बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः)

विकिस्रोतः तः
               




   

॥ अर्धनारीश्वरस्तोत्रम् ॥

चाम्पेयगौरार्धशरीरकायै
कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायैच जटाधराय
नमः शिवायै च नमः शिवाय ॥१
कस्तूरिकाकुङ्कुमचर्चितायै
चितारजापुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः ...॥२
झणत्क्वणत्कङ्कणनूपुरायै
पादाब्जराजस्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय नमः ...॥ ३
विशालनीलोत्पललोचनायै
विकासिपङ्केरुलोचनाय ।
समेक्षणायै विषमेक्षणाय नमः ...॥ ४
मन्दारमालाकलितालकाय
कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नमः ...॥ ५

अम्भोधरश्यामलकुन्तलायै
तटित्प्रभाताभ्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः ...॥ ६
प्रपञ्चसृष्ट्युन्मुखलास्यकायै
समस्तसंहारकताण्डवाय ।
जगजनन्यै जगदेकपित्रे नमः ... ॥७
प्रदीप्तरत्नोज्ज्वलकुण्डलायै
स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः ...॥८
एतत्पठेदष्टकमिष्टदं यो
भक्त्या स मान्यो भुवि दीर्घजीवी।
प्राप्नोति सौभाग्यमनन्तकालं
भूयात्सदा तस्य समस्तसिद्धिः ॥ ९

॥ इति श्रीमच्छङ्कराचार्यविरचितं अर्धनारीश्वरस्तोत्रं सम्पूर्णम् ॥ शिवनामावल्यष्टकम्

हे चन्द्रचूड मदनान्तक शूलपाणे
स्थाणो गिरीश गिरिजेश महेशशम्भो।
भूतेशभीतभयसूदनमामनाथं
संसारदुःखगहनाज्जगदीश रक्ष ॥ १
हे पार्वतीहृदयवल्लभ चन्द्रमौले
भूताधिप प्रमथनाथ गिरीश चाप ।
हे वामदेव भव रुद्र पिनाकपाणे संसार ...॥२
हे नीलकण्ठ वृषभध्वज पञ्चवक्त्र
लोकेश शेषवलय प्रमथेश शर्व।
हे धूर्जटे पशुपते गिरिजापते मां संसार...॥३
हे विश्वनाथ शिवशङ्कर देवदेव
गङ्गाधर प्रमथनायक नन्दिकेश ।
बाणेश्वरान्धकरिपो हर लोकनाथ संसार...||४
वाराणसीपुरपते मणिकर्णिकेश
वीरेश दक्षमखकाल विभो गणेश।
सर्वज्ञ सर्वहृदयैकनिवास संसार ...॥५

श्रीमन्महेश्वर कृपामय हे दयालो
हे व्योमकेश शितिकण्ठ गणाधिनाथ ।
भस्माङ्गराग नृकपालकलापमाल संसार ...॥६
कैलासशैलविनिवास वृषाकपे हे
मृत्युञ्जय त्रिनयन त्रिजगन्निवास।
नारायणप्रियमदापह शक्तिनाथ संसार ...॥७
विश्वेश विश्वभवनाशक विश्वरूप
विश्वात्मक त्रिभुवनैकगुणाधिकेश ।
हे विश्वनाथ करुणामय दीनबन्धो संसार ...॥८
गौरीविलासभवनाय महेश्वराय
पञ्चाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्र्यदुःखदहनाय नमः शिवाय ॥९

इति श्रीमत्परमहंस परिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ

॥ शिवनामावल्यष्टकं सम्पूर्णम् ॥

॥ दशश्लोकी ॥

न भूमिर्न तोयं न तेजो न वायु-
र्न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात्सुषुप्यैकसिद्ध-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ १
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणा ध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहाना-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ २
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थ ब्रुवन्ति ।
सुषुप्तौ निरस्ताविशून्यात्मकत्वा-
तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ ३
न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।

विशिष्टानुभूत्या विशुद्धात्मकत्वा-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥४
नचोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यङ् न पूर्वापरा दिक् ।
वियद्य्वापकत्वादखण्डैकरूप-
स्तदेकोऽवशिष्ठश्शिवः केवलोऽहम् ॥५
न शुक्लं न कृष्णं न रक्तं न पीतं
न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वा-
त्तदेकोऽवशिष्ठश्शिवः केवलोऽहम् ॥६
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं नचायं प्रपञ्चः।
स्वरूपावबोधो विकल्पासहिष्णु-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥७
न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
र्न विश्वो न वा तेजसः प्राज्ञको वा ।

अविद्यात्मकत्वात्त्रयाणां तुरीय-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥८
अपि व्यापकत्वाद्धि तत्वप्रयोगा-
त्स्वतस्सिद्धभावादनन्याश्रयत्वात् ।
जगत्तुच्छमेतत्समस्तं तदुस्या-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥९
न चैकं तदन्यद्द्वितीयं उत स्या-
न्न वा केवलत्वं न चाकेवलत्वम्
न शून्यं न चाशून्यमद्वैतकत्वात्-
कथं सर्ववेदान्तसिद्धिं ब्रवीमि॥१०
दशश्लोकवर्या इमे सम्यगुक्ता
अहो शङ्कराचार्यवक्त्रारविन्दात् ।
अजस्रं पठन्तीह सन्तोषबुद्ध्या
प्रयान्त्येव ते सच्चिदानन्दरूपम् ॥११

॥ इति श्रीमच्छङ्कराचार्यविरचिता दशश्लोकी सम्पूर्णा ॥

॥ दशश्लोकीस्तुतिः ॥

साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्बं स्तौमि सुरासुरोरगगणास्साम्बेन सन्तारिताः।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
साम्बस्यानुचरोऽस्म्यहं मम रतिस्साम्बे परब्रह्मणि ॥
विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्तास्स्वयं
यं शम्भु भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
साललानियोजितास्सुमनस्स्वस्था बभूवुस्तत-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥२
क्षोणी यस्य रथो रथाङ्गयुगळं चन्द्रार्कबिम्बद्वयं
कोदण्डः कनकाचलो हरिरभूद्बाणो विधिस्सारथिः।
तूणीरो जलधिर्हयाश्श्रुतिचयो
मौर्वी भुजङ्गाधिपस्तस्मिन्मे...॥ ३
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैस्स्रमं
येन स्वीकृतमब्जसम्भवशिरस्सौवर्णपात्रैस्समं ।

येनाङ्गीकृतमच्युतस्य नयनं पूजारविंदस्समं
                           तस्मिन्मे ...॥
गोविन्दादधिकं न देवतमिति प्रोच्चार्य हस्तावुभा-
वुद्धृत्याथ शिवस्य सन्निधिगतो व्यासो मुनीनां पुरः।
यस्य स्तम्भितपाणिरानविकृता
नन्दीश्वरेणाभवत्तस्मिन्मे ... ॥ ५
आकाशश्च कुठायते दश दिशाभोगो दुकूलायते
शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते ।
वेदान्तो निलयायते सुविनयो
यस्य स्वभावायते तस्मिन्मे ... ॥ ६
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वयम् ।
सम्पूज्यासुरसंहतिं विदलयं-
स्त्रैलोक्यपालोऽभवत्तस्मिन्मे ...॥ ७
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।

मिध्यावाचमपूज्यमेव सततं
हंसस्वरूपं विधिं तस्मिन्मे ...॥ ८
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते।
ॐकारार्थविवेकिनी श्रुतिरियं
चाचष्ट तुर्यं शिवं तस्मिन्मे ...॥ ९
विष्णुब्रह्मसुराधिपप्रभृतयस्सर्वेऽपि देवासुरा-
सम्भूताज्जलधेर्विषात्परिभवं प्राप्ता यमेत्येश्वरम् ।
यानार्तंश्छरणागतानिति सुरा
न्योऽरक्षदर्धक्षणात्तस्मिन्मे ...॥ १०

॥ इति श्रीमच्छङ्कराचार्यविरचिता दशश्लोकीस्तुतिः सम्पूर्णा ॥

श्रीदक्षिणामूर्त्यष्टकम्

मन्दस्मितं स्फुरितमुग्धमुखारविन्दं
कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम् ।
आतास्रकोमलजटाघटिर्तेन्दुरेख-
मालोकये वटतटीनिलयं दयालुम् ॥१
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यस्साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं शनै-
र्मायाकल्पितदेशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि
महायोगीव यस्स्वेच्छया तस्मै... ॥ ३
यस्यैव स्फुरणं सदात्मकमसत्कल्यार्थकं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रिताम् ।

मस्साक्षात्करणाद्भवेन्न पुन-
रावृत्तिर्भवाम्भोनिधौ तस्मै ...॥ ४
नानाछिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीवि तमेव मान्तमनुमा-
त्येतत्समस्तं जगत्तस्मै ...॥ ५
देहं प्राणमपीन्द्रियाण्यपि चलां
बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति
भ्रान्ता भृशं वादिनः।
मायाशक्तिविलासकल्पितमहा-
व्यामोहसंहारिणे तस्मै ...॥ ६
राहुग्रस्तदिवाकरेन्दुसदृशो
मायासमाच्छादना
त्सन्मात्र: करणोपसंहरणतो
योऽभूत्सुषुप्तः पुमान् ।

प्रागस्वाप्समिति प्रबोधसमये
यः प्रत्यभिज्ञायते तस्मै ...॥ ७
बाल्यादिष्वपि जामदादिषु
तथा सर्वास्खवस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमि-
त्यन्तं स्फुरन्तं सदा।
स्वात्मानं प्रकटीकरोति भजता
यो मुद्रया भद्रया तस्मै ...॥ ८
विश्वं पश्यति कार्यकारणतया
स्वखामिसम्बन्धत-
श्शिष्याचार्यतया तथैव पितृ-
पुत्राद्यात्मना भेदतः।
स्वप्ने जाग्रतिं वा य एष पुरुषो
मायायरिभ्रामिततस्मै ...॥ ९
भूरम्भांस्यनलोऽनिलोऽम्बरमह-
र्नाथो हिमांशुः पुमा-

नित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां
यस्मात्परस्माद्विभोस्तस्मै ॥१०
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वत:
सिध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥११
वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥१२
चित्रं वटतरोर्मूले वृद्धाश्शिष्या गरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तु छिन्नसंशयाः ॥
मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं
वर्षिष्टान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलितचिन्मुद्रमानन्दमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे॥ १४

सुनिर्मलज्ञानसुखैकरूपं
प्रज्ञानहेतुं परमार्थदायिनम् ।
चिदम्बुधौ तं विहरतमाद्य-
मानन्दमूर्तिं गुरुराजमीडे॥ १५
यस्यान्तर्नादिमध्यं न हि
करचरणं नाम गोत्रं न सूत्रं
नो जातिर्नैव वर्णा न भवति
पुरुषो ना नपुंसं न च स्त्री।
नाकारं नैवकारं न हि जनि
मरणं नास्ति पुण्यं न पापं
तत्वं नो तत्त्वमेकं सहज-
समरसं सद्गुरुं तं नमामि ॥ १६
अलं विकल्पैरहमेव केवलं
मयि स्थितं विश्वमिदं चराचरम् ।
इदं रहस्यं मम येन दर्शितं
स वन्दनीयो गुरुरेव केवलम् ॥ १७

॥ इति श्रीमच्छङ्कराचार्यविरचितं दक्षिणामूर्त्यष्टकं सम्पूर्णम् ॥

॥ श्रीदक्षिणामूर्तिचतुर्विंशतिवर्णमालास्तोत्रम् ।।

ओमित्येतदस्य बुधैर्नाम गृहीतं
यद्भास्त्रेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १
नम्राङ्गानां भक्तिमतां यः पुरुषार्थं
दत्ते क्षिप्रं हन्ति च तत्सर्वविपत्तीः।
पादाम्भोजास्तनितापस्मृतिमीशं तं... ॥ २
मोहध्वंत्यै वैणिकवैयासिकमुख्या-
त्संविन्मुद्रापुखकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवंतस्तं... ॥ ३
भद्रारूढं भद्रदमाराधयितॄणां
भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्चितसिध्यै करुणाब्धितं... ॥ ४

गर्भान्तस्था: प्राणिन एते भव-
पाशच्छेदे दक्षं निश्चित्तवन्तः शरणं यम् ।
आराध्याङ्घ्रिम् प्रस्फुरदम्भोरुहयुग्मं तं ...॥ ५
वक्त्रं धन्यास्संसृतिवार्धेरतिमात्रा-
द्भीतास्सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवन्तेऽध्यासीनमनन्तं वटमूलं तं ... ॥ ६
तेजस्तोमैरङ्गदसङ्घट्टितभास्व-
न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः।
तेजोमूर्तिं खानिलतेजप्रमुखाब्धितं... ॥ ७
दध्याज्यादिद्रव्यककर्माण्यखिलानि
त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।
यज्जिज्ञासारूपफलार्थी क्षितिदेवस्तं... ॥ ८
क्षिप्रं लोके यं भजमानः पृथुपुण्य:
प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः।
प्रत्यग्भूतं ब्रह्म परं सत्रमते यस्तं... ॥ ९

णानेत्येवं यन्मनुमध्यस्थितवर्णं-
भक्ताः काले वर्णगृहीतेः प्रजपन्तः ।
मोदंते सम्प्राप्तसमस्तश्रुतितन्त्रास्तं... ॥ १०
मूर्तिच्छायानिर्जितमन्दाकिनिकुन्द.
प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।
यस्याभ्रामा हासविधौ दक्षशिरोधिस्तं ... ॥११
तप्तवर्णच्छायजटाजूटकटाह प्रोद्य-
द्वीचीवल्लिविराजन्सुरसिन्धुम् ।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं तं... ... ॥१२
येन ज्ञातेनैव समस्तं विदितं
स्याद्यस्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं तं ... ॥१३
मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः
तद्भस्मासीद्यस्य सुजातः पटवासस्तं ...॥१४
सम्भोराशौ संसृतिरूपे लुठतां
तत्पारं गन्तुं यत्पदभक्तिर्दृढनौका ... ॥१५

सर्वाराध्यं सर्वगमानन्दपयोधिं तं ... ॥१५
मेधावी स्यादिंदुवतंसं धृतवीणं
कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्रादड्निमिषार्धं तं ...॥१६
धान्नां धाम प्रौढरुचीनां परमं
यत्सूर्यादीनां यस्य स हेतुर्जगदादेः ।
एतावन्ये यस्य स सर्वेश्वरमीड्यं तं ...॥१७
प्रत्याहारप्राणनिरोधादिसमर्थै -
भक्तैर्दान्तैरसंयतचित्तैर्यतमानैः ।
स्वात्मत्वेन ज्ञायत एव त्वरया यस्तं ... ॥१८
ज्ञांशीभूतान्प्राणिन एतान्फलदाता
चित्तान्तस्थः प्रेरयति स्वे सकलेऽपि ।
कृत्ये देवः प्राक्तनकर्मानुसरत्सन् तं ...॥ १९
प्रज्ञामात्रं प्रापितसंविन्निजभक्तं
प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा यं विदितानुभवतत्वास्तं ...॥२०

यस्थ ज्ञानादेव नृणां संसृतिबोधो
यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरोदेशिकमाद्यं तं... ॥२१
छिन्नेऽविद्यारूपवटे नैव च विश्वं
यत्राध्यस्तं जीवपरेशत्वमपीदम् ।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं तं... ॥२२
स्वापस्वप्नौ जाग्रदवस्थापि न तत्र
प्राणश्चेतस्सर्वगतो यस्सकलात्मा ।
कूटस्थो यः केवलसञ्चित्सुखरूपस्तं ...॥२३
हाहेत्येवं विस्मयमीयुर्मुनिमुख्याः
ज्ञाते यस्मिन्स्वात्मतया नात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं तं... ॥२४
यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
रादौ गुप्ता यन्मनुवर्णैतिभङ्गी ।
तामेवैतां दक्षिणवक्र: कृपयासा
दूरीकुर्याद्देशिकसम्राट्परमात्मा ॥२५
॥ इति श्रीमच्छङ्कराचार्यविरचित
दक्षिणामूर्तिवर्णमालास्तोत्रं सम्पूर्णम् ॥

॥ श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम् ॥

कैलासे कमनीयरत्नखचितेकल्पद्रुमूले स्थितं
कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं
कण्ठालङ्कृतशेषभूषणममुं मृत्युञ्जयं भावये ॥ .१
आगत्य मृत्युञ्जयचन्द्रमौले
व्याघ्राजिनालङ्कृत शूलपाणे।
स्वभक्तसंरक्षणकामधेनो
प्रसीद विश्वेश्वरपार्वतीश ॥२
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुतालङ्कृते
सौधे धूपसुवासिंते मणिमये माणिक्यदीपाञ्चिते।
ब्रम्हेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः
श्रीमृत्युञ्जयसुस्थिरो भव विभो माणिक्यसिम्हासने॥
मन्दारमल्लीकरवीरमाधवी-
पुन्नागनीलोत्पल चम्पकान्वितैः।

कर्पूरपाटीरसुवासितैर्जलै-
राधत्स्व मृत्युञ्जयपाद्यमुत्तमम् ॥४
सुगन्धपुष्पप्रकरैः सुवासितै-
र्वियन्नदीशीतलवारिभिः शुभैः।
त्रिलोकनाथार्तिहरार्ध्यमादरा.
द्गृहाण मृत्युञ्जय सर्ववन्दित ॥५
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥६
गुडदधिसहितं मधुप्रकीर्णं
सुघृतसमन्वित धेनुदुग्धयुक्तम् ।
शुभकर मधुपर्कमाहर त्वं
त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥७
पश्चास्त्रशान्तपश्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥८
जगत्तूयोख्यात समस्ततीर्थ-
समाहृतैः कल्मषहारिभिश्च।

स्नानं सुवोयैः समुदाचर त्वं
मृत्युञ्जयानन्तगुणाभिराम ॥९
आनीतेनातिशुभ्रेण कौशेयेनामरसद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥१०
नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥ ११
विशुद्धमुक्ताफलजालरम्यं
मनोहरं काञ्चन हेमसूत्रम् ।
यज्ञोपवीतं परमं पवित्र-
माधरस्व मृत्युञ्जय भक्तिगम्य ॥ १२
भीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं
कालेयेन हिमाम्बुना विरचितं मन्दारसंवासितं ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं
सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥१४

चम्पकपङ्कजकुरबक कुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सत्पद्मसदृशौ मृत्युञ्जय निवेशय ॥... ॥१६
माणिक्यकेयूरकिरीटहारैः
काश्चीमणिस्थापितकुण्डलैश्च ।
मञ्जीरमुख्याभरणैर्मनोग्मज्ञै-
रङ्गानि मृत्युञ्जय भूषयामि ॥ १७
गजवदनस्कन्दधृतेनातिस्वच्छेन चामरयुगेन ।
गलदपलकाननपनं मृत्युञ्जय भावयामि हृत्पद्मे ॥
मुक्तातपत्रं शशिकोटिशुभ्रं
शुभप्रदं कानञ्चनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं
सुरेश मृत्युञ्जय तेऽर्पयामि ॥१९
मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकारसत्पार्श्वे।
कन्दर्पकोटिसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥

कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमन्वितैश्चा
समुद्भवं पावनगन्धधूपितं मृत्युञ्जयाङ्गं
परिकल्पयामि।। २१
वर्तित्रयोपेतमखण्डदीप्तया तमोहरं बाह्यमथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं सुरेश मृत्युञ्जय वंशदीपम् ॥
राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं
हिङ्गूजीरकसन्मरीचिमिलितैः शाकैरनेकैः शुभैः।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं
श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनंभुज्यताम् ॥
कूश्माण्डवार्ताकपटोलिकानां
फलानि रम्याणि च कारवल्या।
सुपाकयुक्तानि ससौरमाणि श्रीकण्ठ मृत्युञ्जय
भक्षयेश ॥ २४
शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥ २५
शर्करामिलितं स्निग्धं दुग्धान्नं गोघृतान्वितम् ।

कदलीफलसम्मिश्रं भुज्यतां मृत्युसंहर ॥
केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितः
एलामरीचिमिलितं मृत्युञ्जय देव भुङ्श्व परमान्नम् ॥
रम्भाचूतकपित्थकण्टकफलैर्द्राक्षारसखादुम-
त्खर्जूरैमधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैगुडजलैर्माधुर्ययुक्तैर्विभो
श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥ २८
मनोज्ञरम्भावनखण्डखण्डिता-
 न्रुचिप्रदान् सर्षपजीरकांश्च ।
ससौरभान् सैन्धवसेवितांश्च
गृहाण मृत्युञ्जय लोकवन्द्य ॥ २९
हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डॉंलवणयुतान्मृत्युञ्जय तेऽर्पयामि
जगदीश ॥३०
एलाशुण्ठीसहितं दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश।।

जम्बीरनीराश्चितशृङ्गबेरं
मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहसोपभुङ्क्ष्व
मृत्युञ्जय श्रीकरुणासमुद्र ॥३२
नागररामठयुक्तं सुललित
जम्बीरनीरसम्पूर्णम् ।
मथितं सैन्धवसहितं पिब
हर मृत्युञ्जय क्रतुध्वंसिन् ॥ ३३
मन्दारहेमाम्बुजगन्धयुक्तै-
र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम
श्रीमत्परापोशनमभ्रकेश ।
गगनधुनीविमलजलैः मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं प्रक्षालय चारुहस्तपादयुग्मम् ॥
पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥

मौक्तिकचूर्णसमेतैर्मृगमदघनसारवासितैः पूगैः ।
पणवर्णसमानैर्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥ ३७
नीराजनं निर्मलदीप्तिमद्धि-
दीपाङ्कुरैरुज्वलमुच्छ्रितश्च ।
घण्टानिनादेन समर्पयामि
मृत्युञ्जयाय त्रिपुरान्तकाय ॥३८
विरिश्चिमुख्यामरबृन्दवन्दिते
सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे
फणीन्द्रभूषे पुनरयमीश्वर ॥ ३९
पुन्नागनीलोत्पलकुन्दजाजी
मन्दारवल्ली करवीरपङ्कजैः।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या
मृत्युञ्जयाङ्क विनिवेशयामि ॥४०
पदे पदे सर्वतमोनिकृन्तनं
पदे पदे सर्वशुभप्रदायकम् ।

प्रदक्षिणं भक्तियुतेन चेतसा
करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥ ४१
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो
नमो लोकेशाय स्तुतविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो
नमः फालाक्षाय स्मरमदविनाशाय च नमः॥ ४२
संसारे जनितापरोगसहिते तापत्रयाक्रन्दिते
नित्यं पुनकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो
श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे
कौशेयेन मनोहरेण धवलेनाच्छादितं सर्वशः।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये
पार्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥ ४४
वपुश्चत्वारिंशद्विलसदुपचारैरभिमतै-
र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम्

करोषि प्रत्यूषे निशि दिवसमध्येऽपि च पुमा-
न्प्रयाति श्रीमृत्युञ्जय पदमनेकाद्भुतपदम् ॥ ४५
प्रातर्लिङ्गमुमापतेरहरहः सन्दर्शनात्स्वर्गदं
मध्याह्ने हयमेधतुल्यफलदं सायन्तने मोक्षदं ।
भानोरस्तमये प्रदोषसमये पञ्चाक्षराराधनं
तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥ ४६

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य


श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ


॥ मृत्युञ्जयमानसिकपूजास्तोत्रं सम्पूर्णम् ॥

दारिद्र्यदहनशिवस्तोत्रम्

विश्वेश्वराय नरकार्णवतारणाय
कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकान्तिधवलाय जटाधराय
दारिद्र्यदुःखदहनाय नमः शिवाय ॥१
गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय ।
गङ्गाधराय गजराजविमर्दनाय दारिद्य
भक्तिप्रियाय भवरोगभयापहाय
उग्राय दुर्गभवसागरतारणाय ।
ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्य...॥
चर्माम्बराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय ।
मञ्जिरपादयुगलाय जटाधराय दारिद्र्य ... ॥
पञ्चाननाय फणिराजविभूषणाय

हेमांशुकाय भुवनत्रयमण्डिताय ।
आनन्दभूमिवरदाय तमोमयाय दारिद्र्यम्... ॥
भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षणलक्षिताय दारिद्र्य ...॥
रामप्रियाय रघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्य ...॥
मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङ्गचर्मवसनाय महेश्वराय दारिद्र्य ...॥८
वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणम् ।
सर्वसंपत्करं शीघ्रं पुत्रपौत्राभिवर्धनम् ।
त्रिसन्ध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् ॥
॥ इति श्रीवसिष्ठविरचितं दारिद्र्यहनस्तोत्रं सम्पूर्णम् ॥

॥ शङ्कराष्टकम् ॥

शीर्षजटागणभारं गरलाहारं समस्तसंहारम् ।
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे ॥ १
चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्त्रर्याफालम् ।
कृतनरमस्तकमालं कालं कालस्य कोमलं वन्दे ॥ २
कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे ॥ ३
कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् ।
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे ॥ ४
त्रिपुरादिकदनुजांतं गिरिजाकान्तं सदैव संशान्तम्
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे ।
सुरसरिदाप्लुतकेशं त्रिदशकुलेशं दालयावेशम् ।
विगताशेषक्लेशं देशं सर्वेष्टसम्पदां वन्दे ॥ ६
करतलकलिवपिनाकं विगतजराकं सुकर्मणां पाकम् ।
परपदवीतवराकं नाकङ्गमपूगवन्दितं वन्दे ।।७

भूतिविभूषितकार्य दुस्तरमायं विवर्जिवापायम् ।
प्रमथसमूहसहायं सायं प्रातनिरन्तरं वन्दे ॥ ८
यस्तु पदाष्टकमेतद्ब्रह्मानन्देन निर्मितं नित्यम् ।
पठति समाहितचेताः प्राप्नोत्यन्ते स शैवमेव पदम् ॥

इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं


श्रीशङ्कराष्टकं सम्पूर्णम् ॥


सुवर्णमालास्तुतिः

अथ कथमपि मद्रसनां त्व-
गुणलेशैर्विशोधयामि विभो
साम्ब सदाशिव शम्भो
शङ्कर शरणं मे तव चरणयुगम् ॥ १
आखण्डल मदखण्डन पण्डित
तण्डुप्रिय चण्डीश विभो । साम्ब ॥२
इभचर्मांबर शम्बररिपुरप-
हरणोज्वलनयन विभो । साम्ब... ॥ ३
ईशगिरीश नरेश परेश
महेश बिलेशय भूषण भो । साम्ब ॥४
उमया दिव्यसुमङ्गल विग्रहयाss-
लिङ्गितवामाङ्ग विभो । साम्ब ...॥ ५
ऊरीकुरु मामज्ञमनाथं
दूरीकुरु मे दुरितं भो । साम्ब॥ ६

ऋषिवरमानसहंसचराचर-
जनन स्थितिलय कारण भो । साम्ब ...॥
ऋक्षाधीश किरीट महोक्षा-
रूढविधूतरुद्राक्ष विभो । साम्ब ...॥ ८
लृवर्णद्वन्द्वमवृन्तसुकुसुम-
मिवाङ्घ्रौ तवार्पयामि विभो । साम्ब ...॥
एकं सदिति श्रुत्या त्वमेव
सदसीत्युपास्महे मृड भो । साम्ब ...॥
ऐक्यं निजभक्तेभ्यो वितरसि
विश्वम्भरोऽत्र साक्षी भो । साम्ब ...
ओमिति तव निर्देष्ट्री माया-
स्माकं मृडोपकर्त्रि भो । साम्ब ... ॥ १२
औदास्यं स्फुटयति विषयेषु
दिगम्बरता च तवैव विभो । साम्ब ...॥
अन्त: करणविशुद्धिं भक्तिं च
स्वयि सती प्रदेहि विभो । साम्ब ...॥

अस्तोपाधिसमस्तव्यस्तै-
रूपैर्जगन्मयोऽसि विमो। साम्ब ...॥
करुणावरुणालय मयि दास
उदासस्तवोचितो नहि भो । साम्ब ॥
खलसहवासं विघटय घटय
सतामेव सङ्गमनिशं भो । साम्ब ... ॥
गरलं जगदुपकृतये गिलितं भवता
समोऽति कोऽत्र विभो । साम्ब ...॥
घनस्रारगौरगात्रप्रचुर-
जटाजूटबद्धगङ्ग विभो । साम्ब ... ॥ १९
ज्ञप्तिः सर्वशरीरेष्वखण्डिताया
विभाति सात्वं भो। साम्ब ॥२०
चपलं मम हृदयकपिं विषय-
द्रुचरं दृढं बधान विभो । साम्ब ... ॥
छायास्थाणोरपि तव पापं
नमतां हरत्यहो शिव भो । साम्ब ॥

जयकैलासनिवास प्रमथ-
गणाधीश भूसुरार्चित भो । साम्ब ..॥
झणुतक इङ्किणु झणुत-
त्किटतकशब्दैनटसिमहानट भो । साम्ब..
ज्ञानं विक्षेपादिरहितं कुरु मे
 गुरुरुत्वमेव विभो । साम्ब ...॥ २५
टक्कारस्तव धनुषो दलयति
  हृदयं द्विषसशनिरिव भो । साम्ब ...॥
टाकृतिरिव तवमायाबहि
रन्तः शून्यरूपिणी खलु भो । साम्ब ...॥
डम्बस्मम्बुरुहामपि दलय-
त्यनघं त्वदङ्घ्रियुगलं भो । साम्ब । ... ॥
ढक्काक्षसूत्र शूलद्रुहिण-
   करोटीसमुल्लसत्कर भो । साम्ब...२९
णाकारगर्भिणी चेच्छुभदा ते
  शरगतिर्नृणामिह भो । साम्ब....॥ ३०

तव मन्वतिसञ्जपतः सद्य-
स्तरति नरोहि भवाब्धिं भो । साम्ब ...॥
धूत्कारस्तस्य मुखे भूयात्ते
नामनास्ति यस्य विभो । साम्ब... ॥३२
दयनीयश्च दयालुः कोऽस्ति
मदन्यस्त्वदन्य इह वद भो । साम्ब
धर्मस्थापनदक्षत्र्यक्षगुरो
दक्षयज्ञशिक्षक भो । साम्ब ...॥ ३४
ननुवाडितोऽसि धनुषा
लुब्धधिया त्वं पुरा नरेण विभो । साम्ब..
परिमातुं तव मूर्तिं नाल-
मजस्तत्परात्परोऽसि विभो । साम्ब ...॥
फलमिह नृतया जनुषस्त्व-
त्पदसेवासनातनेश विभो । साम्ब...॥
बलमारोग्यं चायुस्त्वद्गुण-
रुचितां चिरं प्रदेहि विभो । साम्ब ...

भगवन् भर्ग भयापह भूतपते
भूतिभूषिताङ्ग विभो । साम्ब ...॥ ३९
महिमा तव नहि माति
श्रुतिषु हिमानीधरात्मजाधव भो। साम्ब...
यमनियमादिमिरङ्गैर्यमिनो
  हृदये भजन्ति सत्वं भो । साम्ब ...॥४१
रज्जावहिरिव शुक्तो रजतमिव
त्वयि जगन्ति भान्ति विभो । साम्ब...॥
लब्ध्वा भवत्प्रसादाच्चकं
विधुरवति लोकमखिलं भो। सान्ब
वसुधातद्धरच्छयरथमौर्व-
शरपराकृतासुर भो । साम्ब ...॥ ४४
शर्वदेव सर्वोत्तम सर्वद
दुर्वृत्तगर्वहरण विभो । साम्ब ... ॥ ४५
षड्रिपुषडूर्मि षड्विकारहर
सन्मुख षण्मुख जनक विभो । साम्ब...॥

सत्यं ज्ञानमनन्तं ब्रह्मे-
त्येतल्लक्षणलक्षित भो । साम्ब ...॥ ४७
हाहा हूहू मुख सुरगायक-
गीतापदानपद्य विभो । साम्ब ... ॥ ४८
ळादिर्नहि प्रयोगस्तदन्तमिह
मङ्गलं सदास्तु विभो । साम्ब ... ॥ ४१
क्षणमिव दिवसान्नेष्यति
त्वत्पदसेवाक्षणोत्सुकः शिव भो । साम्ब ...

