सामग्री पर जाएँ

फेब्रुवारीमासस्य प्रवचनानि

विकिस्रोतः तः

फेब्रुवरि 1

[सम्पाद्यताम्]

देहबुद्धिविस्मरणार्थं नामजपः।

[सम्पाद्यताम्]

स्वपरिचयार्थं नाम एव उपायः। परमेश्वरस्य अंशः प्राणिमात्रेषु वर्तते एव, परम् इदं ज्ञातुं बुद्धिः मनुष्यस्य समीपे एव वर्तते। तस्य अधोगतिः कथं भवति पश्यतु। जीवः मूलतः परमेश्वरः, अतः प्रथमं सः वदति, ‘अहं सः, इत्युक्ते परमेश्वरः एव’। इतः निस्सृत्य सः वदति, ‘अहं तस्य’। अन्ततः, ‘मम तस्य न कोऽपि सम्बन्धः’ इति भाषणे तस्य अधोगतिः जायते। यतो हि देहबुद्धेः प्रभावस्य वर्धनेन अन्ते देहः अहमिति अस्माकं दृढा भावना भवति। परं यदि एतादृशं भवति तर्हि मनुष्यः अज्ञानेन वा यत् सत्यं तदेव ज्ञातम् इव वदति। यथा कस्यचन मनुष्यस्य मित्रं दिवं गच्छति चेत् सः वदति, ‘मम मित्रं पञ्चत्वं गतम्’। इत्युक्ते पुरतः स्थापितं देहं सः मित्रम् इति न मन्यते, अपि तु तस्मिन् वर्तमानं चैतन्यम् ईश्वरीयम् अशं च सः स्वमित्रम् इति मन्यते। इत्युक्ते अज्ञानेन वा भवेत् यत् सत्यं तदेव तस्य मुखात् बहिः आगच्छति, परं स्वविषये एतां भावनां सः न कल्पते। अहम् देहः एव इति मत्वा सः व्यवहरति। यतो हि वास्तवं ‘अहं’त्वं विस्मृत्य देहबुद्धेः भावना दृढा भवति। अतः अस्य उपायः वर्तते यत् येन मार्गेण स्खलितः तेन एव मार्गेण उपरि गन्तव्यम्। अधुना प्रथमं कर्तव्यं यद् अद्यपर्यन्तं यः ‘अहं’ देहस्य आसम् सः अधुना परमेश्वरस्य इति भानं जागरणीयम्। अस्य भानस्य परमावस्था इत्युक्ते ‘अहं सः एव’ इति एतया भावनया भवितव्यम्। इदं कथं सिद्ध्येत्? तर्हि यस्य विस्मरणेन मम एषा अधोगतिः जाता, सः स्मर्तव्यः। स्मरणस्य उत्तमं साधनं भगवन्नाम। इत्युक्ते नामस्मरणस्य ध्यासः भवति चेत् कोऽहम् इति ज्ञायेत, स्वपरिचयः भवेच्च। वास्तवः परमार्थः एतादृशः सुगमः। परं सः योग्यमार्गेण कर्तव्यः। कश्चित् ग्रन्थिः मोचनीयः तर्हि क: तन्तुः कर्षणीयः इति ज्ञातव्यम्। अन्यथा अधिकमेव अवगुम्फनं भवेत्। तद्वत् परमार्थस्य अपि वर्तते। कः अहम् इति जानीमः चेत् कः परमात्मा इत्यपि सहजं ज्ञायते। द्वयोः अपि स्वरूपम् एकमेव। इत्युक्ते द्वौ अपि समानमेव। परमात्मा निर्गुणः। तं ज्ञातुम् अस्माभिः अपि निर्गुणैः भवितव्यं ननु। अतः देहबुद्धिः त्यक्तव्या। किमपि वस्तु वयं जानीमः इत्युक्ते अस्माभिः तेनैव वस्तुरूपेण भवितव्यम्। तद् विना ज्ञानमेव न भवेत्। अतः परमात्मानं ज्ञातुम् अस्माभिः परमात्मरूपैः न भवितव्यं वा? इदम् एव ‘सत्पुरुषः भूत्वा सत्पुरुषः ज्ञातव्यः’ ‘शिवः भूत्वा शिवं यजेत्’ इति वदन्ति।

*** यावत् नामस्मरणे सम्यक् तल्लीनः न भवति, तावदहंकारः न नश्यति।***

[सम्पाद्यताम्]

फेब्रुवरि 2

[सम्पाद्यताम्]

नामजपेन सद्बुद्धिः जायते।

[सम्पाद्यताम्]

युद्धप्रसङ्गं परिहर्तुं कौरवाः पाण्डवेभ्यः न्यूनातिन्यूनं पञ्चग्रामान् दद्युः इति मत्वा स्वयं भगवान् श्रीकृष्णः दुर्योधनं प्रति मध्यस्थवार्तां कर्तुं गतवान्। तदा दुर्योधनः अभणत्, “देव, यत् भवान् वदति तत् सर्वं सम्यग् वर्तते। न्यायदृष्ट्या भवतः वचनानुसारं किमपि करणीयम्। परं मम तथा बुद्धिः न भवति। तदर्थम् अहं किं करवाणि? भवान् सर्वप्रभुः। मम बुद्धिं परिवर्तयतु, येन सर्वे प्रश्नाः समाप्स्यन्ते।” परं तथा किमपि न जातं, युद्धम् एव अभवत् इति विख्यातम्। तथा एव रावणस्य अपि। अतः सगुणावतारेण वासनायाः बुद्धेः वा परिवर्तनकार्यं न भवति इति दृश्यते। सद्बुद्धेः उत्पादनस्य सामर्थ्यं भगवन्नाम्नि एव वर्तते। अतः त्रिकालेन अबाधितस्य नामावतारस्य अधुना आवश्यकता वर्तते। नाम इत्युक्ते भगवानेव। तन्नाम अनन्याः भूत्वा वयं जपामः। कस्यचन जनस्य स्वास्थ्यं सम्यगासीत्। परं तस्य पादे दोषः जातः। वैद्येन उक्तं यत् जीवरक्षणार्थं शरीररक्षणार्थं च पादकर्तनम् अपेक्ष्यते। प्राणमात्रं वर्तते परं हस्तौ न चेष्टेते, पादौ न चलत:, नेत्रे न पश्यतः, कर्णौ न श्रुणुतः, तर्हि कः लाभः? प्रत्युत अन्यत् सर्वं वर्तते, परं प्राणो नास्ति, तर्हि न लाभः। प्राणः वर्तते, परम् अवशिष्टेषु कश्चन अवयवः न विद्यते तर्हि जीवनं प्रवर्तते। चिन्तयन्तु, कर्णेन श्रवणम् अशक्यम्। भवतु नाम। बहु हानिः न। उपासना अनुसन्धानं च प्राणसदृशं मन्यन्ताम्। अन्यकार्याणि शरीरेन्द्रियसमानानि। अतः भगवदनुसन्धानं न जातं चेत् प्राणः गतः इव। तत् कृत्वा अन्ये सर्वे विषयाः यावत् शक्यं करणीयाः। तद्विना अन्ये विषयाः कृताः चेत् अतिनिराशा वर्तते। अस्माकं मनोनुकूलं न भवति अतः वयं दुःखिनः इति वचनापेक्षया इदं चिन्तनम् अस्माकं मनसि वर्तते इत्येव दुःखमूलम् इति वक्तव्यम्। विशिष्ट: विषयः सुखदायकः इति कल्पना एव दुःखमूलम्। इदं ज्ञात्वा अस्माभिः वर्तनीयम्। बिडालः मूषकेन सह क्रीडति। तं धरति, मुञ्चति, परम् अन्ते प्राणान् एव हरति। तथैव कालः अस्माभिः सह करोति। आशायाम् आसज्जयति। पुनः त्यजति। आरम्भतः अस्माभिः अवगन्तव्यं यदिदं बन्धनं न लाभकरम्। अनुसन्धानेन एव मनुष्यकल्याणम्। अन्यथा बहु कठिनम्। अहमहम् इति वक्तारः ज्ञानोपदेशकाः विद्वांसः, शास्त्रिणः, पण्डिताः, च सर्वे भ्रमे सन्ति। अतः वदामि, यदेकं कुर्वन्तु, अनुसन्धानं सन्धार्य यावत् कर्तुं शक्यते तावत् कुर्वन्तु।

*** अस्माकम् इच्छानुसारं न भवति इति भगवत्कृपा एव।***

[सम्पाद्यताम्]

फेब्रुवरि 3

[सम्पाद्यताम्]

नामजपेन अस्माकम् अवगुणाः ज्ञायन्ते।

[सम्पाद्यताम्]

जगति विद्यमानानि विविधानि साधनानि पश्यामः चेत् तेषु सर्वेषु प्रथमः सोपानः वर्तते यत् मनुष्यः स्वावगुणान् पश्येत्। यथा यथा साधनं वर्धते तथा तथा स्वावगुणाः प्रकर्षेण दृश्यन्ते, न न, पर्वतप्रायाः भासन्ते। “हे परमेश्वर, एतावद्भिः अवगुणैः पूरितः अहं भवतः दर्शनं कथम् अपेक्षे? एतावति पर्वतप्राये अवगुणसञ्चये सति भवतः दर्शनं कालत्रये वा कर्तुं शक्नोमि” इति मनः चिन्तयति। साधनात् प्राक् क्रोधी जनः क्रोधविषये खिन्नतां न अनुभवति। किं बहुना सः दोषः इति न अङ्गीकरोति। सः वदति “ व्यवहारे एतादृशः उग्रभावः आवश्यकः एव। तं विना कार्यं कथं भवेत्?” कश्चन साधको माम् उक्तवान् ‘साम्प्रतम् अहं बहु क्रोधाविष्टः जायमानः अस्मि।’ वस्तुतः तस्य अधुना एव क्रोधः न, सः तु पूर्वस्माद् आरभ्य वर्तते, परं साधनानन्तरं तेन भानं प्राप्तम्। क्रोधः असमीचीनः इति तस्य ज्ञानं जायमानं वर्तते। कश्चन विवाहोत्सुक: युवकः आसीत्। बह्व्यः युवत्यः तेन दृष्टाः। परम् एकापि तस्मै न अरोचत। जामितौ तस्य पितरौ उक्तवन्तौ ‘ आदौ कन्यां चिनोतु। अनन्तरम् आवां पश्यावः।’ तौ कन्यां द्रष्टुमपि न गच्छतः स्म। तस्य अग्रजा तेन सह गच्छति स्म। कदाचिद् एकां कन्यां दृष्ट्वा सा अपृच्छत्, ‘कथं मन्यते भवान्?’ सः अवदत्, ‘न। न अनुमन्ये किल।’ सा बहु चतुरा आसीत्। सा केवलं दर्पणं तस्य मुखस्य पुरतः धृतवती उक्तवती च, ‘अस्य मुखस्य पुरतः कथं भासते सा?’ स्वस्य मुखं दृष्ट्वा सः अभणत्, ‘ओह, बहु सम्यक् भासते।’ सारांशेन यावत् स्वदर्शनं न भवति तावत् अन्येषाम् अवगुणाः एव दृश्यन्ते। अन्येषाम् अवगुणान् वयं पश्यामः परं तेषां बीजम् अस्मासु एव वर्तते इति अस्माभिः सम्यग् ज्ञातव्यम्। अतः अन्येषाम् अवगुणदर्शनस्वभावः अस्माभिः परिहर्तव्यः। अन्येषाम् अवगुणदर्शनं सामान्यः व्यवहारः। न तु परमार्थः। वास्तवः परमार्थी सततम् आत्मानं परीक्षते। अन्येषाम् अवगुणान् सः न पश्यति। स्वावगुणान् एव सः एतावत् पश्यति यत् तुलनया अन्ये सर्वे तेन परमेश्वरस्वरूपमेव दृश्यन्ते। एषः एव परमार्थः।

***आत्मपरीक्षां कृत्वा स्वावगुणानाम् उन्मूलनं करणीयम् इति एकम् उत्तमं साधनम्। इदं प्राप्तुं नामस्मरणसदृशम् अन्यत् साधनं न वर्तते।***

[सम्पाद्यताम्]

फेब्रुवरि 4

[सम्पाद्यताम्]

भगवन्नामजपेन एव वासनाक्षयः।

[सम्पाद्यताम्]

