फलकम्:Plain sister/gopatha01

विकिस्रोतः तः

(०.०.०अ) ओं नमो ऽथर्ववेदाय नमः ॥

(१,१.१अ) ओं ब्रह्म ह वा इदम् अग्र आसीत् स्वयंभ्व् एकम् एव (१,१.१ब्) तदैक्षत (१,१.१ब्) महद् वै यक्षम् यद् एकम् एवास्मि (१,१.१द्) हन्ताहं मद् एव मन्मात्रं द्वितीयं देवं निर्मिमा इति (१,१.१f) तद् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.१ग्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यद् आर्द्रम् आजायत (१,१.१ह्) तेनानन्दत् (१,१.१इ) तद् अब्रवीत् (१,१.१ज्) महद् वै यक्षं सुवेदम् अविदम् अहम् इति (१,१.१क्) तद् यद् अब्रवीत् (१,१.१ल्) महद् वै यक्षं सुवेदम् अविदम् अहम् इति (१,१.१म्) तस्मात् सुवेदो ऽभवत् (१,१.१न्) तं वा एतं सुवेदं सन्तं स्वेद इत्य् आचक्षते परोक्षेण (१,१.१ओ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १ ॥

(१,१.२अ) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् (१,१.२ब्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त (१,१.२ब्) ताभिर् अनन्दत् (१,१.२द्) तद् अब्रवीत् (१,१.२f) आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं च (१,१.२ग्) आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं च (१,१.२ह्) आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति (१,१.२इ) तद् यद् अब्रवीत् (१,१.२ज्) आभिर् वा अहम् इदं सर्वं धारयिष्यामि यद् इदं किं चेति (१,१.२क्) तस्माद् धारा अभवन् (१,१.२ल्) तद् धाराणां धारात्वं यच् चासु ध्रियते (१,१.२म्) तद् यद् अब्रवीत् (१,१.२न्) आभिर् वा अहम् इदं सर्वं जनयिष्यामि यद् इदं किं चेति (१,१.२ओ) तस्माज् जाया अभवन् (१,१.२प्) तज् जायानां जायात्वं यच् चासु पुरुषो जायते यच् च पुत्रः [एद्.॒ याच्] (१,१.२ॠ) पुन् नाम नरकम् अनेकशततारम् (१,१.२र्) तस्मात् त्रातीति पुत्रस् (१,१.२स्) तत् पुत्रस्य पुत्रत्वम् (१,१.२त्) तद् यद् अब्रवीत् (१,१.२उ) आभिर् वा अहम् इदं सर्वं आप्स्यामि यद् इदं किं चेति (१,१.२व्) तस्माद् आपो ऽभवन् (१,१.२w) तद् अपाम् अप्त्वम् (१,१.२x) आप्नोति वै स सर्वान् कामान् यान् कामयते ॥ २ ॥

(१,१.३अ) ता अपः सृष्ट्वान्वैक्षत (१,१.३ब्) तासु स्वां छायाम् अपश्यत् (१,१.३ब्) ताम् अस्येक्षमाणस्य स्वयं रेतो ऽस्कन्दत् (१,१.३द्) तद् अप्सु प्रत्यतिष्ठत् (१,१.३f) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.३ग्) ताः श्रान्तास् तप्ताः संतप्ताः सार्धम् एव रेतसा द्वैधम् अभवन् (१,१.३ह्) तासाम् अन्यतरा अतिलवणा अपेया अस्वाद्व्यस् (१,१.३इ) ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन् (१,१.३ज्) अथेतराः पेयाः स्वाद्व्यः शान्तास् (१,१.३क्) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.३ल्) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यो यद् रेत आसीत् तद् अभृज्ज्यत [एद्.॒ असीत्] (१,१.३म्) तस्माद् भृगुः समभवत् (१,१.३न्) तद् भृगोर् भृगुत्वम् (१,१.३ओ) भृगुर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ३ ॥

(१,१.४अ) स भृगुं सृष्ट्वान्तरधीयत (१,१.४ब्) स भृगुः सृष्टः प्राङ् ऐजत (१,१.४ब्) तं वाग् अन्ववदत् (१,१.४द्) वायो वाय इति (१,१.४f) स न्यवर्तत स दक्षिणां दिशम् ऐजत (१,१.४ग्) तं वाग् अन्ववदत् (१,१.४ह्) मातरिश्वन् मातरिश्वन्न् इति (१,१.४इ) स न्यवर्तत स प्रतीचीं दिशम् ऐजत (१,१.४ज्) तं वाग् अन्ववदत् (१,१.४क्) पवमान पवमानेति (१,१.४ल्) स न्यवर्तत स उदीचीं दिशम् ऐजत (१,१.४म्) तं वाग् अन्ववदत् (१,१.४न्) वात वातेति (१,१.४ओ) तम् अब्रवीत् (१,१.४प्) न न्व् अविदम् अहम् इति (१,१.४ॠ) न हीति (१,१.४र्) अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति (१,१.४स्) तद् यद् अब्रवीद् अथार्वाङ् एनम् एतास्व् एवाप्स्व् अन्विच्छेति तद् अथर्वाभवत् (१,१.४त्) तद् अथर्वणो ऽथर्वत्वम् (१,१.४उ) तस्य ह वा एतस्य भगवतो ऽथर्वण ऋषेर् यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवम् एवास्य सर्व आत्मा समभवत् (१,१.४व्) तम् अथर्वाणं ब्रह्माब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति (१,१.४w) तद् यद् अब्रवीत् प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात् प्रजापतिर् अभवत् (१,१.४x) तत् प्रजापतेः प्रजापतित्वम् (१,१.४य्) अथर्वा वै प्रजापतिः (१,१.४श्) प्रजापतिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥

(१,१.५अ) तम् अथर्वाणम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.५ब्) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् दशतयान् अथर्वण ऋषीन् निरमिमतैकर्चान् द्व्यृचांस् तृचांस् चतुरृचान् पञ्चर्चान्त् षडर्चान्त् सप्तर्चान् अष्टर्चान् नवर्चान् दशर्चान् इति [एद्.॒ षडर्चांत्] (१,१.५ब्) तान् अथर्वण ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.५द्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आथर्वणान् आर्षेयान् निरमिमतैकादशान् द्वादशांस् त्रयोदशांश् चतुर्दशान् पञ्चदशान् षोडशान्त् सप्तदशान् अष्टादशान् नवदशान् विंशान् इति [एद्.॒ षोडशांत्, नोते अल्सो पञ्चर्चान्त् अबोवे] (१,१.५f) तान् अथर्वण ऋषीन् आथर्वणांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.५ग्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आथर्वणो वेदो ऽभवत् (१,१.५ह्) तम् आथर्वणं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.५इ) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् ओम् इति मन एवोर्ध्वम् अक्षरम् उदक्रामत् (१,१.५ज्) स य इच्छेत् सर्वैर् एतैर् अथर्वभिश् चाथर्वणैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत (१,१.५क्) सर्वैर् ह वा अस्यैतैर् अथर्वभिश् चाथर्वणैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ५ ॥

(१,१.६अ) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् (१,१.६ब्) स आतमत एव त्रींल् लोकान् निरमिमीत पृथिवीम् अन्तरिक्षं दिवम् इति (१,१.६ब्) स खलु पादाभ्याम् एव पृथिवीं निर्ममिमीत (१,१.६द्) उदराद् अन्तरिक्षं मूर्ध्नो दिवम् (१,१.६f) स तांस् त्रींल् लोकान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.६ग्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् देवान् निरमिमीत (१,१.६ह्) अग्निं वायुम् आदित्यम् इति (१,१.६इ) स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद् वायुं दिव आदित्यम् (१,१.६ज्) स तांस् त्रीन् देवान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.६क्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् त्रीन् वेदान् निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदम् इति (१,१.६ल्) अग्नेर् ऋग्वेदं वायोर् यजुर्वेदं आदित्यात् सामवेदम् (१,१.६म्) स तांस् त्रीन् वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.६न्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यस् तिस्रो महाव्याहृतीर् निरमिमीत भूर् भुवः स्वर् इति (१,१.६ओ) भूर् इत्य् ऋग्वेदाद् भुव इति यजुर्वेदात् स्वर् इति सामवेदात् (१,१.६प्) स य इच्छेत् सर्वैर् एतैस् त्रिभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत (१,१.६ॠ) सर्वैर् ह वा अस्यैतैस् त्रिभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ ६ ॥

(१,१.७अ) ता या अमू रेतः समुद्रं वृत्वातिष्ठंस् ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त (१,१.७ब्) तद् यत् समवद्रवन्त तस्मात् समुद्र उच्यते (१,१.७ब्) ता भीता अब्रुवन् (१,१.७द्) भगवन्तम् एव वयं राजानं वृणीमह इति (१,१.७f) यच् च वृत्वातिष्ठंस् तद् वरणो ऽभवत् (१,१.७ग्) तं वा एतं वरणं सन्तं वरुण इत्य् आचक्षते परोक्षेण (१,१.७ह्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,१.७इ) स समुद्राद् अमुच्यत (१,१.७ज्) स मुच्युर् अभवत् (१,१.७क्) तं वा एतं मुच्युं सन्तं मृत्युर् इत्य् आचक्षते परोक्षेण (१,१.७ल्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस् (१,१.७म्) तं वरुणं मृत्युम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.७न्) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो ऽङ्गेभ्यो रसो ऽक्षरत् (१,१.७ओ) सो ऽङ्गरसो ऽभवत् (१,१.७प्) तं वा एतं अङ्गरसं सन्तम् अङ्गिरा इत्य् आचक्षते परोक्षेण (१,१.७ॠ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ ७ ॥

(१,१.८अ) तम् अङ्गिरसम् ऋषिम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.८ब्) तस्माच् छ्रान्तात् तप्तात् संतप्ताद् विंशिनो ऽङ्गिरस ऋषीन् निरमिमीत (१,१.८ब्) तान् विंशिनो ऽङ्गिरस ऋषीन् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.८द्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो दशतयान् आङ्गिरसान् आर्षेयान् निरमिमीत षोडशिनो ऽष्टादशिनो द्वादशिन एकर्चान् द्व्यृचांस् तृचांश् चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चान् इति (१,१.८f) तान् अङ्गिरस ऋषीन् आङ्गिरसांश् चार्षेयान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.८ग्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रान् अपश्यत् स आङ्गिरसो वेदो ऽभवत् (१,१.८ह्) ताम् आङ्गिरसं वेदम् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.८इ) तस्माच् छ्रान्तात् तप्तात् संतप्ताज् जनद् इति द्वैतम् अक्षरं व्यभवत् (१,१.८ज्) स य इच्छेत् सर्वैर् एतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कुर्वीयेत्य् एतयैव तन् महाव्याहृत्या कुर्वीत (१,१.८क्) सर्वैर् ह वा अस्यैतैर् अङ्गिरोभिश् चाङ्गिरसैश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ८ ॥

(१,१.९अ) स ऊर्ध्वो ऽतिष्ठत् (१,१.९ब्) स इमांल् लोकान् व्यष्टभ्नात् (१,१.९ब्) तस्माद् अङ्गिरसो ऽधीयान ऊर्ध्वस् तिष्ठति (१,१.९द्) तद् व्रतं स मनसा ध्यायेद् यद् वा अहं किं च मनसा ध्यास्यामि तथैव तद् भविष्यति [एद्.॒ येद्] (१,१.९f) तद् ध स्म तथैव भवति (१,१.९ग्) तद् अप्य् एतद् ऋचोक्तम् (१,१.९ह्) श्रेष्ठो ह वेदस् तपसो ऽधि जातो ब्रह्मज्यानां क्षितये संबभूव । (१,१.९इ) ऋज्यद् भूतं यद् असृज्यतेदं निवेशनम् अनृणं दूरम् अस्येति [एद्.॒ ऋच्य् ऋग्भूतं - सेए नोते ড়त्यल्] (१,१.९ज्) ता वा एता अङ्गिरसां जामयो यन् मेनयः (१,१.९क्) करोति मेनिभिर् वीर्यं य एवं वेद ॥ ९ ॥

(१,१.१०अ) स दिशो ऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीम् उदीचीं ध्रुवाम् ऊर्ध्वाम् इति (१,१.१०ब्) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.१०ब्) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान् निरमिमीत (१,१.१०द्) सर्पवेदं पिशाचवेदम् असुरवेदम् इतिहासवेदं पुराणवेदम् इति (१,१.१०f) स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत (१,१.१०ग्) दक्षिणस्याः पिशाचवेदम् (१,१.१०ह्) प्रतीच्या असुरवेदम् (१,१.१०इ) उदीच्या इतिहासवेदम् (१,१.१०ज्) ध्रुवायाश् चोर्ध्वायाश् च पुराणवेदम् (१,१.१०क्) स तान् पञ्च वेदान् अभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.१०ल्) तेभ्यः श्रान्तेभ्यस् तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर् निरमिमीत (१,१.१०म्) वृधत् करद् रुहन् महत् तद् इति (१,१.१०न्) वृधद् इति सर्पवेदात् (१,१.१०ओ) करद् इति पिशाचवेदात् (१,१.१०प्) रुहद् इत्य् असुरवेदात् (१,१.१०ॠ) महद् इतीतिहासवेदात् (१,१.१०र्) तद् इति पुराणवेदात् (१,१.१०स्) स य इच्छेत् सर्वैर् एतैः पञ्चभिर् वेदैः कुर्वीयेत्य् एताभिर् एव तन् महाव्याहृतिभिः कुर्वीत (१,१.१०त्) सर्वैर् ह वा अस्यैतैः पञ्चभिर् वेदैः कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एताभिर् महाव्याहृतिभिः कुरुते ॥ १० ॥

(१,१.११अ) स आवतश् च परावतश् चान्वैक्षत (१,१.११ब्) तास् तत्रैवाभ्यश्राम्यद् अभ्यतपत् समतपत् (१,१.११ब्) ताभ्यः श्रान्ताभ्यस् तप्ताभ्यः संतप्ताभ्यः शम् इत्य् ऊर्ध्वम् अक्षरम् उदक्रामत् (१,१.११द्) स य इच्छेत् सर्वाभिर् एताभिर् आवद्भिश् च परावद्भिश् च कुर्वीयेत्य् एतयैवा तन् महाव्याहृत्या कुर्वीत (१,१.११f) सर्वाभिर् ह वा अस्यैताभिर् आवद्भिश् च परावद्भिश् च कृतं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतया महाव्याहृत्या कुरुते ॥ ११ ॥

(१,१.१२अ) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् (१,१.१२ब्) स मनस एव चन्द्रमसं निरमिमीत (१,१.१२ब्) नखेभ्यो नक्षत्राणि (१,१.१२द्) लोमभ्य ओषधिवनस्पतीन् (१,१.१२f) क्षुद्रेभ्यः प्राणेभ्यो ऽन्यान् बहून् देवान् (१,१.१२ग्) स भूयो ऽश्राम्यद् भूयो ऽतप्यद् भूय आत्मानं समतपत् (१,१.१२ह्) स एतं त्रिवृतं सप्ततन्तुम् एकविंशतिसंस्थं यज्ञम् अपश्यत् [एद्. एकविशतिसंस्थं] (१,१.१२इ) तद् अप्य् एतद् ऋचोक्तम् (१,१.१२ज्) <अग्निर् यज्ञं त्रिवृतं सप्ततन्तुम् [ড়्ष् ५.२८.१च्]> इति (१,१.१२क्) अथाप्य् एष प्राक्रीडितः श्लोकः प्रत्यभिवदति (१,१.१२ल्) सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ १२ ॥

(१,१.१३अ) तम् आहरत् (१,१.१३ब्) तेनायजत (१,१.१३ब्) तस्याग्निर् होतासीत् (१,१.१३द्) वायुर् अध्वर्युः (१,१.१३f) सूर्य उद्गाता (१,१.१३ग्) चन्द्रमा ब्रह्मा (१,१.१३ह्) पर्जन्यः सदस्यः (१,१.१३इ) ओषधिवनस्पतयश् चमसाध्वर्यवः (१,१.१३ज्) विश्वे देवा होत्रकाः (१,१.१३क्) अथर्वाङ्गिरसो गोप्तारस् (१,१.१३ल्) तं ह स्मैतम् एवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्य् अभिव्रजन्ति (१,१.१३म्) मा नो ऽयं घर्म उद्यतः प्रमत्तानाम् अमृताः प्रजाः प्रधाक्षीद् इति (१,१.१३न्) तान् वा एतान् परिरक्षकान्त् सदःप्रसर्पकान् इत्य् आचक्षते दक्षिणासमृद्धान् (१,१.१३ओ) तद् उ ह स्माह प्रजापतिः (१,१.१३प्) यद् वै यज्ञे ऽकुशला ऋत्विजो भवन्त्य् अचरितिनो ब्रह्मचर्यम् अपराग्या वा (१,१.१३ॠ) तद् वै यज्ञस्य विरिष्टम् इत्य् आचक्षते (१,१.१३र्) यज्ञस्य विरिष्टम् अनु यजमानो विरिष्यते (१,१.१३स्) यजमानस्य विरिष्टम् अन्व् ऋत्विजो विरिष्यन्ते (१,१.१३त्) ऋत्विजां विरिष्टम् अनु दक्षिणा विरिष्यन्ते (१,१.१३उ) दक्षिणानां विरिष्टम् अनु यजमानः पुत्रपशुभिर् विरिष्यते (१,१.१३व्) पुत्रपशूनां विरिष्टम् अनु यजमानः स्वर्गेण लोकेन विरिष्यते (१,१.१३w) स्वर्गस्य लोकस्य विरिष्टम् अनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १३ ॥

(१,१.१४अ) तं ह स्मैतम् एवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्य् उपाधावेरन् (१,१.१४ब्) नमस् ते अस्तु भगवन् (१,१.१४च्) यज्ञस्य नो विरिष्टं सन्धेहीति (१,१.१४द्) तद् यत्रैव विरिष्टं स्यात् तत्राग्नीन् उपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिर् एवाग्नीन्त् सम्प्रोक्षति त्रिः पर्युक्षति (१,१.१४ए) त्रिः कारयमानम् आचामयति च संप्रोक्षति च (१,१.१४f) यज्ञवास्तु व सम्प्रोक्षति (१,१.१४ग्) अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते (१,१.१४ह्) तद् यथा लवणेन सुवर्णं संदध्यात् सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्व् एवम् एवास्य यज्ञस्य विरिष्टं संधीयते (१,१.१४इ) यज्ञस्य संधितिम् अनु यजमानः संधीयते [एद्. संघीयते] (१,१.१४ज्) यजमानस्य संधितिम् अन्व् ऋत्विजः संधीयन्ते (१,१.१४क्) ऋत्विजां संधितिम् अनु दक्षिणाः संधीयन्ते (१,१.१४ल्) दक्षिणानां संधितिम् अनु यजमानः पुत्रपशुभिः संधीयते (१,१.१४म्) पुत्रपशूनां संधितिम् अनु यजमानः स्वर्गेण लोकेन संधीयते (१,१.१४न्) स्वर्गस्य लोकस्य संधितिम् अनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ १४ ॥

(१,१.१५अ) तद् उ ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्य् उपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियते ऽपि च यद् उ बह्व् इव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् अपात्येति पुनाराजातिं कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् ब्रह्मा भवति यस्य चैवंविद्वान् ब्रह्मा दक्षिणतः सदो ऽध्यास्ते यस्य चैवंविद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर् जुहोतीति ब्राह्मणम् ॥ १५ ॥

(१,१.१६अ) ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे (१,१.१६ब्) स खलु ब्रह्मा सृष्टश् चिन्ताम् आपेदे (१,१.१६च्) केनाहम् एकेनाक्षरेण सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अनुभवेयम् इति (१,१.१६द्) स ब्रह्मचर्यम् अचरत् (१,१.१६f) स ओम् इत्य् एतद् अक्षरम् अपश्यद् द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम् (१,१.१६ग्) तया सर्वांश् च कामान्त् सर्वांश् च लोकान्त् सर्वांश् च देवान्त् सर्वांश् च वेदान्त् सर्वांश् च यज्ञान्त् सर्वांश् च शब्दान्त् सर्वाश् च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्य् अन्वभवत् (१,१.१६ह्) तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत् (१,१.१६इ) तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्य् अन्वभवत् ॥ १६ ॥

(१,१.१७अ) तस्य प्रथमया स्वरमात्रया पृथिवीम् अग्निम् ओषधिवनस्पतीन् ऋग्वेदं भूर् इति व्याहृतिं गायत्रं छन्दस् त्रिवृतं स्तोमं प्राचीं दिशं वसन्तम् ऋतुं वाचम् अध्यात्मं जिह्वां रसम् इतीन्द्रियाण्य् अन्वभवत् ॥ १७ ॥

(१,१.१८अ) तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्मम् ऋतुं प्राणम् अध्यात्मं नासिके गन्धघ्राणम् इतीन्द्रियाण्य् अन्वभवत् ॥ १८ ॥

(१,१.१९अ) तस्य तृतीयया स्वरमात्रया दिवम् आदित्यं सामवेदं स्वर् इति व्याहृतिं जागतं छन्दः सप्तदशं स्तोमम् उदीचीं दिशं वर्षा ऋतुं ज्योतिर् अध्यात्मं चक्षुषी दर्शनम् इतीन्द्रियान्य् अन्वभवत् ॥ १९ ॥

