बृहत्संहिता/अध्यायः ९४
← अध्यायः ९३ | बृहत्संहिता अध्यायः ९४ वराहमिहिरः |
अध्यायः ९५ → |
९४ वायसविरुताध्यायः ।।
प्राच्यानां दक्षिणतः शुभदाः[क्.शुभदः] काकाः करायिका वामाः[क्.वामा] ।
विपरीतं अन्यदेशेष्ववधिर्लोकप्रसिद्ध्याएव ।। ९४.०१ ।।
वैशाखे निरुपहते वृक्षे नीडः सुभिक्षशिवदाता ।
निन्दितकण्टकिशुष्केष्वसुभिक्षभयानि तद्देशे ।। ९४.०२ ।।
नीडे प्राक्शाखायां शरदि भवेत्प्रथमवृष्टिरपरस्याम् ।
याम्यौत्तरयोर्मध्यात्[क्.मध्या] प्रधानवृष्टिस्तरोरुपरि ।। ९४.०३ ।।
शिखिदिशि मण्डलवृष्टिर्नैरृत्यां शारदस्य निष्पत्तिः ।
परिशेषयोः सुभिक्षं मूषक*सम्पच्च[क्.सम्पत्तु] वायव्ये ।। ९४.०४ ।।
शरदर्भगुल्मवल्लीधान्यप्रासादगेहनिम्नेषु ।
शून्यो भवति स देशश्चौरानावृष्टिरोगऽर्तः ।। ९४.०५ ।।
द्वित्रिचतुःशावत्वं सुभिक्षदं पञ्चभिर्नृपान्यत्वम् ।
अण्डावकिरणं एकाण्डताअप्रसूतिश्च न शिवाय ।। ९४.०६ ।।
चौरकवर्णैश्चौराश्चित्रैर्मृत्युः सितैस्तु वह्निभयम् ।
विकलैर्दुर्भिक्षभयं काकानां निर्दिशेत्शिशुभिः ।। ९४.०७ ।।
अनिमित्तसंहतैर्ग्राममध्यगैः क्षुद्भयं प्रविरुवद्भिः[क्.प्रवाशद्भिः] ।
रोधश्चक्रऽकारैरभिघातो वर्गवर्गस्थैः ।। ९४.०८ ।।
अभयाश्च तुण्डपक्षैश्चरणविघातैर्जनानभिभवन्तः ।
कुर्वन्ति शत्रुवृद्धिं निशि विचरन्तो जनविनाशम् ।। ९४.०९ ।।
सव्येन खे भ्रमद्भिः स्वभयं विपरीतमण्डलैश्च परात् ।
अत्याकुलं भ्रमद्भिर्वातौद्भ्रमो भवति काकैः ।। ९४.१० ।।
ऊर्ध्वमुखाश्चलपक्षाः पथि भयदाः क्षुद्भयाय धान्यमुषः ।
सेनाअङ्गस्था युद्धं परिमोषं चान्यभृतपक्षाः ।। ९४.११ ।।
भस्मास्थिकेशपत्राणि विन्यसन्पतिवधाय शय्यायाम् ।
मणिकुसुमऽद्यवहनने[क्.अवहनेन] सुतस्य *जन्माप्यथाअङ्गनायाश्[क्.जन्माङ्गनायाश्च][ऊ.जन्मान्यथाअङ्गनायाश्] च ।। ९४.१२ ।।
पूर्णानने +अर्थलाभः सिकताधान्यऽर्द्रमृत्कुसुमपूर्वैः ।
भयदो जनसंवासाद्यदि भाण्डान्यपनयेत्काकः ।। ९४.१३ ।।
वाहनशस्त्रौपानत्छत्रछायाअङ्गकुट्टने मरणम् ।
तत्पूजायां पूजा विष्ठाकरणे +अन्नसम्प्राप्तिः ।। ९४.१४ ।।
यद्द्रव्यं उपनयेत्तस्य लब्धिरपहरति चेत्प्रणाशः स्यात् ।
पीतद्रव्यैः[क्.पीतद्रव्ये] कनकं वस्त्रं *कार्पासिकैः सितैः[क्.कार्पासिके सिते] रूप्यम् ।। ९४.१५ ।।
