बुद्धचरितम्/अष्ठमः सर्गः

विकिस्रोतः तः
Jump to navigation Jump to search
← सप्तमः सर्गः बुद्धचरितम्
अष्टमः सर्गः
अश्घोषविरचितम्
नवमः सर्गः →

ततस्तुरंगावचरः स दुर्मनास् तथा वनं भर्तरि निर्ममे गते
चकार यत्नं पथि शोक(निग्रहे विग्रहे तथापि चैवाश्रु न तस्य (चिक्षिये चिक्षिपे ) ।। ८.१ ।।

यं एकरात्रेण तु भर्तुराज्ञया जगाम मार्गं सह तेन वाजिना
इयाय भर्तुर्विरहं विचिन्तयंस् तं एव पन्थानं अहोभिरष्टभिः ।। ८.२ ।।

हयश्च (सौजा विचचार सौजस्वि चचार )कन्थकस् तताम भावेन बभूव निर्मदः
अलंकृतश्चापि तथैव भूषणैर् अभूद्गतश्रीरिव तेन वर्जितः ।। ८.३ ।।

निवृत्य चैवाभिमुखस्तपोवनं भृशं जिहेषे करुणं मुहुर्मुहुः
क्षुधान्वितोऽप्यध्वनि शष्पं अम्बु वा यथा पुरा नाभिननन्द नाददे ।। ८.४ ।।

ततो विहीनं कपिलाह्वयं पुरं महात्मना तेन जगद्धितात्मना
क्रमेण तौ शून्यं इवोपजग्मतुर् दिवाकरेणेव विनाकृतं नभः ।। ८.५ ।।

सपुण्डरीकैरपि शोभितं जलैरलंकृतं पुष्पधरैर्नगैरपि
तदेव तस्योपवनं वनोपमं गतप्रहर्षैर्न रराज नागरैः ।। ८.६ ।।

ततो भ्रमद्भिर्दिशि दीनमानसैर् अनुज्ज्वलैर्(बाष्पवाष्प)हतेक्षणैर्नरैः
निवार्यमाणाविव तावुभौ पुरं (शनैरपस्नातं शनै रजःस्नातं )इवाभिजग्मतुः ।। ८.७ ।।

(निशाम्य निशम्य )च स्रस्तशरीरगामिनौ विनागतौ शाक्यकुलर्षभेण तौ
मुमोच (बाष्पं वाष्पं )पथि नागरो जनः पुरा रथे दाशरथेरिवागते ।। ८.८ ।।

अथ ब्रुवन्तः समुपेतमन्यवो जनाः पथि च्छन्दकं आगताश्रवः
क्व राजपुत्रः (पुरकुल)राष्ट्र(नन्दनो वर्धनो ) हृतस्त्वयासाविति पृष्ठतोऽन्वयुः ।। ८.९ ।।

ततः स तान्भक्तिमतोऽब्रवीज्जनान् नरेन्द्रपुत्रं न परित्यजाम्यहं
रुदन्नहं तेन तु निर्जने वने गृहस्थवेशश्च विसर्जिताविति ।। ८.१० ।।

इदं वचस्तस्य निशम्य ते जनाः सुदुष्करं खल्विति निश्चयं ययुः
पतद्(धि जह्रुः विजह्रुः )सलिलं न नेत्रजं मनो निनिन्दुश्च (फलोत्थं फलार्थं )आत्मनः ।। ८.११ ।।

अथोचुरद्यैव विशाम तद्वनं गतः स यत्र द्विपराजविक्रमः
जिजीविषा नास्ति हि तेन नो विना यथेन्द्रियाणां विगमे शरीरिणां ।। ८.१२ ।।

इदं पुरं तेन विवर्जितं वनं वनं च तत्तेन समन्वितं पुरं
न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यथा दिवं ।। ८.१३ ।।

पुनः कुमारो विनिवृत्त इत्यथो गवाक्षमालाः प्रतिपेदिरेऽङ्गनाः
विविक्तपृष्ठं च (निशाम्य निशम्य )वाजिनं पुनर्गवाक्षाणि पिधाय चुक्रुशुः ।। ८.१४ ।।