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ
॥ सुवर्णमालास्तुतिः सम्पूर्णा ॥

॥ विश्वेश्वराष्टकम् ॥ ३६२


गङ्गातरङ्गकमनीयजटाकलापं
     गौरनिरन्तरविभूषितवामभागम् ।
नारायणप्रिय मनङ्गमदापहारं
     वाराणसीपुरपतिं भज विश्वनाथम् ॥ १
वाचामगोचरममेयगुणखरूपं
     वागीशविष्णुसुरसेक्तिपादपीठम् ।
वामेन विग्रहभरेण कळत्रवन्तं वाराणसी ...॥ २
रागादिदोषरहितं सुगुणानुरागं
     वैराग्यशान्तिनिलयं गिरिजासहायम् ।
माधुर्यधैर्यनिलयं गरळाभिरामं वाराणसी ...॥ ३
तेजोमयं सकलनिष्कळमद्वितीय-
    मानन्दकन्दमपराजितमप्रमेयम् ।
नानात्मकं सगुणनिर्गुणमादिदेवं वाराणसी...॥ ४
भूताधिपं भुजगपुङ्गवभूषिताङ्गं

व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् ।
पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसी ...॥ ५
आशां विहाय परिहृत्य परस्वनिन्दां
  पापे रतिञ्च विनिवार्य मनस्समाधौ ।
आधारहृत्कमलमध्यगतं परेशं वाराणसी ... ॥ ६
शीतांशुशोभितकिरीटविराजमानं
   फालेक्षणानलविनाशितपञ्चबाणम् ।
नागाधिपारचितभासुरकर्णपूरं वाराणसी ... ॥ ७
पश्चाननं दुरितमत्तमतङ्गजानां
   नागान्तकं दनुजपुङ्गवपन्नगानाम् ।
दावानलं मरणशोकभयाटवीनां वाराणसी ...॥ ८
वाराणसीपुरपतेः परमेश्वरस्य
व्याघ्रोक्तमष्टकमिदं पठते मनुष्यः ।
विद्याश्श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ॥ ९

     ॥ श्रीविश्वेश्वराष्टकं सम्पूर्णम् ॥
    ‌ ------------

॥ श्रीवटुकभैरवसहस्रनामस्तोत्रम् ॥

    देव्युवाच-
देवेश भक्तिसुलभ देवनायकवन्दित ।
भक्तानां काम्यसिद्ध्यर्थं निदानं ब्रूहि तत्वतः ॥ १
विनैव न्यासजालेन पूजनेन विना भवेत् ।
विनाऽपि कायक्लेशेन विना जप्येन चेश्वर ॥ २
    श्रीमहादेव उवाच-
   अस्य श्रीवटुकभैरवसहस्रनाममालामन्त्रस्य ब्रह्मा-
नन्दभैरवऋषिः अनुष्टुप्छन्दः वटुकभैरवो देवता ।
वं बीजं ह्रीं शक्तिः अभीष्टफलसिद्ध्यर्थे जपे विनि-
योगः॥
वटुकः कामदो नाथो नाथप्रियः प्रभाकरः।
भैरवो भीतिहा दर्पः कन्दर्पो मीनकेतनः ॥ ३
रद्रो वटुर्विभूतीशो भूतनाथः प्रजापतिः ।
दयालुः क्रूर ईशानो जनीशो लोकवल्लभः ॥ ४
देवो दैत्येश्वरो वीरो वीरवन्धो दिवाकरः ।

बलिप्रियः सुरश्रेष्ठः कनिष्ठः कनिष्ठशिशुः ॥ ५
महाबलो महातेजा वित्तजित् ध्युतिवर्धनः ।
तेजस्वी वीर्यवान्वृद्धो विवृद्धो भूतनायकः ॥ ६
काल: कपालकामादिविकारः काममर्दनः।
कामिकारमणः कामी नायकः कालिकाप्रियः॥ ७
कालीशः कामिनीकान्तः कालिकानन्दवर्धनः।
कालिकाहृदयज्ञानी कालिकातनयो नयः ।। ८
खगेशः खेचरः खेटो विशिष्टः खेटकप्रियः।
कुमारः क्रोधनः कालीप्रियः पर्वतरक्षकः॥ ९
गणेज्यो गणनो गूढो गूढाशयो गणेश्वरः ।
गणनाथो गणश्रेष्ठो गणमुख्यो गणप्रियः॥ १०
घोरनाथो घनश्यामो घनमूर्तिर्घनात्मकः ।
घोरनाशो घनेशानो धनपतिर्धनात्मकः ।। ११
चम्पकाभाश्चिरञ्जीवो चारुवेषश्चराचरः।
अन्त्योऽचिन्त्यगणो धीमान् सुचित्तस्थश्चितीश्वरः ।। १२
छत्री छत्रपतिश्छत्रछिन्ननासामनः प्रियः।

छिन्नाभश्छिन्नसन्तापछर्दिराच्छर्दनन्दनः ॥ १३
जनो जिष्णुर्जटीशानो जनार्दनो जनेश्वरः ।
जनौको जनसन्तोषो जनजाड्य विनाशनः ।। १४
जनप्रस्थो जनाराध्यो जनाध्यक्षो जनप्रियः ।
जीवहा जीवदो जन्तुर्जीवनाथो जनेश्वरः ॥ १५
जयदो जित्वरो जिष्णुर्जयश्रीः जयवर्धनः ।
जयाभूमिर्जयाकारो जयहेतुर्जयेश्वरः ।। १६
झङ्कारहृदवान्तात्मा झङ्कारहेतुरात्मभूः ।
ज्ञभेश्वरी हरिर्भर्ता विभर्ता भृत्यकेश्वरः ।। १७
ठीकारहृदयोआत्म ठङ्केशाष्टकनायकः ।
ठकारभूष्ठरन्ध्रेशाष्टिरीशाष्टकुरपतिः ।। १८
डुडीडक्काप्रियः पान्थो डुण्ढिराजो निरन्तकः।
ताम्रस्तमीश्वरस्रेता तीर्थजातस्तडित्प्रभुः ॥ १९
ऋक्षरः ऋक्षकस्तम्भस्तार्क्ष्यकस्तम्भदेश्वरः।
स्थलजः स्थावरस्थाता स्थिरबुद्धिः स्थितेन्द्रियः ॥ २०
स्थिरज्ञातिः स्थिरप्रीतिः स्थिरस्थितिः स्थिराशयः।

दरो दामोदरो दम्भो दाडिमीकुसुमप्रियः ॥ २१
दारिध्र्यहादिमी दिव्यो दिव्यदेहो दिवप्रभः ।
दीक्षाकारो दिवानाथो दिवसेशो दिवाकरः ॥ २२
दीर्घशान्तिर्दलज्योतिर्दलेशो दलसुन्दरः ।
दलप्रियो दलाभाशो दलश्रेष्ठो दलप्रभुः ॥ २३
दलकान्तिर्दलाकारो दलसेव्यो दलार्चितः ।
दीर्घबाहुलश्रेष्ठो दहलूथ्वदलाकृतिः ॥ २४
दानवेशो दयासिन्धुर्दयालुर्दीनवल्लभः ।
धनेशो धनदो धर्मो धनराजो धनप्रियः ।। २५
धनप्रदो धनाध्यक्षो धनमान्यो धनञ्जयः।
धीवरो धातुको धाता धूम्रो धूमच्छविवर्धनः ॥२६
धनिष्ठो धनलच्छत्री धनकाम्यो धनेश्वरः।
धीरे धीरतरो धेनुर्धारेशो धरणीप्रभुः ।। २७
धरानाथो धराधीशो धरणीनायको धरः ।
धराकान्तो धरापालो धरणीभृद्धराप्रियः ॥ २८
धराधारो धराधृष्णो धृतराष्ट्रो धनीश्वरः ।

नारदो नरदो नेता नतिपूज्यो नतिप्रभुः ॥ २९
नतिलभ्यो नतीशानो नतिलघ्वो नतीश्वरः।
पाण्डवः पार्थसम्पूज्यः पाथोदः प्रणतः पृथुः॥ ३०
पुराणः प्राणदो पान्थो पाञ्चाली पावकप्रभुः ।
पृथिवीशः पृथासूनुः पृथिवीभृत्यकेश्वरः ॥ ३१
पूर्वशूरपतिः श्रेयान् प्रीतिदः प्रीतिवर्धनः ।
पार्वतीशः परेशानः पार्वतीहृदयप्रियः ॥ ३२
पार्वतीरमणः पूतः पवित्रः पापनाशनः ।
पात्रोपात्रालिसन्तुष्टः परितुष्टः पुमान्प्रियः ॥ ३३
पर्वेशः पर्वताधीशः पर्वतो नायकात्मजः ।
फाल्गुनः फल्गुनो नाथः फणेशः फणिरक्षकः ॥ ३४
फणीपतिः फणीशानः फणाळिन्दः फणाकृतिः।
बलभद्रो बली बालो बलधीर्बलवर्धनः ।। ३५
बलप्राणो बलाधीशो बलिदानप्रियङ्करः।
बलिराजो बलिप्राणो बलिनाथो बलिप्रभुः॥ ३६
बली बलश्च बालेशो बालकः प्रियदर्शनः ।

भद्री भद्रप्रदो भीमो भीमसेनो भयङ्करः ॥ ३७
भव्यो भव्यप्रियो भूतपतिर्भूतविनाशकः ।
भूतेशो भूतिदो भर्गो भूतभव्यो भवेश्वरः ॥ ३८
भवानीशो भवेशानी भवानीनायको भवः ।
मकारो माधवो मानो मीनकेतुर्महेश्वरः ॥ ३९
महर्षिर्मदनो मन्थो मिथुनेशोऽमराधिपः ।
मरीचिर्मञ्जुलो मोहो मोहहा मोहमर्दनः ॥ ४०
मोहको मोहनो मेधाप्रियो मोहविनाशकः।
महीपतिर्महेशानो महाराजो महेश्वरः ।। ४१
महीश्वरो महीपालो महीनाथो महीप्रियः ।
महीधरो महीशानो मधुराजो मुनिप्रियः ॥ ४२
मौनी मौनधरो मेधो मन्दारो मतिवर्धन:
मतिदो मन्धरो मन्त्रो मन्त्रीशो मन्त्रनायकः ॥ ४३
मेधावी मानदो मानी मानहा मानमर्दनः ।
मीनगो मकराधीशो मकरो मणिरजितः ॥ ४४
मणिरम्यो मणिभ्राता मणिमण्डल मण्डितः ।

मन्त्रिणो मन्त्रदो मुग्धो मोक्षदो मोक्षवल्लभः ॥ ४५
मल्लो मल्लपियो मन्त्रो मेलको मेलनप्रभः
मल्लिकागन्धरमणो मालतीकुसुमप्रभः ॥ ४६
मालतीशो मघाधीशो माघमूर्तिर्मघेश्वरः ।
मूलाभो मूलहा मूलो मूलदो मूलसम्भवः ॥ ४७
माणिक्यरोचिः सम्मुग्धो मणिकूटो मणिप्रियः।
मुकुन्दो मदनो मन्दो मदवन्द्यो मनुप्रभुः ॥ ४८
मनसस्थो मेनकाधीशो मेनकाप्रियदर्शनः ।
यमोऽपि यामलो येता यादवो यदुनायकः ॥ ४९
याचको यज्ञको यज्ञो यज्ञेशो यज्ञवर्धनः ।
रमापती रमाधीशो रमेशो रामवल्लभः ॥ ५०
रमापती रमानाथो रमाकान्तो रमेश्वरः।
रेवतीरमणो रामो रामेशो रामनन्दनः ॥ ५१
रम्यमूर्ती रतीशानो राकाया नायको रविः ।
लक्ष्मीघरों ललज्जिह्वो लक्ष्मीबीजजपे रतः ॥ ५२
लम्पटो लम्बराजेशो लम्बदेशो लकारभूः ।

वामनो वल्लभो वन्ध्यो वनमाली वलेश्वरः॥ ५३
वशस्थो वनगो वन्ध्यो वनराजो वनाह्लयः।
वनेचरो वनाधीशो वनमालाविभूषणः ॥ ५४
वेणुप्रियो वनाकारो वनराध्यो वनप्रभुः ।
शम्भुः शङ्करसन्तुष्टः शम्बरारिः सनातनः ॥ ५५
शबरीप्रणत: शाल: शिलीमुखध्वनिप्रियः ।
शकुलः शल्लकः शीलः शीतरश्मिः सितांशुकः ॥ ५६
शीलदः शीकर: शीलः शीलशाली शनैश्चरः ।
सिद्धः सिद्धिकरः साध्यः सिद्धिभूः सिद्धिभावनः।। ५७
सिद्धान्तवल्लभः सिन्धुः सिन्धुतीरनिषेवकः ।
सिन्धुपतिः सुराधीशः सरसीरुहलोचनः॥ ५८
सरित्पतिस्सरित्संस्थ: सरः सिन्धुसरोवरः।
सखा वीरयतिः सूतः सचेता सत्पतिः सितः ॥ ५९
सिन्धुराजः सदाभूतः सदाशिवः सताङ्गतिः ।
सदृशः सहसी शूरः सेव्यमानः सतीपतिः ॥ ६०
सूर्यः सूर्यपतिः सेव्यः सेवाप्रियः सनातनः।

सनीशः शशिनाथः सतीसेव्यः सतीरतः ॥ ६१
सतीप्राणः सतीनाथस्सतीसेव्यः सतीश्वरः।
सिद्धराजः सतीतुष्टः सचिवः सव्यवाहनः ॥ ६२
सतीनायकसन्तुष्टः सव्यसाची समन्तकः ।
सचितः सर्वसन्तोषो सर्वाराधनसिद्धिदः ॥ ६३
सर्वाराध्यः शचीवाच्यः सतीपतिः सुसेवितः ।
सागर: सगरः सार्धं समुद्रप्रियदर्शनः ॥ ६४
समुद्रेशः परो नाथ: सरसीरुहलोचनः ।
सरसीजलदाकार: सरसीजलदार्चितः ॥ ६५
सामुद्रिकः समुद्रात्मा सेव्यमानः सुरेश्वरः ।
सुरसेव्यः सुरेशानः सुरनाथस्सुरेश्वरः ॥ ६६
सुराध्यक्षः सुराराध्यः सुरबृन्दविशारदः ।
सुरश्रेष्ठः सुराप्राणः सुरसिन्धुनिवासिनः ।। ६७
सुधाप्रियः सुधाधीशः सुधासाध्यः सुधापतिः ।
सुधानाथः सुधाभूतः सुधासागरसेवितः ॥ ६८
हाटको हीरको हन्ता हाटको रुचिरप्रभः ।

हव्यवाहो हरिद्राभो हरिद्रारसमर्दनः । ६९
हेतिर्हेतुर्हरिर्नाथो हरिनाथो हरिप्रियः ।
हरिपूज्यो हरिप्राणो हरिहृष्टो हरिद्रकः ।। ७०
हरीशो हन्त्रिको हीरो हरिनाम परायणः ।
हरिमुग्धो हरीरम्यो हरिदासो हरीश्वरः ॥ ७१
इरो हरपतिर्हारो हरिणीचित्तहारकः ।
हरो हितो हरिप्राणो हरिवाहनशोमनः ।। ७२
हंसो हासप्रियो हुंहुं हुतभुक् हुतवाहनः ।
हुताशनो हवी हिक्को हालाहलहलायुधः ।। ७३
हलाकारो हलीशानो हलिपूज्यो हलिप्रियः ।
हरपुत्रो हरोत्साहो हरसूनुर्हरात्मजः ॥ ७४
हरबन्धो हराधीशो हरान्तको हराकृतिः।
हरप्राणो हरमान्यो हरवैरिविनाशनः ॥ ७५
हरशत्रुर्हराभ्यर्च्यो हुङ्कारो हरिणीप्रियः ।
हाटकेशो हरेशानो हाटकप्रियदर्शनः ॥ ७६
हाटको हाटकप्राणो हाटभूषणभूषकः ।

हेतिदो हेतिको हंसो हंसागतिराह्वयः॥ ७७
हंसीपतिर्हरोन्मत्तो हंसीशो हरवल्लभः ।
हरपुष्पप्रभो हंसीप्रियो हंसविलासितः ॥ ७८
हरजीवरतो हारी हरितो हरितांपतिः ।
हरित्प्रभुर्हरित्पालो हरिदन्तरनायकः ॥ ७९
हरिदीशो हरित्प्रायो हरिप्रियप्रिया हितः ।
हेरम्बो हुङ्कृतिकृद्धो हेरम्बो हुङ्कृती हरी ॥ ८०
हेरम्ब प्राणसंहर्ता हेरम्बहृदयप्रियः ।
क्षमापतिः क्षणं क्षान्तः क्षुरधारः क्षितीश्वरः ॥ ८१
क्षितीशः क्षितिभृत् क्षीणः क्षितिपालः क्षितिप्रभुः ।
क्षितीशानः क्षितिप्राणः क्षितिनायक सात्प्रियः॥ ८२
क्षितिराजः क्षणाधीशः क्षणपतिः क्षणेश्वरः ।
क्षणप्रियः क्षमानाथः क्षणदानायकप्रियः॥ ८३
क्षणिकः क्षणकाधीशः क्षणदाप्राणदः क्षमी ।
क्षमः क्षोणीपतिः क्षोभः क्षोभकारी क्षमाप्रियः ॥ ८४
क्षमाशीलः क्षमारूपः क्षमामण्डलमण्डितः।

क्षमानाथ: क्षमाधारः क्षमाधारी क्षमाधरः॥ ८५
क्षेमक्षीणरुजाक्षुद्रः क्षुद्रपालविशारदः ।
क्षुद्रासनः क्षणाकारः क्षीरपानकतत्परः ॥ ८६
क्षीरशायी क्षणेशानः क्षेणीभृत् क्षणदोत्सवः।
क्षेमङ्करक्षमाळुब्धः क्षमाहृदयमण्डनः ।। ८७
नीलाद्रिरुचिरावेशः नीलोपचितसन्निभः ।
नीलमणिप्रभारम्यो नीलभूषणभूषितः ।। ८८
नीलवर्णो नीलभ्रुवो मुण्डमालाविभूषितः ।
मुण्डस्थो मुण्डसन्तुष्टो मुण्डमालाधरो नयः ॥ ८९
दिग्वासा विदिताकारो दिगम्बरवरप्रदः ।
दिगम्बरीश आनन्दी दिग्बन्ध प्रियनन्दनः ॥ ९०
पिङ्गलैकजटो हृष्टो डमरूवादनप्रियः।
श्रेणीकरः श्रेणाशायः खड्गधृक् खङ्गपालकः ।। ९१
शूलहस्तो मतङ्गाभो मातङ्गोत्सवसुन्दरः ।
अभयङ्कर ऊर्वङ्को लङ्कापतिर्विनायकः ।। ९२
नगेशयो नगेशानो नागमण्डलमण्डितः ।

नागाकारो नागाधीशो नागशायी नागप्रियः ॥ ९३
घटोत्सर्वो घटाकारो घण्टावाध्यविशारदः ।
कपालपाणिरम्बेशः कपालाशनशारदः ॥ ९४
पद्मपाणिः करालास्यस्त्रिनेत्रो नागवल्लभः ।
किङ्किणीजालसंहृष्टो जनाशयो जननायकः ॥ ९५
अपमृत्युहरो मायामोहमूलविनाशकः ।
आयुक: कमलानाथः कमलाकान्तवल्लभः ॥ ९६
राज्यदो राजराजेशो राजवत्सदशोभन: ।
डाकिनीनायको नित्यो नित्यधर्मपरायणः ॥ ९७
डाकिनीहृदयज्ञानी डाकिनीदेहनायकः ।
डाकिनीप्राणदः सिद्धः श्रद्धेयचरितो विभुः ॥ ९८
हेमप्रभो हिमेशानो हिमानीप्रियदर्शनः ।
हेमदो नर्मदो मानी नामधेयो नगात्मकः ॥ ९९
वैकुण्ठो वासुकिप्राणो वासुकीकण्ठभूषणः ।
कुण्डलीशो मखध्वंसी मखराजो मखेश्वरः ॥ १००
मखाकारो मखाधीशो मखमालिविभूषणः ।

अम्बिकावल्लभो वाणीमतिर्वाणीविशारदः ।। १०१
वाणीशो वचनप्राणो वचनस्थो वनप्रियः ।
वेलाधारो दिशामाशो दिग्भागो हि दिगीश्वरः ॥ १०२
पटुप्रियो दुराराध्यो दारिद्र्यभञ्जनक्षमः ।
तर्कतर्कप्रियोऽतर्क्यो वितर्क्यस्तर्कवल्लभः ॥ १०३
तर्कसिद्धः सुसिद्धात्मा सिद्धदेहो ग्रहासनः ।
ग्रहगर्वो ग्रहेशानो गन्धो गन्धीविशारदः ॥ १०४
मङ्गळं मङ्गळाकारो मङ्गळवाद्यवादकः ।
मङ्गळीशो विमानस्थो विमानैकसुनायकः ॥ १०५
बुधेशो विविधाधीशो बुधवारो बुधाकरः ।
बुधनाथो बुधप्रीतो बुधवन्द्यो बुधाधिपः ॥ १०६
बुधसिद्धो बुधप्राणो बुधप्रियो बुधोबुधः ।
सोमः सोमसमाकारः सोमपा: सोमनायकः ॥ १०७
सोमप्रभः सोमसिद्धो मनःप्राणप्रणायकः।
कामगः कामहा बौद्ध कामनाफलदोऽधिपः ॥ १०९
त्रिदशो दशरात्रीशो दशाननविनाशकः ।

लक्ष्मणो लक्षसम्भर्ता लक्ष्यसंख्यो मन:प्रियः॥ १०९
विभावसुर्नवेशानो नायको नगरप्रियः ।
नरकान्तिर्नलोत्साहो नरदेवोनलाकृतिः ॥ ११०
नरपतिर्नरेशानो नारायणो नरेश्वरः ।
अनिलो मारुतो मासो मांसैकरससेवितः ॥ १११
मरीचिरमरेशानो मागधो मगधप्रभुः ।
सुन्दरीसेवको द्वारी द्वारदेशनिवासिनः ॥ ११२
देवकोगर्भसञ्जातो देवकीसेवकी कुहुः।
बृहस्पतिः कविः शुक्रः शारदासाधनप्रियः॥ ११३
शारदासाधकप्राणः शारदासेवकोत्सुकः।
शारदासाधकश्रेष्ठो मधुपानसदारतिः ॥ ११४
मोदकादानसम्प्रीतो मोदकामोदमोदितः।
आमोदानन्दनो नन्दो नन्दिकेशो महेश्वरः ॥ ११५
नन्दिप्रियो नदीनाथो नदीतीरतरुस्तथा ।
तपनस्तापनस्तप्ता तापहा तापकारकः ॥ ११६
पतङ्गगोमुखो गौरगोपालो गोपवर्धन: ।

गोपतिर्गोपसंहर्ता गोविन्दैकप्रियोऽतिगः ॥ ११७
गव्येष्ठो गणरम्यश्च गुणसिन्धुर्गुणप्रियः ।
गुणपूज्यो गुणोपेतो गुणवाद्यगुणोत्सवः ॥ ११८
गुणीसकेवलो गर्भः सुगर्भो गर्भरक्षकः ।
गाम्भीरधारको धर्ता विधर्ता धर्मपालकः॥ ११९
जगदीशो जगन्मित्रो सगजाड्यविनाशनः ।
जगत्कर्ता जगद्धाता जगज्जीवनजीवनः ॥ १२०
मालतीपुष्पसम्प्रीतो मालतीकुसुमोत्सवः ।
मालतीकुसुमाकारो मालतीकुसुमप्रभुः ॥ १२१
रसालमञ्जरीरम्यो रसालगन्धसेवितः।
रसालमञ्जरी लुब्धो रसालतरुवल्लभः ॥ १२२
रसालपादपासीनो रसालफलसुन्दरः।
रसालरससन्तुष्टो रसालरससालयः ॥ १२३
केतकीपुष्पसन्तुष्टः केतकीगर्भसम्भवः ।
केतकीपत्रसङ्काश: केतकीप्राणनाशकः ॥ १२४
गर्तस्थो गर्तगम्भीरो गर्ततीरनिवासिनः ।

गणसेव्यो गणाध्यक्षो गणराजो गणाह्वयः ॥ १२५
आनन्दभैरवो भीरुर्भैरवेशो रुरुर्भगः।
सुब्रह्मय्भैरवो नामभैरवो भूतभावनः ॥ १२६
भैरवीतनयो देवीपुत्रः पर्वतसन्निभः ।
नाम्नाऽनेन सहस्रेण स्तुत्वा वटुकभैरवम् ॥ १२७
लभते ह्यतुलां लक्ष्मीं देवतामपि दुर्लभाम् ।
उपदेशं गुरोर्लब्ध्वा योगेन्द्रमण्डली भवेत् ॥ १२८
तस्मिन्योगे महेशानस्सर्वसिद्धिमवाप्नुयात् ।
लक्षमावर्तयन्मन्त्री मन्त्रराजं नरेश्वरः ॥ १२९
नित्यकर्मसु सिध्यर्थं तत्फलं लभते ध्रुवं ।
स्तवमेनं पठेन्मन्त्री पाठयित्वा यथाविधि ॥ १३०
दुर्लभां लभते सिद्धिं सर्वदेवनमस्कृताम् ।
न प्रकाश्यं च पुत्राय भ्रष्टेषु न कदाचन ॥ १३१
अन्यथा सिद्धिरोधः स्याच्चतुरो वा भवेत् प्रियः।
स्तवत्सास्य प्रसादेन देवनाकमतिप्रियः ॥ १३२
सङ्ग्रामे विजयेच्छत्रून्मातङ्गानिव केसरी ।

राजानं वशयेत्सद्यो देवानपि शमं नयेत् ॥ १३३
किमपरं फलं प्राप्य स्तवराजस्य कथ्यते ।
यद्यन्मनसि सङ्कल्पस्स्तवमेतदुदीरितम् ॥ १३४
तत्तत्प्राप्नोति देवेश वटुकस्य प्रसादतः ।
आपदां हि विनाशाय कारणं कान्तदुर्लभम् ॥ १३५
देवासुररणे घोरे देवानामुपकारकम् ।
प्रकाशितं मया नाथ तन्त्रे भैरवदीपके ॥ १३६
अपुत्त्रो लभते पुत्त्रान् षण्मासे च निरन्तरम् ।
पठित्वा पाठयित्वाऽपि स्तवराजमुनुत्तमम् ॥ १३७
दरिद्रो लभते लक्ष्मीमायुःप्राप्तिमतिश्चिरम् ।
कन्यार्थी लभते कन्यां सर्वरूपसमन्विताम् ॥ १३८
प्रदोषे बलिदाने च वशयेदखिलं जगत् ।
वटे वा बिल्वमूले का रम्भायां विपिने वने ॥ १३९
जपेत्सततमालक्ष्य मन्त्रराजस्य सिद्धये ।
वर्णलक्षं जपेद्वापि दिङ्मात्रं हि प्रदर्शितम् ॥ १४०
पूजयेत्तु तिलैर्माषैर्दुग्धैर्मासैर्झवैस्तथा ।

घृतपक्वान्नतो वापि व्यञ्जनै रससङ्कुलैः ॥ १४१
पूजयेद्धारयेद्वापि स्तवमेनं सुसाधकः ।
पठेद्वा पाठयेद्वापि यथाविधि सुरप्रिये ॥ १४२
शत्रुतो न भयं तेषां नाग्निचौरास्त्रजं भयम् ।
ज्वरादिसम्भवं चापि संत्यं सत्यं महेश्वरि ॥ १४३
भैरवाराधने शक्तो यो भवेत्साधकः प्रभो।
सदाशिवः सविज्ञेयो भैरवेणेति भाषितम् ॥ १४४
श्रीमद्भैरवराजसेवनविधौ वैयाघ्रमासेदुषः
पुंसः पञ्चविधा भवन्ति नवधा ह्यष्टौ महासिद्धयः ।
क्षोणीपालकिरीटकोटिमणिरुङ्मालामरैर्भूद्यशो
मौद्ग्यंपादपयोजयोर्निवहते मूर्ध्नि पयस्सिच्यताम् ॥ १४५

इति भैरवतन्त्रे देवीहरसंवादे श्रीवटुकभैरवसहस्रनामस्तोत्रं

     

॥ सम्पूर्णम् ॥

॥ बृहत्स्तोत्ररत्नाकरः॥

॥ आदित्यहृदयम् ॥

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ ३
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यमक्षय्यं परमं शुभम् ॥ ४
सर्वमङ्गळमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५

रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणान्लोकान्पाति गभस्तिभिः॥ ७
एष ब्रह्मा च विष्णुश्च शिवस्स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमस्सोमो ह्यपांपतिः॥ ८
पितरो वसवस्साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाः प्राणा ऋतुकर्ता प्रभाकरः ॥ ९
आदित्यस्सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १०
हरिदश्वस्सहस्रार्चिस्सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनश्शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ॥ ११
हिरण्यगर्भश्शिशिरस्तपनो भास्करो रविः ।
अग्निगर्भोऽदितेः पुत्रश्शङ्खश्शिशिरनाशनः ॥ १२
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।
घनवृष्टिरपांमित्रो विन्ध्यवीथी प्लवङ्गमः ॥ १३

आतपी मण्डली मृत्युः पिङ्गलस्सर्वतापनः ।
कविर्विश्वो महातेजा रक्तस्सर्वभवोद्भवः ॥ १४
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ १५
नमः पूर्वाय गिरये पश्चिमे गिरये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६
जयाय जयभद्राय हर्यश्वाय नमो नमः।
नमो नमस्सहस्रांशो आदित्याय नमो नमः ॥ १७
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः॥ १८
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।। १९
तमोघ्नाय हिमघ्नाय शत्रुघ्नायाऽमितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २०
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे॥ २१

नाशयत्येष वै भूतं तदेव सृजति प्रभुः।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३
वेदाश्च ऋतवश्चैव ऋतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ १४
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥ २५
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६
अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ २७
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९



रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३०
अथ रविरवदन्निरीक्ष्य रामं
मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा
सुरगणमध्यगतो वचस्त्वरेति ॥ ३१

॥ इति श्रीमद्रामायणे आदित्यहृदयम् समाप्तम् ।।}}

॥ सूर्याष्टकम् ॥



साम्ब उवाच-
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥ १
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ २
लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं ...॥ ३
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् ।
महापापहरं देवं तं सूर्यं ....॥ ४
ब्रुंहितं तेजः पुञ्जं च वायुमाकाशमेव च ।
प्रभुं च सर्वलोकानां तं सूर्यं ...॥ ५
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्रधरं देवं तं सूर्यं ...॥ ६
तं सूर्यं जगत्कर्तारं महातेज: प्रदीपनम् ।

महापापहरं देवं तं सूर्यं ... ॥ ७
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् ।
महापापहरं देवं तं सूर्यं ...॥ ८
सूर्याष्टकं पठेन्नित्यं प्रहपीडाप्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥ ९
आमिषं मधुपानं च यः करोति रवेर्दिने ।
सप्तजन्म भवेद्रोगी जन्मजन्म दरिद्रता ॥ १०
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने ।
न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥

॥ इति श्रीसूर्याष्टकस्तोत्रं सम्पूर्णम् ॥

॥ सूर्यार्यास्तोत्रम् ॥


शुकतुण्डच्छवि सवितुश्चण्डरुचेः पुण्डरीकवनबन्धोः ।
मण्डलमुदितं वन्दे कुण्डलमाखण्डलाशायाः ॥ १
यस्योदयास्तसमये सुरमकुटनिघृष्टचरणकमलोऽपि ।
कुरुतेऽञ्जलिं त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ॥ २
उदयाचलतिलकाय प्रणतोऽस्मि विवखते ग्रहेशाय ।
अम्बरचूडामणये दिग्वनिताकर्णपूराय ॥ ३
जयति जनानन्दकरः करनिकरनिरस्ततिमिरसङ्घातः।
लोकालोकालोकः कमलारुणमण्डल: सूर्यः ॥ ४
प्रतिबोधितकमलवनः कृतघटनश्चक्रवाकमिथुनानाम् ।
दर्शितसमस्तभुवनः परहितनिरतो रविस्सदा जयति॥ ५
अपनयतु सकलकलिकृतमलपटलं सुप्रतप्तकनकाभः ।
अरविन्दबृन्दविघटनपटुतरकिरणोत्करः सविता ॥ ६
उदयाद्रिचारुचामरहरितहयखुरपरिहितरेणुराग ।
हरितहय हरितपरिकर गगनाङ्गनदीपक नमस्ते ॥ ७

उदितवति त्वयि विकसतिः
मुकुलीयति समस्तमस्तमितबिम्बे
नह्यन्यस्मिन्दिनकरसकलं कमलायते भुवनम् ॥ ८
जयति रविरुदयसमये बालातपः कनकसन्निभो यस्य।
कुसुमाञ्जलिरिव जलधौ तरन्ति रथसप्तयः सप्त ॥ ९
आर्याः साम्बपुरे सप्त आकाशात्पतिता भुवि ।
यस्य कण्ठे गृहे वापि न स लक्ष्म्या वियुज्यते ॥ १०
आर्याः सप्त सदा यस्तु सप्तम्यां सप्तधा जपेत् ।
तस्य गेहं च देहं च पद्मा सत्यं न मुञ्चति ॥ ११
निधिरेष दरिद्राणां रोगिणां परमौषधम् ।
सिद्धिः सकलकार्याणां गाथेयं संस्मृता खेः॥१२
॥ इति श्रीयाज्ञवल्क्यविरचितं सूर्यास्तोत्रं सम्पूर्णम् ॥

॥ परमेश्वरस्तुतिः ॥



ऋषय उवाच:-
नमा शससे तुभ्यं कृतान ाय त्रिशूलिने ।
विकटाय कराळाय कराळवदनाय च ॥ १
अलूपाय सुरूपाय विश्वरूपायते नमः ।
कटङ्कटाय रुद्राय स्वाहाकाराय वैनमः॥ २
सर्वप्रणतदेहाय स्वयं च प्रणतात्मने ।
नित्यं नीलशिखण्डाय श्रीकण्ठाय नमोनमः ॥ ३
नीलकण्ठाय देवाय चिताभस्मांगधारिणे।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥ ४
आत्माच सर्वभूतानां साङ्ख्यैः पुरुष उच्यते ।
पर्वतानां महामेरुर्नक्षत्राणाञ्च चन्द्रमाः ॥ ५
ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ।
ओङ्कारस्सर्वदेवानां ज्येष्ठस्साम च सामसु ॥ ६

