बृहत्संहिता/अध्यायः ५२
← अध्यायः ५१ | बृहत्संहिता अध्यायः ५२ वराहमिहिरः |
अध्यायः ५३ → |
५२ वास्तुविद्या ।।
वास्तुज्ञानं अथातः कमलभवान्मुनिपरं परायातम् ।
क्रियते +अधुना मयाइदं विदग्धसांवत्सरप्रीत्यै ।। ५२.०१ ।।
किं अपि किल भूतं अभवद्रुन्धानं रोदसी शरीरेण ।
तदमरगणेन सहसा विनिगृह्याधोमुखं न्यस्तम् ।। ५२.०२ ।।
यत्र च येन गृहीतं विबुधेनाधिष्ठितः स तत्रएव ।
तदमरमयं विधाता वास्तुनरं कल्पयां आस ।। ५२.०३ ।।
उत्तमं अष्टाभ्यधिकं हस्तशतं नृपगृहं पृथुत्वेन ।
अष्टाष्टऊनान्येवं पञ्च सपादानि दैर्घ्येण ।। ५२.०४ ।।
षड्भिः षड्भिर्हीना सेनापतिसद्मनां चतुःषष्टिः ।
*एवं पञ्च गृहाणि[क्.पञ्च एवं विस्तारात्] षड्भागसमन्विता दैर्घ्यम् ।। ५२.०५ ।।
षष्टिश्*चतुर्भिर्हीना[क्.चतुर्विहीना] वेश्मानि पञ्च सचिवस्य ।
स्वाष्टांशयुतो दैर्घ्यं तदर्धतो राजमहिषीणाम् ।। ५२.०६ ।।
षड्भिः षड्भिश्चएवं युवराजस्यापवर्जिताअशीतिः ।
त्र्यंशान्विता च दैर्घ्यं पञ्च तदर्धैस्तदनुजनानाम् ।। ५२.०७ ।।
नृपसचिवान्तरतुल्यं सामन्तप्रवरराजपुरुषाणाम् ।
नृपयुवराजविशेषः कञ्चुकिवेश्याकलाज्ञानाम् ।। ५२.०८ ।।
अध्यक्षाधिकृतानां *सर्वेषां[क्.सर्वेषां एव] कोशरतितुल्यम् ।
युवराजमन्त्रिविवरं कर्मान्ताध्यक्षदूतानाम् ।। ५२.०९ ।।
चत्वारिंशद् धीना चतुश्चतुर्भिस्तु पञ्च यावदिति ।
षड्भागयुता दैर्घ्यं दैवज्ञपुरोधसोर्भिषजः ।। ५२.१० ।।
वास्तुनि यो विस्तारः स एव चौच्छ्रायनिश्चयः शुभदः ।
शालाएकेषु गृहेष्वपि विस्ताराद्द्विगुणितं दैर्घ्यम् ।। ५२.११ ।।
चातुर्वर्ण्यव्यासो द्वात्रिंशत्*सा[क्.स्यात्] चतुश्चतुर्हीना ।
आषोडशादिति परं न्यूनतरं अतीव हीनानाम् ।। ५२.१२ ।।
सदशांशं विप्राणां क्षत्रस्याष्टांशसंयुतं दैर्घ्यम् ।
षड्भागयुतं वैश्यस्य भवति शूद्रस्य पादयुतम् ।। ५२.१३ ।।
नृपसेनापतिगृहयोरन्तरमानेन कोशरतिभवने ।
सेनापतिचातुर्वर्ण्यविवरतो राजपुरुषाणाम् ।। ५२.१४ ।।
अथ *पारशव[क्.पारसव]आदीनां स्वमानसंयोगदलसमं भवनम् ।
हीनाधिकं स्वमानादशुभकरं वास्तु सर्वेषाम् ।। ५२.१५ ।।
पश्वाश्रमिणां अमितं धान्यऽयुधवह्निरतिगृहाणां च ।
नैच्छन्ति शास्त्रकारा हस्तशतादुच्छ्रितं परतः ।। ५२.१६ ।।