(१,१.२०अ) तस्य वकारमात्रयापश् चन्द्रमसम् अथर्ववेदं नक्षत्राण्य् ओम् इति स्वम् आत्मानं जनद् इत्य् अङ्गिरसाम् आनुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदम् ऋतुं मनो ऽध्यात्मं ज्ञानं ज्ञेयम् इतीन्द्रियाण्य् अन्वभवत् ॥ २० ॥

(१,१.२१ब्) तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीर् उपनिषदो ऽनुशासनानीति वृधत् करद् रुहन् महत् तच् छम् ओम् इति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्य् अन्वभवच् चैत्ररथं दैवतं वैद्युतं ज्योतिर् बार्हतं छन्दस् त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवाम् ऊर्ध्वां दिशं हेमन्तशिशिराव् ऋतू श्रोत्रम् अध्यात्मं शब्दश्रवणम् इतीन्द्रियाण्य् अन्वभवत् ॥ २१ ॥

(१,१.२२अ) सैषैकाक्षरर्ग् ब्रह्मणस् तपसो ऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम् (१,१.२२ब्) अत एव मन्त्राः प्रादुर्बभूवुः (१,१.२२च्) स तु खलु मन्त्राणाम् अतपसासुश्रूषानध्यायाध्ययनेन यद् ऊनं च विरिष्टं च यातयामं च करोति तद् अथर्वणां तेजसा प्रत्याप्याययेत् (१,१.२२द्) मन्त्राश् च माम् अभिमुखीभवेयुर् गर्भा इव मातरम् अभिजिघांसुः (१,१.२२ए) पुरस्ताद् ओंकारं प्रयुङ्क्ते (१,१.२२f) एतयैव तद् ऋचा प्रत्याप्यायेत् (१,१.२२ग्) एषैव यज्ञस्य पुरस्ताद् युज्यते (१,१.२२ह्) एषा पश्चात् (१,१.२२इ) सर्वत एतया यज्ञस् तायते (१,१.२२ज्) तद् अप्य् एतदृचोक्तम् (१,१.२२क्) या पुरस्ताद् युज्यत ऋचो अक्षरे परमे व्योमन्न् इति (१,१.२२ल्) तद् एतद् अक्षरं ब्राह्मणो यं कामम् इच्छेत् त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्य् उपविश्य सहस्रकृत्व आवर्तयेत् (१,१.२२म्) सिध्यन्त्य् अस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ २२ ॥

(१,१.२३अ) वसोर् धाराणाम् ऐन्द्रं नगरम् (१,१.२३ब्) तद् असुराः पर्यवारयन्त (१,१.२३च्) ते देवा भीता आसन् (१,१.२३द्) क इमान् असुरान् अपहनिष्यतीति [एद्. ईमान्] (१,१.२३ए) त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस् (१,१.२३f) ते तम् अब्रुवन् (१,१.२३ग्) भवता मुखेनेमान् असुराञ् जयेमेति (१,१.२३ह्) स होवाच (१,१.२३इ) किं मे प्रतीवाहो भविष्यतीति (१,१.२३ज्) वरं वृणीष्वेति (१,१.२३क्) वृणा इति (१,१.२३ल्) स वरम् अवृणीत (१,१.२३म्) न माम् अनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः (१,१.२३न्) यदि वदेयुर् अब्रह्म तत् स्याद् इति (१,१.२३ओ) तथेति (१,१.२३प्) ते देवा देवयजनस्योत्तरार्धे ऽसुरैः संयत्ता आसन् (१,१.२३ॠ) तान् ओंकारेणाग्नीध्रीयाद् देवा असुरान् पराभावयन्त (१,१.२३र्) तद् यत् पराभावयन्त तस्माद् ओंकारः पूर्वम् उच्यते (१,१.२३स्) यो ह वा एतम् ओंकारं न वेदावशी स्याद् इत्य् अथ य एवं वेद ब्रह्मवशी स्याद् इति (१,१.२३त्) तस्माद् ओंकार ऋच्य् ऋग् भवति (१,१.२३उ) यजुषि यजुः (१,१.२३व्) साम्नि साम (१,१.२३w) सूत्रे सूत्रम् (१,१.२३x) ब्राह्मणे ब्राह्मणम् (१,१.२३य्) श्लोके श्लोकः (१,१.२३श्) प्रणवे प्रणव इति ब्राह्मणम् ॥ २३ ॥

(१,१.२४अ) ओंकारं पृच्छामः (१,१.२४ब्) को धातुः (१,१.२४च्) किं प्रातिपदिकम् (१,१.२४द्) किं नामाख्यातम् (१,१.२४ए) किं लिङ्गम् (१,१.२४f) किं वचनम् (१,१.२४ग्) का विभक्तिः (१,१.२४ह्) कः प्रत्ययः (१,१.२४इ) कः स्वर उपसर्गो निपातः (१,१.२४ज्) किं वै व्याकरणम् (१,१.२४क्) को विकारः (१,१.२४ल्) को विकारी (१,१.२४म्) कतिमात्रः (१,१.२४न्) कतिवर्णः (१,१.२४ओ) कत्यक्षरः (१,१.२४प्) कतिपदः (१,१.२४ॠ) कः संयोगः (१,१.२४र्) किं स्थानानुप्रदानकरणं शिक्षुकाः किम् उच्चारयन्ति (१,१.२४स्) किं छन्दः (१,१.२४त्) को वर्ण इति पूर्वे प्रश्राः (१,१.२४उ) अथोत्तरे (१,१.२४व्) मन्त्रः कल्पो ब्राह्मणम् ऋग् यजुः साम (१,१.२४w) कस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति (१,१.२४x) किं दैवतम् (१,१.२४य्) किं ज्योतिषम् (१,१.२४श्) किं निरुक्तम् (१,१.२४अअ) किं स्थानम् (१,१.२४ब्ब्) का प्रकृतिः (१,१.२४च्च्) किमध्यात्मम् इति (१,१.२४द्द्) षट्त्रिंशत् प्रश्र्नाः (१,१.२४एए) पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः (१,१.२४ff) एतैर् ओंकारं व्याख्यास्यामः ॥ २४ ॥

(१,१.२५अ) इन्द्रः प्रजापतिम् अपृच्छत् (१,१.२५ब्) भगवन्न् अभिष्टूय पृच्छामीति (१,१.२५च्) पृच्छ वत्सेत्य् अब्रवीत् (१,१.२५द्) किम् अयम् ओंकारः (१,१.२५ए) कस्यः पुत्रः (१,१.२५f) किं चैतच् छन्दः (१,१.२५ग्) किं चैतद् वर्णः (१,१.२५ह्) किं चैतद् ब्रह्मा ब्रह्म सम्पद्यते (१,१.२५इ) तस्माद् वै तद् भद्रम् ओंकारं पूर्वम् आलेभे (१,१.२५ज्) स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे (१,१.२५क्) त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे (१,१.२५ल्) दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे (१,१.२५म्) ह्रस्वोदात्त एकाक्षर ओंकारो ऽथर्ववेदे (१,१.२५न्) उदात्तोदात द्विपद अ उ इत्य् अर्धचतस्रो मात्रा मकारे व्यञ्जनम् इत्य् आहुः (१,१.२५ओ) या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन (१,१.२५प्) यस् तां ध्यायते नित्यं स गच्छेद् ब्राह्मं पदम् (१,१.२५ॠ) या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन (१,१.२५र्) यस् तां ध्यायते नित्यं स गच्छेद् वैष्णवं पदम् (१,१.२५स्) या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन (१,१.२५त्) यस् तां ध्यायते नित्यं स गच्छेद् ऐशानं पदम् (१,१.२५उ) या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन (१,१.२५व्) यस् तां ध्यायते नित्यं स गच्छेत् पदम् अनामकम् (१,१.२५w) ओंकारस्य चोत्पत्तिः (१,१.२५x) विप्रो यो न जानाति तत्पुनरुपनयनम् (१,१.२५य्) तस्माद् ब्राह्माणवचनम् आदर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः (१,१.२५श्) गायत्रं च्छन्दः (१,१.२५अअ) शुक्लो वर्णः (१,१.२५ब्ब्) पुंसो वत्सः (१,१.२५च्च्) रुद्रो देवता (१,१.२५द्द्) ओंकारो वेदानाम् ॥ २५ ॥

(१,१.२६अ) को धातुर् इति (१,१.२६ब्) आपृधातुः (१,१.२६च्) अवतिम् अप्य् एके (१,१.२६द्) रूपसामान्याद् अर्थसामान्यं नेदीयस् (१,१.२६ए) तस्माद् आपेर् ओंकारः सर्वम् आप्नोतीत्य् अर्थः कृदन्तम् अर्थवत् (१,१.२६f) प्रातिपदिकम् अदर्शनम् (१,१.२६ग्) प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तद् अव्ययीभूतम् (१,१.२६ह्) अन्वर्थवाची शब्दो न व्येति कदा चनेति (१,१.२६इ) सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन् न व्येति तद् अव्ययम् (१,१.२६ज्) को विकारी च्यवते (१,१.२६क्) प्रसारणम् (१,१.२६ल्) आप्नोतेर् आकरपकारौ विकार्यौ (१,१.२६म्) आदित ओंकारो विक्रियते (१,१.२६न्) द्वितीयो मकारः (१,१.२६ओ) एव द्विवर्ण एकाक्षर ओम् इत्य् ओंकारो निर्वृत्तः ॥ २६ ॥

(१,१.२७अ) कतिमात्र इति (१,१.२७ब्) आदेस् तिस्रो मात्राः (१,१.२७च्) अभ्यादाने हि प्लवते (१,१.२७द्) मकारश् चतुर्थीम् (१,१.२७ए) किं स्थानम् इति (१,१.२७f) उभाव् ओष्ठौ स्थानम् (१,१.२७ग्) नादानुप्रदानकरणौ च द्विस्थानम् [एद्. नादान-, च्f. ড়त्यल् प्. २८] (१,१.२७ह्) संध्यक्षरम् अवर्णलेशः कण्ठ्यो यथोक्तशेषः (१,१.२७इ) पूर्वो विवृतकरणस्थितश् च (१,१.२७ज्) द्वितीयस्पृष्टकरणस्थितश् च (१,१.२७क्) न संयोगो विद्यते (१,१.२७ल्) आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः (१,१.२७म्) श्रवणाद् एव प्रतिपद्यन्ते न कारणं पृच्छन्ति (१,१.२७न्) अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्व् इति (१,१.२७ओ) तद् वाच्य् उपलक्षयेद् वर्णाक्षरपदाङ्कशः (१,१.२७प्) विभक्त्याम् ऋषिनिषेविताम् इति वाचं स्तुवन्ति (१,१.२७ॠ) तस्मात् कारणं ब्रूमः (१,१.२७र्) वर्णानाम् अयम् इदं भविष्यतीति (१,१.२७स्) षडङ्गविदस् तत् तथाधीमहे (१,१.२७त्) किं छन्द इति (१,१.२७उ) गायत्रं हि छन्दः (१,१.२७व्) गायत्री वै देवानाम् एकाक्षरा श्वेतवर्णा च व्याख्याता (१,१.२७w) द्वौ द्वादशकौ वर्गौ (१,१.२७x) एतद् वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च (१,१.२७य्) अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता (१,१.२७श्) मन्त्रः कल्पो ब्राहमणम् ऋग् यजुः सामाथर्वाणि (१,१.२७अअ) एषा व्याहृतिश् चतुर्णां वेदानाम् आनुपूर्वेणों भूर् भुवः स्वर् इति व्याहृतयः ॥ २७ ॥

(१,१.२८अ) असमीक्ष्यप्रवल्हितानि श्रूयन्ते (१,१.२८ब्) द्वापरादाव् ऋषीणाम् एकदेशो दोषपतिर् इह चिन्ताम् आपेदे त्रिभिः सोमः पातव्यः समाप्तम् इव भवति (१,१.२८च्) तस्माद् ऋग्यजुःसामान्य् अपक्रान्ततेजांस्य् आसन् (१,१.२८द्) तन्त्र महर्षयः परिदेवयां चक्रिरे (१,१.२८ए) महच् छोकभयं प्राप्ताः स्मः (१,१.२८f) न चैतत् सर्वैः समभिहितम् (१,१.२८ग्) ते वयं भगवन्तम् एवोपधावाम (१,१.२८ह्) सर्वेषाम् एव शर्म भवानीति (१,१.२८इ) ते तथेत्य् उक्त्वा तूष्णीम् अतिष्ठन् (१,१.२८ज्) नानुपसन्नेभ्य इति (१,१.२८क्) उपोपसीदामीति नीचैर् बभूवुः (१,१.२८ल्) स एभ्य उपनीय प्रोवाच (१,१.२८म्) मामिकाम् एव व्याहृतिम् आदित आदितः कृणुध्वम् इति (१,१.२८न्) एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः (१,१.२८ओ) ऋत्विजः पराभवन्ति (१,१.२८प्) यजमानो रजसापध्वस्यति (१,१.२८ॠ) श्रुतिश् चापध्वस्ता तिष्ठतीति (१,१.२८र्) एवम् एवोत्तरोत्तराद् योगात् तोकं तोकं प्रशाध्वम् इति (१,१.२८स्) एवं प्रतापो न पराभविष्यतीति (१,१.२८त्) तथा ह तथा ह भगवन्न् इति प्रतिपेदिर आप्याययन् (१,१.२८उ) ते तथा वीतशोकभया बभूवुस् (१,१.२८व्) तस्माद् ब्रह्मवादिन ओंकारम् आदितः कुर्वन्ति ॥ २८ ॥

(१,१.२९अ) किं देवतम् इति (१,१.२९ब्) ऋचाम् अग्निर् देवतम् (१,१.२९च्) तद् एव ज्योतिः (१,१.२९द्) गायत्रं छन्दः (१,१.२९ए) पृथिवी स्थानम् (१,१.२९f) <अग्निम् ईऌए पुरोहितं यज्ञस्य देवम् ऋत्विजं होतारं रत्नधातमम् [ऋV १.१.१]> इत्य् एवम् आदिं कृत्वा ऋग्वेदम् अधीयते (१,१.२९ग्) यजुषां वायुर् देवतम् (१,१.२९ह्) तद् एव ज्योतिस् (१,१.२९इ) त्रैष्टुभं छन्दः (१,१.२९ज्) अन्तरिक्षं स्थानम् (१,१.२९क्) <इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे [Vष् १.१]>इत्य् एवम् आदिं कृत्वा यजुर्वेदम् अधीयते (१,१.२९ल्) साम्नाम् आदित्यो देवतम् (१,१.२९म्) तद् एव ज्योतिः (१,१.२९न्) जागतं छन्दः (१,१.२९ओ) द्यौः स्थानम् (१,१.२९प्) <अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [ष्V १.१]>इत्य् एवम् आदिं कृत्वा समावेदम् अधीयते (१,१.२९ॠ) अथर्वणां चन्द्रमा देवतम् (१,१.२९र्) तद् एव ज्योतिः (१,१.२९स्) सर्वाणि छन्दांसि (१,१.२९त्) आपः स्थानम् (१,१.२९उ) <शं नो देवीर् अभिष्टय [ড়्ष् १.१.१]> इत्य् एवम् आदिं कृत्वाथर्ववेदम् अधीयते (१,१.२९व्) अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति (१,१.२९w) तस्मात् सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् (१,१.२९x) अन्तरैते त्रयो वेदा भृगून् अङ्गिरसः श्रिता इत्य् अब् इति प्रकृतिर् अपाम् ओंकारेण च (१,१.२९य्) एतस्माद् व्यासः पुरोवाच (१,१.२९श्) भृग्वङ्गिरोविदा संस्कृतो ऽन्यान् वेदान् अधीयीत (१,१.२९अअ) नान्यत्र संस्कृतो भृग्ङ्गिरसो ऽधीयीत (१,१.२९ब्ब्) सामवेदे ऽथ खिलश्रुतिर् ब्रह्मचर्येण चैतस्माद् अथर्वाङ्गिरसो ह यो वेद स वेद सर्वम् इति ब्राह्मणम् ॥ २९ ॥

(१,१.३०अ) अध्यात्मम् आत्मभैषज्यम् आत्मकैवल्यम् ओंकारः (१,१.३०ब्) आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत् (१,१.३०च्) अतिक्रम्य वेदेभ्यः सर्वपरम् अध्यात्मफलं प्राप्नोतीत्यर्थः (१,१.३०द्) सवितर्कं ज्ञानमयम् इत्य् एतैः प्रश्नैः प्रतिवचनैश् च यथार्थं पदम् अनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात् सर्वस्मिन् वाकोवाक्य इति ब्राह्मणम् ॥ ३० ॥

(१,१.३१अ) एतद् ध स्मैतद् विद्वांसम् एकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयो ऽभ्याजगाम (१,१.३१ब्) स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन् मर्या अयं तन् मौद्गल्यो ऽध्येति यद् अस्मिन् ब्रह्मचर्यं वसतीति (१,१.३१च्) तद् धि मौद्गल्यस्यान्तेवासी शुश्राव (१,१.३१द्) स आचार्यायाव्रज्याचचष्टे (१,१.३१ए) दुरधीयानं वा अयं भवन्तम् अवोचद् यो ऽयम् अद्यातिथिर् भवति (१,१.३१f) किं सौम्य विद्वान् इति (१,१.३१ग्) त्रीन् वेदान् ब्रूते भो इति (१,१.३१ह्) तस्य सौम्य विपष्टो विजिगीषो ऽन्तेवासी तं मे ह्वयेति (१,१.३१इ) तम् आजुहाव (१,१.३१ज्) तम् अभ्युवाचासाव् इति (१,१.३१क्) भो इति (१,१.३१ल्) किं सौम्य त आचार्यो ऽध्येतीति (१,१.३१म्) त्रीन् वेदान् ब्रूते (१,१.३१न्) भो इति (१,१.३१ओ) यन् नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवम् आचार्यो भाषते (१,१.३१प्) कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन् (१,१.३१ॠ) यं ह्य् एनम् अहं प्रश्नं पृच्छामि न तं विवक्ष्यति (१,१.३१र्) न ह्य् एनम् अध्येतीति (१,१.३१स्) स ह मौद्गल्यः स्वम् अन्तेवासिनम् उवाच परेहि सौम्य ग्लावं मैत्रेयम् उपसीद (१,१.३१त्) अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम् (१,१.३१उ) यस्या भृग्वङ्गिरसश् चक्षुः (१,१.३१व्) यस्यां सर्वम् इदं श्रितं तां भवान् प्रब्रवीत्व् इति (१,१.३१w) स चेत् सौम्य दुरधीयानो भविष्यत्य् आचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत् त्वं ब्रूयाद् दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् (१,१.३१x) स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः (१,१.३१य्) पुरा संवत्सराद् आर्तिम् आरिष्यसीति ॥ ३१ ॥

