्सा ।
यथासौ सविता सर्वाधिपत्यलक्षणया श्रिया यशसा च ख्यात्या तपत्येवं हैव श्रिया यशसा च तपति योऽस्या एतदेवं तुरीयं दर्शतं पदं वेद ॥३॥



_______________________________________________________________________

५,१४.४

सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
तद्वै तत्सत्ये प्रतिष्ठितम् ।
चक्षुर्वै सत्यम् ।
चक्षुर्हि वै सत्यम् ।
तस्माद्यदिदानीं द्वौ विवदमानावेयातमहमदर्शमहमश्रौषमिति ।
य एवं ब्रूयादहमदर्शमिति ।
तस्मा एव श्रद्दध्याम ।
तद्वै तत्सत्यं बले प्रतिष्ठितम् ।
प्राणो वै बलम् ।
तत्प्राणे प्रतिष्ठितम् ।
तस्मादाहुर्बलं सत्यादोगीय इति ।
एवं वेषा गायत्र्यध्यात्मं प्रतिष्ठिता ।
सा हैषा गयांस्तत्रे ।
प्राणा वै गयाः ।
तत्प्राणास्तत्रे ।
तद्यद्गयांस्तत्रे तस्माद्गायत्री नाम ।
स यामेवामूं सावित्रीमन्वाहैषैव सा ।
स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ _५,१४.४ ॥


__________


शा.भा._५,१४.४ सैषा त्रिपदोक्ता या त्रैलोक्यत्रैविद्यप्राणलक्षणा गायत्र्येतस्मिंश्चतुर्थे तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता ।
मूर्तामूर्तरसत्वादादित्यस्य ।
रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति ।
यथा काष्ठादि दग्धसारं तद्वत् ।
तथा मूर्तामूर्तरसत्वादादित्यस्य ।
रसापाये हि वस्तु नीरसमप्रतिष्ठितं भवति ।
यथा काष्ठादि दग्धसारं तद्वत् ।
तथा मूर्तामूर्तात्मकं जगत्त्रिपदा गायत्र्यादित्ये प्रतिष्ठिता तद्रसत्वात्सह त्रिभिः पादैः ।
तद्वै तुरीयं पदं सत्ये प्रतिष्ठितम् ।
किं पुनस्तत्सत्यमित्युच्यतेचक्षुर्वै सत्यम् ।
कथं चक्षुः सत्यमित्याहप्रसिद्धमेतच्चक्षुर्हि वै सत्यम् ।
कथं प्रसिद्धतेत्याहतस्माद्यदिदानीमेव द्वौ विवदमानौ विरुद्धं वदमानावेयातामागच्छेयातामहमदर्शं दृष्टवाननस्मीत्यन्य आहाहमश्रौषं त्वया दृष्टं न तथा तद्वस्त्विति तयोर्य एवं ब्रूयादहमद्राक्षमिति तस्मा एव श्रद्दध्याम नपुनर्यो ब्रूयादहमश्रौषमिति ।
श्रोतुर्मृषा श्रवणमपि संभवति न तु चक्षुषो मृषा दर्शनम् ।
तस्मान्नाश्रौषमित्युक्तवते श्रद्दध्याम ।
तस्मात्सत्यप्रतिपत्तिहेतुत्वात्सत्यं चक्षुस्तस्मिन्सत्ये चक्षुषि सह त्रिभिरितरैः पादैस्तुरीयं पदं प्रतिष्ठितमित्यर्थः ।
उक्तं च स आदित्यः कस्मिन्प्रतिष्ठित इति चक्षुषीति ।
तद्वै तुरीयपदाश्रयं सत्यं बले प्रतिष्ठितम् ।
किं पुनस्तद्बलमित्याहप्राणो वै बलं तस्मिन्प्राणे बले प्रतिष्ठितं सत्यम् ।
तथा चोक्तं सूत्रे तदोतं च प्रोतं चेति ।
यस्माद्बले सत्यं प्रतिष्ठितं तस्मादाहुर्बलं सत्यादोगीय ओजीय ओजस्तरमित्यर्थः ।
लोकेऽपि यस्मिन्हि यदाश्रितं भवति तस्मादाश्रितादाश्रयस्य बलवत्तरत्वं प्रसिद्धम् ।
न हि दुर्बलं बलवतः क्वचिदाश्रयभूतं दृष्टम् ।
एवमुक्तन्यायेन उ एषा गायत्र्यध्यात्ममध्यात्मे प्राणे प्रतिष्ठिता ।
सैषा गायत्री प्राणः ।
अतो गायत्र्यां जगत्प्रतिष्ठितम् ।
यस्मिन्प्राणे सर्वे देवा एकं भवन्ति ।
सर्वं वेदाः कर्माणि फलं च सैवं गायत्री प्राणरूपा सती जगत आत्मा ।
सा हैषा गयांस्तत्रे त्रातवती ।
के पुनर्गयाः प्राणा वागादयो वै गयाः ।
शब्दकरमात् ।
तांस्तत्रे सैषा गायत्री ।
तत्तत्र यद्यस्माद्गयांस्तत्रे तस्माद्गायत्री नाम ।
गायत्राणाद्गायत्रीति प्रथिता ।
स आचार्य उपनीय माणवकमष्टवर्षं यामेवामूं गायत्रीं सावित्रीं सवितृदेवताकामन्वाह पच्छोर्धर्चशः समस्तां च ।
एषैव सा साक्षात्प्राणो जगत आत्मा माणवकाय समर्पितेहेदानीं व्याख्याता नान्या स आचार्यो यस्मै माणवकायान्वाहानुवक्ति तस्य माणवकस्य गयान्प्राणांस्रायते नरकादिपतनात् ॥४॥



_______________________________________________________________________

५,१४.५

तां हैतामेके सावित्रीमनुष्टुभमन्वाहुः ।
वागनुष्टुप् ।
एतद्वाचमनुब्रूम इति ।
न तथा कुर्यात् ।
गायत्रीमेव सावित्रीमानुब्रूयात् ।
यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न हैव तद्गायत्र्या एकं चन पदं प्रति ॥ _५,१४.५ ॥


__________


शा.भा._५,१४.५ तामेतां सावित्रीं हैके शाखिनोऽनुष्टुप्छन्दस्कामन्वाहुरुपनीताय ।
तदभिप्रायमाहवागनुष्टुप् ।
वाक्च शरीरे सरस्वती तामेव हि वाचं सरस्वतीं माणवकायानुब्रूम इत्येतद्वदन्तः ।
न तथा कुर्यान्न तथा विद्याद्यत्त आहुर्मृषैव तत् ।
किं तर्हि गायत्रीमेव सावित्रीमनुब्रूयात् ।
कस्मात् ।
यस्मात्प्राणो गायत्रीत्युक्तम् ।
प्राण उक्ते वाक्च सरस्वती चान्ये त प्राणाः सर्वं माणवकाय समर्पितं भवति ।
किञ्चेदं प्रासङ्गिकमुक्त्वा गायत्रीविदं स्तौतियदि ह वा अप्येवंविद्बह्विव न हि तस्य सर्वात्मनो बहु नामास्ति किचित्सर्वात्मकत्वाद्विदुषः प्रतिगृह्णाति न हैव तत्प्रतिग्रहजातं गायत्र्या एकञ्चनैकमपि पदं प्रति पर्याप्तम् ॥५॥



_______________________________________________________________________

५,१४.६

स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात्सोऽस्या एतत्प्रथमं पदमाप्नुयात् ।
अथ यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतद्द्वितीयं पदमाप्नुयात् ।
अथ यावदिदं प्राणि यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
नैव केन चनाप्यम् ।
कुत उ एतावत्प्रतिगृह्णीयात् ॥ _५,१४.६ ॥


__________

शा.भा._५,१४.६ स य इमांस्रीन्स यो गायत्रीविदिमान्भूरादींस्रीन्गोऽश्वादिधनपूर्णांल्लोकान्प्रतिगृह्णीयात्स प्रतिग्रहोऽस्या गायत्र्या एतत्प्रथमं पदं यद्व्याख्यातमाप्नुयात्प्रथमपदविज्ञानफलं तेन भुक्तं स्यान्न त्वधिकदोषोत्पादकः स प्रतिग्रहः ।
अथ पुनर्यावतीयं त्रयी विद्या यस्तावत्प्रतिगृह्णीयात्सोऽस्या एतत्तृतीयं पदमाप्नुयात् ।
तेन तृतीयपदविज्ञानफलं भुक्तं स्यात् ।
कल्पयित्वेदमिच्यते ।
पादत्रयसममपि यदि कश्चित्प्रतिगृह्णीयात्तत्पादत्रयविज्ञानफलस्यैव क्षयकारणं न त्वन्यस्य दोषस्य कर्तृत्वे क्षमम् ।
न चैवं दाता प्रतिग्रहीता वा ।
गायत्रीविज्ञानस्तुतये कल्प्यते ।
दाता प्रतिग्रहीता च यद्यप्येवं संभाव्यते नासौ प्रतिग्रहोऽपराधक्षमः ।
कस्माद्यतोऽभ्यधिकमपि पुरुषार्थविज्ञानमवशिष्टमेव चतुर्थपादविषयं गायत्र्यास्तद्दर्शयति ।
अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति ।
यच्चैतन्नैव केनचन केनचिदपि प्रतिग्रहेणाऽप्यं नैव प्राप्यमित्यर्थः ।
यथा पूर्वोक्तानि त्रीणि पदानि ।
एतान्यपि नैवाऽप्यानि केनचित्कल्पयित्वैवमुक्तं परमार्थतः कुत उ एतावत्प्रतिगृह्णोयात्त्रैलोक्यादिसमम् ।
तस्माद्गायत्र्येवंप्रकारोपास्येत्यर्थः ॥६॥



_______________________________________________________________________

५,१४.७

तस्या उपस्थानम् ।
गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पदि ।
अपदसि ।
न हि पद्यसे ।
नमस्ते तुरीयाय दर्शताय पदाय परोरजसे ।
असावदो मा प्रापदिति ।
यं द्विष्यादसावस्मै कामो मा समर्धीति वा ।
न हैवास्मै स कामः समृध्यते यस्मा एवमुपतिष्ठते ।
अहमदः प्रापमिति वा ॥ _५,१४.७ ॥


__________


शा.भा._५,१४.७ तस्या उपस्थानं तस्या गायत्र्या उपस्थानमुपेत्य स्थानं नमस्करणमनेन मन्त्रेण ।
कौऽसौ मन्त्र इत्याहहे गायत्र्यसि भवसि त्रैलोक्यपादेनैकपदी त्रयीविद्यारूपेण द्वितीयेन द्विपदी ।
प्राणादिना तृतीयेन त्रिपद्यसि ।
चतुर्थेन तुरीयेण चतुष्पद्यसि ।
एवं चतुर्भिः पादैरुपासकैः पद्यसे ज्ञायसेऽतः परं परेण निरुपाधिकेन स्वेनाऽत्मनापदसि ।
अविद्यमानं पदं यस्यास्तव येन पद्यसे सा त्वमपदसि यस्मान्नहि पद्यसे नेति नेत्यात्मत्वात् ।
अतो व्यवहारविषयाय नमभ्ते तुरीयाय दर्शताय पदाय पोरदसे ।
असौ शत्रुः पाप्मा त्वत्प्राप्तिविघ्नकरोऽदस्तदात्मनः कार्यं यत्त्वत्प्राप्तिविघ्नकर्तृत्वं मा प्रापन्मैव प्राप्नोतु ।
इतिशब्दो मन्त्रपरिसमाप्त्यर्थः ।
यं द्विष्याद्यं प्रति द्वेषं कुर्यात्स्वयं विद्वांस्तं प्रत्यनेनोपस्थानमसौ शत्रुरमुकनामेति नाम गृह्णीयादस्मै यज्ञदत्तायाभिप्रेतः कामो मा समृद्धि समृद्धिं मा प्राप्नोत्विति वोपतिष्ठते ।
न हैवास्मै देवदत्ताय स कामः समृध्यते ।
कस्मै ।
यस्मा एवमुपतिष्ठते ।
अहमदो देवदत्ताभिप्रेतं प्रापमिति वोपतिष्ठते ।
असावदो मा प्रापदित्यादित्रयाणां मन्त्रपदानां यथाकामं विकल्पः ॥७॥



_______________________________________________________________________

५,१४.८

एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथाः ।
अथ कथं हस्तीभूतो वहसीति ।
मुखं ह्यस्याः सम्राण्न विदां चकरेति होवाच ।
तस्या अग्निरेव मुखम् ।
यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्संदहति ।
एवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः संभवति ॥ _५,१४.८ ॥


__________


शा.भा._५,१४.८ गायत्र्या मुखविधानायार्थवाद उच्यतेएतद्ध किल वै स्मर्यते ।
तत्तत्र गायत्रीविज्ञानविषये जनको वैदेहो बुडिलो नामतोऽश्वतराश्वस्यापत्यमाश्वतराश्विस्तं किलोक्तवान् ।
यन्नु इति वितर्के हो अहो इत्येतत्तद्यत्त्वं गायत्रीविद्ब्रूथा गायत्रीविदस्मीति यदब्रूथाः किमिदं तस्य वचसोऽननुरूपम् ।
अथ कथं यदि गायत्रीवित्प्रतिग्रहदोषेण हस्तोभूतो वहसीति ।
स प्रत्याह राज्ञा स्मारितो मुखं गायत्र्या हि यस्मादस्या हे सम्राण्न विदाञ्चकार न विज्ञातवानस्मीति होवाच ।
एकाह्गविकलत्वाद्गायत्रीविज्ञानं ममाफलं जातम् ।
शृणु तर्हि तस्या गायत्र्या अग्निरेव मुखम् ।
यदि ह वा अपि बह्विवेन्धनमग्नावभ्यादधति लौकिकाः सर्वमेव तत्संदहत्येवेन्धनमग्निरेवं हैवैवंविद्गायत्र्या अग्निर्मुखमित्येवं वेत्तीत्येवंवित्स्यात्स्वयं गायत्र्यात्माग्निमुखः सन् ।
यद्यपि बह्विव पापं कुरुते प्रतिग्रहादिदोषं तत्सर्वं पापजातं संप्साय भक्षयित्वा शुद्धोऽग्निवत्पूतश्च तस्मात्प्रतिग्रहदोषाद्गायत्र्यात्माजरोऽमृतश्च संभवति ॥८॥

इति श्रीमद्बृहदारण्यकोपनिषद्भाष्ये पञ्चमाध्यायस्य चतुर्दशं ब्राह्मणम् ॥१४॥



_______________________________________________________________________

५,१५.१

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ।
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ।
अग्ने नय सुपथा रायेऽस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ _५,१५.१ ॥


__________


शा.भा._५,१५.१ यो ज्ञानकर्मसमुच्चयकारी सोऽन्तकाल आदित्यं प्रार्थयति ।
अस्ति च प्रसङ्गो गायत्र्यास्तुरीयः पादो हि सः ।
तदुपस्थानं प्रकृतमतः स एव प्रार्थ्यते ।
हिरण्यमयेन ज्योतिर्मयेन पात्रेण यथा पात्रेणेष्टं वस्त्वपिधीयत एवमिदं सत्याख्यं ब्रह्म ज्योतिर्मयेन मण्डलेनापिहितमिवासमाहितचेतसामदृश्यत्वात्तदुच्यते ।
सत्यस्यापिहितं मुखं मुख्यं स्वरूपं तदपिधानं पात्रमपिधानमिव दर्शनप्रतिबन्धकारणं तत्त्वं हे पूषञ्जगतः पोषणत्पूषा सवितापावृण्वपावृतं कुरु दर्शनप्रतिबन्धकारणमपनयेत्यर्थः ।
सत्यधर्माय सत्यं धर्मोऽस्य मम सोऽहं सत्यधर्मा तस्मै त्वदात्मभूतायेत्यर्थः ।
दृष्टये दर्शनाय ।
पूषन्नित्यादीनि नामान्यामन्त्रणार्थनि सवितुः ।
एकर्ष एकश्चासावृषिश्चैकर्षिर्दर्शनादृषिः ।
स हि सर्वस्य जगत आत्मा चक्षुश्च सन्सर्वं पश्यत्येको वा गच्छतीत्येकर्षिः"सूर्य एकाकी चरति"इति मन्त्रवर्णात् ।
यम सर्वं हि जगतः संयमनं त्वत्कृतम् ।
सूर्य सुष्ठु वीरयते रसान्रश्मीन्प्राणान्धियो वा जगत इति ।
प्राजापत्य प्रजापतेरीश्वरस्यापत्यं हिरण्यगर्भस्य वा हे प्राजापत्य व्यूह विगमय रश्मीन् ।
समूह संक्षिपाऽत्मनस्तेजो येनाहं शक्नुयां त्वत्स्वरूपमञ्जसा द्रष्टम् ।
विद्योतन इव रूपाणामत उपसंहर तेजः ।
यत्ते तव रूपं सर्वकल्याणानामतिशयेन कल्याणं कल्याणतमं तत्ते पश्यामि ।
पश्यामो वयं वचनव्यत्ययेन ।
योऽसौ भूर्भुवःस्वर्व्याहृत्यवयवः पुरुषः पुरुषाकृतित्वात्पुरुषः सोऽहमस्मि भवामि ।
अहरमिति चोपनिषद उक्तत्वादादित्यचाक्षुषयोस्तदेवेदं परामृश्यते सोऽहमस्म्यमृतमिति संबन्धः ।
ममामृतस्य सत्यस्य शरीरपाते शरीरस्थो यः प्राणो वायुः सोऽनिलं बाह्यं वायुमेव प्रतिगच्छतु ।
तथान्या देवताः स्वां स्वां प्रकृतिं गच्छन्तु ।
अथेदमपि भस्मान्तं सत्पृथिवीं यातु शरीरम् ।
अथेदानीमात्मनः संकल्पभूतां मनसि व्यवस्थितामग्निदेवतां प्रार्थयतेओं क्रतो ।
ओंमिति क्रतो इति च संबोधनार्थवेव ।
ओङ्कारप्रतीकत्वादोम् ।
मनोमयत्वाच्च क्रतुः ।
हे ओं हे क्रतो स्मर स्मर्तव्यमन्तकाले हि त्वत्स्मरणवशादिष्टा गतिः प्राप्यतेऽतः प्रार्थ्यते यन्मया कृतं तत्स्मर पुनरुक्तिरादरार्था ।
किञ्च हेऽग्ने नय प्रापय सुपथा शोभनेन मार्गेण राये धनाय कर्मफलप्राप्तय इत्यर्थः ।
न दक्षिणेन कृष्णेन पुनरावृत्तियुक्तेन किं तर्हि शुक्लेनैव सुपथास्मान्विश्वानि सर्वाणि हे देव वयुनानि प्रज्ञानानि सर्वप्राणिनां विद्वान् ।
किञ्च युयोध्यपनय वियोजयास्मदस्मत्तो जुहुराणं कुटिलमेनः पापं पापजातं सर्वम् ।
तेन पापेन वियुक्ता वयमेष्याम उत्तरेण पथा त्वत्प्रसादात् ।
किन्तु वयं तुभ्यं परिचर्यां कर्तुं न शक्नुमो भूयिष्ठां बहुतमां ते तुभ्यं नमौक्तिं नमस्कारवचनं विधेम नमस्कारोक्त्या परिचरेमेत्यर्थः ।
अन्यत्कर्तुमशक्ताः सन्त इति ॥१ ॥ ॥