सेनापतिनृपतीनां सप्ततिसहिते द्विधाकृते व्यासे ।
शाला चतुर्दशहृते पञ्चत्रिंशद्धृते +अलिन्दः ।। ५२.१७ ।।
हस्तद्वात्रिंशऽदिषु चतुश्चतुस्त्रित्रिकत्रिकाः शालाः ।
सप्तदशत्रितयतिथित्रयोदशकृताङ्गुलाभ्यधिकाः ।। ५२.१८ ।।
त्रित्रिद्विद्विद्विसमाः क्षयक्रमादङ्गुलानि चएतेषाम् ।
व्येका विंशतिरष्टौ विंशतिरष्टादश त्रितयम् ।। ५२.१९ ।।
शालात्रिभागतुल्या कर्तव्या वीथिका बहिर्भवनात् ।
यद्यग्रतो भवति सा सोष्णीषं नाम तद्वास्तु ।। ५२.२० ।।
सायाश्रयं इति पश्चात्सावष्टम्भं तु पार्श्वसंस्थितया ।
सुस्थितं इति च समन्तात्शास्त्रज्ञैः पूजिताः सर्वाः ।। ५२.२१ ।।
विस्तारषोडशांशः सचतुर्हस्तो भवेद्गृहौच्छ्रायः ।
द्वादशभागेनऊनो भूमौ भूमौ समस्तानाम् ।। ५२.२२ ।।
व्यासात्षोडशभागः सर्वेषां सद्मनां भवति भित्तिः ।
पक्वैष्टकाआकृतानां दारुकृतानां तु *न विकल्पः[क्.सविकल्पः, क्ऽस्त्र्. न विकल्पः] ।। ५२.२३ ।।
एकादशभागयुतः ससप्ततिर्नृपबलेशयोर्व्यासः ।
उच्छ्रायो +अङ्गुलतुल्यो द्वारस्यार्धेन विष्कम्भः ।। ५२.२४ ।।
विप्रादीनां व्यासात्पञ्चांशो +अष्टादशाङ्गुलसमेतः ।
साष्टांशो विष्कम्भो द्वारस्य त्रिगुण उच्छ्रायः ।। ५२.२५ ।।
उच्छ्रायहस्तसंख्यापरिमाणान्यङ्गुलानि बाहुल्यम् ।
शाखाद्वये +अपि कार्यं सार्धं तत्स्यादुदुम्बरयोः ।। ५२.२६ ।।
उच्छ्रायात्सप्तगुणादशीतिभागः पृथुत्वं एतेषाम् ।
नवगुणिते +अशीत्यंशः स्तम्भस्य दशांशहीनो +अग्रे ।। ५२.२७ ।।
*समचतुरस्रो[क्.समचतुरश्रो] रुचको वज्रो *+अष्टास्रिर्[क्.अष्टाश्रिस्] द्विवज्रको द्विगुणः ।
द्वात्रिंशता तु मध्ये प्रलीनको वृत्त इति वृत्तः ।। ५२.२८ ।।
स्तम्भं विभज्य नवधा वहनं भागो घटो +अस्य भागो +अन्यः ।
पद्मं तथाउत्तरोष्ठं कुर्याद्भागेन भागेन ।। ५२.२९ ।।
स्तम्भसमं बाहुल्यं भारतुलानां उपर्युपर्यासाम् ।
भवति तुलाउपतुलानां ऊनं पादेन पादेन ।। ५२.३० ।।
अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् ।
नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिरपि ।। ५२.३१ ।।
नन्द्यावर्तं अलिन्दैः शालाकुड्यात्प्रदक्षिणान्तगतैः ।