वयं सर्वे जीवाः वासनायां बद्धाः। यतो हि अस्माकं जीवनमेव वासनायां वर्तते। वासना इत्युक्ते ‘यद् वर्तते तद् भवेदेव परम् अधिकमपि लभ्येत’ इति मननम्। वयं साम्प्रतम् अस्यां स्थित्यां स्मः। अथ आरम्भे वयं वदामः यद् यद् वर्तते तद् भवेत् यत् अधिकं याचनीयं तद् भगवन्तं याचामहे। तेन यदि लभ्यते तर्हि भगवता दत्तम्। यदि न लभ्यते तर्हि सः न इच्छति इति विज्ञाय दाता परमात्मा इति भावना वर्धेत। विद्यमानं सर्वं तस्य इच्छायाः एव फलम् इति मत्वा अस्वस्थता आसक्तिः च क्षयेताम्। क्षीयमाणायाम् आसक्त्याम् इच्छा अनिच्छा अपि क्षयेतां, वासनापि क्षीणा भवेत् च। स्वकर्तृत्वमात्रेण वासनातीतत्वं न शक्यते, शरणागतिं विना न पर्यायः। एतदर्थं योग्यसङ्गत्या अपि लाभः वर्तते। कस्यचित् मुनेः सङ्गत्या वस्त्रासक्तिः न्यूना भवेत् परं धनिकस्य सङ्गत्या विलासिभावः वर्धेत। अतः सङ्गतिः एतादृशी भवेत् येन शरणागतभावः लभ्येत। शरणागतिः इत्युक्ते सर्वं परमेश्वराय समर्प्य अवस्थातव्यम्। एतस्य अर्थः वर्तते यत् अस्माभिः उपाधिविरहितत्वेन भवितव्यम्। अतः वयं तादृशं साधनं चिनुमः, यत् अत्यन्तम् उपाधिरहितं वर्तते। इदं साधनं वर्तते भगवन्नाम। कालः, समयः, परिस्थितिः, उच्चनीचभावः, स्त्रीपुरुषत्वं, सुज्ञाज्ञता, श्रीमत्त्व-दारिद्र्यं, स्वास्थ्यास्वास्थ्यम् इत्यादयः के अपि विषयाः नामजपं परिहर्तुं न शक्नुवन्ति। तथैव तदर्थं न कानि अपि साधनानि अपेक्षितानि। नामस्मरणं हृदये सततम् अस्माभिः सह भवितुमर्हति। नामजपे वैराग्यकष्टानि न सन्ति, क्वापि कदापि च अस्माभिः सह नेतुं शक्नुमः। तदर्थं विषयाणां तदाकारवृत्तिः त्यक्तव्या। हनुमता दत्तां मुद्रिकां दृष्ट्वा सीता रामस्वरूपं स्मृतवती। तद्वन्नामजपे रामस्मरणम् अधिकारं स्थापयति। एते मरणात् न बिभ्यति। भगवते सर्वं दानेन वासना न शिष्यते। वासना नश्यति चेत् कालः न प्रविशति। वासनानाशः इत्युक्ते देहबुद्धिनाशः। वासनाक्षये ममत्वमरणम्। इदं मरणं नेत्राभ्यां द्रष्टुं भगवन्नामस्मरणे अवस्थातव्यम्।

***वासनाक्षयः भगवन्नामजपे वर्तते इति अक्षरशः सत्यम्।***

[सम्पाद्यताम्]

फेब्रुवरि 5

[सम्पाद्यताम्]

सिषाधयिषया नामस्मरणम्।

[सम्पाद्यताम्]

यदा वयं सुस्थित्यां भवामः तदास्माकं नामस्मरणं सम्यग् भवति। तस्यां कमपि दोषम् उद्भवति चेद् अस्माकं सर्वम् अवधानं तत्रैव भवति। यतो हि अस्माकं नामस्मरणम् उत्तानं वर्तते। श्रद्धया नामस्मरणं दुष्करम्। परमात्मानं विना न कोऽपि आत्मीयः इति दृढः निश्चयः श्रद्धा वा अपेक्ष्यते। तेन अस्वास्थ्ये सति अपि नामस्मरणं सम्यग् भवेत्। द्रौपदी ‘अधुना न कोऽपि त्राता’ इति मत्वा श्रीकृष्णम् आर्ततया आहूतवती तदा भगवान् सत्वरं धावितवान्। एतादृशं सत्यया सिषाधयिषया स्मरणम् अपेक्ष्यते। यथा शिशुः किमपि भवेत् चेद् मातरम् एव आह्वयति, अन्यं कमपि न जानाति, तद्वत् परमेश्वरविषये अस्माकं भावः भवेत्। अस्माकं वास्तवः आधारः कः इति व्यसने एव सम्यकग् ज्ञायते। नामस्मरणसोपानानि एतादृशानि। प्रथमं सुस्थित्याम् उत्तानं स्मरणम्। द्वितीयं व्यसनसमये परमात्मानं विना न कोऽपि त्राता इति मत्वा कृतं स्मरणम्। अस्मिन् भाने दृढे सति यद् भवति तद् अखण्डं नामस्मरणम्। एतेषु उपरितनस्तरे यो वर्तते सः सङ्कटानि ‘मा सन्तु’, इति वदति। सत्पुरुषाः सङ्कटानि आगच्छेयुः इति प्रार्थयन्ते यतो हि तदा एव भगवत्स्मरणं सम्यग् भवति। वयं स्वयं स्मः इति यथा विश्वासः वर्तते तथा भगवतः अस्तित्वस्य विश्वासः भवेत्। परमात्मा सर्वत्र वर्तते इति कल्पना कदाचिद् मनसि उद्भवति, परं सा सततं न विद्यते, तेन आचरणे न दृश्यते। यदा तादृशी भावना सततं वर्तते तदा आचरणमपि तथा भवेत्। भगवान् एव कर्ता इति भावः यदि दृढः भवेत् तर्हि प्रत्येकं विषयं तस्मै न कथयामः। ‘भगवान् मम सर्वं जानाति’ इति यदि सत्यम् मन्यामहे तर्हि यथा तस्मै रोचते तथैव व्यवहरामः। प्रभाते शीघ्रम् उत्थाय भगवन्मूर्तिं ध्याने आनीय प्रार्थना करणीया। ‘ भवतः विस्मरणे मां जागरयतु। भवन्तं विना न मम आधारः।’ इति उक्त्वा तं मनःपूर्वकं नमस्कारः अर्पणीयः। मनुष्यः कथमपि भवेत् भगवत्स्मरणे सः समाधानं निश्चयेन लभेत। भगवतः जनः जीवने जामितः न भवति। विषयानन्दः मद्यसदृशः वर्तते। मदे समाप्ते सति मनुष्यः अधिकः दुःखी भवति। ‘अहं भगवतः’ इति भावनया यः अवतिष्ठति सः वास्तवम् आनन्दम् अनुभवति।

***भोगे दुःखे वा समयं न यापयित्वा भगवान् अवधातव्यः।***

[सम्पाद्यताम्]

फेब्रुवरि ६

[सम्पाद्यताम्]

नामस्मरणं शरणागतिः भगवत्प्राप्तिः च।

[सम्पाद्यताम्]

भगवत्प्राप्तर्थ्यं शरणागतिं विना न मार्गः। शरणागत्यर्थं नामस्मरणसमः न उत्तमोपायः। शरणागतिः इत्युक्ते ‘अहं कर्ता’ इति अभिमानं विनाश्य सर्वकर्तृत्वं परमेश्वरस्य एव इति दृढः भावः धरणीयः। नाम विना इतरेषु साधनेषु कृतिः विद्यते। इत्युक्ते ‘अहं कर्ता’ इति भावस्य कृते अवकाशः विद्यते। स्मरणं मनसः धर्मः। तस्मिन् कृतिः नास्ति। तेन तस्मिन् अहङ्कारस्य कृते अवसरः न वर्तते। तथैव स्मरणं विस्मरणं च अस्माकं हस्ते न विद्यते। अतः नामस्मरणं भवति चेदपि तत्र स्वकर्तृत्वं न। तेन ‘अहं कर्ता’ इति भावः भवितुम् न अर्हति। ‘अहं नामस्मरणं करोमि’ एषः शब्दप्रयोगः अपि न योग्यः। यतो हि नाम्नः स्मरणं भवति। तत् ‘करोमि’ इति मत्वा न शक्यते। अतः शरणागत्यर्थं नामस्मरणसमं नान्यत् साधनम्। शरणागत्याः अन्यः अर्थः वर्तते कायिकवाचिकमानसीनां क्रियाणां स्थगनम्। कृतेः अकृतिः सुकरा। इत्युक्ते शरणागतिः सहजसाध्या इति मन्येत। परं तथा नानुभूयते। यद् बहु सुकरं भासते तत् कर्तुं बहुधा अतिकठिनं भवति। कमपि यानं वेगेन चालयतु इति वदामः चेत् सः चालयेत् परम् अतिमन्दं चालयतु इति वदामः चेद् दुष्करं भवति। अतः करणस्य अपेक्षया कृतेः अकरणम् अतिदुष्करम्। गीतायां कृष्णेन अर्जुनाय केवलं शरणम् आगन्तुं कथितम् अस्ति। देहबुद्धिनाशं विना शरणागतिः असम्भवा। देहबुद्धिः, वासना, अहङ्कारः च सर्वे एकमेव। जगति विद्यमानं वैभवं परमात्मप्राप्तिः च एकत्र भवितुं नार्हतः। अतः भगवान् श्रीकृष्णः उद्धवम् एकान्तस्थानं गत्वा हरिचिन्तनं कर्तुं सूचयति, ‘तेनैव मम सत्या प्राप्तिः भवेत्’ इति कथयति च। एतस्य एषः एव अर्थः यद् जगति अपाकृते एव भगवान् लभ्यते। भगवत्प्राप्तेः नियमाः तथा च व्यवहारवस्तुप्राप्तिनियमाः भिन्नाः सन्ति। मनसि उत्पन्नायाः वासनायाः तृप्त्यर्थं देहावयवानां चेष्टाः नाम व्यवहारः। सूक्ष्माः वासनाः देहसाहाय्येन जडत्वं प्राप्नुवन्ति तद् व्यवहारस्य वास्तवं स्वरूपम्। परं भगवतः विपरीतम्। भगवान् अतिसूक्ष्मः। तस्य प्राप्तिः इत्युक्ते जडात् सूक्ष्मं प्रति गमनम्। अतः तस्य साधनम् अपि यद् जडात् सूक्ष्मं प्रति नयति तदेव भवितुमर्हति। जडदेहसम्बन्धि तथा च सूक्ष्मेण लग्नं साधनं विद्यते नाम। ==== ***अनन्यतां विना भगवत्प्राप्तिः न। तस्यामेव भक्तिः जायते।*** ====

फेब्रुवरि 7

[सम्पाद्यताम्]

सर्वः रिक्तः समयः भगवन्तं प्रति योजनीयः।

[सम्पाद्यताम्]

सामान्यतः यानि वस्तूनि देहाय सुखं यच्छन्ति तानि विपुलानि प्राप्तव्यानि इति जन्मनः ध्येयम् इति वयं चिन्तयामः। परन्तु एतानि बहूनि वस्तूनि येषां समीपे वर्तन्ते ते सुखिनः न दृश्यन्ते। किं बहुना एतानि वस्तूनि यावन्ति अधिकानि सङ्गृह्णीमः, तावान् अस्माकं लोभः वर्धते एव। गच्छता कालेन आयुः वर्धते, देहः क्षीणः भवति, तस्य भोगसामर्थ्यं क्षीयते, वस्तूनां विद्यमानत्वेनापि मनसः अस्वस्थता सततं विद्यते। अतः सुज्ञेन जनेन अद्य आरभ्य स्वसुखं बाह्यवस्तुषु निरवलम्ब्य (तथैव वर्तितुम्) अभ्यासः करणीयः। बाह्यवस्तु मनसः निर्गतं चेद् अन्यत् किमपि वस्तु मनसे दातव्यं भवति। तादृशं वस्तु भगवान् एव। भगवान् इत्युक्ते सदा विद्यमानः, स्वयंपूर्णः, आनन्दमयः च । तस्य चिन्तनेन एते गुणाः तम् आयान्ति। अर्थात् मनसा आनन्दमयेन भगवत्चिन्तनेन तस्य जनस्य जीवनं कियत् रसमयं भवेत् इति कल्पना एव करणीया। अस्मत्सदृशाणां व्यावहारिकप्रापञ्चिकजनानां कृते एका एव बाधा आयाति। व्यवहारसाधनयोः मध्ये समञ्जनं कथं करणीयम्? वयं मन्यामहे यद् यः भगवच्चिन्तनं करोति सः व्यवहारं सम्यक् न करोति। तुकाराममहाराजसमं परमात्मचिन्तने विस्मृतभानानां जनानां विषयः भिन्नः। अस्मत्सदृशैः जनैः व्यवहारः अत्यन्तं सम्यक् कृत्वा प्राप्तः अवशिष्टः समयः भगवन्तं प्रति योजितः चेद् अस्माभिः उत्तमा उन्नतिः कृता इति वक्तुं शक्नुमः। वस्तुतः साम्प्रतं यावन्तं रिक्तं समयं लभामहे तावन्तं सर्वं भगवन्तं न योजयामः। अतः प्रतिदिने कञ्चित् समयम् अत्यन्तेन नियमेन भगवन्नामस्मरणे योजयितुं निश्चयं कुर्याम। नामस्मरणे सर्वे अन्तरायाः भवन्ति। वयं स्वयमपि अन्तरायः भवामः। तावत् अवधातव्यम्। जगति बहु आसक्तेन न भूत्वा नामजपः सततं करणीयः। अपि च देवविषये केवलं सत्पुरुषैः लिखितानि पुस्तकानि प्रतिदिनं स्वल्पं वा पठनीयानि। तद्विषये मन्तव्यम्। तत् कथम् आचरणीयम् इति अस्मिन् विषये सूक्ष्मचिन्तनं करणीयम्। अस्मिन् पथि पथिकाः शीघ्रं विकासं कुर्युः समाधानं प्राप्नुयुः च।