सक्षीरार्जुनवञ्जुलकूलद्वयपुलिनगा रुवन्तश्च ।
प्रावृषि वृष्टिं दुर्दिनं अनृतौ स्नाताश्च पांशुजलैः ।। ९४.१६ ।।
दारुणनादस्तरुकोटरौपगो वायसो महाभयदः ।
सलिलं अवलोक्य विरुवन्वृष्टिकरो +अब्दानुरावी च ।। ९४.१७ ।।
दीप्तौद्विग्नो विटपे विकुट्टयन्वह्निकृद्विधुतपक्षः ।
रक्तद्रव्यं दग्धं तृणकाष्ठं वा गृहे विदधत् ।। ९४.१८ ।।
ऐन्द्र्यऽदिदिगवलोकी सूर्याभिमुखो रुवन्गृहे गृहिनः ।
राजभयचोरबन्धनकलहाः स्युः पशुभयं चैति ।। ९४.१९ ।।
शान्तां ऐन्द्रीं अवलोकयन्रुयाद्राजपुरुषमित्रऽप्तिः ।
भवति च सुवर्णलब्धिः शाल्यन्नगुडाशनऽप्तिश्च ।। ९४.२० ।।
आग्नेय्यां अनलाजीविकयुवतिप्रवरधातुलाभश्च ।
याम्ये माषकुलूत्था[क्.कुलत्था]भोज्यं गान्धर्विकैर्योगः ।। ९४.२१ ।।
नैरृत्यां दूताश्वौपकरणदधितैलपललभोज्यऽप्तिः ।
वारुण्यां मांससुराआसवधान्यसमुद्ररत्नऽप्तिः ।। ९४.२२ ।।
मारुत्यां शस्त्रऽयुधसरोजवल्लीफलाशनऽप्तिश्च ।
सौम्यायां परमान्नाशनं तुरङ्गाम्बरप्राप्तिः ।। ९४.२३ ।।
ऐशान्यां सम्प्राप्तिर्घृतपूर्णानां भवेदनडुहश्च ।
एवं फलं गृहपतेर्गृहपृष्ठसमाश्रिते भवति ।। ९४.२४ ।।
गमने कर्णसमश्चेत्क्षेमाय न कार्यसिद्धये भवति ।।
अभिमुखं उपैति यातुर्विरुवन्विनिवर्तयेद्यात्राम् ।। ९४.२५ ।।
वामे वाशित्वाआदौ दक्षिणपार्श्वे +अनुवाशते यातुः ।
अर्थापहारकारी तद्विपरीतो +अर्थसिद्धिकरः ।। ९४.२६ ।।
यदि वाम एव विरुवन्[क्.विरुयात्] मुहुर्मुहुर्यायिनो +अनुलोमगतिः ।
अर्थस्य भवति सिद्ध्यै प्राच्यानां दक्षिणश्चएवम् ।। ९४.२७ ।।
वामः प्रतिलोमगतिर्विरुवन्[क्.वाशन्] गमनस्य विघ्नकृद्भवति ।
तत्रस्थस्यएव फलं कथयति तद्वाञ्छितं गमने ।। ९४.२८ ।।
दक्षिणविरुतं कृत्वा वामे विरुयाद्यथाईप्सितावाप्तिः ।
प्रतिवाश्य पुरो यायाद्द्रुतं *अत्यर्थागमो भवति[क्.अग्रे +अर्थागमो +अतिमहान्] ।। ९४.२९ ।।
प्रतिवाश्य पृष्टःअतो दक्षिणेन यायाद्द्रुतं क्षतजकारी[क्.क्षतजकर्ता] ।
एकचरणो +अर्कं ईक्षन्विरुवंश्च पुरो रुधिरहेतुः ।। ९४.३० ।।
दृष्ट्वाअर्कं एकपादस्तुण्डेन लिखेद्यदा स्वपिच्छानि ।
पुरतो जनस्य महतो वधं अभिधत्ते तदा बलिभुक् ।। ९४.३१ ।।
सस्यौपेते क्षेत्रे विरुवति शान्ते ससस्यभूलब्धिः ।
आकुलचेष्टो विरुवन्सीमान्ते क्लेशकृद्यातुः ।। ९४.३२ ।।
