बिल्वाष्टकम्

विकिस्रोतः तः
बिल्वाष्टकम्
अज्ञातः
१९५३

॥ बिल्वाष्टकम् ॥


त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधं ।
त्रिजन्मपापसंहारं एकबिल्वं शिवार्पितम् ॥ १
त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः ।
तव पूजां करिष्यामि एक ...॥ २
दर्शनं बिल्ववृक्षैश्च स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एक ...॥ ३
सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।
यज्ञकोटिसहस्राणां एक ...॥ ४
दन्तिकोटिसहस्रेषु अश्वमेधशतानि च ।
कोटिकन्याप्रदानेन एक ...॥ ५
एकं च बिल्वपत्रैश्च कोटियज्ञफलं लभेत् ।
महादेवैश्च पूजार्थ एक ...॥ ६
काशीक्षेत्रे निवासं च कालभैरवदर्शनम् ।
गयाप्रयागमे दृष्ट्वा एक ...॥ ७

उमया सह देवेशं वाहनं नन्दिशङ्करम् ।
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ ८

॥ इति श्रीबिल्वाष्टकम् ॥


तुलसी बिल्व निर्गुण्डी अपामार्गकपित्थको ।
शमी चामलकं दूर्वा अष्टबिल्वाः प्रकीर्तिताः ॥ ९

॥इत्यष्टबिल्वानि॥

"https://sa.wikisource.org/w/index.php?title=बिल्वाष्टकम्&oldid=320186" इत्यस्माद् प्रतिप्राप्तम्