'"***समाधानमेव सत्यानन्दस्य चिह्नम्।***

[सम्पाद्यताम्]

फेब्रुवरि 8

[सम्पाद्यताम्]

नामस्मरणात् परं न किमपि हितकरम्। कश्चन जनः मया मिलितः। सः उक्तवान्, “अहं देवं द्रष्टुम् इच्छामि। भवद्भिः दृष्टः किम्?” मया उक्तम्, “मया दृष्टः।” सः पृष्टवान्, “अहं द्रष्टुं शक्नोमि किम्?” अहम् उदतरम्, “शक्नोषि। परं न एताभ्यां नेत्राभ्याम्। देवं द्रष्टुं भिन्ना दृष्टिः अपेक्ष्यते।” साम्प्रतम् अस्माकं विषयदृष्टिः वर्तते। सा न भगवद्दृष्टिः। भगवन्तं द्रष्टुमेकः एवोपायः। निरन्तरं भगवन्नामजपः करणीयः। नामजपं विना नान्यः मार्गः। इदमेव सर्वेषां कृते मम कथनं वर्तते। भवद्भिः इदं श्रोतव्यमेव । किमर्थम्? तर्हि भवद्भिः सम्यग् मार्गः आचरितः वा न, इति ज्ञातुम्। परं श्रवणमात्रेण न पर्याप्तम्। श्रुत्वा आचरणमपि अपेक्ष्यते। तदा एव सिद्ध्यते। अतः आचरणं कुर्वन्तु। यावद् आचरितं तावद् लाभाय। सर्वे नाम जपन्तु। नामस्मरणसदृशः कल्याणकरः मार्गः न। यत् सहजं समीपे वर्तते, यद् उपाधिरहितं, यद् न अवलम्बितं तद् भगवन्नाम। अतः यः शुद्धतया शुद्धाचरणेन च नाम जपति तस्य रामः निश्चयेन कल्याणं करोति। अस्माकं गुरुणा यत् कथितं तत् सत्यं मन्तव्यम्। एतेन मार्गेण शतं पदानि गच्छति चेद् धनं लभ्यते इति यदि गुरुणा कथितं तर्हि विपरीतमार्गेण गमनेन कः लाभः? अहं सगुणं साक्षात्कारम् इच्छामि इति वदामः परं साक्षाद् वदन्तं चलन्तं सद्गुरुं दृष्ट्वा समाधानं न भवति तर्हि परमात्मदर्शनं कारयित्वा कः लाभः? आम्रम् इच्छामः चेत् तद्बीजं वपनीयं भवति। सद्गुरोः उपदेशं विना मम किमपि हितकरं वर्तते इति मनसि अपि नागन्तव्यम्। अस्माभिः सत्यं तस्यैव भवितव्यम्। नामस्मरणात् अन्यत् न हितकरम्। मम नामस्मरणेन गृहे रुग्णेन जनेन सम्यग् भवितव्यमिति अपेक्षा इत्युक्ते नामजपस्य विषयार्थम् उपयोगः कृतः इति भवति ननु? सम्यग् भूत्वा वयम् औषधिं त्यजामः तथा आवश्यकता समाप्नोति चेद् वयं देवं विस्मरामः। अमुकं किमपि भवेत् इति मन्यते चेत् साधनायां न्यूनता आयाति। एकं सद्गुरुवचने विश्वसिमः तर्हि सुखदुःखविषयैः मनः न परिणमते। महानधिकारी तथापि बालकैः सह क्रीडासमये बालकः भवति तथा व्यवहारे वर्तनीयम्। निर्लोभेन व्यवहरणीयम्। क्रीडायां यथा न प्रमदामः तथा प्रपञ्चे करणीयम्। प्रपञ्चेन सह वासः उत्तानः भवेत्। अन्तरङ्गे मास्तु। अन्तरङ्गे केवलं भगवतः वासः भवेत्।

***गुरुचरणौ अतिविश्वासः। अखण्डसाधने वासः।।मुञ्चति प्रपञ्चपाशः। एष एव परमार्थमार्गः।।****

[सम्पाद्यताम्]

फेब्रुवरि 9

[सम्पाद्यताम्]

नित्यनियमः करणीयः इत्युक्ते किम्?

[सम्पाद्यताम्]

नित्यनियमः करणीयः इत्युक्ते सदा नित्यत्वेन स्थातव्यम्। मूलतः वयं स्वयं नित्यं स्मः परम् अनित्यत्वेन तिष्ठामः। नित्यं परमात्मानं विस्मृत्य अनित्येषु विषयेषु पतामः। अतः तं विस्मरामः। येन आचरणेन तं स्मरामः सः नित्यनियमः। सदा नित्यनियमे अवस्थातव्यम्। परं तथा न भवति। अतः प्रतिदिनं तं स्मर्तुं किमपि पठनं तस्य मननं च करणीयम्। तेन तस्य अभ्यासः भवति। यः अखण्डं नामस्मरणं करोति सः सदा नित्यनियमे भवति। वास्तवः नित्यनियमः येन कृतः सः ब्रह्मानन्दबुवा। निरन्तरं नामस्मरणं कथं करणीयमिति अस्माभिः चिन्तनीयम्। एतदर्थं गुर्वाज्ञा प्रमाणं मन्तव्या। इदम् एव वास्तवं साधनम्। गुरुः कथयति सः नित्यनियमः। तं शरणं गन्तव्यम्। प्रतिदिनं स्वल्पं पठनं, तदनन्तरं मननं, तदनुसारम् आचरणम्, अन्ते गुरुम् अनन्यशरणगमनम् एषः एव साधकस्य साधनक्रमः। एषः एव तस्य नित्यनियमः। यथा आयुः वर्धते तथा साधकस्य भगवता मेलनस्य इच्छा वर्धेत। नियममात्रम् इति मत्वा यथाकथञ्चित् न करणीयम्। साधकेन किमपि कार्यं मनसा करणीयम्। साशङ्कतया परमार्थः असम्यग् भवति। श्रद्धा परमार्थे मुख्यमधिष्ठानम्। समाधानमेव सर्वस्वमिति श्रद्धा भवेत्। ज्वरमापकेन ज्वरं पश्यामः तथा साधनायां समाधानं कियद् इति द्रष्टव्यम्। साधकेन जगति दोषाः न द्रष्टव्याः। यतो हि तेषां बीजमस्मासु एव वर्तते। लोकेषणा, मानः च बहु घातकौ। ज्येष्ठाः साधकाः तयोः कारणेन अधोगतिं प्राप्ताः। तथैव वित्तं कामवासना च एतयोः मर्यादायाः उल्लङ्घनेन महान्तः साधकाः भगवत्समीपम् आगत्य निस्सरन्ति। जगति विद्यमानाः एते सर्वे पाशाः अस्मान् बध्नन्ति। भगवत्पाशः एव योग्यः पाशः। सः च अस्मान् सर्वबन्धनात् मोचयित्वा शाश्वतं समाधानं ददाति। जगति मानापमानस्य मोहः कदापि न भवेत्। वित्तकामवासनाभ्यां मानः देहबुद्धिमधिकः लग्नः। तत्र अतीव सावधानता अपेक्ष्यते। यत्र मानप्राप्तिः सम्भाव्यते तत्र न गन्तव्यम्। परिहरणम् अशक्यं चेदिदं भगवद्दानमिति मनसा चिन्तनीयम्। यो वास्तवः महान् सः मानं न इच्छति। यदि लभते तर्हि तस्य बहु चिन्तां न करोति। अस्मभ्यं मानः रोचते किमिति द्रष्टव्यम्। तेन अस्माकं महत्तमत्वं ज्ञातुं शक्नुमः। गमनागमने देवं नमामः। रामरामेति वदामः। भगवत्प्रेम एकवारं लभ्यते चेत् पुनः न निर्गच्छति।

*** भगवत्पाशः पाश एव, परं सः बन्धनात् मोचयति।***

[सम्पाद्यताम्]

फेब्रुवरि 11

[सम्पाद्यताम्]

मायानिग्रहणात् मोचनार्थं नामजपम् एव साधनम्।

[सम्पाद्यताम्]

परमेश्वरस्य भक्तिः करणीया, तस्य नामस्मरणं करणीयम्, इति नैके जनाः मनसा इच्छन्ति, परं केनापि कारणेन तन्न भवति। ईदृशं किमर्थं भवति? तर्हि माया मध्ये आगच्छति। मायाम् अपसार्य भगवन्तं कथं प्राप्नुमः? माया भगवतः छाया इव वर्तते। ‘तां त्यक्त्वा भवान् आगच्छतु’ इति तं वदामः इत्युक्ते ‘भवान् मा आगच्छतु’ इति वचनसदृशम् एव वर्तते। यतो हि कमपि जनं ‘भवान् आगच्छतु परं स्वच्छायां मा आनयतु’ इति वदामः चेत् कथं शक्यते? अतः माया विद्यते एव। वयं तस्याः निग्रहणात् विमुच्य भगवन्तं प्रति कथं प्राप्नुमः इति एव प्रश्नः। अस्य प्रश्नस्य एकम् एव उत्तरं वर्तते यद् नाम जपनीयम्। नामजपेन एव मायानिग्रहणाद् भगवन्तं गन्तुं शक्यते। यथा जनं विना छायायाः अस्तित्वं न विद्यते तथा मायायाः स्वतन्त्रम् अस्तित्वं न विद्यते। तथैव तस्याः स्वतन्त्रा शक्तिः न विद्यते। यतो हि जनस्य चलनवलनानुरूपं तस्याः चलनवलनं प्रवर्तते। जनः न दृश्यते चेदपि छाया दृश्यते तथैव मायायाः अस्तित्वम् अवगम्यते। मायायाः शासनं भगवति न वर्तते। कश्चन जनः पूर्वदिशं गच्छन् अस्ति। तस्य छायापि तम् अनुसरति। छायायाः मनसि ‘दिशं परिवर्त्य पश्चिमदिशं गन्तव्यम्’ इति आयाति चेदपि सा तथा कर्तुं न शक्नोति। सः जनः यदि पश्चिमां प्रति गच्छति तर्हि सा गन्तुं शक्नुयात्। एतस्य एव अर्थः यद् माया भगवदधीना वर्तते। सर्वं विश्वं मायारूपम्, इत्युक्ते तत् परमेश्वरस्य छाया एव। विश्वाय परमेश्वरस्य एव आधारः इति अस्य अर्थः। अधुना अस्याः मायायाः निग्रहणाद् विमुच्य परमेश्वरं प्रति कथं गन्तव्यम्? चिन्तयन्तु, कश्चन मनुष्यः केनापि महता जनेन मेलितुम् इच्छति। साक्षात् तेन मेलनं न शक्यम्। यतो हि तस्य गृहद्वारे प्रहरी श्वा च वर्तेते। तौ परिहृत्य एव स्वामिनः मेलनं शक्यम्। परं चिन्तयन्तु, माम् अमुकस्मिन् दिने मिलतु इति तस्य स्वाक्षराङ्कितं पत्रं सः प्राप्नोति तर्हि प्रहरी पत्रं दृष्ट्वा तम् अन्तः प्रवेष्टुम् अनुमन्येत स्वामिनः मेलनं शक्येत च। तथैव भगवन्नाम इत्युक्ते भगवतः स्वाक्षराङ्कितं पत्रं स्वीकृत्य वयं गच्छामः चेद् मायारूपः प्रहरी तां स्वाक्षरं दृष्ट्वा अनुमन्येत, भगवद्दर्शनं भवेत् च। अतः मायाम् उत्तर्तुं नामस्मरणमेव रामबाणोपायः। नामस्मरणे बहु तल्लीनत्वं प्राप्तव्यम्। देहः विस्मर्तव्यः। देहबुद्धिं विस्मृत्य नामजपम् एव कुर्वता निर्गुणेन भवितव्यम्। भगवान् यदि कृपणः तर्हि नामभक्तिं न दद्यात्। अतः सः प्रार्थनीयः। ‘भवतः नाम्नि प्रेम ददातु’ इति याचनीयः। अन्यत् सर्वं ददाति, परं नामप्रेम सः क्वचिद् ददाति। अतो वयं तदेव याचामहै। रामस्य अनुसन्धानं नित्यं करणीयम्, आनन्देन स्थातव्यं च।

