बृहत्संहिता/अध्यायः ६७
← अध्यायः ६६ | बृहत्संहिता अध्यायः ६७ वराहमिहिरः |
अध्यायः ६८ → |
६७ पुरुषलक्षनाध्यायः ।।
उन्मानमानगतिसंहतिसारवर्ण
स्नेहस्वरप्रकृतिसत्त्वं अनूकं आदौ ।
क्षेत्रं मृजां च विधिवत्कुशलो +अवलोक्य
सामुद्रविद्वदति यातं अनागतं वा[क्.च] ।। ६७.०१ ।।
अस्वेदनौ मृदुतलौ कमलौदरऽभौ
श्लिष्टाङ्गुली रुचिरताम्रनखौ सुपार्ष्णी ।
उष्णौ शिराविरहितौ सुनिगूढगुल्फौ
कूर्मौन्नतौ च चरणौ मनुजेश्वरस्य ।। ६७.०२ ।।
शूर्पऽकारविरूक्षपाण्डुरनखौ वक्रौ शिरासन्ततौ
संशुष्कौ विरलाङ्गुली च चरणौ दारिद्र्यदुःखप्रदौ ।
मार्गायौत्कटकौ कषायसदृशौ वंशस्य विच्छेददौ[क्.विच्छित्तिदौ]
ब्रह्मघ्नौ परिपक्वमृद्द्युतितलौ पीताव्*अगम्यारतौ[क्.अगम्यरतौ] ।। ६७.०३ ।।
प्रविरलतनुरोमवृत्तजङ्घा
द्विरदकरप्रतिमैर्वरऊरुभिश्च ।
उपचितसमजानवश्च भूपा
धनरहिताः श्वशृगालतुल्यजङ्घाः ।। ६७.०४ ।।
रोमएकएकं कूपके पार्थिवानां
द्वे द्वे ज्ञेये पण्डितश्रोत्रियाणाम् ।
ञ्याद्यैर्निःस्वा मानवा दुःखभाजः
केशाश्चएवं निन्दिताः पूजिताश्च ।। ६७.०५ ।।
निर्मांसजानुर्म्रियते प्रवासे
सौभाग्यं अल्पैर्विकटैर्दरिद्राः ।
स्त्रीनिर्जिताश्चएव[क्.चापि] भवन्ति निम्नै
राज्यं समांसैश्च महद्भिरायुः ।। ६७.०६ ।।
लिङ्गे +अल्पे धनवानपत्यरहितः स्थूले *+अपि हीनो[क्.विहीनो] धनैर्
मेढ्रे वामनते सुतार्थरहितो वक्रे +अन्यथा पुत्रवान् ।
दारिद्र्यं विनते त्वधो +अल्पतनयो लिङ्गे शिरासन्तते
स्थूलग्रन्थियुते सुखी मृदु करोत्यन्तं प्रमेहऽदिभिः ।। ६७.०७ ।।
कोशनिगूढैर्भूपा दीर्घैर्भग्नैश्च वित्तपरिहीनाः ।
ऋजुवृत्तशेफसो लघुशिरालशिश्नाश्च धनवन्तः ।। ६७.०८ ।।
जलमृत्युरेकवृषणो विषमैः स्त्रीचञ्चलः समैः क्षितिपः ।
ह्रस्वऽयुश्चौद्बद्धैः प्रलम्बवृषणस्य शतं आयुः ।। ६७.०९ ।।
रक्तैराढ्या मणिभिर्निर्द्रव्याः पाण्डुरैश्च मलिनैश्च ।
सुखिनः सशब्दमूत्रा निःस्वा निःशब्दधाराश्च ।। ६७.१० ।।
द्वित्रिचतुर्धाराभिः प्रदक्षिणऽवर्तवलितमूत्राभिः ।
पृथिवीपतयो ज्ञेया विकीर्णमूत्राश्च धनहीनाः ।। ६७.११ ।।
एकएव मूत्रधारा वलिता *रूपप्रदा न सुतदात्री[क्.रूपप्रधानसुतदात्री] ।