इति श्रीमद्बृहदारण्यकोपनिषदि पञ्चमाध्यायस्य पञ्चदशं ब्राह्मणम् ॥१५ ॥

इति बृहदारण्यकोपनिषदि पञ्चमोध्यायः ॥५॥

अध्याय ६[सम्पाद्यताम्]


अथ षष्ठोऽध्यायः
अथ षष्ठाध्यायस्य प्रशमं ब्राह्मणम्



_______________________________________________________________________

६,१.१

यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
प्राणो वै ज्येष्ठश्च श्रेष्ठश्च ।
ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद ॥ _६,१.१ ॥


__________


शा.भा._६,१.१ ओं प्राणो गायत्रीत्युक्तम् ।
कस्मात्पुनः कारणात्प्राणभावो गायत्र्या न पुनर्वागादिभाव इति यस्माज्ज्येष्ठश्च श्रेष्ठश्च प्राणो न वागादयो ज्यैष्ठ्यश्रैष्ठ्यभाजः ।
कथं ज्येष्ठत्वं श्रेष्ठत्वं च प्राणस्योति तन्निर्दिधारयिषयेदमारभ्यते ।
अथवोक्थयजुः सामक्षत्त्रादिभावैः प्राणस्यैवोपासनमभिहितं सत्स्वप्यन्येषु चक्षुरादिषु ।
तत्र हेतुमात्रमिहाऽनन्तर्येण संबध्यते ।
न पुनः पूर्वशेषता ।
विवक्षितं तु खिलत्वादस्य काण्डस्य पूर्वत्र यदनुक्तं विशिष्टफलं प्राणविषयमुपासनं तद्वक्तव्यमिति ।
यः कश्चिद्ध वा इत्यावधारणर्छै ।
यो ज्येष्ठश्रेष्ठगुणं वक्ष्यमाणं यो वेदासौ भवत्येव ज्येष्ठश्च श्रेष्ठश्च ।
एवं फलेन प्रलोभितः सन्प्रश्नायामुखीभूतस्तस्मै चाऽहप्राणो वै ज्येष्ठश्च श्रेष्ठश्चेति ।
कथं पुनरवगम्यते प्राणो ज्येष्ठश्च श्रेष्ठश्चेति ।
यस्मान्निषेककाल एव शुक्रशोणितसंम्बन्धः प्राणादिकलापस्याविशिष्टः ।
तथापि नाप्राणं शुक्रं विरोहतीति प्रथमो वृत्तिलाभः प्राणस्य चक्षुरादिभ्यः ।
अतः ज्येष्ठो वयसा प्राणः ।
निषेककालदारभ्य गर्भं पुष्यति प्राणः ।
प्राणे हि लब्धवृत्तौ पश्चाच्चक्षुरादीनां वृत्तिलाभः ।
अतोयुक्तं प्राणस्य ज्येष्ठत्वं चक्षुरादिषु ।
भवति तु कश्चित्कुले ज्येष्ठो गुणहीनत्वात्तु न श्रेष्ठः ।
मध्यमः कनिष्ठो वा गुणाढ्यत्वाद्भवेच्छ्रेष्ठो न ज्येष्ठः ।
न तु तथेहेत्याहप्राण एव तु ज्येष्ठश्च श्रेष्ठश्च ।
कथं पुनः श्रैष्ठ्यमवगम्यते प्राणस्य तदिह संवादेनदर्शयिष्यामः ।
सर्वथापि तु प्राणं ज्येष्ठश्रेष्ठगुणं यो वेदोपास्ते स स्वानां ज्ञातीनां ज्येष्ठश्च श्रेष्ठश्च भवति ।
ज्येष्ठश्रेष्ठगुणोपासनसामर्थ्यात्स्वव्यतिरेकेणापि च येषां मध्ये ज्येष्ठश्च श्रेष्ठश्च भविष्यामीति बुभूषति भवितुमिच्छति तेषामपि ज्येष्ठश्रेष्ठप्राणदर्शी ज्येष्ठश्च श्रेष्ठश्च भवति ।
ननु वयेनिमित्तं ज्येष्ठत्वं तदिच्छातः कथं भवतीत्युच्यते ।
नैष दोषः ।
प्राणवद्वृत्तिलाभस्यैव ज्येष्ठत्वस्य विवक्षितत्वात् ॥१॥



_______________________________________________________________________

६,१.२

यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति ।
वाग्वै वसिष्ठा ।
वसिष्ठः स्वानां भवति ।
अपि च येषां बुभूषति ।
य एवं वेद ॥ _६,१.२ ॥


__________


शा.भा._६,१.२ यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति ।
तद्दर्शनानुरूपेण फलम् ।
येषां च ज्ञातिव्यतिरेकेण वसिष्ठो भवितुमिच्छति तेषां च वसिष्ठो भवति ।
उच्यतां तर्हि कासौ वसिष्ठेति ।
वाग्वै वसिष्ठा ।
वासयत्यतिशयेन वस्ते वेति वसिष्ठा ।
वाग्ग्मिनो हि धनवन्तो वसन्त्यतिशयेन ।
आच्छादनार्थस्य वा वसेर्वसिष्ठा ।
अभिभवन्ति हि वाचा वाग्ग्मिनोऽन्यान् ।
तेन वसिष्ठगुणवत्परिज्ञानाद्वसिष्ठगुणो भवतीति दर्शनानुरूपं फलम् ॥२॥



_______________________________________________________________________

६,१.३

यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे ।
प्रतितिष्ठति दुर्गे ।
चक्षुर्वै प्रतिष्ठा ।
चक्षुषा हि समे च दुर्गे च प्रतितिष्ठति ।
प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे ।
य एवं वेद ॥ _६,१.३ ॥


__________


शा.भा._६,१.३ यो ह वै प्रतिष्ठां वेद प्रतितिष्ठत्यनयेति प्रतिष्ठा तां प्रतिष्ठां प्रतिष्ठागुणवतीं यो वेद तस्यैतत्फलं प्रतितिष्ठति समे देशे काले च ।
तथा दुर्गे विषमे च दुर्गमने च देशे दुर्भिक्षादौ वा काले विषमे ।
यद्येवमुच्यतां कासौ प्रतिष्ठा ।
चक्षुर्वै प्रतिष्ठा ।
कथं चक्षुषः प्रतिष्ठात्वमित्याहचक्षुषा हि समे च दुर्गे दृष्टवा प्रतितिष्ठति ।
अतोऽनुरूपं फलं प्रतितिष्ठति समे प्रतितिष्ठति दुर्गे य एवं वेदेति ॥३॥



_______________________________________________________________________

६,१.४

यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते ।
श्रोत्रं वै संपत् ।
श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः ।
सं हास्मै पद्यते यं कामं कामयते ।
य एवं वेद ॥ _६,१.४ ॥


__________


शा.भा._६,१.४ यो ह वै सम्पदं वेद सम्पद्गुणयुक्तं यो वेद तस्यैतत्फलमस्मै विदुषे संपद्यते ह ।
किम् ।
यं कामं कामयते स कामः ।
किं पुनः संपद्गुणकम् ।
श्रोत्रं वै संपत् ।
कथं पुनः श्रोत्रस्य संपद्गुणत्वमिति ।
उच्यतेश्रोत्रे सति हि यस्मात्सर्वे वेदा अभिसम्पन्नाः श्रोत्रेन्द्रियवतोऽध्येयत्वात् ।
वेदविहितकर्मायत्ताश्च कामास्तस्माच्छ्रोत्रं संपत् ।
अतो विज्ञानानुरूपं फलम् ।
सं हास्मै पद्यते यं कामं कामयते य एवं वेद ॥४॥



_______________________________________________________________________

६,१.५

यो ह वा आयतनं वेदायतनं स्वानां भवत्यायतनं जनानाम् ।
मनो वा आयतनम् ।
आयतनं स्वानां भवत्यायतनं जनानाम् ।
य एवं वेद ॥ _६,१.५ ॥


__________


शा.भा._६,१.५ यो ह वा आयतनं वेद ।
आयतनमाश्रयस्तद्यो वेदाऽयतनं स्वानां भवत्यायतनं जनानामन्येषामपि ।
किं पुनस्तदायतनमिति ।
उच्यतेमनो वा आयतनमाश्रय इन्द्रियाणां विषयाणां च ।
मनआश्रिता हि विषया आत्मनो भोग्यत्वं प्रतिपद्यन्ते ।
मनःसंकल्पवशानि चेन्द्रियाणि प्रवर्तन्ते निवर्तन्ते च ।
अतो मन आयतनमिन्द्रियाणाम् ।
अतो दर्शनानुरूपेण फलमायतनं स्वानां भवत्यायतनं जनानां य एवं वेद ॥५॥



_______________________________________________________________________

६,१.६

यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिः ।
रेतो वै प्रजातिः ।
प्रजायते ह प्रजया पशुभिः ।
य एवं वेद ॥ _६,१.६ ॥


__________


शा.भा._६,१.६ यो ह वै प्रजातिं वेद प्रजायते ह प्रजया पशुभिश्च सम्पन्नो भवति ।
रेतो वै प्रजातिः ।
रेतसा प्रजननेन्द्रियमुपलक्ष्यते ।
तद्विज्ञानानुरूपं फलं प्रजायते ह प्रजया पशुभिर्य एवं वेद ॥६॥



_______________________________________________________________________

६,१.७

ते हेमे प्राणा अहंश्रेयसे विवदमाना ब्रह्म जग्मुः ।
तद्धोचुः को नो वसिष्ठ इति ।
तद्धोवाच यस्मिन् व उत्क्रान्त इदं शरीरं पापियो मन्यते स वो वसिष्ठ इति ॥ _६,१.७ ॥


__________


शा.भा._६,१.७ ते हेमे प्राणा वागादयोऽहंश्रेयसेऽहं श्रेयानित्येतस्मै प्रयोजनाय विवदमाना बिरुद्धं वदमाना ब्रह्म जग्मुर्ब्रह्म गतवन्तो ब्रह्मशब्दवाच्यं प्रजापति गत्वा च तद्ब्रह्म होचुरुक्तवन्तः ।
को नोऽस्माकं मध्ये वसिष्ठः कोऽस्माकं मध्ये वसति च वासयति च ।
तद्ब्रह्म तैः पृष्टं सद्धोवाचोक्तवद्यस्मिन्वो युष्माकं मध्य उत्क्रान्ते निर्गते शरीरादिदं शरीरं पूर्वस्मादतिशयेन पापीयः पापतरं मन्यते लोकः ।
शरीरं हि नामानेकाशुचिसंधातत्वाज्जीवतोऽपि पापमेव ततोऽपि कष्टतरं यस्मिन्नुत्क्रान्ते भवति ।
वैराग्यार्थमिदमुच्यतेपापीय इति ।
स वो युष्माकं मध्ये वसिष्ठो भविष्यति जानन्नपि वसिष्ठं प्रजापतिर्तोवाचायं वसिष्ठ इतीतरेषामप्रियपरिहाराय ॥७॥



_______________________________________________________________________

६,१.८

वाग्घोच्चक्राम ।
सा संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथाकला अवदन्तो वाचा प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह वाक् ॥ _६,१.८ ॥


__________


शा.भा._६,१.८ त एवमुक्ता ब्रह्मणा प्राणा आत्मनो वीर्यपरीक्षणाय क्रमेणोच्चक्रमुः ।
तत्र वागेव प्रथमं हास्माच्छरीरादुच्चक्रामोत्क्रान्तवती ।
सा चोत्क्रम्य संवत्सरं प्रोष्य प्रोषिता भूत्वा पुनरागत्योवाचकथमशकत शक्तवन्तो यूयं मदृते मां विना जीवितुमिति ।
त एवमुक्ता ऊचुर्यथा लोकेऽकला मूका अवदन्तो वाचा प्राणन्तः प्राणनव्यापारं कुर्वन्तः प्राणेन पश्यन्तो दर्शनव्यापारं चक्षुषा कुर्वन्तस्तथा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा कार्याकार्यादिविषयं प्रजायमाना रेतसा पुत्रानुत्पादयन्त एवमजीविष्म वयमित्येवं प्राणैर्दत्तोत्तरा वागात्मनोऽस्मिन्नवसिष्ठत्वं बुद्ध्वा प्रविवेश ह वाक् ॥८॥



_______________________________________________________________________

६,१.९१२

चक्षुर्होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथान्धा अपश्यन्तश्चक्षुषा प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह चक्षुः ॥ _६,१.९ ॥


श्रोत्रं होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा बधिरा अशृण्वन्तः श्रोत्रेण प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा विद्वांसो मनसा प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह श्रोत्रम् ॥ _६,१.१० ॥



मनो होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा मुग्धा अविद्वांसो मनसा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण प्रजायमाना रेतसैवमजीविष्मेति ।
प्रविवेश ह मनः ॥ _६,१.११ ॥


रेतो होच्चक्राम ।
तत्संवत्सरं प्रोष्यागत्योवाच कथमशकत मदृते जीवितुमिति ।
ते होचुः यथा क्लीबा अप्रजायमाना रेतासा प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण विद्वांसो मनसैवमजीविष्मेति ।
प्रविवेश ह रेतः ॥ _६,१.१२ ॥



__________


शा.भा._६,१.९१२ तथा चक्षुर्हेच्चक्रामेत्यादि पूर्ववत् ।
श्रोत्रं मनः प्रजातिरित ॥९१२ ॥



_______________________________________________________________________

६,१.१३

अथ ह प्राण उत्क्रमिष्यन् यथा महासुहयः सैन्धवः पड्वीशशङ्खून्त्संवृहेदेवं हैवेमान् प्राणान्त्संववर्ह ।
ते होचुः मा भगव उत्क्रमीः ।
न वै शक्ष्यामस्त्वदृते जीवितुमिति ।
तस्यो मे बलिं कुरुतेति ।
तथेति ॥ _६,१.१३ ॥


__________


शा.भा._६,१.१३ अथ ह प्राण उत्क्रमिष्यन्नुत्क्रममं करिष्यंस्तदानीमेव स्वस्थानात्प्रचलिता वागादयः ।
किमिवेत्याहयथा लोके महांश्चासौ सुहयश्च महासुहयः शोभनो हयो लक्षणोपेतो महान्परिमाणतः सिन्धुदेशे भवः सैन्धवोऽभिजनतः पड्वीशशङ्कून्पादबन्धनशङ्कून्पड्वीशाश्च ते शङ्कवश्च तान् संवृहेदुद्यच्छेद्युगपदुत्खनेदश्वारोह आरूढे परीक्षणाय ।
एवं हैवेमान्वागादीन्प्राणान्संववर्हेद्यतवान्स्वस्थानाद्भ्रंशितवान् ।
ते वागादयो होचुर्हे भगवो भगवन्मोत्क्रमीर्यस्मान्नवै शक्ष्यामस्त्वदृते त्वां विना जीवितुमिति ।
यद्येवं मम श्रेष्ठता विज्ञाता भवद्भिरहमत्र श्रेष्ठस्तस्य उ मे मम बलिं करं कुरुत करं प्रयच्छतेति ।
अयं च प्राणसम्वादः कल्पितो विदुषः श्रेष्ठपरीक्षणप्रकारोपदेशः ।
अनेन हि प्रकारेण विद्वान्को नु खल्वत्र श्रेष्ठ इति परीक्षणं करोति ।
स एष परीक्षणप्रकारः सम्वादभूतः कथ्यते ।
न ह्यन्यथा संहत्यकारिणां सतामेषामञ्जसैव संवत्सरमात्रमेवैकैकस्य निर्गमनाद्युपपद्यते ।
तस्माद्विद्वानेवानेन प्रकारेण विचारयति वागादीनां प्रधानबुभुत्सुरुपासनाय ।
बलिं प्रार्थिताः सन्तः प्राणास्तथेति प्रतिज्ञातवन्तः ॥१३॥



