बुद्धचरितम्/तृतीयः सर्गः
← द्वितीयः सर्गः | बुद्धचरितम् तृतीयः सर्गः अश्घोषविरचितम् |
चतुर्थः सर्गः → |
ततः कदाचिन्मृदुशाद्वलानि पुंस्कोकिलोन्नादितपादपानि
शुश्राव पद्माकरमण्डितानि (गीतैर्शीते )निबद्धानि स काननानि ।। ३.१ ।।
श्रुत्वा ततः स्त्रीजनवल्लभानां मनोज्ञभावं पुरकाननानां
बहिःप्रयाणाय चकार बुद्धिं अन्तर्गृहे नाग इवावरुद्धः ।। ३.२ ।।
ततो नृपस्तस्य निशम्य भावं पुत्राभिधानस्य मनोरथस्य
स्नेहस्य लक्ष्म्या वयसश्च योग्यां आज्ञापयां आस विहारयात्रां ।। ३.३ ।।
निवर्तयां आस च राजमार्गे संपातं आर्तस्य पृथग्जनस्य
मा भूत्कुमारः सुकुमारचित्तः संविग्नचेता (इति इव )मन्यमानः ।। ३.४ ।।
प्रत्यङ्गहीनान्विकलेन्द्रियांश्च जीर्णातुरादीन्कृपणांश्च (दिक्षु भिक्षून्) ।।
ततः समुत्सार्य परेण साम्ना शोभां (परां परा )राजपथस्य चक्रुः ।। ३.५ ।।
ततः कृते श्रीमति राजमार्गे श्रीमान्विनीतानुचरः कुमारः
प्रासादपृष्ठादवतीर्य काले कृताभ्यनुज्ञो नृपं अभ्यगच्छथ् ।। ३.६ ।।
अथो नरेन्द्रः सुतं आगताश्रुः शिरस्युपाघ्राय चिरं निरीक्ष्य
गच्छेति चाज्ञापयति स्म वाचा स्नेहान्न चैनं मनसा मुमोच ।। ३.७ ।।
ततः स जाम्बूनदभाण्डभृद्भिर् युक्तं चतुर्भिर्निभृतैस्तुरंगैः
अक्लीब(विद्वच्विद्युच्)छुचिरश्मिधारं हिरण्मयं स्यन्दनं आरुरोह ।। ३.८ ।।
ततः प्रकीर्णोज्ज्वलपुष्पजालं विषक्तमाल्यं प्रचलत्पताकं
मार्गं प्रपेदे सदृशानुयात्रश् चन्द्रः सनक्षत्र इवान्तरीक्षं ।। ३.९ ।।
कौतूहलात्स्फीततरैश्च नेत्रैर् (नीलोत्पलार्धैर्नीलोत्पलाभैर्)इव (कीर्यमाणं कीर्यमाणः ) ।।
शनैः शनै राजपथं जगाहे पौरैः समन्तादभिवीक्ष्यमाणः ।। ३.१० ।।
तं तुष्टुवुः स्ॐयगुणेन केचिद् ववन्दिरे दीप्ततया तथान्ये
स्ॐउख्यतस्तु श्रियं अस्य केचिद् वैपुल्यं आशंसिषुरायुषश्च ।। ३.११ ।।
निःसृत्य कुब्जाश्च महाकुलेभ्यो व्यूहाश्च कैरातकवामनानां
नार्यः कृशेभ्यश्च निवेशनेभ्यो देवानुयानध्वजवत्प्रणेमुः ।। ३.१२ ।।
ततः कुमारः खलु गच्छतीति श्रुत्वा स्त्रियः प्रेष्यजनात्प्रवृत्तिं
दिदृक्षया हर्म्यतलानि जग्मुर् जनेन मान्येन कृताभ्यनुज्ञाः ।। ३.१३ ।।
ताः स्रस्तकाञ्चीगुणविघ्निताश्च सुप्तप्रबुद्धाकुललोचनाश्च
वृत्तान्तविन्यस्तविभूषणाश्च (कौतूहलेनानिभृताः कौतूहलेनापि भृताः )परीयुः ।। ३.१४ ।।
प्रासादसोपानतलप्रणादैः काञ्चीरवैर्नूपुरनिस्वनैश्च
(वित्रासयन्त्यो विभ्रामयन्त्यो )गृहपक्षिसंघान् अन्योअन्यवेगांश्च समाक्षिपन्त्यः ।। ३.१५ ।।
कासांचिदासां तु वराङ्गनानां जातत्वराणां अपि सोत्सुकानां
गतिं गुरुत्वाज्जगृहुर्विशालाः श्रोणीरथाः पीनपयोधराश्च ।। ३.१६ ।।