स्निग्धौन्नतसममणयो धनवनितारत्नभोक्तारः । ६७.१२ ।।
मणिभिश्च मध्यनिम्नैः कन्यापितरो भवन्ति निःस्वाश्च ।
बहुपशुभाजो मध्यौन्नतैश्च नात्युल्बणैर्धनिनः ।। ६७.१३ ।।
परिशुष्कबस्तिशीर्षैर्धनरहिता दुर्भगाश्च विज्ञेयाः ।
कुसुमसमगन्धशुक्रा विज्ञातव्या महीपालाः ।। ६७.१४ ।।
मधुगन्धे बहुवित्ता मत्स्यसगन्धे बहून्यपत्यानि ।
तनुशुक्रः स्त्रीजनको मांससगन्धो महाभोगी ।। ६७.१५ ।।
मदिरागन्धे यज्वा क्षारसगन्धे च रेतसि दरिद्रः ।
शीघ्रं मैथुनगामी दीर्घऽयुरतो +अन्यथाअल्पायुः ।। ६७.१६ ।।
निःस्वो +अतिस्थूलस्फिक्समांसलस्फिक्सुखान्वितो भवति ।
व्याघ्रान्तो +अध्यर्धस्फिग्मण्डूकस्फिग्नराधिपतिः ।। ६७.१७ ।।
सिंहकटिर्मनुजेन्द्रः कपिकरभकटिर्धनैः परित्यक्तः ।
समजठरा भोगयुता घटपिठरनिभौदरा निःस्वाः ।। ६७.१८ ।।
अविकलपार्श्वा धनिनो निम्नैर्वक्रैश्च भोगसन्त्यक्ताः ।
समकुक्षा भोगाढ्या निम्नाभिर्भोगपरिहीनाः ।। ६७.१९ ।।
उन्नतकुक्षाः क्षितिपाः कुटिलाः स्युर्मानवा विषमकुक्षाः ।
सर्पौदरा दरिद्रा भवन्ति बह्वाशिनश्चएव ।। ६७.२० ।।
परिमण्डलौन्नताभिर्विस्तीर्णाभिश्च नाभिभिः सुखिनः ।
अल्पा[क्.स्वल्पा] त्वदृश्यनिम्ना नाभिः क्लेशऽवहा भवति ।। ६७.२१ ।।
वलिमध्यगता विषमा *शूलाद्बाधां[क्.शूलाबाधं] करोति नैस्व्यं[क्.नैःस्व्यं] च ।
शाठ्यं वामऽवर्ता करोति मेधां प्रदक्षिणतः ।। ६७.२२ ।।
पार्श्वऽयता चिरऽयुषं उपरिष्टाच्चईश्वरं गवऽढ्यं अधः ।
शतपत्रकर्णिकाआभा नाभिर्मनुजेश्वरं कुरुते ।। ६७.२३ ।।
शस्त्रान्तं स्त्रीभोगिनं आचार्यं बहुसुतं यथासंख्यम् ।
एकद्वित्रिचतुर्भिर्वलिभिर्विन्द्याद्नृपं त्ववलिम् ।। ६७.२४ ।।
विषमवलयो मनुष्या भवन्त्यगम्याअभिगामिनः पापाः ।
ऋजुवलयः सुखभाजः परदारद्वेषिणश्चएव ।। ६७.२५ ।।
मांसलमृदुभिः पार्श्वैः प्रदक्षिणऽवर्तरोमभिर्भूपाः ।
विपरीतैर्निर्द्रव्याः सुखपरिहीनाः परप्रेष्याः ।। ६७.२६ ।।
सुभगा भवन्त्यनुद्वद्ध[क्.अनुबद्ध]चूचुका निर्धना विषमदीर्घैः ।
पीनौपचितनिमग्नैः क्षितिपतयश्चूचुकैः सुखिनः ।। ६७.२७ ।।
हृदयं समुन्नतं पृथु न वेपनं मांसलं च नृपतीनाम् ।