अरण्यानां पशूनां व सिह्मस्त्वं परमेश्वरः ।
ग्राम्याणामृषभश्चासि भगवान् लोकपूजितः ॥ ७
सर्वथा वर्तमानोपि योयो भावो भविष्यति ।
स्वमेव तत्र पक्ष्यामो ब्रह्मणा कथितं यथा ॥ ८
कामः क्रोधश्च लोभश्च विषादो मदएवच ।
एतदिच्छामहे बोद्धुं प्रसीद परमेश्वर ।। ९
महासंहरणे प्राप्ते त्वया देव कृतात्मना ।
करं ललाटे संविध्य वह्निरुत्पादितस्त्वया ॥ १०
तेनाग्निना तदालोका अर्चिर्भिस्सर्वतो वृताः।
तस्मादग्निसमाह्येते बहवो विकृताग्नयः ॥ ११
कामः क्रोधश्च लोमश्च मोहो दम्भ उपद्रवः ।
यानि चान्यानि भूतानि स्थावराणि चराणि च ॥ १२
दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वह्निना ।
अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ १३
त्वं च लोकहितार्थाय भूतानि परिपिञ्चसि ।

बृहत्स्तोत्ररत्नाकरे -प्रथमभागः

महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ १४
आज्ञापय नयं नाथ कर्तरो वचनं तव ।
भूतकोटिसहस्रेषु रूपकोटिशतेषु च ॥ १५
अन्तं गन्तुं न शक्तास्स्म देवदेव नमोस्तु ते ॥

इति श्रीमहापुराणे लैङ्गे पूर्वभागे देवदारुवनस्य मुनिकृता
परमेश्वरस्तुतिर्नाम द्वात्रिंशोध्यायः॥

॥ शिवस्तुतिः॥



   नमोस्तु ते भैरव भीममूर्ते त्रैलोक्यगोप्त्रे शितशूल-
पाणे । कपालपाणे भुजगेशहार त्रिनेत्र मां पाहि
विपन्नबुद्धिंं॥ १
   जयस्व सर्वेश्वर विश्वमूर्ते सुरासुरैर्वन्दितपादपीठ।
त्रैलोक्यमातर्गुरवे वृषाङ्कभीतश्शरण्यंशरणागतोस्मि ॥ २
   त्वं नाथ देवाश्शिवमीरयन्ति सिद्धा हरं स्थाणु-
ममर्षिताश्च । भीमं च यक्षा मनुजा महेश्वरं भूतानि
भूताधिपमुञ्चरन्ति ॥ ३
   निशाचरास्तूगस्त्रिपाचरन्ति भवेति पुण्याः पितरो
नमस्ते । दासोस्मि तुभ्यं हर पाहि मह्यं पापक्षयं मे
कुरु लोकनाथ ॥ ४
   भवांस्त्रिदेवस्त्रियुगस्त्रिधर्मा त्रिपुष्करश्चासि विभो
त्रिनेत्र । त्रयारुणिस्त्वं श्रुतिरव्ययात्मा पुनीहि मां
त्वां शरणं गतोऽस्मि ॥ ५

   त्रिणाचिकेतस्त्रिपदप्रतिष्ठष्षडङ्गवित् स्त्रीविषये-
ष्वलुब्धः। त्रैलोक्यनाथोसि पुनीहि शम्भो दासोऽस्मि
भीतश्शरणागतस्ते ॥ ६
   कृतो महाशङ्कर तेऽपराधो मया महाभूतपते
गिरीशाकामारिणा निर्जितमानसेन प्रसादयेत्वां शिर-
सा नतोऽस्मि ॥ ७
पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।
त्राहि मां देवदेवेश सर्वपापहरो भव ॥ ८
मम देवापराधोऽस्ति त्वयावै तादृशोऽप्यहम् ।
स्पृष्टः पापसमाचारो मां प्रसन्नो भवेश्वर ॥ ९
त्वं कर्ता चैव धाता च जय त्वं च महाजय ।
त्वं मङ्गल्यस्त्वमोङ्कारस्त्वमोङ्कारो व्ययोधृतः॥ १०
त्वं ब्रह्मसृष्टिकृन्नाथस्त्वं विष्णुस्त्वं महेश्वरः ।
त्वमिन्द्रस्त्वं वषट्कारो धर्मस्त्वं तु हितोत्तम ॥ ११
सूक्ष्मस्त्वं व्यक्तरूपस्त्वं त्वमव्यक्तश्च धीवरः ।
त्वया सर्वमिदं व्याप्तं जगत् स्थावरजङ्गमम् ॥ १२

त्वमादिरन्तो मध्यं च त्वमेवच सहस्रपात् ।
विजयस्वं सहस्राक्षो चित्तपाख्यो महाभुजः ॥ १३
अनन्तस्सर्वगो व्यापी हंसः पुण्याधिकोऽच्यतः ।
गीर्वाणपतिरव्यग्रो रुद्रः पशुपतिश्शिवः ॥ १४
त्रैविद्यस्त्वं जितक्रोधो जितारातिर्जितेन्द्रियः।
जयश्च शूलपणिस्त्वं पाहि मां शरणागतम् ॥ १५

॥ इति श्रीवामनपुराणान्तर्गता अन्धककृता शिवस्तुतिः॥

॥ अष्टमूर्त्यष्टकम् ॥


तुष्टावाष्टतनुं हृष्टः प्रफुल्लनयनाञ्चलः।
मौळावञ्जलिमाधाय वदन् जयजयेतिच ॥ १
   भार्गव उवाच:-
   त्वं भाभिराभिरभिभूय तमस्समस्तमस्तं न्यस्यमि-
मतं च निशाचराणाम् । देदीप्यसे दिनमणे गगने-
हिताय लोकत्रयस्य जगदीश्वर तन्नमस्ते ।। २
   लोकेतिवेलमतिवेल महामहोभिर्निर्मासि कौमुद-
मुदं च समुत्समुद्रम् । विद्राविताखिलतमास्सुत-
मोहिमांशो पीयूषपूरपरिपूरित तन्नमस्ते ॥ ३
   त्वं पावने पथि सदागतिरप्युपास्यः कस्त्वां विना
भुवनजीवन जीवतीह । स्तब्धप्रभञ्जन विवर्धित
सर्वजन्तो सन्तोषिताहिकुल सर्वग तन्नमस्ते ॥ ४
   विश्वैकपावक नतावक पावकैक शक्तेऋते मृत-
बतामृतदिव्यकार्यम् । प्राणित्यदो जगदहो जगदन्त-
रात्मन् तत्पावक प्रतिपदं शमदं नमस्ते॥ ५
   पानीयरूप परमेश जगत्पवित्र चित्रं विचित्र
सुचरित्र करोषि नूनम् । विश्वं पवित्रममलं किल

विश्वनाथ पानावगाहनत एतदतो नतोऽस्मि ॥ ६
   आकाशरूप बहिरन्तरितावकाश दानाद्विकस्वर
महेश्वर विश्वमेतत् । त्वत्तस्सदा सदय संश्वसिति
स्वभावात्संकोचमेति भवतोस्मि नतस्ततस्त्वाम् ॥ ७
   विश्वम्भरात्मक बिभर्ति विभोत्र विश्वं कोविश्वनाथ
भवतोन्यतमस्तमोरे । तत्त्वां विना नशमिनाहि
फणाहिभूष स्तव्यो परः परतर प्रणतस्ततस्त्वाम् ॥ ८
   आत्मस्वरूप तव रूपपरम्पराभिराभिस्ततं हर
चराचररूपमेतत् । सर्वान्तरात्मनिलय प्रतिरूपरूप-
नित्यं नतोऽस्मि परमात्मतनोऽष्टमूर्ते ॥ ९
   इत्यष्टमूर्तिभिरिमाभिरुमाभिनन्ध वन्यातिवन्ध
तव विश्वजनीतमूर्ते। एतत्ततं नु विततं प्रणतप्रणीत
सर्वार्थसार्थपरमार्थतनो नतोऽस्मि ॥ १०
   अष्टमूर्त्यष्टकेनेष्टं परिष्टुत्येति भार्गवः ।
भर्गं भूमिमिळन्मौळि: प्रणनाम पुनः पुनः ॥११

॥ इति श्रीशुक्राचार्यकृतं अष्टमूर्त्यष्टकम् ॥

॥ ताण्डवाष्टकम् ॥


   सदश्चितमुदश्चितनिश्चितपदं झलझलञ्चलित
मञ्जुकटकं पतञ्जलिदृगञ्जनमचञ्जनमचश्चलपदं जनन-
भञ्जनकरम् । कदम्बरुचिमम्बरवसं परममम्बुद-
कदम्बकविडङ्कगळं चिदम्बुधिमणिं बुधहृदम्बुजरविं
परचिदम्बरनटं हृदि भज ॥ १
   हरं त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्त -
रहितं विरिञ्चिसुरसंहति पुरन्दरविचिन्तितपदं तरुण-
चन्द्रमकुटम् । परम्पदविखंडितयमं भसितमण्डित-
तनुं मदनवञ्चनपरं चिरन्तनमिमं प्रणतसञ्चितनिधिं
परचिदम्बर हृदि भज ॥ २
   अवन्तमखिलं जगदभङ्ग गुणतुङ्ग ममतं धृतविधुं
सुरसरित्तरङ्गनिकुरुम्बधृतिलम्पटजटं शमनडम्बरहरं
भवहरम् । शिवं दशदिगन्तरविजृम्भितकरं करल-
सन्मृगशिशुं पशुपतिं हरं शशि धनञ्जय पतङ्गनयनं
परचिदम्बरनटं हृदि भज ॥ ३

ताण्डवाष्टकम् ४०१


   अनन्तनवरत्नविलसत्कटककिङ्किणि झलं झलझलं
झलरवं मुकुन्दविधिहस्तगतमद्दळलयध्वनिधिमि-
द्धिमितनर्तनपदम् । शकुन्तरथबर्हिरथनन्दिमुखदन्ति-
मुखभृङ्गिरिटिसङ्गनिकटं सनन्द सनक प्रमुखवन्दित-
पदं परचिदम्बरनटं हृदि भज ॥ ४
   अनन्तमहसं त्रिदशवन्द्यचरणं मुनिहृदन्तरवसन्त-
ममलं कवन्ध वियदम्बवनिगन्धवहं वह्निमख बन्धु-
रवि मञ्जुवपुषम् । अनन्तविभवं त्रिजगदन्तरमणिं
त्रिनयनं त्रिपुरखण्डनपरं सनन्द मुनिवन्दितपदं सक-
रुणं परचिदम्बरनटं हृदि भज ॥ ५
   अचिन्त्यमळिबृन्दरुचिबन्धुरगळं कुरितकुन्दनिकु-
रुम्बधवळं मुकुन्दसुरबृन्दवलहन्तृकृतवन्दनल -
सन्तमहिकुण्डलधरम् । अकम्पमनुकम्पितरतिं सुजन-
मङ्गळनिधिं गजहरं पशुपतिं धनञ्जयनुतं प्रणत-
रञ्जनपरं परचिदम्बरनटं हृदि भज ॥ ६

४०२

बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


    परं सुरवरं पुरहरं पशुपतिं जनितदन्तिमुख
षन्मुखममुं मृडं कनकपिङ्गळजटं सनकपङ्कजरविं
सुमनसं हिमरुचिं । असङ्गमनसञ्जलधिजन्मगरळं
कबळयन्तमतुलं गुणनिधिं सनन्दवरदं शमित-
मिन्दुवदनं परचिदम्बरनटं हृदि भज ॥ ७
   अजं क्षितिरथं भुजगपुङ्गवगुणं कनकशृङ्गिधनुषं
करलसत्कुरङ्ग पृथुटङ्क परसुरुचि कुङ्कुमरुचिं डमरुकं
च दधतम् । मुकुन्दविशिखं नमदवन्ध्यफलदं निगम-
बृन्दतुरगं निरुपमं स चण्डिकममुं झडिति संहृतपुरं
परचिदम्बरनटं हृदि भज ॥ ८
   अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलङ्करुण-
यन्तमखिलं ज्वलन्तमनलं दधतमन्तकरिपुं सतत-
मिन्द्रसुरवन्दितपदम् । उदञ्चदरविन्दकुलबन्धुशत-
बिम्बरुचिसंहतिसुगन्धिवपुषं पतञ्जलिसुतं प्रणव -
पञ्जरशुकं परचिदम्बरनटं हृदि भज ॥ ९


ताण्डवाष्टकम् ४०३


   इति स्तवममुं भुजगपुङ्गवकृतं प्रतिदिनं पठति यः
कृतमुखस्सदा प्रभुपद द्वितय दर्शनपदं सुलळितं चरण
शृङ्गरहितम् । सरः प्रभवसम्भवं हरित्पति हरिप्रमुख-
दिव्यनुत शङ्करपदं स गच्छति परं नतु जनुर्जलनिधिं
परमदुःखजनकं दुरितदम् ॥

॥ इति श्रीपतञ्जलिकृतं तांडवाष्टकम् ॥ १०


॥ अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ॥



चामुण्डीकाम्बा श्रीकण्ठः पार्वती परमेश्वरः ।
महाराज्ञी महादेवस्सदाराध्या सदाशिवः ॥ १
शिवार्धाङ्गी शिवार्धाङ्गो भैरवी कालभैरवः ।
शक्तित्रितयरूपाढ्या मूर्तित्रितयरूपवान् ॥ २
कामकोटिसुपीठस्था काशीक्षेत्रसमाश्रयः ।
दाक्षायणी दक्षवैरी शूलिनी शूलधारकः ॥ ३
ह्रीङ्कारपञ्जरशुकी हरिशङ्कररूपवान् ।
श्रीमद्गणेशजननी षडानन सुजन्मभूः ॥ ४
पञ्चप्रेतासनारूढा पञ्चब्रह्मस्वरूपभृत् ।
चण्डमुण्डशिरश्छेत्री जलन्धरशिरोहर:॥ ५
सिह्मवाहा वृषारूढश्यमाभा स्फटिकप्रभः ।
महिषासुरसंहर्त्री गजासुरविमर्दनः ।। ६
महाबलाऽचलावासा महाकैलासवासभूः ।
भद्रीकाळी वीरभद्रो मीनाक्षी सुन्दरेश्वरः ॥ ७

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ४०५


भण्डासुरादिसंहर्त्री दुष्टान्धकविमर्दनः ।
मधुकैटभसंहर्त्री मधुरापुरनायकः ॥ ८
कालत्रयस्वरूपाढ्या कार्यत्रयविधायकः ।
गिरिजाता गिरीशश्च वैष्णवी विष्णुवल्लभः ॥ ९
विशालाक्षी विश्वनाथः पुष्पास्त्रा विष्णुमार्गणः ।
कौसुम्भवसनोपेता व्याघ्रचर्माम्बरावृतः ॥ १०
मूलप्रकृतिरूपाढ्यापरब्रह्मस्वरूपवान् ।
रुण्डमालाविभूषाढ्या लसद्रुद्राक्षमालिकः ॥ ११
मनोरूपेक्षुकोदण्डा महामेरुधनुर्धरः ।
चन्द्रचूडा चन्द्रमौळिर्महामाया महेश्वरः ॥ १२
महाकाळी महाकाळो दिव्यरूपा दिगम्बरः ।
बिन्दुपीठसुखासीना श्रीमदोङ्कारपीठगः ॥ १३
हरिद्रा कुङ्कुमालिप्ता भस्मोद्धूळितविग्रहः ।
महापद्माटवीलोला महाबिल्वाटवीप्रियः ।। १४
सुधामयी विषधरो मातङ्गी मकुटेश्वरः ।
वेदवेद्या वेदवाजी चक्रेशी विष्णुचक्रदः ॥ १५

४०६ बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:


जगन्मयी जगद्रूपो मृडाणी मृत्युनाशनः ।
रामार्चितपदाम्भोजा कृष्णपुत्रवरप्रदः ॥ १६
रमावाणी सुसंसेव्या विष्णुब्रह्मसुसेवितः ।
सूर्यचन्द्राग्निनयना तेजस्त्रयविलोचनः ।। १७
चिदग्निकुण्डसम्भूता महालिङ्गसमुद्भवः।
कम्बुकण्ठी कालकण्ठो वज्रेशी वज्रिपूजितः ॥ १८
त्रिकण्टकी त्रिभङ्गीशः भस्मरक्षा स्मरान्तकः ।
हयग्रीववरोद्धात्री मार्कण्डेयवरप्रदः॥ १९
चिन्तामणिगृहावासा मन्दराचलमन्दिरः ।
विन्ध्याचलकृतावासा विन्ध्यशैलार्यपूजितः ॥ २०
मनोन्मनी लिङ्गरूपो जगदम्बा जगत्पिता।
योगनिद्रा योगगम्यो भवानी भवमूर्तिमान् ॥ २१
श्रीचक्रात्मरथारूढा धरणीधरसंस्थितः।
श्रीविद्यावेद्यमहिमा निगमागमसंश्रयः ।। २२
दशशीर्षसमायुक्ता पश्चविंशति शीर्षवान् ।
अष्टादशभुजायुक्ता पञ्चाशत्करमण्डितः॥ २३

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ४०७


ब्राह्मयादि मातृकारूपा शताष्टेका दशात्मवान् ।
स्थिरा स्थाणुस्तथा बाला सद्योजात उमा मृडः ॥ २४
शिवा शिवश्व रुद्राणी रुद्रश्चैवेश्वरीश्वरः ।
कदम्बकाननावासा दारुकारण्यलोलुपः ॥ २५
नवाक्षरीमनुस्तुत्या पञ्चाक्षरमनुप्रियः ।
नवावरणसम्पूज्या पञ्चायतनपूजितः ॥ २६
देहस्थषटूचक्रदेवी दहराकाशमध्यगः ।
योगिनी गणसंसेव्या भृग्वादिप्रमथावृतः ॥ २७
उग्रत्ताराघोररूपश्शर्वाणी शर्वमूर्तिमान् ।
नागवेणी नागभूषो मन्त्रिणी मन्त्रदैवतः ॥ २८
ज्वलज्जिह्वा ज्वलन्नेत्रो दण्डनाथा दृगायुधः ।
पार्थाञ्जनास्त्रसन्दात्री पार्थपाशुपतास्त्रदः ।। २९
पुष्पवच्चक्रताटङ्का फणिराजसुकुण्डलः।
बाणपुत्री वरोद्धात्री बाणासुरवरप्रदः ॥ ३०
व्याळकञ्चुकसंवीता व्याळयज्ञोपवीतवान् ।
नवलावण्यरूपाढ्या नवयौवनविग्रहः ॥ ३१

४०८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


नाठ्यप्रिया नाठ्यमूर्तिस्त्रिसन्ध्या त्रिपुरान्तकः ।
तन्त्रोपचारसुप्रीता तन्त्रादिमविधायकः ।। ३२
नववल्लीष्टवरदा नववीरसुजन्मभूः ।
भ्रमरज्या वासुकिज्यो भेरुण्डा भीमपूजितः ॥ ३३
निशुम्भशुम्भदमनी नीचापस्मारमर्दनः ।
सहस्राराम्बुजारूढा सहस्रकमलार्चितः ॥ ३४
गङ्गासहोदरी गङ्गाधरो गौरी त्रियम्बकः ।
श्रीशैलभ्रमराम्बाख्या मल्लिकार्जुनपूजितः ॥ ३५
भवतापप्रशमनी भवरोगनिवारकः ।
चन्द्रमण्डलमध्यस्था मुनिमानसहंसकः ॥ ३६
प्रत्यङ्गिरा प्रसन्नात्मा कामेशी कामरूपवान् ।
स्वयम्प्रभा स्वप्रकाशः कालरात्री कृतान्तहृत् ॥३७
सदान्नपूर्णा भिक्षाटो वनदुर्गा वसुप्रदः ।
सर्वचैतन्यरूपाढ्या सच्चिदानन्दविग्रहः ॥ ३८
सर्वमङ्गळरूपाढ्या सर्वकल्याणदायकः ।

अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ४०९


राजराजेश्वरी श्रीमद्राजराज प्रियङ्करः॥ ३९
अर्धनारीश्वरस्येदं नाम्नामष्टोत्तरं शतम् ।
पठन्नर्चन्सदा भक्त्या सर्वसाम्राज्यमाप्नुयात् ॥ ४०

॥इति श्रीस्कान्दे अर्धनारीश्वराष्टोत्तरशतनामस्तोत्रम् ॥

॥ काश्यष्टकम् ॥


स्वर्गतस्सुखकरी दिवौकसां शैलराजतनयातिवल्लभा ।
डुण्ढिभैरवविदारितविघ्ना विश्वनाथनगरी गरीयसी ॥ १
यत्र देहपतनेन देहिनां मुक्तिरेव भवतीति निश्चितम् ।
पूर्वपुण्यनिचयेन लभ्यते विश्वनाथनगरी गरीयसी ॥ २
सर्वदाऽमरगणैश्च वन्दिता या गजेन्द्रमुखवारितविघ्ना।
कालभैरव कृतैकशासना विश्वनाथनगरी गरीयसी॥ ३
   यत्र तीर्थममला मणिकर्णिका
      यासदाशिवसुखप्रदायिनी ।
   या शिवेन रचिता निजायुधैः
      विश्वनाथनगरी गरीयसी ॥ ४
   सर्वतीर्थकृतमज्जनपुण्यै-
      र्जन्म जन्मसुकृतैः खलु लभ्या ।
   प्राप्यते भवभवातिनाशिनी
      विश्वनाथनगरी गरीयसी ॥ ५

काश्यष्टकम् ४११


यत्र शक्रनगरी तनीयसी यत्र धातृनगरी कनीयसी।
यत्र केशवपुरी लघीयसी विश्वनाथनगरी गरीयसी॥ ६
यत्र देवतटिनी प्रथीयसी यत्र विश्वजननी पटीयसी।
यत्र भैरवकृतिर्बलीयसी विश्वनाथनगरी गरीयसी ॥ ७
विश्वनाथनगरीस्तवं शुभं यः पठेत् प्रयतमानस-
स्सदा । पुत्रदारगृहलाभमव्ययं मुक्तिमार्गमनघं लभे-
त्सदा ॥

॥ इति श्रीवेदव्यासविरचितकाश्यष्टकम् ॥

॥ शिवस्तुतिः॥


   गले कलितकालिमः प्रकटितेन्दु फालस्थले विना-
टितजटोत्करं रुचिरपाणिपाथोरुहे, उदञ्चितकपा-
लजं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि
धाम वन्दामहे ॥ १
   वृषोपरि परिस्फुरद्धवळदाम धामश्रिया कुबेरगिरि
गौरिमप्रभवगर्वनिर्वासि तत् । क्वचित्पुनरुमाकुचो-
पचितकुङ्कुमैरञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं
भजे ॥ २
   उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकर-
कलाकरव्यतिकरेण चाहर्निशम् । विकासितजटाट-
वीविहरणोत्प्तवप्रोल्लसत्तरामरतरङ्गिणीतरळचूडमीडे -
मृडम् ॥ ३
   विहाय कमलालयाविलसितानि विद्युन्नटी
विडम्बनपटूनि मे विहरणं विधत्तां मनः । कपर्दिनि

शिवस्तुति ४१३


कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटि-
चर्मणि ब्रह्मणि ॥ ४
   भवद्भवनदेहलीविकटतुण्डदण्डाहतित्रुटन्मुकुटको-
टिभिर्मघवदादिभिर्भूयते । व्रजेम भवदन्तिकं प्रकृति-
मेत्य पैशाचकीं किमित्यमरसम्पदः प्रमथनाथ नाथा-
महे ।। ५
  त्वदर्चनपरायणप्रमथकन्यकालुण्ठितप्रसून सफल-
द्रुमं कमपि शैलमाशास्महे । अलं तटवितर्दिंकाश-
यितसिद्धसीमन्तिनीप्रकीर्णसुमनोमनोरमणमेरुणामे-
रुणा ॥ ६
  न जातु हर यातु मे विषयदुर्विलासं मनो मनो-
भवकथास्तु मे न च मनोरथातिथ्यभूः । स्फुरत्सुरत-
रङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव
भवानि पूजापरः ॥ ७
   विभूषणसुरापगाशुचितरालवालावळीवलद्वहल-
सीकरप्रकरसेकसंवर्धिता । महेश्वरसुरदुमस्फुरित -

४१४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:


सज्जटामञ्जरीनमज्जनफलप्रदा मम नु हन्त भूयादियम्॥ ८
   बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेस्समाधि-
कलितात्मनः पशुपतेरशेषात्मनः । शिरस्सुरसरित्तटी
कुटिलकल्पकल्पद्रुमं निशाकरकळामहं वटुविमृष्य-
माणां भजे ॥ ९
त्वदीयसुरवाहिनीविमलवारिधारावलज्जटा -
गहनगाहिनी मतिरियं मम क्रामतु । सुरोत्तमसरि-
त्तटीविटपिपताटवीप्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लि
काभ प्रभो ॥ १०

॥ इति श्रीलङ्केश्वरविरचिता शिवस्तुतिः ॥


॥ श्रीशिवरक्षास्तोत्रम् ॥


ओं अस्य श्रीशिवरक्षास्तोत्रमहामन्त्रस्य - याज्ञ-
वल्क्यऋषिः - श्री सदाशिवो देवता - अनुष्टुप्
छन्दः - श्री सदाशिवप्रीत्यर्थे श्री शिवरक्षास्तोत्रजपे
विनियोगः ॥

चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षा पठेन्नरः ॥ २
गङ्गाधरश्शिरः पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३
घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरां शशिकन्धरः ॥ ४
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृत् ॥ ५

४१६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

हृदयं शङ्करः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युञ्जयः पातु कटिं व्याघ्राजिनाम्बरः॥ ६
सक्थिनी पातु दीनार्तः शरणागतवत्सलः।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ।। ७
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।
चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ।। ८
एतां शिवबलोपेतां रक्षां यस्सुकृती पठेत् ।
स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १०
अभयङ्करनामेदं कवचं पार्वतीपतेः।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११
इमां नारायणस्वप्ने शिवरक्षां यथादिशत् ।
प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ।। १२

॥ इति श्रीयाज्ञवल्क्यप्रोक्तं श्रीशिवरक्षास्तोत्रम् ॥

॥ शिवशङ्कराष्टकम् ॥


   अतिर्भाषण कटुभाषण यमकिङ्करपटलीकृतता-
डनपरिपीडनमरणागमसमये। उमया सह मम चेतसि
यमशासननिवसं शिवशङ्कर शिव शङ्कर हर मे
हर दुरितम् ॥ १
   असदिन्द्रियविषयोदयसुखसास्कृतसुकृतेः पर
दूषण परितोषण कृतपातकविकृतेः । परमालय परि-
पालय परितापन मिति मां शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ २
  विषयाभिध बडिशायुध पिशितायुतसुभगं मसि-
कायुतमतिसन्ततिमरुभूमिषु निरतम् । मृड मामव
सुगतेरव शिवया सह कृपया शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ ३
   दयितामव दुहितामव जननीमव जनकं मम
कल्पितमतिसन्तति मरुभूमिषु निरतम् । जनिता-

४१८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


सुखवनितासख वसतिं कुरु सुमतिं शिवशङ्कर शिव-
शङ्कर हर मे हर दुरितम् ॥ ४
   जननाशन मृतिमोचन शिवपूजन निरतेरभितो-
कृशमितयेदृशमहमाहरमिवहम् । गजकच्छपजनित-
श्रममुरलीकुरसुमतिं शिवशङ्कर शिवशङ्कर हर मे
हर दुरितम् ॥ ५
   त्वयि तिष्ठति सकलस्थितिपरमात्मनि हृदये
वसुमार्गणकृपणेक्षण मनसा शिव विमुखम् । अकृ-
ताह्निकमनुपोषक भवताद्गिरिसुतया शिवशङ्कर शिव-
शङ्कर हर मे हर दुरितम् ॥ ६
   पितराविति नु कदाविति युतयोकृत हृदये शिव-
योः पदमभियाह्युरु पणसत्तव सुकृतेः । इति मे
शिव हृदयं भवदात्ततरयया शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ ७
   शरणागत भरणादृत करुणामृतजलधे शरणं तव
चरणं शिवभव संसृतिवसते । वर चिन्मय जगदा-

शिवशङ्कराष्टकम् ४१९


मयभिषगानतमवतात् शिवशङ्कर शिवशङ्कर हर मे
हर दुरितम् ॥ ८
   त्रिपुरान्तक त्रिदशेश्वरगणनायक शिव ते शरणं
भव कृतसागरफणिकङ्कणचरणम् । वृषवाहन विष-
दूषण पतितोद्धर शरणं शिवशङ्कर शिवशङ्कर हर
मे हर दुरितम् ॥ ९
   शशिशेखर शिवदायक हरिशायक गिरिजाप्रिय-
नायक गजकन्धर गजदानवहरण । कनकासनकन-
काम्बरविनाशन शरणं शिवशङ्कर शिवशङ्कर हर मे
हर दुरितम् ॥ १०
  विजितेन्द्रिय विबुधार्चित विमलाम्बुजचरण भव-
नाशन भयनाशन भजिताङ्कितहृदय । फणिभूषण
मुनिपोषण मदनान्तक शरणं शिवशङ्कर शिवशङ्कर
हर मे हर दुरितम् ॥ ११

॥ इति श्री शिवशङ्कराष्टकम् ॥

 

॥ मार्कण्डेयशिवाष्टकम् ॥


   सदा गोदावर्यास्तटनिकटवासं पशुपतिं वदान्यं
सर्वेशं वरदमखलार्थैकघटनम् । शिवं गौरीनाथं
शशिधरमनन्तार्चितपदं भजे मार्कण्डेय भसितनिटलं
भव्यनटनम् ॥ १
   सदा कैलासाद्रिस्वपदमनघं सर्वजगतां प्रभु श्री-
विश्वेशं प्रकटितपरंधाम सरथम् । नटेशं गौरीशं
ललितरविचन्द्रानलदृशं भजे ...॥ २
   महादेवं सर्वं मधुरिपुसखं मङ्गळकरं परंशम्भुं
साम्बं पुरमथनमीशं भवहरम् । स्मरारिं सर्वज्ञं स्मर-
हरमनादिं मृगधरं भजे ... ॥ ३
   प्रदोषेषु स्वान्तं प्रबलतरतौर्यत्रिककृतं त्रयत्रिंश-
त्कोटित्रिशदप्रवरैः संपरिवृतम्। रमावाणीन्द्र श्रीपति
विधिकृतोल्लास्यकरणं भजे ...॥ ४

मार्कण्डेय शिवाष्टकम् ४२१


   भवानीहृत्पद्मारुणमहिनि नीलोत्पलगळं सह-
स्रारे पद्मानिशमविवसन्तं सुरगुरुम् । स्तुतिभ्यो
भक्तानां निखिल सुखदं सुस्थिरपदं भजे ... ॥ ५
   शिवस्त्वं विष्णुस्त्वं सकलभुवनस्त्वं रविशशी
नभस्त्वं कायस्त्वं सकलजगदात्मा त्वमसि भो ।
यतिर्देयं सान्ते सुखतमखिलं जैमिनिवरैः भजे ॥ ६
   सदोच्चैराह्वानं हरहरहरेति प्रवचसा सदा भक्त्या-
नन्दो शिवशिव शिवेति स्वमनसा । स्तुतिं वारं
वारं भवभवमभवेति प्रतिभया भजे ... ॥ ७
   यमाहूतं भीतं मुनिवरनुतं पाशनिहर्ति भवन्तं
सद्भक्त्या हृदि शिशुमवन्तं करुणया। शरण्यं भक्ता-
नां परमगतिमीशं परशिवं भजे मार्कण्डेयम् ॥ ८
श्रीकोलाचलसद्वंशवारिधेस्तु सुधाकरः ।
यज्ञेशो भूसुरश्चक्रे मार्कण्डेयशिवाष्टकम् ।। ९

॥ इति श्रीमार्कण्डेय शिवाष्टकम् ॥


॥ श्रीमहानन्दीश्वरभुजङ्गस्तोत्रम् ॥

 किरीटेन्दुगङ्गामनोज्ञोत्तमाङ्गं ललाटेक्षणात्पुष्प-
देहानुषङ्गं । तुषाराद्रिकन्या ससङ्गं सदऽहं नमाम्यन्त-
रङ्गं महानन्दिलिङ्गम् ॥ १

 दिगीशादिदिग्भित्तिसन्नाट्यलिङ्गं लसत्कुम्भि-
चर्माम्बरच्छादिताङ्गम् । जगन्मातृगौरी मुखाम्भोज
भृङ्गं नमा॥ २

 चतुर्वेदवेद्यं महावेदवाद्यं नमद्भक्तहृद्यं मुरारि-
प्रसाध्यम् । गुरुब्रह्मभूतं चिदानन्दरूपं नमा ॥ ३

 पुराकाशिकापट्टणप्राङ्गणान्ते नवस्वर्णदीभूतभृत्कृष्ट
रान्ते । हरिब्रह्ममूर्धाभिषिक्तं विदेहं नमा ...॥ ४

 सुहृत्पुत्रसम्पन्मुखाद्युत्सुखादिं विहायरिवर्गं महा-
सेव्यकायम् । जटाजूटमध्यप्रदेशप्रगङ्गं महीभृद्धवाङ्गं
महानन्दिलिङ्गम् ॥ ५

 चतुर्द्वारदौवारिकोदार्यमाणं नमन्हृद्यगन्धर्वगीता-
नुरक्तं । सुनाट्यं प्रकुर्वाणमीशं सुरेशं नमा ...॥ ६

  ॥ इति श्रीमहानन्दीश्वर भुजङ्गस्तोत्रम् ॥

॥ चन्द्रमौळीश्वर भुजङ्गस्तोत्रम् ॥



 सदामुदाय दिव्यमानसे सरोरुहान्तरे विहारणेषु
सञ्चयं विदारिणे चिदात्मने । निरस्ततोय तोयमञ्चि
कायकायशालिने नमश्शिवाय साम्ब शङ्कराय
चन्द्रमौळये ॥ १

