बृहत्संहिता/अध्यायः ८०

विकिस्रोतः तः
← अध्यायः ७९ बृहत्संहिता
अध्यायः ८०
वराहमिहिरः
अध्यायः ८१ →

८० मुक्तालक्षणाध्यायः ।।

 द्विपभुजगशुक्तिशङ्खाभ्रवेणुतिमिसूकरप्रसूतानि ।
 मुक्ताफलानि तेषां बहुसाधु च शुक्तिजं भवति ।। ८०.०१ ।।

 सिंहलकपारलौकिकसौराष्ट्रिकताम्रपर्णिपारशवाः ।
 कौबेरपाण्ड्यवाटकहैमा इत्याकरास्त्व्[क्.ह्य्] अष्टौ ।। ८०.०२ ।।

 बहुसंस्थानाः स्निग्धाः[क्.स्निग्धा] हंसाभाः सिंहलाकराः स्थूलाः ।
 ईषत्ताम्राः श्वेतास्तमोवियुक्ताश्च ताम्राख्याः ।। ८०.०३ ।।

 कृष्णाः श्वेताः पीताः सशर्कराः पारलौकिका विषमाः ।
 न स्थूला नात्यल्पा नवनीतनिभाश्च सौराष्ट्राः ।। ८०.०४ ।।

 ज्योतिष्मत्यः[क्.मन्तः] शुभ्रा गुरवो +अतिमहागुणाश्च पारशवाः ।
 लघु जर्जरं दधिनिभं *बृहद्द्विसंस्थानम्[क्.बृहद्विसंस्थानम्] अपि हैमम् ।। ८०.०५ ।।

 विषमं कृष्णश्वेतं[क्.कृष्णं श्वेतम्] लघु कौबेरं प्रमाणतेजोवत् ।
 निम्बफलत्रिपुटधान्यकचूर्णाः स्युः पाण्ड्यवाटभवाः ।। ८०.०६ ।।

 अतसीकुसुमश्यामं वैष्णवं ऐन्द्रं शशाङ्कसङ्काशम् ।
 हरितालनिभं वारुणं असितं यमदैवतं भवति ।। ८०.०७ ।।

 परिणतदाडिमगुलिकागुञ्जाताम्रं च वायुदैवत्यम् ।
 निर्धूमानलकमलप्रभं च विज्ञेयं आग्नेयम् ।। ८०.०८ ।।

 माषकचतुष्टयधृतस्यएकस्य शताहता त्रिपञ्चाशत् ।
 कार्षापणा निगदिता मूल्यं तेजोगुणयुतस्य ।। ८०.०९ ।।

 माषकदलहान्यातो द्वात्रिंशद्विंशतिस्त्रयोदश च ।
 अष्टौ च शतानि शतत्रयं त्रिपञ्चाशता सहितम् ।। ८०.१० ।।

 पञ्चत्रिंशं शतं इति चत्वारः कृष्णला नवतिमूल्याः ।
 सार्धास्तिस्रो गुञ्जाः सप्ततिमूल्यं धृतं रूपम् ।। ८०.११ ।।

 गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य ।
 रूपकपञ्चत्रिंशत्त्रयस्य गुञ्जाअर्धहीनस्य ।। ८०.१२ ।।

 पलदशभागो धरणं तद्यदि मुक्तास्त्रयोदश सुरूपाः ।
 *त्रिशती[ऊ.त्रिंशती] सपञ्चविंशा रूपकसङ्ख्या कृतं मूल्यम् ।। ८०.१३ ।।

 षोडशकस्य द्विशती विंशतिरूपस्य सप्ततिः सशता ।
 यत्पञ्चविंशतिधृतं तस्य शतं त्रिंशता सहितम् ।। ८०.१४ ।।

 त्रिंशत्सप्ततिमूल्यं चत्वारिंशच्छतार्धमूल्यं[क्.मूल्या] च ।
 षष्टिः पञ्चोना वा धरणं पञ्चाष्टकं मूल्यम् ।। ८०.१५ ।।

 मुक्ताशीत्या त्रिंशच्छतस्य सा पञ्चरूपकविहीना ।
 द्वित्रिचतुःपञ्चशता द्वादशषट्पञ्चकत्रितयम् ।। ८०.१६ ।।

 पिक्कापिच्चाअर्घाअर्धा रवकः सिक्थं त्रयोदशऽद्यानाम् ।
 संज्णाः परतो निगराश्चूर्णाश्चाशीतिपूर्वाणाम् ।। ८०.१७ ।।