_______________________________________________________________________

६,१.१४

सा ह वागुवाच यद्वा अहं वसिष्ठास्मि त्वं तद्वसिष्ठोऽसीति ।
यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति चक्षुः ।
यद्वा अहं संपदस्मि त्वं तत्संपदसीति श्रोत्रम् ।
यद्वा अहमायतनमस्मि त्वं तदायतनमसीति मनः ।
यद्वा अहं प्रजातिरस्मि त्वं तत्प्रजातिरसीति रेतः ।
तस्यो मे किमन्नं किं वास इति ।
यदिदं किञ्चा श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यस्तत्तेऽन्नम् ।
आपो वास इति ।
न ह वा अस्यानन्नं जग्धं भवति नानन्नं प्रतिगृहीतं य एवमेतदनस्यान्नं वेद ।
तद्विद्वांसः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वाचामन्ति ।
एतमेव तदन्नमनग्नं कुर्वन्तो मन्यन्ते ॥ _६,१.१४ ॥


__________


शा.भा._६,१.१४ सा ह वाक्प्रथमं बलिदानाय प्रवृत्ता ह किलोवाचोक्तवती यद्वा अहं वसिष्ठास्मि यन्मम वसिष्ठत्वं तत्तवैव तेन वसिष्ठगुणेन त्वं तद्वसिष्ठोऽसीति ।
यद्वा अहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसि या मम प्रतिष्ठा सा त्वमसीति ।
चक्षुः ।
समानमन्यत् ।
सम्पदायतनप्रजातित्वगिणान्क्रमेण समर्पितवन्तः ।
यद्येवं साधु बलिं दत्तवन्तो भवन्तो ब्रूत तस्य उ म एवङ्गुणविशिष्टस्य किमन्नं किं वास इति ।
आहुरितरेयदिदं लोके किञ्च किञ्चिदन्नं नामाप्या श्वभ्य आ कृमिभ्य आ कीटपतङ्गेभ्यः ।
यच्च श्वान्नं कृभ्यन्नं कीटपतङ्गान्नं च तेन सह सर्वमेव यत्किञ्चित्प्राणिभिरद्यमानमन्नं तत्सर्वं तवान्नं सर्वं प्राणस्यान्नमिति दृष्टिरत्र विधीयते ।
केचितु सर्वभक्षणे दोषाभावं वदन्ति प्राणान्नविदः ।
तदसत् ।
शास्रान्तरेण प्रतिषिद्धत्वात् ।
तेनास्य विकल्प इति चेत् ।
न ।
अविधायकत्वात् ।
न ह वा अस्यानन्नं जग्धं भवतीति सर्वं प्राणस्यान्नमित्येतस्य विज्ञानस्य विहितस्य स्तुत्यर्थमेतत् ।
तेनैकवाक्यतापत्तेः ।
न तु शास्रान्तरविहितस्य बाधने सामर्थ्यमन्यपरत्वादस्य ।
प्राणमात्रस्य सर्वमन्नमित्येतद्दर्शनमिहि विधित्सितं न तु सर्वं भक्षयेदिति ।
यत्तु सर्वभक्षणे दोषाभावज्ञानं सन्मिथ्यैव प्रमाणाभावात् ।
विदुषः प्राणत्वात्सर्वान्नोपपत्तेः सामर्थ्याददोष एवेति चेत् ।
न ।
अशेषान्नत्वानुपपत्तेः ।
सत्यं यद्यपि विद्वान्प्राणो येन कार्यतकरणसंघातेन विशिष्टस्य विद्वत्ता तेन कार्यकरणसंघातेन कृमिकीटदेवाद्यशेषान्नभक्षणं नोपपद्यते ।
तेन तत्राशेषान्नभक्षणे दोषाभावज्ञापनमनर्थकम् ।
अप्राप्तत्वादशेषान्नभक्षणदोषस्य ।
ननु प्राणः सन्भक्षयत्येव कृमिकीटाद्यन्नमपि ।
बाढम् ।
किन्तु न तद्विषयः प्रतिषेधोऽस्ति ।
तस्माद्दैवरक्तं किंशुकं तत्र दोषाभावः ।
अतस्तद्रूपेण दोषाभावज्ञापनमनर्थकम् ।
अप्राप्तत्वादशेषान्नभक्षणदेषस्य ।
येन तु कार्यकरणसंघातसम्बन्धेन प्रतिषेधः क्रियते तत्सम्बन्धेन त्विह नैव प्रतिप्रसवोऽस्ति ।
तस्मात्तत्प्रतिषेधातिक्रमे दोष एव स्यादन्यविषयत्वान्न ह वा इत्यादेः ।
न च ब्राह्मणादिशरीरस्य सर्वान्नत्वदर्शनमिह विधीयते किन्तु प्राणमात्रस्यैव ।
यथा च सामान्येन सर्वान्नस्य प्राणस्य किञ्चिदन्नजातं कस्यचिज्जीवनहेतुः ।
यथा विषं विषजस्य क्रिमेस्तदेवान्यस्य प्राणान्नमपि सद्दृष्टमेव दोषमुत्पादयति मरणादिलक्षणम् ।
तथा सर्वान्नस्यापि प्राणस्य प्रतिषिद्धान्नभक्षणे ब्राह्मणत्वादिदेहसंबन्धाद्दोष एव स्यात् ।
तस्मान्मिथ्याज्ञानमेवाभक्ष्यभक्षणे दोषाभावज्ञानम् ।
आपो वास इत्यापो भक्षमाणा वासःस्थानीयास्तव ।
अत्र च प्राणस्याऽपो वास इत्येतद्दर्शनं विधीयते ।
न तु वासःकार्ये आपो विनियोक्तुं शक्याः ।
तस्माद्यथाप्राप्तेऽब्भक्षणे दर्शनमात्रं कर्तव्यम् ।
न ह वा अस्य सर्वं प्राणस्यान्नमित्येवंविदोऽनन्नमनदनीयं जग्धं भुक्तं न भवति ह ।
यद्यप्यनेनानदनीयं भुक्तमदनीयमेव भुक्तं स्यान्न तु तत्कृतदोषेण लिप्यत इत्येतद्विद्यास्तुतिरित्यवोचाम ।
तथा नानन्नं प्रतिगृहीतं यद्यप्यप्रतिघ्राह्यं हस्त्यादि प्रतिगृहीतं स्यात्तदप्यन्नमेव प्रतिग्राह्यं स्यात्तत्राप्यप्रतिग्राह्यप्रतिग्रहदोषेण न लिप्यत इति स्तुत्यर्थमेव य एवमेतदनस्य प्राणस्यान्नं वेद ।
फलं तु प्राणात्मभाव एव न त्वेतत्फलाभिप्रायेण किं तर्हि स्तुत्यभिप्रायेणेति ।
नन्वेतदेव फलं कस्मान्न भवति ।
न प्राणात्मदर्शिनः प्राणात्मभाव एव फलम् ।
तत्र च प्राणात्मभूतस्य सर्वात्मनोऽनदनीयमप्याद्यमेव ।
तथाप्रतिग्राह्यमपि प्रतिग्राह्यमेवेति यथाप्राप्तमेवोपादाय विद्या स्तूयते ।
अतो नैव फलविधिसरूपता वाक्यस्य ।
यस्मादापो वासः प्राणस्य तस्माद्विद्वांसो ब्राह्मणाः श्रोत्रिया अधीतवेदा अशिष्यन्तो भोक्ष्यमाणा आचामन्त्यपोऽशित्वाऽचामन्ति भुक्त्या चोत्तरकालमपो भक्षयन्ति ।
तत्र तेषामाचामतां कोऽभिप्राय इत्याहएतमेवानं प्राणमनग्नं कुर्वन्तो मन्यन्ते ।
अस्ति चैतद्योयस्मै वासो ददाति स तमनग्नं करोमीति हि मन्यते ।
प्राणस्य चाऽपो वास इति ह्युक्तम् ।
यदपः पिबामि तत्प्राणस्य वासो ददामीति विज्ञानं कर्तव्यमित्येवमर्थमेतत् ।
ननु भोक्ष्यमाणो भुक्तवांश्च प्रयतो भविष्यामीत्याचामति ।
तत्र च प्राणस्यानग्नताकरणार्थत्वे च द्विकार्यताऽचमनस्य स्यात् ।
न च कार्यद्वयमाचमनस्यैकस्य युक्तम् ।
यदि प्रायत्यार्थं नानग्नतार्थमथानग्नतार्थं न प्रायत्यार्थम् ।
यस्मादेवं तस्माद्द्वितीयमाचमनान्तरं प्राणस्यानग्नताकरणाय भवतु ।
न ।
क्रियाद्वित्वोपपत्तेः ।
द्वे ह्येते क्रिये भोत्र्यमाणस्य भुक्तवतश्च यदाचमनं स्मृतिविहितं तत्प्रायत्यार्थं भवति ।
क्रियामात्रमेव न तु तत्र प्रायत्यं दर्शनाद्यपेक्षते ।
तत्र चाऽचमनाङ्गभूतास्वप्सु वासोविज्ञानं प्राणस्येतिकर्तव्यतया चोद्यते न तु तस्मिन्क्रियमाण आचमनस्य प्रायत्यर्थता वाध्यते क्रियान्तरत्वादाचमनस्य ।
तस्माद्भोक्ष्यमाणस्य भुक्तवतश्च यदाचमनं तत्रा ।
आपो वासः प्राणस्येति दर्शनमात्रं विधीयते ।
अप्राप्तत्वादन्यतः ॥१४॥

इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य प्रथमं ब्राह्मणम् ॥१॥



_______________________________________________________________________

६,२.१

श्वेतकेतुर्वा आरुणेयः पन्चालानां परिषदमाजगाम ।
स आजगाम जैवलिं प्रवाहणं परिचारयमाणम् ।
तमुदीक्ष्याभ्युवाद कुमारा३ इति ।
स भो३ इति प्रतिशुश्राव ।
अनुशिष्टो न्वसि पित्रेति ।
ओमिति होवाच ॥ _६,२.१ ॥


__________

शा.भा._६,२.१ श्वेतकेतुर्ह वा आरुणेयः इत्यस्य संबन्धः ।
खिलाधिकारोऽयं तत्र यदनुक्तं तदुच्यते ।
सप्तमाध्यायान्ते ज्ञानकर्मसमुच्चयकारिणाग्नेर्मार्गयाचनं कृतमग्ने नय सुपथेति ।
तत्रानेकेषां पथां सद्भावो मन्त्रेण सामर्थ्यात्प्रदर्शितः ।
सुपथेति विशेषणात् ।
पन्थानश्च कृतविपाकप्रतिपत्तिमार्गाः ।
वक्ष्यति च यत्कृत्वेत्यादि ।
तत्र च कति कर्मविपाकप्रतिपत्तिमार्गा इति सर्वसंसारगत्युपसंहारार्थोऽयमारम्भः ।
एतावती हि संसारगतिः ।
एतावान्कर्मणो विपाकः स्वाभाविकस्य शास्रीयस्य च सविज्ञानस्येति ।
यद्यपि द्वया ह प्राजापत्या इत्यत्र स्वाभाविकः पाप्मा सूचितः ।
न च तस्येदं कार्यमिति विपाकः प्रदर्शितः ।
शास्रीयस्यैव तु विपाकः प्रदर्शितस्त्र्यन्नात्मप्रतिपत्त्यन्तेन ।
ब्रह्मविद्यारम्भे तद्वैराग्यस्य विवक्षितत्वात् ।
तत्रापि केवलेन कर्मणा पितृलोको विद्यया विद्यासंयुक्तेन च कर्मणा देवलोक इत्युक्तम् ।
तत्र केन मार्गेण पितृलोकं प्रतिपद्यते केन वा देवलोकमिति नोक्तम् ।
तच्चेह खिलप्रकरणेऽशेषतो वक्तव्यमित्यत आरभ्यते ।
अन्ते च सर्वोपसंहारः शास्रस्येष्टः ।
अपि चैतावदमृतत्वमित्युक्तं न कर्मणोऽमृतत्वाशास्तीति च तत्र हेतुर्नोक्तस्तदर्थश्चायमारम्भः ।
यस्मादियं कर्मणो गतिर्न नित्येऽमृतत्वे व्यापारोऽस्ति तस्मादेतावदेवामृतत्वसाधनमिति सामर्थ्याद्धेतुत्वं संपद्यते ।
अपि चोक्तमग्निहोत्रे न त्वेवैनयोस्त्वमुत्क्रातिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृतिं न लोकं प्रत्युत्थायिनं वेत्थेति ।
तत्र प्रतिवचने ते वा एते आहुती हुते उत्क्रामत इत्यादिना आहुतेः कार्यमुक्तम् ।
तच्चैतत्कर्तुराहुतिलक्षणस्य कर्मणः फलम् ।
न हि कर्तारमनाश्रित्याऽहुतिलक्षणस्य कर्मणः स्वातन्त्र्येणोत्क्रान्त्यादिकार्यारम्भ उपपद्यते ।
कर्त्रर्थत्वात्कर्मणः कार्यारम्भस्य ।
साधनाश्रयत्वाच्च कर्मणः ।
तत्राग्निहोत्रस्तुत्यर्थत्वादग्निहोत्रस्यैव कार्यमित्युक्तं षट्प्रकारमपि ।
इह तु तदेव कर्तुः फलमित्युपदिश्यते ।
षट्प्रकारमपि कर्मफलविज्ञानस्य विवक्षितत्वात् ।
तद्द्वारेण च पञ्चाग्निदर्शनमिहोत्तरमार्गप्रतिपत्तिसाधनं विधित्सितम् ।
एवमशेषसंसारगत्युपसंहारः ।
कर्मकाण्डस्यैषा निष्ठेत्येतद्द्वयं दिदर्शयिषुराख्यायिकां प्रणयति ।
श्वेतकेतुर्नामतोऽरुणस्यापत्यमारुणिस्तस्यापत्यमारुणेयः ।
हशब्द ऐतिह्यार्थः ।
वै निश्चयार्थः ।
पित्रानुशिष्टः सन्नात्मनो यशःप्रथनाय पञ्चालानां परिषदमागत्य जित्वा राज्ञोऽपि परिषदं जेष्यामीति गर्वेण स आजगाम ।
जीवलस्यापत्यं जेवलिं पञ्चालराजं प्रवाहणनामानंस्वभृत्यैः परिचारयमाणमात्मनः परिचरणं कारयन्तमित्येतत् ।
स राजा पूर्वमेव तस्य विद्याभिमानगर्वं श्रुत्वा विनेतव्योऽयमिति मत्वा तमुदीक्ष्योत्प्रेक्ष्याऽगतमात्रमेवाभ्युवादाभ्युक्तवान्कुमारा३ ति संबोध्य ।
भर्त्सनार्था प्लुतिः ।
एवमुक्तः स प्रतिशुश्राव भो३ ति ।
भो३ त्यप्रतिरूपमपि क्षत्त्रियं प्रत्युक्तवान्क्रुद्धः सन् ।
अनुशिष्टोऽनुशासितोऽसि भवसि किं पित्रेत्युवाच राजा ।
प्रत्याहेतर ओंमिति बाढमनुशिष्टोऽस्मि पृच्छ यदि संशयस्ते ॥१॥



_______________________________________________________________________

६,२.२

वेत्थ यथेमाः प्रजाः प्रयत्यो विप्रतिपद्यन्ता३ इति ।
नेति होवाच ।
वेत्थो यथेमं लोकं पुनरापद्यन्ता३ इति ।
नेति हैवोवाच ।
वेत्थो यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न संपूर्यता३ इति ।
नेति हैवोवाच ।
वेत्थो यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति ।
नेति हैवोवाच ।
वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा ।
यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यन्ते पितृयाणं वा ।
अपि हि न ऋषेर्वचः श्रुतं
द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति ।
नाहमत एकं चन वेदेति होवाच ॥ _६,२.२ ॥


__________


शा.भा._६,२.२ यद्येवं वेत्थ विजानासि किं यथा येन प्रकारेणेमाः प्रजाः प्रसिद्धाः प्रयत्यो म्रियमाणा विप्रतिपद्यन्ता३ ति विप्रतिपद्यन्ते विचारणार्था प्लुतिः ।
समानेन मार्गेण गच्छन्तीनां मार्गद्वैविध्यं यत्र काश्चित्प्रजा अन्येन मार्गेण गच्छन्ति काश्चिदन्येनेति विप्रतिपत्तिः ।
यथा ताः प्रजा विप्रतिपद्यन्ते तत्किं वेत्थेत्यर्थः ।
नेति होवाचेतरः ।
तर्हि वेत्थ उ यथेमं लोकं पुनरापद्यन्ता३ ति पुनरापद्यन्ते यथा पुनरागच्छन्तीमं लोकम् ।
नेति हैवोवाच श्वेतकेतुः ।
वेत्थो यथासौ लोकः एवं प्रसिद्धेन न्यायेन पुनः पुनरसकृत्प्रयद्भिर्मरियमाणैर्यथायेन प्रकारेण न संपूर्यता३ ति न संपूर्यतेऽसौ लोकस्तत्किं वेत्थ ।
नेति हैवोवाच ।
वेत्थो यतिथ्यां यत्संख्याकायामाहुत्यामाहुतौ हुतायामापः पुरुषवाचः पुरुषस्य या वाक्सैव यासां वाक्ताः पुरुषवाचो भूत्वा पुरुषशब्दवाच्या वा भूत्वा ।
यदा पुरुषाकारपरिणतास्तदा पुरुषवाचो भवन्ति ।
समुत्थाय सम्यगुत्थायोद्भूताः सत्यो वदन्ती३ ति ।
नेति हैवोवाच ।
पुरुषाकारपरिणतास्तदा पुरुषवाचो भवन्ति ।
समुत्थाय सम्यगुत्थायोद्भूताः सत्यो वदन्ती३ ति ।
नेति हैवोवाच ।
यद्येवं वेत्थ उ देवयानस्य पथो मार्गस्य प्रतिपदं प्रतिपद्यते येन सा प्रतिपत्तां प्रतिपदं पितृयाणस्य वा प्रतिपदं प्रतिपच्छब्दवाच्यमर्थमाह ।
यत्कर्म कृत्वा यथाविशिष्टं कर्म कृत्वेत्यर्थः ।
देवयानं वा पन्थानं मार्गं प्रतिपद्यन्ते पितृयाणं वा यत्कर्म कृत्वा प्रतिद्यन्ते तत्कर्म प्रतिपदिच्यते तां प्रतिपदं किं वेत्थ देवलोकपितृलोकप्रतिपत्तिसाधनं किं वेत्थेत्यर्थः ।
अप्यत्रास्यार्थस्य प्रकाशकमृषेर्मन्त्रस्य वचो वाक्यं नः श्रुतमस्ति ।
मन्त्रोऽप्यस्यार्थस्य प्रकाशको विद्यत इत्यर्थः ।
कोऽसौ मन्त्र इति ।
उच्यतेद्वे सृती द्वौ मार्गावशृणवं शृतवानस्मि तयोरेका पितृणां प्रापिका पितृलोकसंबद्धा तया सृत्या पितृलोकं प्राप्नोतीत्यर्थः ।
अहमशृणवमिति व्यवहितेन संबन्धः ।
देवानामुतापि देवानां संबन्धिन्यन्या देवान्प्रापयति सा ।
के पुनरुभाभ्यां सृतिभ्यां पितॄन्देवांश्च गच्छन्तीति ।
उच्यतेउतापि मर्त्यानां मनुष्याणां संबन्धिन्यौ मनुष्या एव हि सृतिभ्यां गच्छन्तीत्यर्थः ।
ताभ्यां सृतिह्यामिदं विश्वं समस्तमेतद्गच्छत्समेति संगच्छते ।
ते च द्वे सृती यदन्तरा ययोरन्तरा यदन्तरा पितरं मातरं च मातापित्रोरन्तरा मध्य इत्यर्थः ।
कौ तौ मातापितरौ द्यावापृथिव्यावण्डकपाले ।
इयं वै मातासौ पितेति हि व्याख्यातं ब्राह्मणेन ।
अण्डकपालयोर्मध्ये संसारविषये एवैते सृती नाऽत्यन्तिकामृतत्वगमनाय ।
इतर आहनाहमतोऽस्मात्प्रश्नसमुदायादेकञ्चनैकमपि प्रश्नं न वेद नाहं वेदेति होवाच श्वेतकेतुः ॥२॥