प्रविष्टदीक्षस्तु सुतोपलब्धये व्रतेन शोकेन च खिन्नमानसः
जजाप देवायतने नराधिपश् चकार तास्ताश्च (यथाशयाः यथाश्रयाः )क्रियाः ।। ८.१५ ।।

ततः स (बाष्पवाष्प)प्रतिपूर्णलोचनस् तुरंगं आदाय तुरं(गमानुगः गमानसः ) ।।
विवेश शोकाभिहतो नृ(पक्षयं पालयं (युधापिनीते क्षयं विनीते )रिपुणेव भर्तरि ।। ८.१६ ।।

विगाहमानश्च नरेन्द्रमन्दिरं विलोकयन्नश्रुवहेन चक्षुषा
स्वरेण पुष्टेन रुराव कन्थको जनाय दुःखं प्रतिवेदयन्निव ।। ८.१७ ।।

ततः खगाश्च क्षयमध्यगोचराः समीपबद्धास्तुरगाश्च सत्कृताः
हयस्य तस्य प्रतिसस्वनुः स्वनं नरेन्द्रसूनोरुपयान(शङ्किनः शङ्किताः ) ।। ८.१८ ।।

जनाश्च हर्षातिशयेन वञ्चिता जनाधिपान्तःपुरसंनिकर्षगाः
यथा हयः कन्थक एष हेषते ध्रुवं कुमारो विशतीति मेनिरे ।। ८.१९ ।।

अतिप्रहर्षादथ शोकमूर्छिताः कुमारसंदर्शनलोललोचनाः
गृहाद्विनिश्चक्रमुराशया स्त्रियः शरत्पयोदादिव विद्युतश्चलाः ।। ८.२० ।।

विलम्ब(केश्यो वेश्यो )मलिनांशुकाम्बरा निरञ्जनैर्(बाष्पवाष्प)हतेक्षणैर्मुखैः
(स्त्रियो न रेजुर्मृजया कृष्णा विवर्णाअञ्जनया )विनाकृता दिवीव तारा रजनीक्षयारुणाः ।। ८.२१ ।।

अरक्तताम्रैश्चरणैरनूपुरैर् अकुण्डलैरार्जव(कन्धरैर्कर्णिकैर्)मुखैः
स्वभावपीनैर्जघनैरमेखलैर् अहारयोक्त्रैर्मुषितैरिव स्तनैः ।। ८.२२ ।।

(निरीक्ष्य ता बाष्पनिरीक्षिता वाष्प)परीत(लोचना लोचनं निराश्रयं छन्दकं अश्वं एव च
(विषण्णविवर्ण)वक्त्रा रुरुदुर्वराङ्गना वनान्तरे गाव इवर्षभोज्झिताः ।। ८.२३ ।।

ततः स(बाष्पा वाष्पा )महिषी महीपतेः प्रनष्टवत्सा महिषीव वत्सला
प्रगृह्य बाहू निपपात गौतमी विलोलपर्णा कदलीव काञ्चनी ।। ८.२४ ।।

हतत्विषोऽन्या (शिथिलांसशिथिलात्म)बाहवः स्त्रियो विषादेन विचेतना इव
न चुक्रुशुर्नाश्रु जहुर्न शश्वसुर् न (चेलुरासुर्लिखिता चेतना उल्लिखिता )इव स्थिताः ।। ८.२५ ।।

अधीरं अन्याः पतिशोकमूर्छिता विलोचनप्रस्रवणैर्मुखैः स्त्रियः
सिषिञ्चिरे प्रोषितचन्दनान्स्तनान् धराधरः प्रस्रवणैरिवोपलान् ।। ८.२६ ।।

मुखैश्च तासां नयनाम्बु(ताडितै ताडितैः रराज तद्राजनिवेशनं तदा
नवाम्बुकालेऽम्बुदवृष्टिताडितैः स्रवज्जलैस्तामरसैर्यथा सरः ।। ८.२७ ।।

सुवृत्तपीनाङ्गुलिभिर्निरन्तरैर् अभूषणैर्गूढसिरैर्वराङ्गनाः
उरांसि जघ्नुः कमलोपमैः करैः स्वपल्लवैर्वातचला लता इव ।। ८.२८ ।।

