बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५२ (विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः)
दिखावट
(बृहत्पाराशरहोराशास्त्र 52 इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ५१ | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५३ → |
अथ विंशोत्तरीमतेन सूर्यदशान्तर्दशाफलाध्यायः ||५२|| स्वोच्चे स्व्भे स्थितः सूर्यो लाभे केन्द्रे त्रिकोणके | स्वदशायां स्वभुक्तौ च धनधान्यादिलाभकृत् ||१|| नीचाद्यशुभराशिस्थो विपरीतं फलं दिशेत् | द्वितीयद्यूननाथेऽर्के त्वपमृत्युभयं वदेत् ||२|| तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् | सूर्यप्रीतिकरीं शान्तिं कुर्यादारोग्यलब्धये ||३|| सूर्यस्याऽन्तर्गते चन्द्रे लग्नात्केन्द्रत्रिकोणगे | विवाहं शुभकार्यं च धनधान्यसमृद्धिकृत् ||४|| गृहक्षेत्राभिवृद्धिं च पशुवाहनसम्पदाम् | तुङ्गे वा स्वर्क्षगे वाऽपि दारसौख्यं धनागमम् ||५|| पुत्रलाभसुखं चैव सौख्यं राजसमागमम् | महाराजप्रसादेन इष्टसिद्धिसुखवाहम् ||६|| क्षीणे वा पापसंयुक्ते दारपुत्रादिपोडनम् | वैषम्यं जनसंवादं भृत्यवर्गविनाशनम् ||७|| विरोधं राजकलहं धनधान्यपशुक्षयम् | षष्ठाष्टमव्यये चन्द्रे जलभीतिं मनोरुजम् ||८|| बन्धनं रोगपीडां च स्थानविच्युतिकारकम् | दुःस्थानं चापि चित्तेन दायादजनविग्रहम् ||९|| निर्दिशेत् कुत्सितान्नं च चौरादिनृपपीडनम् | मूत्रकृच्छादिरोगश्च देहपीडा तथा भवेत् ||१०|| दायेशाल्लभभाग्ये च केन्द्रे वा शुभसंयुते | भोगभाग्यादिसन्तोषदारपुत्रादिवर्द्धनम् ||११|| राज्यप्राप्तिं महत्सौख्यं स्थानप्राप्तिं च शाश्वर्ताम् | विविआहं यज्ञदीक्षां च सुमाल्यामबरभूषणम् ||१२|| वाहनं पुत्रपौत्रादि लभते सुखवर्द्धनम् | दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||१३|| अकाले भोजनं चैव देशाद्देशं गमिष्यति | द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति | श्वेतां गां महिषीं गद्याच्छान्ति कुर्यात्सुखाप्तये ||१४|| सूर्यस्यान्तर्गते भौमे स्वोच्चे स्वक्षेत्रलाभगे | लग्नात्केन्द्रत्रिकोणे वा शुभकार्यं समादिशेत् ||१५|| भूलाभं कृषिलाभं च धनधान्यविवर्धनम् | गृहक्षेत्रादि लाभं च रक्तवस्त्रादिलाभकृत् ||१६|| लग्नाधिपेन संयुक्ते सौख्यं राजप्रियं वदेत् | भाग्यलाभाधिपैर्युक्ते लाभश्चैव भविष्यति ||१७|| बहुसेनाधिपत्यं च शत्रुनाशं मनोदृढम् | आत्मबन्धुसुखम् चैव भ्रातृवर्द्धनकं तथा ||१८|| दायेशाद्व्ययरन्ध्रस्थे पापैर्युक्ते च वीक्षिते | आधिपत्यबलैर्हीने क्रूरबुद्धिं मनोरुजम् ||१९|| कारागृहे प्रवेशं च कथयेद् बन्धुनाशनम् | भ्राऋवगविरोधं च कर्मनाशमथापि वा ||२०|| नीचे वा दुर्बले भौमे राजमूलाद्धनक्षयः | द्वितीयद्यूननाथे तु देहे जाड्यं मनोरुजम् ||२१|| सुब्रह्मजपदानं च