फलदीपिका/एकादशमोऽध्यायः (स्त्रीजातकम्)

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १० ज्योतिषम्
फलदीपिका
अध्यायः १२ →

            
 स्त्री जातक
यद्यट्पुंप्रसवे क्षमं तदखिलं स्त्रीणं प्रिये वा वदेन्-
माङ्गल्यं निधनात् सुतांश्च नवमाल्लग्नात्तनोश्चारुताम् |
भर्तारं शुभगत्वमस्त भवनात्संगं स्तीत्वं सुखात्
सन्तस्तेषु शुभप्रदास्त्वशुभदाः क्रूरास्तदीशं || १||
उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ
सुतनयपतिभूषासंपदुत्कृष्टशीला |
अशुभसहितदृष्टौ चोजगौ पुंस्वभावा
कुटिलमतिरवश्या भर्तुरुग्रा दरिद्रा || २||
सद्राश्यंशयुते मदे द्युतियशोविद्यार्थवंस्तत्पति-
र्व्यत्यस्ते कुतनुर्जडश्च कितवो निःस्वो वियोगस्तयो |
आग्नेयैर्मदनस्थितैश्च विधवा मिश्चैः पुनर्भूर्भवेत्
क्रूरेष्वायुषि भर्तृहन्त्र्यपि धने सन्तः स्वयं स्त्रीमृतिः || ३||
सुतस्थेऽलिस्त्रीगोहरिषु हिमगौ चाल्पतनया
यमारार्कांशर्क्षे मदनसदने सामयभगा |
सुखे पापैर्युक्ते भवति कुलट मन्दकुजयो-
र्गृहेऽशे लग्नेन्दू भृगुरपि च पुंश्चल्यभिहिता || ४||
शुभक्षेत्रंशेऽस्ते शुभगजघना मङ्गलवती
विधाः सत्संबन्धेऽप्युदयुखयोः साध्वियतिगुणा |
त्रिकोणे सौम्याश्चेत्सुखसुतमंपद्गुणवती
बलोनाः क्रूराश्चेद्यदि भवति वन्ध्या मृतसुना || ५||
चन्द्रे भौमगृहे कुजादिकथितत्रिंशाशकेषु क्रमात्
दुष्टा दास्यसती सुशीलविभवा मायाविनी दूषणी |
शुक्रर्क्षे बहुदूषणान्यपतिग पूज्या सुधीविश्चुता
ज्ञर्क्षे च्छसवती नपुंसकसमा साध्वी गुणाढ्योत्सुका || ६||
स्वच्छन्दा बर्तृघातिन्यतिमहितगुणा शिल्पिनी साधुवृत्ता
चान्द्रे जैवे गुणाढ्या विरतिरतिगुणा ज्ञातशिल्पातिसाध्वी |
मान्दे दास्यन्यसक्ताश्चितपतिरसती निष्प्रजार्थार्कभे स्याद्
दुर्भार्या हिनवृत्ता धरणिपत्तिवधूः पुंविचेष्टान्यसक्ता || ७||
शशिलग्नसमायुक्तैः फलं त्रिंशांशकैरिदम् |
बलाबलविकल्पेन तयोरेवं विचिन्तयेत् || ८||
ज्योष्ठाभ्रातरमन्बिकां च पितरं भर्तुः कनिष्ठं क्रमात्
ज्योष्ठा ह्यासुरशूर्पजाश्च वनिता घ्नन्तीति तज्ज्ञा विदुः |
चित्रार्द्राभुजगस्वराट्च्छतभिषङ् मूलाग्नितिष्योद्भवा
वन्ध्या वा विधवाथवा मृतसुता त्यक्ता प्रियेणाधना || ९||
चन्द्रास्तोदयभाग्यपाः सह शुभैः सुस्थानगा भास्वराः
पूज्या बन्धुषु पुण्यकर्मकुशला सौन्दर्यभाग्यान्विता
भर्तुः प्रीतिकरी सुपुत्रसहिता कल्याणशीला सती
तावद्भाति सुमङ्गली च सुतसुर्यावच्छुभढ्येऽष्टमे || १०||
शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते
जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलं |
दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निशेकं पुमान्
अत्याज्ये समये शुभाधिकयुते पर्वादिकालोज्भिते || ११||