द्वारं पश्चिमं अस्मिन्विहाय शेषाणि कार्याणि ।। ५२.३२ ।।
द्वारालिन्दो +अन्तगतः प्रदक्षिणो +अन्यः शुभस्ततश्चान्यः ।
*तस्मिंश्[क्.तद्वद्] च वर्धमाने द्वारं तु न दक्षिणं कार्यम् ।। ५२.३३ ।।
अपरो +अन्तगतो +अलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यौ ।
तदवधि*विधृतश्[क्.विवृतश्, क्ऽस्त्र्. विधृत] चान्यः प्राग्द्वारं स्वस्तिके *शुभदम्[क्.+अशुभदम्, क्ऽस्त्र्. शुभम्] ।। ५२.३४ ।।
प्राक्पश्चिमावलिन्दावन्तगतौ तदवधिस्थितौ शेषौ ।
रुचके द्वारं न शुभदं उत्तरतो +अन्यानि शस्तानि ।। ५२.३५ ।।
श्रेष्ठं नन्द्यावर्तं सर्वेषां वर्धमानसंज्ञं च ।
स्वस्तिकरुचके मध्ये शेषं शुभदं नृपऽदीनाम् ।। ५२.३६ ।।
उत्तरशालाहीनं हिरण्यनाभं त्रिशालकं धन्यम् ।
प्राक्शालया वियुक्तं सुक्षेत्रं वृद्धिदं वास्तु ।। ५२.३७ ।।
याम्याहीनं चुल्ली त्रिशालकं वित्तनाशकरं एतत् ।
पक्षघ्नं अपरया वर्जितं सुतध्वंसवैरकरम् ।। ५२.३८ ।।
सिद्धार्थं अपरयाम्ये यमसूर्यं पश्चिमोत्तरे शाले ।
दण्डाख्यं उदक्पूर्वे वातऽख्यं प्राग्युता याम्या ।। ५२.३९ ।।
पूर्वापरे तु शाले गृहचुल्ली दक्षिणोत्तरे काचम् ।
सिद्धार्थे +अर्थावाप्तिर्यमसूर्ये गृहपतेर्मृत्युः ।। ५२.४० ।।
दण्डवधो दण्डाख्ये कलहौद्वेगः सदैव वातबाख्ये ।
वित्तविनाशश्चुल्ल्यां ज्ञातिविरोधः स्मृतः काचे ।। ५२.४१ ।।
एकाशीतिविभागे दश दश पूर्वोत्तरायता रेखाः ।
अन्तस्त्रयोदश सुरा द्वात्रिंशद्बाह्यकोष्ठस्थाः ।। ५२.४२ ।।
शिखिपर्जन्यजयन्तैन्द्रसूर्यसत्या भृशो +अन्तरिक्षश्च ।
*ऐशान्यादि[क्.ऐशान्याद्याः]क्रमशो दक्षिणपूर्वे +अनिलः कोणे ।। ५२.४३ ।।
पूषा वितथबृहत्क्षतयमगन्धर्वऽख्यभृङ्गराजमृगाः ।
पितृदौवारिकसुग्रीवकुसुमदन्ताम्बुपत्यसुराः ।। ५२.४४ ।।
शोषो +अथ पापयक्ष्मा रोगः कोणे ततो +अहिमुख्यौ च ।
भल्लाटसोमभुजगास्ततो +अदितिर्दितिरिति क्रमशः ।। ५२.४५ ।।
मध्ये ब्रह्मा नवकोष्ठकाधिपो +अस्यार्यमा स्थितः प्राच्याम् ।
एकान्तरात्प्रदक्षिणं अस्मात्सविता विवस्वांश्च ।। ५२.४६ ।।
विबुधाधिपतिस्तस्मान्मित्रो +अन्यो राजयक्ष्मनामा च ।
*पृथिवी[क्.पृथ्वी]धरापवत्सावित्येते ब्रह्मणः परिधौ ।। ५२.४७ ।।
आपो नामाइशाने कोणे हौताशने च सावित्रः ।