अधनानां विपरीतं खररोमचितं शिरालं च ।। ६७.२८ ।।
समवक्षसो +अर्थवन्तः पीनैः *शूरा ह्य्[क्.शूरास्त्व्] अकिञ्चनास्तनुभिः ।
विषमं वक्षो येषां ते निःस्वाः शस्त्रनिधनाश्च ।। ६७.२९ ।।
विषमैर्विषमो जत्रुभिरर्थविहीनो +अस्थिसन्धिपरिणद्धैः ।
उन्नतजत्रुर्भोगी[क्.भागी] निम्नैर्निःस्वो +अर्थवान्पीनैः ।। ६७.३० ।।
चिपिटग्रीवो निःस्वः शुष्का सशिरा च यस्य वा ग्रीवा ।
महिषग्रीवः शूरः शस्त्रान्तो वृषसमग्रीवः ।। ६७.३१ ।।
कम्बुग्रीवो राजा प्रलम्बकण्ठः प्रभक्षणो भवति ।
पृष्ठं अभग्नं अरोमशं अर्थवतां अशुभदं अतो +अन्यत् ।। ६७.३२ ।।
अस्वेदनपीनौन्नतसुगन्ध[क्.सुगन्धि]समरोमसङ्कुलाः कक्षाः ।
विज्ञातव्या धनिनां अतो +अन्यथाअर्थैर्विहीनानाम् ।। ६७.३३ ।।
निर्मांसौ रोमचितौ भग्नावल्पौ च निर्धनस्यांसौ ।
विपुलावव्युच्छिन्नौ सुश्लिष्टौ सौख्यवीर्यवताम् ।। ६७.३४ ।।
करिकरसदृशौ वृत्तावाजान्ववलम्बिनौ समौ पीनौ ।
बाहू पृथिवीईशानां अधनानां[क्.अधमानां] रोमशौ ह्रस्वौ ।। ६७.३५ ।।
हस्ताङ्गुलयो दीर्घाश्चिरऽयुषां अवलिताश्च सुभगानाम् ।
मेधाविनां च सूक्ष्माश्चिपिटाः परकर्मनिरतानाम् ।। ६७.३६ ।।
स्थूलाभिर्धनरहिता बहिर्नताभिश्च शस्त्रनिर्याणाः ।
कपिसदृशकरा धनिनो व्याघ्रौपमपाणयः पापाः ।। ६७.३७ ।।
मणिबन्धनैर्निगूढैर्दृढैश्च सुश्लिष्टसन्धिभिर्भूपाः ।
हीनैर्हस्तच्छेदः श्लथैः सशब्दैश्च निर्द्रव्याः ।। ६७.३८ ।।
पितृवित्तेन विहीना भवन्ति निम्नेन करतलेन नराः ।
संवृतनिम्नैर्धनिनः प्रोत्तानकराश्च दातारः ।। ६७.३९ ।।
विषमैर्विषमा निःस्वाश्च करतलैरीश्वराश्[क्.ईश्वरास्] तु लाक्षाभैः ।
पीतैरगम्यवनिताअभिगामिनो निर्धना रूक्षैः ।। ६७.४० ।।
तुषसदृशनखाः क्लीबाश्चिपिटैः स्फुटितैश्च वित्तसन्त्यक्ताः ।
कुनखविवर्णैः परतर्कुकाश्च ताम्रैश्चमूपतयः ।। ६७.४१ ।।
अङ्गुष्ठयवैराढ्याः सुतवन्तो +अङ्गुष्ठ*मूलजैश्च यवैः[क्.मूलगैश्च यवः] ।
दीर्घाङ्गुलिपर्वाणः सुभगा दीर्घऽयुषश्चएव ।। ६७.४२ ।।
स्निग्धा निम्ना रेखा धनिनां तद्व्यत्ययेन निःस्वानाम् ।
विरलाङ्गुलयो निःस्वा धनसञ्चयिनो घनाङ्गुलयः ।। ६७.४३ ।।