वृषोत्सर्गं तथैव च | शान्तिं कुर्वीत विद्यिवदायुरारोग्यसिद्धिदाम् ||२२|| सूर्यस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे | आदौ द्विमासपर्यन्तं धननाशो महद्भयम् ||२३|| चौरादिव्रणभीतिश्च दारपुत्रादिपीडनम् | तत्परं सुखमाप्नोति शुभयुक्ते शुभांशके ||२४|| देहारोग्यं मनस्तुष्टि राजप्रीतिकरं सुखम् | लग्नादुपचये राहौ योगकारकसंयुते ||२५|| दायेशाच्छुभराशिस्थे राजसन्मानमादिशेत् | भाग्यवृद्धिं यशोलाभं दारपुत्रादिपीडनम् ||२६|| पुत्रोत्सवादिसन्तोषं गृहे कल्याणशोभनं | दायेशादथ रिष्फस्थे रन्ध्रे वा बलवर्जिते ||२७|| बन्धनं स्थाननाशश्च कारागृहनिवेशनम् | चौरादिव्रणभीतिश्च दारपुत्रादिवर्द्धनम् ||२८|| चतुष्पाज्जीवनाशश्च गृहक्षेत्रादिनाशनं | गुल्मक्षयादिरोगश्च ह्यतिसारादिपीडनं ||२९|| द्विस्फस्थे तथा राहौ तत्स्थानाधिपसंयुते | अपमृत्युभयं चैव सर्पभीतिश्च सम्भवेत् ||३०|| दुर्गाजपं च कुर्वीत् छागदानं समाचरेत् | कृष्णां गां महिषीं दद्यच्छान्तिमाप्नोत्यसंशयम् ||३१|| सूर्यस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे | स्वोच्चे मित्रस्य वर्गस्थे विवाहं राजदर्शनम् ||३२|| धनधान्यादिलाभ च पुत्रलाभं महत्सुखं | महाराजप्रसादेन इष्टकार्यार्थलाभकृत् ||३३|| ब्राह्मण्प्रियसन्मानं प्रियवस्त्रादिलाभकृत् | भाग्यकर्माधिपवशाद्राज्यलाभं वदेद् द्विज ||३४|| नरवाहनयोगश्च स्थानाधिक्यं महत्सुखम् | दायेशाच्छुभराशिस्थे भाग्यवृद्धिः सुखावहा ||३५|| दीनधर्मक्रियायुक्तो देवताराधनप्रियः | गुरुभक्तिर्मनःसिद्धिः पुण्युकर्मादिसंग्रहः ||३६|| राशेशाद्रिपुरन्ध्रस्थे नीचे वा पापसंयुते | दारपुत्रादिपीडा च देहपीडा महद्भयम् ||३७|| राजकोपं प्रकुरुतेऽभीष्टवस्तुविनाश्नम् | पापमूलद्द्रव्यनाशं देहभ्रष्टं मनोरुजम् ||३८|| स्वर्णदानं प्रकुर्वीत स्वेष्टजाप्यं च कारयेत् | गवां कपिलवर्णानां दानेनारोग्यमादिशेत् ||३९|| सूर्यस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे | शत्रुनाशो महत्सौख्यं स्वल्पधान्यार्थलाभकृत् ||४०|| विवाहादिसुकार्यञ्च गृहे तस्य शुभावहम् | स्वोच्चे स्वक्षेत्रगे मन्दे सुहृद्ग्रहसमन्विते ||४१|| गृहे कल्याणसम्पत्तिर्विवाहादिषु सत्क्रिया | राजसन्मानकीर्तिश्च नानावस्त्रधनागमम् ||४२|| दायेशादथ रन्ध्रस्थे व्यये वा पापसंयुते | वातशूलमहाव्याधिज्वरातीसारपीडनम् ||४३|| बन्धनं कार्यहानिश्च वित्तनाशो महद्भयम् | अकश्मात्कलहश्चैव दायादजनविग्रहः ||४४|| भुक्त्यादौ मित्रहानिःस्यान्मध्ये किञ्चित्सुखावहम् | अन्ते क्लेशकरं चैव नीचे तेषां तथैव च ||४५|| पितृमातृवियोगश्च गमनागममं तथा | द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् ||४६|| कृष्णां गां महिषीं दद्यान्मृत्युञ्जयजपं चरेत् | छागदानं प्रकुर्वीत