_______________________________________________________________________

६,२.३

अथैनं वसत्योपमन्त्रयां चक्रे ।
अनादृत्य वसतिं कुमारः प्रदुद्राव ।
स आजगाम पितरम् ।
तं होवाच इति वाव किल नो भवान् पुरानुशिष्टानवोच इति ।
कथं सुमेध इति ।
पञ्च मा प्रश्नान् राजन्यबन्धुरप्राक्षीत् ।
ततो नैकं चन वेदेति ।
कतमे त इति ।
इम इति ह प्रतीकान्युदाजहार ॥ _६,२.३ ॥


__________


शा.भा._६,२.३ अथानन्तरमपनीय विद्याभिमानगर्वमेनं प्रकृतं श्वेतकेतुं वसत्या वसतिप्रयोजनेनोपमन्त्रयाञ्चक्रे ।
इह वसन्तु भवन्तः पाद्यमर्प्यं चाऽनीयतामित्युपमन्त्रणं कृतवान्राजा ।
अनादृत्य तां वसतिं कुमारः श्वेतकेतुः प्रदुद्राव प्रतिगतवान्पितरं प्रति ।
स चाऽजगाम पितरमागत्य चोवाच तं कथमिति वाव किलैवं किल नोऽस्मान्भवान्पुरा समावगतवान्पितरं प्रति ।
स चाऽजगाम पितरमागत्य चोवाच तं कथमिति वाव किलैवं किल नोऽस्मान्भवान्पुरा समावर्तनकालेऽनुशिष्टान्सर्वाभिर्विद्याभिरवोचोऽवोचदिति ।
सोपालम्भं पुत्रस्य वचः श्रुत्वाऽह पिता ।
कथ केन प्रकारेण तव दुःखमुपजातं हे सुमेधः शोभना मेधा यस्येति सुमेधाः ।
शृणु मम यथा वृत्तं पञ्च पञ्चसंख्याकान्प्रश्नान्मा मां राजन्यबन्धू राजन्या बन्धवो यस्येति ।
परिभववचनमेतद्राजन्यबन्धुरिति ।
अप्राक्षीत्पृष्टवांस्ततस्तस्मान्नैकञ्चनैकमपि न वेद न विज्ञातवानस्मि ।
कतमे ते राज्ञाः पृष्टाः प्रश्ना इति पित्रोक्तः पुत्र इमे त इति ह प्रतीकानि मुखानि प्रश्नानामुदाजहारोदाहृतवान् ॥३॥



_______________________________________________________________________

६,२.४

स होवाच तथा नस्त्वं तत जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचम् ।
प्रेहि तु तत्र ।
प्रतीत्य ब्रह्मचर्यं वत्स्याव इति ।
भवानेव गच्छत्विति ।
स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास ।
तस्मा आसनमाहृत्योदकमाहारयां चकार ।
अथ हास्मा अर्घ्यं चकार ।
तं होवाच वरं भगवते गौतमाय दद्म इति ॥ _६,२.४ ॥


__________

शा.भा._६,२.४ स होवाच पिता पुत्रं क्रुद्धमुपशमयंस्तथा तेन प्रकारेण नोऽस्मांस्त्वं हे तात वत्स जानीथा गृह्णीथा यथा यदहं किञ्च विज्ञानजातं वेद सर्वं ततुभ्यमवोचमित्येव जानीथाः ।
कोऽन्यो मम प्रियतरोऽस्ति त्वत्तो यदर्थंरक्षिष्ये ।
अहमप्येतन्न जानामि यद्राज्ञा पृष्टम् ।
तस्मात्प्रेह्यागच्छ तत्र प्रतीत्य गत्वा राज्ञि ब्रह्मचर्यं वत्स्यावो विद्यार्थमिति ।
स आह भवानेव गच्छत्विति नाहं तस्य मुखं निरीक्षितुमुत्सहे ।
स आजगाम गौतमो गोत्रतो गौतम आरुणिर्यत्र प्रवाहणस्य जैवलेरासाऽसनमास्थायिका षष्ठीद्वयं प्रथममास्थाने ।
तस्मै गौतमायाऽगतायाऽसनमनुरूपमाहृत्योदकं भृत्यैराहारयाञ्चकार ।
अथ हास्मा अर्ध्यं पुरोधसा कृतवान्मन्त्रवन्मधुपर्कं च ।
कृत्वा चैवं पूजां तं होवाच वरं भगवते गौतमाय तुभ्यं दद्भ इति गोश्वादिलक्षणम् ॥४॥



_______________________________________________________________________

६,२.५

स होवाच प्रतिज्ञतो म एष वरः ।
यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ _६,२.५ ॥


__________


शा.भा._६,२.५ स होवाच गौतमः प्रतिज्ञातो मे ममैष वरस्त्वयास्यां प्रतिज्ञायां दृढी कुर्वात्मानं यां तु वाचं कुमारस्य मम पुत्रस्यान्ते समीपे वाचमभाषथाः प्रश्नरूपां तामेव मे ब्रूहि स एव नो वर इति ॥५॥



_______________________________________________________________________

६,२.६

स होवाच दैवेषु वै गौतम तद्वरेषु ।
मानुषाणां ब्रूहीति ॥ _६,२.६ ॥


__________


शा.भा._६,२.६ स होवाच राजा दैवेषु वरेषु तद्वै गौतम यस्त्वं प्रार्थयसे मानुषाणामन्यतमं प्रार्थय वरम् ॥६॥



_______________________________________________________________________

६,२.७

स होवाच विज्ञायते हास्तिहिरण्यस्यापात्तं गोअश्वानां दासीनां प्रवाराणां परिधानस्य ।
मा नो भवान् बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति ।
स वै गौतम तीर्थेनेच्छसा इति ।
उपैम्यहं भवन्तमिति ।
वाचा ह स्मैव पूर्व उपयन्ति ।
स होपायनकीर्त्योवास ॥ _६,२.७ ॥


__________


शा.भा._६,२.७ स होवाच गौतमो भवतापि विज्ञायते ह ममास्ति सः ।
न तेन प्रार्थितेन कृत्यं मम यं त्वं दित्ससि मानुषं वरम् ।
यस्मान्ममाप्यस्ति हिरण्यस्य प्रभूतस्यापात्तं प्राप्तं गोऽअश्वानानामापात्तमस्तीति सर्वत्रानुषङ्गो दासीनां प्रवाराणां परिवाराणां परिधानस्य च ।
न च यन्मम विद्यमानं तत्त्वत्तः प्रार्थनीयं त्वया वा देयम् ।
प्रतिज्ञातश्च वरस्त्वया त्वमेव जानीषे यदत्र युक्तं प्रतिज्ञा रक्षणीया तवेति ।
मम पुनरयमभिप्रायो मा भून्नोऽस्मानभ्यस्मानेव केवलान्प्रति भवान्सर्वत्र वदान्यो भूत्वावदान्यो मा भूत्कदर्यो मा भूदित्यर्थः ।
बहोः प्रभूतस्यानन्तस्यानन्तफलस्येत्येतत् ।
अपर्यन्तस्यापरिसमाप्तिकस्य पुत्रपौत्रादिगामिकस्येत्येतत् ।
ईदृशस्य वित्तस्य मां प्रत्येव केवलमादाता मा भूद्भवान् ।
न चान्यत्रादेयमस्ति भवतः ।
एवमुक्त आहस त्वं वै हे गौतम तीर्थेन न्यायेन शास्रविहितेन विद्यां मत्त इच्छासा इच्छान्वाप्तुमित्युक्तो गौतम आहौपैम्युपगच्छामि शिष्यत्वेनाहं भवन्तमिति ।
वाचा ह स्मैव किल पूर्व ब्राह्मणाः क्षत्त्रियान्विद्यार्थिनः सन्तो वैश्यान्वा क्षत्त्रिया वा वैश्यानापद्युपयन्ति शिष्यवृत्त्या ह्युपच्छन्ति नोपायनशुश्रूषादिबिः ।
अतः ।
स गौतमो होपायनकोर्त्योपगमनकीर्तनमात्रेणैवोवासोषितवान्नोपायनं चकार ॥७॥



_______________________________________________________________________

६,२.८

स होवाच तथा नस्त्वं गौतम मापराधास्तव च पितामहाः ।
यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मन उवास ।
तां त्वहं तुभ्यं वक्ष्यामि ।
को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति ॥ _६,२.८ ॥


__________


शा.भा._६,२.८ एवं गौतमेनाऽपदन्तर उक्ते स होवाच राजा पीडितं मत्वा क्षामयंस्तथा नोऽस्मान्प्रति मापराधा अपराधं मा कार्षीरस्मदीयोऽपराधो न ग्रहीतव्य इत्यर्थः ।
तव च पितामहा अस्मत्पितामहेषु यतापराधं न जगृहुस्तथा पितामहानां वृत्तमस्मास्वपि भवता रक्षणीयमित्यर्थः ।
यथेयं विद्या त्वया प्रार्थितेतस्त्वत्संप्रदानात्पूर्वं प्राङ्न कस्मिन्नपि ब्राह्मण उवासोषितवतीतथा त्वमपि जानीषे सर्वदा क्षत्त्रियपरम्परयेयं विद्याऽगता सा स्थितिर्मयापि रक्षणीया यदि शक्यत इत्युक्तं दैवेषु गौतम तद्वरेषु मानुषाणां ब्रूहीति न पुनस्तवादेयो वर इतीतः पर न शक्यते रक्षितुम् ।
तामपि विद्यामहं तुभ्यं वक्ष्यामि को ह्यन्योऽपि हि यस्मादेवं ब्रुवन्तं त्वामर्हति प्रत्याख्यातुं न वक्ष्यामीति ।
अहं पुनः कथं न वक्ष्ये तुभ्यमिति ॥८॥



_______________________________________________________________________

६,२.९

असौ वै लोकोऽग्निर्गौतम ।
तस्यादित्य एव समित् ।
रश्मयो धूमः ।
अहरर्चिः ।
दिशोऽङ्गाराः ।
अवान्तरदिशो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति ।
तस्या आहुत्यै सोमो राजा संभवति ॥ _६,२.९ ॥


__________


शा.भा._६,२.९ असौ वै लोकोऽग्निर्गोतमेत्यादिचतुर्थः प्रश्नः प्राथम्येन निर्णीयते ।
क्रमभङ्गस्त्वेतन्निर्णयायत्तत्वादितरप्रस्ननिर्णयस्य ।
असौ द्यौर्लोकोऽग्निर्हे गौतम द्युलोकेऽग्निदृष्टिरनग्नौ विधीयते यथा योषित्पुरुषयोस्तस्य द्युलोकाग्नेरादित्य एव समित्समिन्धनात् ।
आदित्येन हि समिध्यतेऽसौ लोकः ।
रश्मयो धूमः समिध उथ्थानसामान्यात् ।
आदित्याद्धि रश्मयो निर्गताः ।
समिधश्च धूमो लोक उत्तिष्ठति ।
अहरर्चिः प्रकाशसामान्यात् ।
दिशोऽङ्गारा उपशमसामान्यात् ।
अवान्तरदिषो विस्फुलिङ्गा विस्फुलिङ्गवद्विक्षेपात् ।
तस्मिन्नेतस्मिन्नेवङ्गुणविशिष्टे द्युलोकाग्नौ देवा इन्द्रादयः श्रद्धां जुह्वत्याहुतिद्रव्यस्थानीयां प्रक्षिपन्ति ।
तस्या आहुत्या आहुतेः सोमो राजा पितॄणां ब्राह्मणानां च संभवति ।
तत्र के देवाः कथं जुह्वति किंवा श्रद्धाख्यं हविरित्यत उक्तमस्माभिः संबन्धे ।
न त्वेवैनयोस्त्वमुत्क्रान्तिमित्यादिपदार्थषट्कनिर्णयार्थमग्निहोत्र उक्तम् ।
ते वा एते अग्निहोत्राहुती हुते सत्यावुत्क्रामतः ।
ते अन्तरिक्षमाविशतः ।
ते अन्तरिक्षमाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिम् ।
ते अन्तरिक्षन्तर्पयतः ।
ते तत उत्क्रामतः ।
ते दिवमाविशतः ।
ते दिवमाहवनीयं कुर्वाते आदित्यं समिधमित्येवमाद्युक्तम् ।
तत्राग्निहोत्राहुती ससाधने एवोत्क्रामतः ।
यथेह यैः साधनैर्विशिष्टे ये ज्ञायेते आहवनीयाग्निसमिद्धूमाङ्गारविस्फुलिङ्गाहुतिद्रव्यैस्ते तथैवोत्क्रामतोऽस्माल्लोकादमुं लोकम् ।
तत्राग्निरग्नित्वेन समित्समित्त्वेन धूमो धूमत्वेनाङ्गारा अङ्गारत्वेन विस्फुलिङ्गत्वेनाऽहुतिद्रव्यमपि पय आद्याहुतिद्रव्यत्वेनैव सर्गादावव्याकृतावस्थायामपि परेणसूक्ष्मेणाऽत्मना व्यवतिष्ठते ।
तद्विद्यमानमेव ससाधनमग्निहोत्रलक्षणं कर्मापूर्वेणाऽत्मना व्यवस्थितं सत्तत्पुनर्व्याकरणकाले तथैवान्तरिक्षादीनामाहवनीयाद्यग्न्यादिभावं कुर्वद्विपरिणमते ।
तथैवेदानीमप्यग्निहोत्राख्यं कर्म ।
एवमग्निहोत्राहुत्यपूर्वविपरिणामात्मकं जगत्सर्वमित्याहुत्योरेव स्तुत्यर्थत्वेनोत्क्रान्त्याद्या लोकं प्रत्युत्थायिनान्ताः षट्पदार्थाः कर्मप्रकरणेऽधस्तान्निर्णीताः ।
इह तु कर्तुः कर्मविवक्षायां द्युलोकाग्न्याद्यारभ्य पञ्चाग्निदर्शनमुत्तरमार्गप्रतिपत्तिसाधनं विशिष्टकर्मफलोपभोगाय विधित्सितमिति द्युलोकाग्न्यादिदर्शनं प्रस्तूयते ।
तत्र य आध्यात्मिकाः प्राणा इहाग्निहोत्रस्य होतारस्त एवाऽधिदैविकत्वेन परिणताः सन्त इन्द्रादयो भवन्ति त एव तत्र होतारो द्युलोकाग्नौ ।
ते चेहाग्निहोत्रस्य फलभोगायाग्निहोत्रं हुतवन्तः ।
त एव फलपरिणामकालेऽपि तत्फलभोक्तृत्वात्तत्र तत्र होतृत्वं प्रतिपद्यन्ते तथा तथा विपरिणममाना देवशब्दवाच्याः सन्तः ।
अत्र च यत्पयोद्रव्यमग्निहोत्रकर्माश्रयभूतमिहाऽहवनीये प्रक्षिप्तमग्निना भक्षितमदृष्टेन सूक्ष्मेम रूपेण विपरिणतं सह कर्त्रा यजमानेनामुं लोकं धूमादिक्रमेणान्तरिक्षाद्द्युलोकमाविशति ।
ताः सूक्ष्मा आप आहुतिकार्यभूता अग्निहोत्रसमवायिन्यः कर्तृसहिताः श्रद्धाशब्दवाच्याः सोमलोके कर्तुः शरीरान्तरारम्भाय द्युलोकं प्रविशन्त्यो हूयन्ते इत्युच्यन्ते ।
तास्तत्र द्युलोकं प्रविश्य सोममण्डले कर्तुः शरीरमारभन्ते ।
तदेतदुच्यते देवाः श्रद्धां जुह्वति तस्या आहुत्यै सोमो राजा संभवतीति ।
"श्रद्धा वा आपः"इति श्रुतेः ।
वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरुषवाचो भूत्वा समुत्थाय वदन्तोति प्रश्नस्तस्य च निर्णयविषयेऽसौ वै लोकोऽग्निरिति प्रस्तुतम् ।
तस्मादापः कर्मसमावायिन्यः कर्तुः शरीरारम्भिकाः श्रद्धाशब्दवाच्या इति निश्चीयते ।
भूयस्त्वादापः पुरुषवाच इति व्यपदेशो न त्वितराणि भूतानि न सन्तीति ।
कर्मप्रयुक्तश्च शरीरारम्भः ।
कर्म चाप्समवायि ।
ततश्चापां प्राधान्यं शरीरकर्तृत्वे ।
तेन चाऽपः पुरुषवाच इति व्यपदेशः ।
कर्मकृतो हि जन्मारम्भः सर्वत्र ।
तत्र यद्यप्यग्निहोत्राहुतिस्तुतिद्वारेणोत्क्रान्त्यादयः प्रस्तुताः षट्पदार्था अग्निहोत्रे तथापि वैदिकानि सर्वाण्येव कर्माण्यग्निहोत्रप्रभृतीनि लक्ष्यन्ते ।
दाराग्निसंबद्धं हि पाङ्क्तं कर्म प्रस्तुत्योक्तम्कर्मणा पितृलोक इति ।
वक्ष्यति चअथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्तीति ॥९॥