 नमो नमोष्टमूर्तये नमो समानकीर्तये नमो नमो
महात्मने नमश्शुभप्रदायिने। नमो दयार्द्रसेतवे नमोस्तु
कृत्तिवाससे नम ... ॥ २

 पितामहाद्यवेद्यकस्वभावके ममायते समस्तदेवता
समप्रपूजिताङ्घ्रिचर्चिते । भवाय शक्ररत्नसद्गुणप्रभाव-
शालिने नम ... ॥ ३

 शिवोहमस्मि भावयन् शिवं शिवेन रक्षस श्शिव
स्वपूर्णवर्चस स्वमर्चसे पदद्वयम् । शिवत्परं न विद्यते
शिवे जगत्प्रवर्तने नम ... ॥ ४

 कपर्दिनेऽर्कचन्द्रमः कृपीटयोनिसन्दृशे तपोधना-

ग्रणीमनस्सरोजसत्यवासिने । फणाफणिच्छबिज्व-
लद्भुजङ्गभूषणाञ्चिते नम ...॥ ५

 शिवाननारविन्दसन्मिळिन्दभाविभास्विने विनोदिने
दिनेशकोटिदिक्प्रभाकृतायिने । स्वसीदसाम्ब साद-
रावलोकनैकवर्तिने नम ...॥ ६

 जटातटीलुठद्वयद्धुनीगळं गळध्वनिद्धगर्जितोग्र-
बुद्धि सम्भ्रमभ्रमच्छिखण्डिने। विखण्डितारिमण्डल-
प्रचण्डगो त्रिशूलिने नम ... ॥ ७

 अखर्वगर्वदुर्विजृम्भकुम्भिदम्भदानवं जितेनतद्धन-
त्रिनाकचारिणे विहारिणे । सुदृक्सुदृक्षु हृच्छयाप-
हरिणे विदारिणे नम ...॥ ८

 -अखण्डिताण्डबाहुदण्डदन्तितोप्रदिन्धिमप्रदि
 न्द्धिमिद्धिमि ध्वनि प्रमोदितोग्रताण्डवम् । विधा-
पिने धनाधिनाथ साधुसख्यदायिते नम ... ॥ ९

 प्रहृष्टरुष्टदुष्टपुष्ट दिष्टविष्टपायसं नमद्विशिष्ट भक्त-

चिष्टकीर्तयेष्टमूर्तये । यथेष्टदष्टशैलजाधरोष्टपल्लवाय ते
सदानम ... || १०

 हराय वा हराय वाजनन्दिनन्दिने विनोदिने
सनातनाय भूतनायरायते । यतीश्वरेश्वराय शाश्वताय
विश्वरूपिणे नम ... ॥ ११

 भवाय दिव्यवैभवाय नायनाग्निहृष्टहृद्भवाय भूरि
भूमभृद्धनुर्धराय वर्धिने । समृद्भिरुद्धिमृद्धनुप्रमृद्ध-
वन्दिताय ते नम ...॥ १२

 मरन्दतुन्दिलारविन्दसुन्दरस्मिताननोन्मिळिन्द
बृन्द बालनीलजालशैलकुन्तला । कलाकलापशालिने
शिवामपेक्षतोषणे नम ...॥ १३

॥इति श्रीमच्छङ्करानन्दाचार्यविरचितं
श्रीचन्द्रमौळीश्वरभुजङ्गस्तोत्रम् ॥

॥ गङ्गाधरस्तोत्रम् ॥



 क्षीराम्भोनिधिमन्थनोद्भवविषात्सन्दह्यमानान् -
सुरान् ब्रह्मादीनवलोक्य य: करुणया हालाहलाख्यं
विषम् । निश्शङ्कं निजलीलया कबळयन्लोकान्नरक्षा-
दरादार्तत्राणपरायणस्सभगवान् गङ्गाधरो मेगतिः।। १

 क्षीरं स्वादु निपीय मातुलगृहेभुक्त्वा स्वकीयं
गृहं क्षीरालाभवशेन खिन्नमनसेघोरं तपः कुर्वते ।
कारुण्यादुपमन्यवेनिरवधिं क्षीरांबुधिं दत्तवानार्त-
त्राण परायणस्सभगवान् गङ्गाधरो मे गतिः ।। २

 मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं
मार्कडेयमपालयत्करुणया लिंगाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेनहरयेभीष्टं रथाङ्गं ददा वार्तात्राण
परायणस्सभगवान् गङ्गाधरो मे गतिः ।। ३

 ओढुं द्रोणजयद्रथादिरथिकैस्सैन्यं महत्कैरवं दृष्ट्वा
कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा । पार्थं
रक्षितवा नमोघविषय दिव्यास्त्र मुद्बोधयन्नार्त...।। ४

 बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
दृष्ट्वा नम्यविरिञ्चिरम्यनगरे पूजां त्वदीयां भज-
न्नार्त ...॥ ५

 संत्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके-
ष्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन्यः कृपया समस्तविबुधात् जित्वा पुरारीन्
क्षणा दार्तत्राण...॥ ६

 श्रौतस्मार्तपथो पराङ्भुवमपि प्रोद्यन्महापातकं
विश्वाधीशमपत्यमेव गतिरित्यालापवन्तं सकृत् ।
रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्त्रताण...॥ ७

 गाङ्गं वेगमवाप्यमान्यविबुधैस्सोढुं पुरा याचितो
दृष्ट्वाभक्तभगीरथेन विनतो रुद्रोजटामण्डले। कारुण्या
दवनीतले सुरनदीमापूरयन्पावनी मार्तत्राण परा-
यण...॥ ८


॥ इति श्रीमदप्परय्यदीक्षितविरचितं श्रीगङ्गाधराष्टकम् ॥

॥श्रीपार्वतीशकरावलम्बस्तोत्रम् ॥

श्रीमच्चराचरजगत्परिपालनेश
   शम्भोशतानन गणत्रयकारणत्वम् ।
श्रीद क्षमासम सुशान्त सुरेन्द्रवन्द्य
   श्री पार्वतीश मम देहि करावलम्बम्...॥ १
नित्यानिवारित महाबलवत्सुरौघ
   सत्यस्वरूप सदयाप्रतिमस्वभाव ।
निर्विण्णबुद्धिरहित प्रथितोरुकीर्ते श्रीपा ... ॥ २
पाशाङ्कुशाभयकरप्रणताघनाश
   कौशल्यसञ्चरित विश्वविशालफाल ।
त्रैशूलशृङ्गजितराक्षसबृन्दशम्भो श्रीपा ... ॥ ३
सर्वाखुमूषकभुगादिषु पापजन्म
   स्वत्यन्तपापनिरतस्य च जन्मनो मे।
बाल्ये विशुद्धमतिहीनचकर्तिनश्च श्रीपा ...॥ ४
ज्ञानप्रदिग्ध चरणायुध सारमेयैः
   बालैर्विदग्धहृदयैश्च फलैश्च नाकम् ।
अज्ञानतश्चचलबालकचेष्टितस्य श्रीपा...॥ ५

अन्धैर्युभिर्युवति काठिनवृत्तवक्षो
   जन्मद्वयार्पितहृदस्तरुणीरतस्य ।
तारुण्यके वयसि नाम मदांध दृष्टेः श्रीपा...॥ ६
वित्तार्जने विविधपापविचारयुक्त-
   स्याज्ञानबद्धहृदयस्य च दारपुत्रान् ।
पातुं धरासुरधन प्रतिलोभबन्देः श्रीपा... ॥ ७
दारा इमे मम सुताः पशवो मदीया
   धान्यं मदीयमिति गर्वितमानसस्य ।
दुर्वृत्तकृत्यर्निरतस्य दुरात्मकस्य श्रीपा...॥ ८
वृद्धे वयस्युत कफामय वातपित्त
   तृष्णादिभिश्च रुदतस्स्वकळत्रपुत्रान् ।
देह्यन्नमम्बरामिति प्रतिपावनस्य श्रीपा... ॥ ९
बाल्ये च कुर्दनरतस्य च यौवने तु
   स्त्रीलोलुपस्य गळितस्य जरांशभाजि।
चिन्तारतस्य च विदा परिहीणबुद्धेः श्रीपा...॥ १०
काले भृतेस्सुतकळत्रजनैरुदद्भि-
  र्हाहेति बन्धुनिवहै रतिदीनवाक्यैः ।


दैन्यं गतस्य यमदूतनिपीडितस्य श्रीनीलकण्ठ ..
आगत्य ते यमचराह्यति भीतिरूपाः
   दंष्ट्राकराळवदना धृतयाम्यदण्डाः।
माभीषयन्ति च तदा परिपालकः को
विश्वेशे शर्व ...॥ १२
आयाहि पापनिरतेति वदन्ति ये ते
   बद्ध्वा गळे यमभटास्तु कठोरपाशैः।
धृत्वा करौ च चरणौ वशगस्य तेषां श्रीपा...॥ १३
जल्पन् रुदन् सति सुतानभिवीक्ष्य वक्तुं
   हीनस्य वैधृतिबलेनच दिव्यनाम ।
स्मर्तुं भयेन यमदूतसहानुगस्य श्रीपा ...॥ १४
नीतस्य तैस्सिकतकण्टक कुत्सिताश्म
   सान्द्रेण य दुष्कृतपदाजलहीनदेशे।
छायाविहीनबहुळातपतप्तभूमौ श्रीपा ...॥ १५
आपद्गतस्य च तदा कृपया गतस्त्वं
नालोच्य दुर्गुणगणांस्तव किङ्करस्य ।

भीतस्य दूतवशगस्य च मे दयाळो श्रीपा ...॥ १६
नास्त्येव दारसुतबन्धुगुणप्रतीकं
   मुक्त्वागतस्य रविसूनुपरं तदीये ।
दूतैस्समानुगमनेऽप्यतिभीतिगस्य श्रीपा ...॥ १७
जन्मप्रभृत्युतमहांति च दुष्कृतानि
   कृत्वा तु संसृतिनिमित्तमदान्धकारैः।
नह्यात्तमीश तव नाम मया कदापि श्रीपा ...॥ १८
अव्याजभक्तपरिपालकदीनबन्धो
   स्वामिन् शिवारमण मे तव किङ्करस्य ।
देहावसानसमये तव नाम दत्वा श्रीपा ...॥ १९
नास्त्यन्यदैववरदो मम नास्तिनास्ति
   त्वामन्तरेण गिरिजेश कृपासमुद्र ।
दत्वा स्मृतिं शुभतरां तव नाम्नएष श्रीपा ... ॥ २०
मृत्युश्च सन्निहित एव यदा करोवा
   तं प्राप्नुयां यदि तदा स्मृतिहीनचित्तम् ।
तस्मिंत्समागत उमाधव रक्ष मां त्वं श्रीपा... ॥ २१
पूर्वार्जितैरमितदुष्करपातकौघै-

   र्यत्प्राप्नुयां मृतिमरण्यवने पुरेव ।
न ज्ञायते यदि कदा भव मे प्रसन्नः श्रीपा...॥ २२
शार्दूलसिह्ममृगसर्पजलाग्निवात
   चोरामयादिमृतिमाप्नुवतोह्यकाले।
तत्रागतस्यदमृताख्य मथोपदिश्य श्रीपा ...॥ २३
श्रीमन्गिरीश शशिशेखर दिव्यमूर्ते
   श्रीपार्वतीधर रमापति मुख्यसेव्य ।
सर्वान्तरायहर पाशधर प्रभो मे श्रीपा ...॥ २४
नित्यं शिवस्य महतस्तु करावलम्बं
   स्तोत्रं महागुरुवरेण शिवशङ्करेण ।
यत्प्रातरेव पठतश्शरवक्त्रएष-
   स्सर्वानभीष्टनिचयान् प्रददाति शम्भुः॥ २५
श्रीपार्वतीशस्य करावलम्ब
   स्तोत्रं पठेद्यः प्रयतः प्रभाते ।
स्मृतिं तु तस्यात्र मृतौ प्रदद्यात्
   श्रीपार्वतीशो हि करावलम्बम् ॥ २६

इति श्रीमत्परमहंसपरिव्राजक श्रीशङ्करभारतीस्वामिविरचितं
श्रीपार्वतीशकरावलम्बस्तोत्रम् सम्पूर्णम् ॥

॥ शिवमानसिकपूजास्तोत्रम् ॥


अनुचितमनुलपितंमेत्वयिशम्भो शिवतदागरशांत्यै ।
अर्चा कथमपि विहितामङ्गीकुरु सर्वमङ्गळोपेत ॥ १
ध्यायामि कथमिव त्वां धीवर्त्म विदूर दिव्यमहिमानम्।
आवाहनं विभोस्ते देवाग्रय भवेत्प्रभो कुतस्स्थानात् ॥ २
कियदासन प्रकल्प्यं कृतासनस्येह सर्वतोपिसह ।
पाद्यं क्वतेऽर्व्यमपिवा पाद्यं सर्वत्र पाणिपादस्य ॥ ३
आचमनन्ते स्यादधिभगवन्तेसर्वतो मुखस्यकथम् ।
मधुपर्कोवाकथमिह मधुवैरिणि दर्शितप्रसादस्य ॥ ४
स्नानेन किं विधेयं सलिलकृतेनेह नित्यशुद्धस्य ।
वस्त्रेणापि नकार्य देवाधिपते दिगम्बरस्येह ॥ ५
स्फुरतिहि सर्वाभरणं सर्वाङ्गे सर्वमङ्गळाकार ।
अतिवर्णाश्रमिणस्तेऽस्त्युपवीतेनेहकश्चिदुत्कर्षः ॥ ६
गन्धवतीहतनुस्ते गन्धा:किंनेश पौनरुक्तया ।
पुष्कर फलदातारं पुष्करकुसुमेन पूजयामि त्वाम् ॥ ७
शमधनमूलधनं त्वां सकलेश्वरभवसिधूपितःकेन ।

दीपः कथं शिखावान् दीप्येत पुरस्स्वयंप्रकाशस्य ॥ ८
अमृतात्मकमपि भगवन्नशनं किन्नाम नित्यतृप्तस्य ।
स्वय्याम्रेडितमेतत्ताम्बूलं यदिहनुमुखरागाय ॥ ९
उपहारी भूयादिदमुमेशयन्मे विचेष्टितमशेषम् ।
नीराजयामि तमिमं नानात्मानं सहाखिलैः करणैः ॥ १०
सुमनश्शेखर भवते सुमनोञ्जलिरेषकोभवेच्छम्भो।
छत्रंद्युमन्द्युमार्धन् चामरमपिकिञ्जितश्रमस्यतव॥ ११
नृत्यंप्रथतां कथमिवनाथ तवाग्रेमहानटस्येह ।
गीतं किं पुरवैरिन् गीतागम मूलदेशिकस्यपुरः ॥ १२
वाद्यं डमरुभृतस्ते वादयितुंतेपुरोस्तिकाशक्तिः ।
अपरिच्छिन्नस्य भवेदखिलेश्वर कः प्रदक्षिणविधिस्ते ॥ १३
स्युस्तेनमांसिकथमिव शङ्करपरितोपि विद्यमानस्य ।
वाचामगोचरे त्वयिवाक्प्रसरोमे कथंसुसम्भवति ॥ १४
नित्यानन्दायनमो निर्मलविज्ञानविग्रहायनमः।
निरवधिकरुणायनमोनिरवधिविभवायतेजसेस्तुनमः।। १५
सरसिज विपक्षचूड स्सगरतनू जन्मसुकृतमूर्धासौ ।

दृक्कूलङ्कुषकरुणो दृष्टिपथेमेस्तु धवळिमाकोपि ॥ १६
जगदाधार शरासं जगदुत्पाद प्रवीणयन्तारम् ।
जगदवन कर्मठशरं जगदुद्धारं श्रयामि चित्सारम् ॥ १७
कुवलयसह युध्वगळैः कुलगिरिकूटस्थकवचितार्धाङ्गैः ।
कलुषविदूरैश्चेत: कबळितमेतत्कृपारसैः किञ्चित् ॥ १८
वसनवतेकत्कृत्या वासवते रजितशैल शिखरेण ।
वलयवतेभोगभृता वनितार्धाङ्गाय वस्तुनेस्तु नमः ॥ १९
सरसिजकुवलय जागरसंवेशन जागरूकलोचनतः।
सकृदपि नाहंजाने सुतरान्तं भाष्यकारमञ्जीरात् ॥ २०
आपाटलजूटानामानीलच्छायकन्धरा सीम्नाम् ।
आपाण्डु विग्रहाणामाद्रुहिणं किङ्करा वयं महसाम् ॥ २१
मुषितस्मरावलेपे मुनितनयायुर्वदान्यपदपद्मे ।
महसि मनोरमतांमे मनसि दयापूर मेदुरापाङ्गे ॥ २२
शर्मणि जगताङ्गिरिजा नर्मणि सप्रेमहृदयपरिपाके ।
ब्रह्मणि विनमद्रक्षण कर्मणि तस्मिन्नुदेतु भक्तिर्मे ॥ २३
कस्मिन्नपि समये मम कण्ठच्छायाविधूतकालाभ्रं ।

अस्तुपुरौवस्तु किमप्यर्धाङ्गे दारमुन्मिषन्निटलम् ॥ २४
जटिलाय मौळिभागे जलधरनीलायकन्धराभोगे।
धवळाय वपुषि निखिले धाम्नेस्स्यान्मानसे नमोवाकः॥ २५
अकरविराजत्सु मृगैरवृषतुरङ्गैः रमौळिधृतगङ्गैः।
अकृतमनोभवभङ्गैरलमन्यैर्जगतिदैवतंमन्यैः॥ २६
कस्मै वच्मि दशां मे कस्येदृग्घृदयमस्तिशक्तिर्वा ।
कस्य बलं चोद्धर्तुं क्लेशंत्वामन्तरा दयासिन्धो ॥ २७
याचेह्यनभिनवन्ते चन्द्रकळोत्तंस किञ्चिदपिवस्तु ।
मह्यंप्रदेहिभगवन् मदीयमेव स्वरूपमानन्दम् ॥ २८
भगवन्बालतयावा भक्त्यावा प्यापदाकुलत्तयावा ।
मोहाविष्टतया वा मास्तुचते मनसि यद्दुरुक्तं मे॥ २९
यदि विश्वाधिकताते यदि निगमागम पुराणयाथार्थ्यम्।
यदिवाभक्तेषुदयातदिहमहेशाशु पूर्णकामरस्याम् ॥ ३०
॥ इति शिवानन्दावधूतरचित शिवमानसिकपूजास्तोत्रम् ॥

॥ शिवपञ्चाक्षरीस्तोत्रम् ॥


   ओङ्कारसञ्जातसमस्तवेदपुराणपुण्यागमपूजिताय ।
चोङ्काररूपप्रियदर्शनाय चोङ्काररूपाय नमश्शिवाय ॥ १
   नानाजराव्याधिविनाशनाय नाथायलोकाय जग-
द्धिताय । नानाकळज्ञाननिदर्शनाय तस्मै नकाराय ... ॥ २
  मात्सर्यदोषान्तकसम्भवाय मातुः पितुर्दुःखनिवा-
रणाय । महेश्वरीसूक्ष्मवराय नित्यं तस्मै मकाराय ... ॥ ३
शीलव्रतज्ञानदृढव्रताय शीलासुवर्णाय समुत्सुकाय ।
शीघ्राय नित्यं सुरसेविताय तस्मै शिकाराय ... ॥ ४
वामार्धविद्युत्प्रतिमप्रभाय वाचा मनःकर्मविमोचनाय।
वागीश्वरीसूक्ष्मवराय नित्यं तस्मै वकाराय ... ॥ ५
यक्षोरगेन्द्रादिसुरव्रताय यक्षाङ्गनाजन्मविलोचनाय ।
यक्षेषु लोकेषु जगद्धिताय तस्मै यकाराय ... ॥ ६
उत्फुल्लनीलोत्पललोचनायै कृशानुचन्द्रार्कविलोचनाय।
निरीश्वरायै निखिलेश्वराय नमविशवायै च नमश्शि-
                                   वाय ... ॥ ७
॥ इति शिवपञ्चाक्षरीस्तोत्रम् ॥

॥ बिल्वाष्टकम् ॥


त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पितम् ॥ १
त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः ।
तव पूजां करिष्यामि एक ...॥ २
दर्शनं बिल्ववृक्षैश्च स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एक ...॥ ३
सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।
यज्ञकोटिसहस्राणां एक ...॥ ४
दन्तिकोटिसहस्रेषु अश्वमेधशतानि च ।
कोटिकन्याप्रदानेन एक ...॥ ५
एकं च बिल्वपत्रैश्च कोटियज्ञफलं लभेत् ।
महादेवैश्च पूजार्थ एक ...॥ ६
काशीक्षेत्रे निवासं च कालभैरवदर्शनम् ।
गयाप्रयागमे दृष्ट्वा एक ...॥ ७

उमया सह देवेशं वाहनं नन्दिशङ्करम् ।
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ ८

॥ इति श्रीबिल्वाष्टकम् ॥


तुलसी बिल्व निर्गुण्डी अपामार्गकपित्थको ।
शमी चामलकं दूर्वा अष्टबिल्वाः प्रकीर्तिताः ॥ ९

॥इत्यष्टबिल्वानि॥

॥ मेधादक्षिणामूर्ति मन्त्रवर्णपदस्तुतिः ।।



ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयश्शिखाः ।
तस्मै तारात्मने मेधादक्षिणामूर्तये नमः ॥ १
नत्वायं मुनयस्सर्वे परं यान्ति दुरासदम् ।
नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २
मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।
मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ३
भवमाश्रित्य यं विद्वान् नभवोह्यभवत्परः ।
भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ४
गगनाकारवद्धान्तमनुभात्यखिलं जगत् ।
गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ५
वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।
वकाररूपिणे ... ॥ ६
तेजोभिर्यस्य सूर्योऽसौ कालक्लृप्तिकरो भवेत् ।
तेकार रूपिणे ...॥ ७

दक्षत्रिपुरसंहारे यः कालविषभञ्जने ।
दकाररूपिणे ... ॥ ८
क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।
क्षिकाररूपिणे ... ॥ ९
णाकारवाच्यो यस्सुप्तं सन्दीपयति में मनः ।
णाकाररूपिणे ...॥ १०
मूर्तयोह्यष्टधा यस्य जगज्जन्मादिकारणम् ।
मूकाररूपिणे ... ॥ ११
तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।
सरेफतात्मनेमे ....॥ १२
येयं विदित्वा ब्रह्माद्या ऋषयो यान्ति निवृतिम् ।
येकाररूपिणे ... ॥ १३
महतां देवमित्याहुर्निगमागमयोशिशवः ।
नकाररूपिणे ... ॥ १४
सर्वस्य जगतोह्यन्तर्बहिर्यो व्याप्य संस्थिता।
मकाररूपिणे ...॥ १५

त्वमेव जगतस्साक्षी सृष्टिस्थित्यन्तकारणम् ।
मेकाररूपिणे ...॥ १६
दामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।
धाङ्काररूपिणे १७
प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः।
प्रकाररूपिणे ... ॥ १८
ज्ञानिनोयमुपास्यन्ति तत्वातीतं चिदात्मकम् ।
ज्ञाकाररूपिणे ...॥ १९
प्रज्ञा सजायते यस्य ध्याननामार्चनादिभिः
प्रकारपिणे ... ॥ २०
यस्यस्मरणमात्रेण नरो मुक्तस्सबन्धनात् ।
यकाररूपिणे ... ॥ २१
छवेर्यग्नेन्द्रियाण्यापुर्विषयेष्विह जाड्यताम् ।
उकाररूपिणे ...॥ २२

स्वान्तेविदां जडानां यो दूरे तिष्ठति चिन्मयः।
स्वाकाररूपिणे ...॥ २३
हारप्रायफणीन्द्राय सर्वविद्याप्रदायिने ।
हाकाररूपिणे ... ॥ २४

॥ इति श्रीमेधादक्षिणामूर्ति मन्त्रवर्णपदस्तुतिः॥

॥ दक्षिणामूर्तिनवरत्नमालिकास्तोत्रम् ॥

   तेजःकिंचित्काञ्चनटङ्कीकपिशाभान् बिभ्रद्बभ्रूतु-
द्भटकापर्दकलापान् । भस्मालेपस्मेरललाटं वटमूले
दृष्टं दुष्टापस्मृतिहारि स्मरहन्तृ ॥ १
   न्यग्रोधाधो धिक्कृतधाराधरधीर ग्रीवाभोगं भो-
गिकुलाकल्पमनल्पम् । मुग्धाकारं मुग्धनिशानाथ-
वतंसं मुग्धस्मेरं मोहविरामं विमृशामः ॥ २
   नासादत्तालोकनयानाध्यसरोरुट्किञ्जल्काळि -
पिङ्गाजटाजूटकवत्या। प्रौढापस्मारस्मयिताघस्मरशक्त्या
चित्रीभूतं चित्कळया मामकमन्तः ॥ ३
   विद्यारूपे वेदगिरामे कविमृग्ये नद्यामौळौ नर्तन-
शीलालकचूडे । आलीनं मे मानसमालीढमनोभू-
गाढाहङ्काराङ्कुरलालाटकृशानौ ॥ ४
   वैयाघ्रत्वक्चित्रपटीक्लृप्तकटीका टीकाकारज्ञान-
समुद्रानिगमोक्तेः । मुक्तेर्माता मूलमपारस्य महिम्न-
श्चिद्वैदग्ध्री कांचन चित्ते मम भाति ॥ ५

 इन्दूत्तंसं काळिमकण्ठं शिखिनेत्रं सिन्दूरोष्ठं-
शुद्धतनुं बद्धफणीन्द्रम् । भाधीशाभाभासुरहासं भव-
मन्तश्शार्दूलत्वग्वाससमीशं वरिवस्ये ।। ६

 मुद्रा काचित् ज्ञानमयी यं मुनिशंसन्मोहध्वां-
तोत्कर्तनवैकर्तनिमूर्तेः । आर्ति भिन्द्यादाशयलग्ना-
मनिशं नो नैयग्रोधीं मूलभुवं चाधिशयाना ।। ७

 नीहारांभो हारसितैरावतगङ्गा पाटीराळी
भूतिसुधातधौवळक्षम्।सद्रुद्राक्षस्रग्धरमुद्राक्षमनक्षस्पं-
दं मन्दस्मेरमनादिं गुरुमन्तः ।। ८

 घोरापस्मृत्युत्कटपृष्ठे विनिविष्टो यस्यैकोङ्घ्रि स्तत्त्पृधु-
लोरु स्थितिरन्यः । वस्तुध्यानादुद्धृतनिष्पन्दशरीरं
शान्तं तेजस्तन्महिमानं समुपासे ॥ ९

 एतां मालां नवमणिरूपामादिगुरोर्भक्त्या नित्यं
पठति च यो जाड्यविमुक्तः । अष्टाचत्वारिंशति
साहस्रसमत्वं गत्वा तस्मिन् विलयमुपैत्येव स धन्यः॥

॥इति श्री नवनाथसिद्धकृत दक्षिणामूर्ति नवरत्नमालिकास्तोत्रम्॥

॥ दक्षिणामूर्तिनवरत्नमालास्तात्रेम् ॥


   मूले वटस्य मुनिपुङ्गवसेव्यमानं मुद्राविशेष
मुकुळीकृतपाणिपद्मम् । मन्दस्मितं मधुरवेषमुदार-
माद्यं तेजस्तदस्तु हृदि मे तरुणेन्दुचूडम् ।। १
   शान्तं शारदचन्द्रकान्तिधवळं चन्द्राभिरामाननं
चन्द्रार्कोपमकान्तिकुण्डलधरं चन्द्रावदातांशुकं। वी-
णां पुस्तकमक्षसूत्रवलयं व्याख्यानमुद्रां करैर्बिभ्राणं
कलये हृदा मम सदा शास्तारमिष्टार्थदम् ।। २
   कर्पूरगात्रमरविन्ददळायताक्षं कर्पूरशीतलहुदं क-
रुणाविलासम् । च द्रार्धशेखरमनन्तगुणाभिराम -
मिन्द्रादिसेव्यपदपङ्कजमीशमीडे ॥ ३
   द्युद्रोरथस्वर्णमयासनस्थं मुद्रल्लेसद्वाहुमुदार
कायम् । सद्रोहिणीनाथ कळावतंसं भद्रोदधिं कञ्चन
चिन्तयामः ॥ ४
उद्यद्भास्करसन्निभं त्रिणयनं श्वेताङ्गरागप्रभं बालं
मौजिधरं प्रसन्नवदनं न्यग्रोधमूले स्थितम् । पिङ्गाक्षं

मृगशाबकस्थितिकरं सुब्रह्मसूत्राकृतिं भक्तानामभय-
प्रदं भयहरं श्रीदक्षिणामूर्तिकम् ॥ ५

 श्रीकान्तद्रुहिणोपमन्युतपनस्कन्देन्द्रनन्द्यादयः प्रा-
चीना गुरवोपि यस्य करुणालेशाद्गता गौरवम् । तं
सर्वादिगुरुं मनोज्ञवपुषं मन्दस्मितालङ्कृतं चिन्मुद्रा-
कृतिमुग्धपाणिनळिनं चित्ते शिवं कुर्महे ॥ ६

 कपर्दिनं चन्द्रकळावतंसं त्रिनेत्रमिन्दुं प्रतिमक्षिता-
ज्वलम् । चतुर्भुजं ज्ञानदमक्षसूत्रपुस्ताग्निहस्तं हृदि-
भावयेच्छिवम् ॥ ७

<poem>वामोरूपरिसंस्थितां गिरिसुतामन्योन्यमालिङ्गितां
श्यामामुत्पलधारिणीं शशिनिभां चालोकयन्तं शिवम् ।
आश्लिष्टेन करेण पुस्तकमथो कुम्भं सुधापूरितं
मुद्रां ज्ञानमयीं दधानमपरैर्मुक्ताक्षमालं भजे ॥ ८
वटतरुनिकटनिवासं पटुतरविज्ञानमुद्रितकराब्जम् ।
कञ्चन देशिकमाद्यं कैवल्यानन्दकन्दळं वन्दे ॥ ९

॥ इति श्रीदक्षिणामूर्ति नवरत्नमालास्तोत्रम् ॥

</poem>

॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥


मन्दस्मित स्फुरित मुग्धमुखारविन्दं
   कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम् ।
आताम्रकोमल जटाघटितेन्दुलेख-
   मालोकये वटतटीनिलयं दयाळुम् ॥ १
कन्दळित बोधमुद्रं केवल्यानन्द संविदुन्निद्र्म् ।
कलये कश्चन रुद्रं करुणारसपूरपूरितसमुद्रम् ॥ २
ओं जयदेव महादेव जय कारुण्यविग्रह ।
जयभूमिरुहावास जय वीरासनस्थित ॥ ३
जय कुन्देन्दुपाटीरपाण्डुराङ्गाङ्गजापते ।
जयं विज्ञानमुद्राक्ष मालावीणालसत्कर ॥ ४
जयेतरकरन्यस्त पुस्तकास्तरजस्तमः।
जयापस्मार निक्षिप्त दक्षपाद सरोरुह ॥ ५
जय शार्दूल चर्मैक परिधान लसत्कटे।
जय मन्दस्मितोदार मुखेन्दु स्फुरिताकृते ॥ ६

जयान्तेवासिनिकरैरावृतानन्दमन्धर ।
जय लीलाजितानङ्ग जय मङ्गळवैभव ॥ ७
जय तुङ्गपृथूरस्क जय सङ्गीतलोलुप ।
जय गङ्गाधरासङ्ग जय शृङ्गारशेखर ॥ ८
जयोत्सङ्गानुषङ्गार्य जयोत्तुङ्ग नगालय ।
जयापाङ्गैक निर्दग्ध त्रिपुरामरवल्लभ ॥ ९
जय पिङ्गजटाजूट घटितेन्दु करामर ।
जयजातुप्रपन्नार्ति प्रपाटनपटूत्तम ॥ १०
जय विद्योत्पलोल्लासि-निशाकर परावर।
जयाविद्यान्धतमसध्वंसनोद्भासिभास्कर ॥ ११
जय संसृतिकान्तारकुठारासुरसूदन ।
जय संसारसावित्र तापतापित पादप ॥ १२
जयदोषविषालीढ मृतसञ्जीवनौषध ।
जय कर्तव्यदावाग्नि दग्धान्तर सुधाम्बुधे ॥ १३
जयासूयार्णवामग्नजनतारणनाविक ।
जयाहताक्षि रोगाणा मतिलोक सुखाञ्जन ॥ १४

जयाशाविषवल्लीनां मूलमालानिकृन्तन ।
जयाघतृणकूटाना ममन्द ज्वलितानल ॥ १५
जय मायामदेभश्री विदारण मृगोत्तम ।
जय भक्तजनस्वान्त चन्द्रकान्तैकचन्द्रमाः॥ १६
जय सन्त्यक्तसर्वाश मुनिकोक दिवाकर ।
जयाचलसुताचारु मुखचन्द्र चकोरक ॥ १७
जयाद्रि कन्यकोत्तुङ्ग कुचाचल विहङ्गम ।
जय हैमवती मञ्जु मुखपङ्कज बम्भर ॥ १८
जय कात्यायनी स्निग्ध चित्तोत्पल सुधाकर ।
जयाखिल हृदाकाश लसद्युमणि मण्डल ॥ १९
जयासङ्ग सुखोत्तुङ्ग सौधक्रीडन भूमिप ।
जयसंवित्सभासीम नटनोत्सुक नर्तक ॥ २०
जयानवधि बोधाब्धि केळिकौतुक भूपते ।
जय निर्मलचिद्योन्नि चारुद्योतित नीरद ॥ २१
जयानन्द सदुद्यान लीलालोलुप कोकिल ।
जयागम शिरोरण्य विहार वरकुञ्जर ॥ २२