***विषयस्य आवेगः मायास्मरणं, नामस्मरणं भगवत्स्मरणम्।***

[सम्पाद्यताम्]

फेब्रुवरि 12

[सम्पाद्यताम्]

नाम सत्स्वरूपं वर्तते।

[सम्पाद्यताम्]

नाम रूपात् निश्चयेन श्रेष्ठम्। अतः रूपध्यानं मनसि न उत्पद्यते तर्हि अपि नामस्मरणं न त्यक्तव्यम्। अग्रे रूपमपि सहजम् उत्पद्यते। रूपस्य जडत्वेन दृश्यत्वेन च उत्पत्तिः,स्थितिः,विनाशः च, वर्धनं क्षयः च, स्थानव्याप्तिः स्थानपरिवर्तनं च, कालेन परिणमनम् चेत्यादीनि बन्धनानि तस्य वर्तन्ते, परं नाम्नः दृश्यातीतत्वेन सूक्ष्मत्वेन च, तस्य उत्पत्तिविनाशौ. वर्धनक्षयौ, देशकालमर्यादाः च इत्यादयः केपि विकाराः न सन्ति। नाम सत्स्वरूपं वर्तते। नाम रूपादपि व्यापकम्। व्यापकस्य वस्तुनः क्षेत्रं बृहद् अतः तस्मिन् शक्तिरपि अधिका। यस्मिन् वस्तुनि शक्तिरधिका तदधिकं स्वतन्त्रम्। यद् वस्तु अधिकं स्वतन्त्रं तस्य बन्धनानि मर्यादाः वा न्यूनाः। अतो नाम रूपादधिकं व्यापकं, शक्तिमत्, स्वतन्त्रं, बन्धनरहितं च वर्तते। अस्माकं ज्ञानक्रिया कथं प्रवर्तते तत् पश्यामः। वयं कस्मिञ्श्चित् पर्वते स्थित्वा सृष्टिसौन्दर्यं दृष्टवन्तः। अस्मिन् दर्शने काः काः क्रियाः भवन्ति? आदौ प्रकाशकिरणाः नेत्रयोः अन्तः गताः। मनुष्यस्य बाह्यवस्तुज्ञानार्थम् इन्द्रियं प्रथमं साधनम्। इन्द्रियद्वारा अन्तः आगतान् संस्कारान् संयोज्य मनः तान् वस्तुस्वरूपं यच्छति। वस्तुस्वरूपं सिद्धं भवति। बुद्धिः सम्यग् विमृश्य तस्य वस्तुनः यथार्थं ज्ञानम् अस्मान् कारयति। परं मनुष्यस्य बुद्धेः व्यापारः अत्रैव न तिष्ठति। पर्वतिकायां स्थित्वा समन्तात् दृष्टिक्षेपे सति वृक्षाः, वल्ल्यः, गृहाणि, उद्यानानि, जनाः, पक्षिणः, तडागाः, इत्यादीनां सर्ववस्तूनां ज्ञानं भवति, पुनः तेषाम् एकीकरणं भवति ‘एषा सृष्टेः शोभा वर्तते’ इति ज्ञानम् अस्माकं भवति। इत्युक्ते अनेकेषु एकत्वान्वेषणमेव मानवीयज्ञानस्य लक्षणम्। अस्मिन् जगति बहुविधं वैचित्र्यं वर्तते। विविधाः अश्मानः, विविधकीटकाः, विविधपक्षिणः, विविधप्राणिनः च इति एतेषां नामानि भिन्नानि तथापि एतेषु सर्वेषु अस्तित्वभावः वर्तते। सजीवः प्राणी भवेत्, निर्जीवं वस्तु भवेत् वा अस्तित्वभावः वर्तते एव। न तावन्मात्रम्, आनन्दस्य अपि अस्तित्वगुणः वर्तते। एतम् अस्तित्वभावं नाम इति वदन्ति। एतमेव ‘ओंकारः’ इति वदन्ति। ओङ्कारादेव सर्वा सृष्टिः विनिर्मिता। ओङ्कारः परमात्मस्वरूपः। अर्थात् नाम एव सत्। अतः नाम सृष्टेः आरम्भे वर्तते साम्प्रतं वर्तते सृष्टेः लयानन्तरमपि भविष्यति। नाम इत्युक्ते ईश्वरः एव। नाम्नः नैकानि रूपाणि उद्भवन्ति। अन्ते तस्मिन्नेव विलीयन्ते। रूपं नाम्नः भिन्नं स्थातुं न शक्नोति। नाम रूपं व्याप्य अवशिष्टं भवति।

      • नाम शाश्वतं वर्तते। तत् पूर्वमासीत्, अधुना वर्तते, अस्माकं गमनानन्तरम् अपि भविष्यति।***

फेब्रुवरि13

[सम्पाद्यताम्]

नामस्मरणस्य त्रिकालाबाधितं श्रेष्ठत्वम्।

[सम्पाद्यताम्]

नाम सच्चिदानन्दस्वरूपं वर्तते। शुद्धपरमात्मस्वरूपस्य अतिसन्निकर्षे यदि किमपि भवेत् तर्हि तत् केवलं नाम एव। चिन्मयत्वेन नाम्नः आनन्दः परिपूर्णः भवति सृष्टिः उद्भवति च। नैकानि रूपाणि घटनीयानि विघटनीयानि पुनः नूतनानि घटनीयानि परं स्वेन मूलस्वरूपेण अवस्थातव्यम् इति एषा कियती विलक्षणा लीला! भवन्तं किं वदामि खलु? भाषणपठनारम्भाद् अद्यपर्यन्तम् अहं नामविषये एव वदन्नस्मि तथापि नाममाहात्म्यं न समाप्नोति। नाममाहात्म्यं यदि समाप्नोति तर्हि भगवतः भगवत्त्वं मिथ्या जातम् इति मन्तव्यम्। यः नामजपे अहन्त्वेन विलीयते सः एव नाममाहात्म्यं जानाति। एतादृशः मनुष्यः नामविषये तूष्णीं तिष्ठेत् यतो हि तन्माहात्म्यं कोऽपि वक्तुं न शक्नुयात्। अथ वा अन्तिमश्वासपर्यन्तं नाममाहात्म्यम् एव कथयन् भवेत्। यतो हि कियद् अपि कथितं तन्न समाप्नोति, कियद् अपि श्रुतं न तृप्तिः भवति च। नामजपेन सर्वाणि पापानि नश्यन्ति। भगवद्विस्मरणं सर्वेभ्यः अधिकं पापम्। नामजपेन भगवतः स्मरणं भवति। नाम वेदेभ्यः अपि श्रेष्ठम्। कथं पश्यन्तु। वेदाध्ययनात् लाभं प्राप्तुं चतुर्णां वेदानामभ्यासः अपेक्ष्यते। तदर्थं बहु समयः तथा श्रमाः आवश्यकाः। नामजपार्थं श्रमाः न अपेक्ष्यन्ते। अपरं च वेदानामधिकारः सर्वेषां कृते न वर्तते। परं नाम कोपि जप्तुं शक्नोति। वेदमन्त्राणामारम्भः ओङ्कारेण भवति। अतः वेदारम्भे नाम एव वर्तते। नाम तीर्थयात्रातः अपि श्रेष्ठम्। अन्तरङ्गपरिवर्तनार्थम् एव यात्रा करणीया। परं तदर्थं धनं श्रमाः स्वास्थ्यं च इत्यादयः विषयाः अनुकूलाः स्युः। नाम गृहे स्थितस्य अपि अन्तरङ्गपरिवर्तनम् अनुभावयति। पण्ढरपुरं गत्वा नामस्मरणं न पठितं तर्हि गमनं व्यर्थम् एव। नामजपनस्य बुद्धिं प्राप्तुं तत्र गन्तव्यम्। नामस्मरणं सर्वेषां सत्कर्मणां राजा। सद् इत्युक्ते भगवान्, तं प्रति नयति तत् सत्कर्म। इतरकर्माणि वक्रमार्गेण नयन्ति, परं नाम साक्षाद् भगवन्तं प्रापयति। नामजपेन भवरोगः गच्छति। भवः इत्युक्ते विषयः। विषयासक्तिः सर्वरोगाणाम् आधारः। नामजपेन भगवत्प्रेम लभ्यते, अन्यासक्तिः नश्यति च। नामजपेन सर्वाणि दुःखानि नश्यन्ति। यतो हि अस्य दुःखस्य मूलं विषयासक्तिः। नामजपेन सा नश्यति। अतः दुःखं विलियते। अपि च भगवान् आनन्दरूपः। सः नाम्ना दृढं धृतः चेद् दुःखं तत्र कथं स्थातुं शक्नुयात्?

***प्रत्येकं जनेन भगवन्नाम जपनीयं, भगवान् ध्यातव्यः, स्मर्तव्यः, स्वजन्म सार्थं करणीयम् च।***

[सम्पाद्यताम्]

फेब्रुवरि 14

[सम्पाद्यताम्]

आनन्दमिच्छति चेद् नाम जपतु।

[सम्पाद्यताम्]

शरीरस्वास्थ्यार्थम् अपेक्षिते द्रव्ये यदा न्यूनाधिक्यम् उत्पद्यते तदा शरीरस्वास्थ्यं दुष्यति। सः एव रोगः। शुण्ठी न्यूनं द्रव्यं पूर्णं कृत्वा, अधिकं द्रव्यं न्यूनीकृत्य आरोग्यं रक्षति च। नाम शुण्ठीवत् वर्तते। परमार्थमार्गे ये गुणदोषाः विघ्नायन्ते तान् दूरीकृत्य प्रगतिमार्गं सम्यक् करोति। अतः कस्यापि केपि दोषा भवेयुः, निष्ठया नाम स्मृतं चेत् तस्य कार्यं सम्यग् भवति, सः ध्येयं प्राप्नोति च। अस्माकं गृहेषु नन्दादीपपद्धतिः वर्तते। सः नन्दादीपः अखण्डः प्रदीप्तः भवेत्। तदर्थं तैलं पूरणीयं भवति। तद्वद् यः आनन्दरूपं नन्दादीपम् इच्छति तेन सततं नामरूपं तैलं पूरणीयम्। सङ्क्षेपत: आनन्दकामः सततं नाम जपेत्। आनन्दस्य उद्भवः नामस्मरणे वर्तते। कदापि क्वापि च हिमे शैत्यं वर्तते एव, तद्वत् परमात्मनः समीपे आनन्दः वर्तते एवेति मन्तव्यम्। वयं जगति कार्याणि आनन्दार्थम् एव वर्धयामहे। परं भगवन्तं विना विद्यमानः आनन्दः कारणे अवलम्बितः। कारणानि नश्यन्ति चेद् आनन्दः अपि विलीयते। अतः एषः आनन्दः नश्वरः। भोक्तव्यं पातव्यं विलसितव्यम् च इति एतत् तत्त्वज्ञानं मया किञ्चित् समर्थ्यते। परं तस्मिन् दोषो यत् देहबुद्ध्यवलम्बितत्वात् तन्न शाश्वतम्। यतो हि अद्यतनोत्तमा परिस्थितिः श्वः परिवर्तते चेद् अस्य आनन्दः गतः। प्रत्युत प्राप्तपरिस्थित्याम् अस्माभिः आनन्दः निर्मातव्यः। प्रतिदिनं पञ्चनिमेषान् वा भगवता सह अनन्यं भवतु। एतेषां पञ्चनिमेषाणाम् आनन्दः केवलं शतवर्षजीवनेन न लभ्येत। शर्करायाः माधुर्यविषये प्रदीर्घप्रवचनापेक्षया किञ्चिद् वा शर्कराम् आस्वादयामः चेद् यथा यथार्थम् आनन्दः लभ्यते तद्वद् अत्र वर्तते। जीवने आनन्दः इति सत्यं परं आनन्दयुतं जीवनं न वर्तते तर्हि तद् मरणसममेव। यस्य समीपे भगवान् विद्यते सः आनन्दयुतं जीवनं प्राप्नोति। अतः यः जीवितुम् इच्छति सः नाम जपेत्। सदा सर्वदा योग तूझा घडावा ( सदा भवता सह वासः भवेत्।) इति सः श्रीसमर्थः प्रार्थितवान्। तुझा विसर न व्हावा ( भवन्तं न विस्मरेयम्।) इति श्रीतुकाराममहाराजः अयाचत। वणिजः अद्य साक्षात् (धनं दातव्यम्) श्वः वचनम् (दातव्यम्) इति फलकं योजयन्ति। तद्वदस्माभिः अपि अद्य आनन्दः श्वः दुःखम्, इति वृत्तिः रक्षणीया। यस्यानन्दः नामजपे स्थिरः भवति तस्य कृते सततं दीपावल्योत्सवः एव।