जय इति च नैरृते रुद्र आनिले +अभ्यन्तरपदेषु ।। ५२.४८ ।।
आपस्तथाअपवत्सः पर्जन्यो +अग्निर्दितिश्च वर्गो +अयम् ।
एवं कोणे कोणे पदिकाः स्युः पञ्च पञ्च सुराः ।। ५२.४९ ।।
बाह्या द्विपदाः शेषास्ते विबुधा विंशति समाख्याताः ।
शेषाश्चत्वारो +अन्ये त्रिपदा दिक्ष्वर्यमाद्यास्ते ।। ५२.५० ।।
पूर्वोत्तरदिग्मूर्धा पुरुषो +अयं अवाङ्मुखो +अस्य शिरसि शिखी ।
आपो मुखे स्तने +अस्यार्यमा ह्युरस्यापवत्सश्च ।। ५२.५१ ।।
पर्जन्याद्या बाह्या दृक्श्रवणौरःस्थलांसगा देवाः ।
सत्याद्याः पञ्च भुजे हस्ते सविता *च सावित्रः[क्.ससावित्रः] ।। ५२.५२ ।।
वितथो बृहत्क्षतयुतः पार्श्वे जठरे स्थितो विवस्वांश्च ।
ऊरू जानु च जङ्घे स्फिगिति यमाद्यैः परिगृहीताः ।। ५२.५३ ।।
एते दक्षिणपार्श्वे स्थानेष्वेवं च वामपार्श्वस्थाः ।
मेढ्रे शक्रजयन्तौ हृदये ब्रह्मा पिता*अङ्घ्रिगतः[क्.अङ्ग्रिगतः] ।। ५२.५४ ।।
अष्टाष्टकपदं अथ वा कृत्वा रेखाश्च कोणगास्तिर्यक् ।
ब्रह्मा चतुष्पदो +अस्मिन्नर्धपदा ब्रह्मकोणस्थाः ।। ५२.५५ ।।
अष्टौ च बहिष्कोणेष्वर्धपदास्तदुभयस्थिताः सार्धाः ।
उक्तेभ्यो ये शेषास्ते द्विपदा विंशतिस्ते *हि[क्.च] ।। ५२.५६ ।।
सम्पाता वंशानां मध्यानि समानि यानि च पदानाम् ।
मर्माणि तानि *विन्द्यान्न तानि परिपीडयेत्[क्.विन्द्यान्नपरिपीडयेत्] प्राज्ञः ।। ५२.५७ ।।
तान्यशुचिभाण्डकीलस्तम्भऽद्यैः पीडितानि शल्यैश्च ।
गृहभर्तुस्तत्तुल्ये पीडां अङ्गे प्रयच्छन्ति ।। ५२.५८ ।।
कण्डूयते यदङ्गं *गृहभर्तुर्[क्.गृहपतिना] यत्र वाअमराहुत्याम् ।
अशुभं भवेन्निमित्तं विकृतेर्वा अग्नेः सशल्यं तत् ।। ५२.५९ ।।
धनहानिर्दारुमये पशुपीडा रुग्भयानि चास्थिकृते । ५२.६० ।।
[क्.त्wओ वेर्सेसिन्सेर्तेद् ।।
लोहमये शस्त्रभयं कपालकेशेषु मृत्युः स्यात् ।। क्. ५३.६०च्द् ।।
अङ्गारे स्तेनभयं भस्मनि च विनिर्दिशेत्सदाग्निभयम् । क्. ५३.६१अब् ।।
शल्यं हि मर्मसंस्थं सुवर्णरजतऽदृते +अत्यशुभम् ।। क्. ५३.६१च्द् ।।
मर्मण्यमर्मगो वा रुणद्ध्यर्थागमं तुषसमूहः] । क्. ५३.६२अब् ।।
अपि नागदन्तको मर्मसंस्थितो दोषकृद्भवति ।। ५२.६० ।।
रोगाद्वायुं पितृतो हुताशनं शोषसूत्रं अपि वितथात् ।