शीघ्रं समर्थापि तु गन्तुं अन्या गतिं निजग्राह ययौ न तूर्णं
(ह्रियाप्रगल्भा विनिगूहमाना छ्रिया प्रगल्भानि निगूहमाना (रहःप्रयुक्तानि रहः प्रयुक्तानि )विभूषणानि ।। ३.१७ ।।
परस्परोत्पीडनपिण्डितानां संमर्द(संक्षोभितसंशोभित)कुण्डलानां
तासां तदा सस्वनभूषणानां वातायनेष्वप्रशमो बभूव ।। ३.१८ ।।
वातायनेभ्यस्तु विनिःसृतानि परस्(परायासितपरोपासित)कुण्डलानि
स्त्रीणां विरेजुर्मुखपङ्कजानि सक्तानि हर्म्येष्विव पङ्कजानि ।। ३.१९ ।।
ततो विमानैर्युवती(करालैः कलापैः कौतूहलोद्घाटितवातयानैः
श्रीमत्समन्तान्नगरं बभासे वियद्विमानैरिव साप्सरोभिः ।। ३.२० ।।
वातायनानां अविशालभावाद् अन्योअन्यगण्डार्पितकुण्डलानां
मुखानि रेजुः प्रमदोत्तमानां बद्धाः कलापा इव पङ्कजानां ।। ३.२१ ।।
(तं ताः तस्मिन्)कुमारं पथि वीक्षमाणाः स्त्रियो बभुर्गां इव गन्तुकामाः
ऊर्ध्वोन्मुखाश्चैनं उदीक्षमाणा नरा बभुर्द्यां इव गन्तुकामाः ।। ३.२२ ।।
दृष्ट्वा च तं राजसुतं स्त्रियस्ता जाज्वल्यमानं वपुषा श्रिया च
धन्यास्य भार्येति शनैरवोचञ् शुद्धैर्मनोभिः खलु नान्यभावाथ् ।। ३.२३ ।।
अयं किल व्यायतपीनबाहू रूपेण साक्षादिव पुष्पकेतुः
त्यक्त्वा श्रियं धर्मं उपैष्यतीति तस्मिन्(हि ता छिता )गौरवं एव चक्रुः ।। ३.२४ ।।
कीर्णं तथा राजपथं कुमारः पौरैर्विनीतैः शुचिधीरवेषैः
तत्पूर्वं आलोक्य जहर्ष किंचिन् मेने पुनर्भावं इवात्मनश्च ।। ३.२५ ।।
पुरं तु तत्स्वर्गं इव प्रहृष्टं शुद्धाधिवासाः समवेक्ष्य देवाः
जीर्णं नरं निर्ममिरे प्रयातुं संचोदनार्थं क्षितिपात्मजस्य ।। ३.२६ ।।
ततः कुमारो जरयाभिभूतं दृष्ट्वा नरेभ्यः पृथगाकृतिं तं
उवाच संग्राहकं आगतास्थस् तत्रैव निष्कम्पनिविष्टदृष्टिः ।। ३.२७ ।।
क एष भोः सूत नरोऽभ्युपेतः केशैः सितैर्यष्टिविषक्तहस्तः
भ्रूसंवृताक्षः शिथिलानताङ्गः किं विक्रियैषा प्रकृतिर्यदृच्छा ।। ३.२८ ।।
इत्येवं उक्तः स रथप्रणेता निवेदयां आस नृपात्मजाय
संरक्ष्यं अप्यर्थं अदोषदर्शी तैरेव देवैः कृतबुद्धिमोहः ।। ३.२९ ।।
रूपस्य (हन्त्री छर्त्री )व्यसनं बलस्य शोकस्य योनिर्निधनं रतीनां
नाशः स्मृतीनां रिपुरिन्द्रियाणां एषा जरा नाम ययैष भग्नः ।। ३.३० ।।
पीतं ह्यनेनापि पयः शिशुत्वे कालेन भूयः (परिसृप्तं परिमृष्टं )उर्व्यां
क्रमेण भूत्वा च युवा वपुष्मान् क्रमेण तेनैव जरां उपेतः ।। ३.३१ ।।
इत्येवं उक्ते चलितः स किंचिद् राजात्मजः सूतं इदं बभाषे
किं एष दोषो भविता ममापीत्य् अस्मै ततः सारथिरभ्युवाच ।। ३.३२ ।।
आयुष्मतोऽप्येष वयः(प्रकर्षो प्रकर्षान् निःसंशयं कालवशेन भावी