***भगवता वयं यथा स्थापिताः तत्रैव समाधानं मत्वा तं कदापि न विस्मरामः।***

[सम्पाद्यताम्]

फेब्रुवरि 15

[सम्पाद्यताम्]

यत्र नाम तत्राहम् अस्मि एव।

[सम्पाद्यताम्]

मां नाम्नि पश्यतु इति वदामि इत्यस्य अर्थः मम वसतिः नाम्नि न तु देहे। यतो हि अस्माकं मनो यत्र वर्तते तत्रैव वयं वस्तुतः स्मः। चिन्तयन्तु, भवन्तः यात्रार्थं गताः परं मनः गृहचिन्तने रतम् तर्हि देहः तीर्थक्षेत्रे भवति तथापि वस्तुतः भवन्तः गृहे एव सन्ति ननु? यदि कश्चन भवन्तं पृच्छति यद् भवन्तः सदा कुत्र वर्तन्ते तर्हि वयं सदा विषयेषु एव स्मः इति वक्तव्यं भविष्यति। यद् अधिकं रोचते तस्मिन्नेव जनाः लग्ना भवन्ति इति सत्यं ननु? अतः भवतः गुरुः कुत्र वर्तते इति कश्चन पृच्छति चेद् नाम्नि एव वर्तते इति भणिष्यति खलु? अतो यत्र नामजपः प्रवर्तते तत्र अहम् अस्मि एव। यः नामस्मरणं करोति तं परितः अहं विद्ये एव। शास्त्रिपण्डिताः वदन्ति, अस्माकं कृते ज्ञानमार्गः वर्तते। परं ते न अवगच्छन्ति यत् सः मार्गः अतिदुष्करः। तत्र अभिमाननाशस्य अपेक्षया वर्धनस्य एव सम्भावना अधिका। ‘ब्रह्म सत्यं जगन्मिथ्या’ इति तत्त्वं तेषां बुद्धिः स्वीकरोति परम् अनुभवः न लभ्यते। जगत् मिथ्या इति ते वदन्ति परं देहमेव सत्यं मन्यन्ते। विचारमात्रेण देहमिथ्यात्वस्य अनुभवः अतिदुष्करः। कर्ममार्गिणः वदन्ति, वयम् अस्माकं कर्ममार्गेण एव गच्छामः वयं नामजपे न विश्वसिमः। वेदैः उक्तानि बन्धनानि नियमान् च वयम् अनुसरामः। इति उक्त्वा ते एतावत् पालनं कुर्वन्ति यत् बन्धनानि एव सर्वस्वम् इति ते मन्यन्ते। ते न अवगच्छन्ति यत् ईश्वरप्राप्तिः साध्यं, बन्धननियमाः साधनरूपाः चेति। साध्यं साधयितुमेव बन्धनानि पालनीयानि। पुष्पवृक्षान् रक्षितुमेव वृतिः वर्तते। वृतिमेव ते सर्वस्वं मन्यन्ते तस्यै एव खाद्यं दत्त्वा तां वर्धयन्ते। अन्तस्स्थम् उद्यानं न अवध्यायन्ति। वैदिककर्मणा चित्तशुद्धिः भवति इति स्वीकरोमि परं यस्य भगवतः प्राप्त्यर्थं चित्तशुद्धिः करणीया तस्य भगवतः अधिष्ठानं यदि वैदिककर्मणां कृते न वर्तते तर्हि कर्ममार्गस्य पर्यवसानं कर्मठत्वे भवति। नाम्नि न विश्वसन्ति परं सन्ध्यावन्दने वैदिकर्मणाम् आरम्भे ओम् केशवाय नमः इति वदन्ति तन्न नाम किम्? वेदः इत्युक्ते देवानां स्तवनम्। स्तवनसमये अस्माकम् अवधानम् अर्थं प्रति भवेत्, न तु शब्दं प्रति। अर्थः न ज्ञायते चेद् भगवन्तं प्रति।

***रामनाम ओंकारस्य एव स्वरूपं, तत् सर्वकर्मणां साधनानां च प्राणस्वरूपम्।***

[सम्पाद्यताम्]

फेब्रुवरि 16

[सम्पाद्यताम्]

सत्पुरुषाः यथा कथयन्ति तथा वर्तनीयम्।

[सम्पाद्यताम्]

यस्यां स्थितौ परमात्मा अस्मान् स्थापयति, तस्याम् एव आनन्दः मन्तव्यः। प्रपञ्चे विद्यमानानां क्लेशानां दुःखं न मन्तव्यम्। जगति सर्वं ‘मम मम’ इति वयं वदामः परम् अस्माकं भागः कियान् इति चिन्तनं कदापि कुर्मः किम्? लब्धुं लाभयितुं वा अतिलिप्सया वयं वास्तवं दुःखम् अनुभवामः। अमुं लोभं नाशयितुं भगवत्स्मरणमेव कश्चनोपायः। ‘अहं भगवतः’ इति विज्ञाय वर्तनीयम्। भगवन्तं प्रति निरन्तरं चित्तं योजनीयम् इति एव वास्तवः धर्मः। न तु वयं जगत् वञ्चयेम, न वा जगत् अस्मान् वञ्चयेत्। नामस्मरणे यः वर्तते सः सत्सङ्गे एव भवति। उद्योगरुच्यनुरूपं सङ्गतिः वर्तते। मनोनाम्नोः सङ्गतिः योजनीया। स्वामिना सह विद्यमानः शुनकः धैर्येण अन्यान् प्रति भषति तथा वयं भगवतः आधारेण भवामः। केवलं भषणं मास्तु, लीनतया भवामः। अहं साधनां करोमि इति विस्मरणीयम्। तद्विषये अभिमानः चेत् साधनायां न्यूनत्वमेव। स्वकर्तव्यम् अवधाय सर्वैः सह प्रेम्णा वर्तनीयम्। पत्नी पतिं प्रसादयितुम् देवरं, श्वश्रूं, श्वशुरं च आद्रियते तद्वत् भगवन्तं प्रसादयितुम् अस्माभिः वर्तनीयम्। वैद्यः तस्यां कृष्णकूप्यां वर्तमानम् औषधिं मह्यं किमर्थं न ददाति इति पृच्छामः चेद् भवतः सः रोगः न वर्तते इति सः उत्तरति तथैव सत्पुरुषाः स्वभाववृत्तिं ज्ञात्वा मार्गं वदन्ति। एतदर्थम् एव सत्पुरुषाः यथा कथयन्ति तथा वर्तनीयम्। ते यथा वर्तन्ते तथा न वर्तनीयम्। अस्माकं वाताटं सत्पुरुषाय दत्त्वा मुक्तमनसा निश्चिन्ताः भवामः। गुरुणा कथिता साधना अस्माभिः करणीया। अग्रे मार्गदर्शनार्थं सः सिद्ध एव। यत्र मार्गद्वयं भवति तत्र एकः फलकः पण्ढरपुरस्य अपरः गोन्दवलेग्रामस्य भवति तथा साधनायां यतः मार्गद्वयम् आरभते तत्र गुरुः विद्यते एव। परं वृथा किमपि अकृत्वा अग्रे किं वर्तते इति पृच्छया कः लाभः? सत्पुरुषाः वेदानाम् अर्थं ज्ञातवन्तः। तेषां कियन्तः उपकाराः यत् ते अस्मान् कथितवन्तः। अतः वेदपठनस्य आवश्यकता न वर्तते। केवलं सत्पुरुषाणां कथनानुसारं वर्तनीयम्। तत्र अस्माकं चिन्तनं न आपादनीयम्। निश्चयेन अस्माकं कार्यं भवेत्। शैत्येन जलस्य हिमः भवति। हिमस्य अन्तर्बाह्यं जलमेव वर्तते तद्वत् यः अन्तर्बाह्यं भगवत्प्रेम्णा परिपूर्णः सः सत्पुरुषः। एतादृशाः सत्पुरुषाः नामस्मरणमात्रेण योजयितुं शक्याः।

***सद्गुर्वाज्ञापालनं कारं कारं साधकः नामस्मरणरुचिं लभते। उदरपूर्णं नामस्मरणम् कृत्वा आत्मा तृप्यति।***

[सम्पाद्यताम्]

फेब्रुवरि 17

[सम्पाद्यताम्]

नामस्मरणं भावयुक्तान्तःकरणेन करणीयम्।

[सम्पाद्यताम्]

साम्प्रतं (वाक्यांश: अवशिष्ट: किम्) देवस्य आवश्यकताम् अहं नानुभवामि इति सत्यं, परं सा कथमनुभवनीया इति तु अस्माभिः चिन्तनीयम्। भगवच्चिन्तनेन नामस्मरणेन वा इयम् आवश्यकता भासते। एतावती आवश्यकता भासेत यत् जलमन्नं वा मधुरं न स्वदेत। यावता बलेन वडवाग्निः तावता बलेन जलक्षेपणमपेक्ष्यते तद्वत् यावती देहबुद्धिर्बलवती तावन्नामस्मरणमधिकमपेक्ष्यते। नामजपे प्रेम न वर्तते अतः सः न त्यक्तव्यः। जले पतामश्चेत् तरणं शिक्ष्यते। काशीं न गतवन्तः परं तथा वदामः ननु? तद्वत् नाम्नि प्रेम नास्ति तथापि प्रेम वर्तते इति नित्यं वदेम तु। नाम विना नान्यत् सत्यं, नान्यत् साधनम् इति दृढविश्वासो भवति चेन्नामजपेन विना भवितुं नार्हति। तस्योच्चारणेन सह वासेन च तस्मिन् प्रेमोत्पद्यते। सत्पुरुषाः ‘देवः अस्ति’ इति वदन्ति, अहमपि वदामि, परं मम कथनम् अनुमानेन तेषां साक्षाद् अनुभवेन इति भेदः। सत्पुरुषाः देहातीताः। तैः सह वासे देहाभिमानः क्षीयते। साक्षाद् न वसामश्चेदपि भावं संस्थाप्य कार्यं यावत् शीघ्रं भवति तावद् देहस्य सह वासेन न भवति। तीर्थाय तीर्थत्वं, देवाय देवत्वं, गुरवे गुरुत्वं वयं स्वभावतया दद्मः। तीर्थक्षेत्रं गत्वा ‘वयमत्र स्नानेन निष्पापं भवामः’ इति भावना वर्तते चेदेव मम तत् तीर्थस्नानं भवेदन्यथा मम तज्जलमात्रमेव। सारांशेन भावे हि विद्यते सर्वम्। नाम भावं जनयति। भावयुक्तेन अन्तःकरणेन नाम जपेत् चेत् कार्यं शीघ्रं भवति। सत्पुरुषाणां लक्षणानि अस्माकं जीवने आचरितुं कथितानि सन्ति। परं लक्षणैः सत्पुरुषं ज्ञातुं न शक्नुमः। सत्पुरुषेण भूत्वा एव सः ज्ञायेत। प्रापञ्चिकेण तमवगन्तुं तस्य सङ्गतेः अस्मासु कः परिणामः इति ज्ञातव्यः। इत्युक्ते आत्मना सः ज्ञातव्यः। अस्माकं मनसा कञ्चित् समयं शान्तिः प्राप्ता अहंकारः स्वल्पं वा न्यूनः जातः, मनो निर्विषयं जातं, न्यूनातिन्यूनं निर्विषयं भवेदिति मननमारब्धं तर्हि सः सत्पुरुष इति ज्ञातव्यः। सत्पुरुषाः सर्वेषु भूतेषु भगवद्भावं, सर्वत्र अहम् अस्मि इति वा पश्यन्ति। अतः ते सर्वेषु प्रीणन्ति। सर्वत्र प्रेम इत्युक्ते निस्स्वार्थबुद्ध्या यद् योग्यं तत् करणम्। वयं केषुचिद् आत्मीयत्वं पश्यामः, सर्वत्र न पश्यामः, अतः द्वैतं प्रतीयते। सत्पुरुषाः निरहंकारत्वेन जगति सर्वत्राभेदप्रचीतिं लभन्ते। ते सर्वत्र भगवद्भावं पश्यन्ति। तेषां प्रेम विशुद्धं वर्तते। (वाक्यानि अवशिष्टानि किम्)