सुस्निग्धपत्रपल्लवकुसुमफलऽनम्रसुरभिमधुरेषु ।
सक्षीराव्रणसंस्थितमनोज्ञवृक्षेषु चार्थसिद्धिकरः[क्.चार्थकरः] ।। ९४.३३ ।।
निष्पन्नसस्यशाद्वल[क्.शाड्वल, क्ऽस्त्र्. शाद्वल]भवनप्रासादहर्म्यहरितेषु ।
धन्य[क्.धान्य]उच्छ्रयमङ्गल्येषु चएव विरुवन्धनऽगमदः ।। ९४.३४ ।।
गोपुच्छस्थे वल्मीकगे +अथ वा दर्शनं भुजङ्गस्य ।
सद्यो ज्वरो महिषगे विरुवति गुल्मे फलं स्वल्पम् ।। ९४.३५ ।।
कार्यस्य व्याघातस्तृणकूटे वामगे +अम्बुसंस्थे[क्.अस्थिसंस्थे] वा ।
ऊर्ध्वाग्निप्लुष्टे +अशनिहते च काके वधो भवति ।। ९४.३६ ।।
कण्टकिमिश्रे सौम्ये सिद्धिः कार्यस्य भवति कलहश्च ।
कण्टकिनि भवति कलहो वल्लीपरिवेष्टिते बन्धः ।। ९४.३७ ।।
छिन्नाग्रे +अङ्गच्छेदः कलहः शुष्कद्रुमस्थिते ध्वांक्षे ।
पुरतश्च पृष्ठतो वा गोमयसंस्थे धनप्राप्तिः ।। ९४.३८ ।।
मृतपुरुषाङ्गावयवस्थितो +अभिविरुवन्[क्.+अभिवाशन्] करोति मृत्युभयम् ।
भञ्जन्नस्थि च चञ्च्वा यदि विरुवत्य्[क्.वाशत्य्] अस्थिभङ्गाय ।। ९४.३९ ।।
रज्ज्वस्थिकाष्ठकण्टकिनिःसारशिरोरुहऽनने रुवति ।
भुजगगददंष्ट्रितस्करशस्त्राग्निभयान्यनुक्रमशः ।। ९४.४० ।।
सितकुसुमाशुचिमांसऽनने +अर्थसिद्धिर्यथाईप्सिता यातुः ।
*पक्षौ धुन्वन्न्[क्.धुन्वन्पक्षाव्] ऊर्ध्वऽनने च विघ्नं मुहुः क्वणति ।। ९४.४१ ।।
यदि शृङ्खलां वरत्रां वल्लीं वाआदाय वाशते बन्धः ।
पाषाणस्थे च भयं क्लिष्टापूर्वाध्विकयुतिश्च ।। ९४.४२ ।।
अन्योन्यभक्षसंक्रामितऽनने तुष्टिरुत्तमा भवति ।
विज्ञेयः स्त्रीलाभो दम्पत्योर्विरुवतोर्[क्.वाशतोर्] युगपत् ।। ९४.४३ ।।
प्रमदाशिरौपगतपूर्णकुम्भसंस्थे +अङ्गनाअर्थसम्प्राप्तिः ।
घटकुट्टने सुतविपद्घटौपहदने +अन्नसम्प्राप्तिः ।। ९४.४४ ।।
स्कन्धावारऽदीनां निवेशसमये रुवंश्चलत्पक्षः ।
सूचयते +अन्यत्स्थानं[क्.+अन्यस्थानं] निश्चलपक्षस्तु भयमात्रम् ।। ९४.४५ ।।
प्रविशद्भिः सैन्यऽदीन्सगृध्रकङ्कैर्विनाआमिषं ध्वांक्षैः ।
अविरुद्धैस्तैः प्रीतिर्द्विषतां युद्धं विरुद्धैश्च ।। ९४.४६ ।।
बन्धः सूकरसंस्थे पङ्काक्ते सूकरे द्विके +अर्थऽप्तिः ।
क्षेमं खरौष्ट्रसंस्थे के चित्प्राहुर्वधं तु खरे ।। ९४.४७ ।।
वाहनलाभो +अश्वगते विरुवत्यनुयायिनि क्षतजपातः ।
अन्ये +अप्यनुव्रजन्तो यातारं काकवद्विहगाः ।। ९४.४८ ।।