करप्रहारप्रचलैश्च ता (बभुस्बभुर् (तथापि यथापि )नार्यः सहितोन्नतैः स्तनैः
वनानिलाघूर्णितपद्मकम्पितै रथाङ्गनाम्नां मिथुनैरिवापगाः ।। ८.२९ ।।

यथा च वक्षांसि करैरपीडयंस् तथैव वक्षोभिरपीडयन्करान्
अकारयंस्तत्र परस्परं व्यथाः कराग्रवक्षांस्यबला दयालसाः ।। ८.३० ।।

ततस्तु रोषप्रविरक्तलोचना विषाद(संबन्धिसंबन्ध)कषायगद्गदं
उवाच (निश्वासनिःश्वास)चलत्पयोधरा विगाढशोकाश्रुधरा यशोधरा ।। ८.३१ ।।

निशि प्रसुप्तां अवशां विहाय मां गतः क्व स च्छन्दक मन्मनोरथः
उपागते च त्वयि कन्थके च मे समं गतेषु त्रिषु कम्पते मनः ।। ८.३२ ।।

अनार्यं अस्निद्घं अमित्रकर्म मे नृशंस कृत्वा किं इहाद्य रोदिषि
नियच्छ (बाष्पं वाष्पं )भव तुष्टमानसो न संवदत्यश्रु च तच्च कर्म ते ।। ८.३३ ।।

प्रियेण वश्येन हितेन साधुना त्वया सहायेन यथार्थकारिणा
गतोऽर्यपुत्रो ह्यपुनर्निवृत्तये रमस्व दिष्ट्या सफलः श्रमस्तव ।। ८.३४ ।।

वरं मनुष्यस्य विचक्षणो रिपुर् न मित्रं अप्राज्ञं अयोगपेशलं
सुहृद्ब्रुवेण ह्यविपश्चिता त्वया कृतः कुलस्यास्य महानुपप्लवः ।। ८.३५ ।।

इमा हि शोच्या व्यवमुक्तभूषणाः प्रसक्त(बाष्पाविलवाष्पाविल)रक्तलोचनाः
स्थितेऽपि पत्यौ हिमवन्महीसमे प्रनष्टशोभा विधवा इव स्त्रियः ।। ८.३६ ।।

इमाश्च विक्षिप्तविटङ्कबाहवः प्रसक्तपारावतदीर्घनिस्वनाः
विनाकृतास्तेन (सहावरोधनैर्सहैव रोधनैर् भृशं रुदन्तीव विमानपङ्क्तयः ।। ८.३७ ।।

अनर्थकामोऽस्य जनस्य सर्वथा तुरंगमोऽपि ध्रुवं एष कन्थकः
जहार सर्वस्वं इतस्तथा हि मे जने प्रसुप्ते निशि रत्नचौरवथ् ।। ८.३८ ।।

यदा समर्थः खलु सोढुं आगतान् इषुप्रहारानपि किं पुनः कशाः
गतः कशापातभयात्कथं (न्व्त्व्)अयं श्रियं गृहीत्वा हृदयं च मे समं ।। ८.३९ ।।

अनार्यकर्मा भृशं अद्य हेषते नरेन्द्रधिष्ण्यं प्रतिपूरयन्निव
यदा तु निर्वाहयति स्म मे प्रियं तदा हि मूकस्तुरगाधमोऽभवथ् ।। ८.४० ।।

यदि ह्यहेषिष्यत (बोधयन्बोधयञ्)जनं खुरैः क्षितौ वाप्यकरिष्यत ध्वनिं
हनुस्वनं वाजनिष्यदुत्तमं न चाभविष्यन्मम दुःखं ईदृशं ।। ८.४१ ।।

इतीह देव्याः परिदेविताश्रयं निशम्य (बाष्पवाष्प)ग्रथिताक्षरं वचः
अध्ॐउखः साश्रुकलः कृताञ्जलिः शनैरिदं छन्दक उत्तरं जगौ ।। ८.४२ ।।

