बृहत्संहिता/अध्यायः ७०

विकिस्रोतः तः
← अध्यायः ६९ बृहत्संहिता
अध्यायः ७०
वराहमिहिरः
अध्यायः ७१ →

७० वस्त्रच्छेदलक्षणाध्यायः ।।

 प्रभूतवस्त्रदाअश्विनी भरण्यथापहारिणी ।
 प्रदह्यते +अग्निदैवते प्रजेस्वरे +अर्थसिद्धयः ।। ७०.०१ ।।

 मृगे तु मूषकाद्भयं व्यसुत्वं एव शाङ्करे ।
 पुनर्वसौ शुभऽगमस्तदग्रभे धनैर्युतिः ।। ७०.०२ ।।

 भुजङ्गभे विलुप्यते मघासु मृत्युं आदिशेत् ।
 भगऽह्वये नृपाद्भयं धनऽगमाय चौत्तरा ।। ७०.०३ ।।

 करेण कर्मसिद्धयः शुभऽगमस्तु चित्रया ।
 शुभं च भोज्यं आनिले द्विदैवते जनप्रियः ।। ७०.०४ ।।

 सुहूद्युतिश्[क्.ऊ.सुहृद्युतिश्] च मित्रभे तदग्रभे[क्.पुरन्दरे] +अम्बरक्षयः ।
 जलप्लुतिश्च नैरृते रुजो जलाधिदैवते ।। ७०.०५ ।।

 मिष्टं अन्नं अपि वैश्वदैवते वैष्णवे भवति नेत्ररोगता ।
 धान्यलब्धिर्[क्.लब्धिम्] अपि[क्.अथ] वासवे[क्.विश्वदैवते] विदुर्वारुणे विषकृतं महद्भयम् ।। ७०.०६ ।।

 भद्रपदासु भयं सलिलौत्थं
 तत्परतश्च भवेत्सुतलब्धिः ।
 रत्नयुतिं कथयन्ति च पौष्णे
 यो +अभिनवाम्बरं इच्छति भोक्तुम् ।। ७०.०७ ।।

 विप्रमतादथ भूपतिदत्तं यच्च विवाहविधावभिलब्धम् । [क्.७ ।।

 तेषु गुणै रहितेष्वपि भोक्तुं नूतनं अम्बरमिष्टफलं स्यात् ।।] क्.७१ ।।

 भोक्तुं नवाम्बरं शस्तं ऋक्षे +अपि गुणवर्जिते ।
 विवाहे राजसम्माने ब्रह्मणाणां च सम्मते ।। ७०.०८ ।।

 वस्त्रस्य कोणेषु वसन्ति देवा नराश्च पाशान्तदशान्तमध्ये ।
 शेषास्त्रयश्चात्र निशाचरांशास्तथएव शय्याआसनपादुकासु ।। ७०.०९ ।।

 लिप्ते मषीगोमयकर्दमऽद्यैश्छिन्ने प्रदग्धे स्फुटिते च विन्द्यात् ।
 पुष्टं नवे +अल्पाल्पतरं च भुक्ते पापं शुभं चाधिकं उत्तरीये ।। ७०.१० ।।

 रुग्राक्षसांशेस्वथ वा +अपि मृत्युः पुञ्जन्मतेजश्च मनुष्यभागे ।
 भागे +अमराणां अथ भोगवृद्धिः प्रान्तेषु सर्वत्र वदन्त्यनिष्टम् ।। ७०.११ ।।

 कङ्कप्लवौलूककपोतकाकक्रव्यादगोमायुखरौष्ट्रसर्पैः ।
 छेदऽकृतिर्दैवतभागगाअपि पुंसां भयं मृत्युसमं करोति ।। ७०.१२ ।।

 छत्रध्वजस्वस्तिकवर्धमानश्रीवृक्षकुम्भाम्बुजतोरणऽद्यैः ।
 छेदऽकृतिर्नैरृतभागगाअपि पुंसां विधत्ते न चिरेण लक्ष्मीम् ।। ७०.१३ ।।