(१,१.३२अ) स तत्राजगाम यत्रेतरो बभूव (१,१.३२ब्) तं ह पप्रच्छ (१,१.३२च्) स ह न प्रतिपेदे (१,१.३२द्) तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यम् अवोचत् (१,१.३२ए) स त्वा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचः (१,१.३२f) पुरा संवत्सराद् आर्तिम् आरिष्यसीति (१,१.३२ग्) स ह मैत्रेयः स्वान् अन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम् (१,१.३२ह्) दुरधीयानं वा अहं मौद्गल्यम् अवोचम् (१,१.३२इ) स मा यं प्रश्नम् अप्राक्षीन् न तं व्यवोचम् (१,१.३२ज्) तम् उपैष्यामि (१,१.३२क्) शान्तिं करिष्यामीति (१,१.३२ल्) स ह मैत्रेयः प्रातः समित्पाणिर् मौद्गल्यम् उपससादासौ वा अहं भो मैत्रेयः (१,१.३२म्) किमर्थम् इति (१,१.३२न्) दुरधीयानं वा अहं भवन्तम् अवोचम् (१,१.३२ओ) त्वं मा यं प्रश्नम् अप्राक्षीर् न तं व्यवोचम् (१,१.३२प्) त्वाम् उपैष्यामि (१,१.३२ॠ) शान्तिं करिष्यामीति (१,१.३२र्) स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तम् आहुः (१,१.३२स्) अथो ऽयं मम कल्याणस् [ড়त्यल्ऽस् त्रन्स्ल्. इम्प्लिएस् थे एमेन्दतिओन् आहू रथो] (१,१.३२त्) तं ते ददामि (१,१.३२उ) तेन याहीति (१,१.३२व्) स होवाचैतद् एवात्रात्विषं चानृशंस्यं च यथा भवान् आह (१,१.३२w) उपायामि त्वेव भवन्तम् इति (१,१.३२x) तं होपेयाय (१,१.३२य्) तं होपेत्य पप्रच्छ किं स्विद् आहुर् भोः सवितुर् वरेण्यं भर्गो देवस्य कवयः किम् आहुर् धियो विचक्ष्व यदि ताः प्रवेत्थ (१,१.३२श्) प्रचोदयात् सविता याभिर् एतीति [एद्. प्रचोदयान्त्, चोर्र्. ড়त्यल्] (१,१.३२अअ) तस्मा एतत् प्रोवाच वेदांश् छन्दांसि सवितुर् वरेण्यम् (१,१.३२ब्ब्) भर्गो देवस्य कवयो ऽन्नम् आहुः कर्माणि धियस् (१,१.३२च्च्) तद् उ ते प्रब्रवीमि प्रचोदयात् सविता याभिर् एतीति [एद्. प्रचोदयान्त्] (१,१.३२द्द्) तम् उपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ ३२ ॥ (१,१.३३अ) मन एव सविता वाक् सावित्री (१,१.३३ब्) यत्र ह्य् एव मनस् तद् वाग् यत्र वै वाक् तन् मन इति (१,१.३३च्) एते द्वे योनी एकं मिथुनम् (१,१.३३द्) अग्निर् एव सविता पृथिवी सावित्री (१,१.३३ए) यत्र ह्य् एवाग्निस् तत् पृथिवी यत्र वै पृथिवी तद् अग्निर् इति (१,१.३३f) एते द्वे योनी एकं मिथुनम् (१,१.३३ग्) वायुर् एव सवितान्तरिक्षं सावित्री (१,१.३३ह्) यत्र ह्य् एव वायुस् तद् अन्तरिक्षं यत्र वा अन्तरिक्षं तद् वायुर् इति (१,१.३३इ) एते द्वे योनी एकं मिथुनम् (१,१.३३ज्) आदित्य एव सविता द्यौः सावित्री (१,१.३३क्) यत्र ह्य् एवादित्यस् तद् द्यौर् यत्र वै द्यौस् तद् आदित्य इति (१,१.३३ल्) एते द्वे योनी एकं मिथुनम् (१,१.३३म्) चन्द्रमा एव सविता नक्षत्राणि सावित्री (१,१.३३न्) यत्र ह्य् एव चन्द्रमास् तन् नक्षत्राणि यत्र वै नक्षत्राणि तच् चन्द्रमा इति (१,१.३३ओ) एते द्वे योनी एकं मिथुनम् (१,१.३३प्) अहर् एव सविता रात्रिः सावित्री (१,१.३३ॠ) यत्र ह्य् एवाहस् तद् रात्रिर् यत्र वै रात्रिस् तद् अहर् इति (१,१.३३र्) एते द्वे योनी एक मिथुनम् (१,१.३३स्) उष्णम् एव सविता शीतं सावित्री (१,१.३३त्) यत्र ह्य् एवोष्णं तच् छीतं यत्र वै शीतं तद् उष्णम् इति (१,१.३३उ) एते द्वे योनी एकं मिथुनम् (१,१.३३व्) अभ्रम् एव सविता वर्षं सावित्री (१,१.३३w) यत्र ह्य् एवाभ्रं तद् वर्षं यत्र वै वर्षं तद् अभ्रम् इति (१,१.३३x) एते द्वे योनी एकं मिथुनम् (१,१.३३य्) विद्युद् एव सविता स्तनयित्नुः सावित्री (१,१.३३श्) यत्र ह्य् एव विद्युत् तत् स्तनयित्नुर् यत्र वै स्तनयित्नुस् तद् विद्युद् इति (१,१.३३अअ) एते द्वे योनी एकं मिथुनम् (१,१.३३ब्ब्) प्राण एव सवितान्नं सावित्री (१,१.३३च्च्) यत्र ह्य् एव प्राणस् तद् अन्नं यत्र वा अन्नं तत् प्राण इति (१,१.३३द्द्) एते द्वे योनी एकं मिथुनम् (१,१.३३एए) वेदा एव सविता छन्दांसि सावित्री [एद्. ओमित्स् सेन्तेन्चे एन्द् मर्केर्] (१,१.३३ff) यत्र ह्य् एव वेदास् तच् छन्दांसि यत्र वै छन्दांसि तद् वेदा इति (१,१.३३ग्ग्) एते द्वे योनी एकं मिथुनम् (१,१.३३ह्ह्) यज्ञ एक सविता दक्षिणाः सावित्री (१,१.३३इइ) यत्र ह्य् एव यज्ञस् तद् दक्षिणा यत्र वै दक्षिणास् तद् यज्ञ इति (१,१.३३ज्ज्) एते द्वे योनी एकं मिथुनम् (१,१.३३क्क्) एतद् ध स्मैतद् विद्वांसम् ओपाकारिम् आसस्तुर् ब्रह्मचारी ते संस्थित इत्य् अथैत आसस्तुर् आचित इव चितो बभूव (१,१.३३ल्ल्) अथोत्थाय प्राव्राजीद् इत्य् एतद् वा अहं वेद नैतासु योनिष्व् इत एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयाद् इति ॥ ३३ ॥

(१,१.३४अ) ब्रह्म हेदं श्रियं प्रतिष्ठाम् आयतनम् ऐक्षत (१,१.३४ब्) तत् तपस्व (१,१.३४च्) यदि तद् व्रते ध्रियेत तत् सत्ये प्रत्यतिष्ठत् (१,१.३४द्) स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत् सवित्रीं पर्यदधात् (१,१.३४ए) तत् सवितुर् वरेण्यम् इति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः] (१,१.३४f) पृथिव्य् अर्चं समदधात् (१,१.३४ग्) ऋचाग्निम् (१,१.३४ह्) अग्निना श्रियम् (१,१.३४इ) श्रिया स्त्रियम् (१,१.३४ज्) स्त्रिया मिथुनम् (१,१.३४क्) मिथुनेन प्रजाम् (१,१.३४ल्) प्रजया कर्म (१,१.३४म्) कर्मणा तपस् [एद्. कमणा] (१,१.३४न्) तपसा सत्यम् (१,१.३४ओ) सत्येन ब्रह्म (१,१.३४प्) ब्रह्मणा ब्राह्मणम् (१,१.३४ॠ) ब्राह्मणेन व्रतम् (१,१.३४र्) व्रतेन वै ब्राह्मणः संशितो भवति (१,१.३४स्) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ ३४ ॥

(१,१.३५अ) भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः (१,१.३५ब्) अन्तरिक्षेण यजुः समदधात् (१,१.३५च्) यजुषा वायुम् (१,१.३५द्) वायुनाभ्रम् (१,१.३५ए) अभ्रेण वर्षम् (१,१.३५f) वर्षेणौषधिवनस्पतीन् (१,१.३५ग्) ओषधिवनस्पतिभिः पशून् (१,१.३५ह्) पशुभिः कर्म (१,१.३५इ) कर्मणा तपस् (१,१.३५ज्) तपसा सत्यम् (१,१.३५क्) सत्येन ब्रह्म (१,१.३५ल्) ब्रह्मणा ब्राह्मणम् (१,१.३५म्) ब्राह्मणेन व्रतम् (१,१.३५न्) व्रतेन वै ब्राह्मणः संशितो भवति (१,१.३५ओ) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ ३५ ॥

(१,१.३६अ) धियो यो नः प्रचोदयाद् इति सावित्र्यास् तृतीयः पादः (१,१.३६ब्) दिवा साम समदधात् (१,१.३६च्) साम्नादित्यम् (१,१.३६द्) आदित्येन रश्मीन् [एद्. रश्मि+ईन्] (१,१.३६ए) रश्मिभिर् वर्षम् (१,१.३६f) वर्षेणौषधिवनस्पतीन् (१,१.३६ग्) ओषधिवनस्पतिभिः पशून् (१,१.३६ह्) पशुभिः कर्म (१,१.३६इ) कर्मणा तपस् (१,१.३६ज्) तपसा सत्यम् (१,१.३६क्) सत्येन ब्रह्म (१,१.३६ल्) ब्रह्मणा ब्राह्मणम् (१,१.३६म्) ब्राह्मणेन व्रतम् (१,१.३६न्) व्रतेन वै ब्राह्मणः संशितो भवति (१,१.३६ओ) अशून्यो भवत्य् अविछिन्नो भवत्य् अविछिन्नो ऽस्य तन्तुर् अविछिन्नं जीवनं भवति य एवं वेद यश् चैवंविद्वान् एवम् एतं सावित्र्यास् तृतीयं पादं व्याचष्टे ॥ ३६ ॥

(१,१.३७अ) तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ब्) ब्रह्मणाकाशम् अभिपन्नं ग्रसितं परामृष्टम् (१,१.३७च्) आकाशेन वायुर् अभिपन्नो ग्रसितः परामृष्टः (१,१.३७द्) वायुना ज्योतिर् अभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ए) ज्योतिषापो ऽभिपन्ना ग्रसिताः परामृष्टाः (१,१.३७f) अद्भिर् भूमिर् अभिपन्ना ग्रसिता परामृष्टा (१,१.३७ग्) भूम्यान्नम् अभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ह्) अन्नेन प्राणो ऽभिपन्नो ग्रसितः परामृष्टः (१,१.३७इ) प्राणेन मनो ऽभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ज्) मनसा वाग् अभिपन्ना ग्रसिता परामृष्टा (१,१.३७क्) वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः (१,१.३७ल्) वेदैर् यज्ञो ऽभिपन्नो ग्रसितः परामृष्टस् [एद्. परिमृष्टस्] (१,१.३७म्) तानि ह वा एतानि द्वादशमहाभूतान्य् एवंविदि प्रतिष्ठितानि (१,१.३७न्) तेषां यज्ञ एव परार्ध्यः ॥ ३७ ॥

(१,१.३८अ) तं ह स्मैतम् एवांविद्वांसो मन्यन्ते विद्मैनम् इति याथातथ्यम् अविद्वांसः (१,१.३८ब्) अयं यज्ञो वेदेषु प्रतिष्ठितः (१,१.३८च्) वेदा वाचि प्रतिष्ठिताः (१,१.३८द्) वाङ् मनसि प्रतिष्ठिता (१,१.३८ए) मनः प्राणे प्रतिष्ठितम् (१,१.३८f) प्राणो ऽन्ने प्रतिष्ठितः (१,१.३८ग्) अन्नं भूमौ प्रतिष्ठितम् (१,१.३८ह्) भूमिर् अप्सु प्रतिष्ठिता (१,१.३८इ) आपो ज्योतिषि प्रतिष्ठिताः (१,१.३८ज्) ज्योतिर् वायौ प्रतिष्ठितम् (१,१.३८क्) वायुर् आकाशे प्रतिष्ठितः (१,१.३८ल्) आकाशं ब्रह्मणि प्रतिष्ठितम् (१,१.३८म्) ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम् (१,१.३८न्) यो ह वा एवंवित् स ब्रह्मवित् (१,१.३८ओ) पुण्यां च कीर्तिं लभते सुरभींश् च गन्धान् (१,१.३८प्) सो ऽपहतपाप्मा (१,१.३८ॠ) अनन्तां श्रियम् अश्नुते य एवं वेद यश् चैवंविद्वान् एवम् एतां वेदानां मातरं सावित्रीं संपदम् उपनिषदम् उपास्त इति ब्राह्मणम् ॥ ३८ ॥

(१,१.३९अ) <आपो गर्भं जनयन्तीर् [ড়्ष् ४.१.८]> इति (१,१.३९ब्) अपां गर्भः पुरुषः (१,१.३९च्) स यज्ञः (१,१.३९द्) अद्भिर् यज्ञः प्रणीयमानः प्राङ् तायते (१,१.३९ए) तस्माद् आचमनीयं पूर्वम् आहारयति (१,१.३९f) स यद् आचामति त्रिर् आचामति (१,१.३९ग्) द्विः परिशुम्भति (१,१.३९ह्) आयुर् अवरुह्य पाप्मानं निर्णुदति (१,१.३९इ) उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणाव् अमृतम् अस्य् अमृतोपस्तरणम् अस्य् अमृताय त्वोपस्तृणामीति पाणाव् उदकम् आनीय <जीवा स्थ [ড়्ष् १९.५५.१२-१५, श्ष् १९.६९.१-४]>इति सूक्तेन त्रिर् आचामति (१,१.३९ज्) स यत् पूर्वम् आचामति सप्त प्राणांस् तान् एतेनास्मिन्न् आप्याययति (१,१.३९क्) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतद् अग्निं वायुम् आदित्यं चन्द्रमसम् अपः पशून् अन्यांश् च प्रजास् तान् एतेनास्मिन्न् आप्याययति (१,१.३९ल्) आपो ऽमृतम् (१,१.३९म्) स यद् द्वितीयम् आचामति सप्तापानांस् तान् एतेनास्मिन्न् आप्याययति (१,१.३९न्) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पौर्णमासीम् अष्टकाम् अमावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास् तान् एतेनास्मिन्न् आप्याययति (१,१.३९ओ) आपो ऽमृतम् (१,१.३९प्) स यत् तृतीयम् आचामति सप्त व्यानांस् तान् एतेनास्मिन्न् आप्याययति (१,१.३९ॠ) या ह्य् एमा बाह्याः शरीरान् मात्रास् तद् यथैतत् पृथिवीम् अन्तरिक्षं दिवम् (१,१.३९र्) नक्षत्राण्य् ऋतून् आर्तवान् संवत्सरांस् तान् एतेनास्मिन्न् आप्याययति (१,१.३९स्) आपो ऽमृतम् (१,१.३९त्) पुरुषो ब्रह्म (१,१.३९उ) अथाप्रियनिगमो भवति तस्माद् वै विद्वान् पुरुषम् इदं पुण्डरीकम् इति [एद्. अथाप्रींग्निगमो, बुत् सेए ড়त्यल् प्. ४४] (१,१.३९व्) प्राण एष स पुरि शेते संपुरि शेत इति (१,१.३९w) पुरिशयं सन्तं प्राणं पुरुष इत्य् आचक्षते परोक्षेण (१,१.३९x) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,१.३९य्) स यत् पूर्वम् आचामति पुरस्ताद्धोमांस् तेनास्मिन्न् अवरुन्द्धे (१,१.३९श्) स यद् द्वितीयम् आचामत्य् आज्यभागौ तेनास्मिन्न् अवरुन्द्धे (१,१.३९अअ) स यत् तृतीयम् आचामति संस्थितहोमांस् तेनास्मिन्न् अवरुन्द्धे (१,१.३९ब्ब्) स यद् द्विः परिशुम्भति तत् समित्संबर्हिः [एद्. संमित्, च्f. ড়त्यल् प्. ४५] (१,१.३९च्च्) स यत् सर्वाणि खानि सर्वं देहम् आप्याययति यच् चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे (१,१.३९द्द्) स यद् ओंपूर्वान् मन्त्रान् प्रयुङ्क्त आ सर्वमेधाद् एते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्य् अर्धे च न प्रमीयते य एवं वेद (१,१.३९एए) तद् अप्य् एतद् ऋचोक्तम् आपो भृग्वङ्गिरो रूपम् आपो भृग्वङ्गिरोमयं सर्वम् आपोमयं भूतं सर्वं भृग्वङ्गिरोमयम् अन्तरैते त्रयो वेदा भृगून् अङ्गिरसो ऽनुगाः ॥ (१,१.३९ff) अपां पुष्पं मूर्तिर् आकाशं पवित्रम् उत्तमम् इति (१,१.३९ग्ग्) आचम्याभ्युक्ष्यात्मानम् अनुमन्त्रयत <इन्द्र जीव [ড়्ष् २०.४३.१, श्ष् १९.७०.१]>इति ब्राह्मणं ॥ ३९ ॥

(१,१.३९चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥

(१,२.१अ) ओं <ब्रह्मचारीष्णंश् चरति रोदसी उभे [श्ष् ११.३.१अ, ড়्ष् १६.१५३.१अ]> इत्य् आचार्यम् आह (१,२.१ब्) <तस्मिन् देवाः संमनसो भवन्ति [श्ष् ११.३.१, ড়्ष् १६.१५३.१ब् (?)]>इति वायुम् आह (१,२.१च्) <स सद्य एति पूर्वस्माद् उत्तरं समुद्रम् [श्ष् ११.३.६, ড়्ष् १६.१५३.६]> इत्य् आदित्यम् आह (१,२.१द्) दीक्षितो दीर्घश्मश्रुः (१,२.१ए) एष दीक्षित एष दीर्घश्मश्रुर् एष एवाचार्यस्थाने तिष्ठन्न् आचार्य इति स्तूयते (१,२.१f) वैद्युतस्थाने तिष्ठन् वायुर् इति स्तूयते द्यौस्थाने तिष्ठन्न् आदित्य इति स्तूयते (१,२.१ग्) तद् अप्य् एतद् ऋचोक्तं <ब्रह्मचारीष्णन् [श्ष् ११.३.१, ড়्ष् १६.१५३.१]>इति ब्राह्मणम् ॥ १ ॥

(१,२.२अ) जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्य् अभिजायते ब्रह्मवर्चसं च यशश् च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यम् एव गन्धं सप्तमम् (१,२.२ब्) तानि ह वा अस्यैतानि ब्रह्मचर्यम् उपेत्योपक्रामन्ति (१,२.२च्) मृगान् अस्य ब्रह्मवर्चसं गच्छति (१,२.२द्) आचार्यं यशः (१,२.२ए) अजगरं स्वप्नः (१,२.२f) वराहं क्रोधः (१,२.२ग्) अपः श्लाघा (१,२.२ह्) कुमारीं रूपम् (१,२.२इ) ओषधिवनस्पतीन् पुण्यो गन्धः (१,२.२ज्) स यन् मृगाजिनानि वस्ते तेन तद् ब्रह्मवर्चसम् अवरुन्द्धे यद् अस्य मृगेषु भवति (१,२.२क्) स ह स्नातो ब्रह्मवर्चसी भवति (१,२.२ल्) स यद् अहरहर् आचार्याय कर्म करोति तेन तद् यशो ऽवरुन्द्धे यद् अस्याचार्ये भवति (१,२.२म्) स ह स्नातो यशस्वी भवति (१,२.२न्) स यत् सुषुप्सुर् निद्रां निनयति तेन तं स्वप्नम् अवरुन्द्धे यो ऽस्याजगरे भवति (१,२.२ओ) तं ह स्नातं स्वपन्तम् आहुः स्वपितु मैनं बोबुधथेति (१,२.२प्) स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं क्रोधम् अवरुन्द्धे यो ऽस्य वराहे भवति (१,२.२ॠ) तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते (१,२.२र्) अथाद्भिः श्लाघमानो न स्नायात् (१,२.२स्) तेन तां श्लाघाम् अवरुन्द्धे यास्याप्सु भवति (१,२.२त्) स ह स्नातः श्लाघीयो ऽन्येभ्यः श्लाघ्यते (१,२.२उ) अथैतद् ब्रह्मचारिणो रूपं यत् कुमार्यास् (१,२.२व्) तां नग्नां नोदीक्षेत (१,२.२w) इति वेति वा मुखं विपरिधापयेत् (१,२.२x) तेन तद् रूपम् अवरुन्द्धे यद् अस्य कुमार्यां भवति (१,२.२य्) तं ह स्नातं कुमारीम् इव निरीक्षन्ते (१,२.२श्) अथैतद् ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत् (१,२.२अअ) तेन तं पुण्यं गन्धम् अवरुन्द्धे यो ऽस्यौषधिवनस्वपतिषु भवति (१,२.२ब्ब्) स ह स्नातः पुण्यगन्धिर् भवति ॥ २ ॥

(१,२.३अ) स वा एष उपयंश् चतुर्धोपैत्य् अग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन (१,२.३ब्) स यद् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत् तेन तं पादम् अवरुन्द्धे यो ऽस्याग्नौ भवति (१,२.३च्) स यद् अहरहर् आचार्याय कर्म करोति तेन तं पादम् अवरुन्द्धे यो ऽस्याचार्ये भवति (१,२.३द्) स यद् अहरहर् ग्रामं प्रविश्य भिक्षाम् एव परीप्सति न मैथुनं तेन तं पादम् अवरुन्द्धे यो ऽस्य ग्रामे भवति (१,२.३ए) स यत् क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात् पापीयान् इव मन्यमानस् तेन तं पादम् अवरुन्द्धे यो ऽस्य मृत्यौ भवति ॥ ३ ॥