विगर्हितुं नार्हसि देवि कन्थकं न चापि रोषं मयि कर्तुं अर्हसि
अनागसौ स्वः समवेहि सर्वशो गतो नृदेवः स हि देवि देववथ् ।। ८.४३ ।।

अहं हि जानन्नपि राजशासनं बलात्कृतः कैरपि दैवतैरिव
उपानयं तूर्णं इमं तुरंगमं तथान्वगच्छं विगतश्रमोऽध्वनि ।। ८.४४ ।।

व्रजन्नयं वाजिवरोऽपि नास्पृशन् महीं खुराग्रैर्विधृतैरिवान्तरा
तथैव दैवादिव संयताननो हनुस्वनं नाकृत नाप्यहेषत ।। ८.४५ ।।

(यतो बहिर्यदा वहिर्)गच्छति पार्थिवात्म(जे जस् तदाभवद्द्वारं अपावृतं स्वयं
तमश्च नैशं रविणेव पाटितं ततोऽपि दैवो विधिरेष गृह्यतां ।। ८.४६ ।।

(यदयदा)प्रमत्तोऽपि नरेन्द्रशासनाद् गृहे पुरे चैव सहस्रशो जनः
तदा स नाबुध्यत निद्रया हृतस् ततोऽपि दैवो विधिरेष गृह्यतां ।। ८.४७ ।।

यतश्च वासो वनवाससंमतं (निसृष्टं विसृष्टं )अस्मै समये दिवौकसा
दिवि प्रविद्धं मुकुटं च तद्धृतं ततोऽपि दैवो विधिरेष गृह्यतां ।। ८.४८ ।।

तदेवं आवां नरदेवि दोषतो न तत्प्रयातं (प्रति गन्तुं प्रतिगन्तुं )अर्हसि
न कामकारो मम नास्य वाजिनः कृतानुयात्रः स हि दैवतैर्गतः ।। ८.४९ ।।

इति प्रयाणं (बहुदेवं बहुधैवं )अद्भुतं निशम्य तास्तस्य महात्मनः स्त्रियः
प्रनष्टशोका इव विस्मयं ययुर् मनोज्वरं प्रव्रजनात्तु लेभिरे ।। ८.५० ।।

विषादपारिप्लवलोचना ततः प्रनष्टपोता कुररीव दुःखिता
विहाय धैर्यं विरुराव गौतमी तताम चैवाश्रुमुखी जगाद च ।। ८.५१ ।।

महोर्मिमन्तो मृदवोऽसिताः शुभाः पृथक्(पृथङ्पृथग्)मूलरुहाः समुद्गताः
(प्रवेरितास्प्रचेरितास्)ते भुवि तस्य मूर्धजा नरेन्द्रमौलीपरिवेष्टनक्षमाः ।। ८.५२ ।।

प्रलम्बबाहुर्मृगराजविक्रमो महर्षभाक्षः कनकोज्ज्वलद्युतिः
विशालवक्षा घनदुन्दुभिस्वनस् तथाविधोऽप्याश्रमवासं अर्हति ।। ८.५३ ।।

अभागिनी नूनं इयं वसुंधरा तं आर्यकर्माणं अनुत्तमं (पतिं प्रति ) ।।
गतस्ततोऽसौ गुणवान्हि तादृशो नृपः प्रजाभाग्यगुणैः प्रसूयते ।। ८.५४ ।।

सुजातजालावतताङ्गुली मृदू निगूढगुल्फौ (बिसविष)पुष्पक्ॐअलौ
वनान्तभूमिं कठिनां कथं नु तौ सचक्रमध्यौ चरणौ गमिष्यतः ।। ८.५५ ।।

विमानपृष्ठे शयनासनोचितं महार्हवस्त्रागुरुचन्दनार्चितं
कथं नु शीतोष्णजलागमेषु तछ् छरीरं ओजस्वि वने भविष्यति ।। ८.५६ ।।

कुलेन सत्त्वेन बलेन वर्चसा श्रुतेन लक्ष्म्या वयसा च गर्वितः
प्रदातुं (एवाभ्युचितो एवाभ्युदितो )न याचितुं कथं स भिक्षां परतश्चरिष्यति ।। ८.५७ ।।

