बृहत्संहिता/अध्यायः २२

विकिस्रोतः तः
← अध्यायः २१ बृहत्संहिता
अध्यायः २२
वराहमिहिरः
अध्यायः २३ →

२२ गर्भधारणाध्यायः ।।

 ज्यैष्ठसिते +अष्टम्याद्यश्चत्वारो वायुधारणा दिवसाः ।
 मृदुशुभपवनाः शस्ताः स्निग्धघनस्थगितगगनाश्च ।। २२.०१ ।।

 तत्रएव स्वात्याद्ये वृष्टे भचतुष्टये क्रमात्मासाः ।
 श्रावणपूर्वा ज्ञेयाः परिस्रुता धारणास्ताः स्युः । २२.०२ ।।

 यदि ता स्युरेकरूपाः शुभास्ततः सान्तरास्तु न शिवाय ।
 तस्करभयदाश्*चौक्ताः[क्.प्रोक्ताः] श्लोकाश्चाप्यत्र वासिष्ठाः ।। २२.०३ ।।

 सविद्युतः सपृषतः सपांशुउत्करमारुताः ।
 सार्कचन्द्रपरिच्छन्ना धारणाः शुभधारणाः ।। २२.०४ ।।

 यदा तु विद्युतः श्रेष्ठाः *शुभाशाः[क्.शुभाशा] प्रत्युपस्थिताः ।
 तदापि सर्वसस्यानां वृद्धिं ब्रूयाद्विचक्षणः ।। २२.०५ ।।

 सपांशुवर्षाः सापश्च शुभा बालक्रिया अपि ।
 पक्षिणां सुस्वरा वाचः क्रीडा पांशुजलादिषु ।। २२.०६ ।।

 रविचन्द्रपरीवेषाः स्निग्धा नात्यन्तदूषिताः ।
 वृष्टिस्तदापि विज्ञेया सर्वसस्य*अर्थसाधिका[क्.अभिवृद्धये] ।। २२.०७ ।।

 मेघाः स्निग्धाः संहताश्च प्रदक्षिणगतिक्रियाः ।
 तदा स्यान्महती वृष्टिः सर्वसस्य*अभिवृद्धये[क्.अर्थसाधिका] ।। २२.०८ ।।