मुख्याद्भृशं जयन्ताच्च भृङ्गं अदितेश्च सुग्रीवम् ।। ५२.६१ ।।
तत्सम्पाता नव ये तान्यतिमर्माणि सम्प्रदिष्टानि ।
यश्च पदस्याष्टांशस्तत्प्रोक्तं मर्मपरिमाणम् ।। ५२.६२ ।।
पदहस्तसंख्यया सम्मितानि वंशो +अङ्गुलानि विस्तीर्णः ।
वंशव्यासो +अध्यर्धः शिराप्रमाणं विनिर्दिष्टम् ।। ५२.६३ ।।
सुखं इच्छन्ब्रह्माणं यत्नाद्रक्षेद्गृही *गृहान्तःस्थम्[क्.गृतान्तस्थम्] ।
उच्छिष्टऽद्युपघाताद्गृहपतिरुपतप्यते तस्मिन् ।। ५२.६४ ।।
दक्षिणभुजेन हीने वास्तुनरे +अर्थक्षयो *+अङ्गनादादोषाः[क्.अङ्गनादोषाः] ।
वामे +अर्थधान्यहानिः शिरसि गुणैर्हीयते सर्वैः ।। ५२.६५ ।।
स्त्रीदोषाः सुतमरणं प्रेष्यत्वं चापि चरणवैकल्ये ।
अविकलपुरुषे वसतां मानार्थयुतानि सौख्यानि ।। ५२.६६ ।।
गृहनगरग्रामेषु च सर्वत्रएवं प्रतिष्ठिता देवाः ।
तेषु च यथानुरूपं वर्णा विप्रादयो वास्याः । ५२.६७ ।।
वासगृहाणि च विन्द्याद्विप्रऽदीनां उदग्दिगाद्यानि ।
विशतां च यथा भवनं भवन्ति तान्येव दक्षिणतः ।। ५२.६८ ।।
नवगुणसूत्रविभक्तान्यष्टगुणेनाथ वा चतुःषष्टेः ।
द्वाराणि यानि तेषां अनलऽदीनां फलौपनयः ।। ५२.६९ ।।
*अनिलभयं[क्.अनलभयं] *स्त्रीजननं[क्.स्त्रीजन्म] प्रभूतधनता नरेन्द्रवाल्लभ्यम् ।
क्रोधपरताअनृतत्वं क्रौर्यं चौर्यं च पूर्वेण ।। ५२.७० ।।
अल्पसुतत्वं प्रैष्यं नीचत्वं भक्ष्यपानसुतवृद्धिः ।
रौद्रं कृतघ्नं अधनं सुतवीर्यघ्नं च याम्येन ।। ५२.७१ ।।
सुतपीडा रिपुवृद्धिर्न सुतधनऽप्तिः[क्.धनस्ताप्तिः] सुतार्थफलसम्पत् ।
धनसम्पन्नृपतिभयं धनक्षयो रोग इत्यपरे ।। ५२.७२ ।।
वधबन्धो रिपुवृद्धिः सुतधनलाभः[क्.धनसुतलाभः] समस्तगुणसम्पत् ।
पुत्रधनाप्तिर्वैरं सुतेन दोषाः स्त्रिया नैःस्वम् ।। ५२.७३ ।।
मार्गतरुकोणकूपस्तम्भभ्रमविद्धं अशुब्भदं द्वारम् ।
उच्छ्रायाद्द्विगुणमितां त्यक्त्वा भूमिं न दोषाय ।। ५२.७४ ।।
रथ्याआविद्धं द्वारं नाशाय कुमारदोषदं तरुणा ।
पङ्कद्वारे शोको व्ययो +अम्बुनिःस्राविणि[क्.अम्बुनि श्राविणि] प्रोक्तः ।। ५२.७५ ।।
कूपेनापस्मारो भवति विनाशश्च देवताआविद्धे ।
स्तम्भेन स्त्रीदोषाः कुलनाशो ब्राह्मणाभिमुखे[क्.ब्राह्मणो +अभिमुखे] ।। ५२.७६ ।।