सर्वसम्पत्प्रदायकम् ||४७|| सूर्यास्यान्तर्गते सौम्ये स्वोच्चे वा स्वर्क्षगेऽपि वा | केन्द्रत्रिकोणलाभस्थे बुधे वर्गबलैर्युते ||४८|| राज्यलाभो महोत्साहो दारपुत्रादिसौख्यकृत् | महारजप्रसादेन वाहनाम्बरभूषणं ||४९|| पुण्यतीर्थफलावाप्तिर्गृहे गोधनसंकुलम् | भाग्यलाभाधिपैर्युक्ते लाभवृद्धिकोरो भवेत् ||५०|| भाग्यपंचमकर्मस्थे सन्मानो भवति ध्रुवम् | सुकर्मधर्मबुद्धिश्च गुरुदेवद्विजार्जनम् ||५१|| धनधान्यादिसंयुक्तो विवाहः पुत्रसम्भवः | दायेशाच्छुभराशिस्थे सौम्ययुक्ते महत्सुखम् ||५२|| वैवाहिकं यज्ञकर्म दानधर्मजपादिकम् | स्वनामाङ्कितपद्यानि नामद्वयमथाऽपि वा ||५३|| भोजनाम्बरभूषाप्तिरमरेशो भवेन्नरः | दायेशाद्रिपुरन्ध्रस्थे रिष्फगे नीचगेऽपि वा ||५४|| देहपीडा मनस्तापो दारपुत्रादिपीडनम् | भुक्त्यादौ दुःखमाप्नोति मध्ये किञ्चित्सुखावहम् ||५५|| अन्ते तु राजभीतिश्च गमनागमनं तथा | द्वितीये द्यूननाथे तु देहजाड्यं ज्वरादिकम् ||५६|| विष्णुनामसहस्रं च ह्यन्नदानं च कारयेत् | रजतप्रतिमादानं कुर्यादारोग्यसिद्धये ||५७|| सूर्यस्यान्तर्गते केतौ देहपीडा मनोव्यथा | अर्थव्ययं राजकोपं स्वजनादेरुपद्रवम् ||५८|| लग्नाधिपेन संयुक्ते आदौ सौख्यं धनागमम् | मध्ये तत्क्लेशमाप्नोति मृतवार्तागमं वदेत् ||५९|| अथाष्टमव्यये चैवं दायेशात्पापसंयुते | कपोलदन्तरोगश्च मूत्रकृर्च्छस्य सम्भवः ||६०|| स्थानविच्युतिरर्थस्य मित्रहानिः पितुर्मृतिः | विदेशगमनं चैव शत्रुपीडा महद्भयम् ||६१|| लग्नादुपचये केतौ योगकारकसंयुते | शुभांशे शुभवर्गे च शुभकर्मफलोदयः ||६२|| पुत्रदारादिसौख्यं च सन्तोषं प्रियवर्द्धनम् | विचित्रवस्त्रलाभश्च यशोवृद्धिः सुखावहा ||६३|| द्वितीयाद्यूननाथे वा ह्यपमृत्युभयं वदेत् | दुर्गाजपं च कुर्वीत छागदानं सुखाप्तये ||६४|| सूर्यस्यान्तर्गते शुक्रे त्रिकोणे केन्द्रगेऽपि वा | स्वोच्चे मित्रस्ववर्गस्थेऽभीष्टस्त्रीभोग्यसम्पदः ||६५|| ग्रामान्तरप्रयाणं च भाह्मणप्रभुदर्शनम् | राज्यलाभो महोत्साहश्छत्रचामरवैभवम् ||६६|| गृहे कल्याणसम्पत्तिर्नित्यं मिष्ठान्नभोजनम् | विद्रुमादिरत्नलाभो मुक्तावस्त्रादि लाभकृत् ||६७|| चतुष्पाज्जीवलाभः स्याद्बहुधान्यधनादिकम् | उत्साहः कीर्तिसम्पत्तिर्नरवाहनसम्पदः ||६८|| षष्ठाष्टमव्यये शुक्रे दायेशाद्बलवर्जिते | राजकोपो मनःक्लेशः पुत्रस्त्रीधननाशनम् ||६९|| भुक्त्यादौ मध्यमं मध्ये लाभः शुभकरो भवेत् | अन्ते यशोनाशनं च स्थानभ्रंशमथापि वा ||७०|| बन्धुद्वेषं वदेद् वापि स्वकुलाद्भोगनाशनम् | भार्गवे द्यूननाथे तु देहे जाड्यं रुजोभयम् ||७१|| रन्ध्ररिष्फसमायुक्ते ह्यपमृत्युर्भविष्यति | तद्दोषपरिहारार्थं मृत्युर्जयजपं चरेत् ||७२|| श्वेतां गां महिषीं दद्याद्रुद्रजाप्यं च कारयेत् | ततः शान्तिभवाप्नोति शङ्करस्य प्रसादतः ||७३|| -