(१,२.४अ) पञ्च ह वा एते ब्रह्मचारिण्य् अग्नयो धीयन्ते (१,२.४ब्) द्वौ पृथग्घस्तयोर् मुखे हृदय उपस्थ एव पञ्चमः (१,२.४च्) स यद् दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकम् अवरुन्द्धे (१,२.४द्) यत् सव्येन तेन प्रव्राजिनाम् (१,२.४ए) यन् मुखेन तेनाग्निप्रस्कन्दिनाम् (१,२.४f) यद् धृदयेन तेन शूराणाम् (१,२.४ग्) यद् उपस्थेन तेन गृहमेधिनाम् (१,२.४ह्) तैश् चेत् स्त्रियं पराहरत्य् अनग्निर् इव शिष्यते (१,२.४इ) स यद् अहरहर् आचार्याय कुले ऽनुतिष्ठते सो ऽनुष्ठाय ब्रूयाद् धर्म गुप्तो मा गोपायेति (१,२.४ज्) धर्मो हैनं गुप्तो गोपायति (१,२.४क्) तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति (१,२.४ल्) धाय्यैव प्रतिधीयते (१,२.४म्) स्वर्गे लोके पितॄन् निदधाति (१,२.४न्) तान्तवं न वसीत (१,२.४ओ) यस् तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म (१,२.४प्) तस्मात् तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रम् इति (१,२.४ॠ) नोपर्य् आसीत (१,२.४र्) यद् उपर्य् आस्ते प्राणम् एव तदात्मनो ऽधरं कुरुते यद् वातो वहति (१,२.४स्) अध एवासीताधः शयीताधस् तिष्ठेद् अधो व्रजेत् (१,२.४त्) एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति (१,२.४उ) तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनम् आहुर् उपनयेतैनम् इति (१,२.४व्) आ समिद्धारात् स्वर् एष्यन्तो ऽन्नम् अद्यात् (१,२.४w) अथाह जघनम् आहुः स्नापयेतैनम् इतिय् आ समिद्धारात् (१,२.४x) न ह्य् एतानि व्रतानि भवन्ति (१,२.४य्) तं चेच् छयानम् आचार्यो ऽभिवदेत् स प्रतिसंहाय प्रतिशृणुयात् (१,२.४श्) तं चेच् छयानम् उत्थाय तं चेद् उत्थितम् अभिप्रक्रम्य तं चेद् अभिप्रक्रान्तम् अभिपलायमानम् (१,२.४अअ) एवं ह स्म वै तत् पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति (१,२.४ब्ब्) तेषां ह स्म वैषा पुण्या कीर्तिर् गच्छत्य् आ ह वा अयं सो ऽद्य गमिष्यतीति ॥ ४ ॥

(१,२.५अ) जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन् हंसाभ्याम् असिष्यन्न् उपावतस्थ इति (१,२.५ब्) ताव् ऊचतुर् जनमेजयं पारीक्षितम् अभ्याजगाम (१,२.५च्) स होवाच (१,२.५द्) नमो वां भगवन्तौ कौ नु भगवन्ताव् इति (१,२.५ए) ताव् ऊचतुर् दक्षिणाग्निश् चाहवनीयश् चेति (१,२.५f) स होवाच नमो वां भगवन्तौ तद् आकीयताम् इति (१,२.५ग्) इहोपारामम् इति (१,२.५ह्) अपि किल देवा न रमन्ते न हि देवा न रमन्तए (१,२.५इ) अपि चैकोपारामाद् देवा आरामम् उपसंक्रामन्तीति (१,२.५ज्) स होवाच नमो वां भगवन्तौ किं पुण्यम् इति (१,२.५क्) ब्रह्मचर्यम् इति (१,२.५ल्) किं लौक्यम् इति (१,२.५म्) ब्रह्मचर्यम् एवेति (१,२.५न्) तत् को वेद इति (१,२.५ओ) दन्तावलो धौम्रः (१,२.५प्) अथ खलु दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयम् अभ्याजगाम (१,२.५ॠ) तस्मा उत्थाय स्वयम् एव विष्टरं निदधौ (१,२.५र्) तम् उपसंगृह्य पप्रच्छाधीहि भो किं पुण्यम् इति (१,२.५स्) ब्रह्मचर्यम् इति (१,२.५त्) किं लौक्यम् इति (१,२.५उ) ब्रह्मचर्यम् एवेति (१,२.५व्) तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद् वर्षं सर्ववेदब्रह्मचर्यम् (१,२.५w) तच् चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्य् अवरार्धम् (१,२.५x) अपि स्नायंश् चरेद् यथाशक्त्य् अपरम् (१,२.५य्) तस्मा उहस्यृषभौ सहस्रं ददौ (१,२.५श्) अप्य् अपकीर्तितम् आचार्यो ब्रह्मचारीत्य् एक आहुर् आकाशम् अधिदैवतम् (१,२.५अअ) अथाध्यात्मं ब्राह्मणो व्रतवांश् चरणवान् ब्रह्मचारी ॥ ५ ॥

(१,२.६अ) ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत् (१,२.६ब्) ब्रह्मचारिणम् एव न संप्रददौ (१,२.६च्) स होवाचाश्याम् अस्मिन्न् इति (१,२.६द्) किम् इति (१,२.६ए) यां रात्रीं समिधम् अनाहृत्य वसेत् ताम् आयुषो ऽवरुन्धीयेति (१,२.६f) तस्माद् ब्रह्मचार्य् अहरहः समिध आहृत्य सायंप्रातर् अग्निं परिचरेत् (१,२.६ग्) नोपर्य् उपसादयेद् अथ प्रतिष्ठापयेत् (१,२.६ह्) यद् उपर्य् उपसादयेज् जीमूतवर्षी तद् अहः पर्जन्यो भवति (१,२.६इ) ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति (१,२.६ज्) ब्रूतास्मै भिक्षा इति गृहपतिर् ब्रूत बहुचारी गृहपत्न्या इति (१,२.६क्) किम् अस्या वृञ्जीताददत्या इति (१,२.६ल्) इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति (१,२.६म्) तस्माद् ब्रह्मचारिणे ऽहरहर् भिक्षां दद्याद् गृहिणी मा मायम् इष्टापूर्तसुकृतद्रविणम् अवरुन्ध्याद् इति (१,२.६न्) सप्तमीं नातिनयेत् सप्तमीम् अतिनयन् न ब्रह्मचारी भवति (१,२.६ओ) समिद्भैक्षे सप्तरात्रम् अचरितवान् ब्रह्मचारी पुनरुपनेयो भवति ॥ ६ ॥

(१,२.७अ) नोपरिशायी स्यान् न गायनो न नर्तनो न सरणो न निष्ठीवेत् (१,२.७ब्) यद् उपरिशायी भवत्य् अभीक्ष्णं निवासा जायन्ते (१,२.७च्) यद् गायनो भवत्य् अभीक्ष्णश आक्रन्दान् धावन्ते (१,२.७द्) यन् नर्तनो भवत्य् अभीक्ष्णशः प्रेतान् निर्हरन्ते (१,२.७ए) यत् सरणो भवत्य् अभीक्ष्णशः प्रजाः संविशन्ते (१,२.७f) यन् निष्ठीवति मध्य एव तदात्मनो निष्ठीवति (१,२.७ग्) स चेन् निष्ठीवेद् <दिवो नु माम् [श्ष् ६.१२४.१, ড়्ष् १९.४०.४, Vऐत्ष् १२.७]> <यद् अत्रापि मधोर् अहं [ড়्ष् २०.३८.६, Vऐत्ष् १२.८]> <यद् अत्रापि रसस्य मे [ড়्ष् २०.२७.८, Vऐत्ष् १२.९]>इत्य् आत्मानम् अनुमन्त्रयते (१,२.७ह्) <यद् अत्रापि मधोर् अहं निरष्ठविषम् अस्मृतम् अग्निश् च तत् सविता च पुनर् मे जठरे धत्तां [ড়्ष् २०.३८.६, Vऐत्ष् १२.८]> ॥ <यद् अत्रापि रसस्य मे परापपातास्मृतं तद् इहोपह्वयामहे तन् म आप्यायतां पुनः [ড়्ष् २०.२७.८]>इति (१,२.७इ) न श्मशानम् आतिष्ठेत् (१,२.७ज्) स चेद् अभितिष्ठेद् उदकं हस्ते कृत्वा <यदीद् अमृतुकाम्येत्य् [ড়्ष् २०.५४.९]> अभिमन्त्र्य जपन्त् सम्प्रोक्ष्य परिक्रामेत् (१,२.७क्) समयायोपरिव्रजेद् (१,२.७ल्) <यदीद् अमृतुकाम्याघं रिप्रम् उपेयिम । अन्धः श्लोण इव हीयतां मा नो ऽन्वागाद् अघं यतः [ড়्ष् २०.५४.९]>इति (१,२.७म्) अथ हैतद् देवानां परिषूतं यद् ब्रह्मचारी (१,२.७न्) तद् अप्य् एतद् ऋचोक्तं देवानाम् एतत् परिषूतम् अनभ्यारूढं चरति रोचमानं तस्मिन् सर्वे पशवस् तत्र यज्ञास् तस्मिन्न् अन्नं सह देवताभिर् इति ब्राह्मणम् ॥ ७ ॥

(१,२.८अ) प्राणापानौ जनयन्न् इति शङ्खस्य मुखे महर्षेर् वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाव् इहोत्सौ प्रादुर् भवेयाताम् इति (१,२.८ब्) तथा तच् छश्वद् अनुवर्तते (१,२.८च्) अथ खलु विपाण् मध्ये वसिष्ठशिला नाम प्रथम आश्रमः (१,२.८द्) द्वितीयः कृष्णशिलास् (१,२.८ए) तस्मिन् वसिष्ठः समतपत् (१,२.८f) विश्वामित्रजमदग्नी जामदग्ने तपतः (१,२.८ग्) गौतमभरद्वाजौ सिंहौ प्रभवे तपतः (१,२.८ह्) गुंगुर् गुंगुवासे तपति (१,२.८इ) ऋषिर् ऋषिद्रोणे ऽभ्यतपत् (१,२.८ज्) अगस्त्यो ऽगस्त्यतीर्थे तपति (१,२.८क्) दिव्य् अत्रिर् ह तपति (१,२.८ल्) स्वयम्भूः कश्यपः कश्यपतुङ्गे ऽभ्यतपत् (१,२.८म्) उलवृकर्क्षुतरक्षुः (१,२.८न्) श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात् सरणवाटात् सिद्धिर् भवति (१,२.८ओ) ब्राह्म्यं वर्षसहस्रम् ऋषिवने ब्रह्मचार्येकपादेनातिष्ठति (१,२.८प्) द्वितीयं वर्षसहस्रं मूर्धन्य् एवामृतस्य धाराम् आधारयत् (१,२.८ॠ) ब्राह्माण्यष्टाचत्वारिंशद् वर्षसहस्राणि सलिलस्य पृष्ठे शिवो ऽभ्यतपत् (१,२.८र्) तस्मात् तप्तात् तपसो भूय एवाभ्यतपत् (१,२.८स्) तद् अप्य् एता ऋचो ऽभिवदन्ति प्राणापानौ जनयन्न् इति ब्राह्मणम् ॥ ८ ॥

(१,२.९अ) एकपाद् द्विपद इति (१,२.९ब्) वायुर् एकपात् (१,२.९च्) तस्याकाशं पादः (१,२.९द्) चन्द्रमा द्विपात् (१,२.९ए) तस्य पूर्वपक्षापरपक्षौ पादौ (१,२.९f) आदित्यस् त्रिपात् (१,२.९ग्) तस्येमे लोकाः पादाः (१,२.९ह्) अग्निः षट्पादस् (१,२.९इ) तस्य पृथिव्य् अन्तरिक्षं द्यौर् आप ओषधिवनस्पतय इमानि भूतानि पादास् (१,२.९ज्) तेषां सर्वेषां वेदा गतिर् आत्मा प्रतिष्ठिताश् चतस्रो ब्रह्मणः शाखाः (१,२.९क्) अथो आहुः षड् इति मूर्तिर् आकाशश् चेति [एद्. अहुः] (१,२.९क्) ऋचा मूर्तिः (१,२.९म्) याजुषी गतिः (१,२.९न्) साममयं तेजः (१,२.९ओ) भृग्वङ्गिरसा माया (१,२.९प्) एतद् ब्रह्मैव यज्ञश् चतुष्पाद् द्विः संस्थित इति (१,२.९ॠ) तस्य भृग्वङ्गिरसः संस्थे (१,२.९र्) अथो आहुर् एकसंस्थित इति (१,२.९स्) यद् धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति (१,२.९त्) एतस्यां ह्य् अग्निश् चरति (१,२.९उ) तद् अप्य् एतद् ऋचोक्तम् <अग्निवासाः पृथिव्य् असितज्ञूः [श्ष् १२.१.२१, ড়्ष् १७.३.२]>इति (१,२.९व्) यद् अध्वर्युर् यजुषा करोत्य् अन्तरिक्षं तेनाप्याययति (१,२.९w) तस्मिन् वायुर् न निविशते कतमच् च नाहर् इति (१,२.९x) तद् अप्य् एतद् ऋचोक्तम् <अन्तरिक्षे पथिभिर् ह्रीयमाणो न नि विशते कतमच् च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज् जातः कुत आ बभूव [ড়्ष् १.१०७.४]>इति (१,२.९य्) यद् उद्गाता साम्ना करोति दिवं तेनाप्याययति (१,२.९श्) तत्र ह्य् आदित्यः शुक्रश् चरति (१,२.९अअ) तद् अप्य् एतद् ऋचोक्तम् <उच्चा पतन्तम् अरुणं सुपर्णम् [श्ष् १३.२.३६, ড়्ष् १८.२४.३]> इति (१,२.९ब्ब्) यद् ब्रह्मर्चां काण्डैः करोत्य् अपस् तेनाप्याययति (१,२.९च्च्) चन्द्रमा ह्य् अप्सु चरति (१,२.९द्द्) तद् अप्य् एतद् ऋचोक्तं चन्द्रमा अप्स्व् अन्तर् इति तासाम् ओषधिवनस्पतयः काण्डानि (१,२.९एए) ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर् यज्ञो वर्तते (१,२.९ff) अद्भिः कर्णाणि प्रवर्तन्ते (१,२.९ग्ग्) अद्भिः सोमो ऽभिषूयते (१,२.९ह्ह्) तद् यद् ब्रह्माणां कर्णाणि कर्मण्य् आमन्त्रयत्य् अपस् तेनानुजानाति (१,२.९इइ) एषो ह्य् अस्य भागस् (१,२.९ज्ज्) तद् यथा भोक्ष्यमाणः (१,२.९क्क्) अप एव प्रथमम् आचामयेद् अप उपरिष्टाद् एवं यज्ञो ऽद्भिर् एव प्रवर्तते (१,२.९ल्ल्) अप्सु संस्थाप्यते तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर् यज्ञो वर्तते (१,२.९म्म्) अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर् यज्ञं परिगृह्णाति (१,२.९न्न्) अन्तरा हि भृग्वङ्गिरसो वेदान् आदुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते (१,२.९ओओ) सोमात्मको ह्य् अयं वेद (१,२.९प्प्) तद् अप्य् एतद् ऋचोक्तं सोमं मन्यते पपिवान् इति (१,२.९ॠॠ) तद् यथेमां पृथिवीम् उदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति (१,२.९र्र्) एवं ब्रह्मा भृग्वङ्गिरोभिर् व्याहृतिभिर् यज्ञस्य विरिष्टं शमयति (१,२.९स्स्) अग्निर् आदित्याय शमयति (१,२.९त्त्) एते ऽङ्गिरसः (१,२.९उउ) एत इदं सर्वं समाप्नुवन्ति (१,२.९व्व्) वायुर् आपश् चन्द्रमा इत्य् एते भृगवः (१,२.९ww) एत इदं सर्वं समाप्याययन्ति (१,२.९xx) एकम् एव संस्थं भवतीति ब्राह्मणम् ॥ ९ ॥

(१,२.१०अ) विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसको ऽनूचान आस (१,२.१०ब्) स ह स्वेनातिमानेन मानुषं वित्तं नेयाय (१,२.१०च्) तं मातोवाच (१,२.१०द्) त एवैतद् अन्नम् अवोचंस् त इम एषु कुरुपञ्चालेष्व् अङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्व् अन्नम् अदन्तीति (१,२.१०ए) अथ वयं तवैवातिमानेनानाद्याः स्मः (१,२.१०f) वत्स वाहनम् अन्विच्छेति (१,२.१०ग्) स मान्धातुर् यौवनाश्वस्य सार्वभौमस्य राज्ञः सोमं प्रसूतम् आजगाम (१,२.१०ह्) स सदो ऽनुप्रविश्यर्त्विजश् च यजमानं चामन्त्रयाम् आस (१,२.१०इ) तद् याः प्राच्यो नद्यो वहन्ति याश् च दक्षिणाच्यो याश् च प्रतीच्यो याश् चोदीच्यस् ताः सर्वाः पृथङ्नामधेया इत्य् आचक्षते (१,२.१०ज्) तासां समुद्रम् अभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्य् आचक्षते (१,२.१०क्) एवम् इमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास् (१,२.१०ल्) तेषां यज्ञम् अभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्य् एवाचक्षते ॥ १० ॥

(१,२.११अ) भूमेर् ह वा एतद् विच्छिन्नं देवयजनं यद् अप्राक्प्रवणं यद् अनुदक्प्रवणं यत्कृत्रिमं यत् समविषमम् (१,२.११ब्) इदं ह त्व् एव देवयजनं यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद् ब्रह्मा ब्रह्मत्वं करोतीति (१,२.११च्) वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति (१,२.११द्) तान् ह पप्रच्छ किं विद्वान् होता हौत्रं करोति किं विद्वान् अध्वर्युर् आध्वर्यवं करोति किं विद्वान् उद्गातौद्गात्रं करोति किं विद्वान् ब्रह्मा ब्रह्मत्वं करोतीति (१,२.११ए) वोचे छन्दस् तन् न विन्दामो येनोत्तरम् एमहीति (१,२.११f) ते ब्रूमो वाग् एव होता हौत्रं करोति (१,२.११ग्) वाचो हि स्तोमाश् च वषट्काराश् चाभिसम्पद्यन्ते (१,२.११ह्) ते ब्रूमो वाग् एव होता वाग् ब्रह्म वाग् देव इति (१,२.११इ) प्राणापानाभ्याम् एवाध्वर्युर् आध्वर्यवं करोति (१,२.११ज्) प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास् (१,२.११क्) ते ब्रूमः प्राणापानाव् एवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति (१,२.११ल्) चक्षुषैवोद्गातौद्गात्रं करोति (१,२.११म्) चक्षुषा हीमानि भूतानि पश्यन्ति (१,२.११न्) अथो चक्षुर् एवोद्गाता चक्षुर् ब्रह्म चक्षुर् देव इति (१,२.११ओ) मनसैव ब्रह्मा ब्रह्मत्वं करोति (१,२.११प्) मनसा हि तिर्यक् च दिश ऊर्ध्वं यच् च किं च मनसैव करोति तद् ब्रह्म (१,२.११ॠ) ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति ॥ ११ ॥

(१,२.१२अ) तद् यथा ह वा इदं यजमानश् च याजयितारश् च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौर् इति ब्रूयुस् तद् अन्यो नानुजानात्य् एताम् एवं नानुजानाति यद् एतद् ब्रूयात् (१,२.१२ब्) अथ नु कथम् इति (१,२.१२च्) होतेत्य् एव होतारं ब्रूयाद् वाग् इति वाचं ब्रह्मेति ब्रह्म देव इति देवम् अध्वर्युर् इत्य् एवाध्वर्युं ब्रूयात् प्राणापानाव् इति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवम् उद्गातेत्य् एवोद्गातारं ब्रूयाच् चक्षुर् इति चक्षुर् ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्य् एव ब्रह्माणं ब्रूयान् मन इति मनो ब्रह्मेति ब्रह्म देव इति देवम् ॥ १२ ॥

(१,२.१३अ) नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति (१,२.१३अ) ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति (१,२.१३अ) किमर्थम् इति (१,२.१३अ) यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति (१,२.१३अ) तथेति (१,२.१३अ) तेभ्य एतान् प्रश्नान् व्याचचष्टे (१,२.१३अ) तद् येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद् ब्रह्म (१,२.१३अ) तद् यो वेद स ब्राह्मणो ऽधीयानो ऽधीत्याचक्षत इति ब्राह्मणम् ॥ १३ ॥

(१,२.१४अ) अथातो देवयजनानि (१,२.१४ब्) आत्मा देवयजनम् (१,२.१४च्) श्रद्धा देवयजनम् (१,२.१४द्) ऋत्विजो देवयजनम् (१,२.१४ए) भौमं देवयजनम् (१,२.१४f) तद् वा एतद् आत्मा देवयजनं यद् उपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरम् अधिवसति (१,२.१४ग्) एष यज्ञः (१,२.१४ह्) एष यजतः (१,२.१४इ) एतं यजन्तः (१,२.१४ज्) एतद् देवयजनम् (१,२.१४क्) अथैतच् छ्रद्धा देवयजनम् (१,२.१४ल्) यदैव कदा चिद् आदध्यात् (१,२.१४म्) श्रद्धा त्व् एवैनं नातीयात् (१,२.१४न्) तद् देवयजनम् (१,२.१४ओ) अथैतद् ऋत्विजो देवयजनम् (१,२.१४प्) यत्र क्व चिद् ब्राह्मणो विद्यावान् मन्त्रेण करोति तद् देवयजनम् (१,२.१४ॠ) अथेतद् भौमं देवयजनम् (१,२.१४र्) यत्रापस् तिष्ठन्ति यत्र स्यन्दन्ति प्र तद् वहन्त्य् उद्वहन्ति तद् देवयजनम् (१,२.१४स्) यत् समं समूलम् अविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णम् इव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात् स्यात् (१,२.१४त्) न देवयजनमात्रं पुरस्तात् पर्यवशिष्येत् (१,२.१४उ) नोत्तरतो ऽग्नेः पर्युपसीदेरन्न् इति ब्राह्मणम् ॥ १४ ॥

