बृहत्पाराशरहोराशास्त्रम्/बृहत्पाराशरहोराशास्त्र १

विकिस्रोतः तः


सृष्टिक्रमकथनाध्यायः॥१॥


अथैकदा मुनिश्रेष्ठं त्रिकलज्ञं पराशरम्‌।
पप्रच्छोपेत्य मैत्रेयः प्रणिपत्य कृताञ्जलिः॥ १॥

भगवन्‌ परमं पुण्यं गुह्यं वेदाङ्गमुत्तमम्‌।
त्रिस्कन्धं ज्यौतिषं होरा गणितं संहितेति च॥ २॥

एतेष्वपि त्रिषु श्रेष्ठा होरेति श्रूयते मुने।
त्वत्तस्तां श्रोतुमिच्छामि कृपया वद मे प्रभो॥ ३॥

कथं सृष्टिरियं जाता जगतश्च लयः कथम्‌।
खस्थानां भूस्थतानां च सम्बन्धं वद विस्तरात्‌॥ ४॥

साधु पृष्टं त्वया विप्र लोकानुग्रहकारिना।
अथाहं परमं ब्रह्म तच्छक्तिं भारतीं पुनः॥ ५॥

सूर्य नत्वा ग्रहपतिं जगदुत्पत्तिकारण्म्‌।
वक्ष्यामि वेदनयनं यथा ब्रह्ममुखाच्छ्रुतम्‌॥ ६॥

शान्ताय गुरुभक्ताय सर्वदा सत्यवादिने।
आस्तिकाय प्रदतव्यं ततः श्रेयो ह्यवाप्स्यति॥ ७॥

न देयं परशिष्याय नास्तिकाय शठय वा।
दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः॥ ८॥

एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः।
शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः॥ ९॥

संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान्‌।
एकांशेन जगत्सर्व सृजत्यवति लीलया॥ १०॥

त्रिपादं तस्य देवत्य ह्यमृतं तत्त्वदर्शिनः।
विदन्ति तत्प्रमाणं च सप्रधानं तथैकपात्‌॥ ११॥

व्यक्ताव्यक्तात्मको विष्णुर्वासुदेवस्तु गीयते।
यदव्यक्तात्मको विष्णुः श्क्तितद्वयसमन्वितः॥ १२॥

व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशक्तिमान्‌।
सत्त्वप्रधाना श्रीशक्तिर्भूश्क्तिश्च रजोगुणा॥ १३॥

शक्तिस्तृतीया या प्राक्ता नीलाख्या ध्वान्तरूपिणी।
वासुदेवश्चतुर्थोऽभूच्छ्रीशक्त्या प्रेरितो यदा॥ १४॥

संकर्षणश्च प्रद्युम्नोऽनिरुद्ध इति मूर्तिधृक्‌।
तमःश्क्त्याऽन्विता विष्णुर्देवः संकर्षणाभिधः॥ १५॥

प्रद्युम्नो रजसा शक्त्याऽनिरुध्हः सत्त्वया युतः।
महान्‌ संकर्षणाज्जातः प्रद्युम्नाद्यदहंअकृतिः॥ १६॥

अनिरुद्धात्‌ स्वयं जातो ब्रह्माहंकाकमूर्तिधृक्‌।
सर्वषु सर्वशक्तिश्च स्वशक्त्याऽधिकया युतः॥ १७॥

अहंकारस्त्रिध भूत्वा सर्वमेतद्विस्तरात्‌।
सात्त्विको राजसश्चैव तामसश्चेदहंकृतिः॥ १८॥

देवा वैकारिकाज्जातास्तैजसादिन्द्रियाणि।
तामसच्चैवभू तानि खादीनि स्वस्वशक्तिभिः॥ १९॥

श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम्‌।
भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि॥ २०॥

सर्वेषु चैव जीवेषु परमात्मा विराजते।
सर्वं हि तदिदं ब्रह्मन्‌ स्थितं हि परमात्मनि॥ २१॥

सर्वेषु चैव जीवेषु स्थितंह्यंशद्वयं क्वचित्‌।
जीवांशो ह्यधिकस्तद्वत्‌ परमात्मांशकः किल॥ २२॥

सूर्यादयो ग्रहाः सर्वे ब्रह्मकामद्विषादयः।
एते चान्ये च बहवः परमात्मांशकाधिकाः॥ २३॥

शक्तयश्च तथैतेषमधिकांशाः श्रियादयः।
स्वस्वशक्तिषु चान्यासु ज्ञेया जीवांशकाधिकाः॥ २४॥