*** सर्वैः सह अत्यन्तं, प्रेम्णा निष्कपटप्रेम्णा च वर्तनीयम्। अस्माकं न केवलं भाषणे, दर्शने अपि प्रेम भवेत्।***

[सम्पाद्यताम्]

फेब्रुवरि 18

[सम्पाद्यताम्]

नामविषये शुद्धभावः आवश्यकः।

[सम्पाद्यताम्]

ईश्वरः सर्वेषां निर्माता रक्षकः तथैव संहारकश्च। तथापि सः न्यायी प्रेमी चेति विख्यातो यतो हि सः निःस्वार्थः। इत्युक्ते प्रेम निःस्वार्थत्वे एव विद्यते। वस्तुतः अस्माकं स्वार्थः एव विघ्नायते। अस्माकं स्वार्थः अस्माकं भगवत्प्रेम अन्तरयति। अस्माकं विषयाः ईश्वरप्रेम्णि विक्षेपं जनयन्ति। ये ये विषयाः अस्मिन् प्रेम्णि विक्षेपयन्ति ते त्यक्तव्याः ननु? तदनु विषयासक्तिः, तेषु प्रेम च नष्टव्यम्। अस्माभिः सत्पुरुषाणां, ईश्वरस्य च भवितव्यम्। तेन विना किमपि न इष्टव्यम्। मृत्तिकायाः गणेशः, पाञ्चालिका घटः वा भवति तथा ईश्वरोपि स्वभावनानुरूपं भवति। अत: एव अस्माकं भावः अपि सदा शुद्धो निस्स्वार्थ: च भवेत्। मूलं सिञ्चामश्चेद् वृक्षो वर्धते, परं वयं मूलं न गच्छामः एव। तदनु भावः कथं शुद्धो भवेदिति द्रष्टव्यम्। उदाहरणार्थम् एकादशीतिथौ उपवासः इत्येव वयं जानीमः, परं कश्चन जनः एकादश्यां मध्याह्नपर्यन्तं स्नानादिं विना प्राङ्गणं स्नानगृहं च स्वच्छीकुर्वन् स्थितः। एवं वयं प्रमदामः। सारांशेन आदौ अस्माभिः किम् इष्यते इत्येव वयं न जानीमः। जाते पीतज्वरे वास्तवं रूपं कथं जानीमः? यस्य नेत्रे स्वच्छे, सः यथा वदति तथा करणीयम्। एतदर्थं गुर्वाज्ञां प्रमाणीकृत्य अस्माभिः वर्तनीयम्। नामस्मरणं श्रद्धया, शुद्धभावनया च करणीयं येन मनो न शङ्कते। भगवन्नाममाधुर्यं येन एकवारं वा आस्वादितं तं भगवान् न त्यजति। नाम विना नान्यत् सत्यमिति दृढा भावना अपेक्ष्यते। देहबुद्धिः यावती अधिका तावत् नामजपः अधिकः करणीयः। एतावन्ति दिनानि विषयचिन्तनम् अस्माभिः कृतं तेन किं प्राप्तम्? नामसदृशं सरलं साधनं न। प्रापञ्चिकाः जनाः वदन्ति यत् विषयानुभवः सद्यः लभ्यते परं भगवदनुभवः अनुमानेन, श्रद्धया च लभ्यते। तेषामिदं मतं योग्यम्। प्रापञ्चिकाः प्रपञ्चं न त्यजन्ति इति नाश्चर्यम्, परं तत् सुखं शाश्वतमिति मत्वा तत्र रमन्ते इति दुःखदायकम्। अहं वदामि यत् भवतः अनुभवानुसारं यत् सत्यं तावदेव भवन्तः सत्यं मन्यन्ताम्। विषयध्यासात् न सुखमिति अवगम्यते चेद् नामप्रेम लभ्येत। अस्माकं देहे अस्माकं न शासनं, अस्माकं वित्ते न अस्माकं शासनं, अस्मदीयेषु जनेषु न अस्माकमधिकारः। अतः अस्माकं कर्तव्यमात्रं करणीयं मनो न दूषणीयं च।

*** भगवत्प्राप्तिः एव अस्माकं ध्येयं निश्चित्य तत् परित: एव भ्रमणीयं, तस्यैव अनुसन्धाने भवितव्यम्।***

[सम्पाद्यताम्]

फेब्रुवरि 19

[सम्पाद्यताम्]

नामस्मरणे अवस्थितिः एव सरलो मार्गः।

[सम्पाद्यताम्]

काचिद् महिला पतिगृहे गृहजनानां विरोधवशात् नामस्मरणं कर्तुं न शक्तवती। अहं तामुक्तवान्, “ चोरितं नवनीतं सततं खादामश्चेत् शरीरे परिणामो दृश्यते एव। तद्वत् निभृतं नामस्मरणं कृतं चेद् लाभो भवत्येव। अतो मुक्ततया नामस्मरणं कर्तुं न शक्यते चेद् निभृतं करणीयं, युक्त्या वर्तनीयम् च।” शरीरमन्नमपेक्षते परं मुखेन न शक्यते चेन्नलिकया उदरं पूरयन्ति। तेन तत् शीघ्रमुदरं गच्छति। तद्वत् भावनानलिकया नामस्मरणं कृतं चेत् तत् शीघ्रं परिणमते। कश्चन जनः वृषभशकटात् मार्गे पतितः। कश्चन सज्जनः तं गृहं नीतवान् उपचारान् कृतवान् च। तद्वत् वयं नामस्मरणे पतामश्चेत् कश्चन सज्जनो लभ्यते, अस्माकं कार्यं कुरुते च। परमस्माभिः सरलमार्गे अवस्थातव्यम्। वासनामात्रे अवस्थानमित्युक्ते अवमार्गे अवस्थानम्। नामस्मरणे अवस्थानमित्युक्ते सरलमार्गे अवस्थानम्। वस्तुतः नाम कियत् निरुपाधिकम्। वयं देहबुद्ध्युपाधौ बद्धाः नामस्मरणस्य महत्त्वं तावत् न जानीमः। सत्पुरुषाः नाममहत्त्वं सम्यग् जानन्ति। इङ्ग्लण्डदेश इतः सहस्रावधि-मिलमिते अन्तरे वर्तते। तत्र गत्वा आगतेभ्यः जनेभ्यो वयं तत्रस्थाः कथाः श्रुण्मः। तत्र पद्भ्यां वयं गन्तुं न शक्नुमः। यतो हि सः देशो बहु दूरे वर्तते। परञ्च यानेन गच्छामश्चेद् मध्ये महान् समुद्रः। तदनु विना श्रममस्मान् अनिमज्जय्य समुद्रजलस्पर्शेण विना च यथा नौका समुद्रपारं नयति तथा भगवन्नाम भगवन्तं प्रापयति। भगवान् कथं वर्तते इति वयं न जानीमः। परं सत्पुरुषाः तं दृष्ट्वा प्रत्यागताः। तस्य वर्णनं वयं तेभ्यः श्रुतवन्तः। अस्माकं प्रयत्नेन तं लभामहे इति तु असंभवम्। अपि च प्रपञ्चो नाम महान् भवसागरो मध्ये विततः। एतादृश्यां परिस्थित्यां दृढेन नामजपेन वयं सुखेन भगवन्तं प्राप्नुमः। व्यवहारे कश्चन जनो विविधनामभिः परिचितो वर्तते। किमपि नाम श्रुणोति चेत् स उत्तरति। तद्वत् केनापि नाम्ना आह्वयामश्चेत् सः एको भगवान् प्रतिस्पन्दते। विविधेषु ग्रामेषु विद्यमानानां स्थावराणां स्वामित्वं यथा क्रयणपत्रे उल्लेखितेन नामनिर्देशेन लभ्यते तथा सर्वव्यापिनः ईश्वरस्य प्राप्तिः तस्य नाम्ना भवति। वस्तुतो नाम चिरन्तनी सम्पत्तिः विद्यते।

*** अस्माभिः सर्वैः ‘अहं भगवत:’ इति मनसा विचिन्त्य सदा तस्य नामस्मरणे स्थातव्यम्।***

[सम्पाद्यताम्]

फेब्रुवरि 21

[सम्पाद्यताम्]

कर्तृत्वाभिमानो न भवेत्।

[सम्पाद्यताम्]

विषये निमज्ज्य परमात्मनः भक्तिः भवेत् किम्? विषयत्यागेन विना ‘अहं भक्तिं करोमि’ इति वचनम् अयोग्यम्। यत्र विषयाः तत्र न भक्तिः, यत्र भक्तिः तत्र न विषयाः। भक्तः इत्युक्ते भगवदीयेन भूत्वा अवस्थातव्यम्। तं शरणम् अगत्वा तदीयो भवितुं नार्हति। अभिमानेन सह वयं कदापि भक्ताः भवितुं न शक्नुमः। आदौ अभिमानः कथं नश्येत् इति द्रष्टव्यम् तथा व्यवहर्तुं प्रयतनीयम्। वयं प्रपञ्चे ‘अहं करोमि तथा भवेत्’ अनया भावनया व्यवहरामः। परह्यः कश्चन जनः आगतः। तं दृष्ट्वा कोपि अवदिष्यत् यत् एषः अल्पदिनानि एव जीवेत्। तथापि अहम् एतत् करिष्यामि, तत् करिष्यामि इति सः वदन् आसीत्। आयुषः अन्तिमे चरणे कियान् अभिमानः! अतः वदामि यत् अहं करोमि इति एतां भावनां त्यक्त्वा सर्वं सः एव कुर्वन् अस्ति, यावत् तस्य इच्छा भवेत् तावत् सः अस्माभिः कारयति च इति भावनया वर्तनीयम्। एतेन शनैः शनैः सहजमेव विषयासक्तिः क्षीयते। ‘अहं कर्ता’ इति भावनायाः नाशं विना परमार्थः कर्तुं नैव शक्यते। केनापि कर्मणा विशिष्टं फलं लभ्यते इति वेदे कथितं वर्तते, अतः वेदाः विषयासक्तिं वर्धयन्ते इति केचन वदन्ति। परं यथा ज्येष्ठाः औषधिना साकं गुडखण्डं दर्शयन्ति तद्वद् इदं वर्तते। मनुष्यः फलाशया वा कर्मम् आरभेत। गच्छता कालेन तस्य फलाशा क्षीयेत अभिमानः अपि गच्छेत् ‘नाहं कर्ता सः एव सर्वं कारयति’ इति सः अवगच्छेत्। तदनु सः यत् कर्म कुर्यात् तत् सहजमेव देवाय अर्पितं भवेत्। आपद् आगच्छति चेद् तन्निवारणाय वयं देवाय प्रतिशृण्मः, देवो मनोनुकूलं न यच्छति चेद् देवः निरर्थक: इति वदामः। परं देवस्य वञ्चना शक्यं किम्? सः वदति एषः यदा सुखे आसीत् तदा मां न स्मृतवान्, इदानीं स्मरति । वस्तुतः देवः प्रसन्नः भवेत् एतदर्थं अस्माभिः किं कृतम्? अतः देवः कदापि न वञ्चनीयः। यतो हि देवः न वञ्चति अस्माकमेव वञ्चना भवति। वयं प्रपञ्चार्थं एतावत् कष्टं कुर्मः परं दिने एकां वा होरां देवाय दद्मः किमिति स्वात्मनि एव विचारः करणीयः।

***यावत् विषयेच्छा। तावत् न भगवद्दासः।।***

[सम्पाद्यताम्]

फेब्रुवरि 22

[सम्पाद्यताम्]

निर्हेतुकर्मणि भगवान्।

[सम्पाद्यताम्]