तिस्रो रेखा मणिबन्धनौत्थिताः करतलौपगा नृपतेः ।
मीनयुगाङ्कितपाणिर्नित्यं सत्रप्रदो भवति ।। ६७.४४ ।।
वज्रऽकारा धनिनां विद्याभाजां च मीनपुच्छनिभाः ।
शङ्खऽतपत्रशिविकागजाश्वपद्मौपमा नृपतेः ।। ६७.४५ ।।
कलशमृणालपताकाअङ्कुशौपमाभिर्भवन्ति निधिपालाः ।
दामनिभाभिश्चऽढ्याः स्वस्तिकरूपाभिरैश्वर्यम् ।। ६७.४६ ।।
चक्रासिपरशुतोमरशक्तिधनुःकुन्तसन्निभा रेखाः ।
कुर्वन्ति चमूनाथं यज्वानं उलूखलऽकाराः ।। ६७.४७ ।।
मकरध्वजकोष्ठागारसन्निभाभिर्महाधनौपेताः ।
वेदीनिभेन चएवाग्निहोत्रिणो ब्रह्मतीर्थेन ।। ६७.४८ ।।
वापीदेवकुलऽद्यैर्धर्मं कुरुवन्ति च त्रिकोणाभिः ।
अङ्गुष्ठमूलरेखाः पुत्राः स्युर्दारिकाः सूक्ष्माः ।। ६७.४९ ।।
रेखाः प्रदेशिनिगताः[क्.गाः] शतायुषं कल्पनीयं ऊनाभिः ।
छिन्नाभिर्द्रुमपतनं बहुरेखाअरेखिणो निःस्वाः ।। ६७.५० ।।
अतिकृशदीर्घैश्चिबुकैर्निर्द्रव्या मांसलैर्धनौपेताः ।
विम्ब[क्.बिम्ब]उपमैरवक्रैरधरैर्भूपास्तनुभिरस्वाः ।। ६७.५१ ।।
ओष्ठैः स्फुटितविखण्डितविवर्णरूक्षैश्च धनपरित्यक्ताः ।
स्निग्धा घनाश्च दशनाः सुतीक्ष्णदंष्ट्राः समाश्च शुभाः ।। ६७.५२ ।।
जिह्वा रक्ता दीर्घा श्लक्ष्णा सुसमा च भोगिनो[क्.भोगिनां] ज्ञेया ।
श्वेता कृष्णा परुषा निर्द्रव्याणां तथा तालु ।। ६७.५३ ।।
वक्त्रं सौम्यं संवृतं अमलं श्लक्ष्णं समं च भूपानाम् ।
विपरीतं क्लेशभुजां महामुखं दुर्भगाणां च ।। ६७.५४ ।।
स्त्रीमुखं अनपत्यानां शाठ्यवतां मण्डलं परिज्ञेयम् ।
दीर्घं निर्द्रव्याणां भीरुमुखाः पापकर्माणः ।। ६७.५५ ।।
चतुरस्रं[क्.चतुरश्रं] धूर्तानां निम्नं वक्रं[क्.वक्त्रं] च तनयरहितानाम् ।
कृपणानां अतिह्रस्वं सम्पूर्णं भोगिनां कान्तम् ।। ६७.५६ ।।
अस्फुटिताग्रं स्निग्धं श्मश्रु शुभं मृदु च सन्नतं चएव ।
रक्तैः परुषैश्चौराः श्मश्रुभिरल्पैश्च विज्ञेयाः ।। ६७.५७ ।।
निर्मांसैः कर्णैः पापमृत्यवश्चर्पटैः सुबहुभोगाः ।
कृपणाश्च ह्रस्वकर्णाः शङ्कुश्रवणाश्चमूपतयः[क्.च भूपतयः] ।। ६७.५८ ।।
रोमशकर्णा दीर्घऽयुषश्च[क्.तु] धनभागिनो विपुलकर्णाः ।