(१,२.१५अ) अदितिर् वै प्रजाकामौदनम् अपचत् (१,२.१५ब्) तत उच्छिष्टम् आश्नात् (१,२.१५च्) सा गर्भम् अधत्त (१,२.१५द्) तत आदित्या अजायन्त (१,२.१५ए) य एष ओदनः पच्यत आरम्भणम् एवैतत् क्रियत आक्रमणम् एव (१,२.१५f) प्रादेशमात्रीः समिधो भवन्ति (१,२.१५ग्) एतावान् ह्य् आत्मा प्रजापतिना संमितः (१,२.१५ह्) अग्नेर् वै या यज्ञिया तनूर् अश्वत्थे तया समगच्छत (१,२.१५इ) एषास्य घृत्या तनूर् यद् घृतम् (१,२.१५ज्) यद् घृतेन समिधो ऽनक्ति ताभ्याम् एवैनं तत् तनूभ्यां समर्धयति (१,२.१५क्) यन् निर्मार्गस्यादधात्य् अवगूर्त्या वै वीर्यं क्रियते (१,२.१५ल्) यन् निर्मार्गस्यादधात्य् अवगूर्त्या एव (१,२.१५म्) संवत्सरो वै प्रजननम् (१,२.१५न्) अग्निः प्रजननम् (१,२.१५ओ) एतत् प्रजननम् (१,२.१५प्) यत् संवत्सर ऋचाग्नौ समिधम् आदधाति प्रजननाद् एवैनं तत् प्रजनयिता प्रजनयति (१,२.१५ॠ) अभक्तर्तुर् वै पुरुषः (१,२.१५र्) न हि तद् वेद यम् ऋतुम् अभिजायते (१,२.१५स्) यन् नक्षत्रं तद् आप्नोति (१,२.१५त्) य एष ओदनः पच्यते योनिर् एवैषा क्रियते (१,२.१५उ) यत् समिध आधीयन्ते रेतस् तद् धीयते (१,२.१५व्) संवत्सरे वै रेतो हितं प्रजायते (१,२.१५w) यः संवत्सरे पर्येते ऽग्निम् आधत्ते प्रजातम् एवैनम् आधत्ते (१,२.१५x) द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास् (१,२.१५य्) ता हि संवत्सरस्य प्रतिमा (१,२.१५श्) अथो तिसृष्व् अथो द्वयोर् अथो पूर्वेद्युर् आधेयास् त एवाग्निम् आदधानेन (१,२.१५अअ) आदित्या वा इत उत्तमा अमुं लोकम् आयन् (१,२.१५ब्ब्) ते पथिरक्षयस् त इयक्षमाणं प्रतिनुदन्तः (१,२.१५च्च्) उच्छेषणभाजा वा आदित्याः (१,२.१५द्द्) [यद् उच्छिष्टम्] (१,२.१५एए) यद् उच्छिष्टेन समिधो ऽनक्ति तेभ्य एव प्रावोचत् तेभ्य एव प्रोच्य स्वर्गं लोकं याति ॥ १५ ॥

(१,२.१६अ) प्रजापतिर् अथर्वा देवः स तपस् तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रम् इति (१,२.१६ब्) चत्वारो वा इमे लोकाः पृथिव्य् अन्तरिक्षं द्यौर् आप इति (१,२.१६च्) चत्वारो वा इमे देवा अग्निर् वायुर् आदित्यश् चन्द्रमाः (१,२.१६द्) चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति (१,२.१६ए) चतस्रो वा इमा होत्रा हौत्रम् आध्वर्यवम् औद्गात्रं ब्रह्मत्वम् इति (१,२.१६f) तद् अप्य् एतद् ऋचोक्तं <चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश [ড়्ष् ८.१३.३]>इति (१,२.१६ग्) चत्वारि शृङ्गेति वेदा वा एत उक्तास् (१,२.१६ह्) त्रयो अस्य पादा इति सवनान्य् एव (१,२.१६इ) द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्याव् एव (१,२.१६ज्) सप्त हस्तासो अस्येति छन्दांस्य् एव (१,२.१६क्) त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् (१,२.१६ल्) वृषभो रोरवीत्य् एष ह वै वृषभ एष तद् रोरवीति यद् यज्ञेषु शस्त्राणि शंसत्य् ऋग्भिर् यजुर्भिः सामभिर् ब्रह्मभिर् इति (१,२.१६म्) महो देवो मर्त्यां आविवेशेत्य् एष ह वै महान् देवो यद् यज्ञः (१,२.१६न्) एष मर्त्यां आविवेश (१,२.१६ओ) यो विद्यात् सप्त प्रवत इति प्राणान् आह (१,२.१६प्) सप्त विद्यात् परावत इत्य् अपानान् आह (१,२.१६ॠ) शिरो यज्ञस्य यो विद्याद् इत्य् एतद् वै यज्ञस्य शिरो यन् मन्त्रवान् ब्रह्मौदनः (१,२.१६र्) यो ह वा एतम् अमन्त्रवन्तं ब्रह्मौदनम् उपेयाद् अपशिरसा ह वा अस्य यज्ञम् उपेतो भवति (१,२.१६स्) तस्मान् मन्त्रवन्तम् एव ब्रह्मौदनम् उपेयान् नामन्त्रवन्तम् इति ब्राह्मणम् ॥ १६ ॥ [एद्. ब्राह्मनम्]

(१,२.१७अ) किम् उपज्ञ आत्रेयो भवतीति (१,२.१७ब्) आदित्यं हि तमो जग्राह (१,२.१७च्) तद् अत्रिर् अपनुनोद (१,२.१७द्) तद् अत्रिर् अन्वपश्यत् (१,२.१७ए) तद् अप्य् एतद् ऋचोक्तं <स्रुताद् यम् अत्रिर् दिवम् उन्निनाय [श्ष् १३.२.४च्, ড়्ष् १८.२०.८च्]> (१,२.१७f) <दिवि त्वात्रिर् अधारयत् सूर्या मासाय कर्तवे [श्ष् १३.२.१२अब्, ড়्ष् १८.२१.६अब्]>इति (१,२.१७ग्) तं होवाच वरं वृणीष्वेति (१,२.१७ह्) स होवाच दक्षिणीया मे प्रजा स्याद् इति (१,२.१७इ) तस्माद् आत्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणम् ॥ १७ ॥

(१,२.१८अ) प्रजापतिर् वेदान् उवाचाग्नीन् आदधीयेति (१,२.१८ब्) तान् वाग् अभ्युवाचाश्वो वै सम्भाराणाम् इति (१,२.१८च्) तं घोरात् क्रूरात् सलिलात् सरस उदानिन्युस् (१,२.१८द्) तान् वाग् अभ्युवाचाश्वः शम्येतेति (१,२.१८ए) तथेति (१,२.१८f) तम् ऋग्वेद एत्योवाचाहम् अश्वं शमेयम् इति (१,२.१८ग्) तस्मा अभिसृप्ताय महद् भयं ससृजे (१,२.१८ह्) स एतां प्राचीं दिशं भेजे (१,२.१८इ) स होवाचाशान्तो न्व् अयम् अश्व इति (१,२.१८ज्) तं यजुर्वेद एत्योवाचाहम् अश्वं शमेयम् इति (१,२.१८क्) तस्मा अभिसृप्ताय महद् भयं ससृजे (१,२.१८ल्) स एतां प्रतीचीं दिशं भेजे (१,२.१८म्) स होवाचाशान्तो न्व् अयम् अश्व इति (१,२.१८न्) तं सामवेद एत्योवाचाहम् अश्वं शमेयम् इति (१,२.१८ओ) केन नु त्वं शमयिष्यसीति (१,२.१८प्) रथन्तरं नाम मे सामाघोरं चाक्रूरं च (१,२.१८ॠ) तेनाश्व अभिष्टूयेतेति (१,२.१८र्) तस्मा अप्य् अभिसृप्ताय तद् एव महद् भयं ससृजे (१,२.१८स्) स एताम् उदीचीं दिशं भेजे (१,२.१८त्) स होवाचाशान्तो न्व् अयम् अश्व इति (१,२.१८उ) तान् वाग् अभ्युवाच शंयुमाथर्वणं गच्छतेति (१,२.१८व्) ते शंयुमाथर्वणम् आसीनं प्राप्योचुर् नमस् ते अस्तु भगवन्न् अश्वः शम्येतेति (१,२.१८w) तथेति (१,२.१८x) स खलु कबन्धस्याथर्वणस्य पुत्रम् आमन्त्रयाम् आस विचारिन्न् इति (१,२.१८य्) भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव (१,२.१८श्) अश्व शम्येतेति (१,२.१८अअ) तथेति (१,२.१८ब्ब्) स खलु शान्त्युदकं चकाराथर्वणीभिश् चाङ्गिरसीभिश् च चातनैर् मातृनामभिर् वास्तोष्पत्यैर् इति शमयति (१,२.१८च्च्) तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्यो ऽङ्गारा आशीर्यन्त (१,२.१८द्द्) सो ऽश्वस् तुष्टो नमस्कारं चकार (१,२.१८एए) नमः शंयुमाथर्वणाय यो मा यज्ञियम् अचीकॢपद् इति (१,२.१८ff) भविष्यन्ति ह वा अतो ऽन्ये ब्राह्मणा लघुसम्भारतमास् (१,२.१८ग्ग्) त आदित्यस्य पद आधास्यन्त्य् अनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा (१,२.१८ह्ह्) एतद् वा आदित्यस्य पदं यद् भूमिस् (१,२.१८इइ) तस्यैव पद आहितं भविष्यतीति (१,२.१८ज्ज्) सो ऽग्नौ प्रणीयमाणे ऽश्वे ऽन्वारब्धं ब्रह्मा यजमानं वाचयति <यद् अक्रन्दः प्रथमं जायमानः [ऋV १.१६३.१]>इति पञ्च (१,२.१८क्क्) तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत (१,२.१८ल्ल्) एष ह वै विद्वान्त् सर्वविद् ब्रह्मा यद् भृङ्गिरोविद् इति ब्राह्मणम् ॥ १८ ॥

(१,२.१९अ) देवाश् च ह वा असुराश् चास्पर्धन्त (१,२.१९ब्) ते देवा इन्द्रम् अब्रुवन्न् इमं नस् तावद् यज्ञं गोपाय यावद् असुरैः संयतामहा इति (१,२.१९च्) स वै नस् तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुम् इति (१,२.१९द्) स ऋग्वेदो भूत्वा पुरस्तात् परीत्योपातिष्ठत् (१,२.१९ए) तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति (१,२.१९f) स यजुर्वेदो भूत्वा पश्चात् परीत्योपातिष्ठत् (१,२.१९ग्) तं देवा अब्रुवन्न् अन्यत् तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति (१,२.१९ह्) स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत् (१,२.१९इ) तं देवा अब्रुवन्न् अन्यद् एव तद् रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुम् इति (१,२.१९ज्) स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् (१,२.१९क्) तं देवा अब्रुवन्न् एतत् तद् रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्य् एतेन शक्ष्यसि गोप्तुम् इति (१,२.१९ल्) तद् यद् इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् तद् ब्रह्माभवत् (१,२.१९म्) तद् ब्रह्मणो ब्रह्मत्वम् (१,२.१९न्) तद् वा एतद् अथर्वणो रूपं यद् उष्णीषी ब्रह्मा (१,२.१९ओ) तं दक्षिणतो विश्वे देवा उपासीदन् (१,२.१९प्) तं यद् दक्षिणतो विश्वे देवा उपासीदंस् तत् सदस्यो ऽभवत् (१,२.१९ॠ) तत् सदस्यस्य सदस्यत्वम् (१,२.१९र्) बलेर् ह वा एतद् बलम् उपजायते यत् सदस्ये (१,२.१९स्) आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति (१,२.१९त्) घोरा वा एषा दिग् दक्षिणा शान्ता इतरास् (१,२.१९उ) तद् यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनद् इत्य् एतां व्याहृतिं जपति (१,२.१९व्) आत्मानं जनयति नजित्यात्मानम् अपित्वे दधाति (१,२.१९w) तं देवा अब्रुवन् वरं वृणीष्वेति (१,२.१९x) वृणा इति (१,२.१९य्) स वरम् अवृणीत (१,२.१९श्) अस्याम् एव मां होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्, चोर्र्. ড়त्यल्] (१,२.१९अअ) तं तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन् (१,२.१९ब्ब्) तं यत् तस्याम् एव होत्रायाम् इन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् ब्राह्मणाच्छंस्य् अभवत् (१,२.१९च्च्) तद् ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम् (१,२.१९द्द्) सैषैन्द्री होत्रा यद् ब्राह्मणाच्छंसीया (१,२.१९एए) द्वितीयं वरं वृणीष्वेति (१,२.१९ff) वृणा इति (१,२.१९ग्ग्) स वरम् अवृणीत (१,२.१९ह्ह्) अस्याम् एव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस् तिस्थेयुर् इति [एद्. तिस्थेयुर्] (१,२.१९इइ) तं तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन् (१,२.१९ज्ज्) तं यत् तस्याम् एव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तत् पोताभवत् (१,२.१९क्क्) तत् पोतुः पोतृत्वम् (१,२.१९ल्ल्) सैषा वायव्या होत्रा यत् पोत्रीया (१,२.१९म्म्) तृतीयं वरं वृणीष्वेति (१,२.१९न्न्) वृणा इति (१,२.१९ओओ) स वरम् अवृणीत (१,२.१९प्प्) अस्याम् एव मां होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्त शंसन्तस् तिष्ठेयुर् इति [एद्. तिस्थेयुर्] (१,२.१९ॠॠ) तं तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठन् [एद्. ऽतिस्थंस्, चोर्र्. ড়त्यल्] (१,२.१९र्र्) तं यत् तस्याम् एव होत्रायाम् अग्निभूतम् इन्धानाः पुनन्त स्तुवन्तः शंसन्तो ऽतिष्ठंस् तद् आग्नीध्रो ऽभवत् [एद्. ऽतिस्थंस्] (१,२.१९स्स्) तद् आग्नीध्रस्याग्नीध्रत्वम् (१,२.१९त्त्) सैषाग्नेयी होत्रा यद् आग्नीध्रीयेति ब्राह्मणम् ॥ १९ ॥

(१,२.२०अ) ब्राह्मणो ह वा इमम् अग्निं वैश्वानरं बभार (१,२.२०ब्) सो ऽयम् अग्निर् वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल् लोकाञ् जनयते (१,२.२०च्) अथायम् ईक्षते ऽग्निर् जातवेदा ब्राह्मणद्वितीयो ह वा अयम् इदम् अग्निर् वैश्वानरो ज्वलति (१,२.२०द्) हन्ताहं यन् मयि तेज इद्रियं वीर्यं तद् दर्शयाम्य् उत वै मा बिभृयाद् इति (१,२.२०ए) स आत्मानम् आप्याय्यैतं पयो ऽधोक् (१,२.२०f) तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् (१,२.२०ग्) स द्वितीयम् आत्मानम् आप्याय्यैतं घृतम् अधोक् (१,२.२०ह्) तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् (१,२.२०इ) स तृतीयम् आत्मानम् आप्याय्यैतद् इदं विश्वं विकृतम् अन्नाद्यम् अधोक् (१,२.२०ज्) तम् इमं ब्राह्मणं दर्शयित्वात्मन्य् अजुहोत् (१,२.२०क्) स चतुर्थम् आत्मानम् आप्याय्यैतेन ब्राह्मणस्य जायां विराजम् अपश्यत् (१,२.२०ल्) ताम् अस्मै प्रायच्छत् (१,२.२०म्) सात्मा अपित्वम् अभवत् (१,२.२०न्) तत इमम् अग्निं वैश्वानरं परास्युर् ब्राह्मणो ऽग्निं जातवेदसम् अधत्त (१,२.२०ओ) सो ऽयम् अब्रवीद् अग्ने जातवेदो ऽभिनिधेहि मेहीति (१,२.२०प्) तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च (१,२.२०ॠ) सो ऽश्वो भवत् (१,२.२०र्) तस्माद् अश्वो वहेन रथं न भवति पृस्थेन सादिनम् (१,२.२०स्) स देवान् आगच्छत् (१,२.२०त्) स देवेभ्यो ऽन्वातिष्ठत् (१,२.२०उ) तस्माद् देवा अबिभयुस् (१,२.२०व्) तं ब्रह्मणे प्रायच्छत् (१,२.२०w) तम् एतयर्चाशमयत् ॥ २० ॥

(१,२.२१अ) <अग्निं त्वाहुर् वैश्वानरं सदनान् प्रदहन्व् अगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [ড়्ष् १.९५.३, सकल अल्सो अत् Vऐत्ष् ६.७]>इति (१,२.२१ब्) तम् एताभिः पञ्चभिर् ऋग्भिर् उपाकुरुते <यद् अक्रन्दः प्रथमं जायमानः [ऋV १.१६३.१]>इति [एद्. प्रतमं, चोर्रेच्तेद् प्. ३०२] (१,२.२१च्) सो ऽशाम्यत् (१,२.२१द्) तस्माद् अश्वः पशूनां जिघत्सुतमो भवति (१,२.२१ए) वैश्वानरो ह्य् एष (१,२.२१f) तस्माद् अग्निपदम् अश्वं ब्रह्मणे ददाति (१,२.२१ग्) ब्रह्मणे हि प्रत्तम् (१,२.२१ह्) तस्य रसम् अपीडयत् (१,२.२१इ) स रसो ऽभवत् (१,२.२१ज्) रसो ह वा एष (१,२.२१क्) तं वा एतं रसं सन्तं रथ इत्य् आचक्षते परोक्षेण (१,२.२१ल्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,२.२१म्) स देवान् आगच्छत् (१,२.२१न्) स देवेभ्यो ऽन्वातिष्ठत् (१,२.२१ओ) तस्माद् देवा अबिभयुस् (१,२.२१प्) तं ब्रह्मणे प्रायच्छत् (१,२.२१ॠ) तम् एतयर्चाज्याहुत्याभ्यजुहोत् (१,२.२१र्) <इन्द्रस्यौजो मरुताम् अनीकम् [श्ष् ६.१२५.३, च्f. ড়्ष् १५.११.७]> इति रथम् अभिहुत्य तम् एतयर्चातिष्ठद् <वनस्पते वीड्वङ्गो हि भूयाः [श्ष् ६.१२५.१, ড়्ष् १५.११.८]> इति (१,२.२१स्) तस्माद् आग्न्याधेयिकं रथं ब्रह्मणे ददाति (१,२.२१त्) ब्रह्मणे हि प्रत्तम् (१,२.२१उ) तस्य तक्षाणस् तनूं ज्येष्ठां दक्षिणां निरमिमत (१,२.२१व्) तां पञ्चस्व् अपश्यद् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे (१,२.२१w) तासां द्वे ब्रह्मणे प्रायच्छद् वाचं च ज्योतिश् च (१,२.२१x) वाग् वै धेनुर् ज्योतिर् हिरण्यम् (१,२.२१य्) तस्माद् आग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति (१,२.२१श्) ब्रह्मणे हि प्रत्ता (१,२.२१अअ) पशुषु शाम्यमानेषु चक्षुर् हापयन्ति (१,२.२१ब्ब्) चक्षुर् एव तद् आत्मनि धत्ते (१,२.२१च्च्) यद् वै चक्षुस् तद् धिरण्यम् (१,२.२१द्द्) तस्माद् आग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति (१,२.२१एए) ब्रह्मणे हि प्रत्तं (१,२.२१ff) तस्यात्मन्न् अधत्त (१,२.२१ग्ग्) तेन प्राज्वलयत् (१,२.२१ह्ह्) यन् नाधत्त तद् आग्लाभवत् (१,२.२१इइ) तद् आग्ला भूत्वा सा समुद्रं प्राविशत् [च्f. ড়्ष् १७.२८.१ fओर् थिस् अन्द् थे fओल्लोwइन्ग् सेन्तेन्चेस्] (१,२.२१ज्ज्) सा समुद्रम् अदहत् (१,२.२१क्क्) तस्मात् समुद्रो दुर्गिरवपि (१,२.२१ल्ल्) वैश्वानरेण हि दग्धः (१,२.२१म्म्) सा पृथिवीम् उदैत् (१,२.२१न्न्) सा पृथिवीं व्यदहत् (१,२.२१ओओ) सा देवान् आगच्छत् (१,२.२१प्प्) सा देवान् अहेडत् (१,२.२१ॠॠ) ते देवा ब्रह्माणम् उपाधावन् (१,२.२१र्र्) स नैवागायन् नानृत्यत् (१,२.२१स्स्) सैषाग्ला (१,२.२१त्त्) एषा कारुविदा नम (१,२.२१उउ) तं वा एतम् आग्लाहतं सन्तम् आग्लागृध इत्य् आचक्षते परोक्षेण (१,२.२१व्व्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः [एद्. -द्विषो] (१,२.२१ww) य एष ब्राह्मणो गायनो नर्तनो वा भवति तम् आग्लागृध इत्य् आचक्षते (१,२.२१xx) तस्माद् ब्राह्मणो नैव गायेन् न नृत्येन् माग्लागृधः स्यात् (१,२.२१य्य्) तस्माद् ब्राह्म्यं पूर्वं हविर् अपरं प्राजापत्यं (१,२.२१श्श्) प्राजापत्याद् ब्राह्म्यम् एवोत्तरम् इति ब्राह्मणम् ॥ २१ ॥