शुचौ शयित्वा शयने हिरण्मये प्रबोध्यमानो निशि तूर्यनिस्वनैः
कथं (बत वत )स्वप्स्यति सोऽद्य मे व्रती पटैकदेशान्तरिते महीतले ।। ८.५८ ।।

इमं (प्रलापं विलापं )करुणं निशम्य ता भुजैः परिष्वज्य परस्परं स्त्रियः
विलोचनेभ्यः सलिलानि तत्यजुर् मधूनि पुष्पेभ्य इवेरिता लताः ।। ८.५९ ।।

ततो धरायां अपतद्यशोधरा विचक्रवाकेव रथाङ्गसाह्वया
शनैश्च तत्तद्विललाप विक्लवा मुहुर्मुहुर्गद्गदरुद्धया गिरा ।। ८.६० ।।

स मां अनाथां सहधर्मचारिणीं अपास्य धर्मं यदि कर्तुं इच्छति
कुतोऽस्य धर्मः सहधर्मचारिणीं विना तपो यः परिभोक्तुं इच्छति ।। ८.६१ ।।

शृणोति नूनं स न पूर्वपार्थिवान् महासुदर्शप्रभृतीन्पितामहान्
वनानि पत्नीसहितानुपेयुषस् तथा (हि स )धर्मं मदृते चिकीर्षति ।। ८.६२ ।।

मखेषु वा वेदविधानसत्कृतौ न दंपती पश्यति दीक्षितावुभौ
समं बुभुक्षू परतोऽपि तत्फलं ततोऽस्य जातो मयि धर्ममत्सरः ।। ८.६३ ।।

ध्रुवं स जानन्मम धर्मवल्लभो मनः (प्रियेर्ष्याकलहं प्रियेऽप्याकलहं )मुहुर्मिथः
सुखं विभीर्मां अपहाय रोसणां महेन्द्रलोकेऽप्सरसो जिघृक्षति ।। ८.६४ ।।

इयं तु चिन्ता मम कीदृशं नु ता वपुर्गुणं बिभ्रति तत्र योषितः
वने यदर्थं स तपांसि तप्यते श्रियं च हित्वा मम भक्तिं एव च ।। ८.६५ ।।

न खल्वियं स्वर्गसुखाय मे स्पृहा न तज्जनस्यात्मवतोऽपि दुर्लभं
स तु प्रियो मां इह वा परत्र वा कथं न जह्यादिति मे मनोरथः ।। ८.६६ ।।

अभागिनी यद्यहं आयतेक्षणं शुचिस्मितं भर्तुरुदीक्षितुं मुखं
न मन्दभाग्योऽर्हति राहुलोऽप्ययं कदाचिदङ्के परिवर्तितुं पितुः ।। ८.६७ ।।

अहो नृशंसं सुकुमारवर्चसः सुदारुणं तस्य मनस्विनो मनः
कलप्रलापं द्विषतोऽपि हर्षणं शिशुं सुतं यस्त्यजतीदृशं (बत स्वतः ) ।। ८.६८ ।।

ममापि कामं हृदयं सुदारुणं शिलामयं वाप्य्(अयसोऽपि अयसापि )वा कृतं
अनाथवच्छ्रीरहिते सुखोचिते वनं गते भर्तरि यन्न दीर्यते ।। ८.६९ ।।

इतीह देवी पतिशोकमूर्छिता रुरोद दध्यौ विललाप चासकृथ्
स्वभावधीरापि हि सा सती शुचा धृतिं न सस्मार चकार नो ह्रियं ।। ८.७० ।।

ततस्तथा शोकविलापविक्लवां यशोधरां प्रेक्ष्य वसुंधरागतां
महारविन्दैरिव वृष्टिताडितैर् मुखैः स(बाष्पैर्वाष्पैर्)वनिता विचुक्रुशुः ।। ८.७१ ।।

समाप्तजाप्यः कृतह्ॐअमङ्गलो नृपस्तु देवायतनाद्विनिर्ययौ
जनस्य तेनार्तरवेण चाहतश् चचाल वज्रध्वनिनेव वारणः ।। ८.७२ ।।