क्रूराः शिराअवनद्धैर्व्यालम्बैर्मांसलैः सुखिनः ।। ६७.५९ ।।
भोगी त्वनिम्नगण्डो मन्त्री सम्पूर्णमांसगण्डो यः ।
सुखभाक्शुकसमनासश्चिरजीवी शुष्कनासश्च ।। ६७.६० ।।
छिन्नानुरूपयाअगम्यगामिनो दीर्घया तु सौभाग्यम् ।
आकुञ्चितया चौरः स्त्रीमृत्युः स्याच्चिपिटनासः ।। ६७.६१ ।।
धनिनो +अग्रवक्रनासा दक्षिणविनताः[क्.वक्राः] प्रभक्षणाः क्रूराः ।
ऋज्वी स्वल्पच्छिद्रा सुपुटा नासा सभाग्यानाम् ।। ६७.६२ ।।
धनिनां क्षुतं सकृद्द्वित्रिपिण्डितं ह्लादि सानुनादं च ।
दीर्घऽयुषां प्रमुक्तं विज्ञेयं संहतं चएव ।। ६७.६३ ।।
पद्मदलऽभैर्धनिनो रक्तान्तविलोचनाः[क्.विलोचनाः] श्रियः भाजः ।
मधुपिङ्गलैर्महार्था मार्जारविलोचनैः पापाः ।। ६७.६४ ।।
हरिणाक्षा मण्डललोचनाश्च जिह्मैश्च लोचनैश्चौराः ।
क्रूराः केकरनेत्रा गजसदृश*विलोचनाश्चमूपतयः[क्.दृशश्च भूपतयः] ।। ६७.६५ ।।
ऐश्वर्यं गम्भीरैर्नीलोत्पलकान्तिभिश्च विद्वांसः ।
अतिकृष्णतारकाणां अक्ष्णां उत्पाटनं भवति ।। ६७.६६ ।।
मन्त्रित्वं स्थूलदृशां *श्यावाक्षाणां [क्.श्यावाक्षाणां च]भवति सौभाग्यम् ।
दीना दृग्निःस्वानां स्निग्धा विपुलार्थभोगवताम् ।। ६७.६७ ।।
अभ्युन्नताभिरल्पऽयुषो विशालौन्नताभिरतिसुखिनः ।
विषमभ्रुवो दरिद्रा बालेन्दुनतभ्रुवः सधनाः ।। ६७.६८ ।।
दीर्घाअसंसक्ताभिर्धनिनः खण्डाभिरर्थपरिहीनाः ।
मध्यविनतभ्रुवो ये ते सक्ताः स्त्रीष्वगम्यासु ।। ६७.६९ ।।
उन्नतविपुलैः शङ्खैर्धनिनो[क्.धन्या] निम्नैः सुतार्थसन्त्यक्ताः ।
विषमललाटा विधना धनवन्तो +अर्धेन्दुसदृशेन ।। ६७.७० ।।
शुक्तिविशालैराचार्यता शिरासन्ततैरधर्मरताः ।
उन्नतशिराभिराढ्याः स्वस्तिकवत्संस्थिताभिश्च ।। ६७.७१ ।।
निम्नललाटा वधबन्धभागिनः क्रूरकर्मनिरताश्च ।
अभ्युन्नतैश्चमूपाः[क्.भूपाः] कृपणाः स्युः संवृत[क्.सङ्कट]ललाटाः ।। ६७.७२ ।।
रुदितं अदीनं अनश्रु स्निग्धं च शुभऽवहं मनुष्याणाम् ।
रूक्षं दीनं प्रचुराश्रु चएव न शुभप्रदं पुंसाम् ।। ६७.७३ ।।
हसितं शुभदं अकम्पं सनिमीलितलोचनं तु पापस्य ।
दुष्टस्य[क्.हृष्टस्य] हसितं असकृत्सौन्मादस्यासकृत्प्रान्ते ।। ६७.७४ ।।
तिस्रो रेखाः शतजीविनां ललाटऽयताः स्थिता यदि ताः ।