(१,२.२२अ) अथर्वाणश् च ह वा अङ्गिरसश् च भृगुचक्षुषी तद् ब्रह्माभिव्यपश्यन् (१,२.२२ब्) तदजानन्वयं वा इदं सर्वं यद् भृग्वङ्गिरस इति (१,२.२२च्) ते देवा ब्राह्म्यं हविर् यत् सांतपने ऽग्नाव् अजुहवुः (१,२.२२द्) एतद् वै ब्राह्म्यं हविर् यत् सांतपने ऽग्नौ हूयत (१,२.२२ए) एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणस् (१,२.२२f) तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास् (१,२.२२ग्) तेन सुन्वन्त्य् ऋषयो ऽन्तत स्त्रियः केवल आत्मन्य् अवारुन्धत बाह्या उभयेन सुन्वन्ति (१,२.२२ह्) यद् वै यज्ञे ब्राह्म्यं हविर् न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन् (१,२.२२इ) असौ यांल् लोकाञ् छृण्व् इति पिता ह्य् एष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर् यो ऽग्निहोत्रं जुहोतीति [एद्. याल्लोकाञ्, आहवणीयस्य] (१,२.२२ज्) देवाः प्रिये धामनि मदन्ति (१,२.२२क्) तेषाम् एषो ऽग्निः सांतपनः श्रेष्ठो भवति (१,२.२२ल्) एतस्य वाचि तृप्तायाम् अग्निस् तृप्यति (१,२.२२म्) प्राणे तृप्ते वायुस् तृप्यति (१,२.२२न्) चक्षुषि तृप्त आदित्यस् तृप्यति (१,२.२२ओ) मनसि तृप्ते चन्द्रमास् तृप्यति (१,२.२२प्) श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति (१,२.२२ॠ) स्नेहेषु तृप्तेष्व् आपस् तृप्यन्ति (१,२.२२र्) लोमेषु तृप्तेष्व् ओषधिवनस्पतयस् तृप्यन्ति (१,२.२२स्) शरीरे तृप्ते पृथिवी तृप्तति (१,२.२२त्) एवम् एषो ऽग्निः सांतपनः श्रेष्ठस् तृप्तः सर्वांस् तृप्तांस् तर्पयतीति ब्राह्मणम् ॥ २२ ॥

(१,२.२३अ) सांतपना इदं हविर् इति (१,२.२३ब्) एष ह वै सांतपनो ऽग्निर् यद् ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सांतपनः (१,२.२३च्) अथ यो ऽयमनग्निकः स कुम्भे लोष्टस् (१,२.२३द्) तद् यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्य् एवम् एवायं ब्राह्मणो ऽनग्निकस् तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान् न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति (१,२.२३ए) तद् अप्य् एतद् ऋचोक्तम् <अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् [श्ष् २०.१०१.१, ऋV १.१२.१]> इति ब्राह्मणम् ॥ २३ ॥

(१,२.२४अ) अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदान् उवाच कं वो होतारं वृणीय कम् अध्वर्युं कम् उद्गातारं कं ब्राह्मणम् इति (१,२.२४ब्) त ऊचुर् ऋग्विदम् एव होतारं वृणीष्.व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्राह्मणम् (१,२.२४च्) तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति (१,२.२४द्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (१,२.२४ए) तस्माद् ऋग्विदम् एव होतारं वृणीष्व स हि हौत्रं वेद (१,२.२४f) अग्निर् वै होता (१,२.२४ग्) पृथिवी वा ऋचाम् आयतनम् (१,२.२४ह्) अग्निर् देवता गायत्रं छन्दो भूर् इति शुक्रम् (१,२.२४इ) तस्मात् तम् एव होतारं वृणीष्वेत्य् एतस्य लोकस्य जितये (१,२.२४ज्) एतस्य लोकस्य विजितये (१,२.२४क्) एतस्य लोकस्य संजितये (१,२.२४ल्) एतस्य लोकस्यावरुद्धये (१,२.२४म्) एतस्य लोकस्य विवृद्धये (१,२.२४न्) एतस्य लोकस्य समृद्धये (१,२.२४ओ) एतस्य लोकस्योदात्तये (१,२.२४प्) एतस्य लोकस्य व्याप्तये (१,२.२४ॠ) एतस्य लोकस्य पर्याप्तये (१,२.२४र्) एतस्य लोकस्य समाप्तये (१,२.२४स्) अथ चेन् नैवंविदं होतारं वृणुते पुरस्ताद् एवैषां यज्ञो रिच्यते (१,२.२४त्) यजुर्विदम् एवाध्वर्युं वृणीष्व स ह्य् आध्वर्यवं वेद (१,२.२४उ) वायुर् वा अध्वर्युः (१,२.२४व्) अन्तरिक्षं वै यजुषाम् आयतनम् (१,२.२४w) वायुर् देवता त्रैष्टुभं छन्दो भुव इति शुक्रम् (१,२.२४x) तस्मात् तम् एवाध्वर्युं वृणीष्वेत्य् एतस्य लोकस्येत्य् एव (१,२.२४य्) अथ चेन् नैवंविदम् अध्वर्युं वृणुते पश्चाद् एवैषां यज्ञो रिच्यते (१,२.२४श्) सामविदम् एवोद्गातारं वृणीष्व (१,२.२४अअ) स ह्य् औद्गात्रं वेद (१,२.२४ब्ब्) आदित्यो वा उद्गाता (१,२.२४च्च्) द्यौर् वै साम्नाम् आयतनम् (१,२.२४द्द्) आदित्यो देवता जागतं छन्दः स्वर् इति शुक्रम् (१,२.२४एए) तस्मात् तम् एवोद्गातारं वृणीष्वेत्य् एतस्य लोकस्येत्य् एव (१,२.२४ff) अथ चेन् नैवंविदम् उद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते (१,२.२४ग्ग्) अथर्वाङ्गिरोविदम् एव ब्रह्माणं वृणीष्व (१,२.२४ह्ह्) स हि ब्रह्मत्वं वेद (१,२.२४इइ) चन्द्रमा वै ब्रह्मा [एद्. ब्रहापो] (१,२.२४ज्ज्) आपो वै भृगवङ्गिरसाम् आयतनम् (१,२.२४क्क्) चन्द्रमा देवता वैद्युतश् चोष्णिक्काकुभे छन्दसी ओम् इत्य् अथर्वणां शुक्रं जनद् इत्य् अङ्गिरसाम् (१,२.२४ल्ल्) तस्मात् तम् एव ब्रह्माणं वृणीष्वेत्य् एतस्य लोकस्य जितये (१,२.२४म्म्) एतस्य लोकस्य विजितये (१,२.२४न्न्) एतस्य लोकस्य संजितये (१,२.२४ओओ) एतस्य लोकस्यावरुद्धये (१,२.२४प्प्) एतस्य लोकस्य विवृद्धये (१,२.२४ॠॠ) एतस्य लोकस्य समृद्धये (१,२.२४र्र्) एतस्य लोकस्योदात्तये (१,२.२४स्स्) एतस्य लोकस्य व्याप्तये (१,२.२४त्त्) एतस्य लोकस्य पर्याप्तये (१,२.२४उउ) एतस्य लोकस्य समाप्तये (१,२.२४व्व्) अथ चेन् नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते ॥ २४ ॥

(१,२.२४चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः ॥

(१,३.१अ) ओं दक्षिणाप्रवणा भूमिर् दक्षिणत आपो वहन्ति (१,३.१ब्) तस्माद् यज्ञास् तद्भूमेर् उन्नततरम् इव भवति यत्र भृग्वङ्गिरसो विष्ठास् (१,३.१च्) तद् यथाप इमांल् लोकान् अभिवहन्त्य् एवम् एव भृग्वङ्गिरसः सर्वान् देवान् अभिवहन्ति (१,३.१द्) एवम् एवैषा व्याहृतिः सर्वान् वेदान् अभिवहत्य् ओम् इति हर्चाम् ओम् इति यजुषाम् ओम् इति साम्नाम् ओम् इति सर्वस्याहाभिवादस् (१,३.१ए) तं ह स्मैतद् उत्तरं यज्ञे विद्वांसः कुर्वन्ति (१,३.१f) देवा ब्रह्माण आगच्छतागच्छतेति (१,३.१ग्) एते वै देवा ब्रह्माणो यद् भृग्वङ्गिरसस् (१,३.१ह्) तान् एवैतद् गृणानास् तान् वृणाना ह्वयन्तो मन्यन्ते (१,३.१इ) नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन् (१,३.१ज्) यज्ञस्य तेजसा तेज आप्नोत्य् ऊर्जयोर्जां यशसा यशः (१,३.१क्) नान्यो ऽभृग्वङ्गिरोविदो वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति (१,३.१ल्) तद् यथा पूर्वं वत्सो ऽधीत्य गां धयेद् एवं ब्रह्मा भृग्वङ्गिरोविद् वृतो यज्ञम् आगच्छेन् नेद् यज्ञं परिमुष्णीयाद् इति (१,३.१म्) तद् यथा गौर् वाश्वो वाश्वतरो वैकपाद् द्विपात् त्रिपाद् इति स्यात् किम् अभिवहेत् किम् अभ्यश्नुयाद् इति (१,३.१न्) तस्माद् ऋग्विदम् एव होतारं वृणीष्व यजुर्विदम् अध्वर्युं सामविदम् उद्गातारम् अथर्वाङ्गिरोविदं ब्रह्माणम् (१,३.१ओ) तथा हास्य यज्ञश् चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद् यज्ञः प्रतितिष्ठति (१,३.१प्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद यश् चैवम् ऋत्विजाम् आर्त्विज्यं वेद यश् च यज्ञे यजनीयं वेदेति ब्राह्मणम् ॥ १ ॥

(१,३.२अ) प्रजापतिर् यज्ञम् अतनुत (१,३.२ब्) स ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम् (१,३.२च्) तं वा एतं महावाद्यं कुरुते यद् ऋचैव हौत्रम् अकरोद् यजुषाध्वर्यवं साम्नौद्गात्रम् अथर्वाङ्गिरोभिर् ब्रह्मत्वम् (१,३.२द्) स वा एष त्रिभिर् वेदैर् यज्ञस्यान्यतरः पक्षः संस्क्रियते (१,३.२ए) मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति (१,३.२f) अयम् उ वै यः पवते स यज्ञस् (१,३.२ग्) तस्य मनश् च वाक् च वर्तनी (१,३.२ह्) मनसा चैव हि वाचा च यज्ञो वर्तते (१,३.२इ) अद एव मन इयम् एव वाक् (१,३.२ज्) स यद् वदन् नास्ति विद्याद् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति (१,३.२क्) तद् यथैकपात् पुरुषो यन्न् एकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्य् एवम् एवास्य यज्ञो भ्रेषं न्येति (१,३.२ल्) यज्ञस्य भ्रेषम् अनु यजमानो भ्रेषं न्येति (१,३.२म्) यजमानस्य भ्रेषम् अन्व् ऋत्विजो भ्रेषं नियन्ति (१,३.२न्) ऋत्विजां भ्रेषम् अनु दक्षिणा भ्रेषं नियन्ति (१,३.२ओ) दक्षिणानां भ्रेषम् अनु यजमानः पुत्रपशुभिर् भ्रेषं न्येति (१,३.२प्) पुत्रपशूनां भ्रेषम् अनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति (१,३.२ॠ) स्वर्गस्य लोकस्य भ्रेषम् अनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ २ ॥

(१,३.३अ) तद् उ ह स्माह श्वेतकेतुर् आरुणेयो ब्रह्माणं दृष्ट्वा भाषमाणम् अर्धं मे ऽस्य यज्ञस्यान्तरगाद् इति (१,३.३ब्) तस्माद् ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यम् उपांश्व् अन्तर्यामाभ्याम् (१,३.३च्) अथ ये पवमाना ओदृचस् तेषु (१,३.३द्) अथ यानि स्तोत्राणि सशस्त्राण्य् आ वषट्कारात् तेषु (१,३.३ए) स यद् ऋक्तो भ्रेषं न्यृच्छेद् ओं भूर् जनद् इति गार्हपत्ये जुहुयात् (१,३.३f) यदि यजुष्ट ओं भुवो जनद् इति दक्षिणाग्नौ जुदुयात् (१,३.३ग्) यदि सामत ओं स्वर् जनद् इत्य् आहवनीये जुहुयात् (१,३.३ह्) यद्य् अनाज्ञाताद् ब्रह्मतो वों भूर् भुवः स्वर् जनद् ओम् इत्य् आहवनीय एव जुहुयात् (१,३.३इ) तद् वाकोवाक्यस्यर्चां यजुषां साम्नाम् अथर्वाङ्गिरसाम् (१,३.३ज्) अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते (१,३.३क्) तद् यथा लवणेनेत्य् उक्तम् (१,३.३ल्) तद् यथोभयपात् पुरुषो यन्न् उभयचक्रो वा रथो वर्तमानो ऽभ्रेषं न्येति एवम् एवास्य यज्ञो ऽभ्रेषं न्येति (१,३.३म्) यज्ञस्याभ्रेषम् अनु यजमानो ऽभ्रेषं न्येति (१,३.३न्) यजमानस्याभ्रेषम् अन्व् ऋत्विजो ऽभ्रेषं नियन्ति (१,३.३ओ) ऋत्विजाम् अभ्रेषम् अनु दक्षिणा अभ्रेषं नियन्ति (१,३.३प्) दक्षिणानाम् अभ्रेषम् अनु यजमानः पुत्रपशुभिर् अभ्रेषं न्येति (१,३.३ॠ) पुत्रपशूनाम् अभ्रेषम् अनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति (१,३.३र्) स्वर्गस्य लोकस्याभ्रेषम् अनु तस्यार्धस्य योगक्षेमो ऽभ्रेषं न्येति यस्मिन्न् अर्धे यजन्त इति ब्राह्मणम् ॥ ३ ॥

(१,३.४अ) तद् यद् औदुम्बर्यां म आसिष्ट हिङ्ङ् अकार्षीन् मे प्रास्तावीन् म उदगासीन् मे सुब्रह्मण्याम् आह्वासीद् इत्य् उद्गात्रे दक्षिणा नीयन्ते (१,३.४ब्) ग्रहान् मे ऽग्रहीत् प्राचारीन् मे ऽशुश्रुवन् मे समनसस् कार्षीद् अयाक्षीन् मे ऽवषट्कार्षीन् म इत्य् अध्वर्यवे (१,३.४च्) होतृषदन आसिष्टायाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति होत्रे (१,३.४द्) देवयजनं मे चीकॢपद् ब्रह्मासादं मे ऽसीसृपद् ब्रह्मजपान् मे ऽजपीत् पुरस्ताद्धोमसंस्थितहोमान् मे ऽहौषीद् अयाक्षीन् मे ऽशांसीन् मे ऽवषट्कार्षीन् म इति ब्रह्मणे (१,३.४ए) भूयिष्ठेन मा ब्रह्मणाकार्षीद् इति (१,३.४f) एतद् वै भूयिष्ठं ब्रह्म यद् भृग्वङ्गिरसः (१,३.४ग्) ये ऽङ्गिरसः स रसो ये ऽथर्वाणो ये ऽथर्वाणस् तद्भेषजम् (१,३.४ह्) यद् भेषजं तद् अमृतं यद् अमृतं तद् ब्रह्म (१,३.४इ) स वा एष पूर्वेषाम् ऋत्विजाम् अर्धभागस्यार्धम् इतरेषाम् अर्धं ब्रह्मण इति ब्राह्मणम् ॥ ४ ॥

(१,३.५अ) देवाश् च ह वा असुराश् च संग्रामं समयतन्त (१,३.५ब्) तत्रैतास् तिस्रो होत्रा जिह्मं प्रतिपेदिरे (१,३.५च्) तासाम् इन्द्र उक्थानि सामानि लुलोप (१,३.५द्) तानि होत्रे प्रायच्छत् (१,३.५ए) आज्यं ह वै होतुर् बभूव (१,३.५f) प्रऽुगं पोतुर् वैश्वदेवं ह वै होतुर् बभूव (१,३.५ग्) निष्केवल्यं नेष्टुः (१,३.५ह्) मरुत्वतीयं ह वै होतुर् बभूव (१,३.५इ) अग्निमारुतम् आग्नीध्रस्य (१,३.५ज्) तस्माद् एतद् अभ्यस्ततरम् इव शस्यते यद् आग्निमारुतम् (१,३.५क्) तस्माद् एते संशंसुका इव भवन्ति यद् धोता पोता नेष्टा (१,३.५ल्) आग्नीध्रो मुमुहे वसीत (१,३.५म्) तद् ब्रह्मेयसामिवास (१,३.५न्) तासाम् अर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद् दक्षिणां चैतत् परिशिषेदेद् इति ब्राह्मणम् ॥ ५ ॥

(१,३.६अ) उद्दालको ह वा आरुणिर् उदीच्यान् वृतो धावयां चकार (१,३.६ब्) तस्य ह निष्क उपाहितो बभूवोपवादाद् बिभ्यतो यो मा ब्राह्मणो ऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति (१,३.६च्) तद् धोदीच्यान् ब्राह्मणान् भयं विवेदोद्दालको ह वा अयम् आयाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः (१,३.६द्) स ऊर्ध्वं वृतो न पर्यादधीत (१,३.६ए) केनेमं वीरेण प्रतिसंयतामहा इति (१,३.६f) तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे ते ह स्वैदायनं शौनकम् ऊचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठो ऽसीति (१,३.६ग्) त्वयेमं वीरेण प्रतिसंयतामहा इति (१,३.६ह्) तं यत एव प्रपन्नं दध्रे तत एवम् अनुप्रतिपेदिरे (१,३.६इ) तं ह स्वैदायना इत्य् आमन्त्रयाम् आस (१,३.६ज्) स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव (१,३.६क्) स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत् ॥ ६ ॥

(१,३.७अ) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते (१,३.७ब्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्माद् अन्ततः सर्वा एव पलिता भवन्ति (१,३.७च्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमाः प्रजा अदन्तिका जायन्ते कस्माद् आसाम् अपरम् इव जायन्ते (१,३.७द्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्माद् आसां पुनर् एव जायन्ते कस्माद् अन्ततः सर्व एव प्रभिद्यन्ते (१,३.७ए) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे (१,३.७f) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् अधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे (१,३.७ग्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमौ दंष्ट्रौ दीर्घतरौ कस्मात् समे इव जंभे (१,३.७ह्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे (१,३.७इ) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुवः स्त्रियः (१,३.७ज्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां संततम् इव शरीरं भवति कस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति (१,३.७क्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति कस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति कस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति (१,३.७ल्) यस् तद् दर्शपूर्णमासयो रूपं विद्यात् कस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते [एद्. इं] (१,३.७म्) कस्मात् सकृद् अपानम् ॥ ७ ॥

(१,३.८अ) अथ यः पुरस्ताद् अष्टाव् आज्यभागान् विद्यान् मध्यतः पञ्च हविर्भागाः षट् प्राजापत्या उपरिष्टाद् अष्टाव् आज्यभागान् विद्यात् (१,३.८ब्) अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात् (१,३.८च्) अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहन्तीं विद्यात् (१,३.८द्) तस्मै ह निष्कं प्रयच्छन्न् उवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति (१,३.८ए) तद् उपयम्य निश्चक्राम (१,३.८f) तत्रापवव्राज यत्रेतरो बभूव (१,३.८ग्) तं ह पप्रच्छ किम् एष गौतमस्य पुत्र इति (१,३.८ह्) एष ब्रह्मा ब्रह्मापुत्र इति होवाच यद् एनं कश् चिद् उपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत् प्राणा वैनं जह्युर् इति (१,३.८इ) ते मिथ एव चिक्रन्देयुर् विप्रापवव्रज यत्रेतरो बभूव (१,३.८ज्) ते प्रातः समित्पाणय उपोदेयुर् उपायामो भवन्तम् इति (१,३.८क्) किम् अर्थम् इति (१,३.८ल्) यान् एव नो भवांस् तान् ह्यः प्रश्नान् अपृच्छत् तान् एव नो भवान् व्याचक्षीतेति (१,३.८म्) तथेति (१,३.८न्) तेभ्य एतान् प्रश्नान् व्याचचष्टे ॥ ८ ॥