_______________________________________________________________________

६,२.१०

पर्जन्यो वा अग्निर्गौतम ।
तस्य संवत्सर एव समित् ।
अभ्राणि धूमः ।
विद्युदर्चिः ।
अशनिरङ्गाराः ।
ह्रादुनयो विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति ।
तस्या आहुत्यै वृष्टिः संभवति ॥ _६,२.१० ॥


__________


शा.भा._६,२.१० पर्जन्यो वा अग्निर्गौतम द्वितीय आहुत्याधार आहुत्योरावृत्तिक्रमेण ।
पर्जन्यो नाम वृष्ट्युपकरणाभिमानी देवतात्मा ।
तस्य संवत्सर एव समित् ।
संवत्सरेण हि शरदादिभिर्ग्रीष्मान्तैः स्वावयवैर्वपरिवर्तमानेन पर्जन्योऽग्निर्दीप्यते ।
अभ्राणि धूमः ।
धूमप्रभवत्वाद्धूमवदुपलक्ष्यत्वाद्वा ।
विद्युदर्चिः ।
प्रकाशसामान्यात् ।
अशनिरङ्गाराः ।
उपशान्तकाठिन्यसामान्याभ्याम् ।
ह्रादुनयो ह्लादुनयः स्तनयित्नुशब्दा विस्फुलिङ्गाः ।
विक्षेपानेकत्वसामान्यात् ।
तस्मिन्नेतस्मिन्नित्याहुत्यधिकरणनिर्देशः ।
देवा इति त एव होतारः सोमं राजानं जुह्वति ।
योऽसौ द्युलोकाग्नौ श्रद्धायां हुतायामभिनिर्वृत्तः सोमः स द्वितीये पर्जन्याग्नौ हूयते ।
तस्याश्च सोमाहुतेर्वृष्टिः संभवति ॥१०॥



_______________________________________________________________________

६,२.११

अयं वै लोकोऽग्निर्गौतम ।
तस्य पृथिव्येव समित् ।
अग्निर्धूमः ।
रात्रिरर्चिः ।
चन्द्रमा अङ्गाराः ।
नक्षत्राणि विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति ।
तस्या आहुत्या अन्नं संभवति ॥ _६,२.११ ॥


__________


शा.भा._६,२.११ अयं वै लोकोऽग्निर्गोतम ।
अयं लोक इति प्राणिजन्मोपभोगाश्रयः क्रियाकारकफलविशिष्टः स तृतीयोऽग्निः ।
तस्याग्नेः पृथिव्येव समित् ।
पृथिव्या ह्ययं लोकोऽनेकप्राण्युपभोगसंपन्नया समिध्यते ।
अग्निर्धूमः ।
पृथिव्याश्रयोत्थानसामान्यात् ।
पार्थिवं हीन्धनद्रव्यमाश्रित्याग्निरुत्तिष्ठति ।
यथा समिदाश्रयेन धूमः ।
रात्रिरर्चिः ।
समित्संबन्धप्रभवसामान्यात् ।
अग्नेः समित्संबन्धेन ह्यर्चिः संभवति ।
तथा पृथिवीसमित्संबन्धेन शर्वरी ।
पृथिवीछायां हि शार्वरं तं आचक्षते ।
चन्द्रमा अङ्गाराः ।
तत्प्रभवत्वसामान्यात् ।
अर्चिषो ह्यङ्गाराः प्रभवन्ति तथा रात्रौ चन्द्रमाः ।
उपशान्तत्वसामान्याद्वा ।
नक्षत्राणि विस्फुलिङ्गाः ।
बिस्फुलिङ्गवद्विक्षेपसामान्यात् ।
तस्मिन्नेतस्मिन्नित्यादि पूर्ववत् ।
वृष्टिं जुह्वति तस्या आहुतेरन्नं संभवति ।
वृष्टिप्रभवत्वस्य प्रसिद्धत्वाद्व्रीहियवादेरन्नस्य ॥११॥



_______________________________________________________________________

६,२.१२

पुरुषो वा अग्निर्गौतम ।
तस्य व्यात्तमेव समित् ।
प्राणो धूमः ।
वागर्चिः ।
चक्षुरङ्गाराः ।
श्रोत्रं विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति ।
तस्या आहुत्यै रेतः संभवति ॥ _६,२.१२ ॥


__________


शा.भा._६,२.१२ पुरुषो वा अग्निर्गौतम प्रसिद्धः शिरःपाण्यादिमान्पुरुषश्चतुर्थोऽग्निस्तस्य व्यात्तं विवृतं मुखं समित् ।
विवृतेन हि मुखेन दीप्यते पुरुषो वचनस्वाध्यायादौ ।
यथा समिधाग्निः प्राणो धूमस्तदुत्थानसामान्यात् ।
मुखाद्धि प्राण उत्तिष्ठति ।
वाक्यशब्दोऽर्चिर्व्यञ्जकत्वसामान्यात् ।
अर्चिश्च व्यञ्जकम् ।
तथा वाक्शब्दोऽभिधेयव्यञ्जकः ।
चक्षुरङ्गारा उपशमसामान्यात्प्रकाशाश्रयत्वाद्वा ।
श्रोत्रं विस्फुलिङ्गा विक्षेपसामान्यात् ।
तस्मिन्नन्नं जुह्वति ।
ननु नैव देवा अन्नमिह जुह्वतो दृश्यन्ते ।
नैष दोषः ।
प्राणानां देवत्वोपपत्तेः ।
अधिदैवमिन्द्रादयो देवास्त एवाध्यात्मं प्राणास्ते चान्नस्य पुरुषे प्रक्षेप्तारः ।
तस्या आहुते रेतः संभवति ।
अन्नपरिणामो हि रेतः ॥१२॥



_______________________________________________________________________

६,२.१३

योषा वा अग्निर्गौतम ।
तस्या उपस्थ एव समित् ।
लोमानि धूमः ।
योनिरर्चिः ।
यदन्तः करोति तेऽङ्गाराः ।
अभिनन्दा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।
तस्या आहुत्यै पुरुषः संभवति ।
स जीवति यावज्जीवति ।
अथ यदा म्रियते ॥ _६,२.१३ ॥


__________


शा.भा._६,२.१३ योषा वा अग्निर्गौतम ।
योषेति स्री पञ्चमो होमाधिकरणोऽग्निस्तस्या उपस्थ एव समित् ।
तेन हि सा समिध्यते ।
लोमानि धूमस्तदुत्थानसामान्यात् ।
योनिरर्चिर्वर्णसामान्यात् ।
यदन्तः करोति तेऽङ्गारा अन्तः करणं मैथुनव्यापारस्तेऽङ्गारा वीर्योपशमहेतुत्वसामान्यात् ।
वीर्याद्युपशमकारणं मैथुनम् ।
तथाङ्गारभावोऽग्नेरुपशमकारणम् ।
अभिनन्दाः सुखलवाः क्षुद्रत्वसामान्याद्विस्फुलिङ्गाः ।
तस्मिन्रेतो जुह्वति ।
तस्या आहुतेः पुरुषः संभवति ।
एवं द्युपर्जन्यायंलोकपुरुषयोषाग्निषु क्रमेम हूयमानाः श्रद्धासोमवृष्ट्यन्नरेतोभावेन स्थूलतारतम्यक्रममापद्यमानाः श्रद्धाशब्दवाच्या आपः पुरुषशब्दमारभन्ते ।
यः प्रश्नश्चतुर्थो वेत्थ यतिथ्यामाहुत्यां हुतायामापः पुरषवाचो भूत्वा समुत्थाय वदन्ती३ ति स एष निर्णीतः ।
पञ्चम्यामाहुतौ योषाग्नौ हुतायां रेतोभूता आपः पुरुषवाचो भवन्तीति ।
स पुरुष एवं क्रमेण जातो जीवति ।
कियन्तं कालमिति ।
उच्यतेयावज्जीवति यावदस्मिञ्छरीरे स्थितिनिमित्तं कर्म विद्यते तावदित्यर्थः ।
अथ तत्क्षये यदा यस्मिकाले म्रियते ॥१३॥



_______________________________________________________________________

६,२.१४

अथैनमग्नये हरन्ति ।
तस्याग्निरेवाग्निर्भवति ।
समित्समित् ।
धूमो धूमः ।
अर्चिरर्चिः ।
अङ्गारा अङ्गाराः ।
विष्फुलिङ्गा विष्फुलिङ्गाः ।
तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति ।
तस्या आहुत्यै पुरुषो भास्वरवर्णः संभवति ॥ _६,२.१४ ॥


__________


शा.भा._६,२.१४ अथ तदैनं मृतमग्नयेऽग्न्यर्थमेवान्त्याहुत्यै हरन्ति श्रत्विजस्तस्याऽहुतिभूतस्य प्रसिद्धोऽग्निरेव होमाधिकरणं न परिकल्प्योऽग्निः ।
प्रसिद्धैव समित्समिद्धूमो धूमोऽर्चिरर्चिरङ्गारा अङ्गारा विस्फुलिङ्गा विस्फुलिङ्गा यथाप्रसिद्धमेव सर्वमित्यर्थः ।
तस्मिन्पुरुषमन्त्याहुतिं जुह्वति तस्या आहुत्या आहुतेः पुरुषो भास्वरवर्णोऽतिशयदीप्तिमान्निषेकादिभिरन्त्याहुत्यन्तैः कर्मभिः संस्कृतत्वात्संभवति निष्पद्यते ॥१४॥



_______________________________________________________________________

६,२.१५

ते य एवमेतद्विदुर्ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसंभवन्ति ।
अर्चिषोऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद्यान् षण्मासानुदङ्ङादित्य एति ।
मासेभ्यो देवलोकम् ।
देवलोकादादित्यम् ।
आदित्याद्वैद्युतम् ।
तान् वैद्युतान् पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ।
ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति ।
तेषां न पुनरावृत्तिः ॥ _६,२.१५ ॥


__________


शा.भा._६,२.१५ इदानीं प्रथमप्रश्ननिराकरणार्थमाहते ।
के ।
य एवं यथोक्तं पञ्चाग्निदर्शनमेतद्विदुः ।
एवं शब्दादग्निसमिद्धूमार्चिरङ्गारविस्फुलिङ्गश्रद्धादिविशिष्टाः पञ्चाग्नयो निर्दिष्टास्तानेवमेतान्पञ्चाग्नीन्विदुरित्यर्थः ।
नन्वग्निहोत्राहुतिदर्शनविषयमेवैतद्दर्शनम् ।
तत्र ह्युक्तमुत्क्रान्त्यादिपदार्थषट्कनिर्णये दिवमेवाऽहवनीयं कुर्वाते इत्यादि ।
इहाप्यमुष्य लोकस्याग्नित्वमादित्यस्य च समित्त्वमित्यादि बहु साम्यम् ।
तस्मात्तच्छेषमेवैतद्दर्शनमिति ।
न, यतिथ्यामिति प्रस्नप्रतिवचनपरिग्रहात् ।
यतिथ्यामित्यस्य प्रश्नस्य प्रतिवचनस्य यावदेव परिग्रहस्तावदेवैवंशब्देन पराम्रष्टुं युक्तम् ।
अन्यथा प्रश्नानर्थक्यान्निर्ज्ञातत्वाच्च संख्याया अग्नय एव वक्तव्याः ।
अथ निर्ज्ञातमप्यनूद्यते ।
यथाप्राप्तस्यैवानुवदनं युक्तं न त्वसौ लोकोऽग्निरिति ।
अथोपलक्षणार्थः तथाप्याद्येनान्त्येन चोपलक्षणं युक्तम् ।
श्रुत्यन्तराच्च ।
समाने हि प्रकरणे छान्दोग्यश्रुतौ पञ्चाग्नीन्वेदेति पञ्चसंख्याया एवोपादानादनग्निहोत्रशेषमेतत् ।
पञ्चाग्निदर्शनम् ।
यत्त्वग्निसमिदादिसामान्यं तदग्निहोत्रस्तुत्यर्थमित्यवोचाम ।
तस्मान्नोत्क्रान्त्यादिपदार्थषट्कपरिज्ञानादर्चिरादिप्रतिपत्तिः ।
एवमिति प्रकृतोपादानेनार्चिरादिप्रतिपत्तिविधानात् ।
के पुनस्ते य एवं विदुर्गृहस्था एव ।
ननु तेषां यज्ञादिसाधनेन धूमादिप्रतिपत्तिर्विधित्सित ।
न, अनेवंविदामपि गृहस्थानां यज्ञादिसाधनोपपत्तेः ।
भिक्षुवानप्रस्थयोश्चारण्यसंबन्धेन ग्रहणात् ।
गृहस्थकर्मसंबद्धत्वाच्चपञ्चाग्निदर्शनस्य ।
अतो नापि ब्रह्मचारिण एवं विदुरिति गृह्यन्ते ।
तेषां तूत्तरे पथि प्रवेशः स्मृतिप्रामाण्यात्"अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् ।
उत्तरेणार्यम्णः पन्थास्तेऽमृतत्वं हि भेजिरे"इति ।
तस्माद्ये गृहस्था एवमग्निजोऽहमग्न्यपत्यमित्येवं क्रमेणाग्निभ्यो जातोऽग्निरूप इत्येवं ये विदुस्ते च ये चामी अरण्ये वानप्रस्थाः परिव्राजकाश्चारण्यनिष्ठाः श्रद्धां श्रद्धायुक्ताः स्नतः सत्यं ब्रह्म हिरण्यगर्भात्मानमुपासते न पुनः श्रद्धां चोपासते ते सर्वेऽर्चिरभिसंभवन्ति ।
यावद्गृहस्थाः पञ्चाग्निविद्यां सत्यं वा ब्रह्म न विदुस्तावच्छ्रद्धाद्याहुतिक्रमेण पञ्चम्यामाहुतौ हुतायां ततो योषाग्नेर्जाताः पुनर्लोकं प्रत्युत्थायिनोऽग्निहोत्रादिकर्मानुष्ठातारो भवन्ति ।
तेन कर्मणा धूमादिक्रमेण पुनः पितृलोकं पुनः पर्जन्यादिक्रमेणेममावर्तन्ते ।
पुनर्योषाग्नेर्जाताः पुनः कर्म कृत्वेत्येवमेव घटीयन्त्रवद्गत्यागतिभ्यां पुनः पुनरावर्तन्ते ।
यदा त्वेवं विदुस्ततो घटीयन्त्रभ्रमणाद्विनिर्मुक्ताः सन्तोऽर्चिरभिसंभवन्ति ।
अर्चिरिति नाग्निज्वालामात्रं किं तर्ह्यर्चिरभिमानिन्यर्चिः शब्दवाच्या देवतोत्तरमार्गलक्षणा व्यवस्थितैव तामभिसंभवन्ति ।
न हि परिव्राजकानामग्न्यर्चिषैव साक्षात्संबन्धोऽस्ति ।
तेन देवतैव परिगृह्यतेऽर्चिःशब्दवाच्या ।
अतोऽहर्देवताम् ।
मरणकालनियमानुपपत्तेरहःशब्दोऽपि देवतैव ।
आयुषः क्षये हि मरणम् ।
न ह्येवंविदाहन्येव मर्तव्यमित्यहर्मरणकालो नियन्तुं शक्यते ।
न च रात्रौ प्रेताः सन्तोऽहः प्रतीक्षन्ते ।
"स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति"इति श्रुत्यन्तरात् ।
अह्न आपूर्यमाणपक्षमहर्देवतयातिवाहिता आपूर्यमाणपक्षदेवतां प्रतिपद्यन्ते शुक्लपक्षदेवतामित्येतत् ।
आपूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङुत्तरां दिशमादित्यः सवितैति तान्मासान्प्रतिपद्यन्ते शुक्लपक्षदेवतयातिवाहिताःसन्तः ।
मासानिति बहुवचनात्संघचारिण्यः षडुत्तरायणदेवतास्तेभ्यो मासेभ्यः षण्मासदेवताभिरतिवाहिता देवलोकाभिमानिनीं देवतां प्रतिपद्यन्ते ।
देवलोकादादित्यमादित्याद्वैद्युतं विद्युदभिमानिनीं देवतां प्रतिपद्यन्ते ।
विद्युद्देवतां प्राप्तान्ब्रह्मलोकवासी पुरुषो ब्रह्मणा मनसा सृष्टो मानसः कश्चिदेत्याऽगत्य ब्रह्मलोकान्गमयति ।
ब्रह्मलोकानित्यधरोत्तरभूमिभेदेन भिन्ना इति गम्यन्ते ।
बहुवचनप्रयोगात् ।
उपासनतारतम्योपपत्तेश्च ।
ते तेन पुरुषेण गमिताः सन्तस्तेषु ब्रह्मलोकेषु पराः प्रकृष्टाः सन्तः स्वयं परावतः प्रकृष्टाः समाः संवत्सराननेकान्वसन्ति ।
ब्रह्मणोऽनेकान्कल्पान्वसन्तीत्यर्थः ।
तेषां ब्रह्मलोकं गतानां नास्ति पुनरावृत्तिरस्मिन्संसारे न पुनरागमनमिहेति शाखान्तरपाठात् ।
इहेत्याकृतिमात्रग्रहणमिति चेच्छ्वोभूते पौर्णमासीमिति यद्वत् ।
न, इहेतिविशेषणानर्थक्यात् ।
यदि हि नाऽवर्तन्त एवेहग्रहणमनर्थकमेव स्यात् ।
श्वोभूते पौर्णमासीमित्यत्र पौर्णमास्याः श्वोभूतत्वमनुक्तंन ज्ञायत इति युक्त विशेषयितुम् ।
न हि तत्र श्वआकृतिः शब्दार्थो विद्यत इति श्वशब्दो विरर्थक एव प्रयुज्यते ।
यत्र तु विशेषणशब्दे प्रयुक्तेऽन्विष्यमाणे विशेषणफलं चेन्न गम्यते तत्र युक्तो निरर्थकत्वेनोत्स्रष्टुं विशेषणशब्दो न तु सत्यां विशेषणफलावगतौ ।
तस्मादस्मात्कल्पादूर्ध्वमावृत्तिर्गम्यते ॥१५॥