चतसृभिरवनीशत्वं नवतिश्चऽयुः सपञ्चाब्दा ।। ६७.७५ ।।
विच्छिन्नाभिश्चागम्यगामिनो नवतिरप्यरेखेण ।
केशान्तौपगताभी रेखाभिरशीतिवर्षऽयुः ।। ६७.७६ ।।
पञ्चभिरायुः सप्ततिरेकाग्रावस्थिताभिरपि षष्टिः ।
बहुरेखेण शतार्धं चत्वारिंशच्च वक्राभिः ।। ६७.७७ ।।
*भ्रूलग्नाभिस्त्रिंशद्[क्.त्रिम्शभ्रूलग्नाभिर्]विंशतिकश्चएव वामवक्राभिः ।
क्षुद्राभिः स्वल्पऽयुर्न्यूनाभिश्चान्तरे कल्प्यम् ।। ६७.७८ ।।
परिमण्डलैर्गवऽढ्याश्छत्रऽकारैः शिरोभिरवनीशाः ।
चिपिटैः पितृमातृघ्नाः करोटिशिरसां चिरान्मृत्युः ।। ६७.७९ ।।
घटमूर्धाअध्वानरुचिर्द्विमस्तकः पापकृद्धनैस्त्यक्तः ।
निम्नं तु शिरो महतां बहुनिम्नं अनर्थदं भवति ।। ६७.८० ।।
एकएकभवैः स्निग्धैः कृष्णैराकुञ्चितैरभिन्नाग्रैः ।
मृदुभिर्न चातिबहुभिः केशैः सुखभाग्नरेन्द्रो वा ।। ६७.८१ ।।
बहुमूलविषमकपिलाः स्थूलस्फुटिताग्रपरुषह्रस्वाश्च ।
अतिकुटिलाश्चातिघनाश्च मूर्धजा वित्तहीनानाम् ।। ६७.८२ ।।
यद्यद्गात्रं रूक्षं मांसविहीनं शिरावनद्धं च ।
तत्तदनिष्टं प्रोक्तं विपरीतं अतः शुभं सर्वम् ।। ६७.८३ ।।
त्रिषु विपुलो गम्भीरस्त्रिष्वेव षडुन्नतश्चतुर्ह्रस्वः ।
सप्तसु रक्तो राजा पञ्चसु दीर्घश्च सूक्ष्मश्च ।। ६७.८४ ।।
नाभी[क्.नाभिः] स्वरः सत्त्वं इति प्रशस्तं[क्.प्रदिष्टं]
गम्भीरं एतत्त्रितयं नराणाम् ।
उरो ललाटं वदनं च पुंसां
विस्तीर्णं एतत्त्रितयं प्रशस्तम् ।। ६७.८५ ।।
वक्षो +अथ कक्षा नखनासिकाआस्यं
कृकाटिका चैति षडुन्नतानि ।
ह्रस्वानि चत्वारि च लिङ्गपृष्ठं
ग्रीवा च जङ्घे च हितप्रदानि ।। ६७.८६ ।।
नेत्रान्तपादकरताल्वधरोष्ठजिह्वा
रक्ता नखाश्च खलु सप्त सुखऽवहानि ।
सूक्ष्माणि पञ्च दशनाङ्गुलिपर्वकेशाः
साकं त्वचा *कररुहा न च[क्.कररुहाश्च न] दुःखितानाम् ।। ६७.८७ ।।
हनुलोचनबाहुनासिकाः स्तनयोरन्तरं अत्र पञ्चमम् ।
इति दीर्घं इदं तु पञ्चकं न भवत्येव नृणां अभूभृताम् ।। ६७.८८ ।।
छाया शुभाशुभफलानि निवेदयन्ती
लक्ष्या मनुष्यपशुपक्षिषु लक्षणज्ञैः ।
तेजोगुणान्बहिरपि प्रविकाशयन्ती
दिपप्रभा स्फटिकरत्नघटस्थिताइव ।। ६७.८९ ।।