निशाम्य च च्छन्दककन्थकावुभौ सुतस्य संश्रुत्य च निश्चयं स्थिरं
पपात शोकाभिहतो महीपतिः शचीपतेर्वृत्त इवोत्सवे ध्वजः ।। ८.७३ ।।

ततो मुहूर्तं सुतशोकमोहितो जनेन तुल्याभिजनेन धारितः
निरीक्ष्य दृष्ट्या जलपूर्णया हयं महीतलस्थो विललाप पार्थिवः ।। ८.७४ ।।

बहूनि कृत्वा समरे प्रियाणि मे महत्त्वया कन्थक विप्रियं कृतं
गुणप्रियो येन वने स मे प्रियः प्रियोऽपि सन्नप्रियवत्(प्रवेरितः प्रचेरितः ) ।। ८.७५ ।।

तदद्य मां वा नय तत्र यत्र स व्रज द्रुतं वा पुनरेनं आनय
ऋते हि तस्मान्मम नास्ति जीवितं विगाढरोगस्य सदौषधादिव ।। ८.७६ ।।

सुवर्णनिष्ठीविनि मृत्युना हृते सुदुष्करं यन्न ममार (संजयः सृञ्जयः ) ।।
अहं पुनर्धर्मरतौ सुते गते (मुमुक्षुर्अमुमुक्षुर्)आत्मानं अनात्मवानिव ।। ८.७७ ।।

विभोर्दशक्षत्रकृतः प्रजापतेः परापरज्ञस्य विवस्वदात्मनः
प्रियेण पुत्रेण सता विनाकृतं कथं न मुह्येद्धि मनो मनोरपि ।। ८.७८ ।।

अजस्य राज्ञस्तनयाय धीमते नराधिपायेन्द्रसखाय मे स्पृहा
गते वनं यस्तनये दिवं गतो न मोघ(बाष्पः वाष्पः )कृपणं जिजीव ह ।। ८.७९ ।।

प्रचक्ष्व मे भद्र तदाश्रमाजिरं हृतस्त्वया यत्र स मे जलाञ्जलिः
इमे परीप्सन्ति हि (तं ते )पिपासवो ममासवः प्रेतगतिं यियासवः ।। ८.८० ।।

इति तनयवियोगजात(दुःखः दुःखं क्षितिसदृशं सहजं विहाय धैर्यं
दशरथ इव रामशोकवश्यो बहु विललाप नृपो विसंज्ञकल्पः ।। ८.८१ ।।

श्रुतविनयगुणान्वितस्ततस्तं मतिसचिवः प्रवयाः पुरोहितश्च
(समधृतं अवधृतं )इदं ऊचतुर्यथावन् न च परितप्तमुखौ न चाप्यशोकौ ।। ८.८२ ।।

त्यज नरवर शोकं एहि धैर्यं कुधृतिरिवार्हसि धीर नाश्रु मोक्तुं
स्रजं इव मृदितां अपास्य लक्ष्मीं भुवि बहवो (छि नृपा वनान्यतीयुः ।। ८.८३ ।।

अपि च नियत एष तस्य भावः स्मर वचनं तदृषेः पुरासितस्य
न हि स दिवि न चक्रवर्तिराज्ये क्षणं अपि वासयितुं सुखेन शक्यः ।। ८.८४ ।।

यदि तु नृवर कार्य एव यत्नस् त्वरितं उदाहर यावदत्र यावः
बहुविधं इह युद्धं अस्तु तावथ् तव तनयस्य विधेश्च तस्य तस्य ।। ८.८५ ।।

नरपतिरथ तौ शशास तस्माद् द्रुतं इत एव युवां अभिप्रयातं
न हि मम हृदयं प्रयाति शान्तिं वनशकुनेरिव पुत्रलालसस्य ।। ८.८६ ।।

परमं इति नरेन्द्रशासनात्तौ ययतुरमात्यपुरोहितौ वनं तथ्
कृतं इति सवधूजनः सदारो नृपतिरपि प्रचकार शेषकार्यं ।। ८.८७ ।।

इति (श्रीबुद्धचरिते महाकाव्येऽन्तःपुरविलापो नामाष्टमः सर्गः -- ८ --