_______________________________________________________________________

६,२.१६

अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति ते धूममभिसंभवन्ति ।
धूमाद्रात्रिम् ।
रात्रेरपक्षीयमाणपक्षम् ।
अपक्षीयमाणपक्षाद्यान् षण्मासान् दक्षिणादित्य एति ।
मासेभ्यः पितृलोकम् ।
पितृलोकाच्चन्द्रम् ।
ते चन्द्रं प्राप्यान्नं भवन्ति ।
तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति ।
तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्ते ।
आकाशाद्वायुम् ।
वायोर्वृष्टिम् ।
वृष्टेः पृथिवीम् ।
ते पृथिवीं प्राप्यान्नं भवन्ति ।
ते पुनः पुरुषाग्नौ हूयन्ते ततो योषाग्नौ जायन्ते ।
लोकान् प्रत्युथायिनस्त एवमेवानुपरिवर्तन्ते ।
अथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् ॥ _६,२.१६ ॥


__________


शा.भा._६,२.१६ अथ पुनर्ये नैवं विदुरुत्क्रान्त्याद्यग्निहोत्रसंबन्धपदार्थषट्कस्यैव वेदितारः केवलकर्मिणो यज्ञेनाग्निहोत्रादिना दानेन बहिर्वेदि भिक्षमाणेषु द्रव्यसंविभागलक्षणेन तपसा बहिर्वेद्येव दीक्षादिव्यतिरिक्तेन कृच्छ्रचान्द्रायणादिना लोकाञ्जयन्ति ।
लोकानिति बहुवचनात्तत्रापि फलतारम्यमभिप्रेतम् ।
ते धूममभिसंभवन्ति ।
उत्तरमार्ग इवेहापि देवता एव धूमादिशब्दवाच्याः ।
धूमदेवतां प्रतिपद्यन्त इत्यर्थः ।
आतिवाहिकत्वं च देवतानां तद्वदेव ।
धूमाद्रात्रिं रात्रिदेवतां ततोऽपक्षीयमाणपक्षदेवतां ततो यान्षण्मासान्दक्षिणां दिशमादित्य एति तान्मासदेवताविशेषान्प्रतिपद्यन्ते ।
मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रम् ।
ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्रान्नभूतान्यथा सोमं राजानमिह यज्ञ ऋत्विज आप्यायस्वापक्षीयस्वेति भक्षयन्त्येवमेनांश्चन्द्रं प्राप्तान्कर्मिणो भृत्यानिव स्वामिनो भक्षयन्त्युपभुञ्जते देवाः आप्यायस्वापक्षीयस्वेति न मन्त्रः किं तर्ह्याप्याय्याऽप्याय्य चमसस्थं भक्षणेनापक्षयं च कृत्वा पुनः पुनर्भक्षयन्तीत्यर्थः ।
एवं देवा अपि सोमलोके लब्धशरीरान्कर्मिण उपकरणभूतान्पुनः पुनर्विश्रामयन्तः कर्मानुरूपं फलं प्रयच्छन्तः ।
तद्धि तेषामाप्यायनं सोमस्याऽप्यायनमिवोपभुञ्जत उपकरणभूतान्देवाः तेषां कर्मिणां यदा यस्मिन्काले तद्यज्ञदानादिलक्षणं सोमलोकप्रापकं कर्म पर्यवैति परिगच्छति परिक्षीयत इत्यर्थः ।
अथ तदेममेव प्रसिद्धमाकाशमभिनिष्पद्यन्ते ।
यास्ताः श्रद्धाशब्दवाच्या द्युलोकाग्नौ हुता आपः सोमाकारपरिणता याभिः सोमलोके कर्मिणामुपभोगाय शरीरमारब्धमम्मयं ताः कर्मक्षयाद्धिमपिण्ड इवाऽतपसंपर्कात्प्रविलीयन्ते ।
प्रविलीनाः सूक्ष्मा आकाशभूता इव भवन्ति तदिदमुच्यत इममेवाऽकाशमभिनिष्पद्यन्त इति ।
ते पुनरपि कर्मिणस्तच्छरीराः सन्तः पुरोवातादिना इताश्चामुतश्च नीयन्तेऽन्तरिक्षगास्तदाहआकाशाद्वायुमिति ।
वायोर्वृष्टिं प्रतिपद्यन्ते ।
तदुक्तम्पर्जन्याग्नौ सोमं राजानं जुह्वतीति ।
ततो वृष्टिभूता इमां पृथिवीं पतन्ति ।
ते पृथिवीं प्राप्य व्रीहियवाद्यन्नं भवन्ति ।
तदुक्तमस्मिंल्लोकेऽग्नौ वृष्टिं जुह्वति तस्या आहुत्या अन्नं संभवतीति ।
ते पुनः पुरुषाग्नौ हूयन्तेऽन्नभूता रेतःसिचि ।
ततो रेतोभूता योषाग्नौ हूयन्ते ततो जायन्ते लोकं प्रत्युत्थायिनस्ते लोकं प्रत्युत्तिष्ठन्तोऽग्निहोत्रादिकर्मानुतिष्ठन्ति ।
ततो धूमादिना पुनः पुनः सोमलोकं पुनरिमं लोकमिति ।
त एवं कर्मिणोऽनुपरिवर्तन्ते घटीयन्त्रवच्चक्रीभूता बंभ्रमन्तीत्यर्थः ।
उत्तरमार्गाय सद्योमुक्तये वा यावद्ब्रह्म न विदुः ।
इति नु कामयमानः संसरतीत्युक्तम् ।
अथ पुनर्य उत्तरं दक्षिणं चैतौ पन्थानौ न विदुरुत्तरस्य दक्षिणस्य वा पथः प्रतिपत्तये ज्ञानं कर्म वा नानुतिष्ठन्तीत्यर्थः ।
ते किं भवन्तीति ।
उच्यतेते कीटाः पतङ्गा यदिदं यच्चेदं दन्दशूकं दंशमशकमित्येतद्भवन्ति ।
एवं हीयं संसारगतिः कष्टास्यां निमग्नस्य पुनरुद्धार एव दुर्लभः ।
तथा च श्रुत्यन्तरम्"तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्व"इति ।
तस्मात्सर्वोत्साहेन यथाशक्ति स्वाभाविककर्मज्ञानहानेन दक्षिणोत्तरमार्गप्रतिपत्तिसाधनं शास्रीयं कर्म ज्ञानं वानुतिष्ठेदिति वाक्यार्थः ।
तथा चोक्तम्"अतो वै खलु दुर्निष्प्रपतरं तस्माज्जुगुप्सेत"इति श्रुत्यन्तरान्मोक्षाय प्रयतेतेत्यर्थः ।
अत्राप्युत्तरमार्गप्रतिपत्तिसाधन एव महान्यत्नः कर्तव्य इति गम्यते ।
एवमेवानुपरिवर्तन्त इत्युक्तत्वात् ।
एवं प्रश्नाः सर्वे निर्णीताः ।
एसौ वै लोक इत्यारभ्य पुरुषः संभवतीतिचतुर्थः प्रश्नो यतिथ्यामाहुत्यामित्यादिः प्रथम्येन ।
पञ्चमस्तु द्वितीयत्वेन देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वेति दक्षिणोत्तरमार्गप्रतिपत्तिसाधनकथनेन ।
तेनैव च प्रथमोऽप्यग्नेराभ्य केचिदर्चिः प्रतिपद्यन्ते केचिद्धूममिति विप्रतिपत्तिः ।
पुनरावृत्तिश्च द्वितीयः प्रश्न आकाशादिक्रमेणेमं लोकमागच्छन्तीति ।
तेनैवासौ लोको न संपूर्यते कीटपतङ्गादिप्रतिपत्तेश्च केषाञ्चिदिति तृतीयोऽपि प्रश्नो निर्णीतः१६ ॥
इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य द्वितीयं ब्राह्मणम् ॥२॥



_______________________________________________________________________

६,३.१

स यः कामयेत महत्प्राप्नुयामित्युदगयन आपूर्यमाणपक्षस्य पुण्याहे द्वादशाहमुपसद्व्रती भूत्वौदुम्बरे कंसे चमसे वा सर्वौषधं फलानीति संभृत्य परिसमुह्य परिलिप्याग्निमुपसमाधाय परिस्तीर्यावृताज्यं संस्कृत्य पुंसा नक्षत्रेण मन्थं संनीय जुहोति
यावन्तो देवास्त्वयि जातवेदस्तिर्यञ्चो घ्नन्ति पुरुषस्य कामान् ।
तेभ्योऽहं भागधेयं जुहोमि ते मा तृप्ताः सर्वैः कामैस्तर्पयन्तु स्वाहा ।
या तिरश्ची निपद्यसेऽहं विधरणी इति ।
तां त्वा घृतस्य धारया यजे संराधनीमहं स्वाहा ॥ _६,३.१ ॥


__________


शा.भा._६,३.१ स यः कामयेत ।
ज्ञानकर्मणोर्गतिरुक्ता ।
तत्र ज्ञानं स्वतन्त्रं कर्म तु दैवमानुषवित्तद्वयायत्तं तेन कर्मार्थं वित्तमुपार्जनीयम् ।
तच्चाप्रत्यवायकारिणोपायेनेति तदर्थं मन्थाख्यं कर्माऽरभ्यते महत्त्वप्राप्तये ।
महत्त्वे च सत्यर्थसिद्धं हि वित्तम् ।
तदुच्यतेस यः कामयेत स यो वित्तार्थी कर्मण्यधिकृतो यः कामयेत ।
किम् ।
महन्महत्त्वं प्राप्नुयां महान्स्यामितीत्यर्थः ।
तत्र मन्थकर्मणो विधित्सितस्य कालोऽभिधीयतेउदगयन आदित्यस्य तत्र सर्वत्र प्राप्तावापूर्यमाणपक्षस्य शुक्लपक्षस्य ।
तत्रापि सर्वत्र प्राप्तौ पुण्याहेऽनुकूल आत्मनः कर्मसिद्धिकर इत्यर्थः ।
द्वादशाहं यस्मिन्पुण्येऽनुकूले कर्म चिकीर्षति ततः प्राक्पुण्याहमेवाऽरभ्य द्वादशाहमुपसद्व्रती ।
उपसत्सु व्रतमुपसदः प्रसिद्धा ज्योतिष्टोमे ।
तत्र च स्तनोपचयापचयद्वारेण पयोभक्षणं तद्व्रतम् ।
अत्र च तत्कर्मानुपसंहारात्केवलमितिकर्तव्यताशून्यं पयोभक्षणमात्रमुपादीयते ।
ननूपसदो व्रतमिति यदा विग्रहस्तदा सर्वमितिकर्तव्यतारूपं ग्राह्यं भवति तत्कस्मान्न परिगृह्यत इति ।
उच्यतेस्मार्तत्वात्कर्मणः ।
स्मार्तं हीदं मन्थकर्म ।
ननु श्रुतिविहितं सत्कथं स्मार्तं भवितुमर्हति ।
स्मृत्यनुवादिनीहि श्रुतिरियम् ।
श्रौतत्वे हि प्रकृतिविकारभावस्ततश्च प्राकृतधर्मग्राहित्वं विकारकर्मणो न त्विह श्रौतत्वम् ।
अत एव चाऽवसथ्याग्नावेतत्कर्म विधीयते ।
सर्वा चाऽवृत्स्मार्तैवेति ।
उपसद्व्रती भूत्वा पयोव्रती सन्नीत्यर्थः ।
औदुम्बर उदुम्बरवृक्षमये कंसे चमसे वा तस्यैव विशेषणं कंसाकारे चमसाकारे वौदुम्बर एव ।
आकारे तु विकल्पो नौदुम्बरत्वे ।
एत्र सर्वौषधं सर्वासामोषधीनां समूहं यथासम्भवं यथाशक्ति च सर्वा ओषधीः समाहृत्य तत्र ग्राम्याणां तु दश नियमेन ग्राह्या व्रीहियवाद्या वक्ष्यमाणाः ।
अधिकग्रहणे तु न दोषः ।
ग्राम्याणां फलानि च यथासम्भवं यथाशक्ति च ।
इतिशब्दः समस्तसम्भारोपचयप्रदर्शनार्थः ।
अन्यदपि यत्सम्भरणीयं तत्सर्वं संभृत्येत्यर्थः ।
क्रमस्तत्र गृह्योक्तो द्रष्टव्यः ।
परिसमूहनपरिलेपने भूमिसंस्कारः ।
अग्निमुपसमाधायेति वचनादावसथ्येऽग्नाविति गम्यते ।
एकवचनादुपसमाधानश्रवणाच्च ।
विद्यमानस्यैवोपसमाधानम् ।
परिस्तीर्य दर्भानावृता स्मार्तत्वात्कर्मणः स्थालीपाकावृत्परिगृह्यते ।
तयाऽज्यं संस्कृत्य पुंसा नक्षत्रेण पुंनाम्ना नक्षत्रेण पुण्याहसंयुक्तेन मन्थं सर्वौषधफलपिष्टं तत्रौदुम्बरे चमसे दधनि मधुनि घृते चोपसिच्यैकयोपमन्थन्योपमंमथ्य संनीय मध्ये संस्थाप्यौदुम्बरेण स्रुवेणाऽवापस्थान आज्यस्य जुहोत्येतैर्मन्त्रैर्यावन्तो देवा इत्याद्यैः ॥१॥



_______________________________________________________________________

६,३.२३

ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्राणाय स्वाहा वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
वाचे स्वाहा प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
चक्षुषे स्वाहा संपदे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
श्रोत्राय स्वाहायतनाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
मनसे स्वाहा प्रजात्यै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
रेतसे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ _६,३.२ ॥


अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूर्भुवः स्वः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
ब्रह्मणे स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
क्षत्राय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भूताय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
भविष्यते स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
विश्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
सर्वाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ।
प्रजापतये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति ॥ _६,३.३ ॥


__________


शा.भा._६,३.२३ ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यारभ्य द्वे द्वे आहुती हुत्वा मन्थे संस्रवमवनयति ।
स्रुवावलेपनमाज्यं मन्थे संस्रावयति ।
एतस्मादेव ज्येष्ठाय श्रेष्ठायेत्यादिप्राणलिङ्गाज्ज्येष्ठश्रेष्ठादिप्राणविद एवास्मिन्कर्मण्यधिकारः ।
रेतस इत्यारम्भैकैकामाहुतिं हुत्वा मन्थे संस्रवमवनयत्यपरयोपमन्थन्या पुनर्मथ्नाति ॥२३ ॥



_______________________________________________________________________

६,३.४

अथैनमभिमृशति भ्रमदसि ।
ज्वलदसि ।
पूर्णमसि ।
प्रस्तब्धमसि ।
एकसभमसि ।
हिङ्कृतमसि ।
हिङ्क्रियमानमसि ।
उद्गीथमसि ।
उद्गीयमानमसि ।
श्रावितमसि ।
प्रत्याश्रावितमसि ।
आर्द्रे संदीप्तमसि ।
विभूरसि ।
प्रभूरसि ।
अन्नमसि ।
ज्योतिरसि ।
निधनमसि ।
संवर्गोऽसीति ॥ _६,३.४ ॥


__________


शा.भा._६,३.४ अथैनमभिमृशति भ्रमदसीत्यनेन मन्त्रेण ॥४॥



_______________________________________________________________________

६,३.५

अथैनमुद्यच्छत्यामंस्यामं हि ते महि ।
स हि राजेशानोऽधिपतिः ।
स मां राजेशनोऽधिपतिं करोत्विति ॥ _६,३.५ ॥


__________


शा.भा._६,३.५ अथैनमुच्छति सह पात्रेण हस्ते गृह्णात्यामंस्यामंहि ते महीत्यनेन ॥५॥



_______________________________________________________________________

६,३.६

अथैनमाचामति
तत्सवितुर्वरेण्यम् ।
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ।
भूः स्वाहा ।
भर्गो देवस्य धीमहि
मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
मधु द्यौरस्तु नः पिता ।
भुवः स्वाहा ।
धियो यो नः प्रचोदयात् ।
मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः ।
माध्वीर्गवो भवन्तु नः ।
स्वः स्वाहा ।
सर्वां च सावित्रीमन्वाह ।
सर्वाश्च मधुमतीरहमेवेदं सर्वं भूयासं भूर्भुवः स्वः स्वाहेति अन्तत आचम्य पाणी प्रक्षाल्य जघनेनाग्निं प्राक्शिराः संविशति ।
प्रातरादित्यमुपतिष्ठते ।
दिशामेकपुण्डरीकमसि ।
अहं मनुष्याणामेकपुण्डरीकं भूयासमिति ।
यथेतमेत्य जघनेनाग्निमासीनो वंशं जपति ॥ _६,३.६ ॥