(१,३.९अ) यत् पुरस्ताद् वेदेः प्रथमं बर्हि स्तृणाति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते (१,३.९ब्) यद् अपरम् इव प्रस्तरम् अनुप्रस्तृणाति तस्माद् आसाम् अपरम् इव श्मश्रूण्य् उपकक्षाण्य् अन्यानि लोमानि जायन्ते (१,३.९च्) यत् प्राग् बर्हिषः प्रस्तरम् अनुप्रहरति तस्माद् इमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति (१,३.९द्) यद् अन्ततः सर्वम् एवानुप्रहरति तस्माद् अन्ततः सर्व एव पलिता भवन्ति (१,३.९ए) यत् प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् इमाः प्रजा अदन्तिका जायन्ते (१,३.९f) यद् धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्माद् आसाम् अपरम् इव जायन्ते (१,३.९ग्) यद् अनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते (१,३.९ह्) यत् पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्माद् आसां पुनर् एव जायन्ते (१,३.९इ) यत् समिष्टयजुर् अपुरोऽनुवाक्यावद् भवति तस्माद् अन्ततः सर्व एव प्रभिद्यन्ते (१,३.९ज्) यद् गायत्र्यानूच्य त्रिष्टुभा यजति तस्माद् अधरे दन्ताः पूर्वे जायन्ते पर उत्तरे (१,३.९क्) यद् ऋचानूच्य यजुषा यजति तस्माद् अधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस] (१,३.९ल्) यद् आघारौ दीर्घतरौ प्राञ्चाव् आघारयति तस्माद् इमौ दंष्ट्रौ दीर्घतरौ (१,३.९म्) यत् संयाज्ये सच्छन्दसी तस्मात् समे इव जम्भे (१,३.९न्) यच् चतुर्थे प्रयाजे समानयति तस्माद् इमे श्रोत्रे अन्तरतः समे इव दीर्णे (१,३.९ओ) यज् जपं जपित्वाभिहिंकृणोति तस्मात् पुमांसः श्मश्रुवन्तो ऽश्मश्रुव स्त्रियः (१,३.९प्) यत् सामिधेनीः संतन्वन्न् अन्वाह तस्माद् आसां संततम् इव शरीरं भवति (१,३.९ॠ) यत् सामिधेन्यः काष्ठहविषो भवन्ति तस्माद् आसाम् अस्थीनि दृढतराणीव भवन्ति (१,३.९र्) यत् प्रयाजा आज्यहविषो भवन्ति तस्माद् आसां प्रथमे वयसि रेतः सिक्तं न संभवति (१,३.९स्) यन् मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्माद् आसां मध्यमे वयसि रेतः सिक्तं संभवति (१,३.९त्) यद् अनुयाजा आज्यहविषो भवन्ति तस्माद् आसाम् उत्तमे वयसि रेतः सिक्तं न संभवति (१,३.९उ) यद् उत्तमे ऽनुयाजे सकृद् अपानिति तस्माद् इदं शिश्नम् उच्चश एति नीची पद्यते (१,३.९व्) यन् नापानेत् सकृच्छूनं स्यात् (१,३.९w) यन् मुहुर् अपानेत् सकृत्पन्नं स्यात् (१,३.९x) तस्मात् सकृद् अपानिति नेत् सकृच्छूनं स्यात् सकृत्पन्नं वेति ॥ ९ ॥

(१,३.१०अ) अथ ये पुरस्ताद् अष्टाव् आज्यभागाः पञ्च प्रयाजा द्वाव् आघारौ द्वाव् आज्यभागाव् आग्नेय आज्यभागानां प्रथमः सौम्यो द्वितीयो हविर्भागानाम् (१,३.१०ब्) हविर् ह्य् एव सौम्यम् (१,३.१०च्) आग्नेयः पुरोडाशः (१,३.१०द्) अग्नीषोमीयः पुरोडाशो ऽग्निः स्विष्टकृद् इत्य् एते मध्यतः पञ्च हविर्भागाः (१,३.१०ए) अथ ये षट् प्राजापत्या इडा च प्राशित्रं च यच् चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागो ऽन्वाहार्य एव षष्ठः (१,३.१०f) अथ य उपरिष्टाद् अष्टाव् आज्यभागास् त्रयो ऽनुयाजाश् चत्वारः पत्नीसंयाजाः समिष्टयजुर् अष्टमम् (१,३.१०ग्) अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति वेदिर् एव सा (१,३.१०ह्) तस्य ये पुरस्ताद् अष्टाव् आज्याभागाः स दक्षिणः पक्षः (१,३.१०इ) अथ य उपरिष्टाद् अष्टाव् आज्यभागाः स उत्तरः पक्षः [एद्. इपरिष्टाद्] (१,३.१०ज्) हवींष्य् आत्मा [एद्. हविंष्य्] (१,३.१०क्) गार्हपत्यो जघनम् (१,३.१०ल्) आहवनीयः शिरः (१,३.१०म्) सौवर्णराजतौ पक्षौ (१,३.१०न्) तद् यद् आदित्यं पुरस्तात् पर्यन्तं न पश्यन्ति तस्माद् अज्योतिष्क उत्करो भवति (१,३.१०ओ) अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति याज्यैव सा (१,३.१०प्) तस्या ओं श्रावयेति चतुरक्षरम् (१,३.१०ॠ) अस्तु श्रौषद् इति चतुरक्षरम् (१,३.१०र्) यजेति द्व्यक्षरम् (१,३.१०स्) ये यजामह इति पञ्चाक्षरम् (१,३.१०त्) द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः (१,३.१०उ) पञ्चपदा सप्तदशाक्षरा सर्वैर् यज्ञैर् यजमानं स्वर्गं लोकम् अभिवहति (१,३.१०व्) तद् यत्रास्यैश्वर्यं स्याद् यत्र वैनम् अभिवहेयुर् एवंविदम् एव तत्र ब्रह्माणं वृणीयान् नानेवंविदम् इति ब्राह्मणम् ॥ १० ॥

(१,३.११अ) अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति (१,३.११ब्) पृच्छ प्राचीनयोग्येति (१,३.११च्) किंदेवत्यं ते गवीडायाम् (१,३.११द्) किंदेवत्यम् उपहूतायाम् (१,३.११ए) किंदेवत्यम् उपसृष्टायाम् (१,३.११f) किंदेवत्यं वत्सम् उन्नीयमानम् (१,३.११ग्) किंदेवत्यं वत्सम् उन्नीतम् (१,३.११ह्) किंदेवत्यं दुह्यमानम् (१,३.११इ) किंदेवत्यं दुग्धम् (१,३.११ज्) किंदेवत्यं प्रक्रम्यमाणम् (१,३.११क्) किंदेवत्यं ह्रियमाणम् (१,३.११ल्) किंदेवत्यम् अधिश्रीयमाणम् (१,३.११म्) किंदेवत्यम् अधिश्रितम् (१,३.११न्) किंदेवत्यम् अभ्यवज्वाल्यमानम् (१,३.११ओ) किंदेवत्यम् अभ्यवज्वालितम् (१,३.११प्) किंदेवत्यं समुद्वान्तम् (१,३.११ॠ) किंदेवत्यं विष्यण्णम् (१,३.११र्) किंदेवत्यम् अद्भिः प्रत्यानीतम् (१,३.११स्) किंदेवत्यम् उद्वास्यमानम् (१,३.११त्) किंदेवत्यम् उद्वासितम् (१,३.११उ) किंदेवत्यम् उन्नीयमानम् (१,३.११व्) किंदेवत्यम् उन्नीतम् (१,३.११w) किंदेवत्यं प्रक्रम्यमाणम् (१,३.११x) किंदेवत्यं ह्रियमाणम् (१,३.११य्) किंदेवत्यम् उपसाद्यमानम् (१,३.११श्) किंदेवत्यम् उपसादितम् (१,३.११अअ) किंदेवत्या समित् (१,३.११ब्ब्) किंदेवत्यां प्रथमाम् आहुतिम् अहौषीः (१,३.११च्च्) किंदेवत्यं गार्हपत्यम् अवेक्षिष्ठाः (१,३.११द्द्) किंदेवत्योत्तराहुतिः (१,३.११एए) किंदेवत्यं हुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषीः (१,३.११ff) किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः (१,३.११ग्ग्) किंदेवत्यं द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षीः (१,३.११ह्ह्) किंदेवत्यं प्रथमं प्राशीः (१,३.११इइ) किंदेवत्यं द्वितीयम् (१,३.११ज्ज्) किंदेवत्यम् अन्ततः सर्वम् एव प्राशीः (१,३.११क्क्) किंदेवत्यम् अप्रक्षालितयोदकं स्रुचा न्यनैषीः (१,३.११ल्ल्) किंदेवत्यं प्रक्षालितया (१,३.११म्म्) किंदेवत्यम् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषीः [एद्. उदक] (१,३.११न्न्) किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः (१,३.११ओओ) किंदेवत्यं रात्रौ स्रुग्दण्डम् अवामार्क्षीः (१,३.११प्प्) किंदेवत्यं प्रातर् उदमार्क्षीर् इति (१,३.११ॠॠ) एतच् चेद् वेत्थ गौतम हुतं ते यद्य् उ न वेत्थाहुतं त इति ब्राह्मणम् ॥ ११ ॥

(१,३.१२अ) स होवाच रौद्रं मे गवीडयाम् (१,३.१२ब्) मानव्यम् उपहूतायाम् (१,३.१२च्) वायव्यम् उपसृष्टायाम् (१,३.१२द्) वैराजं वत्सम् उन्नीयमानम् (१,३.१२ए) जागतम् उन्नीतम् (१,३.१२f) आश्विनं दुह्यमानम् (१,३.१२ग्) सौम्यं दुग्धम् (१,३.१२ह्) बार्हस्पत्यं प्रक्रम्यमाणम् (१,३.१२इ) द्यावापृथिव्यं ह्रियमाणम् [एद्. ह्रियमानम्, चोर्र्. ড়त्यल्] (१,३.१२ज्) आग्नेयम् अधिश्रीयमाणम् (१,३.१२क्) वैश्वानरीयम् अधिश्रितम् (१,३.१२ल्) वैष्णवम् अभ्यवज्वाल्यमानम् (१,३.१२म्) मारुतम् अभ्यवज्वालितम् (१,३.१२न्) पौष्णं समुद्वान्तम् (१,३.१२ओ) वारुणं विष्यन्नम् (१,३.१२प्) सारस्वतम् अद्भिः प्रत्यानीतम् (१,३.१२ॠ) त्वाष्ट्रम् उद्वास्यमानम् (१,३.१२र्) धात्रम् उद्वासितम् (१,३.१२स्) वैश्वदेवम् उन्नीयमानम् (१,३.१२त्) सावित्रम् उन्नीतम् (१,३.१२उ) बार्हस्पत्यं प्रक्रम्यमाणम् (१,३.१२व्) द्यावापृथिव्यं ह्रियमाणम् (१,३.१२w) ऐन्द्रम् उपसाद्यमानम् (१,३.१२x) बलायोपसन्नम् (१,३.१२य्) आग्नेयी समित् (१,३.१२श्) यां प्रथमाम् आहुतिम् अहौषं माम् एव तत् स्वर्गे लोके ऽधाम् (१,३.१२अअ) यद् गार्हपत्यम् अवेक्षिषम् अस्य लोकस्य संतत्यै (१,३.१२ब्ब्) प्राजापत्योत्तराहुतिस् (१,३.१२च्च्) तस्मात् पूर्णतरा मनसैव सा (१,३.१२द्द्) यद् धुत्वा स्रुचं त्रिर् उदञ्चम् उदनैषं रुद्रांस् तेनाप्रैषम् (१,३.१२एए) यद् बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षम् ओषधिवनस्पतींस् तेनाप्रैषम् (१,३.१२ff) यद् द्वितीयम् उन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधाम् अकार्षं पितॄंस् तेनाप्रैषम् (१,३.१२ग्ग्) यत् प्रथमं प्राशिषं प्राणांस् तेनाप्रैषम् (१,३.१२ह्ह्) यद् द्वितीयं गर्भांस् तेन (१,३.१२इइ) तस्माद् अनश्नन्तो गर्भा जीवन्ति (१,३.१२ज्ज्) यद् अन्ततः सर्वम् एव प्राशिषं विश्वान् देवांस् तेनाप्रैषम् (१,३.१२क्क्) यद् अप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस् तेनाप्रैषम् (१,३.१२ल्ल्) यत् प्रक्षालितया सर्पपुण्यजनांस् तेन (१,३.१२म्म्) यद् अपरेणाहवनीयम् उदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस् तेनाप्रैषम् (१,३.१२न्न्) यत् स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस् तेनाप्रैषम् (१,३.१२ओओ) यद् रात्रौ स्रुग्दण्डम् अवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस् तान् उदनैषम् (१,३.१२प्प्) यत् प्रातर् उदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस् तानुदनैषम् इति ब्राह्मणम् ॥ १२ ॥

(१,३.१३अ) एवम् एवैतद् भो यथा भवान् आह (१,३.१३ब्) पृच्छामि त्वेव भवन्तम् इति (१,३.१३च्) पृच्छ प्राचीनयोग्येति (१,३.१३द्) यस्य सायम् अग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्य् उपसन्नानि स्युर् अथ चेद् दक्षिणागिर् उद्वायात् किं वा ततो भयम् आगच्छेद् इति (१,३.१३ए) क्षिप्रम् अस्य पत्नी प्रैति यो ऽविद्वाञ् जुहोति (१,३.१३f) विद्यया त्वेवाहम् अभिजुहोमीति (१,३.१३ग्) का ते विद्या का प्रायश्चित्तिर् इति (१,३.१३ह्) गार्हपत्याद् अधि दक्ष्.इणाग्निं प्रणीय प्राचो ऽङ्गारान् उद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात् (१,३.१३इ) अथ प्रातर् यथास्थानम् अग्नीन् उपसामधाय यथापुरं जुहुयात् (१,३.१३ज्) सा मे विद्या सा प्रायश्चित्तिर् इति (१,३.१३क्) अथ चेद् आहवनीय उद्वायात् किं वा ततो भयम् आगच्छेद् इति (१,३.१३ल्) क्षिप्रम् अस्य पुत्रः प्रैति यो ऽविद्वाञ् जुहोति (१,३.१३म्) विद्यया त्वेवाहम् अभिजुहोमीति (१,३.१३न्) का ते विद्या का प्रायश्चित्तिर् इति (१,३.१३ओ) गार्हपत्याद् अध्य् आहवनीयं प्रणीय प्रतीचो ऽङ्गारान् उद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात् (१,३.१३प्) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात् (१,३.१३ॠ) सा मे विद्या सा प्रायश्चित्तिर् इति (१,३.१३र्) अथ चेद् गार्हपत्य उद्वायात् किं वा ततो भयम् आगच्छेद् इति (१,३.१३स्) क्षिप्रं गृहपतिः प्रैति यो ऽविद्वाञ् जुहोति (१,३.१३त्) विद्यया त्वेवाहम् अभिजुहोमीति (१,३.१३उ) का ते विद्या का प्रायश्चित्तिर् इति (१,३.१३व्) सभस्मकम् आहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचो ऽङ्गारान् उद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात् (१,३.१३w) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात् (१,३.१३x) सा मे विद्या सा प्रायश्चित्तिर् इति (१,३.१३य्) अथ चेत् सर्वे ऽग्नय उद्वायेयुः किं वा ततो भयम् आगच्छेद् इति (१,३.१३श्) क्षिप्रं गृहपतिः सर्वज्यानिं जीयते यो ऽविद्वाञ् जुहोति (१,३.१३अअ) विद्यया त्वेवाहम् अभिजुहोमीति (१,३.१३ब्ब्) का ते विद्या का प्रायश्चित्तिर् इति (१,३.१३च्च्) आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात् (१,३.१३द्द्) अथ प्रातर् यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात् (१,३.१३एए) सा मे विद्या सा प्रायश्चित्तिर् इति (१,३.१३ff) अथ चेन् नाग्निं जनयितुं शक्नुयुर् न कुतश् चन वातो वायात् किं वा ततो भयम् आगच्छेद् इति (१,३.१३ग्ग्) मोघम् अस्वेष्टं च हुतं च भवति यो ऽविद्वाञ् जुहोति (१,३.१३ह्ह्) विद्यया त्वेवाहम् अभिजुहोमीति (१,३.१३इइ) का ते विद्या का प्रायश्चित्तिर् इति (१,३.१३ज्ज्) आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यम् उपसाद्य <वात आ वातु भेषजम् [ড়्ष् १९.४६.७-९]> इति सूक्तेनात्मन्य् एव जुहुयात् (१,३.१३क्क्) अथ प्रातर् अग्निं निर्मथ्य यथास्थानम् अग्नीन् उपसमाधाय यथापुरं जुहुयात् (१,३.१३ल्ल्) सा मे विद्या सा प्रायश्चित्तिर् इति ब्राह्मणम् ॥ १३ ॥

(१,३.१४अ) एवम् एवैतद् भो भगवन् यथा भवान् आह (१,३.१४ब्) उपयामि त्वेव भवन्तम् इति (१,३.१४च्) एवं चेन् नावक्ष्यो मूर्धा ते व्यपतिष्यद् इति (१,३.१४द्) हन्त तु ते तद् वक्ष्यामि यथा ते न विपतिष्यतीति (१,३.१४ए) यो ह वा एवंविद्वान् अश्नाति च पिबति च वाक् तेन तृप्यति (१,३.१४f) वाचि तृप्तायाम् अग्निस् तृप्यति (१,३.१४ग्) अग्नौ तृप्ते पृथिवी तृप्यति (१,३.१४ह्) पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (१,३.१४इ) यो ह वा एवंविद्वान् अश्नाति च पिबति च प्राणस् तेन तृप्यति (१,३.१४ज्) प्राणे तृप्ते वायुस् तृप्यति [एद्. प्रणे] (१,३.१४क्) वायौ तृप्ते ऽन्तरिक्षं तृप्यति (१,३.१४ल्) अन्तरिक्षे तृप्ते यान्य् अन्तरिक्षे भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (१,३.१४म्) यो ह वा एवंविद्वान् अश्नाति च पिबति च चक्षुस् तेन तृप्यति (१,३.१४न्) चक्षुषि तृप्त आदित्यस् तृप्यति (१,३.१४ओ) आदित्ये तृप्ते द्यौस् तृप्यति (१,३.१४प्) दिवि तृप्तायां यानि दिवि भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (१,३.१४ॠ) यो ह वा एवंविद्वान् अश्नाति च पिबति च मनस् तेन तृप्यति (१,३.१४र्) मनसि तृप्ते चन्द्रमास् तृप्यति (१,३.१४स्) चन्द्रमसि तृप्त आपस् तृप्यन्ति (१,३.१४त्) अप्सु तृप्तासु यान्य् अप्सु भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (१,३.१४उ) यो ह वा एवंविद्वान् अश्नाति च पिबति च श्रोत्रं तेन तृप्यति (१,३.१४व्) श्रोत्रे तृप्ते दिशश् चान्तर्देशाश् च तृप्यन्ति (१,३.१४w) दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्य् अन्वायत्तानि तानि तृप्यन्ति (१,३.१४x) यो ह वा एवंविद्वान् अश्नाति च पिबति च तस्यायम् एव दक्षिणः पाणिर् जुहूः (१,३.१४य्) सव्य उपभृत् (१,३.१४श्) कण्ठो ध्रुवा (१,३.१४अअ) अन्नं हविः (१,३.१४ब्ब्) प्राणा ज्योतींषि (१,३.१४च्च्) सदेष्टं सदा हुतं सदाशितं पायितम् अग्निहोत्रं भवति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १४ ॥

(१,३.१५अ) प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास् (१,३.१५ब्) ते ह स्म न कञ् चन वेदविदम् उपयन्ति (१,३.१५च्) ते सर्वम् अविदुस् (१,३.१५द्) ते सहैवाविदुस् (१,३.१५ए) ते ऽग्निहोत्र एव न समवदन्त (१,३.१५f) तेषाम् एकः सकृद् अग्निहोत्रम् अजुहोद् द्विर् एकस् त्रिर् एकस् (१,३.१५ग्) तेषां यः सकृद् अग्निहोत्रम् अजुहोत् तम् इतराव् अपृच्छतां कस्मै त्वं जुहोषीति (१,३.१५ह्) एकधा वा इदं सर्वं प्रजापतिः (१,३.१५इ) प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातर् इति (१,३.१५ज्) तेषां यो द्विर् अजुहोत् तम् इतराव् अपृच्छतां काभ्यां त्वं जुहोषीति (१,३.१५क्) अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस् (१,३.१५ल्) तेषां यस् त्रिर् अजुहोत् तम् इतराव् अपृच्छतां केभ्यस् त्वं जुहोषीत्य् अग्नये प्रजापतये ऽनुमतय इति सायं सूर्याय प्रजापतये ऽग्नये स्विष्टकृत इति प्रातस् (१,३.१५म्) तेषां यो द्विर् अजुहोत् स आर्ध्नोत् (१,३.१५न्) स भूयिष्ठो ऽभवत् (१,३.१५ओ) प्रजया चेतरौ श्रिया चेतराव् अत्याक्रामत् (१,३.१५प्) तस्य ह प्रजाम् इतरयोः प्रजे सजातत्वम् उपैताम् (१,३.१५ॠ) तस्माद् द्विर् होतव्यं यजुषा चैव मनसा च (१,३.१५र्) याम् एव स ऋद्धिम् आर्ध्नोत् ताम् ऋध्नोति य एवं वेद यश् चैवंविद्वान् अग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १५ ॥

(१,३.१६अ) स्वाहा वै कुतः संभूता (१,३.१६ब्) केन प्रकृता (१,३.१६च्) किं वास्या गोत्रम् (१,३.१६द्) कत्य् अक्षरा (१,३.१६ए) कति पदा (१,३.१६f) कति वर्णा (१,३.१६ग्) किं पूर्वावसाना (१,३.१६ह्) क्व चित् स्थिता (१,३.१६इ) किम् अधिष्ठाना (१,३.१६ज्) ब्रूहि स्वाहाया यद् दैवतं रूपं च (१,३.१६क्) स्वाहा वै सत्यसंभूता (१,३.१६ल्) ब्रह्मणा प्रकृता (१,३.१६म्) लामगायनसगोत्रा (१,३.१६न्) द्वे अक्षरे (१,३.१६ओ) एकं पदम् (१,३.१६प्) त्रयश् च वर्णाः शुक्लः पद्मः सुवर्ण इति (१,३.१६ॠ) सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्-, चोर्र्. ড়त्यल्] (१,३.१६र्) षडङ्गान्य् ओषधिवनस्पतयो लोमानि (१,३.१६स्) चक्षुषी सूर्याचन्द्रमसौ (१,३.१६त्) सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते (१,३.१६उ) तस्या अग्निर् दैवतम् (१,३.१६व्) ब्राह्मणो रूपम् इति ब्राह्मणम् ॥ १६ ॥