उन्मादः स्वयं उद्घाटिते +अथ पिहिते स्वयं कुलविनाशः ।
मानाधिके नृपभयं दस्युभयं *व्यसनं एव नीचे च[क्.व्यसनदं नीचम्] ।। ५२.७७ ।।
द्वारं द्वारस्यौपरि यत्तन्न शिवाय सङ्कटं यच्च ।
आव्यात्तं क्षुद्भयदं कुब्जं कुलनाशनं भवति ।। ५२.७८ ।।
पीडाकरं अतिपीडितं अन्तर्विनतं भवेदभावाय ।
बाह्यविनते प्रवासो दिग्भ्रान्ते दस्युभिः पीडा ।। ५२.७९ ।।
मूलद्वारं नान्यैर्द्वारैरभिसन्दधीत रूपऋद्ध्या ।
घटफलपत्रप्रमथाआदिभिश्च तन्मङ्गलैश्चिनुयात् ।। ५२.८० ।।
ऐशान्यादिषु कोणेषु संस्थिता बाह्यतो गृहस्यैताः ।
चरकी विदारिनामाअथ पूतना राक्षसी चैति ।। ५२.८१ ।।
पुरभवनग्रामाणां ये कोणास्तेषु निवसतां दोषाः ।
श्वपचादयो +अन्त्यजात्यास्तेष्वेव विवृद्धिं आयान्ति ।। ५२.८२ ।।
याम्यादिष्वशुभफला जातास्तरवः प्रदक्षिणेनैते ।
उदगादिषु प्रशस्ताः प्लक्षवटौदुम्बराश्वत्था[क्.उदुम्बराश्वत्थाः] ।। ५२.८३ ।।
आसन्नाः कण्ठकिनो रिपुभयदाः क्षीरिणो +अर्थनाशाय ।
फलिनः प्रजाक्षयकरा दारूण्यपि वर्जयेदेषाम् ।। ५२.८४ ।।
छिन्द्याद्यदि न तरूंश्तान्तदन्तरे पूजितान्वपेदन्यत्[क्.अन्यान्] ।
पुन्नागाशोकारिष्टबकुलपनसान्शमीशालौ ।। ५२.८५ ।।
शस्तौषधिद्रुमलता मधुरा सुगन्धा
स्निग्धा समा न सुषिरा च मही नराणाम् ।
अप्यध्वनि श्रमविनोदं उपागतानां
धत्ते श्रियं किं उत शाश्वतमन्दिरेषु ।। ५२.८६ ।।
सचिवालये +अर्थनाशो धूर्तगृहे सुतवधः समीपस्थे ।
उद्वेगो देवकुले चतुष्पदे[क्.ऊ.चतुष्पथे] भवति चाकीर्तिः ।। ५२.८७ ।।
चैत्ये भयं ग्रहकृतं वल्मीकश्वभ्रसङ्कुले विपदः ।
गर्तायां तु पिपासा कूर्मऽकारे धनविनाशः ।। ५२.८८ ।।
उदगादिप्लवं इष्टं विप्रादीनां प्रदक्षिणेनैव ।
विप्रः सर्वत्र वसेदनुवर्णं अथैष्टं अन्येषाम् ।। ५२.८९ ।।
गृहमध्ये हस्तमितं खात्वा परिपूरितं पुनः श्वभ्रम् ।
यद्यूनं अनिष्टं तत्समे समं धन्यं अधिकं यत् ।। ५२.९० ।।
श्वभ्रं अथ वाअम्बुपूर्णं पदशतं इत्वाआगतस्य यदि नऊनम् ।
तद्धन्यं यच्च भवेत्पलान्यपां आढकं चतुःषष्टिः ।। ५२.९१ ।।
आमे वा मृत्पात्रे श्वभ्रस्थे दीपवर्तिरभ्यधिकम् ।
ज्वलति दिशि यस्य शस्ता सा भूमिस्तस्य वर्णस्य ।। ५२.९२ ।।