एवं जरां रूपविनाशयित्रीं जानाति चैवेच्छति (चैव चैष )लोकः ।। ३.३३ ।।
ततः स पूर्वाशयशुद्धबुद्धिर् विस्तीर्णकल्पाचितपुण्यकर्मा
श्रुत्वा जरां संविविजे महात्मा महाशनेर्घोषं इवान्तिके गौः ।। ३.३४ ।।
निःश्वस्य दीर्घं (स्वशिरः स शिरः )प्रकम्प्य तमिंश्च जीर्णे विनिवेश्य चक्षुः
तां चैव दृष्ट्वा जनतां सहर्षां वाक्यं स (संविग्न संविग्नं )इदं जगाद ।। ३.३५ ।।
एवं जरा हन्ति च निर्विशेषं स्मृतिं च रूपं च पराक्रमं च
न चैव संवेगं उपैति लोकः प्रत्यक्षतोऽपीदृशं ईक्षमाणः ।। ३.३६ ।।
एवं गते सूत निवर्तयाश्वान् शीघ्रं गृहाण्येव भवान्प्रयातु
उद्यानभूमौ हि कुतो रतिर्मे जरा(भये भवे )चेतसि वर्तमाने ।। ३.३७ ।।
अथाज्ञया भर्तृसुतस्य तस्य निवर्तयां आस रथं नियन्ता
ततः कुमारो भवनं तदेव चिन्तावशः शून्यं इव प्रपेदे ।। ३.३८ ।।
यदा तु तत्रैव न शर्म लेभे जरा जरेति प्रपरीक्षमाणः
ततो नरेन्द्रानुमतः स भूयः क्रमेण तेनैव बहिर्जगाम ।। ३.३९ ।।
अथापरं व्याधिपरीतदेहं तए एव देवाः ससृजुर्मनुष्यं
दृष्ट्वा च तं सारथिं आबभाषे शौद्धोदनिस्तद्गतदृष्टिरेव ।। ३.४० ।।
स्थूलोदरः श्वासचलच्छरीरः स्रस्तांसबाहुः कृशपाण्दुगात्रः
अम्बेति वाचं करुणं ब्रुवाणः परं (समाश्रित्य समाश्लिष्य )नरः क एषः ।। ३.४१ ।।
ततोऽब्रवीत्सारथिरस्य स्ॐय धातुप्रकोपप्रभवः प्रवृद्धः
रोगाभिधानः सुमहाननर्थः (शक्तो शक्रो )अपि येनैष कृतोऽस्वतन्त्रः ।। ३.४२ ।।
इत्यूचिवान्राजसुतः स भूयस् तं सानुकम्पो नरं ईक्षमाणः
अस्यैव (जातो जातः [सिच्; wरोन्ग्सन्धि इन्EःJ])पृथगेष दोषः सामान्यतो रोगभयं प्रजानां ।। ३.४३ ।।
ततो बभाषे स रथप्रणेता कुमार साधारण एष दोषः
एवं हि रोगैह्परिपीड्यमानो रुजातुरो हर्षं उपैति लोकः ।। ३.४४ ।।
इति श्रुतार्थः स विषण्णचेताः प्रावेपताम्बूर्मिगतः शशीव
इदं च वाक्यं करुणायमानः प्रोवाच किंचिन्मृदुना स्वरेण ।। ३.४५ ।।
इदं च रोगव्यसनं प्रजानां पश्यंश्च विश्रम्भं उपैति लोकः
(विस्तीर्णं अज्ञानं विस्तीर्णविज्ञानं )अहो नराणां हसन्ति ये रोगभयैरमुक्ताः ।। ३.४६ ।।
निवर्त्यतां सूत (बहिःवहिः)प्रयाणान् नरेन्द्रसद्मैव रथः प्रयातु
श्रुत्वा च मे रोगभयं रतिभ्यः प्रत्याहतं संकुचतीव चेतः ।। ३.४७ ।।
ततो निवृत्तः स निवृत्तहर्षः प्रध्यानयुक्तः प्रविवेश (वेश्म सद्म ) ।।
तं द्विस्तथा प्रेक्ष्य च संनिवृत्तं (पर्येषणं पुर्यागमं )भूमिपतिश्चकार ।। ३.४८ ।।
श्रुत्वा निमित्तं तु निवर्तनस्य संत्यक्तं आत्मानं अनेन मेने
मार्गस्य शौचाधिकृताय चैव चुक्रोश रुष्टोऽपि च नोग्रदण्डः ।। ३.४९ ।।
भूयश्च तस्मै विदधे सुताय विशेषयुक्तं विषय(प्रचारं प्रकारं ) ।।