स्निग्धद्विजत्वग्नखरोमकेशाश्[क्.केश]
छाया सुगन्धा च महीसमुत्था ।
तुष्ट्यर्थलाभाभ्युदयान्करोति
धर्मस्य चाहन्यहनि प्रवृत्तिम् ।। ६७.९० ।।
स्निग्धा सिताच्छहरिता नयनाभिरामा
सौभाग्यमार्दवसुखाभ्युदयान्करोति ।
सर्वार्थसिद्धिजननी जननीइव चऽप्या
छाया फलं तनुभृतां शुभं आदधाति ।। ६७.९१ ।।
चण्डाअधृष्या पद्महेमाग्निवर्णा
युक्ता तेजोविक्रमैः सप्रतापैः ।
आग्नेयिइति प्राणिनां स्याज्जयाय
क्षिप्रं सिद्धिं वाञ्छितार्थस्य दत्ते[क्.धत्ते] ।। ६७.९२ ।।
मलिनपरुषकृष्णा पापगन्धाअनिलौत्था
जनयति वधबन्धव्याध्यनर्थार्थनाशान् ।
स्फटिकसदृशरूपा भाग्ययुक्ताआत्युदारा
निधिरिव गगनौत्था श्रेयसां स्वच्छवर्णा ।। ६७.९३ ।।
छायाः क्रमेण कुजलाग्न्यनिलाम्बरौत्थाः
के चिद्वदन्ति दश ताश्च यथाअनुपूर्व्या ।
सूर्याब्जनाभपुरुहूतयमौडुपानां
तुल्यास्तु लक्षणफलैरिति तत्समासः ।। ६७.९४ ।।
करिवृषरथौघभेरीमृदङ्गसिंहाभ्र[क्.अब्द]निःस्वना भूपाः ।
गर्दभजर्जररूक्षस्वराश्च धनसौख्यसन्त्यक्ताः ।। ६७.९५ ।।
सप्त भवन्ति च सारा मेदोमज्जात्वगस्थिशुक्राणि ।
रुधिरं मांसं चैति प्राणभृतां तत्समासफलम् ।। ६७.९६ ।।
ताल्वोष्ठदन्तपालीजिह्वानेत्रान्तपायुकरचरणैः ।
रक्ते[क्.रक्तैः] तु रक्तसारा बहुसुखवनिताअर्थपुत्रयुताः ।। ६७.९७ ।।
स्निग्धत्वक्का धनिनो मृदुभिः सुभगा विचक्षणास्तनुभिः ।
मज्जामेदःसाराः सुशरीराः पुत्रवित्तयुताः[क्.युक्ताः] ।। ६७.९८ ।।
स्थूलास्थिरस्थिसारो बलवान्विद्याअन्तगः सुरूपश्च ।
बहुगुरुशुक्राः सुभगा विद्वांसो रूपवन्तश्च ।। ६७.९९ ।।
उपचितदेहो विद्वान्धनी सुरूपश्च मांससारो यः ।
सङ्घाता इति च सुश्लिष्टसन्धिता सुखभुजो ज्ञेया ।। ६७.१०० ।।
स्नेहः पञ्चसु लक्ष्यो वाग्जिह्वादन्तनेत्रनखसंस्थः ।
सुतधनसौभाग्ययुताः स्निग्धैस्तैर्निर्धना रूक्षैः ।। ६७.१०१ ।।
द्युतिमान्वर्णस्निग्धः[क्.वर्णः स्निग्धः] क्षितिपानां मध्यमः सुतार्थवताम् ।
रूक्षो धनहीनानां शुद्धः शुभदो न सङ्कीर्णः ।। ६७.१०२ ।।
साध्यं अनूकं वक्त्राद्गोवृषशार्दूलसिंहगरुडमुखाः ।
अप्रतिहतप्रतापा जितरिपवो मानवैन्द्राश्च ।। ६७.१०३ ।।