__________


शा.भा._६,३.६ अथैनमाचामति भक्षयति गायत्र्याः प्रथमपादेन मधुमत्यैकया व्याहृत्या च प्रथमया प्रथमग्रासमाचामति ।
तथा गायत्रीद्वितीयपादेन मधुमत्या द्वितीयया द्वितीय या च व्यहृत्या द्वितीयं ग्रासम् ।
तथा तृतीयेन गायत्रीपादेन तृतीयया मधुमत्या तृतीयया च व्याहृत्या तृतीयं ग्रासम् ।
सर्वां सावित्रीं सर्वाश्च मधुमतीरुक्त्वाहमेवेदं सर्वं भूयासमिति चान्ते भूर्भवः स्वः स्वाहेति समस्तं भश्रयति ।
यथा चतुर्भिर्ग्रासैस्तद्द्रव्यं सर्वं परिसमाप्यते तथा पूर्वमेव निरुप्येत् ।
यत्पात्रावलिप्तं तत्पात्रं सर्वं निर्णिज्य तूष्णीं पिवेत् ।
पाणी प्रक्षाल्याप आचम्य जघनेनाग्निं पश्चादग्नेः प्राक्शिराः संविशति ।
प्रातः संध्यामुपास्याऽदित्यमुपतिष्ठते दिशामेकपुण्डरीकमित्यनेन मन्त्रेण ।
यथेतं यथागतमेत्याऽगत्य जघनेनाग्निमासीनो वंशं जपति ॥६॥



_______________________________________________________________________

६,३.७१२


तं हैतमुद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ _६,३.७ ॥



एतमु हैव वाजसनेयो याज्नवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ _६,३.८ ॥



एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ _६,३.९ ॥



एतमु हैव चूलो भागवित्तिर्जानकय आयःस्थूणायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ _६,३.१० ॥



एतमु हैव जानकिरायस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच अपि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ॥ _६,३.११ ॥



एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोव अचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरञ्छाखाः प्ररोहेयुः पलाशानीति ।
तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ _६,३.१२ ॥


__________


शा.भा._६,३.७१२ तं हैतमुद्दालक इत्यादि सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाचापि य एनं शुष्के स्थाणौ निषिञ्चेज्जायेरन्नेवास्मिञ्शाखाः प्ररोहेयुः पलाशानीत्येवमन्तमेनं मन्थमुद्दालकात्प्रभृत्येकैकाचार्यक्रमागतं सत्यकाम आचार्यो बहुभ्योऽन्तेवासिभ्य उक्त्वोवाच ।
किमन्यदुवाचेत्युच्यतेअपि य एनं शुष्के स्थाणौ गतप्राणेऽप्येनं मन्थं भक्षणाय संस्कृतं निषिञ्चेत्प्रक्षिपेज्जायेरन्नुत्पद्येरन्नेवास्मिन्स्थाणौ शाखा अवयवा वृक्षस्य प्ररोहेयुश्च पलाशानि पर्णानि यथा जीवतः स्थाणोः किमुतानेन कर्मणा कामः सिध्येदिति ।
ध्रुवफलमिदं कर्मेति कर्मस्तुत्यर्थमेतत् ।
विद्याधिगमे ष्टतीर्थानि तेषामिह सप्राणदर्शनस्य मन्थविज्ञानस्याधिगमे द्वे एव तीर्थे अनुज्ञायेते पुत्रश्चान्तेवासी च ॥८१२ ॥



_______________________________________________________________________

६,३.१३

चतुरौदुम्बरो भवति ।
औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या उपमन्थन्यौ ।
दश ग्राम्याणि धान्यानि भवन्ति ।
व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च ।
तान् पिष्टान् दधनि मधुनि घृत उपसिञ्चति ।
आज्यस्य जुहोति ॥ _६,३.१३ ॥


__________


शा.भा._६,३.१३ चतुरौदुम्बरो भवतीति व्याख्यातम् ।
दश ग्राम्याणि भवन्ति ग्राम्याणां तु धान्यानां दश नियमेन ग्राह्या इत्यवोचाम ।
के त इति निर्दिश्यन्तेव्रीहियवास्तिलमाषा अणुप्रियङ्गवोऽणवश्चाणुशब्दवाच्याः क्वचिद्देशे ।
प्रियङ्गवः प्रसिद्धाः कङ्गुशब्देन ।
खल्वा निष्पावा वल्लशब्दवाच्या लोके खलकुलाः कुलत्थाः ।
एतद्व्यतिरेकेण यथाशक्ति सर्वौषधयो ग्राह्याः फलानि चेत्यवोचामायाज्ञिकानि वर्जयित्वा ॥१३॥

इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य तृतीयं ब्राह्मणम् ॥२॥



_______________________________________________________________________

६,४.१

एषां वै भूतानां पृथिवी रसः ।
पृथिव्या आपः ।
अपामोषधयः ।
ओषधीनां पुष्पाणि ।
पुष्पाणां फलानि ।
फलानां पुरुषः ।
पुरुषस्य रेतः ॥ _६,४.१ ॥


__________


शा.भा._६,४.१"सर्वेभ्योऽङ्गेभ्यस्तेजः संभूतम्"इति श्रुत्यन्तरात् ॥१॥



_______________________________________________________________________

६,४.२

स ह प्रजापतिरीक्षां चक्रे हन्तास्मै प्रतिष्ठां कल्पयानीति स स्त्रियं ससृजे ।
तां सृष्ट्वाध उपास्त ।
तस्मात्स्त्रियमध उपासीत ।
स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत् ।
तेनैनामभ्यसृजत ॥ _६,४.२ ॥


__________


शा.भा._६,४.२ यत एवं सर्वभूतानां सारतममेतद्रेतोऽतः का नु खल्वस्य योग्या प्रतिष्ठेति स ह स्रष्टा प्रजापतिरीक्षाञ्चके ।
ईक्षां कृत्वा स स्रियं ससृजे ।
तां च सृष्ट्वाध उपास्त मैथुनाख्यं कर्माधौपासनं नाम कृतवान् ।
तस्मात्स्रियमध उपासीत श्रेष्ठानुश्रयणा हि प्रजाः ।
अत्र वाजपेयसामान्यकॢप्तिमाहस एतं प्राञ्चं प्रकृष्टगतियुक्तमात्मनो ग्रावाणं सोमाभिषवोपलस्थानीयं काठिन्यसामान्यात्प्रजननेन्द्रियमुदपारयदुत्पूरितवान्स्रीव्यञ्जनं प्रति तेनैनां स्रियमभ्यसृजदभिसंसर्गं कृतवान् ॥२॥



_______________________________________________________________________

६,४.३

तस्या वेदिरुपस्थः ।
लोमानि बर्हिश् ।
चर्माधिषवणे ।
समिद्धो मध्यतस्तौ मुष्कौ ।
स यावान् ह वै वाजपेयेन यजमनस्य लोको भवति तावानस्य लोको भवति ।
य एवं विद्वानधोपहासं चरत्यासां स्त्रीणां सुकृतं वृङ्क्ते ।
अथ य इदमविद्वानधोपहासं चरत्यास्य स्त्रियः सुकृतं वृञ्जते ॥ _६,४.३ ॥


__________


शा.भा._६,४.३ एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहाधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः ।
तथा नाको मौद्गल्यः कुमारहारितश्च ।
किं त आहुरित्युज्यतेबहवो मर्या मरणधर्मिणो मनुष्या ब्राह्मणा अयनं येषां ते ब्रह्मणायना ब्रह्मबन्धवो जातिमात्रोपजीविन इत्येतत् ।
निरिन्द्रिया विश्लिष्टेन्द्रिया विसुकृतो विगतसुकृतकर्माणोऽविद्वांसौ मैथुनकर्मासक्ता इत्यर्थः ।
ते किमस्माल्लोकात्प्रयन्ति परलोकात्परिभ्रष्टा इति मैथुनकर्मणोऽत्यन्तपापहेतुत्वं दर्शयतिय इदमविद्वांसोऽधोपहासं चरन्तीति ।
श्रीमन्थं कृत्वा पत्न्या ऋतुकालं ब्रह्मचर्येण प्रतीक्षते यदीद रतः स्कन्दति बहु वाल्पं वा सुप्तस्य वा जाग्रतो वा रागप्राबल्यात् ॥४॥



_______________________________________________________________________

६,४.४

एतद्ध स्म वै तद्विद्वानुद्दालक आरुनिराह ।
एतद्ध स्म वै तद्विद्वान्नाको मौद्गल्य आह ।
एतद्ध स्म वै तद्विद्वान् कुमारहारित आह बहवो मर्या ब्राह्मनायना निरिन्द्रिया विसुकृतोऽस्माल्लोकात्प्रयन्ति य इदमविद्वांसोऽधोपहासं चरन्तीति ।
बहु वा इदं सुप्तस्य वा जाग्रतो वा रेतः स्कन्दति ॥ _६,४.४ ॥


__________


शा.भा._६,४.४ एतद्ध स्म वै तद्विद्वानुद्दालक आरुणिराहाधोपहासाख्यं मैथुनकर्म वाजपेयसम्पन्नं विद्वानित्यर्थः ।
तथा नाको मौद्गाल्य कुमारहारितश्च ।
किं त आहुरित्युच्यतेबहवो मर्या मरणधर्मिणो मनुष्या ब्राह्मणा अयनं येषां ते ब्राह्मणायना ब्रह्मबन्धवो जातिमात्रोपजीविन इत्येतत् ।
निरिन्द्रिया विशिलष्टेन्द्रिया विसुकृतो विगतसुकृतकर्माणोऽविद्वांसौ मैथुनकर्मासक्ता इत्यर्थः ।
ते किमस्माल्लोकात्प्रयन्ति परलोकात्परिभ्रष्टा इति मैथुनकर्मणोऽत्यन्तपापहेतुत्वं दर्शयतिय इदमविद्वांसोऽधोपहासं चरन्तीति ।
श्रीमन्थं कृत्वा पत्न्या श्रतुकालं ब्रह्मचर्येण प्रतीक्षते यदीद रतः स्कन्दति बहु वाल्पं वा सुप्तस्य वा जाग्रतो वा रागप्राबल्यात् ॥४॥



_______________________________________________________________________

६,४.५

तदभिमृशेदनु वा मन्त्रयेत यन्मेऽद्य रेतः पृथिवीमस्कान्त्सीद्यदोषधीरप्यसरद्यदपः ।
इदमहं तद्रेत आददे ।
पुनर्मामैतु इन्द्रियं पुनस्तेजः पुनर्भगः ।
पुनरग्निर्धिष्ण्या यथास्थानं कल्पन्ताम् ।
इत्यनामिकाङ्गुष्ठाभ्यामादायान्तरेण स्तनौ वा भ्रुवौ वा निमृज्यात् ॥ _६,४.५ ॥


__________


शा.भा._६,४.५ तदभिमृशेदनुमन्त्रयेत वानुजपेदित्यर्थः ।
यदाभिमृशति तदानामिकाङ्गुष्ठाभ्यां तद्रेत आददे इत्येवमन्तेन मन्त्रेण पुनर्मामित्येतेननिमृज्यादन्तरेण मध्ये भ्रुवौ भ्रुवेर्वा स्तनौ स्तनयोर्वा ॥५॥



_______________________________________________________________________

६,४.६

अथ यद्युदक आत्मानं पश्येत्तदभिमन्त्रयेत मयि तेज इन्द्रियं यशो द्रविणं सुकृतमिति ।
श्रीर्ह वा एषा स्त्रीणां यन्मलोद्वासाः ।
तस्मान्मलोद्वाससं यशस्विनीमभिक्रम्योपमन्त्रयेत ॥ _६,४.६ ॥


__________


शा.भा._६,४.६ अथ यदि कदाचिदुदक आत्मानमात्मच्छायां पश्येत्तत्राप्यत्रिमन्त्रयेतानेन मन्त्रेणमयि तेज इति ।
श्रीर्ह वा एषा पत्ना स्रीणां मध्ये यद्यस्मान्मलोद्वासा उद्गतमलवद्वासास्तस्मात्तां मलोद्वाससं यशस्विनीं श्रीमतीमभिक्रम्याभिगत्योपमन्त्रयेतेदमद्याऽवाभ्यां कार्यं यत्पुत्रोत्पादनमिति त्रिरात्रान्त आप्लुताम् ॥६॥



_______________________________________________________________________

६,४.७

सा चेदस्मै न दद्यात्काममेनामवक्रिणीयात् ।
सा चेदस्मै नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत् ।
इन्द्रियेन ते यशसा यश आदद इति ।
अयशा एव भवति ॥ _६,४.७ ॥


__________


शा.भा._६,४.७ सा चेदस्मै न दद्यान्मैथुनं कर्तुं यत्पुत्रोत्पादनमिति त्रिरात्रान्त ज्ञापयेत् ।
तथापि सा नैव दद्यात्काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेन्मैथुनाय ।
शाप्स्यामि त्वां दुर्भगां करिष्यामीति प्रख्याप्य तामनेन मन्त्रेणोपगच्छेदिन्द्रियेण ते यशसा यश आदद इति ।
सा तस्मात्तदभिशापाद्वन्ध्या दुर्भगेति ख्यातायशा एव भवति ॥७॥



_______________________________________________________________________

६,४.८

सा चेदस्मै दद्यादिन्द्रियेण ते यशसा यश आदधामीति ।
यशस्विनावेव भवतः ॥ _६,४.८ ॥


__________


शा.भा._६,४.८ सा चेदस्मै दद्यादनुगुणैव स्याद्भर्तुस्तदानेन मन्त्रेणोपगच्छेन्द्रियेण ते यशसा यश आदधामीति तदा यशस्विनावेवोभावपि भवतः ॥८॥



_______________________________________________________________________

६,४.९

स यामिच्छेत् कामयेत मेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेत्
अङ्गादङ्गात्संभवसि हृदयादधिजायसे ।
स त्वमङ्गकषायोऽसि दिग्धविद्धामिव मादयेमाममूं मयीति ॥ _६,४.९ ॥


__________


शा.भा._६,४.९ स यां स्वभार्यामिच्छेदियं मां कामयेतेति तस्यामर्थं प्रजननेन्द्रियं निष्ठाय निक्षिप्य मुखेन मुखं संधायोपस्थमस्या अभिमृश्य जपेदिमं मन्त्रमङ्गादङ्गादिति ॥९॥



_______________________________________________________________________

६,४.१०

अथ यामिच्छेन्न गर्भं दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायाभिप्राण्यापान्यात् ।
इन्द्रियेण ते रेतसा रेत आदद इति ।
अरेता एव भवति ॥ _६,४.१० ॥


__________


शा.भा._६,४.१० अथ यामिच्छेन्न गर्भं दधीत न धारयेद्गर्भिणी मा भूदिति तस्यामर्थमिति पूर्ववत् ।
अभिप्राण्याभिप्राणनं प्रथमं कृत्वा पश्चादपान्यादिन्द्रियेण ते रेतसा रेत आदद इत्यनेन मन्त्रेणारेता एव भवति न गर्भिणी भवतीत्यर्थः ॥१०॥



_______________________________________________________________________

६,४.११

अथ यामिच्छेद्दधीतेति तस्यामर्थं निष्ठाय मुखेन मुखं संधायापान्याभिप्राण्यात् ।
इन्द्रियेण ते रेतसा रेत आदधामीति ।
गर्भिण्येव भवति ॥ _६,४.११ ॥


__________


शा.भा._६,४.११ अथ यामिच्छेद्दधीत गर्भमिति तस्यामर्थमित्यादि पूर्ववत् ।
पूर्वविपर्ययेणापान्याभिप्राण्यादिन्द्रियेण ते रेतसा रेत आदधामीति गर्भिण्येव भवति ॥११॥



_______________________________________________________________________

६,४.१२

अथ यस्य जायायै जारः स्यात्तं चेद्द्विष्यादामपात्रेऽग्निमुपसमाधाय प्रतिलोमं शरबर्हिः स्तीर्त्वा तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः सर्पिषाक्ता जुहुयात् ।
मम समिद्धेऽहौषीः ।
प्राणापानौ त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
पुत्रपशूंस्त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
इष्टासुकृते त आददेऽसाविति ।
मम समिद्धेऽहौषीः ।
अशापराकाशौ त आददेऽसाविति ।
स वा एष निरिन्द्रियो विसुकृतोऽस्माल्लोकाद्प्रैति यमेवंविद्ब्राह्मणः शपति ।
तस्मादेवंवित्श्रोत्रियस्य दारेण नोपहासमिच्छेत् ।
उत ह्येवंवित्परो भवति ॥ _६,४.१२ ॥


__________


शा.भा._६,४.१२ अथ पुनर्यस्य जायायै जार उपपतिः स्यात्तं चेद्द्विष्यादभिचरिष्याम्येनमिति मन्येत तस्येदं कर्म ।
आमपात्रेऽग्निमुपसमाधाय सर्वं प्रतिलोमं कुर्यात्तस्मिन्नग्नावेताः शरभृष्टीः शरेषीकाः प्रतिलोमाः सर्पिषाक्ता घृताभ्यक्ता जुहुयान्मम समिद्धेऽहौषीरित्याद्या आहुतीरन्ते सर्वासामसाविति नामग्रहणं प्रत्येकम् ।
स एष एवंविद्या ब्राह्मणः शपति स विसुकृतो विगतपुण्यकर्मा प्रैति ।
तस्मादेवंविच्छ्रोत्रिस्य दारेण नोपहासमिच्छेन्नर्मापि न कुर्यात्किमुताधोपहासं हि यस्मादेवंविदपि तावत्परो भवति शत्रुर्भवतीत्यर्थः ॥१२॥