 एतद्गुणयुक्तानां धरणधृतानां प्रकीर्तितं[क्.प्रकीतितम्] मूल्यम् ।
 परिकल्प्यं अन्तराले हीनगुणाणां क्षयः कार्यः ।। ८०.१८ ।।

 कृष्णश्वेतकपीतकताम्राणां ईषदपि च विषमाणाम् ।
 त्र्यंशोनं विषमकपीतयोश्च षड्भागदलहीनम् ।। ८०.१९ ।।

 ऐरावतकुलजानां पुष्यश्रवणैन्दुसूर्यदिवसेषु ।
 ये चोत्तरायणभवा ग्रहणे +अर्केन्द्वोश्च भद्रेभाः ।। ८०.२० ।।

 तेषां किल जायन्ते मुक्ताः कुम्भेषु सरदकोशेषु ।
 बहवो बृहत्प्रमाणा बहुसंस्थानाः प्रभायुक्ताः ।। ८०.२१ ।।

 नैषां अर्घः कार्यो न च वेधो +अतीव ते प्रभायुक्ताः ।
 सुतविजयऽरोग्यकरा महापवित्रा धृता राज्ञाम् ।। ८०.२२ ।।

 दंष्ट्रामूले शशिकान्तिसप्रभं बहुगुणं च वाराहम् ।
 तिमिजं मत्स्याआक्षिइभं बृहत्पवित्रं बहुगुणं च ।। ८०.२३ ।।

 वर्षौपलवज्जातं वायुस्कन्धाच्च सप्तमाद्भ्रष्टम् ।
 ह्रियते किल खाद्दिव्यैस्तडित्प्रभं मेघसम्भूतम् ।। ८०.२४ ।।

 तक्षकवासुकिकुलजाः कामगमा ये च पन्नगास्तेषाम् ।
 स्निग्धा नीलद्युतयो भवन्ति मुक्ताः फणस्यान्ते ।। ८०.२५ ।।

 शस्ते +अवनिप्रदेशे रजतमये भाजने स्थिते च यदि ।
 वर्षति देवो +अकस्मात्तज्ज्ञेयं नागसम्भूतम् ।। ८०.२६ ।।

 अपहरति विषमलक्ष्मीं क्षपयति शत्रून्यशो विकाशयति ।
 भौजङ्गं नृपतीनां धृतं अकृतार्घं विजयदं च ।। ८०.२७ ।।

 कर्पूरस्फटिकनिभं चिपिटं विषमं च वेणुजं ज्ञेयम् ।
 शङ्खौद्भवं शशिनिभं वृत्तं भ्राजिष्णु रुचिरं च ।। ८०.२८ ।।

 शङ्खतिमिवेणुवारणवराहभुजगाभ्रजान्य्*अवैद्यानि[क्.अवैध्यानि ऊ.अवेद्यानि] ।
 अमितगुणत्वाच्चएषां अर्घः शास्त्रे न निर्दिष्टः ।। ८०.२९ ।।

एतानि सर्वाणि महागुणानि
सुताअर्थसौभाग्ययशस्कराणि ।
रुक्शोकहन्तॄणि च पार्थिवानां
मुक्ताफलानिईप्सितकामदानि ।। ८०.३० ।।

 सुरभूषणं लतानां सहस्रं अष्टोत्तरं चतुर्हस्तम् ।
 इन्दुच्छन्दो[क्.इन्द्रच्छन्दो] नाम्ना विजयच्छन्दस्तदर्धेन ।। ८०.३१ ।।

 शतं अष्टयुतं हारो देवच्छन्दो ह्यशीतिरेकयुता ।
 अष्टाष्टको +अर्धहारो रश्मिकलापश्च नवषट्कः ।। ८०.३२ ।।

 द्वात्रिंशता तु गुच्छो विंशत्या कीर्तितो +अर्धगुच्छाख्यः ।
 षोडशभिर्माणवको द्वादशभिश्चार्धमाणवकः ।। ८०.३३ ।।

 मन्दरसंज्ञो +अष्टाभिः पञ्चलता हारफलकं इत्युक्तम् ।
 सप्ताविंशतिमुक्ता हस्तो नक्षत्रमालाइति ।। ८०.३४ ।।

 अन्तरमणिसंयुक्ता मणिसोपानं सुवर्णगुलिकैर्वा ।
 तरलकमणिमध्यं तद्विज्ञेयं चाटुकारं इति ।। ८०.३५ ।।

एकावली नाम यथेष्टसङ्ख्या
हस्तप्रमाणा मणिविप्रयुक्ता ।
संयोजिता या मणिना तु मध्ये
यष्टिइति सा भूषणविद्भिरुक्तम् ।। ८०.३६ ।।