वानरमहिषवराहाजतुल्यवदनाः श्रुत[क्.सुत]अर्थसुखभाजः ।
गर्दभकरभप्रतिमैर्मुखैः शरीरैश्च निःस्वसुखाः ।। ६७.१०४ ।।
अष्टशतं षण्णवतिः[क्.षणवतिः] परिमाणं चतुरशीतिरिति पुंसाम् ।
उत्तमसमहीनानां अङ्गुलसङ्ख्या स्वमानेन ।। ६७.१०५ ।।
भारार्धतनुः सुखभाक्तुलितो +अतो दुःखभाग्भवत्यूनः ।
भारो +अतिवाढ्यानां अध्यर्धः सर्वधरणीशः ।। ६७.१०६ ।।
विंशतिवर्षा नारी पुरुषः खलु पञ्चविंशतिभिरब्दैः ।
अर्हति मानौन्मानं जीवितभागे चतुर्थे वा ।। ६७.१०७ ।।
भूजलशिख्यनिलाम्बरसुरनररक्षः पिशाचकतिरश्चाम् ।
सत्त्वेन भवति पुरुषो लक्षणं एतद्भवति तेषाम्[क्.एषाम्] ।। ६७.१०८ ।।
महीस्वभावः शुभपुष्पगन्धः
सम्भोगवान्सुश्वसनः स्थिरश्च ।
तोयस्वभावो बहुतोयपायी
प्रियाभिभाषी[क्.अभिलाषी] रसभाजनश्[क्.भोजनश्] च ।। ६७.१०९ ।।
अग्निप्रकृत्या चपलो +अतितीक्ष्णश्
चण्डः क्षुधऽलुर्बहुभोजनश्च ।
वायोः स्वभावेन चलः कृशश्च
क्षिप्रं च कोपस्य वशं प्रयाति ।। ६७.११० ।।
खप्रकृतिर्निपुणो विवृतऽस्यः
शब्दगतेः कुशलः सुशिराअङ्गः ।
त्यागयुतः[क्.त्यागयुतो] पुरुषो मृदुकोपः
स्नेहरतश्च भवेत्सुरसत्त्वः ।। ६७.१११ ।।
मर्त्यसत्त्वसंयुतो गीतभूषणप्रियः ।
संविभागशीलवान्नित्यं एव मानवः ।। ६७.११२ ।।
तीक्ष्णप्रकोपः खलचेष्टितश्च
पापश्च सत्त्वेन निशाचराणाम् ।
पिशाचसत्त्वश्चपलो मलाक्तो
बहुप्रलापी च समुल्बणाङ्गः ।। ६७.११३ ।।
भीरुः क्षुधाआलुर्बहुभुक्च यः स्याद्
ज्ञेयश्च[क्.स] सत्त्वेन नरस्तिरश्चाम् ।
एवं नराणां प्रकृतिः प्रदिष्टा
यल्लक्षणज्ञाः प्रवदन्ति सत्त्वम् ।। ६७.११४ ।।
शार्दूलहंससमदद्विपगोपतीनां
तुल्या भवन्ति गतिभिः शिखिनां च भूपाः ।
येषां च शब्दरहितं स्तिमितं च यातं
ते +अपिइश्वरा द्रुतपरिप्लुतगा दरिद्राः ।। ६७.११५ ।।
श्रान्तस्य यानं अशनं च बुभुक्षितस्य
पानं तृषापरिगतस्य भयेषु रक्षा ।
एतानि यस्य पुरुषस्य भवन्ति काले
धन्यं वदन्ति खलु तं नरलक्षणज्ञाः ।। ६७.११६ ।।
पुरुषलक्षणं उक्तं इदं मया मुनिमतान्यवलोक्य समासतः । [क्.६८.११७अब् ।।
इदं अधीत्य नरो नृपसम्मतो भवति सर्वजनस्य च वल्लभः ।।] क्.६८.११७च्द् ।।