जय प्रणव माणिक्य पञ्जरान्तश्शुकाग्रणी: ।
जयसर्वकलावार्धि तुषार करमण्डल ॥ २३
जयाणिमादिभूतीनां शरण्या खिल पुण्यभूः ।
जय स्वभावभासैव विभासित जगत्त्रय ॥ २४
जय खादिधरित्र्यन्त जगज्जन्मादि कारण ।
जयाशेष जगज्जाल कलाकलनवर्जित । २५
जय मुक्तजनप्राप्य सत्यज्ञान सुखाकृते ।
जयदक्षाध्वरध्वंसिन् जय मोक्षफलप्रद ॥ २६
जय सूक्ष्मज्जगद्व्यापिन् जय साक्षिन् चिदात्मक ।
जय सर्व कुलाकल्प जयानल्प गुणार्णव ॥ २७
जयकन्दर्पलावण्य दर्पनिर्भेदनप्रभो ।
जयकर्पूरगौराङ्ग जयकर्म फलाश्रय ॥ २८
जयकञ्जदळोत्सेक भञ्जनोद्यतलोचन ।
जय पूर्णेन्दुसौन्दर्यगर्वनिर्वापणानन ॥ २९
जय हासश्रियोदस्त शरच्चन्द्र महाप्रभ ।
जयाधर विनिर्भिन्न बिम्बारुणिम विभ्रम ॥ ३०

जय कम्बुविलासश्री धिक्कारि वरकन्धर ।
जयमञ्जुलमञ्जीररञ्जित श्रीपदाम्बुज ॥
जय वैकुण्ठसम्पूज्य जयाकुण्ठमते हर ।
जय श्रीकण्ठसर्वज्ञ जय सर्वकळानिधे ॥
जयकोशातिदूरस्थ जयाकाश शिरोरुह । ।
जयपाशुपतध्येय जयपाश विमोचक ।
जयदेशिक देवेश जयशम्भो जगन्मय ।
जयशर्व शिवेशान जयशङ्कर शाश्वत ।।
जयोङ्कारैकसंसिद्ध जयकिङ्करवत्सल ।
जय पङ्कजजन्मादि भाविताङ्घ्रियुगाम्बुज ॥
जयभर्ग भवस्थाणो जयभस्मावकुण्ठन ।
जयस्तिमित गम्भीर जयनिस्तुलविक्रम ॥
जयास्तमितसर्वाश जयोदस्तारिमण्डल ।
जयमार्ताण्डसोमाग्नि लोचनत्रयमण्डित ॥
जयगण्डस्थलादर्श बिम्बितोद्भासिकुण्डल ।
जय पाषण्डजनतादण्डनैकपरायण ॥

जयाखण्डितसौभाग्य जयचण्डीश भावित ।
जयानन्तति कान्तैक जयशान्तजनेडित ॥ ३९
जय त्रय्यन्तसंवेद्य जयाङ्ग त्रितयातिग ।
जयनिर्भेदबोधात्मन् जयनिर्भावभावित ॥ ४०
जयनिर्द्वन्द्व निर्दोष जयाद्वैतसुखाम्बुधे ।
जयनित्यनिराधार जयनिष्कळनिर्गुण ॥ ४१
जयनिष्क्रियनिर्माय जयनिर्मलनिर्भय ।
जयनिश्शब्दनिस्स्पर्श जयनीरूपनिर्मल ॥ ४२
जयनीरस निर्गन्ध जयनिस्पृह निश्चल ।
जयनिस्सीम भूमात्मन् जयनिष्पन्द नीरधे ॥ ४३
जयाच्युत जयातर्क्य जयानन्य जयाव्यय ।
जयामूर्त जयाचिन्त्य जयाग्राह्य जयाद्भुत ॥ ४४
इति श्रीदेशिकेन्द्रस्य स्तोत्रं परमपावनम् ।
पुत्रपौत्त्रायुरारोग्यसर्वसौभाग्यवर्धनम् ॥ ४५
सर्वविद्यापदं सम्यगपवर्गविधायकम् ।
यः पठेत्प्रयतो भूत्वा ससर्वफलमश्नुते ॥ ४६

दाक्षायणीपतिदयार्द्रनिरीक्षणेन
साक्षादवैति परतत्वमिहैव धीरः ।
नस्नानदानजपहोमसुरार्चनादि
धर्मैरशेष निगमात्तनिरूपणैर्वा ॥ ४७
अवचनचिन्मुद्राभ्यामद्वैतं बोधमात्रमात्मानम् ।
ब्रूते तत्र च मानं पुस्तक भुजगाग्निभिर्महादेवः ॥
कटिघटित करटिकृत्तिः कामपि मुदांप्रदर्शयन् जटिल:
स्वालोकिनः कपाली हन्त मनोविलय मातनोत्येकः ।
श्रुतिमुखचन्द्रचकोरं नतजनदौरात्म्यदुर्गमकुठारम् ।
मुनिमानस सञ्चारं मनसा प्रणतोस्मिदेशिक मुदारम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य
श्रीसदाशिव ब्रह्मेन्द्रविरचितं श्रीदक्षिणामूर्तिस्तोत्रम् ॥

॥ श्रीदक्षिणामूर्ति मानसिकपूजास्तोत्रम् ॥

 मुद्राक्षमाला मृतपात्रविद्या व्याघ्राजिनार्धेन्दु- फणींद्रयुक्तम् । योगीन्द्रपर्जन्य मनस्सरोजभृङ्गभजेहं हृदिदक्षिणास्यम् ॥ १

 स्फुटवटनिकटस्थं स्तूयमानावभासं पटुभुजतटबद्ध- व्याघ्रचर्मोत्तरीयम् । चटुलनिटलनेत्रं चन्द्रचूडं मुनीशं स्फटिकपटलदेहं भावये दक्षिणास्यम् ॥ २ आवाहये सुन्दरनागभूषं विज्ञानमुद्राञ्चित पञ्च- शाखम् । भस्माङ्गरागेण विराजमानं श्रीदक्षिणामूर्ति- महात्मरूपम् ॥ ३

 सुवर्णरत्नामलवज्रनीलमाणिक्यमुक्तामणियुक्त- पीठे । स्थिरोभव त्वं वरदो भवत्वं संस्थापयामीश्वर दक्षिणास्यम् ॥ ४

 श्रीजाह्नवीनिर्मलतोयमीश चार्व्यार्थमानीय समर्प- यिष्ये । प्रसन्नवक्त्रान्बुजलोकवन्द्य कालत्रयेहं तव- दक्षिणास्तयम् ॥ ५  कस्तूरिकामिश्रमिदं गृहाण रुद्राक्षमालाभरणाङ्कि ताङ्ग । कालत्रयाबाध्यजगन्निवास पाद्यं प्रदास्ये हृदि दक्षिणास्यम् ॥

 मुदाहमानन्द सुरेन्द्रवन्द्य गङ्गानदीतोयमिदं हिदास्ये । तवाधुना चाचमनं कुरुष्व श्रीदक्षिणामूर्ति गुरुस्वरूप ॥

 सर्पिः पयो दधि मधु शर्कराभिः प्रसेचये ।
 पञ्चामृतमिदं स्नानं दक्षिणास्य कुरु प्रभो ॥ ८

 वेदान्तवेद्याखिलशूलपाणे ब्रह्मामरोपेन्द्रसुरेन्द्र - वन्द्य । स्नानं कुरुष्वामलगाङ्गतोये सुवासितेस्मिन् कुरुदक्षिणास्य ॥

 कौशेयवस्त्रेण च मार्जयामि देवेश्वराङ्गानि तवाम- लानि । प्रज्ञाख्यलोकत्रितयप्रसन्न श्रीदक्षिणास्याखिल- लोकपाल ॥ १०

 सुवर्णतंतूद्भव मग्र्यमीश यज्ञोपवीतं परिधत्स्व देव । विशालबाहूदरपञ्चवक्त्र श्रीदक्षिणामूर्ति सुख- खरूप ॥ ११

 कस्तूरिकाचन्दनकुङ्कुमादिविमिश्रगन्धं मणिपात्र संस्थम् । समर्पयिष्यामि मुदा महात्मन् गौरीमनो- वस्थितदक्षिणास्य ॥ १२

 शुभ्राक्षतैश्शुभ्रतिलैस्सुमिश्रैस्संपूजयिष्ये भवत:- परात्मन्, तदेकनिष्ठेन समाधिनाथ सदाहमानन्द सुदक्षिणास्य ॥ १३

 सुरत्नदाङ्गेय किरीटकुण्डलं हाराङ्गुळीकङ्कणमेख- लावृतम् । खण्डेन्दुचूडामृतपात्रयुक्तं श्रीदक्षिणामूर्ति- महं भजामि ॥ १४

 मुक्तामणिस्थापितकर्बुरप्रसूनैस्सदाहं परिपूज- यिष्ये । कुक्षिप्रपुष्टाखिललोकजाल श्रीदक्षिणामूर्ति- महत्स्वरूपम् ॥ १५

 दशाङ्गधूपं परिकल्पयामि नानासुगन्धान्वितभाज्ययुक्तम् । मेधाख्य सर्वज्ञ बुधेन्द्रपूज्य दिगम्बर स्वीकुरु दक्षिणास्य ॥ १६

 आज्येन संमिश्रमिमं प्रदीपं वर्तित्रयेणान्वितमग्नि- युक्तम् । गृहाण योगीन्द्र मयार्पितं भो श्रीदक्षिणा- मूर्तिगुरो प्रसीद ॥ १७

 शाल्योदनं निर्मलसूपशाकभक्ष्याज्यसंयुक्तदधि- प्रसिक्तम् । कपित्थ सद्राक्ष फलैश्च चूतैस्सापोशनं भक्षय दक्षिणास्य ॥ १८

 गुडाम्बु सत्सैन्धवयुक्ततक्रं कर्पूरपाटीर लवङ्ग- युक्तम् । यज्ञेश कामान्तक पुण्यमूर्ते पिबोदकं निर्मल- दक्षिणास्य ॥ १९

 खमार्गनिर्यज्जलमाशु देव कुरूत्तरापोशनमभ्रकेश । प्रक्षाळनं पाणियुगस्य शर्व गण्डूषमापादय दक्षि- णास्य ॥ २०

 सम्यग्जलेनाचमनं कुरुष्व स्वस्थो भव त्वं ममचाप्रभागे । चिदाकृते निर्मलपूर्णकाम विनिर्मितं पावन दक्षिणास्य ॥ २१

 ताम्बूलमद्य प्रतिसंगृहाण कर्पूरमुक्तामणिचूर्ण- युक्तम् । सुपर्णपर्णान्वितपूगखण्डमनेकरूपाकृति दक्षिणास्य ॥ २२

 नीराजनं निर्मलपात्रसंस्थं कर्पूरसंदीपित मच्छरू- पम् । करोमिवामेश तवोपरीदं व्योमाकृते शङ्कर दक्षि- णास्य ॥ २३

 ततःपरं दर्पणमीश पश्य स्वच्छं जगद्दीपितचक्रभा- स्वत् । माणिक्यमुक्तामणिहेमनील विनिर्मितं पावन- दक्षिणास्य ॥ २४

 मन्दारपङ्केरुहकुन्दजाजीसुगन्धपुष्पाञ्जलिमर्प- यामि । त्रिशूलढक्काञ्चितपाणियुग्म ते दक्षिणामूर्ति- विरूपधारिन् ॥ २५

 प्रदक्षिणं सम्यगहं करिष्ये कालत्रये त्वां करुणाभिरामम् । शिवामनोनाथ ममापराधं क्षमस्व यज्ञेश्वर- दक्षिणास्य ॥ २६

 नमोनमः पापविनाशनाय नमोनमः कञ्जभवा- र्चिताय । नमोनमः कृष्णहृदि स्थिताय श्रीदक्षिणा- मूर्तिमहेश्वराय ॥ २७

इति विज्ञानेन्द्रविरचितं श्रीदक्षिणामूर्ति
मानसिकपूजास्तोत्रम् ॥ ॥ श्रीदक्षिणामूर्तिस्तोत्रम् ॥

 उपासकानां यदुपासनीयमुपात्तवासं वटशाखि- मूले । तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तुं चित्ते मम बोधरूपम् ॥ १

 अद्राक्षमक्षीणदयानिधानमाचार्यमाद्यं वटमूल - भागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो- नुदं तम् ॥ २

 विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनी- नाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्व- मसीति बोधम् ॥ ३

 अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्तान् मुनीनहं नौमि गुरुं गुरू- णाम् ॥ ४

 ममाद्य देवो वटमूलवासी कृपाविशेषात्कृतसन्नि- धानः । ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्त- मपाकरोतु ॥ ५  कळाभिरिन्दोरिव कल्पिताङ्गः मुक्ताकलापैरिव बद्धमूर्तिम् । आलोकये देशिकमप्रमेयमनाद्यविद्या- तिमिरप्रभातम् ॥ ६

 स्वदक्षजानुस्थितवामपादं पादोदरालङ्कृतयोग- पट्टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणि- धानवन्तम् ॥ ७

 तत्वार्थमन्तेवसतामृषीणां युवापि यस्सन्नुपदेष्टु- मीष्टे । प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्य- गुणाधिवासम् ॥ ८

 एकेन मुद्रां परशु करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडा- मणिराविरस्तु ॥ ९

 आलेपवन्तं मदनाङ्गभूत्या शार्दूलकत्त्त्या परिधान- वन्तम् । आलोकये कञ्चन देशिकेन्द्रमज्ञानवाराकर- बाडबाग्निम् ॥ १०

 चारुस्मितं सोमकळावतंसं वीणाधरं व्यक्तजटाकलापम् । उपासने केचन योगिनस्त्वामुपात्तना- दानुभवप्रमोदम् ॥ ११

 उपासते यं मुनयश्शुकाद्या निराशिषो निर्ममता- धिवासाः । तं दक्षिणामूर्तितनुं महेशमुपास्महे मोह- महार्तिशान्त्यै ॥ १२

 कान्त्या निन्दितकुन्दकन्दळवपुर्न्यग्रोधमूले वसन् कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन् वीक्षितैः । मोहध्वान्तविभेदनं विरचयत् बोधेन तत्तादृशा देव- स्तत्वमसीति बोघयतु मां मुद्रावता पाणिना ॥ १३

 अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रै रनपास्तनिद्रै रपूरकामै रमरैरलं नः ॥ दैवतानि कति सन्ति नावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभि- मुखमेव दैवतम् ॥ १५

 मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदिन्द्रजालरचनापटीयसे महसे नमोस्तु वटमूलवासिने ॥ १६

 व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥ १७

 उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटी- करोषि । यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानस- चन्द्रकान्तः ॥ १८

 यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्ध- शशाङ्कमौळे: । ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम् ॥ १९

इति श्रीमच्छङ्करभारतीस्वाभिविरचितं दक्षिणामूर्तिस्तोत्रम् ॥ ॥ श्री नीलकण्ठनमश्शिवायाष्टकम् ॥

 नमो नमः कारणकारणाय जगन्मयायाहित- पाशकाय । त्वत्पादपद्माश्रितरक्षकाय श्री नील- कण्ठाय नमश्शिवाय ॥ १

 ध्यायन्ति ये त्वां यतयः स्तुवन्ति हृदंबुजे दीप- समप्रकाशम् । नासाप्रविन्यस्तविलोचनाय श्री नील- कण्ठाय नमश्शिवाय ॥ २

 सर्गस्थितिध्वंसनकारणाय यमादियोगाष्टक- सिद्धिदाय । तपस्विनां शीघ्रफलप्रदाय श्री ... ॥ ३

 वेदादिरूपाय त्रिलोचनाय वेदान्तवेद्याय दिग- म्बराय । विभूतिशुभ्राय जटाधराय श्री ... ॥ ४

 उग्राय संसारभयापहाय ज्ञानप्रदायाशुसुख- प्रदाय । कालान्तकाय प्रळयानिलाय श्री ... ॥ ५

 विधातृरूपाय जगद्धिताय रमेशरूपाय सदा- शिवाय । अनन्तरूपाय चतुर्भुजाय श्री ... ॥ ६  विश्वैकवन्द्याय कळाधराय समस्तलोकैकसमाश्र- याय । कुठारपाशाङ्कुशपालिने च श्री ... ॥ ७

 शर्वाय सर्वप्रियकारणाय पिनाकिने बाणधराय तुभ्यम् । गौरीप्रियायाखिलपालकाय श्री ... ॥ ८ इति स्तुत्वा महादेवं प्रणम्य च पुनः पुनः । निदध्यू ऋषयस्तत्र सुराः पद्मभुवादयः ।। ९

इति श्रीस्कान्दपुराणे श्रीगरळपुरीनाथमाहात्म्ये
श्री नीलकण्ठनमश्शिवायाष्टकम् ॥ ॥ शिवापदानदण्डकस्तोत्रम् ॥

 शैलादिकृतनिषेवण कैलासशिखरभूषण तत्वार्थं गोचरचन्द्रार्धशेखर शापायुधकुलार्थ्यस्मित्तापाङ्ग को- पारुणकटाक्षभस्मितानङ्ग सस्मितापाङ्ग ऊरीकृत- विभूतिदिव्याङ्गराग गौरीपरिगृहीतसव्याङ्गभाग अ- ङ्गानुषङ्गपावितनरास्थिदेश गङ्गातरङ्गभासितजटाप्रदेश वन्दनाभिरताखण्डलस्यन्दनायितभूमण्डल आश्रित- दासतापसकदम्ब चक्रीकृतार्कशीतकरबिम्ब आहत- पुराणवेतण्ड स्वीकृतसुमेरुकोदण्ड खर्वीकृतासुर मदानुपूर्वीविकास दर्वीकरेश्वर गृहीतमौर्वीविलास वीणामुनीन्द्रख्यापितगरिम पौरुषबाणाधिकार स्था- पितपरमपूरुष अनिलाशनविहितनैपथ्यकमलासन- विहितसारथ्य विश्वाधिकत्वपरिकलितोपलम्भ अश्वा- यिताद्यवचोगुम्भ कुन्दस्मयहर कान्तिप्रकर मन्द- स्मितलवशान्तत्रिपुर नादबिन्दुकलाभिज्ञास्पद भूरि भद्र स्वेदबिन्दुलवाविर्भावितवीरभद्र त्रस्तरक्षापरतन्त्र ध्वस्तदक्षाध्वरतन्त्र किरीटनीतविविधवेध:कपाल चपेटाघात शिथिलभास्वत्कपोल विजृम्भितविक्रमो- द्द्ण्ड स्तम्भितचक्रिदोर्दण्ड ब्रह्मस्तवोचितमहाहर्षं जिह्मस्वभावजनदुराधर्ष वसुन्धराधरसुतोपलालन जरन्दरासुरशिरोनिपातन कोपाहतपतितान्तक- व्यापादितसमदान्धक परसंहननजटासंभृतपरभाग- गौर नरसिंहनियमनालम्बितशरभावतार प्रपन्नभय- मोचन विभिन्नभगलोचन प्रपञ्चदहनकारक विरिञ्च- वदनहारक सञ्चारपूतमन्दर पञ्चायुधातिसुन्दर अप- नीतदक्षानन अभिनीतभिक्षाटन धारितमेरुकानन कुसुममालिकालङ्कार दारितदारुकावनकुलपालिका- हङ्कार समावर्जितभक्तमानसानुसार परावर्तितद्दप्त- तापसाभिचारवैयासिकोक्तिगोचरवैयाघ्रकृत्तिभासुर गतपरिकर्मकृतस्पृह कृतकरिचर्मपरिग्रह स्वध्यानश- मितपातकप्रसङ्ग विव्यादिविबुधपूजितस्वलिङ्ग शान्त मानसानुरोध क्षान्ततापसापराध सालानलवलन- भीषण हालाहलगरळभूषण अरुणांशुकन्दळमणिफणि- कुण्डल चरणाग्रयंत्रित दशकन्धरभुजमण्डल आनन्द- ; ताण्डव नटनानुबन्ध गोविन्दपूजितचरणारविन्द विनयानतामृताशन सहस्राहितप्रमोद तनयाभिलाषि- माधवतपस्याकृतप्रसाद दिव्यास्त्रदानतोषितभृगुसूनु- नम्यासव्याभागभावितहरिरूपरम्यवन्दितागतश्रुतिधर नन्दिपालित प्रतीहार बुद्धनानारहस्यशतमन्युमुखामर- भक्तिगोचर दुग्धपानार्थं तपस्यदुपमन्युविश्राणित- दुग्धसागर अधिकचालित दुष्टपीडाकरण हरिविरि- ञ्चापदृष्ट चूडाचरण अञ्चद्धर्म वृषाधार अधर्मप्रक्षाळ- नादर पञ्चब्रह्ममयाकारवेदाश्ववरोहितस्वाम्यश्वेताश्वत- रोपनिषदगम्य चापल्यरहितरम्यस्वभाव अखर्वमखादि- राज्यप्रताप अधर्वशिखानुवाद्यस्वरूप अगर्वनरस्तुति- मुदित अधर्ववरस्तुतिविदित नादान्तविभावनीय प्रणतार्तिहर प्रणवार्थसार मुग्धलावण्याधार शुद्ध चैतन्याकार आशीविषधारक काशीपुरनायक हृद- म्बुजकृतविलास चिदम्बरकृतनिवास आकर्णचलिता- पाङ्ग गोकर्णरंचितानङ्ग घोराशुरपुर धूमकेतु स्मित वाराकरगत रामसेतु स्थित रक्षणलीलाविलास दक्षिणकैलासवास आताम्रलोलनयन एकाम्नमूलभवन आभीलविधुसेवन श्रीशैलशिखरपावन द्राक्षामधुर वाग्गुम्भ रुद्राक्षरुचिरदोस्तम्भ कालकण्ठरुचिघटित- लावण्य नीलकण्ठमखिनिहितकारुण्य सेवापरतन्त्र- पालक शैवागमतन्त्रकारक सर्गस्थितिसंहृतित्रयस्थेय गर्भश्रुतियन्त्रित गायत्र्यनुसंधेय अध्यासितवर- निकुञ्जगृहहिमाहार्य अध्यापितहरिविरिञ्चिमुख शिवाचार्य अर्चितानन्तविहर सच्चिदानन्दशिशिर विजयीभव विजयीभव ॥

दृष्ट्वा कौस्तुभमप्सरोगण-
मपि प्रक्रान्तवादा मिथो

गीर्वाणा: कतिवा न सन्ति
भुवने भारा दिवः केवलम् ।
निष्क्रान्ते गरळे द्रुते
सुरगणे निश्चेष्टिते विष्टपे
माभैष्टेति गिराविरास धुरि
यो देव स्तमेव स्तुमः ॥
॥ इति श्री नीलकण्ठमखीन्द्रविरचितं शिवापदानगद्यस्तोत्रम् ॥

॥ शिवमङ्गळाष्टकम् ॥

भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने ।
कालकालाय रुद्राय नीलग्रीवाय मङ्गळम् ॥ १
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च ।
पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गळम् ॥ २
भस्मोद्धूळितदेहाय व्याळयज्ञोपवीतिने ।
रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गळम् ॥ ३
सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४
मृत्युञ्जयाय साम्बाय सृष्टिस्थित्यन्तकारिणे
त्रियम्बकाय शान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५
गङ्गाधराय सोमाय नमो हरिहरात्मने ।
उग्राय त्रिपुरनघ्नाय वामदेवाय मङ्गळम् ॥ ६
सद्योजाताय शर्वाय भव्यज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गळम् ॥ ७

सदाशिवस्वरूपाय नमस्तत्पुरुषाय च ।
अघोराय च घोराय महादेवाय मङ्गळम् ॥ ८
श्रीचामुण्डाप्रेरितेन रचितं मङ्गळास्पदम् ।
तस्याभीष्टप्रदं शम्भोः यः पठेन्मङ्गळाष्टकम् ॥ ९
॥ इति श्रीशिवमङ्गलाष्टकम् ॥

॥ शिवनक्षत्रमालिकास्तोत्रम् ॥ .

श्रीकण्ठस्साम्ब ईशानः पार्वतीप्राणवल्लभः ।
वृषारूढो विष्णुसखश्शिव एव गतिर्मम ॥ १
परमात्मा परब्रह्म पञ्चास्यः परमेश्वरः ।
परात्परतरं धाम शिवएव गतिर्मम ॥ २
निरालम्बो निराकारो निर्मलो निरुपद्रवः ।
नित्यशुद्धो निष्कळङ्कश्शिवएव गतिर्मम ॥ ३
शुद्धस्फटिकसङ्काशस्सूर्यचन्द्राग्निलोचनः ।
शूलटङ्कधरश्शर्वश्शिवएव गतिर्मम ॥ ४
भूरयो विष्णुबाणश्च वेदाश्वो ब्रह्मसारथिः ।
त्रिपुरारिर्मेरुधन्वा शिवएव गतिर्मम ॥ ५
व्याघ्रचर्माम्बरघरो व्याळयज्ञोपवीतवान् ।
भवाभीष्टप्रदो नित्यश्शिवएव गतिर्मम ॥ ६
कालकालो महाकाळो भस्मोद्धूळितविग्रहः ।
कैलासनिलयश्शम्भु शिशवएव गतिर्मम ॥ ७


रुद्राक्षमालाभरणस्त्रिपुण्ड्राङ्कितमस्तकः ।
प्रमथेशो महादेवश्शिवएव गतिर्मम ॥ ८
गौरीकान्तो वामदेवो नीलग्रीवो दिगम्बरः।
गङ्गाधरश्चन्द्रचूडश्शिवएव गतिर्मम ॥ ९
मूर्तित्रयस्वरूपाढ्यो गुणत्रयविवर्जितः ।
कार्यत्रयविधाता च शिवएव गतिर्मम ॥ १०
सद्योजातो भैरवश्व मार्कण्डेयवरप्रदः ।
विष्णुचक्रप्रदाता च शिवएव गतिर्मम ॥ ११
अघोरमूर्तिस्सर्वेशो वेदवेद्यो दयानिधिः ।
कपालयुक्तहस्ताब्ज श्शिवएव गतिर्मम ॥ १२
अष्टमूर्तिस्तत्पुरुष स्तथैकादश मूर्तिमान् ।
पञ्चविंशति लीलात्मा शिवएव गतिर्मम ॥ १३
शतरुद्रस्वरूपाढ्यो नन्दिभृङ्गि वरप्रदः ।
सदाशिवोऽनन्तरूपश्शिवएव गतिर्मम ॥ १४
महालिङ्गोद्भवश्शान्तो रुण्डमालाविभूषणः ।
त्रियम्बको विरूपाक्ष श्शिवएव गतिर्मम ॥ १५

निरञ्जनः परंज्योति स्सच्चिदानन्दविग्रहः ।
मायाशबररूपाढ्य श्शिवएव गतिर्मम ॥ १६
लिङ्गरूपो दशभुजश्चोग्रःपशुपतिर्भवः ।
कामेश्वरो जगद्रक्षश्शिवएव गतिर्मम ॥ १७
कल्याणसुन्दराकारः कामितार्थवरप्रदः ।
हालास्यलीलालोलश्च शिवएव गतिर्मम ॥ १८
मृत्युञ्जयो महारौद्रस्सोमस्स्कन्दो महेश्वरः ।
बाणासुरपरित्राता शिवएव गतिर्मम ॥ १९
जलन्धरशिरश्छेत्ता नागालङ्कारभूषितः ।
गजचर्माम्बरधरश्शिवएव गतिर्मम ॥ २०
भवरोगहर: पूज्यो भयकृद्भयनाशनः ।
दक्षिणामूर्ति रूपाढ्य श्शिवएव गतिर्मम ॥ २१
सन्ध्यानटो हरो रद्रो भस्मासुरवरप्रदः ।
पिनाकभृन्मन्मथारिश्शिवएव गतिर्मम ॥ २२
मृडो ब्रह्मशिरश्छेत्ता विनायकवरप्रदः ।
उमामहेश्वरो देवश्शिवएव गतिर्मम ॥ २३
महाप्रभुर्महायोगी भूतसङ्गसमावृतः ।

नारदादिमुनिस्तुत्यश्शिवएव गतिर्मम ॥ २४
दक्षाध्वरहरो वीरः कालकोटिविषाशनः ।
गणेशशास्तृजनक श्शिवएव गतिर्मम ॥ २५
कुबेरमित्रो भीमेशो गिरीशो मोहिनीप्रियः ।
देवासुरादिसंसेव्यश्शिवएव गतिर्मम ॥ २६
स्थाणुर्हरिहरात्मा च रामतारकमन्त्रदः ।
शङ्करश्चार्धनारीशश्शिवएव गतिर्मम ॥ २७
श्रीचामुण्डाकृपापूर्ण शिवध्यानपरायणः ।
श्रीकृष्णेन्द्रो भक्तियुक्तश्शिवनक्षत्रमालिकाम् ॥ २८
रचयित्वार्पयामास श्रीकण्ठहृदयाम्बुजे ।
त्रिसन्ध्यं यः पठेद्भक्त्या शिवसायुज्यमाप्नुयात् ॥
मल्लिकावृत्तम्-

 रत्नशैलनगावनीशकचन्द्रपल्लवहायने सिद्धमास- सिताष्टमी शशिवासरे कनकोज्वला । चन्द्रशेखर- पादयोः खखपूर्ण रूपमिताक्षरा कृष्णभूपसमर्पिता गजभानुनाम सुमालिका ॥ ३०

॥ इति श्रीशिवनक्षत्रमालिकास्तोत्रम् ॥ ॥ श्रीशङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥

श्रीशङ्कराचार्यवर्यो ब्रह्मानन्दप्रदायकः ।
अज्ञानतिमिरादित्यस्सुज्ञानाम्बुधिचन्द्रमा: ॥ १
वर्णाश्रमप्रतिष्ठाता श्रीमान्मुक्तिप्रदायक: ।
शिष्योपदेशनिरतो भक्ताभीष्टप्रदायकः ॥ २
सूक्ष्मतत्त्वरहस्यज्ञः कार्याकार्यप्रबोधकः ।
ज्ञानमुद्राञ्चितकर शिशष्यहृत्तापहारकः ॥ ३
परिव्राजाश्रमोद्धर्ता सर्वतन्त्रस्वतन्त्रधीः ।
अद्वैतस्थापनाचार्यस्साक्षाच्छङ्कररूपभृत् ॥ ४
षण्मतस्थापनाचार्य स्त्रयीमार्ग प्रकाशकः ।
वेदवेदान्ततत्त्वज्ञो दुर्वादिमतखण्डनः ॥ ५
वैराग्यनिरतश्शान्तस्संसारार्णवतारकः ।
प्रसन्नवदनाम्भोजः परमार्थप्रकाशकः ॥ ६
पुराणस्मृतिसारज्ञो नित्यतृप्तो महाञ्छुचिः ।
नित्यानन्दो निरातङ्को निस्सङ्गो निर्मलात्मकः ॥ ७

निर्ममो निरहङ्कारो विश्ववन्द्यपदाम्बुजः ।
सत्वप्रधानस्सद्भावस्सङ्ख्यातीतगुणोज्ज्वलः ॥ ८
अनघस्सारहृदयस्सुधीस्सारस्वतप्रदः ।
सत्यात्मा पुण्यशीलश्च साङ्ख्ययोगविलक्षणः ॥ ९
तपोराशिर्महातेजा गुणत्रयविभागवित् ।
कलिघ्नः कालकर्मज्ञ स्तमोगुणनिवारकः ॥ १०
भगवान्भारतीजेता शारदाह्वानपण्डितः ।
धर्माधर्मविभावज्ञो लक्ष्यभेदप्रदर्शकः ॥ ११
नादबिन्दुकळाभिज्ञो योगिहृत्पद्मभास्करः ।
अतीन्द्रियज्ञाननिधिर्नित्यानित्यविवेकवान् ॥ १२
चिदानन्दश्चिन्मयात्मा परकायप्रवेशकृत् ।
अमानुषचरित्राढ्यः क्षेमदायी क्षमाकर: ॥ १३
भव्यो भद्रप्रदो भूरि महिमा विश्वरञ्जकः ।
स्वप्रकाशस्सदाधारो विश्वबन्धुश्शुभोदयः ॥ १४
विशालकीर्तिर्वागीशस्सर्वलोकहितोत्सुकः ।
कैलासयात्रासंप्राप्त चन्द्रमौलिप्रपूजकः ॥ १५

कांच्यां श्रीचक्रराजाख्ययन्त्रस्थापनदीक्षितः ।
श्रीचक्रात्मक ताटङ्क तोषिताम्बामनोरथः ॥ १६
श्रीब्रह्मसूत्रोपनिषद्भाष्यादिग्रन्थकल्पकः ।
चतुर्दिक्चतुराम्नायप्रतिष्ठाता महामतिः ॥ १७
द्विसप्तति मतोच्छेत्ता सर्वदिग्विजयप्रभुः ।
काषायवसनोपेतो भस्मोद्धूळितविग्रहः ॥ १८
ज्ञानात्मकैकदण्डाढ्यः कमण्डलुलसत्करः ।
गुरुभूमण्डलाचार्यो भगवत्पादसंज्ञकः ॥ १९
व्याससन्दर्शनप्रीतः ऋष्यशृङ्गपुरेश्वरः ।
सौन्दर्यलहरीमुख्यबहुस्तोत्रविधायकः ॥ २०
चतुष्षष्टिकळाभिज्ञो ब्रह्मराक्षसपोषकः ।
श्रीमन्मण्डनमिश्राख्यस्वयंभूजयसन्नुतः ॥ २१
तोटकाचार्यसम्पूज्य पद्मपादार्चिताङ्घ्रिकः ।
हस्तामलकयोगीन्द्र ब्रह्मज्ञानप्रदायकः ।। २२
सुरेश्वराख्य सच्छिष्य सन्यासाश्रमदायकः ।
नृसिह्मभक्तस्सद्रत्नगर्भहेरम्बपूजकः ॥ २३