_______________________________________________________________________

६,४.१३

अथ यस्य जायामार्तवं विन्देत्त्र्यहं कंसे न पिबेत् ।
अहतवासाः ।
नैनां वृषलो न वृषल्यपहन्यात् ।
त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ _६,४.१३ ॥


__________


शा.भा._६,४.१३ अथ यस्य जायामार्तवं विन्देदृतुभावं प्राप्नुयादित्येवमादिग्रन्थः श्रीर्ह वा एषा स्रीणामित्यतः पूर्वं द्रष्टव्यः सामर्थ्यात् ।
त्र्यहं कंसेन पिबेदहतवासाश्च स्यात् ।
नैनां स्नातामस्नातां च वृषलो वृषली वा नोपहन्यान्नोपस्पृशेत् ।
त्रिरात्रान्ते त्रिरात्रव्रतसमाप्तावाप्लुत्य स्नात्वाहतवासा स्यादिति व्यवहितेन संबन्धः ।
तामाप्लुतां व्रीहीनवघातयेद्व्रीह्यवघाताय तामेव विनियुञ्ज्यात् ॥१३॥



_______________________________________________________________________

६,४.१४

स य इच्छेत् पुत्रो मे शुक्लो जायेत वेदमनुब्रुवीत सर्वमायुरियादिति क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ _६,४.१४ ॥


__________


शा.भा._६,४.१४ स य इच्छेत्पुत्रो मे शुक्लो वर्णतो जायेत वेदमेकमनुब्रुवीत सर्वमायुरियाद्वर्षशतं क्षीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयातामाश्वरौ समर्थौ जनयितवै जनयितुम् ॥१४॥



_______________________________________________________________________

६,४.१५

अथ य इच्छेत् पुत्रो मे कपिलः पिङ्गलो जायेत द्वौ वेदावनुब्रुवीत सर्वमायुरियादिति दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ _६,४.१५ ॥


__________


शा.भा._६,४.१५ दध्योदनं दध्ना चरुं पाचयित्वा द्विदेवं चेदिच्छति पुत्रं तदैवमशननियमः ॥१५॥



_______________________________________________________________________
६,४.१६

अथ य इच्छेत् पुत्रो मे श्यामो लोहिताक्षो जायेत त्रीन् वेदाननुब्रुवीत सर्वमायुरियादिति उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ _६,४.१६ ॥


__________


शा.भा._६,४.१६ केवलमेव स्वाभाविकमोदनम् ।
उदग्रहणमन्यप्रसङ्गनिवृत्त्यथम् ॥१६॥



_______________________________________________________________________

६,४.१७

अथ य इच्छेद् दुहिता मे पण्डिता जायेत सर्वमायुरियादिति तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवै ॥ _६,४.१७ ॥


__________


शा.भा._६,४.१७ दुहितुः पाण्डित्यं गृहतन्त्रविषयमेव वेदेऽनधिकारात् ।
तिलौदनं कृतरम् ॥१७॥



_______________________________________________________________________

६,४.१८

अथ य इच्छेत् पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत सर्वान् वेदाननुब्रुवीत सर्वमायुरियादिति मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम् ।
ईश्वरौ जनयितवाइ ।
औक्षेण वार्षभेण वा ॥ _६,४.१८ ॥

__________


शा.भा._६,४.१८ विविधं गीतो विगीतः प्रख्यात इत्यर्थः ।
समितिङ्गमः सभां गच्छतीति प्रगल्भ इत्यर्थः ।
पाण्डित्यस्य पृथग्ग्रहणात् ।
शुश्रूषितां श्रोतुमिष्टां रमणीयां वाचं भाषिता संस्कृताया अर्थवत्या वाचो भाषितेत्यर्थः ।
मांसमिश्रमोदनं मांसौदनम् ।
तन्मांसनियमार्थमाहऔक्षें वा मांसेन ।
उक्षा सेचनसमर्थः पुङ्गवस्तदीयं मांसम् ।
ऋषभस्ततोऽप्यधिकवयास्तदीयमार्षभं मांसम् ॥१७॥



_______________________________________________________________________

६,४.१९

अथाभिप्रातरेव स्थालीपाकावृताज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोत्यग्नये स्वाहानुमतये स्वाहा देवाय सवित्रे सत्यप्रसवाय स्वाहेति ।
हुत्वोद्धृत्य प्राश्नाति ।
प्राश्येतरस्याः प्रयच्छति ।
प्रक्षाल्य पाणी उदपात्रं पूरयित्वा तेनैनां त्रिरभ्युक्षति
उत्तिष्ठातो विश्वावसोऽन्यामिच्छ प्रपूर्व्याम् ।
सं जायां पत्या सहेति ॥ _६,४.१९ ॥


__________


शा.भा._६,४.१९ अथामिप्रातरेव कालेऽवघातनिर्वृत्तांस्तण्डुलानादाय स्थालीपाकावृता स्थालीपाकविधिनाऽज्यं चेष्टित्वाऽज्यसंस्कारं कृत्वा चरुं श्रपयित्वा स्थालीपाकस्याऽहुतीर्जुहोत्युपघातमुपहत्योपहत्याग्नये स्वाहेत्याद्याः ।
गार्ह्यः सर्वो विधिर्द्रष्टव्योऽत्र हुत्वोद्धृत्य चरुशेषं प्राश्नाति स्वयं प्राश्येतरस्याः पत्न्यै प्रयच्छत्युच्छिष्टम् ।
प्रक्षाल्य पाणी आचम्योदपात्रं पूरयित्वा तेनोदकेनैनां त्रिरभ्युक्षत्येन मन्त्रेणोत्तिष्ठात इति सकृन्मन्त्रोच्चारणम् ॥१९॥



_______________________________________________________________________

६,४.२०
अथैनामभिपद्यते अमोऽहमस्मि सा त्वम् ।
सा त्वमस्यमोऽहम् ।
सामाहमस्मि ऋक्त्वम् ।
द्यौरहं पृथिवी त्वम् ।
तावेहि संरभावहै सह रेतो दधावहै ।
पुंसे पुत्राय वित्तय इति ॥ _६,४.२० ॥


__________


शा.भा._६,४.२० अथैनामभिमन्त्र्य क्षीरौदनादि यथापत्यकामं भुक्त्वेति क्रमो द्रष्टव्यः ।
संवेशनकालेऽमोऽहमस्मीत्यादिमन्त्रेणाभिपद्यते ॥२०॥



_______________________________________________________________________

६,४.२१

अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इति ।
तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ।
गर्भं धेहि सिनीवालि गर्भं धेहि पृथुष्टुके ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजौ ॥ _६,४.२१ ॥


__________


शा.भा._६,४.२१ अथास्या ऊरू विहापयति विजिहीथां द्यावापृथिवी इत्यनेन ।
तस्यामर्थमित्यादि पूर्ववत् ।
त्रिरेनां शिरः प्रभृत्यनुलोमामनुमार्ष्टि विष्णुर्योनिमित्यादि प्रतिमन्त्रम् ॥२१॥



_______________________________________________________________________
६,४.२२

हिरण्मयी अरणी याभ्यां निर्मन्थतामश्विनौ ।
तं ते गर्भं हवामहे दशमे मासि सूतये ।
यथाग्निगर्भा पृथिवी यथा द्यौरैन्द्रेण गर्भिणी ।
वायुर्दिशां यथा गर्भ एवं गर्भं दधामि तेऽसाविति ॥ _६,४.२२ ॥


__________


शा.भा._६,४.२२ अन्ते नाम गृह्णात्यसाविति तस्याः ॥२२॥



_______________________________________________________________________

६,४.२३

सोष्यन्तीमद्भिरभ्युक्षति
यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजतु सहावैतु जरायुणा ।
इन्द्रस्यायं व्रजः कृतः सार्गलः सपरिश्रयः ।
तमिन्द्र निर्जहि गर्भेण सावरां सहेति ॥ _६,४.२३ ॥


__________


शा.भा._६,४.२३ सोष्यन्तीमद्भिरभ्युक्षति प्रसवकाले सुखप्रसवनार्थमनेन मन्त्रेण ।
यथा वायुः पुष्करिणीं समिङ्गयति सर्वतः ।
एवा ते गर्भ एजत्विति ॥२३॥



_______________________________________________________________________

६,४.२४
जातेऽग्निमुपसमाधायाङ्क आधाय कंसे पृषदाज्यं संनीय पृषदाज्यस्योपघातं जुहोति
अस्मिन्सहस्रं पुष्यासमेधमानः स्वे गृहे ।
अस्योपसन्द्यां मा छैत्सीत्प्रजया च पशुभिश्च स्वाहा ।
मयि प्राणांस्त्वयि मनसा जुहोमि स्वाहा ।
यत्कर्मणात्यरीरिचं यद्वा न्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान् स्विष्टं सुहुतं करोतु नः स्वाहेति ॥ _६,४.२४ ॥


__________


शा.भा._६,४.२४ थ जातकर्म ।
जातेऽग्निमुपसमाधायाङ्क आधाय पुत्रं कंसे पृषदाज्यं संमीय संयोज्य दधि घृते पृषदाज्यस्योपघातं जुहोत्यस्मिन्सहस्रमित्याद्यावापस्थाने ॥२४॥



_______________________________________________________________________

६,४.२५

अथास्य दक्षिणं कर्णमभिनिधाय वाग्वागिति त्रिः ।
अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति ।
भूस्ते दधामि भुवस्ते दधामि स्वस्ते दधामि भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ _६,४.२५ ॥


__________


शा.भा._६,४.२५ अथास्य दक्षिणं कर्णमभिनिधाय स्वं मुखं वाग्वागिति त्रिर्जपेत् ।
अथ दधि मधु घृतं संनीयानन्तर्हितेनाव्यवहितेन जातरूपेण हिरण्येन प्राशयत्येतैर्मन्त्रैः प्रत्येकम् ॥२५॥



_______________________________________________________________________

६,४.२६

अथास्य नाम करोति वेदोऽसीति ।
तदस्यैतद्गुह्यमेव नाम भवति ॥ _६,४.२६ ॥


__________


शा.भा._६,४.२६ अथास्य नामधेयं करोति वेदोऽसीति ।
तदस्य तद्गुह्यं नाम भवति वेद इति ॥२६॥



_______________________________________________________________________

६,४.२७

अथैनं मात्रे प्रदाय स्तनं प्रयच्छति यस्ते स्तनः शशयो यो मयोभूर्यो रत्नधा वसुविद्यः सुदत्रः ।
येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे करिति ॥ _६,४.२७ ॥


__________


शा.भा._६,४.२७ अथैनं मात्रे प्रदाय स्वाङ्कस्थं स्तनं प्रयच्छति यस्ते स्तन इत्यादिमन्त्रेण ॥२७॥



_______________________________________________________________________

६,४.२८

अथास्य मातरमभिमन्त्रयते इलासि मैत्रावरुणी वीरे वीरमजीजनत् ।
सा त्वं वीरवती भव यास्मान् वीरवतोऽकरदिति ।
तं वा एतमाहुः अतिपिता बताभूः ।
अतिपितामहो बताभूः ।
परमां बत काष्ठां प्राप श्रिया यशसा ब्रह्मवर्चसेन ।
य एवंविदो ब्राह्मणस्य पुत्रो जायत इति ॥ _६,४.२८ ॥


__________


शा.भा._६,४.२८ अथास्य मातरमभिमन्त्रयत इलासीत्यनेन ।
तं वा एतमाहुरित्यनेन विधिना जातः पुत्रः पितरं पितामहं चातिशेत इति श्रिया यशसा ब्रह्मवर्चसेन परमां निष्ठां प्रापदित्येवं स्तुत्यो भवतीत्यर्थः ।
यस्य चैवंविदो ब्राह्मणस्य पुत्रो जायते स चैवं भवतीत्यध्याहार्यम् ॥२८॥

इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य चतुर्थं ब्राह्मणम् ॥४॥



_______________________________________________________________________

६,५.१४

अथ वंशः ।
पौतिमाषीपुत्रः कात्यायनीपुत्रात् ।
कात्यायनीपुत्रो गौतमीपुत्रात् ।
गौतमीपुत्रो भारद्वाजीपुत्रात् ।
भारद्वाजीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्र औपस्वस्तीपुत्रात् ।
औपस्वस्तीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रः कात्यायनीपुत्रात् ।
कात्यायनीपुत्रः कौशिकीपुत्रात् ।
कौशिकीपुत्र आलम्बीपुत्राच्च वैयाघ्रपदीपुत्राच्च ।
वैयाघ्रपदीपुत्रह्काण्वीपुत्राच्च कापीपुत्राच्च ।
कापीपुत्रः ॥ _६,५.१ ॥



आत्रेयीपुत्रात् ।
आत्रेयीपुत्रो गौतमीपुत्रात् ।
गौतमीपुत्रो भारद्वाजीपुत्रात् ।
भारद्वाजीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रो वात्सीपुत्रात् ।
वात्सीपुत्रः पाराशरीपुत्रात् ।
पाराशरीपुत्रो वार्कारुनीपुत्रात् ।
वार्कारुणीपुत्रो वार्कारुणीपुत्रात् ।
वार्कारुणीपुत्र आर्तभागीपुत्रात् ।
आर्तभागीपुत्रः शौङ्गीपुत्रात् ।
शौङ्गीपुत्रः सान्कृतीपुत्रात् ।
साङृतीपुत्र आलम्बायनीपुत्रात् ।
आलम्बायनीपुत्र आलम्बीपुत्रात् ।
आलम्बीपुत्रो जायन्तीपुत्रात् ।
जायन्तीपुत्रो माण्डूकायनीपुत्रात् ।
माण्डूकायनीपुत्रो माण्डूकीपुत्रात् ।
माण्डूकीपुत्रः शाण्डिलीपुत्रात् ।
शाण्डिलीपुत्रो राथीतरीपुत्रात् ।
राथीतरीपुत्रो भालुकीपुत्रात् ।
भालुकीपुत्रः क्रौञ्चिकीपुत्राभ्याम् ।
क्रौञ्चिकीपुत्रौ वैदभृतीपुत्रात् ।
वैदभृतीपुत्रः कार्शकेयीपुत्रात् ।
कार्शकेयीपुत्रः प्राचीनयोगीपुत्रात् ।
प्राचीनयोगीपुत्रः साञ्जीवीपुत्रात् ।
साञ्जीवीपुत्रः प्राश्नीपुत्रादासुरिवासिनः ।
प्राश्नीपुत्र आसुरायणात् ।
आसुरायण आसुरेः ।
आसुरिः। _६,५.२ ॥



याज्ञवल्क्यात् ।
याज्ञवल्क्य उद्दालकात् ।
उद्दालकोऽरुणात् ।
अरुण उपवेशेः ।
उपवेशिः कुश्रेः ।
कुश्रिर्वाजश्रवसः ।
वाजश्रवा जीह्वावतो बाध्योगात् ।
जीह्वावान् बाध्योगोऽसिताद्वार्षगणात् ।
असितो वार्षगणो हरितात्कश्यपात् ।
हरितः कश्यपः शिल्पात्कश्यपात् ।
शिल्पः कश्यपः कश्यपान्नैध्रुवेः ।
कश्यपो नैध्रुविर्वाचः ।
वागम्भिण्याः ।
अम्भिण्यादित्यात् ।
आदित्यानीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञवल्क्येनाख्ययन्ते ॥ _६,५.३ ॥


समानमा साञ्जीवीपुत्रात् ।
सञ्जिवीपुत्रो माण्डूकायनेः ।
माण्डूकायनिर्माण्डव्यात् ।
माण्डव्यः कौत्सात् ।
कौत्सो माहित्थेः ।
माहित्थिर्वामकक्षायणात् ।
वामकक्षायणः शाण्डिल्यात् ।
शाण्डिल्यो वात्स्यात् ।
वात्स्यः कुश्रेः ।
कुश्रिर्यज्ञवचसः राजस्तम्बायनात् ।
यज्ञवचा राजस्तम्बायनः तुरात्कावषेयात् ।
तुरः कावषेयः प्रजापतेः ।
प्रजापतिर्ब्रह्मणः ।
ब्रह्म स्वयंभु ।
ब्रह्मणे नमः ॥ _६,५.४ ॥


__________


शा.भा._६,५.१४ अथेदानीं समस्तप्रवचनवंशः ।
स्रीप्राधान्यात्गुणवान्पुत्रो भवतीति प्रस्तुतम् ।
अतः स्रीविशेषणेनैव पुत्रविशेषणादाचार्यपरम्परा कीर्त्यते ।
तानीमानि शुक्लानीत्यव्यामिश्राणि ब्राह्मणेन ।
अथवा यानीमानि यजूंषि तानी शुक्लानि शुद्धानीत्येतत् ।
प्रजापतिमारभ्य यावत्पौतिमाषीपुत्रस्तावदधोमुखो नियताचार्यपूर्वक्रमो वंशः समानमासांजीवीपुत्रात् ।
ब्रह्मणः प्रवचनाख्यस्य ।
तच्चैतद्ब्रह्म प्रजापतिप्रबन्धपरम्परयाऽगत्यास्मास्वनेकधाविप्रसृतमनाद्यनन्तं स्वयंभु ब्रह्म नित्यं तस्मै ब्रह्मणे नमः ।
नमस्तदनुवर्तिभ्यो गुरुभ्यः ॥१४ ॥


इति बृहदारण्यकोपनिषदि षष्ठाध्यायस्य पञ्चमं ब्राह्मणम् ॥५॥

इति वाजसनेयके बृहदारण्यकोपनिषदि षष्ठोध्यायः ॥६॥

इति वाजसनेयकेबृहदारण्यकक्रमेणाष्टमोऽध्यायः ॥८॥
इति शुक्लयजुर्वेदीया बृहदारण्यकोपनिषत्संपूर्णा

ओं पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ओं शान्तिः शान्तिः शान्तिः