वस्तुतः साम्प्रतं वयम् अस्माकम् अन्तरङ्गपरिचयम् अपेक्षामहे। सत्कर्म दुष्कर्म वा भवेत् सर्वं हेतुम् अपेक्षते। प्रचुराणि पुण्यकर्माणि कृतानि, परं मनसि विषयं निधाय कृतानि चेत् कः लाभः? कृतभूरिपरिश्रमः, त्यक्तदारपुत्रः च जनः, परं मनः एव रामे नास्ति तर्हि सः न लभ्यते। मनः रामस्य सिषाधयिषां लभते चेद् लाभः। निर्हेतुकर्मणि भगवान् वर्तते. अतः अस्माकं कर्माणि तथा करणीयानि। वस्तुतः प्रापञ्चिकजनसमं परिश्रमाः साधकस्य पारमार्थिकस्य च न वर्तन्ते। प्रपञ्चश्रमस्य अर्धमपि भगवते कृतं चेद् महान् लाभो भवेत्। यस्यां स्थितौ भगवता स्थापितः तस्याम् एव तस्य अवगमनं सहजं शक्यम्। परं वयं विषयान् अवधाय कर्म कुर्मः, भगवान् न लभ्यते इति दुःखं कुर्मः, एतदर्थं किं कुर्यात्? दैत्याः, दानवाः च भगवतः कृते तपः आचरितवन्तः। समर्थः अपि कृतवान्। दैत्यानां मनसि हेतुः आसीत् अतः तेषां विषय़लाभः जातः, परं भगवान् दूरं गतः। प्रत्युत समर्थेन भगवन्तं विना किमपि नापेक्षितम्। सः एव समर्थः सर्वस्वम् इति अमन्यत। उत्कटप्रेम्णा तस्य ध्यासः भवति। भगवन्तं दृष्ट्वा, “भवान् प्राप्तः। अधुना किमपि मास्तु”, इति भावो भवेत्। तेन एव अहंकारः म्रियते। भगवतः हस्तः अग्रे वर्तते एव, अस्माकं हस्त एव तावत् न प्राप्नोति। बुद्धेः वित्तस्य चापेक्षया सदाचरणस्य प्रभावः अधिकः वर्तते। सदाचरणं, भगवन्निष्ठा, वर्तमानपरिस्थित्यां समाधानं चेति विद्यते चेत् प्रपञ्चसुखं लभ्यते। सुखं नोत्पादनीयं तत् तु अस्माकं वृत्त्यामेव वर्तते। ‘अहं भगवतः’, ‘सर्वे भगवतः एव’ अतः भगवति प्रीणीमः चेद् अखिलजगति प्रेम भवति। यथा भगवत्प्रसादे कश्चन तिक्त: वातामः आयाति चेद् वयं तं खादामः तद्वत् भगवता कदाचिद् दुःखं दत्तं तर्हि तद् अस्माभिः आनन्देन सोढव्यम्। चिकित्साम् अपनीय भगवत्स्मरणं करणीयम्। अन्तःकरणशुद्धिः नामस्मरणं विना न भवेत्। ‘नामस्मरणं विना न किमपि’ इति यदि केनचिद् मनसा स्वीकृतं तर्हि तस्मै अन्यत् किमपि कथनीयं नावश्यकम्। लवणमिति मत्वा शर्करा खादिता चेत् शर्करायाः माधुर्यम् आस्वाद्यते एव। तद्वत् यस्यां कस्यामपि दशायां यदि नामजपः कृतः तर्हि सः तारक: एव इत्यत्र न शङ्का।

***यस्य पृष्ठतः उपासनायाः बलं वर्तते सः जगति वास्तवं कार्यं करोति।***

[सम्पाद्यताम्]

फेब्रुवरि 23

[सम्पाद्यताम्]

साधकः तथा नाम

[सम्पाद्यताम्]

प्रत्येकं शब्दे रामः एव वर्तते इति ये मन्यन्ते तेषां सिद्धता काचिद् विशेषा। वयं अमुकस्मिन् नाम्नि एव प्रीणीमः, परं केनापि कस्यापि शब्दस्योच्चारणं क्रियते चेत्, सिद्धाः नामोच्चारणमेव मन्यन्ते। कया वाण्या जपेयमिति विचारो न करणीयः। यथा भवति तथा नामस्मरणं कुर्वन्तु, परं नामजपेन बद्धा भवन्तु। नामस्मरणं कृत्वा नाम अनुभवन्तु। विषयाः यदा आक्रमन्ति तदा नाम स्मरन्तु। प्रह्लादः नाम विना किं कृतवान्? प्रह्लादो यथा नामजपे अप्रीणात् तथा अस्माभिः करणीयम्। अद्ययावत् सर्वे भक्ताः इदम् एव कृतवन्तः। एकं नामस्मरणं कुर्वन्तु। एषः एव पन्थाः। भगवत्स्मरणे भवन्तु, येन विषयाः सहजं नश्यन्ति। साधकेन नवनीतसमं मृदुना भवितव्यम्। कोपि न तोदनीयः। अहं जनेभ्यः प्रार्थ्यः भवेयम्। निस्स्वार्थेन भूत्वा एव इदं शक्यम्। कोपि मां नमस्करोति चेदहं नमस्काराय न अर्ह इति मनसि चिन्तनीयम्। येन केनापि कृतस्य नमस्कारस्य अभिमानः न स्यात्, अकृते न क्रोध उद्भवेत्। सत्कर्मानन्तरं स्वस्तुतिं श्रोतुं कार्यक्रमस्थले न भवितव्यम्। यो भगवन्तमिच्छति तेन मन्तव्यं यत् सः मल्लाङ्गणम् आगतः। शरीरे मृत्स्पर्शभयेन अलम्। अधुना अलं भयेन। एतदर्थं उत्तमाः मल्लाः आरम्भे एव मृत्तिकायां लुण्ठन्ति। तेन लज्जा नश्येत्। भगवत्प्राप्तेः मार्गद्वयम्। प्रथमो मार्ग: इत्युक्ते अद्ययावत् सर्वं तस्य एव इच्छया जातम्, यद् मम वर्तते तत् सर्वं तस्यैव, सः तस्य सर्वं पश्येत्, सः यत् करिष्यति तत् सर्वेषां कल्याणाय एव, श्वस्तनदिनं तस्य इच्छया एव उदेष्यति चेति मनसि निधाय तस्य स्मरणे अस्माभिः निश्चिन्ततया स्थातव्यम्। अपरो मार्ग: इत्युक्ते, ‘अहं जगति कस्यापि नास्मि, अहं रामस्य’ इति विचिन्त्य कस्मिन्नपि प्रेम अकृत्वा तस्य स्मरणे स्थातव्यम् इति। एषः मार्गो दुष्करः। अस्मिन् मार्गे मनसा सर्वेषु विद्यमानं प्रेम भञ्जनीयम्। यतो हि प्रेम एकस्मिन्नेव वस्तुनि भवितुमर्हति। मनो यदि अस्माकं न श्रुणोति तर्हि न श्रुणुयात्। वयं सम्यगसम्यग् चिनुमः। तदनुसारं वर्तनीयम्। मनः स्वाभाविकतया तत्र आगच्छेत्। अतः ‘स्वमनः मारयन्तु’ इति सत्पुरुषाः न वदन्ति, ‘स्वमनः भगवति योजयन्तु’ इति ते अस्मभ्यं कथयन्ति।

*** इदमेव मम सर्वस्वम्’ इति एतादृशं प्रेम नामजपे भवेत्।***

[सम्पाद्यताम्]

फेब्रुवरि 24

[सम्पाद्यताम्]

भक्तः परमात्मा च एकरूपौ।

[सम्पाद्यताम्]

‘ वयं पुनःपुनः प्रमदामः’ इति भवन्तः वदन्ति। शिशुः चलने स्खलति, पतति, अव्यक्तं भाषते इति एतदर्थं पितरौ स्तुवत: प्रोत्सहेते च। तद्वत् भवतां प्रमादैः अपि अहम् कौतुकम् अनुभवामि। भवतां प्रमादसमञ्जनप्रयत्नान् अहं प्रोत्साहयामि। अतः तद्विषय़े भवद्भिः मनसि किमपि न आनेतव्यम्। गुरुणा एकवारं कथितं यत् भवतः अतीतं सर्वं गतम्, इदानीम् अग्रे सम्यग् वर्तनीयम् तर्हि तस्मिन् शिष्येण श्रद्धया विश्वसनीयम्। अस्मभ्यं प्रवर्तमानानां प्रमादानां परिमार्जनं नामस्मरणमेव कर्तुं शक्नोति। भगवन्नाम सर्वरोगेषु रामबाणोपायो वर्तते। नामजपस्य अयम् औषधिः बिन्दुबिन्दुरूपेण उदरं गच्छेत्। कार्यालये अपि तद् नेतव्यम्। विद्वान्, अज्ञः, श्रीमान्, दरिद्रः, चेति सर्वेषां कृते इदमौषधं समानमेव। पथ्येन सह यः स्वीकरोति सः परिणामं लभेत। कश्चन बालकः कूपे कूर्दे इति हठं करोति चेत् तातेन पूरणीयः किम्? सान्त्वयित्वा, चपेटिकां दत्त्वा वा सः दूरे करणीयः? तद्वत् भवतां विषयहठाः वर्तन्ते। वास्तवो भक्तः कदापि दुःखी, कष्टी वा न भवति। कियान् दरिद्रः व्याधिग्रस्तः वा आत्मसमाधाने एव सः विद्यते। अमुकं किमपि न प्राप्तं चेत् सामान्यः जनः दुःखी भवति, भक्तस्य कापि इच्छा न वर्तते। तेन तस्य दुःखं न विद्यते। सः परमात्मा च एकरूपौ। परमात्मनः इच्छा एव तस्य इच्छा। सगुणभक्तिं कुर्वन् सः आत्मानं विस्मरति। ‘नाहं, भवानेव’ इति भावना दृढायते। अन्ते ‘अहं’ नश्यति। तदनु रामकृष्णोपि विलयं गच्छति। केवलं परमात्मा अवशिष्यते। रोगाद् उत्थितेन जनेन दुर्बलत्वात् यथा यष्ट्याधारेण चलनीयं तथा प्रापञ्चिकेन सगुणभक्त्या उत्तरणीयम्। देहबुद्धियुतः सगुणं विना भक्तिं कर्तुं न शक्नोति। भगवन्तं वयं प्रार्थयामहे, ‘भगवन् भवतः कृपा मयि भवतु। भवतः कृपा इत्युक्ते भवतः स्मरणं सदैव भवेत्’। एतेनैव तस्य भक्तिः उद्भवेत्। भगवन्तं विना क्वापि समाधानं न । तेन विना जीवने न आनन्दः। यो भगवत: इत्युक्ते तस्य नामस्मरणे स्थिरः, सः जीवने जामितः न भवेत्।

*** परमात्मानं प्रपञ्चरूपम् अकृत्वा प्रपञ्चं परमात्मरूपं कुर्याम।***

[सम्पाद्यताम्]

फेब्रुवारी 25

[सम्पाद्यताम्]

‘मह्यं जनप्रियत्वम् अतीव रोचते’।

[सम्पाद्यताम्]

इत: गच्छन्तान् जनान् आप्रष्टुम् अहम् अत्यन्तं खिनताम् अनुभवामि खलु। पुनः अस्माकं मेलनं भवेत् वा न इति न जाने। भवन्त: सर्वे परस्परैः सह भृशं प्रेम्णा व्यवहरन्तु। प्रेम्णा जगत् जेतुं शक्नुमः। मत् भवन्त: जनप्रियत्वं शिक्षन्ताम्। मह्यं जनप्रियत्वं भु रोचते। यतो हि यः जनेभ्यः रोचते, सः एव भगवते रोचते। यः निःस्वार्थी सः एव जनप्रियत्वं लभते। यः भगवदिच्छया व्यवहरति सः एब जनप्रियत्वं लभते। वयं स्वार्थाय यत् कुर्मः तत्सर्वेषां कृते करणं भगवते रोचते। स्वात्मनि एव अदृष्ट्वा सर्वत्र भगवान् द्रष्टव्यः। प्रत्येकं जनेन अहम् इष्टव्य:। तदर्थं जनानां मनोनुकूलं व्यवहर्तव्यं, तेभ्यः यथा रोचेत तथा वक्तव्यम् इति किमपि नास्ति। प्रेतुं किमपि नापेक्ष्यते। वित्तं तु नैव इति मम अनुभवेन वदामि। जगति केनापि न अनुभूतं स्यात् तादृशं दारिद्र्यं मया अनुभूतमस्ति। एतादृशे दारिद्र्ये अपि मम अनुसन्धानम् अनुवर्तितम्। तर्हि तदनुवर्तयितुं भवतां का बाधा? मया यदि किमपि कृतं तर्हि कस्यापि अन्तकरणं मया न दूषितम्। तावदेव भवन्त: निभालयन्तु। यः कोपि मया मिलित: सः आत्मियः एब इति मया चिन्तितम्। मया तु केवलं क्रीडा आयोजिता, क्रीडिता। तेन तस्य सुखदुःखे मां न अबाधेताम्। नामजपेच्छा अपूर्णा अत: जनिम् अलभे। भवन्तः सर्वे मया रामरूपाः दृश्यन्ते। मह्यं यत् कथनीयं तद् मारुतिरायाय कथनीयम्। तेन अहमपि जानामि। मदीयः जनः क्वापि भवेत् सः मां प्रति व आगच्छेत्। मह्यं दुश्चित्तत्वं न रोचते। ये नां निन्दितवन्तः ते तु कोहमिति न ज्ञातवन्तः एव। परं ये मां स्तुतवन्तः ते कोहम् इति ततोपि न ज्ञातवन्तः। प्रत्येकं जनः इच्छति, ‘जनाः मां साधु इति वदेयुः। परम् अहं मम इच्छानुरूपं व्यवहरामि’। इदं कथं शक्यम्? नामजपेन एते सर्वे स्वावगुणाः स्वेन एव सम्यक् ज्ञायन्ते इति विश्वसन्तु तथा च नाम जपन्तु। एकं बगवतः नाम दृढं जपन्तु। तस्मिन् अत्युत्कटतां कृत्वा आत्मानं नितरां विस्मरन्तु। अहं नाम जपामि इति अपि विस्मरतु। एषः एव वास्तवः परमार्थः। नाम्नि एकाग्रः भवितुं भगवत्साक्षी भवतु। इच्छानिच्छां त्यजतु। रामः कर्ता इति एव भावना भवतु। विषयाभोगाः स्वामित्वेन अनुभवन्तु। स्वगुणान् भगवति योजयन्तु। शिशुः भूत्वा भगवन्तं गच्छतु। रामं स्वसुखदुःखं वदतु। देहभोगानां जामिता न भवेत्। निभालयन्तु परं चिन्तां न करोतु। निर्भयेन भूयताम्। तथा च एवं जीवन् स्वमरणं पश्यतु।