श्वभ्रोषितं न कुसुमं यस्य[क्.यस्मिन्] प्रम्लायते +अनुवर्णसमम् ।
तत्तस्य भवति शुभदं यस्य च यस्मिन्मनो रमते ।। ५२.९३ ।।
सितरक्तपीतकृष्णा विप्रादीनां प्रशस्यते भूमिः ।
गन्धश्च भवति यस्यां[क्.यस्या] घृतरुधिरान्नाद्यमद्यसमः ।। ५२.९४ ।।
कुशयुक्ता शरबहुला दूर्वाकाशऽवृता क्रेमेण मही ।
*ह्यनुवर्णं[क्.अनुवर्णम्] वृद्धिकरी मधुरकषायाम्लकटुका च ।। ५२.९५ ।।
कृष्टां प्ररूढबीजां गो +अध्युषितां ब्राह्मणैः प्रशस्तां च ।
गत्वा महीं गृहपतिः काले साम्वत्सरोद्दिष्टे ।। ५२.९६ ।।
भक्ष्यैर्नानाकारैर्दध्यक्षतसुरभिकुसुमधूपैश्च ।
दैवतपूजां कृत्वा स्थपतीनभ्यर्च्य विप्रांश्च ।। ५२.९७ ।।
विप्रः स्पृष्ट्वा शीर्षं वक्षश्च क्षत्रियो विशाश्चऊरू ।
शूद्रः पादौ स्पृष्ट्वा कुर्याद्रेखां गृहारम्भे ।। ५२.९८ ।।
अङ्गुष्ठकेन कुर्यान्मध्याङ्गुल्या +अथ वा प्रदेशिन्या ।
कनकमणिरजतमुक्तादधिकफलकुसुमाक्षतैश्च शुभम् ।। ५२.९९ ।।
शस्त्रेण शस्त्रमृत्युर्बन्धो लोहेन भस्मनाअग्निभयम् ।
तस्करभयं तृणेन च काष्ठौल्लिखिता च राजभयम् ।। ५२.१०० ।।
वक्रा पादालिखिता शत्रुभयक्लेशदा विरूपा च ।
चर्माङ्गारास्थिकृता दन्तेन च भर्तुर्[क्.कर्तुर्] अशिवाय ।। ५२.१०१ ।।
वैरं अपसव्यलिखिता प्रदक्षिणं सम्पदो विनिर्देश्याः ।
वाचः परुषा निष्ठीवितं क्षुतं चाशुभं कथितम् ।। ५२.१०२ ।।
अर्धनिचितं कृतं वा प्रविशन्स्थपतिर्गृहे निमित्तानि ।
अवलोकयेद्गृहपतिः क्व संस्थितः स्पृशति किं चाङ्गम् ।। ५२.१०३ ।।
रविदीप्ते यदि शकुनिस्तस्मिन्काले विरौति परुषरवम्[क्.परुषरवः] ।
संस्पृष्टाङ्गसमानं तस्मिन्देशे +अस्थि निर्देश्यम् ।। ५२.१०४ ।।
शकुनसमये +अथ्वा +अन्ये हस्त्यश्वश्वादयो +अनुवाशन्ते ।
तत्प्रभवं अस्थि तस्मिंस्तदङ्गसम्भूतं एवैति ।। ५२.१०५ ।।
सूत्रे प्रसार्यमाणे गर्दभरावो +अस्थिशल्यं आचष्टे ।
श्वशृगाललङ्घिते वा सूत्रे शल्यं विनिर्देश्यम् ।। ५२.१०६ ।।
दिशि शान्तायां शकुनिर्[क्.शकुनो] मधुरविरावी यदा तदा वाच्यः ।
अर्थस्तस्मिन्स्थाने गृहेश्वराधिष्ठिते +अङ्गे वा ।। ५२.१०७ ।।
सूत्रच्छेदे मृत्युः कीले चावाङ्मुखे महगः[क्.महान्रोगः] ।
गृहनाथस्थपतीनां स्मृतिलोपे मृत्युरादेश्यः ।। ५२.१०८ ।।