द्वात्रिंशत्प्रविभक्ते दिग्चक्रे यद्यथा समुद्दिष्टम् ।
तत्तत्तथा विधेयं गुणदोषफलं यियासूनाम् ।। ९४.४९ ।।
का इति काकस्य रुतं स्वनिलयसंस्थस्य निष्फलं प्रोक्तम् ।
कव इति चऽत्मप्रीत्यै कैति रुते स्निग्धमित्रऽप्तिः ।। ९४.५० ।।
कराइति कलहं कुरुकुरु च हर्षं अथ कटकटैति दधिभक्तम् ।
केके विरुतं कुकु वा धनलाभं यायिनः प्राह ।। ९४.५१ ।।
खरेखरे पथिकऽगमं आह कखाखाइति यायिनो मृत्युम् ।
गमनप्रतिषेधिकं आ कखला[क्.आखलखल, क्ऽस्त्र्. आ खलखल] सद्यो +अभिवर्षाय ।। ९४.५२ ।।
काकाइति विघातः[क्.विघातं] काकटिइति चऽहारदूषणं प्राह ।
प्रीत्यास्पदं कवकवैति बन्धं एवं कगाकुरिति ।। ९४.५३ ।।
करगौ[क्.करकौ] विरुते वर्षं गुडवत्त्रासाय वडिति वस्त्रऽप्तिः ।
कलयैति च संयोगः शूद्रस्य ब्राह्मणैः साकम् ।। ९४.५४ ।।
कड्[क्.फड्] इति फलाप्तिः फलदा[क्.फलवा]
हिहिदर्शनं टड्डिति[क्.टडिति] प्रहाराः स्युः ।
स्त्रीलाभः स्त्रीति रुते
गडिति गवां पुडिति पुष्पाणाम् ।। ९४.५५ ।।
युद्धाय टाकुटाक्विति गुहु वह्निभयं कटेकटे कलहः ।
टाकुलि चिण्टिचि केकेकैति पुरं चैति दोषाय ।। ९४.५६ ।।
काकद्वयस्यापि समानं एतत्
फलं यदुक्तं रुतचेष्टितऽद्यैः ।
पतत्रिणो +अन्ये +अपि यथाएव काको
वन्याः श्ववच्चौपरिदंष्ट्रिणो ये ।। ९४.५७ ।।
स्थलसलिलचराणां व्यत्ययो मेघकाले
प्रचुरसलिलवृष्ट्यै शेषकाले भयाय ।
मधु भवननिलीनं तत्करोत्याशु शून्यं
मरणं अपि *च नीला[क्.निलीना] मक्षिका मूर्ध्नि लीना ।। ९४.५८ ।।
विनिक्षिपन्त्यः सलिले +अण्डकानि
पिपीलिका वृष्टिनिरोधं आहुः ।
तरुं स्थलं[क्.तरुस्थलं, क्ऽस्त्र्.तरुं स्थलं] वाअपि नयन्ति निम्नाद्
यदा तदा ताः कथयन्ति वृष्टिम् ।। ९४.५९ ।।
कार्यं तु मूलशकुने +अन्तरजे तदह्नि
विन्द्यात्फलं नियतं एवं इमे विचिन्त्याः ।
प्रारम्भयानसमयेषु तथा प्रवेशे
ग्राह्यं क्षुतं न शुभदं क्व चिदप्युशन्ति ।। ९४.६० ।।
शुभं दशापाकं अविघ्नसिद्धिं
मूलाभिरक्षां अथ वा सहायान् ।
दुष्टस्य[क्.इष्टस्य] संसिद्धिं अनामयत्वं
वदन्ति ते मानयितुर्नृपस्य ।। ९४.६१ ।।
क्रोशादूर्ध्वं शकुन[क्.शकुनि]विरुतं निष्फलं प्राहुरेके
तत्रानिष्टे प्रथमशकुने मानयेत्पञ्च षट्च ।
प्राणायामान्नृपतिरशुभे षोडशएव द्वितीये
प्रत्यागच्छेत्स्वभवनं अतो यद्यनिष्टस्तृतीयः ।। ९४.६२ ।।