बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५१ (अथाऽन्तर्दशाध्यायः)
दिखावट
(अध्यायः ५१ (अथाऽन्तर्दशाध्यायः) इत्यस्मात् पुनर्निर्दिष्टम्)
← अध्यायः ५० | ज्योतिषम् बृहत्पाराशरहोराशास्त्रम् |
अध्यायः ५२ → |
अथाऽन्तर्दशाध्यायः ||५१|| दशाब्दाः स्वस्वमानघ्नाः सर्वायुर्योगभाजिताः | पृथगन्तर्दशा एवं प्रत्यन्तरदशादिकाः ||१|| आदावन्तर्दशा पाकपतेस्तत्क्रमतोऽपराः | एवं प्रत्यन्तरादौ च क्रमो ज्ञेयो विचक्षणैः ||२|| भुक्तिर्नवानां तुल्या स्याद् विभाज्या नवधा दशा | आदौ दशापतेर्भुक्तिस्तत्केन्द्रादियुजां ततः ||३|| विद्यात् क्रमेण भुक्त्यंशानेवं सूक्ष्मदशादिकम् | बलक्रमात् फलं विज्ञैर्वक्तव्यं पूर्वरीतितः ||४|| कृत्वाऽर्कधा राशिदशां राशेर्भुक्तिं क्रमाद् वदेत् | प्रत्यन्तर्दशाद्येवं कृत्वा तत्तत्फलं वदेत् ||५|| आद्यसप्तमयोर्मध्ये यो राशिर्बलवांस्ततः | ओजे दशाश्रये गण्याः क्रमादुत्क्रमतः समे ||६|| अत्राऽपरो विशेषोऽस्ति ब्रवीमि तमहं द्विज | चरेऽनुज्झितमार्गः स्यात् षष्ठषष्ठादिकाः स्थिरे ||७|| उभये कण्टकाज् ज्ञेया लग्नपञ्चमभाग्यतः | चरस्थिरद्विस्वभावेष्वोजेषुः प्राक् क्रमो मतः ||८|| तेष्वेव त्रिषु युग्मेषु ग्राह्यं व्युत्क्रमतोऽखिलम् | एवमुल्लिखितो राशि पाकराशिरुदीर्युते ||९|| स एव भोगराशिः स्यात् पर्याये प्रथमे स्मृतः | आद्याद् यावतिथः पाकः पर्याये यत्र दृश्यते ||१०|| तस्मात् तावतिथो भोगः पर्याये तत्र गृह्यताम् | तदिदं चरपर्यायस्थिरपर्याययोर्द्वयोः ||११|| त्रिकोणाख्यदशायां च पाकभोगप्रकल्पनम् | पाके भोगे च पापाढ्ये देपपीडा नमोव्यथा ||१२|| पिण्डत्रिकदशायां तु ब्रविम्यन्तर्दशाविधिम् | पूर्ण दशापतिर्दद्यात् तदर्धं तेन संयुतः ||१३|| त्रिकोणगस्तृतीयांशं तुर्यांशश्चतुरस्रगः | स्मरगः सप्तमं भागं बहुष्वेको बली ग्रहः ||१४|| एवं सलग्नकाः खेटाः पाचयन्ति मिथः स्थिताः | समच्छेदीकृताः प्राप्ता अंसाश्छेदविवर्जिताः ||१५|| दशाब्दाः पृथगंशघ्ना अंशयोगविभाजिताः | अन्तर्दशा भवन्त्येवं तत्प्रत्यन्तर्दशादिकाः ||१६|| -