बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५५ (रह्वन्तर्दशाफलाध्यायः)
दिखावट
(बृहत्पाराशरहोराशास्त्र 55 इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ५४ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५६ → |
अथ रह्वन्तर्दशाफलाध्यायः ||५५|| कुलीरे वृश्चिके राहौ कन्यत्यां चापगेऽपि वा | तद्भुक्तो राजसम्मानं वस्त्रवाहनभूषणम् ||१|| व्यवसायात्फलाधिक्यं चतुष्पाज्जीवलाभकृत् | प्रयाणं पश्चिमे भागे वाहनाम्बरलाभकृत् ||२|| लग्नादुपचये राहौ शुभग्रहयुतेक्षिते | मित्रांशे तुङ्गभागांशे योगकारकसंयुते ||३|| राज्यलाभं महोत्साहं राजप्रीतिं शुभावहम् | करोति सुखसम्पत्तिं दारपुत्रादिवर्द्धनम् ||४|| लग्नाष्ट्मे व्यये राहौ पापयुक्तेऽथ वीक्षिते | चौरादिव्रणपीडा च सर्वत्रैवं भवेद्द्विज ||५|| राजद्वारजनद्वेष इष्टबन्धुविनाशनम् | दारपुत्रादिपीडा च भवत्येव न संशयः ||६|| द्वितीयद्यूननाथे वा सप्तमस्थानमाश्रिते | सदा रोगो महाकष्टं शान्तिं कुर्याद्यथाविधि | आरोग्यं सम्पदश्चैव भविष्यन्ति तदा द्विज ||७|| राहुरन्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे | स्वोच्चे स्वक्षेत्रगे वापि तुङ्गस्वर्क्षांशगेऽपि वा ||८|| स्थानलाभं मनोधैर्यं शत्रुनाशं महत्सुखम् | राजप्रीतिकरं सौख्यं जनोऽतीव समश्नुते ||९|| दिनेदिने वृद्धिरपि सितपक्षे शशी यथा | वाहनादिधनं भूरि गृहे गोधनसंकुलम् ||१०|| नैरृत्ये पश्चिमे भागे प्रयाणं राजदर्शनम् | युक्तकार्यार्थसिद्धिः स्यात्स्वदेशे पुनरेष्यति ||११|| उपकारो ब्राह्मणानां तीर्थयात्रादिकर्मणाम् | वाहनग्रामलाभश्च देवब्राह्मणपूजनम् ||१२|| पुत्रोत्सवादिसन्तोषो नित्यं मिष्ठान्नभोजनम् | नीचे वाऽस्तङ्गते वापि षष्ठाष्टव्ययराशिगे ||१३|| शत्रुक्षेत्रे पापयुक्ते धनहानिर्भविष्यति | कर्मविघ्नो भवेत्तस्य मानहानिश्च जायते ||१४|| कलत्रपुत्रपीडा च हृद्रोगो राजकारकृत् | दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा ||१५|| दुश्चिक्ये बलसम्पूर्णे गृहक्षेत्रादिवृद्धिकृत् | भोजनाम्बरपश्वादिदानधर्मजपादिकम् ||१६|| भुक्त्यन्ते राजकोपाच्च द्विमासं देहपीडनम् | ज्येष्ठभ्रातुर्विनाशश्च मातृपित्रादिपीडनम् ||१७|| दायेशात्षष्ठरन्ध्रे वा रिःफे वा पापसंयुते | तद्भुक्तौ धनहानिः स्याद्देहपीडा भविष्यति ||१८|| द्वितीयद्यूननाथे वा ह्यपमृत्युर्भविष्यति | स्वर्णस्य प्र्तिमादानं शिवपूजं च कार्यते ||१९|| स्र्/ईशम्भोश्च प्रसादेन ग्रहस्तुष्टो द्विजोत्तम | देहारोग्यं प्रकुरुते शान्तिं कुर्याद्विचक्षणम् ||२०|| राहोरन्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे | स्वोच्चे मूलत्रिकोणे वा दुश्चिक्ये लाभराशिगे ||२१|| तद्भुक्तौ नृपतेः सेवा राजप्रीतिकरी शुभा | विवाहोत्सवकार्याणि कृत्वा पुण्यानि भूरिशः ||२२|| आरामकरणे युक्तो तडागं कारयिष्यति | शूद्रप्रभुवशादिष्टलाभो गोधनसंग्रहः ||२३|| प्रयाणं पश्चिमे भागे प्रभुमूलाद्धनक्षयः | देहालस्यं फलाल्पत्वं स्वदेशे पुनरेष्यति ||२४|| नीचारिक्षेत्रगे मन्दे रन्ध्रे वा व्ययगेऽपि वा | नीचारिराजभीतिश्च दारपुत्रादिपीडनम् ||२५|| आत्मबन्धुमनस्तापं दायादजनविग्रहम् | व्यवहारे च कलहमकस्माद्भूषणं लभेत् ||२६|| दायेशात्षष्ठरिष्फे वा रन्ध्रे वा पापसंयुते | हृद्रोगो मानहानिश्च विवादः शत्रुपीडनम् ||२७|| अन्यदेशादिसञ्चारो गुल्मवद्वयाधिभाग्भवेत् | कुभोजनं कोद्रवादि जातिदुःखाद्भयं भवेत् ||२८|| द्वितीयद्यूननाथे तु ह्यपमृत्युर्भविष्यति | कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ||२९|| राहोरन्तर्गते सौम्ये भाग्ये वा स्वर्क्षगेऽपि वा | तुङ्गे वा केन्द्रराशिस्थे पुत्रे वा बलगेऽपि वा ||३०|| राजयोगं प्रकुरुते गृहे कल्याणवर्द्धनम् | व्यापारेण धनप्राप्तिविद्यावाहनमुत्तमम् ||३१|| विवाहोत्सवकार्याणि चतुष्पाज्जीवलाभकृत् | सौम्यमासे महत्सौख्यं स्ववारे राजदर्शनम् ||३२|| सुगन्धपुष्पशय्यादि स्त्रीसौख्यं चातिरोभनम् | महाराजप्रसादेन धनलाभो महद्यशः ||३३|| दायेशात्केन्द्रलाभे वा दुश्चिक्ये भाग्यकर्मगे | देहारोग्यं हृदुत्साह इष्टसिद्धिः सुखावहा ||३४|| पुण्यश्लोकादिकीर्तिश्च पुराणश्रवणादिकम् | विवाहो यज्ञदीक्षा च दानधर्मदयादिकम् ||३५|| षष्ठाष्टमव्यये सौम्ये मन्देनापि युतेक्षिते | दायेशात्षष्ठरिःफे वा रन्ध्रे वा पापसंयुते ||३६|| देवभाह्मणनिन्दा च भोगभाग्यविवर्जितः | सत्यहीनश्च दुर्बुद्धिश्चौराहिनृपपीडनम् ||३७|| अकस्मात्कलहश्चैव गुरुपुत्रादिनाशनम् | अर्थव्ययो राजकोपो दारपुत्रादिपीडनम् ||३८|| द्वितीयद्यूननाथे वा ह्यपमृत्युभयं वदेत् | तद्दोषपरिहारार्थं विष्णुसाहस्रकं जपेत् ||३९|| राहोरन्तर्गते केतौ भ्रमणं राजतो भयम् | वातज्वरादिरोगश्च चतुष्पाज्जीवहानिकृत् ||४०|| अष्टमाधिसंयुक्ते