चलेन्द्रियत्वादपि (नाम सक्तो नापि शक्तो नास्मान्विजह्यादिति नाथमानः ।। ३.५० ।।
यदा च शब्दादिभिरिन्द्रियार्थैर् अन्तःपुरे नैव सुतोऽस्य रेमे
ततो (बहिर्वहिर्)व्यादिशति स्म यात्रां रसान्तरं स्यादिति मन्यमानः ।। ३.५१ ।।
स्नेहाच्च भावं तनयस्य बुद्ध्वा (स रागसंवेग)दोषानविचिन्त्य कांश्चिथ्
योग्याः समाज्ञापयति स्म तत्र कलास्वभिज्ञा इति वारमुख्याः ।। ३.५२ ।।
ततो विशेषेण नरेन्द्रमार्गे स्वलंकृते चैव परीक्षिते च
(व्यत्यस्य व्यत्यास्य )सूतं च रथं च राजा प्रस्थापयां आस बहिः कुमारं ।। ३.५३ ।।
ततस्तथा गच्छति राजपुत्रे तैरेव देवैर्विहितो गतासुः
तं चैव मार्गे मृतं उह्यमानं सूतः कुमारश्च ददर्श नान्यः ।। ३.५४ ।।
अथाब्रवीद्राजसुतः स सूतं नरैश्चतुर्भिर्ह्रियते क एषः
दीनैर्मनुष्यैरनुगम्यमानो (<> भूषितश्चाप्य्यो भूषितोऽश्वास्य्- )अवरुद्यते च ।। ३.५५ ।।
ततः स शुद्धात्मभिरेव देवैः शुद्धाधिवासैरभिभूतचेताः
अवाच्यं अप्यर्थं इमं नियन्ता (प्रव्याजहारार्थवदीश्वराय प्रव्याजहारार्थविदीश्वराय ) ।। ३.५६ ।।
बुद्धीन्द्रियप्राणगुणैर्वियुक्तः सुप्तो विसंज्ञस्तृणकाष्ठभूतः
(संवर्ध्य संबध्य )संरक्ष्य च यत्नवद्भिः (प्रियप्रियैस्प्रियाप्रियैस्)त्यज्यतए एष कोऽपि ।। ३.५७ ।।
इति प्रणेतुः स निशम्य वाक्यं संचुक्षुभे किंचिदुवाच चैनं
किं (केवलोऽस्यैव केवलस्यैव )जनस्य धर्मः सर्वप्रजानां अयं ईदृशोऽन्तः ।। ३.५८ ।।
ततः प्रणेता वदति स्म तस्मै सर्वप्रजानां (इदं अयं )अन्त(कर्म कर्मा ) ।।
हीनस्य मध्यस्य महात्मनो वा सर्वस्य लोके नियतो विनाशः ।। ३.५९ ।।
ततः स धीरोऽपि नरेन्द्रसूनुः श्रुत्वैव मृत्युं विषसाद सद्यः
अंसेन संश्लिष्य च कूबराग्रं प्रोवाच निह्रादवता स्वरेण ।। ३.६० ।।
इयं च निष्ठा (नियता नियतं )प्रजानां प्रमाद्यति त्यक्तभयश्च लोकः
मनांसि शङ्के कठिनानि न्éणां स्वस्थास्तथा ह्यध्वनि वर्तमानाः ।। ३.६१ ।।
तस्माद्(रथः रथं )सूत निवर्त्यतां नो विहार(भूमेर्भूमौ )न हि देशकालः
जानन्विनाशं कथं (आर्तिआर्त्ति)काले सचेतनः स्यादिह हि प्रमत्तः ।। ३.६२ ।।
इति ब्रुवाणेऽपि नराधिपात्मजे निवर्तयां आस स नैव तं रथं
विशेषयुक्तं तु नरेन्द्रशासनाथ् स पद्मषण्डं वनं एव निर्ययौ ।। ३.६३ ।।
ततः शिवं कुसुमितबालपादपं परिभ्रमत्प्रमुदितमत्तकोकिलं
विमानवत्(स कमलसकमल)चारुदीर्घिकं ददर्श तद्वनं इव नन्दनं वनं ।। ३.६४ ।।
वराङ्गनागणकलिलं नृपात्मजस् ततो बलाद्वनं (अतिनीयते अभिनीयते )स्म तथ्
वराप्सरो(वृतं नृत्यं )अलकाधिपालयं नवव्रतो मुनिरिव विघ्नकातरः ।। ३.६५ ।।
इति (श्रीबुद्धचरिते महाकाव्ये संवेगोत्पत्तिर्नाम तृतीयः सर्गः -- ३ --