स्कन्धाच्च्युते शिरोरुक्कुलोपसर्गो +अपवर्जिते कुम्भे ।
भग्ने +अपि च कर्मिवधश्च्युते कराद्गृहपतेर्मृत्युः ।। ५२.१०९ ।।
दक्षिणपूर्वे कोणे कृत्वा पूजां शिलां न्यसेत्प्रथमम्[क्.प्रथमाम्] ।
शेषाः प्रदक्षिणेन स्तम्भाश्चएवं समुत्थाप्य[क्.समुत्थाप्याः] ।। ५२.११० ।।
छत्रस्रगम्बरयुतः कृतधूपविलेपनः समुत्थाप्यः ।
स्तम्भस्तथएव कार्यो द्वारौच्छ्रायः प्रयत्नेन ।। ५२.१११ ।।
विहगऽदिभिरवलीनैराकम्पितपतितदुःस्थितैश्च तथा[क्.फलम्] ।
शक्रध्वज*सदृशफलं तदेव तस्मिन्[क्.सदृशं तस्मिंश्च शुभं] विनिर्दिष्टम् ।। ५२.११२ ।।
प्रागुत्तरौन्नते धनसुतक्षयः सुतवधश्च दुर्गन्धे ।
वक्रे बन्धुविनाशो न सन्ति गर्भाश्च दिन्मूढे ।। ५२.११३ ।।
इच्छेद्यदि गृहवृद्धिं ततः समन्ताद्विवर्धयेत्तुल्यम् ।
एकौद्देशे दोषः प्रागथ वा +अप्युत्तरे कुर्यात् ।। ५२.११४ ।।
प्राग्भवति मित्रवैरं मृत्युभयं दक्षिणेन यदि वृद्धिः ।
अर्थविनाशः पश्चादुदग्विवृद्धिर्[क्.उदग्विवृद्धौ] मनस्तापः ।। ५२.११५ ।।
ऐशान्यां देवगृहं महानसं यदि चापि कार्यं आग्नेय्याम् ।
नैरृत्यां भाण्डौपस्करो +अर्थधान्यानि मारुत्याम् ।। ५२.११६ ।।
प्राच्यादिस्थे सलिले सुतहानिः शिखिभयं रिपुभयं च ।
स्त्रीकलहः स्त्रीदौष्ट्यं नैःस्व्यं वित्तात्मजविवृद्धिः ।। ५२.११७ ।।
खगनिलयभग्नसंशुष्कदग्धदेवालयश्मशानस्थान् ।
क्षीरतरुधवविभीतकनिम्बारणि*वर्जितान्छिन्द्यात्[क्.वर्जितांश्च्छिन्द्यात्] ।। ५२.११८ ।।
रात्रौ कृतबलिपूजं प्रदक्षिणं छेदयेद्दिवा वृक्षम् ।
धन्यं उदक्प्राक्पततं न ग्राह्यो +अतो +अन्यथा पतितः ।। ५२.११९ ।।
छेदो यद्यविकारी ततः शुभं दारु तद्गृहौपयिकम् ।
पीते तु मण्डले निर्दिशेत्तरोर्मध्यगां गोधाम् ।। ५२.१२० ।।
मञ्जिष्ठाभे भेको नीले सर्पस्तथा+अरुणे सरटः ।
मुद्गाभे +अश्मा कपिले तु मूषको +अम्भश्च खड्गाभे ।। ५२.१२१ ।।
धान्यगोगुरुहुताशसुराणां न स्वपेदुपरि नाप्यनुवंशम् ।
नौत्तरापरशिरा न च नग्नो नैव चार्द्रचरणः श्रियं इच्छन् ।। ५२.१२२ ।।
भूरिपुष्पविकरं[क्.निकरं] सतोरणं तोयपूर्णकलशौपशोभितम् ।
धूपगन्धबलिपूजितामरं ब्राह्मणध्वनियुतं विशेद्गृहम् ।। ५२.१२३ ।।