व्याख्यासिह्मासनाधीशो जगत्पूज्यो जगद्गुरुः ।
इति श्रीमच्छङ्कराचार्यसर्वलोकगुरोः परम् ॥ २४
नाम्नामष्टोत्तरशतं भुक्तिमुक्तिफलप्रदम् ।
त्रिसंध्यं यः पठेद्भक्त्या सर्वान्कामानवाप्नुयात् ॥
॥ इति श्रीमच्छङ्कराचार्याष्टोत्तरशतनामस्तोत्रम् ॥

॥ श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ॥

विद्यारण्यमहायोगी महाविद्याप्रकाशकः ।
श्रीविद्यानगरोद्धर्ता विद्यारत्नमहोदधिः ॥ १
रामायणमहासप्त कोटिमन्त्रप्रकाशकः ।
श्रीदेवीकरुणापूर्णः परिपूर्णमनोरथः ॥ २
विरूपाक्षमहाक्षेत्र स्वर्णवृष्टिप्रकल्पकः ।
वेदत्रयोल्लसद्भाष्यकर्ता तत्वार्थकोविदः ॥ ३
भगवत्पादनिर्णीत सिद्धान्तस्थापनप्रभुः ।
वर्णाश्रमव्यवस्थाता निगमागमसारवित् ॥ ४
श्रीमत्कर्णाटराज्यश्री सम्पत्सिंहासनप्रदः ।
श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृत् ॥ ५
आचार्यकृतभाष्यादि ग्रन्थवृत्तिप्रकल्पकः ।
सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृत् ॥ ६
सर्वशास्त्रार्थतत्वज्ञो मन्त्रशास्त्राब्धिमन्दरः ।
विद्वन्मणि शिरश्श्लाध्य बहुग्रन्थ विधायक: ॥ ७

सारस्वतसमुद्धर्ता सारासारविचक्षणः ।
श्रौतस्मार्तसदाचार संस्थापनधुरन्धरः ॥ ८
वेदशास्त्र बहिर्भूत दुर्मताम्भोधिशोषकः ।
दुर्वादिगर्वदावाग्निः प्रतिपक्षेभकेसरी ॥ ९
यशो जैवातृकज्योत्स्ना प्रकाशितदिगन्तरः ।
अष्टाङ्गयोगनिष्णातस्साङ्ख्योगविशारदः ॥ १०
राजाधिराजसन्दोह पूज्यमानपदाम्बुजः ।
महावैभवसम्पन्न औदार्यश्रीनिवासभूः ॥ ११
तिर्यगान्दोळिकामुख्य समस्तबिरुदाञ्चितः ।
महाभोगी महायोगी वैराग्यप्रथमाश्रयः ॥ १२
श्रीमान्परमहंसादिसद्गुरुः करुणानिधिः ।
तपःप्रभावनिर्धूतदुर्वारकलिवैभवः ॥ १३
निरन्तरशिवध्यान शोषिताखिलकल्मषः ।
निर्जितारातिषड्वर्गो दारिद्र्योन्मूलनक्षमः ॥ १४
जितेन्द्रियस्सत्यवादी सत्यसन्धो दृढव्रतः ।
शान्तास्मा सुचरित्राढ्य सर्वभूतहितोत्सुकः ॥ १५

कृतकृत्यो धर्मशीलो दान्तो लोभविवर्जितः ।
महाबुद्धिर्महावीर्यो महातेजा महामनाः ॥ १६
तपोराशिर्ज्ञानराशिः कल्याणगुणवारिधिः ।
नीतिशास्त्रसमुद्धर्ता प्राज्ञमौळिशिरोमणिः ॥ १७
शुद्धसत्वमयो धीरो देशकालविभागवित् ।
अतीन्द्रियज्ञाननिधिर्भूतभाव्यर्थकोविदः ॥ १८
गुणत्रयविभागज्ञस्सन्यासाश्रमदीक्षितः ।
ज्ञानात्मकैकदण्डाढ्यः कौसुम्भवसनोज्जवलः ॥ १९
रुद्राक्षमालिकाधारी भस्मोद्धूळितदेहवान् ।
हस्तमालालसद्धस्त स्त्रिपुण्ड्राङ्कितमस्तकः ॥ २०
धरासुरतपस्सम्पत्फलं शुभमहोदयः ।
चन्द्रमौळीश्वर श्रीमत्पादपद्मार्चनोत्सुक: ॥ २१
श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसः ।
रत्नगर्भगणेशान प्रपूजनपरायणः ॥ २२
शारदाम्बादिव्यपीठ सपर्यातत्पराशयः ।
अव्याजकरुणामूर्तिः प्रज्ञानिर्जितगीष्पतिः ॥ २३

सुज्ञान सत्कृतजगल्लोकानन्दविधायकः ।
पाणीविलासभवनं ब्रह्मानन्दैकलोलुपः ॥ २४
निर्ममो निरहङ्कारो निरालस्यो निराकुलः ।
निश्चिन्तो नित्यसन्तुष्टो नियतात्मा निरामयः ॥ २५
गुरुभूमण्डलाचार्यो गुरुपीठप्रतिष्ठितः ।
सर्वतन्त्रस्वतन्त्रश्च यन्त्रमन्त्रविचक्षणः ॥ २६
शिष्टेष्टफलदाता च दुष्टनिग्रहदीक्षितः ।
प्रतिज्ञातार्थनिर्वोढा निप्रहानुग्रहप्रभुः ॥ २७
जगत्पूज्यस्सदानन्दस्साक्षाच्छङ्कररूपभृत ।
महालक्ष्मी महामन्त्र पुरश्चर्यापरायणः ॥ २८
विद्यारण्यमहायोगि नाम्नामष्टोत्तरं शतम् ।
य:पठेत्सततं सम्पत्सारस्वतनिधिर्भवेत् ॥ २९

॥ इति श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ॥

॥ आम्नायस्तोत्रम् ॥

चतुर्दिक्षु प्रसिद्धासु प्रसिद्ध्यर्थं स्वनामतः ।
चतुरोथ मठान् कृत्वा शिष्यान्संस्थापयद्विभुः ॥ १
चकार संज्ञामाचार्यश्चतुरां नामभेदतः ।
क्षेत्रं च देवतां चैव शक्तिं तीर्थं पृथक्पृथक् ॥ २
सम्प्रदायं तथाम्नायभेदं च ब्रह्मचारिणाम् ।
एवं प्रकल्पयामास लोकोपकरणाय वै ॥ ३
दिग्भागे पश्चिमे क्षेत्रं द्वारकाशारदामठः ।
कीटवाळस्सम्प्रदाय स्तीर्थाश्रमपदे उभे ॥ ४
देवस्सिद्धेश्वरश्शक्ति र्भद्रकाळीति विश्रुता ।
स्वरूपब्रह्मचार्याख्य आचार्यः पद्मपादकः ॥ ५
विख्यातं गोमतीतीर्थं सामवेदश्च तद्गतम् ।
जीवात्मपरमात्मैक्यबोधो यत्र भविष्यति ॥ ६
विख्यातं तन्महावाक्यं वाक्यं तत्त्वमसीतिच ।
द्वितीयः पूर्वदिग्भागे गोवर्धनमठः स्मृतः ॥ ७

आम्नायस्तोत्रम् ४८७

भोगवालस्सम्प्रदाय स्सत्रारण्यवने पदे । तस्मिन् देवो जगन्नाथः पुरुषोत्तमसंज्ञितः ॥ ८ क्षेत्रं च वृषला देवी सर्वलोकेषु विश्रुता । प्रकाश ब्रह्मचारीति हस्तामलकसंज्ञितः ॥ ९ आचार्यः कथितस्तत्र नाम्ना लोकेषु विश्रुतः । खातं महोदधिस्तीर्थं ऋग्वेदस्समुदाहृतः ॥ १० महावाक्यं च तत्रोक्तं प्रज्ञानं ब्रह्मचोच्यते । उत्तरस्यां श्रीमठस्स्यात् क्षेत्रं बदरिकाश्रमम् ॥ ११ देवो नारायणो नामशक्तिः पूर्णगिरीतिच । सम्प्रदायोनन्दवाळस्तीर्थं चाळकनन्दिका ॥ १२ आनन्दब्रह्मचारीति गिरिपर्वतसागराः । नामानि तोटकाचार्यो वेदोधर्वणसंज्ञिकः ॥ १३ महावाक्यं च तत्रायमात्मा ब्रह्मेति कीर्त्यते । तुरीयो दक्षिणस्यां च शृङ्गेर्यां शारदामठः ॥ १४ मलहानिकरं लिङ्गं विभाण्डकसुपूजितम् ।

यत्रास्ते ऋष्यशृङ्गस्य महर्षेराश्रमो महान् ॥ १५

४८८ बृहत्स्तोत्ररत्नाकरे -प्रथमभाग:

वराहो देवता तत्र रामक्षेत्रमुदाहृतम् ।
तीर्थं च तुङ्गभद्राख्यं शक्तिः श्रीशारदेति च ॥ १६
आचार्यस्तत्र चैतन्य ब्रह्मचारीति विश्रुतः ।
वार्तिकादि ब्रह्मविद्या कर्ता यो मुनिपूजितः ॥ १७
सुरेश्वराचार्य इति साक्षाद्ब्रह्मावतारकः ।
सरस्वती पुरी चेति भारत्यारण्यतीर्थकौ ॥ १८
गिर्याश्रममुखानि स्युस्सर्वनामानि सर्वदा ।
सम्प्रदायो भूरिवाळो यजुर्वेद उदाहृतः ॥ १९
अहं ब्रह्मास्मीति तत्र महावाक्यमुदीरितम् ।
चतुर्णां देवताशक्ति क्षेत्रनामान्यनुक्रमात् ॥ २०
महावाक्यानि वेदांश्च सर्वमुक्तं व्यवस्थया ।
इति श्रीमत्परमहंसपरिव्राजकभूपतेः ॥ २१
आम्नायस्तोत्रपठनादिहामुत्र च सद्गतिम् ।
प्राप्यान्ते मोक्षमाप्नोति देहान्ते नात्र संशयः ॥ २२

इत्याम्नायस्तोत्रम् ॥

॥ श्रीमच्छङ्करभगवच्चरणस्तुत्यष्टकम् ॥

श्रुतीनामाक्रीड: प्रथितपरहंसोचितगतिर्निजे सत्ये धाम्नि त्रिजगदतिवर्तिन्यभिरतः । असौ ब्रह्मे- वास्मिन्नखलु विशये किंतु कलये बृहेरर्थं साक्षा- दनुपचरितं केवलतया ॥ १ मितं पादेनैव त्रिभुवनमिहैकेन महसा विशुद्धं तत्सत्वं स्थितिजनिलयेष्वप्यनुगतम् । दशाकारातीतं स्वमहिमनि निर्वेदरमणं ततस्तं तद्विष्णोः परमपद- माख्याति निगमः ॥ २ न भूतेष्वासङ्ग: क्वचन नगवाचा विहरणं न भूत्या संसर्गो न परिचितता भोगिभिरपि । तदप्या- म्नायान्तस्त्रिपुरदहनात्केवलदशा तुरीयं निर्द्वन्द्वं शिवमतितरां वर्णयति तम् ॥ ३ न धर्मस्सौवर्णो न पुरुषफलेषु प्रवणता न चैवा- होरात्र स्फुरदरियुत: पार्थिवरथः । असाहायेनैवं ४९० बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सति विततपुर्यष्टकजये कथं तन्न ब्रूयान्निगमनिकुरम्ब: परशिवम् ॥ ४ दुःखासार दुरन्त दुष्कृतघनां दुस्संमृतिप्रावृषं दुर्वारामिह दारुणां परिहरन्दूरादुदाराशयः । उच्चण्डप्रतिपक्षपण्डितयशो नाळीकनाळाङ्कुरपग्रासो - हंसकुलावतंसपदभाक्सन्मानसे क्रीडति ॥ ५ क्षीरं ब्रह्म जगच्च नीरमुभयं तद्योगमभ्यागतं दुर्भेदं त्वितरेतरं चिरतरं सम्यग्विभक्तीकृतम् । येना- शेषविशेषदोहलहरी मासेदुषीं शेमुषीं सोयं शीलवतां पुनाति परमो हंसो द्विजात्यप्रणीः ॥ ६ नीरक्षीरनयेन तथ्यवितथे संपिण्डिते पण्डितै- र्दुर्बोधेसकलैर्विवेचयति यः श्रीशङ्कराख्यो मुनिः । हंसोयं परमोस्तु ये पुनरिहाशक्तास्समस्तास्थिता जुम्भान्निम्बफलाशनैकरसिकान् काकानमून्मन्महे ॥ दृष्टिं ये प्रगुणीकरोति तमसा बाह्येन मन्दी- कृतां नाळीकप्रियतां प्रयाति भजते मित्रत्वमव्याहश्रीमच्छङ्करभगवच्चरणस्तुत्यष्टकम् ४९१

तम् । विश्वस्योपकृते विलुम्पति सुहृच्चक्रस्य चार्तिं धनां हंसस्सोयमभिव्यनक्ति महतां जिज्ञास्यमर्थं मुहुः ॥ ८ इति श्रीविद्यारण्यमुनिरचितं श्रीमच्छङ्करभगवच्चरण- स्तुत्यष्टकम् ॥ . ॥ शिवमातृकावर्णमालास्तोत्रम् ॥

श्रीसूत उवाच:- अथातस्सम्प्रवक्ष्यामि शिवस्थानं समासतः । यत्र सञ्चिन्त्य देवेशं कैवल्यं लभते नरः ॥ १ पुरा नारायण: श्रीमान् किरीटी गरुडध्वजः । श्रीमत्कैलासपर्यन्ते तताप परमं तपः ॥ २ भस्मोद्धूळितसर्वाङ्ग स्त्रिपुण्ड्राङ्कितमस्तकः । रुद्राक्षमालाभरणो जटावल्कलमण्डित: ॥ ३ तपसा तप्तदेहस्य केशवस्य महात्मनः । प्रादुरासीन्महादेवश्शङ्करः करुणाकरः ॥ ४ तं दृष्ट्वा पुण्डरीकाक्षो महादेवं घृणानिधिम् । अम्बिकासहितं रुद्रं चन्द्रमौळिं सनातनम् ॥ ५ प्रणम्य दण्डवद्भूमौ भक्त्या परमया सह । स्तोतुमारभते विष्णु स्सर्वभूतहितावहम् ॥ ६ अकाराय नमस्साक्षादनन्तानन्तमूर्तये ॥ शिवमातृकावर्णमालास्तोत्रम् ४९३

आत्मभूताय सर्वेषां मतिशुद्धाय शूलिने ॥ ७ आकारायातिशुद्धाय साक्षिणे सर्ववस्तुनः । अम्बिकापतये तुभ्यमसङ्गाय नमोनमः ॥ ८ इकारायेश्वराख्याय सर्वसिद्धिकराय च । इन्द्रादिलोकपालाना मियत्ताकारिणे नमः ॥ ९ ईकाराय वरिष्ठाय वान्छितार्थप्रदाय च । वञ्चकानामलभ्याय वसुदाय नमोनमः ॥ १० उकारायोग्रजन्तूनामुग्ररूपाय शूलिने । उत्तमानां तु जन्तूनामुपास्याय नमोनमः ॥ ११ ऊकारायोपवीताय ह्यूर्जितायोत्तमात्मने । उत्तम ज्ञानगम्याय नमस्ते परमात्मने ॥ १२ ऋकारायादिभूतायः रामपूर्वार्चितायच । ऋचामर्थस्वरूपाय नमस्सत्यपरात्मने ॥ १३ ॠकाराय निसर्गाय नित्यतृप्ताय शम्भवे । रसादिभूतरूपाय नमश्शुद्धचिदात्मने ॥ १४ लृकाराय लसद्दण्डमण्डिताभरणाय च । ४९४ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

लिङ्गलिङ्ग्यादिहीनाय लिङ्गरूपाय ते नमः ॥ १५ लृकाराय लयस्थाय ध्वंसकायादिहेतवे । लक्षारुणशरीराय लाभस्थानाय वै नमः ॥ १६ एकाराय नमश्शश्व दिदन्तासाक्षिणे तथा । अहन्तासाक्षिणे साक्षात्प्रत्यगद्वयवस्तुने ॥ १७ ऐकारायामलज्ञानप्रभावापरिशीलिनाम् । आत्मरूपतया नित्यं प्रतीताय नमो नमः ॥ १८ ओङ्काराय विरिञ्चाय विष्णवे रुद्रमूर्तये । वाच्यवाचकहीनाय स्वयं भासाय ते नमः ॥ १९ औकाराय महेशाय महामन्त्रार्थरूपिणे । महादेवाय मात्रादि प्रपञ्चाय नमोनमः ॥ २० बिन्दुरूपाय बीजाय बीजाधिष्ठानरूपिणे । बीजनाशकरज्ञान स्वरूपाय नमोनमः ॥ २१ विसर्जनीय रूपाय विस्मयाय महात्मने । विसर्जनीयनिष्ठानां विशेषार्थाय वै नमः ॥ २२ ककाराय कपूर्वादि देवतापूजितायच । शिवमातृकावर्णमालास्तोत्रम् ४९५

कारणग्रामसंहर्त्त्रे कालातीताय वै नमः ॥ २३ खकाराय खपूर्वादि भूतपञ्चकहेतवे । खमूर्ताय खलप्रज्ञा गोचराय नमोनमः ॥ २४ गकाराय गणेशाय गणबृन्दार्चितायच । गङ्गाधराय गुह्याय गुणातीताय ते नमः ॥ २५ घकाराय घनाकार घातकाय घनात्मने । घटादि जगदाकार रहिताय नमोनमः ॥ २६ ङ्काराय ङ्मन्त्रार्थ स्वरूपाय शिवात्मने । ङा ङी ङू संज्ञितार्थाना मगम्याय नमोनमः ॥ २७ चकारायच मन्त्रार्थ स्वरूपायामितात्मने । चमन्त्रार्थनिषण्णानाममृताय नमोनमः ॥ २८ छकाराय छलालस्य छादनादिविशेषतः । छादनच्छन्दनच्छन्न विभागाय नमोनमः ॥ २९ जकाराय जगच्छक्ति स्वरूपाय जयार्थिनाम् । जयप्रदाय देवाय जम्भमोहाय ते नमः ॥ ३० झकाराय झमन्त्रार्थ स्वरूपायामृतात्मने । ४९६ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

झमध्य चन्द्रबिम्बाय नमस्साम्बाय शम्भवे ॥ ३१ ञकाराय ञमन्त्रार्थ स्वरूपाय ञमूर्तये । ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय नमोनमः ॥ ३२ टकाराय ट टा टी टू पूर्वोक्तैस्तु महारवैः । अर्चिताय सुरश्रेष्ठै रसुरैश्चः नमोनमः ॥ ३३ ठकाराय ठमन्त्रार्थ स्वरूपाय खमन्त्रतः । ठठादिगणपूज्याय ठमध्याय नमोनमः ॥ ३४ डकाराय ड डा डी डू डे डो डैश्च महारवैः । डामरै रभिपूज्याय नमोनृत्तप्रियायच ॥ ३५ ढकाराय ढमन्त्रार्थ परिज्ञानवतां नृणाम् । ढसंज्ञित महानन्दप्रदाय सततं नमः ॥ ३६ णकाराय ण णा णी णू णे णै णो णौ रवैस्सदा । णाकिनी गणपूज्याय णसंज्ञाय नमोनमः ॥ ३७ तकाराय तशब्दार्थ स्वरूपाय ततायच । तत्त्वमित्यभिपूज्याय तत्वभूतायवै नमः ॥ ३८ थकाराय थमन्त्रार्थ स्वरूपायाध संज्ञितैः । शिवमातृकावर्णमालास्तोत्रम् ४९७

महागणैश्च पूज्याय थमध्याय नमोनमः ॥ ३९ दकाराय दयारूप महाशक्तिमयाय च । देशजाति विहीनाय दिवारात्रायवै नमः ॥ ४० धकाराय धरण्यादि महाभूतस्वरूपिणे । धराधरहृदिस्थाय धमध्याय नमोनमः ॥ ४१ नकाराय नगेन्द्राय नामजात्यादिहेतवे । नमशिशवाय नम्याय नानारूपाय शूलिने ॥ ४२ पकाराय परानन्दस्वरूपाय परात्मने । परापरविहीनाय पावनाय नमोनमः ॥ ४३ फकाराय फलाख्याय फलाख्यगणाय नमः । फडाख्यगणपूज्याय नमः पूर्णस्वरूपिणे ॥ ४४ बकाराय बकाराख्य महाबीजैकजापिनाम् । बन्धनाकारनाशैकहेतवे वेधसे नमः ॥ ४५ भकाराय भवाब्धेस्तु तारकाय भवायते । भवशब्दैकवेद्याय भवानीपतये नमः ॥ ४६ मकाराय महामाया पाशनाशैकहेतवे । ४९८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

ममकारविहीनानां महानन्दाय वै नमः ॥ ४७ यकाराय यथार्थाय यथार्थज्ञानिनां नृणाम् । यथार्थ प्रत्यगद्वैतब्रह्मणे सततं नमः ॥ ४८ रकाराय रतिप्रीति प्रियाय रतिहेतवे । रशब्दवपुषे रोगभवनाशायवै नमः । ४९ लकाराय लतासोम स्वरूपाय लतात्मने । लाभालाभविहीनाय लब्धिरूपायवे नमः ॥ ५० वकाराय वरिष्ठाय वासुदेवादिहेतवे । वाञ्छावागुरुविच्छित्तिहेतुभूताय वै नमः ॥ ५१ शकाराय शरण्याय शम्भवे शरणार्थिनाम् । शरण्याय शरच्चन्द्रधवळाय नमोनमः ॥ ५२ षकाराय षडाधार षट्चक्रादिस्वरूपिणे । षडक्षर निषण्णाय नमष्षण्मुखहेतवे ॥ ५३ सकाराय सशब्दार्थ खरूपाय सदात्मने । साक्षिणे साक्ष्यरूपाणां नमस्साधूपकारिणे ॥ ५४ हकारायाहमर्थाय सदाहङ्काररूपिणे । शिवमातृकावर्णमालास्तोत्रम् ४९९

हाहाहूहू प्रगीताय हंसरूपाय ते नमः ॥ ५५ ळकाराय ळकाराख्य महामन्त्रप्रियायच । डोलाचञ्चलसंसार नाशनाय नमो नमः ॥ ५६ क्षकाराय क्षमन्त्रार्थस्वरूपाय क्षमावताम् । क्षेमदाय मम क्षेम स्वरूपाय नमो नमः ॥ ५७ मातृकावपुषे मातृमानमेयादिसाक्षिणे मातृकामन्त्रलभ्याय महसेच नमो नमः ॥ ५८ मातृकाधारभूताय मातृकामूलरूपिणे । महामन्त्रैकवाच्याय महसे ब्रह्मणे नमः ॥ ५९ द्विधाभूत महामन्त्र स्वरव्यञ्जनव्यङ्ग्यतः । वाच्यायापदरूपाय पदाय महसे नमः ॥ ६० अष्टधाचाष्टवर्गैस्तु विभक्तायामलात्मने । अशेषशब्दभूताय तत्तदर्थाय वै नमः ॥ ६१ शब्दान्वयविहीनाय शब्दलक्ष्याय साक्षिणे । सर्वोपाधिविहीनाय स्वयम्भानाय वै नमः ॥ ६२ प्रत्यक्षादिप्रमाणानामगम्याय परोक्षतः । ५०० बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

प्रतीताय स्वयं सर्वसाक्षिणे महसे नमः ॥ ६३ स्वस्वरूपादहीनाय वस्तुतो वस्तुतोपि च । अर्थाय महते साक्षात्स्वयम्भानाय वै नमः ॥ ६४ प्रसादलभ्याय शिवाय सत्यचिन्महासुखाय पर- वर्जिताय । अतीव शुद्धस्य हृदम्बुजालये विभास- मानाय नमो नमस्ते ॥ ६५ श्रीसूत उवाच:- एवं नारायणेनैव शङ्करोभिष्टुतः पुनः । प्राह गम्भीरया वाचा किमर्थं तप्तवांस्तपः ॥ ६६ इत्याकर्ण्य महाविष्णु: प्रणम्य परमेश्वरम । तव स्थानानि मे देव ब्रूहि साक्षात्कृपाकर ॥ ६७ इत्युक्तो विष्णुना शम्भुस्सर्वज्ञः करुणाकरः । प्राह सर्वामरेशानस्स्थानानि स्वस्य विष्णवे ॥ ६८ य: पठेत्प्रातरुत्थाय स्तोत्रमेतन्मनोहरम् । इहामुत्र फलं तस्य करस्थं नात्र संशयः ॥ ६९

इति श्रीस्कान्दे महापुराणे विष्णुकृतशिवमातृका- वर्णमालास्तोत्रम् ॥ ॥ श्रीशिवनवरत्नस्तवः ॥

बृहस्पतिः- नमोहाराय देवाय महामायातिशूलिने । तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥ १ नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये । नमो देवाधिदेवाय नमो वेदान्तदायिने ॥ २ नमः पराय रुद्राय सुपाराय नमोनमः । विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ ३ नमो भक्तभवच्छेदकारणायामलात्मने । कालकालाय कालाय कालातीताय ते नमः ॥ ४ जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः । नमःपाषण्डभङ्गाय नमः पापहराय ते ॥ ५ नमः पर्वतराजेन्द्र कन्यकापतये नमः । योगानन्दाय योगाय योगिनां पतये नमः ॥ ६ प्राणायामपराणांतु प्राणरक्षाय ते नमः । मूलाधारे प्रविष्टाय मूलदीपात्मने नमः ॥ ७ ५०२ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने । सच्चिदानन्दपूर्णाय नमस्साक्षात्परात्मने ॥ ८ नमश्शिवायाद्भुतविक्रमाय ते नमश्शिवायाद्भुत- विग्रहाय ते । नमश्शिवायाखिलनायकाय ते नम- श्शिवायामृत हेतवे नमः ॥ ९ सूतः - य इदं पठते नित्यं स्तोत्रं भक्त्या सुसंयतः । तस्य मुक्ति करस्था स्याच्छङ्करप्रियकारणात् ॥ १० विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् । वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ११ तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः । पठन्तु भवनाशार्थमिदं वो भवनाशनम् ॥ १२

इति श्रीस्कान्दे महापुराणे सूतसंहितायां बृहस्पतिकृतः ॥ शिवनवरत्नस्तवः ॥ ॥ श्रीशिवप्रतिपादनस्तोत्रम् ॥

नमसे सर्वलोकानां सृष्टिस्थित्यन्त कारण । नमस्ते भवभीतानां भवभीति विमर्दन ॥ १ नमस्ते वेदवेदान्तै रचनीय द्विजोत्तमैः । नमस्ते शूलहस्ताय नमस्ते वह्निपाणये ॥ २ नमस्ते विश्वनाथाय नमस्ते विश्वयोनये । नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे ॥ ३ नमस्ते सोमरूपाय नमस्ते सूर्यमूर्तये । नमस्ते वह्निरूपाय नमस्ते तोयमूर्तये ॥ ४ नमस्ते भूमिरूपाय नमते वायुमूर्तये । नमस्ते व्योमरूपाय नमस्ते ह्यात्मरूपिणे ॥ ५ नमस्ते सत्यरूपाय नमस्ते सत्यरूपिणे । नमस्ते सुखरूपाय नमस्ते सुखिरूपिणे ॥ ६ नमस्ते पूर्णरूपाय नमस्ते पूर्णरूपिणे । नमस्ते ब्रह्मरूपाय नमस्ते ब्रह्मरूपिणे ॥ ७ ५०४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

नमस्ते जीवरूपाय नमस्ते जीवरूपिणे । नमस्ते व्यक्तरूपाय नमस्ते व्यक्तरूपिणे ॥ ८ नमस्ते शब्दरूपाय नमस्ते शब्दरूपिणे । नमस्ते स्पर्शरूपाय नमस्ते स्पर्शरूपिणे ॥ ९ नमस्ते रूपरूपाय नमस्ते रूपरूपिणे । नमस्ते रसरूपाय नमस्ते रसरूपिणे ॥ १० नमस्ते गन्धरूपाय नमस्ते गन्धरूपिणे । नमस्ते देहरूपाय नमस्ते देहरूपिणे ॥ ११ नमस्ते प्राणरूपाय नमस्ते प्राणरूपिणे । नमस्ते श्रोत्ररूपाय नमस्ते श्रोत्ररूपिणे ॥ १२ नमस्ते त्वक्स्वरूपाय नमस्ते त्वक्स्वरूपिणे । नमस्ते दृष्टिरूपाय नमस्ते दृष्टिरूपिणे ॥ १३ नमस्ते रसरूपाय नमस्ते रसरूपिणे । नमस्ते घ्राणरूपाय नमस्ते घ्राणरूपिणे ॥ १४ नमस्ते पादरूपाय नमस्ते पादरूपिणे । नमस्ते पाणिरूपाय नमस्ते पाणिरूपिणे ॥ १५ श्रीशिवप्रतिपादनस्तोत्रम् ५०५

नमस्ते वाक्स्वरूपाय नमस्ते वाक्स्वरूपिणे । नमस्ते लिङ्गरूपाय नमस्ते लिङ्गरूपिणे ॥ १६ नमस्ते वायुरूपाय नमस्ते वायुरूपिणे । नमस्ते चित्तरूपाय नमस्ते चित्तरूपिणे ॥ १७ नमस्ते मातृरूपाय नमस्ते मातृरूपिणे । नमस्ते मानरूपाय नमस्ते मानरूपिणे ॥ १८ नमस्ते मेयरूपाय नमस्ते मेयरूपिणे । नमस्ते मितिरूपाय नमते मितिरूपिणे ॥ १९ रक्षरक्षमहादेव क्षमस्व करुणालय । भक्तचित्तसमासीन ब्रह्म विष्णु शिवात्मक ॥ २० सूतब्रह्मादयः स्तुत्वा प्रणम्य भुवि दुण्डवत् । भक्तिपारङ्गता देवा बभूवुः परमेश्वरे ॥ २१

इति श्रीस्कान्देमहापुराणे नन्दीश्वरविष्णुसंवादे श्रीशिवप्रतिपादनस्तोत्रम् ॥ ॥ श्रीजगद्गुरुस्तुति जगद्गुरु वृत्ताष्टकम् ॥

यश्शिष्यहृत्ताप दवाग्निभयनिवारणे महामेघः यश्शिष्य रोगार्ति महाहिविषविनाशने सुपर्णात्मा । यश्शिष्य सन्दोह विपक्षगिरि विभेदने पविस्सोर्च्य: श्रीसच्चिदानन्द शिवाभिनव नृसिंहभारती स्वामी ॥ यं शङ्करार्यापररूप इति तपोनिधिं भजंत्यार्याः यं भारतीपुन्तनुरूप इति कलानिधिं स्तुवन्त्यन्ये । यं सद्गुणाढ्यं निजदैवमिति नमन्ति संश्रिता स्सो- कर्यः श्रीसश्चिदानन्द ॥ २ येनाश्रितं सज्जनतुष्टिकर मभीप्सितं चतुर्भद्रम् येनाद्दतं शिष्यसुधीसुजन शिवङ्करं किरीटाद्यम् । येनोद्धृता संयमिलोकनुत महानुभावता सोर्च्यः श्रीसच्चिदानन्द ॥ ३ यस्मैनृपाद्याबिरुदं ददति विभूषणादिकं भक्त्या यस्मैप्रयच्छन्ति मुदा भजक जना नृपोपचारादीन् । श्रीजगद्गुरुस्तुति जगद्गुरु वृत्ताष्टकम् ५०७

यस्मैप्रदत्ता गुरुणा स्वकृततपोविभूतयस्सोर्च्यः श्रीसच्चिदानन्द ... ॥ ४ यस्मदभीष्टार्थचयाप्तिरिह भवत्यमोघमार्तानां यस्मात्कटाक्षास्सदया: कुशलकरास्सरन्ति भक्तेषु । यस्मात्सदानन्ददसूक्तयमृतधुनी प्रजायते सोर्च्यः श्रीसच्चिदानन्द ... ॥ ५ यस्याङ्गके भातिमहत्त्वगुणविबोधकं महातेज: यस्योक्तिपूरे ऋतपूतहित सदम्बुभक्तपानीयम् । यस्यान्तरङ्गे हि शिवोहमिति विभावनैकता सोर्च्यः श्रीसच्चिदानन्द ... ॥ ६ यस्मिन् स्थिताशृङ्गगिरीड्ययति परम्परात्तदिव्यश्री: यस्मिन् चकास्त्युद्धृतवादि जयकरी यश:करी विद्या । यस्मिन् सुविज्ञानविरक्ति शमदमादिसम्पदस्सोर्च्यः श्रीसच्चिदानन्द ... ॥ ७ ५०८ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

योर्च्यो भजेयं शरणं भवुकयुतोस्मि येनयस्मैगी: दत्ताच यस्मात्सुखमीप्सित मुचितं हि यस्य दासोहम् । यस्मिन् मनस्सन्ततभक्तियुत मभूत्सएव पाहि त्वं श्रीसच्चिदानन्द शिवाभिनव नृसिह्मभरतीस्वामी ॥ ॥ इति श्रीजगद्गुरु स्तुतिः ॥ ॥ विज्ञाननौकाष्टकम् ॥

तपोयज्ञदानादिभिश्शुद्धबुद्धिर्विरक्तोग्रजातिः परे तुच्छबुद्ध्या । परित्यज्य सर्वं यदाप्नोति तत्वं परं- ब्रह्मनित्यं तदेवाहमस्मि ॥ १

 दयाळुं गुरुं ब्रह्मनिष्ठं प्रशान्तं समाराध्य भक्त्त्या

विचार्य स्वरूपम् । यदाप्नोति तत्त्वं निधिध्यस्य विद्वान् परं ब्रह्म नित्यं तदेवाहमस्मि ॥ २

 यदानन्दरूपप्रकाशस्वरूपं निरस्तप्रपञ्चं परिच्छेद .