*** यत्र नाम वर्तते, तत्र अहम् अस्मि इति निश्चितम्।***

[सम्पाद्यताम्]

फेब्रुवरि 26

[सम्पाद्यताम्]

कस्यामपि अवस्थायां नामस्मरणं शक्यम्।

[सम्पाद्यताम्]

मनुष्यस्य सर्वे परिश्रमाः शाश्वतसमाधानप्राप्त्यर्थं प्रवर्तन्ते। तत् समाधानं केवलं भगवत्समीपे वर्तते। अतः प्रत्येकं जनस्य भगवत: आवश्यकता वर्तते। सर्वप्रयत्नैः भगवत्प्राप्तिसमाधानं वयं न लभामहे। तदर्थं परिस्थितिः एव कारणमिति सर्वे वदन्ति। परन्तु वस्तुतः परिस्थितिः विघ्नायते किमिति अस्माभिः द्रष्टव्यम्। परिस्थितिः द्विविधा। बाह्या तथा अन्त:। द्वयोः चिन्तनमावश्यकम्। बाह्यपरिस्थितिविषये चिन्तयामः चेत् प्रथमम् अस्माकं स्वास्थ्यं विघ्नं जनयति। स्वास्थं कथमपि भवेद् भगवत्स्मरणं कर्तुं शक्नुमः वा न? शरीरं कियदपि दुर्बलं भवेद् देहः कियानपि विकलो भवेत् तथापि अन्तकाले भगवत्स्मरणं शक्यमिति भगवता गीतायां कथितम्। कस्यामपि देहावस्थायां भगवत्स्मरणम् अशक्यमिति वचनम् अयोग्यम्। अतो देहप्रकृतिः विक्षेपं जनयति इति कथनं कियत् सयुक्तिकम्? बहवो जनाः आर्थिककारणानि वदन्ति। अर्थाभावे प्रपञ्चे चिन्ता उत्पद्यते, भगवद्ध्यानं कर्तुं समयो एव न लभ्यते इति केचन वदन्ति। परं वास्तविकं वदन्तु यत् जगति प्रचुरं धनं सम्पाद्य वैभवशिखरं प्राप्ताः कियन्तो जनाः नामस्मरणं कुर्वन्ति? अद्ययावत् कति राजानो राजवैभवं तिरस्कृत्य भगवत्प्राप्त्यर्थं विरागिणः जाताः? अर्थाभावो भगवत्प्राप्तिमार्गे विक्षेपयति इति कथनं योग्यं न। प्रत्युत वित्तं भगवन्निष्ठां न्यूनीकरोति। धनम् अस्माभिः आधारः इति गम्यते। वृद्धत्वे उपयुक्तो भवेत् अतो वयं धनसंग्रहणं कुर्मः, परम् आवृद्धत्वं जीवेम इत्येतस्य विश्वासं कः दद्यात्? सुखं समाधानं च न वित्तापेक्षम्। प्रत्येकं जनस्य परिवारजनाः निश्चिताः। वेतालेन सह पिशाच्चाः भवन्ति एव। भगवता सह दया, क्षमा सर्वत्र आनन्दवृत्तिः च वर्तन्ते एव। तद्वत् धनेन सह क्षुब्धता, लोभः, असमाधानं च आयान्ति एव। परस्त्री कदाचिद् विषयभोगे सहभागिनी न भवेत् परं धनं वयं यथा इच्छामः तथा प्रयुज्यते। पिता-पुत्रौ, भ्रातरौ, भगिन्यौ, मित्रे च एतेषु वितुष्टम् आनेतुं धनमेव कारणम्।

***धनसञ्चयो न अनुचितः, परं तस्याधारो न मन्तव्यः। अनुसन्धाने सः न विक्षेपं न जनयेत्। ***

[सम्पाद्यताम्]

फेब्रुवरि 27

[सम्पाद्यताम्]

नामजपस्य प्रेम किमर्थं न उद्भवति?

[सम्पाद्यताम्]

एतावन्ति वर्षाणि गतानि तथापि ज्ञानेश्वरः, तुकारामः, समर्थरामदासः चेति एतादृशाणां नामानि जनमुखे सन्ति। यतो हि ते नामजपे अत्यन्तं प्रीणन्ति स्म। एतेषु सत्पुरुषेषु वयं विश्वसिमः। तथा अस्माकमपि प्रेम नामजपे भवेदिति वयं मन्यामहे। परं तथा किमर्थं नोत्पद्यते इति अस्माभिः चिन्तनीयम्। नाम्ने उपमां दातुं ते अमृतादपि मधुरमिति उक्तवन्तः। नाम्ने अमृतस्य उपमादाने अमृताद् अतीतम् अन्यत् किमपि न वर्तते इति वयं वदामः। तर्हि तस्य नाम्नः प्रेम अस्माकं किमर्थं न भवेत्? तर्हि मध्ये किमपि विक्षेपयति इति निश्चितम्। यथा शर्करायां जिव्हायां स्थापितायां सति यदि न मधुरायते तर्हि सः न शर्कराया दोषः अपि तु अस्माकं मुखस्य रुचिरेव गता इति वयं वदामः। तद्वत् यदि नामजपस्य प्रेम अस्मासु नोत्पद्यते चेद् अस्माकमेव निश्चयेन कश्चन दोषः। नामप्रेम नोत्पन्नस्य कानिचित् कारणानि बहवो जना वदन्ति(उद्भबे काश्चन बाधाः सन्ति इति जनाः वदन्ति।) ‘मम विवाहः न जातः। दारपुत्रादयः भवन्ति चेद् नामप्रेम उत्पद्येत’ इति कश्चन वदति। परं कति दारपुत्रयुतानां गृहस्थानां नामप्रेम लब्धम्? कश्चन वदति ‘धनाभावेन प्रपञ्चचिन्ता, तेन नामप्रेम नोद्भवति।’ परं कति प्रचुरधनयुतैः लक्षाधिपतिभिः नामप्रेम प्राप्तम्? कश्चन वदति, ‘अस्मिन् प्रपञ्चे पुत्रकलत्राणि, तेषां व्याधयः, कृषिकर्माणि इत्यादिषु व्यापृतत्वात् नामप्रेम न प्राप्नुमः।‘ कश्चन भणति, ‘प्रपञ्चे स्थित्वा बहु जामितः अहम्। संन्यासं स्वीकरोमि तेन नामप्रेम लभ्येत।’ कश्चन प्रापञ्चिकः दुःखभारैः आत्महत्यां कर्तुम् उद्युक्तः। एतेन प्रकारेण विद्यमानपरिस्थितिः एव नामस्मरणार्थं विक्षेप: इति सर्वे वदन्ति। नामप्रेम न लब्धुं परिस्थितिरेव वास्तवं कारणं किमिति अस्माभिः चिन्तनीयम्। अहं मन्ये नामप्रेम न लब्धुं वास्तवं कारणं वर्तते यत् वयं मनसा भगवन्तं न इच्छामः इति एव। भगवतः अपेक्षा तु वास्तवं भाग्यस्य लक्षणम्। वस्तुतो भवन्तो भगवन्तम् इच्छन्ति चेत् तस्याम् इच्छायाम् एव तस्य प्राप्तेः मार्गो दृश्येत।

*** नामप्रेममाधुर्यम् एतावद् विलक्षणं यत्, तद् येन प्राप्तं सः आत्मानं विस्मरति। अतो नाम्ने आत्मा समर्पणीयः।***

[सम्पाद्यताम्]

फेब्रुवरि 28

[सम्पाद्यताम्]

भगवन्तं नामप्रेम याचनीयम्।

[सम्पाद्यताम्]

भगवन्तं याचनीयं चेत् किं याचेरन्? भवन्तः नामस्मरणप्रेम एव याचन्ताम्। अन्यत् किमपि मा याचन्ताम्। देवं याच्ञासमये न प्रमदितव्यम्। कश्चन शिक्षकः छात्रान् आवर्षं सम्यक् पाठितवान्। परीक्षासमये परीक्षकाः कान् प्रश्नान् प्रक्ष्यन्ति इति संभावना तथा च तेषाम् उत्तराणि अपि उक्तवान्। परं परीक्षके परीक्षितुमागच्छति सति प्रश्नानां उत्तराणि छात्रैः एव दातव्यानि। शिक्षके उपस्थिते सत्यपि दोषं कुर्वाणान् छात्रान् ज्ञात्वापि सः किमपि कर्तुं न शक्नोति। मम स्थितिः तथैव। याच्ञा भवद्भिः एव करणीया। तदा प्रमादेन किमपि विचित्रमेव मा याचन्ताम्। एतदर्थमेव एषा सूचना। परिस्थितिः कापि भवेद् भगवान् स्मरणीयः एव। तेन समीचीनासमीचीनविषयाणां मनसि परिणामः स्वल्पो भवति। आपत्सु आगच्छन्तीषु जनो बिभेति। परं भगवदस्तित्वं मन्यमानानाम् एतादृशं भयं न योग्यम्। कस्यचिद् बालकस्य पिता शिरः आच्छाद्य बालकं पिशाच्चरूपेण भाययति। तस्माद् बालको बिभेति परं यदा आच्छादनस्य अन्त: तात एव वर्तते इति ज्ञाते सति तस्य भयम् अपगच्छति। तद्वत् प्रत्येकं जनेन स्वविषये यद् भवति तद् सर्वं परमेश्वरस्य गुरोः वा इच्छया भवति इति भानं रक्षणीयम्। तेन सः भयं दुःखं वा नानुभवेत्। तथैव अनुकूलघटनाभिः आनन्दातिरेकः अपि न भवेत्। एतदर्थं सर्वदा भगवच्चिन्तनं करणीयम्। अस्माकं विचारानुरूपेण प्रवर्तनेन सुखमेव भवेदिति न। कदाचिद् अस्माकं विचारविरुद्धं भवति तथापि अनन्तरं तदेव योग्यं जातमिति अनुभूयते। कस्यापि विषयस्य सुखदुःखं सपदि न ज्ञायते। अतः किञ्चित् कालानन्तरं सुखदुःखं पश्यामः। ऋणप्रत्यर्पणस्य आनन्दः प्रारब्धभोगसमये भवेत्। प्रारब्धपरिहरणम् इत्युक्ते ऋणं न प्रत्यर्पणीयम्। आत्मनः इत्युक्ते अहन्त्वस्य तथा च प्रारब्धस्य नाशः युगपदेव भवति। ‘भगवन्, प्रारब्धदुःखानां दोषः न भवतः। यदि तेन दुःखेन भवतः अनुसन्धानं रक्ष्यते चेद् माम् आजन्म दुःखे एव स्थापयतु, इति कुन्ती भगवन्तं याचितवती। अत्रस्थं रहस्यं ज्ञात्वा वर्तनीयम्। कथमपि अनुसन्धानप्रयत्नाः करणीयाः।

*** भगवन्तं प्रार्थयामहे ,‘देव. प्रारब्धभोगाः आगच्छेयुः परं भवतः अनुसन्धानं कदापि न परिहरेत्।’***

[सम्पाद्यताम्]