देहजाड्यं मनोव्यथा | शुभयुक्ते शुभैर्दृष्टे देहसौख्यं धनागमः | राजसम्मानभूषाप्तिर्गृहे शुभकरो भवेत् ||४१|| लग्नाधिपेन सम्बन्धे इष्टसिद्धिः सुखावहा | लग्नाधिपसमायुक्ते लाभो वा भवति ध्रुवम् ||४२|| चतुष्पाज्जिवलाभः स्यात्केन्द्रे वाथ त्रिकोणगे | रन्ध्रस्थानगते केतौ व्यये वा बलवर्जिते ||४३|| तद्भुक्तौ बहुरोगः स्याच्चोराहिव्रणपीडनम् | पितृमातृवियोगश्च भातृद्वेषो मनोरुजा ||४४|| द्वितीयद्यूननाथे तु देहबाधा भविष्यति | तद्दोषपरिहारार्थं छागदानं च कारयेत् ||४५|| राहोरन्तर्गते शुक्रे कग्नात्केन्द्गत्रिकोणगे | लाभे वा बलसंयुक्ते योगप्राबल्यमादिशेत् ||४६|| विप्रमूलाद्धनप्राप्तिर्गोमहिष्यादिलाभकृत् | पुत्रोत्सवादिसन्तोषो गृहे कल्याणसम्भवः ||४७|| सम्मानं राजसम्मनं राज्यलाभो महत्सुखम् | स्वोच्चे वा स्वर्क्षगे वापि तुङ्गांशे स्वांशगेऽपि वा ||४८|| नूतनं गृहनिर्माणं नित्यं मिष्ठान्नभोजनं | कलत्रपुत्रविभवं मित्रसंगः सुभोजनम् ||४९|| अन्नदानं प्रियं नित्यं दानधर्मादिसंग्रहः | महाराजप्रसादेन वाहनाम्बरभूषणं ||५०|| व्यवसायात्फलाधिक्यं विवाहो मौञ्जिबन्धनम् | षष्ठाष्टमव्यये शुक्रे नीचे शत्रुगृहे स्थिते ||५१|| मन्दारफणिसंयुक्ते तद्भुक्तौ रोगमादिशेत् | अकस्मात्कलहं चैव पितृपुत्रवियोगकृत् ||५२|| स्वबन्धुजनहानिश्च सर्वत्र जनपीडनम् | दायादकलहश्चैव स्वप्रभोः स्वस्य मृत्युकृत् ||५३|| कलत्रपुत्रपीडा च शूलरोगादिसम्भवः | दायेशात्केन्द्रराशिस्थे त्रिकोणे वा समन्विते ||५४|| लाभे वा कर्मराशिस्थे क्षेत्रपालमहत्सुखम् | सुगन्धवस्त्रशय्यादि गानवाद्यसुखं भवेत् ||५५|| छत्रचामरभूषाप्तिः प्रियवस्तुसमन्विता | दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते ||५६|| विप्राहिनृपचौरादिमूत्रकृच्छ्रान्महद्भयम् | प्रमेहाद्रौधिरो रोगः कुत्सितान्नं शिरोव्यथा ||५७|| कारागृहप्रवेशश्च राजदण्डाद्धनक्षयः | द्वितीयद्यूननाथे वा दारपुत्रादिनाशनम् ||५८|| आत्मपीडा भयं चैव ह्यपमृत्युभयं भवेत् | दुर्गालक्ष्मीजपं कुर्यात् ततःसुखमवाप्नुयात् ||५९|| राहोरन्तर्गते सूर्ये स्वोच्चे स्वक्षेत्रकेन्द्रगे | त्रिकोणे लाभगे वाऽपि तुङ्गांशे स्वांशगेऽपि वा ||६०|| शुभग्रहेण सन्दृष्टे राजप्रीतिकरं शुभम् | धनधान्यसमृद्धिश्च ह्यल्पमान सुखवाहम् ||६१|| अल्पग्रामाधिपत्यं च स्वल्पलाभो भविष्यति | भाग्यलग्नेशसंयुक्ते कर्मेशेन निरीक्षिते ||६२|| राजाश्रयो महाकीर्तिर्विदेशगमनं तथा | देशाधिपत्ययोगश्च गजश्वाम्बरभूषणम् ||६३|| मनोऽभिष्टप्रदानं च पुत्रकल्याणसम्भवम् | दयेशाद्रिःफरन्ध्रस्थे षष्ठे वा नीचगेऽपि वा ||६४|| ज्वरातिसाररोगश्च कलहो राजविग्रहः | प्रयाणं शत्रुवृद्धिश्च न्रिपचौराग्निपीडनम् ||६५|| दायेशात्केन्द्रकोणे वा दश्चिक्ये लाभगेऽपि वा | विदेशे राजसम्मानं कल्याणं च शुभावहम् ||६६|| द्वितीयद्यूननाथे तु महारोगो भविष्यति | सूर्यप्रणामं शान्तिं च कुर्यादारोग्यसम्भवाम् ||६७|| राहोरन्तर्गते चन्द्रे स्वक्षेत्रे स्वोच्चगेऽपि वा | केन्द्रत्रिकोणलाभे वा मित्रर्क्षे शुभसंयुते ||६८|| राजत्वं राजपूज्यत्वं धनार्थं धनलाभकृत् | आरोग्यं भूषण्ं चैव मित्रस्त्रीपुत्रसम्पदः ||६९|| पूर्णे चन्द्रे फलं पूर्णं राजप्रीत्या शुभावहम् | अश्ववाहनलाभः स्यद्गृहक्षेत्रादिवृद्धिकृत् ||७०|| दायेशात्सुखभाग्यस्थे केन्द्रे वा लाभगेऽपि वा | लक्ष्मीकटाक्षचिह्नानि गृहे कल्याणसम्भवः ||७१|| सर्वकार्यसिद्धिः स्याद्धनधान्यसुखावहा | सत्कीर्तिलाभसम्मानं देव्याराधनमाचरेत् ||७२|| दायेशात्षष्ठरन्ध्रस्थे व्यये वा बलवर्जिते | पिशाचक्षुद्रव्याघ्राद्य्सिर्गृहक्षेत्रार्थनाशनम् ||७३|| मार्गे चौरभयं चैव व्रणाधिक्य महोदयम् | द्वितीयद्यूननाथे तु अपमृत्युस्तदा भवेत् ||७४|| श्वेतां गां महिषीं दद्याद् विप्रायारोग्यसिद्धये | ततः सौख्यमवाप्नोति चन्द्रग्रहप्रसादतः ||७५|| राहोरन्तर्गते भौमे लग्नाल्लाभत्रिकोणगे | केन्द्रे वा शुभसंयुक्ते स्वोच्चे स्वक्षेत्रगेऽपि वा ||७६|| नष्टराज्यधन्प्राप्तिर्गृहक्षेत्राभिवृद्धिकृत् | इष्टदेवप्रसादेन सन्तानसुखभाग्भवेत् ||७७|| क्षिप्रभोज्यान्महत्सौख्यं भूषणश्वाम्बरादिकृत् | दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ||७८|| रक्तवस्त्रादिलाभः स्यात्प्रयाणं राजदर्शनम् | पुत्रवर्गेषु कल्याणं स्वप्रभोश्च महत्सुखम् ||७९|| सेनपत्यं महोत्साहो भ्रातृवर्गधनागमः | दायेशाद्रन्ध्ररिःफे वा षष्ठे पापसमन्विते ||८०|| पुत्रदारादिहानिश्च सोदराणां च पीडनम् | स्थानभ्रंशो बन्धुवर्गदारपुत्रविरोधनम् ||८१|| चौराहिव्रणभीतिश्च स्वदेहस्य च पीडनम् | आदौ क्लेशकरं चैव मध्यान्ते सौखमाप्नुयात् ||८२|| द्वितीयद्यूननाथे तु देहालस्यं महद्भयम् | अनड्वाहं च गां दद्यादारोग्यसुखलब्धये ||८३|| -