शून्यम् । अहं ब्रह्मवृत्त्यैकगम्यं तुरीयं परं ब्रह्मनित्यं तदेवाहमस्मि ॥ ३

 यदज्ञानतो भाति विश्वं समस्तं प्रणष्टं च सद्यो-

यदात्मप्रबोधे । मनोवागतीतं विशुद्धं विमुक्तं परं. ब्रह्म नित्यं तदेवाहमस्मि ॥ ४

 अनन्तं विभुं निर्विकल्पं निरीहं शिवं सङ्गहीनं

यदोङ्कारगम्यम् । निराकारमत्युज्ज्वलं मृत्युहीनं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ५ ५१० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

 निषेधे कृते नेति नेतीति वाक्यै स्समाधिस्थिता-

नां यदा भाति पूर्णम् । अवस्थात्रयातीतमद्वैतमेकं परं- ब्रह्म नित्यं तदेवाहमस्मि ॥ ६

 यदानन्दलेशैस्सदानन्दिविश्वं यदा भाति चान्य-

त्तथा भाति सर्वम् । यदालोचने हेयमन्यत्समस्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ७

 यदानन्दसिन्धौ निमग्नः पुमान्स्यादविद्याविला-

सस्समस्तप्रपञ्चः । तदा न स्फुरत्यद्भुतं यन्निमित्तं परं ब्रह्म नित्यं तदेवाहमस्मि ॥ ८ ॥ फलश्रुतिः ॥

स्वरूपानुसन्धानरूपस्तुतिं य: पठेदादराद्भक्ति-

भावो मनुष्यः । शृणोतीह वा नित्यमुद्युक्तचित्तो- भवेद्विष्णुरत्रैव वेदप्रमाणात् ॥ ९

 विज्ञाननौकां परिगृह्य कश्चित्तरेद्यवज्ञानमयं भवा-

ब्धिम् । ज्ञानाम्भसा यः परिहृत्य तृष्णां विष्णोः पदं याति स एव धन्यः ॥ १०

इति श्रीमत्परमहंसपरिव्राजक श्रीमच्छङ्कर भगवत्पादाचार्य विरचितं विज्ञाननौकाष्टकम् ॥ ॥ अद्वैतलक्षणम् ॥

अज्ञानमेतद्द्वैताख्यमद्वैतं श्रेयताम्परम् । मम त्वहमिति प्रज्ञावियुक्तमिति कल्पवत् ॥ १ अविकार्यमनाख्येदमद्वैतमनुभूयते । मनोवृत्तिमयं द्वैतमद्वैतं परमार्थतः ॥ २ मनसो वृत्तय स्तस्माद्धर्माधर्मनिमित्तजाः । निरोद्धव्यास्तन्निरोधेनाद्वैतं नोपपद्यते ॥ ३ मनोदृष्टमिदं सर्व यत्किञ्चित्सचराचरम् । मनसो ह्यमनीभावेऽद्वैतभावं तदाप्नुयात् ॥ ४ बहिः प्रज्ञा सदोत्सृज्याप्यन्तः प्रज्ञां च यो बुधः । कयापि प्रज्ञयोपेतः प्रज्ञावानिति कथ्यते ॥ ५ कर्मणो भावना चेयं सा ब्रह्मपरिपन्थिनी । कर्मभावनया तुल्यं विज्ञानमुपजायते ॥ ६ नारायण - नारायण - नारायण ॥ ऑं तत्सत् ॥ ॥ साधनपश्चकम् ॥

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मनस्त्यज्यताम् । पापौघः परिभूयतां भवसुखे दोषोनुसन्धीयता- मात्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥ सङ्गस्सत्सु विधीयतां भगवतो भक्तिर्दृढा धीयतां शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् । सद्विद्वानुपसर्प्यतां प्रतिदिनं तत्पादुके सेव्यतां ब्रह्मै- वाक्षरमर्थ्यतां श्रुतिशिरो वाक्यं समाकर्ण्यताम् ॥ २ वाक्यार्थश्च विचार्यतां श्रुतिशिरःपक्षस्समाश्रीयतां दुस्तर्कात्सुविरम्यतां श्रुतिमतस्तर्कोनुसन्धीयताम् । ब्रह्मैवास्मि विभाव्यतामहरहो गर्वः परित्यज्यतां देहोहम्मतिरुज्झ्यतां बुधजनैर्वादः परित्यज्यताम् ॥ ३ क्षुब्द्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्य- तां स्वाद्वन्नं न च याच्यतां विधिवशात्प्राप्तेन सन्तुष्यसाधनपश्चकम् ५१३

ताम् । शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यतामौदासन्यिमभीप्स्यतां जनकृपानेष्ठुर्यमुत्सृ- ज्यताम् ॥ ४ एकान्ते सुखमास्यतां परतरे चेतस्समाधीयतां पूर्णात्मानुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् । प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरे श्लिष्यतां प्रारब्धं त्विह भुज्यतामथ परं ब्रह्मात्मना स्थीयताम् ॥ ॥ फलश्रुतिः॥ यः श्लोकपञ्चकमिदं पठते मनुष्यः सञ्चिन्तय त्यनुदिनं स्थिरतामुपेत्य । तस्याशु संसृतिदवानलती- व्रघोरताप: प्रशान्तिमुपयाति चितिप्रभावात् ॥ ६ इति श्रीमत्परमहंसपरिव्राजक श्रीमच्छङ्कर- भगवत्पादाचार्यविरचितं साधनपञ्चकम् ॥ ।। शुकाष्टकम् ॥

भेदाभेदौ सपदि गळितौ पुण्यपापे विशीर्णे मायामोहौ क्षयमधिगतौ नष्टसन्देहवृत्ती । शब्दातीतं त्रिगुणरहितं प्राप्य तत्वावबोधं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यस्स्वात्मानं सकलवपुषा मेकमन्तर्बहिस्स्थं दृष्ट्वा पूर्णं खमिव सततं सर्वभाण्डस्थमेकं । नान्यत्कार्यं किमपि च तथा कारणाद्भिन्नरूपं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यद्वन्नद्योऽम्बुधि मधिगता स्सागरत्वं प्रपन्ना: तद्द्व्ज्जीवा स्समरसगताः चित्स्वरूपं प्रपन्नाः । वाचातीते समरसघने सच्चिदानन्दरूपे निस्त्रैगुण्ये पथि विचरतों को विधिः को निषेधः ॥ हेम्नः कार्यं हुतवहगतं हेमतामेति तद्वत् क्षीरं क्षीरे समरसगतं तोयमेवाम्बुमध्ये । शुकाष्टकम् ५१५

एवं सर्वं समरसगतं त्वंपदं तत्पदार्थे निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ कश्चात्राहं किमपि च भवान् कोऽयमत्र प्रपञ्च: स्वान्तर्वेद्ये गगनसदृशे पूर्णतत्वप्रकाशे । आनन्दाख्ये समरसघने बाह्य अन्तर्विलीने निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ दृष्ट्वा सर्वं परमममृतं स्वप्रकाशस्वरूपं बुध्वात्मानं विमल मचलं सच्चिदानन्दरूपं । ब्रह्माधारं सकलजगतां साक्षिणं निर्विशेषं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ कार्याकार्यं किमपि चरतो नैव कर्तृत्वमस्ति जीवन्मुक्तिस्स्थितिरिह गता दुग्धवस्त्रावभासा । एवं देहे प्रचलिततया दृश्यमान स्स मुक्तो निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ यस्मिन् विश्वं सकलभुवनं सैन्धवं सिन्धुमध्ये पृथ्व्यम्ब्वग्निश्वसनगगनं जीवभावक्रमेण । ५१६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

यद्यल्लीनं तदिदमखिलं सच्चिदानन्दरूपं निस्त्रैगुण्ये पथि विचरतां को विधिः को निषेधः ॥ सत्यं सत्यं परम ममृतं शान्ति कल्याणहेतुं मायारण्ये दहन ममलं शान्तिनिर्वाणदीपं । तेजोराशिं निगमसदनं व्यासपुत्राष्टकं य: प्रातःकाले पठति सहसा याति निर्वाणमार्गम् ॥ ९

॥ इति शुकाष्टकम् ॥ ॥ एकश्लोकी ॥

किं ज्योतिस्तव ?, भानुमानहनि मे रात्रौ प्रदीपादिकं स्यादेवं रविदीपदर्शनविधौ किंज्योति? राख्याहि मे । चक्षुस्तस्य निमीलनादिसमये किं ?, धीर्धियो दर्शने किं?, तत्राह; मतोभवात्परमकं ज्योति; स्तदस्मि प्रभो !

॥ इति श्रीशङ्करभगवत्पादविरचिता एकश्लोकी ॥ ॥ प्रातस्मरणत्रयम् ॥

प्रातस्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् । यत्स्वप्नजागरसुषुप्तिमवैति नित्यं तद्ब्रह्म निष्कळमहं न च भूतसङ्घः ॥ १ प्रातर्भजामि मनसो वचसा मगम्यं वाचो विभान्ति निखिला यदनुग्रहेण । यं नेति नेति वचनैर्निगमा अवोचुः तं देवदेव मज मच्युत माहु रग्र्याः ॥ प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सना- तनपदं पुरुषोत्तमाख्यं । यस्मिन्निदं जगदशेष- मखण्डमूर्तौ रक्षाभुजङ्गम इव प्रतिभाति तं वै ॥ श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् । प्रात:काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥

॥ इति श्रीशङ्करभगवत्पादविरचितं प्रातस्मरणत्रयम् ॥ ॥ यतिपञ्चकम् ॥

वेदान्तवाक्येषु सदा रमन्तः भिक्षान्नमात्रेणच तुष्टिमन्तः । विशोकमन्त:करणे रमन्त: कौपीन- वन्तः खलु भाग्यवन्तः ॥ १ मूलं तरोः केवल माश्रयन्तः पाणिद्वयं भोक्तुम- मन्त्रयन्तः । श्रियं च कन्था मिव कुत्सयन्तः कौपीन- वन्तः खलु भाग्यवन्तः ॥ २ देहादिभावं परिमार्जयन्तः आत्मानमात्मन्यव- लोकयन्तः । नान्तं न मध्यं न बहि स्स्मरन्तः कौपीन- वन्तः खलु भाग्यवन्तः ॥ ३ स्वानन्दभावे परितुष्टिमन्तः संशान्तसर्वेन्द्रिय- दृष्टिमन्तः । अहर्निशं ब्रह्मणि ये रमन्तः कौपीन- वन्तः खलु भाग्यवन्तः ॥ ४ पञ्चाक्षरं पावन मुच्चरन्तः पतिं पशूनां हृदिभाव- यन्तः । भिक्षाशना दिक्षु परिभ्रमन्तः कौपीनवन्तः खलु भाग्यवन्तः ॥ ५ कौपीनपश्चरत्नस्य मननं याति यो नरः । विरक्तिं धर्मविज्ञानं लभते नात्र संशयः ॥ ६

॥ इति श्रीशङ्करभगवत्पादविरचितं यतिपञ्चकम् ॥ ॥ मनीषापञ्चकम् ॥

सत्याचार्यस्य गमने कदाचिन्मुक्तिदायकम् । काशीक्षेत्रं प्रति सह गौर्या मार्गे तु शङ्करम् ॥ १ अन्त्यवेषधरं दृष्ट्वा गच्छगच्छेति चाब्रवीत् । शङ्करस्सोऽपि चण्डालः तं पुनः प्राह शङ्करम् ॥ २ अन्नमयादन्नमयमथवाचैतन्यमेव चैतन्यात् । यतिवर दूरीकर्तुं वाञ्छसि किं ब्रूहि गच्छ गच्छेति ॥ प्रत्यग्वस्तुनि निस्तरङ्गसहजानन्दावबोधाम्बुधौ विप्रोऽयं श्वपचोऽयमित्यपि महान् कोऽयं विभेद- भ्रम: । किंगङ्गाम्बुनि बिम्बितेऽम्बरमणौ चण्डालवीधी- पयः पूरेवाऽन्तरमस्ति काश्चनघटीमृत्कुम्भयोर्वाम्बरे ॥ जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते याब्रह्मादिपिपीलिकान्ततनुषु प्रोता जगत्साक्षिणी । सैवाहं न च दृश्यवस्त्विति दृढमज्ञापि यस्यास्तिचे. च्चण्डालोऽस्तु सतु द्विजोऽस्तु गुरुरित्येषामनीषामम ॥ मनीषापञ्चकम् ५२१

ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं सर्वं चैतदविद्यया त्रिगुणया शेषं मया कल्पितम् । इत्थं यस्य दृढा मतिस्सुखतरे नित्ये परे निर्मले चण्डालोऽस्तु सतु द्विजोऽस्तु गुरुरित्येषामनीषामम ॥ शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरो- र्नित्यं ब्रह्म निरन्तरं विमृशता निर्व्याजशान्तात्मना । भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीषा मम ॥ ३ या तिर्यङ्नरदेवताभिरहमित्यन्तस्फुटागृह्यते यद्भासा हृदयाक्ष देहविषया भान्ति स्वतोचेतनाः । तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावय- न्योगी निर्वृतमानसोऽहिगुरुरित्येषामनीषामम ॥ ४ यत्सौख्याम्बुधि लेशलेशत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिर्निर्वृतः । यस्मिन् नित्यसुखाम्बुधौ गळितधीर्ब्रह्मैव नब्रह्मवि- द्यः कश्चित्ससुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ इति श्रीमच्छङ्कर भगवत्पादविरचितं मनीषा पञ्चकम् ॥ ॥ पादुकाष्टकम् ॥

श्रीसमञ्चितमव्ययं परमप्रकाशमगोचरं भेदवर्जितमप्रमेयमनन्तमुझ्झितकल्मषम् । निर्मलं निगमान्तमद्भुतमप्यतर्क्यमनुत्तमं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ १ नादबिन्दुकलात्मकं दशनादवेदविनोदितं मन्त्रराजपराजितं निजमण्डलान्तरभासितम् । पञ्चवर्णमखण्डमद्भुतमादिकारणमच्युतं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ २ हन्तचारुमखण्डनादमनेकवर्णमरूपकं शब्दजालमयं चराचरजन्तुदेहनिरासिनम् । चक्रराजमनाहतोद्भवंमेघवर्णमतत्परं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ३ बुद्धिरूपमबद्धकं त्रिदैवकूटस्थनिवासिनं निश्चयं निरतप्रकाशमनेकसद्रुचिरूपकम् । पादुकाष्टकम् ५२३

पङ्कजान्तरखेलनं निजशुद्धसख्यमगोचरं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ४ पञ्च पञ्च हृषीकदेहमनश्चतुष्क परस्परं पञ्चभूतनिकामषट्कसमीरशब्दमभीकरम् । पञ्चकोशगुणत्रयादिसमस्तधर्मविलक्षणं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ५ पञ्चमुद्रसुलक्ष्यदर्शनभावमात्रनिरूपणं विद्युदादिदगद्धगितविनोदकान्ति विवर्तनम् । चिन्मयत्रयवर्तिनं सदसद्विवेकममायिकं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ६ पञ्चवर्णशुकं समस्तरुचिर्विचित्रविचारिणं चन्द्रसूर्यचिदग्निमण्डलमण्डितं घनचिन्मयम् । चित्कलापरिपूर्णमण्डलचित्समाधिनिरीक्षितं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ७ स्थूलसूक्ष्मसकारणान्तरखेलनं परिपालनं विश्वतैजसप्राज्ञचेतसमन्तरात्मनिजस्थितिम् । ५२४ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

सर्वकारणमीश्वरं निटलान्तरालविहारिणं प्रातरेव हि मानसे गुरुपादुकाद्वयमाश्रये ॥ ८ तप्तकाश्चनदीप्यमान महानुरूपमरूपकं चन्द्रकान्तरतारकैरवमुज्जवलं परमं पदम् । नीलनीरदमध्यमस्थितविद्युदाभविभासितं प्रातरेव हिमानसे गुरुपादुकाद्वयमाश्रये ॥ ९

॥ इति पादुकाष्टकम् ॥ ॐ ॥ सद्गुरुसेवा जयति॥ ॥ श्रीचित्सभेशाय मङ्गळम् ॥

श्रीनटेशसहस्रनामस्तोत्र

॥ पूर्वपीठिका ॥

यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥ ओं कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् । शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ १ विनयावनता भूत्वा पप्रच्छ परमेश्वरी । भगवन् भव सर्वज्ञ भवतापहराव्यय ॥ २ त्वत्तः श्रुतं मया देव सर्वं नामसहस्रकम् । नटेशस्य तु नामानि न श्रुतानि मया प्रभो ॥ ३ असकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि । इदानीं कृपया शंभो वद वाञ्छाभिपूर्तये ॥ ४ ५२६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

श्री शिव उवाच- साधु साधु महादेवि पृष्टं सर्वजगद्धितम् । पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ५ क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् । मामेकाप्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ६ तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् । ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ७ तुष्टाव विविधैस्स्तोत्रैर्वेदवेदान्तसम्मितैः । वरं वरय हे वत्स यदिष्टं मनसि स्थितम् ॥ ८ तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः । प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ९ रक्षार्थं सर्वजगतामसुराणां क्षयाय च । सार्वात्स्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १० इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके । सञ्चिन्त्यानुत्तमं स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ ११ नटेशनामसाहस्रमुक्तवानस्मि विष्णवे । नटेशसहस्रनामस्तोत्रपूर्वपीठिका ५२७

तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ॥ सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः । तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ॥ १३ पठनान्मननाद्यस्य नृत्तं दर्शयति प्रभुः । सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ॥ १४ सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् । वक्ष्यामि शृणु हे देवि नामसाहस्रमुत्तमम् ॥ २५

॥ इति पूर्वपीठिका । ॥ श्रीनटेशसहस्रनामस्तोत्रम् ॥

ओं अस्य श्रीनटेशसहस्रनामस्तोत्रमहामन्त्रस्य स- दाशिवऋषिः, महाविराट्छन्दः, श्रीमन्नटेशो देवता । बीजं, शक्तिः, कीलकं, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् ।

॥ ध्यानम् ॥

ध्यायेत्कोटिरविप्रभं त्रिणयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां कह्लारां जपसूक्शुकां कटिकरां देवीं सभेशं भजे ॥ लं पृथिव्यात्मन इत्यादिना पञ्चपूजा कार्या श्रीशिव-उवाच- श्रीशिवः श्रीशिवानाथ: श्रीमान् श्रीपतिपूजितः । शिवङ्कुरश्शिवतरश्शिष्टहृष्टश्शिवागमः ॥ १ अखण्डानन्दचिद्रूपः परमानन्दताण्डवः । नटेशसहस्रनामस्तोत्रम् ५२९

अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ २ कालीवादप्रियः कालः कालातीत: कलाधरः । कालनेता कालहन्ता कालचक्रप्रवर्तकः ॥ ३ कालज्ञः कामदः कान्तः कामारिः कामपालकः । कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ ४ कालकण्ठः कालकालः कालकूटविषाशनः । कृतज्ञः कृतिसारज्ञः कृशानु: कृष्णपिङ्गलः ॥ ५ करिचर्माम्बरधरः कपाली कलुषापहः । कपालमालाभरणः कङ्कालः कलिनाशनः ॥ ६ कैलासवासी कामेशः कविः कपटवर्जितः । कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ ७ कन्दर्पकोटिसदृशः कपर्दी कमलाननः । कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ ८ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः । स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ॥ ९ उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः । ५३० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

सव्यताण्डवसंपन्नो महाताण्डववैभवः ॥ १० ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः । महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ॥ ११ नन्दिनाट्यप्रियो नन्दी नटेशो नदवेषभृत् । कालिकानाट्यरसिको निशानटननिश्चलः ॥ १२ भृङ्गिनाठ्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् । वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ १३ विकाररहितो विष्णुर्विराडीशो विराण्मयः । विराङ्हृदयपद्मस्थो विधिर्विश्वाधिको विभुः ॥ १४ वीरभद्रो विशालाक्षो विष्णुबाणो विशां पतिः । विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ॥ १५ विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः । व्योमकेशो व्योममूर्तिव्योमाकारोऽव्ययाकृतिः ॥ १६ व्याघ्रपादप्रियो व्याघ्रचर्मधृव्द्याधिनाशनः । व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः । नटेशसहस्रनामस्तोत्रम् ५३१

वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्भभृत् ॥ १८ वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः । वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंतुतः ॥ १९ वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः । समस्तभुवनव्यापी समृद्धस्सततोदितः ॥ २० सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः । जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ॥ २१ शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः । अनर्घरत्नखचितकिरीटो निकटे स्थितः ॥ २२ सुधारूपः सुराध्यक्षः सुभ्रू: सुखधनः सुधीः । भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ॥ २३ भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः । अरुणः शरणः शर्वः शरण्यः शर्मदः शिवः ॥ २४ पवित्रः परमोदारः परमापन्निवारकः । सनातनस्स्मः सत्यः सत्यवादी समृद्धिदः ॥ २५ धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः । ५३२ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्त्वबोधकः ॥ २६ राजराजेश्वरो रम्यो रात्रिञ्चरविनाशनः । गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ २७ पतञ्जलिप्राणनाथ: परापरविवर्जितः । परमात्मा परंज्योतिः परमेष्ठी परात्परः ॥ २८ नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः । नमदानन्ददो नम्यो नगराजनिकेतनः ॥ २९ दैव्यो भिषक्प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः । कृताकृतः कृशः कृष्णः शान्तिदश्शरभाकृतिः ॥ ३० ब्रह्मविद्याप्रदो ब्रह्मा बृहद्गर्भो बृहस्पतिः । सद्यो जातस्सदाराध्यः सामगस्सामसंस्तुतः ॥ ३१ अघोरोऽद्भुतचारित्र आनन्दवपुरग्रणीः । सर्वविद्यानामीशानईश्वराणामधीश्वरः ॥ ३२ सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः । सर्वज्ञः सर्वदः स्थाणुः सर्वशस्समरप्रियः ॥ ३३ जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः । नटेशसहस्रनामस्तोत्रम् ५३३

मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ॥ ३४ व्युप्तकेशश्च विशदः विष्वक्सेनो विशोधक: । सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ॥ ३५ सहस्राक्षार्चितस्संराट् सन्धाता सम्पदालयः । बभ्रुर्बहुविधाकारो बलप्रमथनो बली ॥ ३६ मनोभर्ता मनोगम्यो मननैकपरायणः । उदासीन उपद्रष्टा मौनगम्यो मुनीश्वरः ॥ ३७ अमानी मदनोऽमन्युरमानो मानदो मनुः । यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ३८ मीढुष्टमो मृगधरो मृकण्डतनयप्रियः । पुरुहूतो पुरद्वेषी पुरत्रयविहारवान् ॥ ३९ पुण्यः पुमान् पुरिशयः पूषा पूर्णः पुरातनः । शयनश्शन्तमः शान्तः शासकश्श्यामलाप्रियः ॥ ४० भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः । मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ४१ निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराशयः । ५३४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

निर्विकल्पो निरालम्बो निर्विकारो निरामयः ॥ ४२ निरङ्कुशो निराधारो निरपायो निरत्ययः । गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ॥ ४३ प्रमाणं प्रणवः प्राज्ञः प्राणदः प्राणनायक: । सूत्रात्मा सुलभस्स्वच्छः सूदरस्सुन्दराननः ॥ ४४ कपालमालालङ्कारः कालान्तकवपुर्धरः । दुराराध्यो दुराधर्ष्यो दुष्टदूरो दुरासदः ॥ ४५ दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः । सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ॥ ४६ सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः । सर्वप्रियतमस्सर्वदारिद्र्यक्लेशनाशनः ॥ ४७ द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् । दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४८ समदृष्टिस्सत्यकामः सनकादिमुनिस्तुतः । पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ ४९ पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः। नटेशसहस्रनामस्तोत्रम् ५३५

पश्चभूतप्रभुः पश्चपूजासन्तुष्टमानसः ॥ ५० विघ्नेश्वरो विघ्नहन्ता शक्तिपाणिश्शरोद्भवः । गूढो गुह्यतमो गोप्यो गोरक्षी गणसवितः ॥ ५१ सुव्रतस्सत्यसङ्कल्पः स्वसंवेद्यस्सुखावहः । योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ५२ तत्वावबोधस्तत्वेशः तत्वभावो तपोनिधिः । अक्षरस्त्र्यक्षरस्त्र्यक्षः पक्षपातविवर्जितः ॥ ५३ माणिभद्रार्चितो मान्यो मायावी मात्रिन्को महान् । कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ ५४ यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः । सिद्धेशस्सिद्धिजनक: सिद्धान्तस्सिद्धवैभवः ॥ ५५ रविमण्डलमध्यस्थो रजोगुणविवर्जितः । वह्निमण्डलमध्यस्थो वर्षीयान्वरुणेश्वरः ॥ ५६ सोममण्डलमध्यस्थः सोमस्सौम्यस्सुहृद्वरः । दक्षिणाग्निर्हपत्यो दमनो दमनान्तकः ॥ ५७ चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परं तपः । ५३६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

विश्वस्यायतनो वर्यो वन्दारुजनवत्सलः ॥ ५८ गायत्रीवल्लमो गार्ग्यो गायकानुग्रहोन्मुखः । अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिस्स्वधा ॥ ५९ स्वाहारूपो वसुमनाः वटुक: क्षेत्रपालकः । श्राव्यश्शत्रुहरश्शूली श्रुतिस्मृतिविधायकः ॥ ६० अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः । अनुत्तमो ह्युदासीनो मुक्तिदो मुदिताननः ॥ ६१ ऊर्ध्वपच्चोर्ध्वरेताश्च प्रौढनर्तनलम्पटः । महामायो महाग्रासो महावीर्यो महाभुजः ॥ ६२ महानन्दो महास्कन्दो महेन्द्रो महसांनिधिः । भाजिष्णुर्भावनागम्यः भ्रान्तिज्ञानविनाशनः ॥ ६३ महर्धिमहिमाधारो महासेनगुरुर्महः । सर्वद्दरसर्वभृत्सर्गः सर्वहृत्कोशसंस्थितः ॥ ६४ दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः । संयद्वामस्संयमीन्द्रः संशयच्छित्सहस्नदृक् ॥ ६५ हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः । नटेशसहस्रनामस्तोत्रम् ५३७

हेलाविनिर्मितजगद्धेमश्मश्रुर्हिरण्मयः ॥ ६६ सकृद्विभातस्संवेत्ता सदसत्कोटिवर्जितः । स्वात्मस्थस्स्वायुधः स्वामी स्वानन्यस्स्वांशिताखिलः ॥ ६७ रातिर्दातिश्चतुष्पादः स्वात्मबन्धहरस्स्वभूः । वशी वरेण्यो विततो वज्रभृद्वरुणात्मजः ॥ ६८ चैतन्यश्चिच्छिदद्वैतः चिन्मात्रश्चित्शुभाधिपः । भूमा भूतपतिर्भव्यः भूर्भुवो व्याहृतिप्रियः ॥ ६९ वाच्यवाचकनिमुक्तो वागीशो वागगोचरः । वेदान्तकृत्तुर्यपादो वैद्युतस्सुकृतोद्भवः ॥ ७० अशुभक्षयकृज्ज्योतिः अनाकाशो ह्यलेपकः । आप्तकामोऽनुमन्तात्मकामोऽभिन्नोनणुर्हरः ॥ ७१ अस्नेहस्सङ्गानिर्मुक्तोऽह्रस्वोऽदीर्घाऽविशेषक: । स्वच्छन्दस्स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमृतः ॥ ७२ अपरोक्षोऽव्रणोऽलिङ्गोऽद्वेष्टा प्रेमसागरः । ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽवमासक: ॥ ७३ शुद्धस्फीटकसङ्काशः श्रुतिप्रस्तुतवैभवः । ५३८ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

हिरण्यबाहुस्सेनानीः हरिकेशो दिशां पतिः ॥ ७४ सस्पिञ्जरः पशुपतिः त्विषीमानध्वनां पतिः । बभ्लुशो भगवान्भव्यो विव्याधी विगतज्वरः ॥ ७५ अन्नानां पतिरत्युपग्रो हरिकेशोऽद्वयाकृतिः । पुष्टानां पतिरव्यग्रो भवहेतुर्जगत्पतिः ॥ ७६ आततायी महारुद्र: क्षेत्राणामधिपाक्षयः । सूतस्सदसस्पतिस्सूरिरहन्त्यो वनपो वरः ॥ ७७ रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः । कक्षपश्च भुवन्तिश्च भवाख्यो वारिवत्कृतः ॥ ७८ ओषधीशस्सतामीशः उच्चैर्घोषो विभीषणः । पत्तीनामधिपः कृत्स्नवीतो धावत्स सत्वपः ॥ ७९ सहमानस्सत्यधर्मा विव्याधी नियमो यमः । अव्याधिपतिरादित्यः ककुभः कालकोविदः ॥ ८० निषङ्गीषुधिमदिन्द्रः तस्कराणामधीश्वरः । निचरुक: परिचरोऽरण्यानां पतिरद्भुतः ॥ ८१ सृकावी मुष्णतां नाथ: पञ्चाशद्वर्णरूपभृत् । नटेशसहस्रनामस्तोत्रम् ५३९

नक्तंचरः प्रकृन्तानां पतिर्गिरिचरो गुरुः ॥ ८२ कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः । आतन्वानश्शतानन्दः गृत्सो गृत्सपतिस्सुरः ॥ ८३ त्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लक: क्षमी । बिल्मी वरूथी दुन्दुभ्योऽऽहनन्यः प्रमृशाभिधः ॥ ८४ धृष्णुईतस्तीक्ष्णदंष्ट्रः सुधन्वा सुलभस्सुखी । स्रुत्यः पथ्यः स्वतन्त्रस्थः काट्योनीप्यः करोटिभृत् ॥ ८५ सूद्यस्सरस्यो वैशन्तो नाद्योऽवद्यश्च वार्षिकः । वैद्युत्यो विशदो मेध्यो रोष्मियो वास्तुपो वसुः ॥ ८६ अग्रेवधेऽग्रे सम्पूज्यो हन्ता तारो मयो भवः । मयस्करो महातीर्थ्यः कूल्यः पार्यः पदात्मकः ॥ ८७ शङ्ग प्रतरणोऽवार्यः फेन्यः शष्प्य: प्रवाहजः । मुनिरातार्य आलाद्यः सिकत्यश्चाथ किंशिलः ॥ ८८ पुलस्त्यः क्षयणो गृध्यो गोष्ट्यो गोपरिपालक: । शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पण्र्योऽणिमादिभूः ॥ ८९ पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः । ५४० बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

शीघ्रियश्शीभ्य आनन्दः क्षयद्वीरश्शरोऽक्षरः ॥ ९० पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः । वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ॥ ९१ ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः । कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ९२ नैष्कर्म्यदो नवरस: त्रिस्थत्रिपुरभैरवः । त्रिमात्रकस्त्रिवृद्रूपः तृतीयस्त्रिगुणातिगः ॥ ९३ त्रिधामा त्रिजगद्धेतुः त्रिकर्ता तिर्यगूर्ध्वगः । प्रपञ्चोपशमो नामरूपंद्वयविवर्जितः ॥ ९४ प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी । सुनिश्चितार्थो राद्धान्तः तत्वमर्थस्तपोमयः ॥ ९५ हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाशयः । विशृङ्खलो वियद्धेतुः विषमो विद्रुमप्रभः ॥ ९६ अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः । अनन्तशक्तिराचार्य: पुष्कलस्सर्वपूरणः ॥ ९७ पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः ।

ध्यानगम्यो ध्यातृरूपः ध्येयो धर्मविदां वरः ॥९८
अवशः स्ववशः स्थाणुरन्तर्यामी शतक्रतुः ।
कूटस्थ: कूर्मपीठस्थः कूश्माण्डग्रहमोचकः ॥ ९९
कूलङ्कषकृपासिन्धुः कुशली कुङ्कुमेश्वरः ।
गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥१००
जवनो जगदाधारो जमदग्निर्जराहरः।
जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ॥ १०१
विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः ।
चतुर्भुजश्शततनुः शमिताखिलकौतुकः ॥ १०२
वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः ।
ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मज्ञो ब्रह्मचेतनः ।। १०३
गायको गरुडारूढो गजासुरविमर्दनः ।
गर्वितो गगनावासो ग्रन्थित्रयविभेदनः ॥ १०४
भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् ।
अतर्क्यसूकरः सूरः सत्तामात्रस्सदाशिवः ॥ १०५
शक्तिपातकरश्शक्तः शाश्वतश्श्रेयसां निधिः ।

५४२ बृहत्स्तोत्ररलाकरे-प्रथमभाग:


अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ १०६
अनावरणविज्ञानो निर्विभागो विभावसुः।
विज्ञानमात्रो विरजाः विरामो विबुधाश्रयः॥१०७
विदग्धमुग्धवेषाढ्यो विश्वातीतो विशोकदः ।
मायानाट्यविनोदज्ञो मायानट नशिक्षकः ॥ १०८
मायानाटककृन्मायी मायायन्त्रविमोचकः ।
वृद्धिक्षयविनिर्मुको विद्योतो विश्ववञ्च्कः ॥ १०९
कालास्मा कालिकानाथः काकेटिकविभूषणः ।
षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११०
षडाधारगत: सांख्यः षडक्षरसमाश्रयः।
अभिर्देश्योऽनिलो गम्योऽविक्रियोऽमोघवैभवः ॥
हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः ।
अपर्यन्तोऽपरिच्छेद्योऽगोचरो रुग्विमोचकः॥११२
निरंशो निगमानन्दो निरानन्दो निदानभूः।.
आदिभूतो महाभूतः स्वेच्छाकलितविग्रहः ॥ ११३


.
नटेशसहस्रनामस्तोत्रम् ५४३


निस्पन्दः प्रत्यगानन्दो विनिर्मेषो निरन्तरः।
प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ११४
संवत्सरः कलापूर्णः सुरासुरनमस्कृतः ।
निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ ११५
आभास्वरः परं तत्वमादिमः पशल: पविः ।
संशान्तसर्वसङ्कल्पः संसदीशस्सदोदितः ॥ ११६
भावाभावविनिर्मुक्तो भारूपो भावितो भरः।
सर्वातीतत्सारतरः साम्बस्सारस्वतप्रदः ॥
सर्वकृत्सर्वभृत्सर्वमयस्सत्वावलम्बकः ।
केवलः केशवः केलीकरः केवलनायकः॥ ११८
इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः ।
विनिघत्यो विगतभीः विपिपासो विभावनः ।।
विश्रान्तिभूर्विवसनो विहनहन्ता विशोधकः ।
वीरप्रियो वीतभयो विन्ध्यदर्पविनाशनः ॥ १२०
वेतालनटनप्रीतो वेतण्डत्वकृताम्बरः ।
वेलातिलङ्घिकरणो विलासी विक्रमोन्नतः ॥ १२१
Braha-18

५४४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः । महाकर्ता महाभोक्ता महासंविन्मयो मधुः॥१२२ मनोवचोभिरग्राह्यो महाबिलकृतालयः । अनहङ्कृतिरछेद्यः स्वानन्दैकघनाकृतिः ॥ १२३ संवर्ताग्न्युदरस्सर्वान्तरस्थत्सर्वदुर्ग्रहः । . सम्पन्नस्सङ्क्रमत्सत्री सन्धाता सकलोर्जितः ॥ सम्प्रवृद्धरसन्निकृष्टः संविमृष्टस्समुत्सुकः । संघमस्थस्सन्दुर्दिस्थः सम्प्रविष्टस्समुत्सुकः ॥ १२५ सम्प्रदुष्टस्सन्निविष्टः संस्पृष्टस्सम्प्रमर्दनः सूत्रभूतस्वप्रकाश: समशीलस्सदादयः ।। सत्वसंस्थस्सुषुप्तिस्थः सुतल्पस्सत्वरूपगः । सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२७ आदित्यवर्णस्संज्योतिः सम्यग्दर्शनतत्परः महातात्पर्यनिलयः प्रत्यग्ब्रह्मैक्यनिश्चयः ॥ १२८ प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षा प्रतिभात्मकः। प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ।। १२९

योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः ।
जटिलश्चटुलापाङ्गो महानटनलम्पटः॥ १३०
पाटलांशु पटुतरः पारिजातस्य मूलगः
पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ १३१
कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः।
लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ॥ १३२
रुद्राक्षस्रङ्मयाकल्पः कल्हारकिरणद्युतिः ।
अमूत्यमणिसम्भावस्फणीन्द्रकरकङ्कणः ॥
चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डुरः ।
अगम्यमहिमाम्भोधिरनौपम्ययशोनिधिः ॥ १३४
चिदानन्दनटाधीश: चित्केवलवपुर्धरः ।
चिदेकरससम्पूर्णः श्रीशिवः श्रीमहेश्वरः ॥
॥ इति श्रीनटेशसहस्त्रनामस्तोत्रं सम्पूर्णम् ॥

वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः
श्रीमद्व्यासपतञ्जलीत्युभयतः वाय्वादिकोणेषु च |
श्रीमतिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः मध्ये
स्वर्णसभापतिर्विजयते ह्रुत्पुण्डरीके पुरे ॥

॥ श्रीनटेशार्पणमस्तु॥
॥शिवं भूयात्.॥

॥ श्री नटेशपश्चरत्नम् ॥
श्रीमच्चिदम्बरनटात् नटराजराजात्
विद्याधिपात् विविधमङ्गलदानशौण्डात् ।
पूर्णेन्दुसुन्दरमुखात् द्विजराजचूडात्
भर्गात्परं किमपि तत्वमहं न जाने ।
डक्काविभूषितकरात् विषनीलकण्ठात्
फुल्लारविन्दनयनात् फणिराजवन्द्यात् ।
व्याघ्रांघ्रिपूज्यचरणात् शिवकुञ्चिताङ्ग्रेः
शम्भोः परं किमपि तत्वमहं न जाने॥

श्री नाथमृग्यचरणात् विधिमृग्यचूडात्
श्री पुण्डरीकनिलयात् श्रितदुःखनाशात् ।
श्रीमद्गृहस्य जनकात् सुखटत्तराजात्
श्रीशात्परंकिमपि तत्वमहं न जाने ॥ ३
श्रीमद्गणेशजनकात् मखिबृन्दपूज्यात्
तिल्लाटवीसुनिलयात् त्रिपुराम्बिकेशात् ।
व्याघ्राजिनाम्बरधरात् उरुरोगनाशात्
रुद्रात्परं किमपि तत्वमहं न जाने ।|
श्रीमद्व्याघ्रपुरेश्वरात् फणिराजभूषात्
संसाररोगभिषनः निखिलाण्डपालात् ।
श्रीमद्धेमसभेश्वरात् ललिताम्बिकेशात्
स्थाणोः परं किमपि तत्वमहं न जाने ॥

पञ्चरत्नं नटेशस्य सोमशेखर यज्वभिः।
संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गलम् ॥ ६

॥श्री मुरुकाष्टकम् ॥

सिद्धिबुद्धिप्रदं देवं सुब्रह्मण्याग्रजं प्रभुम् ।
सोमाप्रतनयं वन्दे विघ्नराजमहर्निशम् ॥ १
मुकारस्तु मुकुन्दस्स्यात् रुकारो रुद्रवाचकः।
ककारस्तु ब्रह्मवादी मुरुको गुहवाचकः ॥
मरुक श्रीमतान्नथ भोगमोक्षप्रदप्रमो।
देवदेव महास्नेन पाहिपाहि सदा विभो । ३
मुरुकं मुक्तिदं देवं मुनीनां मोदकं प्रभुम् ।
मोचकं सर्वदुःखानां मोहनाशं सदानुमः ॥ ४
मुरुकेण मुकुन्देन मुनीनां हार्दवासिना ।
वल्लीशेन महेशेन पालितास्सर्वदा वयम् ॥
मुरुकाय नमः प्रात: मुरुकाय नमो निशि ।
मुरुकाय नमः सायं मुरुकाय नमो नमः ॥६

.. ५

मुरुकास्परात्सत्यात् षण्मुखात् शिखिवाहनात् ।
गुहात्परं न जानेऽहं तस्वं किमपि सर्वदा ।। ७
मुरकस्य महेशस्य वल्लीसेनापते: प्रभोः ।
चिदम्बर विलासस्य चरणौ सर्वदा भजे ॥ ८
मुरुके षण्मुखे देवे शिखिवाहे द्विषड्भुजे ।
कृत्तिकातनये शम्भौ सर्वदा रमतां मनः ॥ ९
मुरुकत्याष्टकमिदं सोमशेखरयज्वमिः ।
संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गळम् ॥१०
॥ इति श्री मुरुकाष्टकं समाप्तम् ॥

॥ वेदान्तडिण्डिमः॥

वेदान्तडिण्डिमास्तत्वमेकमुद्धोषयन्ति यत् ।
आस्तां पुरस्तान्तत्तेजो दक्षिणामूर्तिसंज्ञितम् ॥ १
आत्माऽनात्मा पदार्थौ द्वौ भोक्तृभोग्यत्वलक्षणौ ।
ब्रह्मेवाऽऽत्मान देहादिरिति वेदान्तडिण्डिमः । २
ज्ञानाऽज्ञाने पदार्थों द्वावात्मनो बन्धमुक्तिदौ ।
ज्ञानान्मुक्ति निर्बन्धोऽन्यदिति वेदान्तडिण्डिमः ॥
ज्ञातृ ज्ञेयं पदार्थौ द्वौ भास्य भासकलक्षणौ ।
ज्ञाता ब्रह्म जगत् ज्ञेय मिति ...॥
सुखदुःखे पदार्थौ द्वौ प्रियविप्रियकारकौ ।
सुखं ब्रह्म जगहुःख मिति ...॥
समष्टिव्यष्टिरूपी द्वो पदार्थौ सर्वसम्मती ।
समष्टिरीश्वरो व्यष्टिः जीवो ...॥
ज्ञानं कर्म पदार्थौ द्वौ वस्तुकत्रात्म तन्त्रकौ ।
ज्ञानान्मोक्षो न कर्मभ्य इति ॥

श्रोतव्याऽश्रव्यरूपी द्वौ पदार्थों सुखदुःखदौ ।
श्रोतव्यं ब्रह्म नैवाऽन्य दिति ...॥
चिन्त्याऽचिन्त्ये पदाथौ द्वौ विश्रान्ति श्रान्तिदायकौ ।
चिन्त्यं ब्रह्म परं नाऽन्य दिति...॥
.
ध्येयाऽध्वेये पदार्थौ द्वौ द्वौ धीसमाध्यसमाधिदौ ।
ध्यातव्यं ब्रह्म नैवाऽन्य दिति...॥
योगिनो भोगिनो वाऽपि त्यागिनो रागिणोऽपि च ।
ज्ञानान्मोक्षो न सन्देह इति ११
न वर्णाश्रम सङ्केतैः न कोपासनादिभिः।
ब्रह्मज्ञानं विना मोक्षः इति
11
असत्यस्सर्वसंसारो रसामासादिदूषितः ।
उपेक्ष्यो ब्रह्म विज्ञेय मिति ...
१३
वृथा क्रियां वृथाऽलापान् वृथावादान् मनोरथान् ।
त्यत्वैकं ब्रह्म विज्ञेय मिति

स्थितो ब्रह्मात्मना जीवो ब्रह्म जीवात्मना स्थितम् ।
इति संपश्यतां मुक्ति रिति ...॥

जीवो ब्रह्मात्मना ज्ञेयो ज्ञेयं जीवात्मना परम् ।
मुक्तिस्त दैक्यविज्ञान मिति.....॥ १६
 
सर्वात्मना परं ब्रह्म श्रोतुरात्मतया स्थितम् ।
नाऽऽयास स्तव विज्ञप्तौ इति .....॥ १७.
ऐहिकं चाऽऽमुध्मिकं च तापान्तं कर्मसञ्चयम् ।
त्यत्वा ब्रह्मैव विज्ञेय मिति.....॥ १८

अद्वैतद्वैतवादौ द्वौ सूक्ष्मस्थूलदशां गतौ ।
अद्वैतवादान्मोक्षस्स्या दिति ... ॥१९
कर्मिणो विनिवर्तन्ते निवर्तन्त उपासकाः।
ज्ञानिनो न निवर्तन्ते इति .....॥ २०
परोक्षाऽसत्फलं कर्मज्ञानं प्रत्यक्षसत्फलम् ।
ज्ञानमेवाऽभ्यसेत्तस्मात् इति ... ॥२१
वृथा श्रमोऽयं विदुषा वृथाऽयं-कर्मिणां श्रमः ।
यदि न ब्रह्मविज्ञानं इति ॥.....॥ २२
अलं यागैरलं योगैरलं भोगै रलं धनैः ।
परस्मिन्ब्रह्मणि ज्ञात इति....॥२३

अलं वेदैरलं शास्त्रैरलमं स्मृतिपुराणकैः ।
परमात्मनि विज्ञाते इति.....॥ २४
नर्चा न यजुषोऽर्थोऽस्ति न सान्नर्थोऽति कश्चन ।
जाते ब्रह्मात्मविज्ञाने इति .....॥ २५
कर्माणि चित्तशुद्ध्यर्थं मैकाग्र्यार्थ मुपासनम् ।
मोक्षार्थं ब्रह्मविज्ञान मिति ... ॥ २६
सञ्चितागामिकर्माणि दह्यन्ते ज्ञानकर्मणा ।
प्रारब्धानुभवान्मोक्ष इति ...॥ २७
न पुण्यकर्मणा वृद्धिः न हानिः पापकर्मणा ।
नित्यासङ्गात्मनिष्ठानामिति...॥ २८
दृग्दृश्यौ द्वौ पदार्थौ स्थः परस्परविलक्षणौ ।
दृग्ब्रह्म दृशं माया स्या दिति ....॥२९
अविद्योपाधिको जीवो मायोपाधिक ईश्वरः ।
मायाऽविद्यागुणातीतः इति.....॥ ३०
बुद्धिपूर्वाऽबुद्धिपूर्वकृतानां पापकर्मणाम् । ,
प्रायश्चित्तमहोज्ञान मिति ...॥३१

साकारं च निराकारं निर्गुणं च गुणात्मकम् ।
तत्त्वं तत्परमं ब्रह्म इति ...॥३२
द्विजत्वं विध्यनुष्ठानात् विप्रत्वं वेदपाठतः ।
ब्राह्मण्यं ब्रह्मविज्ञानात् इति .....॥३३
सर्वात्मना स्थितं ब्रह्म सर्वं ब्रह्मात्मना स्थितम् ।
न कार्यं कारणाद्भिन्न मिति ... ॥ ३४
सत्तास्फुरणसौख्यानि भासन्ते सर्ववस्तुषु ।
तस्माद्ब्रह्ममयं सर्व मिति ... ॥३५
अवस्थात्रितयं यस्य क्रीडाभूमितया स्थितम् ।
तदेव ब्रह्म जानीयात् इति ...॥३६
यन्नाऽऽदौ यश्च नाऽस्त्यन्ते तन्मध्ये भातमप्यसत् ।
अतो मिथ्या जगत्सर्वमिति.....॥३७
यदस्त्यादौ यदस्त्यन्ते यन्मध्ये भाति तत्स्वयम् ।
प्रौकमिदं सत्य मिति ... ॥३८
पुरुषार्थत्रयाविष्टाः पुरुषाः पशवो ध्रुवम् ।
मोक्षार्थी पुरुषः श्रेष्ठः इति.....॥ ३९

घटकुड्यादिकं सर्वं मृत्तिकामात्रमेव च ।
तथा ब्रह्म जगत्सर्व मिति ...॥४०
षण्णिहत्य त्रयं हित्वा द्वयं भिस्वाऽखिलागतिम् ।
एकं बुद्धाऽऽश्रुते मोक्ष मिति...॥ ४१
भित्वा षट् पञ्च भित्त्वाऽथ भिश्वाऽथ चतुरखिकम् ।
द्वयं हित्वा श्रयेदेक मिति ...॥ ४२
देहो नाह महं देही देहसाक्षीति निश्चयात् ।
जन्ममृत्युपहीणोऽसौ इति ...॥४३
प्राणोनाहमहं देवः प्राणस्साक्षीति निश्चयात् ।
क्षुत्पिपासोपशान्ति स्स्यात् इति ...॥४४
मनो नाऽह महं देवो मनस्साक्षीति निश्चयात् ।
शोकमोहापहानिरस्यात्...॥४५
बुद्धिर्नाऽहमहं देवो बुद्धिसाक्षीति निश्चयात् ।
कर्तृभावनिर्वृत्तिस्स्यात् इति ...॥४६
नाज्ञानं स्यामहं देवोऽज्ञानसाक्षीति निश्चयात् ।
सर्वानर्थनिवृत्तिस्यात् इति...॥४७

अहं साक्षीति यो विद्यात् विविच्यैवं पुन: पुनः ।
स एव मुक्तोऽसौ विद्वान् इति...॥४८
नाहं माया न तत्कार्यं न साक्षी परमोऽस्म्यहम् ।
इति निस्संशयज्ञानात् मुक्तिर्वे...॥४९
नाऽहं सर्व महं सर्वं मयि सर्वमिति स्फुटम् ।
 ज्ञाते तत्वे कुतो दुःख मिति ...॥ ५०
देहादिपञ्चकोशस्था या सत्ता प्रतिभासते।
सा सत्ताssत्मा न सन्देह इति ... ॥५१
देहादिपञ्चकोशस्था या स्फूर्ति रनुभूयते ।
सा स्फूर्तिरात्मा नैवाऽन्य दिति ....॥५२
देहादिपञ्चकोशस्था या प्रीतिरनुभूयते ।
सा प्रीतिरात्मा कूटस्थः इति...॥५३
व्योमादिपञ्चभूतस्था यासत्ता भासते नृणाम् ।
सा सत्ता परमं ब्रह्म इति...॥५४
व्योमादिपञ्चभूतस्था या चिदेकाऽनुभूयते ।
सा चिदेव परं ब्रह्म इति ....॥५५

व्योमादिपञ्चभूतस्था या प्रीतिरनुभूयते ।
साप्रीतिरेव ब्रह्म स्यात् इति...॥५६
देहादिकोशगा सत्ता या सा व्योमादिभूतगा।
मानोऽभावान्न तद्भेदः इति ...॥५७
देहाविकोशगा स्फूर्तिर्या सा व्योमादिभूतगा।
मानोऽभावा न तद्भेद इति ...॥५८
देहादिकोशगा प्रीतिर्या सा व्योमादिभूतगा।
मानाऽभावा न्न तद्भेद इति ...॥ ५९
सच्चिदानन्दरूपत्वात् ब्रह्मैवाऽत्मा न संशयः।
प्रमाणकोटिसंघानात् इति ...॥६०
न जीवब्रह्मणोर्भेदः सत्तारूपेण विद्यते|
सत्ताभेदे न मानं स्यात् इति ...॥६१
न जीवब्रह्मणोर्भेदः स्फूर्तिरूपेण विद्यते ।
स्फूर्तिभेदे न मानं स्यात् इति ...॥६२
न जीवब्रह्मणोर्भेदः प्रियरूपेण विद्यते।
प्रियभेदे न मानं स्यात् इति ...॥६३

न जीवब्रह्मणोर्भेदो नाना रूपेण विद्यते ।
नाम्नो रूपस्य मिथ्यात्वात् इति...॥६४
न जीवब्रह्मणोर्भेदः पिण्डब्रह्माण्डभेदतः ।
व्यष्टेस्समष्टेरेकत्वात् इति ...॥६५
ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नाऽपरः ।
जीवन्मुक्तस्तु तद्विद्वान् इति...॥६६
न नामरूपे नियते सर्वत्र व्यभिचारतः।
अनामरूपं सर्वं स्यात् इति...॥६७
अनामरूपं सकलं सन्मयं चिन्मयं परम् ।
कुतो भेदः कुतो बन्धः इति ... ॥६८
न तत्त्वात्कथ्यते लोको नामाद्यैर्व्यभिचारतः।
वटुर्जरठ इत्याद्यै रिति ...॥६९
नामरूपात्मकं विश्वमिन्द्रजालं विदुर्बुधाः ।
अनामत्वादयुक्तत्वात् इति...॥७०
अभेददर्शनं मोक्षः संसाये भेददर्शनम् ।
सर्ववेदान्तसिद्धान्तः इति...॥७१

न मताभिनिवेशित्वात् न भाषावेशमात्रतः ।
मुक्ति र्विनाऽऽत्मविज्ञानात् इति ...।। ७२
न कास्यप्रतिषिद्धाभिः क्रियाभि मोक्षवासना ।
ईश्वरानुग्रहात्सा स्यात् इति...॥७३
अविज्ञाते जन्म नष्टं विज्ञाते जन्म सार्थकम् ।
ज्ञातुरात्मा न दूरे स्यात् इति ....॥७४
दशमस्य परिज्ञानेनाऽऽयासोऽस्ति यथाः तथा ।
स्वस्थ ब्रह्मात्मविज्ञाने इति...॥६५
उपेक्ष्योपाधिकान् दोषान् गृह्यन्ते विषमा यथा ।
उपेक्ष्य दृश्यं य द्ब्रह्म इति...॥७६
सुखमल्पं बहुः क्लेशोविषयमाहिणां नृणाम् ।
अनन्तं ब्रह्मनिष्ठानाम् इति ...॥७७
धनैर्वा धनदैः पुत्रैः दारागारसहोदरैः ।
धृवं प्राणहरैर्दुःखम् इति ...॥७८
सुप्ते रुत्थाय सुप्त्यन्त्यं ब्रह्मैकं प्रविचिन्त्यताम् ।
नातिदूरे नृणां मृत्युः इति ... ॥७९

पञ्चानामपिकोशानां मायाऽनर्थाव्ययोचिता
तत्साक्षि ब्रह्म विज्ञान मिति ....॥८०
दशमत्वपरिज्ञाने ननज्ञस्य यथा सुखम् ।
तथा जीवस्य सत्प्राप्तौ इति ...॥८१
नवभ्योऽस्ति परं प्रत्यक्नस वेद परं परम् ।
तद्विज्ञानाद्भवेत्तुर्या मुक्ति र्वेदान्तडिण्डिमः ॥ ८२
नवाऽऽभासानवज्ञत्वात् नवोपाधीन्नवात्मना ।
मिथ्या ज्ञात्वाऽवशिष्टे तु मौनं वेदान्तडिण्डिमः॥
परमे ब्रह्मणि स्वस्मिन् प्रविलाप्याऽखिलं जगत् ।
गायनद्वतमानन्दं आस्ते वेदान्तडिण्डिमः ॥ ८४
प्रतिलोमानुलोमाभ्यां विश्वारोपापवादयोः ।
चिन्तने शिष्यते तत्वं इति ...॥८५
नामरूपाभिमानस्थात् संसारसर्वदेहिनाम् ।
सच्चिदानन्ददृष्टिस्त्यात् मुक्तिर्वेदान्तडिण्डिमः ॥ ८६
सचिदानन्दसत्यत्वे मिथ्यात्वे नामरूपयोः।
विज्ञाते किमिदं ज्ञेयं इति ...॥८६

सालम्बनं निरालम्बं सर्वालम्बावलम्बितम् ।
आलम्बेनाऽखिलालम्ब मिति ...॥८८
न कुर्या न्न विजानीयात् सर्वं ब्रह्मेत्यनुस्मरन् ।'
यथा सुखं तथा तिष्ठेत् इति ...॥८९
स्वकर्मपाशवशगः प्राज्ञोऽन्यो वा जनो ध्रुवम् ।
प्राज्ञस्सुखं नयेत्काल मिति ...॥९०
न विद्वान् सन्तपे चित्तं करणाकरणे ध्रुवम् ।
सर्वमात्मेति विज्ञानात् इति .... ॥ ९१
नैवाssभासं स्पृशेत्कर्ममिथ्योपाधिमपि स्वयम् ।
कुतोऽधिष्ठानमत्यच्छमिति ...॥९२
अहोऽस्माक मलं मोहैरात्मा ब्रह्मेति निर्भयम् ।
श्रुतिभेरीरवोऽद्याऽपि श्रूयते श्रुतिरञ्जनः ।।९३
वेदान्तभेरीझवारः प्रतिवादिभयङ्करः ।
श्रूयतां ब्राह्मणैः श्रीमद्दक्षिणामूर्त्यनुग्रहात् ॥९४
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छङ्कर-
भगवत्पूज्यपादकृतिषु वेदान्तडिण्डिमः॥

॥ परमाद्वैतम् ॥

निर्विकारं निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥
निष्कलंकम् निराभासं त्रिपरिच्छेदवर्जितम् ।
आनन्दमजमव्यक्तं ब्रह्मैवाहं न संशयः॥
निर्विशेषं निराकारं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं सत्यं ब्रह्मैवाहं न संशयः ।।
शुद्धं बुद्धं स्वतस्सिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवाहं न संशयः ।।
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवाहं न संशयः ।।

॥ इति परमाद्वैतम् ॥ ॥ वाक्यवृत्तिः॥

सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिं विश्वेश्वरं विदित-
विश्वमनन्तमूर्तिम् । निर्मुक्तबन्धनमपारसुखाम्बुरांशि
श्रीवल्लभं विमलबोधघनं नमामि ॥१
यस्य प्रसादादहमेव विष्णुः मन्येव सर्व परि-
कल्पितं च । इत्थं विजानामि सदात्मरूपं तस्याङ्घ्रि-
पद्मं प्रणतोऽस्मि नित्यम् ॥२
तापत्रयार्कसन्तप्तः कश्चिदुद्विग्नमानसः ।
शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३
अनायासेन येनास्मान्मुच्येयं भवबन्धनात् ।
तन्मे संक्षिप्य भगवन् कैवल्यं कृपया वद ॥४
साध्वी ते वचनव्यक्ति प्रतिभाति वदामि ते ।
इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥
तत्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः।
तादात्म्यं विषयज्ञानं तदिदं मुक्तिसाधनम् ॥ ६

को जीवः कः परश्चास्मा तादाम्यं वा कथं तयोः।
तत्त्वमस्यादिवाक्यं वा कथं तत्प्रतिपादयेत् ॥
अत्र ब्रूमः समाधानं कोन्यो जीवस्त्मेव हि ।
यस्त्वं पृच्छसि मां कोहं ब्रहैवासि न संशयः ॥८
पदार्थमेव जानामि नाद्यपि भगवन् स्फुटम् ।
अहं ब्रह्मेति वाक्यार्थं, प्रतिपद्ये कथं वद । ९
सत्यमाहं भवानत्र विज्ञानं नैव विद्यते ।
हेतु पदार्थबोधो हि वाक्यार्थावगतेरिव ॥१०
अन्तःकरणतद्वृत्ति साक्षी चैतन्यविग्रहः।
आनन्दरूपः सत्यस्सन् किं नात्मानं प्रपद्यते ॥ ११
सत्यानन्दस्वरूपं धीसाक्षिणं बोधविग्रहम् ।
चिन्मयात्मतया नित्यं त्यक्तवा देहादिगां धियम् ।।१२
रूपादिमान्यतः पिण्डस्ततो नात्मा घटादिवत् ।
वियदादिमहाभूतविकारत्वाच कुम्भवत् ॥१३
अनात्मा यदि पिण्डोयमुक्तहेतुबलान्मतः।
करामलकवत्साक्षादात्मानं प्रतिपादय ।।१४

घटद्रष्टा घटाद्भिन्नः सर्वदा न घटो यथा ।
देहे दृष्टा तथा देहो नाहमित्यवधारयेत् ॥ १५ः
एवमिन्द्रियदृङ्नाहमिन्द्रियाणीति निश्चिनु ।
मनोबुद्धिस्तथा प्राणो नाहमित्यवधारय ॥१६
सङ्घातोऽपि तथा नाहमिति दृश्यविलक्षणम् ।
द्रष्टारमनुमानेन-निपुणं सम्प्रधारय ।।१७
देहेन्द्रियादयो भावा हानादिव्यापूतिक्षमाः।
यस्य सन्निधिर्मात्रेण सोहमित्यवधारय ।।१८
अनापन्नविकारः सन्नयस्कान्तवदेव यः।
बुध्यादींश्चालयेत्प्रत्यक्सोहमित्यवधारय ।।१९
अजडात्मवदाभान्ति यत्सानिध्याजडा अपि
देहेन्द्रियमन:प्राणा: सोहमित्यवधारय ॥२०
आगमन्मे मनोन्यत्र साम्प्रतं च स्थिरीकृतम् ।
एवं यो वेत्ति धीवृत्तिं सोहमित्यवधारय ।।...२१
स्वप्रजागरिते सुप्तिं भावाभावौ धियां तथा।::::
यो वेत्त्यविक्रियस्साक्षात्साहेमित्यवधारय ।।

घटावभासको दीपो घटादन्यो यथेष्यते।
देहावभासको देही तथाहं बोधविग्रहः ॥२३
पुत्रवित्तादयो भावा यस्य शेषतया प्रियाः ।
द्रष्टा सर्वप्रियतमः सोहमित्यवधारय ॥२४
परप्रेमास्पदतया मानभूवमहं सदा ।
भूयासमिति यो द्रष्टा सोहमित्यवधारय ॥२५
यत्साक्षिलक्षणो बोधः त्वंपदार्थस्स उच्यते ।
साक्षित्वमपि बोद्धृत्वमविकारितयात्मनः ॥२६
देहेन्द्रियमनःप्राणाहङ्कृतिभ्यो विलक्षणः ।
प्रोज्झिताशेषषड्भावविकारस्त्वंपदाभिधः ॥२७
 त्वमर्थमेवं निश्चित्य तदर्थं चिन्तयेत्पुनः ।
अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च ।।२८
निरस्ताशेषसंसारदोषोऽस्थूलादिलक्षणः ।
आदृश्यत्वादिगुणक: पराकृतमोमलः ।।
निरस्तातिशयानन्दस्सत्यप्रज्ञानविग्रहः ।
सत्तास्वलक्षणः पूर्णः परमात्मेति गीयते ॥

सर्वाज्ञत्वं परेशत्वं तथा सम्पूर्णशक्तिता।
वेदैस्समर्थते यस्य तद्ब्रह्मेत्यवधारय ।। ३१
यज्ज्ञानात्सर्वविज्ञानं श्रुतिषु प्रतिपादितम् ।
मृदाद्यनेकदृष्टान्तैस्तद्ब्रह्मेत्यवधारय ।।३२
यदानन्त्यं प्रतिज्ञाय श्रुतिस्तसिद्धये जगौ
तत्कार्यवं प्रपञ्चस्य तद्ब्रह्मेत्यवधारय ।।३३
विजिज्ञास्यतया यच्च वेदान्तेषु मुमुक्षुभिः ।
समर्थ्यतेऽतियत्नेन तद्ब्रह्मेत्यवधारय ।।
जीवात्मना प्रवेशश्च नयन्तृत्वं च तान्प्रति ।
श्रूयते यस्य वेदेषु तद्ब्रह्मेत्यवधारय ॥ ३५
कर्मणां फलदातृत्वं यस्यैव श्रयते श्रुतौ ।
जीवनाहेतुकर्तृत्वं तद्ब्रह्मेत्यवधारयः ॥ .
तत्वंपदार्थो निर्णीतौ वाक्यार्थश्चिन्त्यतेऽधुना ।
तादात्म्यमत्र वाक्यार्थः तयोरेव पदार्थयोः॥ ३७
संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र सम्मतः ।
अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः ॥ ३८

प्रत्यग्बोधो य आभाति सोद्वयानन्दलक्षणः ।
अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः॥
३९
इत्थमन्योन्यतादात्म्य प्रतिपत्तिर्यदा भवेत् ।
अब्रह्मत्वं त्वमर्थस्य व्यावर्तेत तदैव हि ।।४०
तदर्थस्य च पारोक्ष्यं यद्येतं किं ततः शृणु ।
पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवतिष्ठते ॥४१
तत्वमस्यादिवाक्यं च तादात्म्यप्रतिपादने ।
लक्ष्यौ तत्वं पदार्थों द्वावुपादाय प्रवर्तते ॥४३
हित्वाऽऽदौ शबली वांच्यौ वाक्यं वाक्यार्थबोधने ।
यथा प्रवर्ततेऽस्माभिस्तथा व्याख्यातमादरात् ॥४४॥
 आलम्बनतयाऽभाति योऽस्मात्प्रत्ययशब्दयोः।
अन्तकरणसम्भिन्नबोधस्सत्वं पदाभिदः॥ ४४
मायोपाधिजगद्योनिस्सर्वज्ञत्वादिलक्षणः ।
पारोक्ष्यशबलस्सत्याद्यात्मक स्तत्पदाभिध
प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता ।
विरुध्यते यतस्तस्मालक्षणा सम्प्रवर्तते । ४.६

मानान्तरविरोधे तु मुख्यार्थस्य परिग्रहे।
मुख्यार्थेनाविनाभूते प्रतीतिर्लक्षणोच्यते।।४७
तत्वमस्यादिवाक्येषु लक्षणा भागलक्षणा ।
सोहमित्यादिवाक्यस्यपदयोरिव नापरा ॥४८
अहंब्रह्मेति वाक्यार्थबोधो यावढी भवेत् ।
शमादिसहितास्तावद्भ्यसेच्छ्रवणादिकम् ।।४९
श्रुत्याचार्यप्रसादेन दृढो बोधो यदा भवेत् ।
निरस्ताशेषसंसारनिदान: पुरुषस्तदा ॥५०
विशीर्णकार्यकरणो भूतसूक्ष्मैरनावृतः ।
विमुक्तकर्मनिगडः सद्य एव विमुच्यते ॥
प्रारब्धकर्मवेगेन जीवन्मुक्तो यदा भवेत् ।
किञ्चित्कालमनारब्धकर्मबन्धस्य संक्षये ॥ ५२
निरस्तातिशयानादं वैष्णवं परमं पदम् ।
पुनरावृत्तिरहितं कैवल्यं प्रतिपद्यते ॥
इति श्रीमत्परमहंस परिव्राजकाचार्यवयं श्रीमच्छङ्कराचार्य-
विरचिता वाक्यवृत्तिः॥