बृहत्संहिता/अध्यायः ४१

विकिस्रोतः तः
← अध्यायः ४० बृहत्संहिता
अध्यायः ४१
वराहमिहिरः
अध्यायः ४२ →

४१ अर्घकाण्डाध्यायः ।।

 अतिवृष्ट्युल्कादण्डान्परिवेषग्रहणपरिधिपूर्वांश्च ।
 दृष्ट्वाअमावास्यायां उत्पातान्*पौर्णमास्यां[क्.पूर्णमास्यां] च ।। ४१.०१ ।।

 ब्रूयादर्घविशेषान्प्रतिमासं राशिषु क्रमात्सूर्ये ।
 अन्यतिथावुत्पाता ये ते डमरार्तये राज्ञाम् ।। ४१.०२ ।।

 मेषौपगते सूर्ये ग्रीष्मजधान्यस्य संग्रहं *कृत्वा[क्.कुर्यात्] ।
 वनमूलफलस्य वृषे चतुर्थमासे तयोर्लाभः ।। ४१.०३ ।।

 मिथुनस्थे सर्वरसान्धान्यानि च संग्रहं समुपनीय ।
 षष्ठे मासे विपुलं *विक्रेता[क्.विक्रीणन्] प्राप्नुयाल्लाभम् ।। ४१.०४ ।।

 कर्किण्यर्के मधुगन्धतैलघृतफाणितानि विनिधाय ।
 द्विगुणा द्वितीयमासे लब्धिर्हीनाधिके छेदः ।। ४१.०५ ।।

 सिंहे सुवर्णमणिचर्मवर्मशस्त्राणि मौक्तिकं रजतम् ।
 पञ्चममासे लब्धिर्विक्रेतुरतो +अन्यथा छेदः ।। ४१.०६ ।।

 कन्यागते दिनकरे चामरखरकरभवाजिनां क्रेता ।
 षष्ठे मासे द्विगुणं लाभं अवाप्नोति विक्रीणन् ।। ४१.०७ ।।

 तौलिनि तान्तवभाण्डं मणिकम्बलकाचपीतकुसुमानि ।
 आदद्याद्धान्यानि च *वर्षार्धाद्[क्.षण्मासाद्] द्विगुणिता वृद्धिः ।। ४१.०८ ।।

 वृश्चिकसंस्थे सवितरि फलकन्दकमूलविविधरत्नानि ।
 वर्षद्वयं उषितानि द्विगुणं लाभं प्रयच्छन्ति ।। ४१.०९ ।।

 चापगते गृह्णीयात्*कुङ्कुम[क्.कुङ्कम]शङ्खप्रवालकाचानि ।
 मुक्ताफलानि च ततो वर्षार्धाद्द्विगुणतां यान्ति ।। ४१.१० ।।

 *मृगघटसंस्थे सवितरि गृह्णीयाल्[क्.मृगधटगे गृह्णीयाद्दिवाकरे] लोहभाण्डधान्यानि ।
 स्थित्वा मासं दद्याल्लाभार्थी द्विगुणं आप्नोति ।। ४१.११ ।।

 सवितरि झषं उपयाते मूलफलं कन्दभाण्डरत्नानि ।
 संस्थाप्य वत्सरार्धं लाभकं इष्टं समाप्नोति ।। ४१.१२ ।।

 राशौ राशौ यस्मिन्शिशिरमयूखः सहस्रकिरणो वा ।
 युक्तो +अधिमित्रदृष्टस्तत्रायं लाभको दिष्टः ।। ४१.१३ ।।

सवितृसहितः सम्पूर्णो वा शुभैर्युतवीक्षितः
शिशिरकिरणः सद्यो +अर्घस्य प्रवृद्धिकरः स्मृतः ।
अशुभसहितः सन्दृष्टो वा हिनस्त्यथ वा रविः
प्रतिगृहगतान्भावान्बुद्ध्वा वदेत्सदसत्फलम् ।। ४१.१४ ।।