(१,३.१७अ) अथापि कारवो ह नाम ऋषयो ऽल्पस्वा आसन् (१,३.१७ब्) त इमम् एकगुम् अग्निष्टोमं ददृशुस् (१,३.१७च्) तम् आहरन् (१,३.१७द्) तेनायजन्त (१,३.१७ए) ते स्वर् ययुः (१,३.१७f) स य इच्छेत् स्वर् इयाम् इति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणम् ॥ १७ ॥

(१,३.१८अ) अथातः सवनीयस्य पशोर् विभागं व्याख्यास्यामः (१,३.१८ब्) उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः (१,३.१८च्) कण्ठः सकाकुद्रः प्रतिहर्तुः (१,३.१८द्) श्येनं वक्ष उद्गातुः (१,३.१८ए) दक्षिणं पार्श्वं सांसम् अध्वर्योः (१,३.१८f) सव्यम् उपगातॄणाम् (१,३.१८ग्) सव्यो ऽंसः प्रतिप्रस्थातुः (१,३.१८ह्) दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः (१,३.१८इ) अवरसक्थं ब्राह्मणाच्छंसिनः (१,३.१८ज्) ऊरुः पोतुः (१,३.१८क्) सव्या श्रोणिर् होतुः (१,३.१८ल्) अवरसक्थं मैत्रावरुणस्य (१,३.१८म्) अरुर् अच्छावाकस्य (१,३.१८न्) दक्षिणा दोर् नेष्टुः (१,३.१८ओ) सव्या सदस्यस्य (१,३.१८प्) सदं चानूकं च गृहपतेः (१,३.१८ॠ) जाघनी पत्न्यास् (१,३.१८र्) तां सा ब्राह्मणेन प्रतिग्राहयति (१,३.१८स्) वनिष्ठुर् हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुर् आग्नीध्रस्य (१,३.१८त्) सव्य आत्रेयस्य (१,३.१८उ) दक्षिणौ पादौ गृहपतेर् व्रतप्रदस्य (१,३.१८व्) सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः (१,३.१८w) सहैवैनयोर् ओष्ठस् (१,३.१८x) तं गृहपतिर् एवानुशिनष्टि (१,३.१८य्) मणिकाश् च स्कन्ध्यास् तिस्रश् च कीकसा ग्रावस्तुतस् (१,३.१८श्) तिस्रश् चैव कीकसा अर्धं चापानस्योन्नेतुः (१,३.१८अअ) अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः (१,३.१८ब्ब्) शिरः सुब्रह्मण्यस्य (१,३.१८च्च्) यः श्वःसुत्याम् आह्वयते तस्य चर्म (१,३.१८द्द्) तथा खलु षट्त्रिंशत् सम्पद्यन्ते (१,३.१८एए) षट्त्रिंशदवदाना गौः (१,३.१८ff) षट्त्रिंशदक्षरा बृहती (१,३.१८ग्ग्) बार्हतो वै स्वर्गो लोकः (१,३.१८ह्ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते (१,३.१८इइ) बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति (१,३.१८ज्ज्) प्रतितिष्ठन्ति प्रजया पशुभिर् य एवं विभजन्ते (१,३.१८क्क्) अथ यद् अतो ऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्न् एवम् एवैषां पशुर् विमथतो भवत्य् अस्वर्ग्यः (१,३.१८ल्ल्) देवभाजो ह वा इमं श्रुतऋषिः पशोर् विभागं विदां चकार (१,३.१८म्म्) तम् उ गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच (१,३.१८न्न्) ततो ऽयम् अर्वाङ् मनुष्येष्व् आसीद् इति ब्राह्मणम् ॥ १८ ॥ [एद्. मनुष्येस्व्]

(१,३.१९अ) अथातो दीक्षा (१,३.१९ब्) कस्य स्विद् धेतोर् दीक्षित इत्याचक्षते (१,३.१९च्) श्रेष्ठां धियं क्षियतीति (१,३.१९द्) तं वा एतं धीक्षितं सन्तं दीक्षित इत्य् आचक्षते परोक्षेण (१,३.१९ए) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,३.१९f) कस्य स्विद् धेतोर् दीक्षितो ऽप्रत्युत्थायिको भवत्य् अनभिवादुकः प्रत्युत्थेयो ऽभिवाद्यः (१,३.१९ग्) ये प्रत्युत्थेया अभिवाद्यास् त एनम् आविष्टा भवन्त्य् अथर्वाङ्गिरसस् (१,३.१९ह्) तस्य किम् आथर्वणम् इति (१,३.१९इ) यद् आत्मन्य् एव जुह्वति न परस्मिन् (१,३.१९ज्) एवं हाथर्वणानाम् ओदनसवानाम् आत्मन्य् एव जुह्वति न परस्मिन् [एद्. अदनसवानाम्, चोर्र्. ড়त्यल्] (१,३.१९क्) अथास्य किम् आङ्गिरसम् इति (१,३.१९ल्) यद् आत्मनश् च परेषां च नामानि न गृह्णात्य् एवं ह तस्मिन्नासाद् आत्मनश् चैव परेषां च नामानि न गृह्यन्ते (१,३.१९म्) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् (१,३.१९न्) विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम् (१,३.१९ओ) सैषा व्रतधुग् अथर्वाङ्गिरसस् (१,३.१९प्) तां ह्य् अन्वायत्ताः (१,३.१९ॠ) कस्य स्विद् धेतोर् दीक्षितो ऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति (१,३.१९र्) अन्नस्थो नामस्थो भवतीत्य् आहुस् तस्य ये ऽन्नम् अदन्ति ते ऽस्य पाप्मानम् अदन्ति (१,३.१९स्) अथास्य ये नाम गृह्णन्ति ते ऽस्य नाम्नः पाप्मानम् अपाघ्नते (१,३.१९त्) अथापि वेदानां गर्भभूतो भवतीत्य् आहुस् (१,३.१९उ) तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्य् आहुः (१,३.१९व्) स दीक्षाणां प्रातर् जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्य् आहुः (१,३.१९w) कस्य स्विद् धेतोः संसवा परिजिहीर्षिता भवन्ति (१,३.१९x) यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति (१,३.१९य्) कस्य स्विद् धेतोर् दैवे न ध्यायेत् संस्थिते नाधीयीतेति (१,३.१९श्) संसवस्यैव हेतोर् इति (१,३.१९अअ) विद्योतमाने स्तनयत्य् अथो वर्षति वायव्यम् अभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति (१,३.१९ब्ब्) तद् अभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसो ऽनूचानास् (१,३.१९च्च्) तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति (१,३.१९द्द्) स दैवे न ध्यायेत् संस्थिते नाधीयीतेति ब्राह्मणम् ॥ १९ ॥

(१,३.२०अ) समावृत्ता आचार्या निषेदुस् (१,३.२०ब्) तान् ह यज्ञो दीक्षिष्यमाणान् ब्राह्मणरूपं कृत्वोपोदेयाय (१,३.२०च्) इत्थं चेद् वो ऽपसमवत्सुर् हन्त वो ऽहं मध्ये दीक्षा इति [एद्. ऽपसमवत्सुर्, ড়त्यल् प्रोपोसेस् अपसमवतस्थुर्, एद्. दिक्षा] (१,३.२०द्) त ऊचुर् नैव त्वा विद्म न जानीमः (१,३.२०ए) को हीदविज्ञायमानेन सह दीक्षिष्यतीति (१,३.२०f) यन् न्व् इदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे (१,३.२०ग्) अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ (१,३.२०ह्) मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति (१,३.२०इ) अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ (१,३.२०ज्) ते तूष्णीं ध्यायन्त आसां चक्रिरे (१,३.२०क्) स होवाच किं नु तूष्णीम् आध्वे (१,३.२०ल्) भूयो वः पृच्छामः (१,३.२०म्) पृच्छतेति यन् न्व् इदं दीक्षिष्यध्व उपमे एतस्मिन् संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [ড়त्यल् fइन्द्स् उपमय् एतस्मिन् इन् त्wओ BOऋई म्स्स्. अन्द् प्रोपोसेस् तो अच्चेप्त् थिसे रेअदिन्ग्] (१,३.२०न्) धिग् इति होचुः (१,३.२०ओ) कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति (१,३.२०प्) ते वै ब्राह्मणानाम् अभिमन्तारो भविष्यथ (१,३.२०ॠ) रेतो ह वो य एतस्मिन् संवत्सरे ब्राह्मणास् तद् अभविष्यंस् ते बोधिमता भविष्यथेति (१,३.२०र्) अथ वा उपेष्यामो नोपेष्यामहा इति (१,३.२०स्) ते वै दीक्षिता अवकीर्णिनो भविष्यथ (१,३.२०त्) न ह वै देवयानः पन्था प्रादुर् भविष्यतीति (१,३.२०उ) तिरो वै देवयानः पन्था भविष्यतीति (१,३.२०व्) ते वयं भगवन्तम् एवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २० ॥

(१,३.२१अ) स होवाच द्वादश ह वै वसूनि दीक्षिताद् उत्क्रामन्ति (१,३.२१ब्) न ह वै दीक्षितो ऽग्निहोत्रं जुहुयात् (१,३.२१च्) न पौर्णमासेन यज्ञेन यजेत (१,३.२१द्) नामावास्येन (१,३.२१ए) अस्मिन् वसीत (१,३.२१f) न पितृयज्ञेन यजेत (१,३.२१ग्) न तत्र गच्छेद् यत्र मनसा जिगमिषेत् (१,३.२१ह्) नेष्ट्या यजेत (१,३.२१इ) न वाचा यथाकथा चिद् अभिभाषेत (१,३.२१ज्) न मिथुनं चरेत् (१,३.२१क्) नान्नास्य यथाकामम् उपयुञ्जीत (१,३.२१ल्) न पशुबन्धेन यज्ञेन यजेत (१,३.२१म्) न तत्र गच्छेद् यत्र चक्षुषा परापश्येत् (१,३.२१न्) कृष्णाजिनं वसीत (१,३.२१ओ) कुरीरं धारयेत् (१,३.२१प्) मुष्टी कुर्यात् (१,३.२१ॠ) अङ्गुष्ठप्रभृतयस् तिस्र उच्छ्रयेत् (१,३.२१र्) मृगशृङ्गं गृह्णीयात् (१,३.२१स्) तेन कषेत (१,३.२१त्) अथ यस्य दीक्षितस्य वाग् वायता स्यान् मुष्टी वा विसृष्टौ स एतानि जपेत् ॥ २१ ॥

(१,३.२२अ) अग्निहोत्रं च मा पौर्णमासश् च यज्ञः पुरस्तात् प्रत्यञ्चम् उभौ कामप्रौ भूत्वा क्षित्या सहाविशताम् (१,३.२२ब्) वसतिश् च मामावास्यश् च यज्ञः पश्चात् प्राञ्चम् उभाव् इति समानम् (१,३.२२च्) मनश् च मा पितृयज्ञश् च यज्ञो दक्षिणत उदञ्चम् उभाव् इति समानम् (१,३.२२द्) वाक् च मेष्टिश् चोत्तरतो दक्षिणाञ्चम् उभाव् इति समानम् (१,३.२२ए) रेतश् च मान्नं चेत ऊर्ध्वम् उभाव् इति समानम् (१,३.२२f) चक्षुश् च मा पशुबन्धश् च यज्ञो ऽमुतो ऽर्वाञ्चम् उभौ कामप्रौ भूत्वाक्षित्या सहाविशताम् इति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर् भवति न च यज्ञविष्कन्धम् उपयात्य् अपहन्ति पुनर्मृत्युम् (१,३.२२ग्) अपात्येति पुनराजातिम् (१,३.२२ह्) कामचारो ऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश् चैवंविद्वान् दीक्षाम् उपैतीति ब्राह्मणम् ॥ २२ ॥

(१,३.२३अ) अथ यस्य दीक्षितस्यर्तुमती जाया स्यात् प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात् (१,३.२३ब्) रेतो वा अन्नम् (१,३.२३च्) वृषा हिंकारः (१,३.२३द्) एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति (१,३.२३ए) एतेनैव प्रक्रमेण यजेतेति ब्राह्मणम् ॥ २३ ॥

(१,३.२३चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः ॥


(१,४.१अ) ओम् अयं वै यज्ञो यो ऽयं पवते (१,४.१ब्) तम् एत ईप्सन्ति ये संवत्सराय दीक्षन्ते (१,४.१च्) तेषां गृहपतिः प्रथमो दीक्षते (१,४.१द्) अयं वै लोको गृहपतिः (१,४.१ए) अस्मिन् वा इदं सर्वं लोके प्रतिष्ठितम् (१,४.१f) गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः (१,४.१ग्) प्रतिष्ठाया एवैनं तत् प्रतिष्ठित्यै दीक्षन्ते ॥ १ ॥

(१,४.२अ) अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनो ऽध्यात्मम् (१,४.२ब्) मनसैव तद् ओषधीः संदधाति (१,४.२च्) तद् या ओषधीर् वेद स एव ब्रह्मौषधीस् (१,४.२द्) तद् अनेन लोकेन संदधाति (१,४.२ए) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत (१,४.२f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् ओषधिभिर् व्यापादयेत् (१,४.२ग्) उच्छोषुका ह स्युस् (१,४.२ह्) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ २ ॥

(१,४.३अ) अथोद्गातारं दीक्षयति (१,४.३ब्) आदित्यो वा उद्गाताधिदैवं चक्षुर् अध्यात्मम् (१,४.३च्) पर्जन्य आदित्यः (१,४.३द्) पर्जन्याद् अधि वृष्टिर् जायते (१,४.३ए) वृष्टिर् एव तद् ओषधीः संदधाति (१,४.३f) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत (१,४.३ग्) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत् (१,४.३ह्) अवर्षुका ह स्युस् (१,४.३इ) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ३ ॥

(१,४.४अ) अथ होतारं दीक्षयति (१,४.४ब्) अग्निर् वै होताधिदैवं वाग् अध्यात्मम् (१,४.४च्) अन्नं वृष्टिः (१,४.४द्) वाचं चैव तद् अग्निं चान्नेन संदाधाति (१,४.४ए) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत (१,४.४f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकम् अन्नेन व्यापादयेत् (१,४.४ग्) अशनायुका ह स्युस् (१,४.४ह्) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ४ ॥

(१,४.५अ) अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति (१,४.५ब्) वायुर् वा अध्वर्युर् अधिदैवं प्राणो ऽध्यात्मम् (१,४.५च्) अन्नं वृष्टिः (१,४.५द्) वायुं चैव तत् प्राणं चान्नेन संदधाति (१,४.५ए) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत [एद्. एतव्] (१,४.५f) स यद् एताव् अन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत् (१,४.५ग्) प्रमायुका ह स्युस् (१,४.५ह्) तस्माद् एताव् अन्तरेणान्यो न दीक्षेत ॥ ५ ॥

(१,४.६अ) अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति (१,४.६ब्) अथोद्गात्रे प्रस्तोतारं दीक्षयति (१,४.६च्) अथ होत्रे मैत्रावरुणं दीक्षयति (१,४.६द्) अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति (१,४.६ए) स हैनम् अनु (१,४.६f) एतेषां वै नवानां कॢप्तिम् अन्व् इतरे कल्पन्ते (१,४.६ग्) नव वै प्राणाः (१,४.६ह्) प्राणैर् यज्ञस् तायते (१,४.६इ) अथ ब्रह्मणे पोतारं दीक्षयति (१,४.६ज्) अथोद्गात्रे प्रतिहर्तारं दीक्षयति (१,४.६क्) अथ होत्रे ऽच्छावाकं दीक्षयति (१,४.६ल्) अथाध्वर्यवे नेष्टारम् उन्नेता दीक्षयति (१,४.६म्) स हैनम् अनु (१,४.६न्) अथ ब्रह्मण आग्नीध्रं दीक्ष्यति (१,४.६ओ) अथोद्गात्रे सुब्रह्मण्यं दीक्षयति (१,४.६प्) अथ होत्रे ग्रावस्तुतं दीक्षयति (१,४.६ॠ) अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति (१,४.६र्) न पूतः पावयेद् इत्य् आहुः (१,४.६स्) सैषानुपूर्वं दीक्षा (१,४.६त्) तद् य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते (१,४.६उ) सत्त्रिणां प्रायश्चित्तम् अनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्न् अर्धे दीक्षन्त इति ब्राह्मणम् ॥ ६ ॥

(१,४.७अ) श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम् (१,४.७ब्) सोमात् क्रयम् (१,४.७च्) विष्णोर् आतिथ्यम् (१,४.७द्) आदित्यात् प्रवर्ग्यम् (१,४.७ए) स्वधाया उपसदः (१,४.७f) अग्नीषोमाभ्याम् औपवसथ्यम् अहः (१,४.७ग्) प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम् (१,४.७ह्) वसुभ्यः प्रातःसवनम् (१,४.७इ) रुद्रेभ्यो माध्यंदिनं सवनम् (१,४.७ज्) आदित्येभ्यस् तृतीयसवनम् (१,४.७क्) वरुणाद् अवभृथम् (१,४.७ल्) अदितेर् उदयनीयाम् (१,४.७म्) मित्रावरुणाभ्याम् अनूबन्ध्याम् (१,४.७न्) त्वष्टुस् त्वाष्ट्रम् (१,४.७ओ) देवीभ्यो देविकाभ्यो देवताहवींषि (१,४.७प्) कामाद् दशातिरात्रम् (१,४.७ॠ) स्वर्गाल् लोकाद् उदवसानीयाम् (१,४.७र्) तद् वा एतद् अग्निष्टोमस्य जन्म (१,४.७स्) स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ७ ॥

(१,४.८अ) अथ यद् दीक्षणीयया यजन्ते श्रद्धाम् एव तद् देवीं देवतां यजन्ते (१,४.८ब्) श्रद्धा देवी देवता भवन्ति (१,४.८च्) श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८द्) अथ यत् प्रायणीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते (१,४.८ए) अदितिर् देवी देवता भवन्ति (१,४.८f) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८ग्) अथ यत् क्रयम् उपयन्ति सोमम् एव तद् देवं देवतां यजन्ते (१,४.८ह्) सोमो देवो देवता भवन्ति [एद्. दवता] (१,४.८इ) सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८ज्) अथ यद् आतिथ्यया यजन्ते विष्णुम् एव तद् देवं देवतां यजन्ते (१,४.८क्) विष्णुर् देवो देवता भवन्ति (१,४.८ल्) विष्णोर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८म्) अथ यत् प्रवर्ग्यम् उपयन्त्य् आदित्यम् एव तद् देवं देवतां यजन्ते [एद्. दवतां] (१,४.८न्) आदित्यो देवो देवता भवन्ति (१,४.८ओ) आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८प्) अथ यद् उपसदम् उपयन्ति स्वधाम् एव तद् देवीं देवतां यजन्ते (१,४.८ॠ) स्वधा देवी देवता भवन्ति (१,४.८र्) स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८स्) अथ यद् औपवसथ्यम् अहर् उपयन्त्य् अग्नीषोमाव् एव तद् देवौ देवते यजन्ते (१,४.८त्) अग्नीषोमौ देवौ देवते भवन्ति (१,४.८उ) अग्नीषोमयोर् देवतयोः सायुज्यं सलोकतां यन्ति ये एतद् उपयन्ति [एद्. ऽग्नीषोमयोर्] (१,४.८व्) अथ यत् प्रातरनुवाकम् उपयन्ति प्रातर्याव्ण एव तद् देवान् देवता यजन्ते (१,४.८w) प्रातर्यावाणो देवा देवता भवन्ति (१,४.८x) प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८य्) अथ यत् प्रातःसवनमुपयन्ति वसून् एव तद् देवान् देवता यजन्ते (१,४.८श्) वसवो देवा देवता भवन्ति (१,४.८अअ) वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८ब्ब्) अथ यन् माध्यंदिनं सवनम् उपयन्ति रुद्रान् एव तद् देवान् देवता यजन्ते (१,४.८च्च्) रुद्रा देवा देवता भवन्ति (१,४.८द्द्) रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८एए) अथ यत्तृतीयसवनम् उपयन्त्य् आदित्यान् एव तद् देवान् देवता यजन्ते (१,४.८ff) आदित्या देवा देवता भवन्ति (१,४.८ग्ग्) आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८ह्ह्) अथ यद् अवभृथम् उपयन्ति वरुणम् एव तद् देवं देवतां यजन्ते (१,४.८इइ) वरुणो देवो देवता भवन्ति (१,४.८ज्ज्) वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८क्क्) अथ यद् उदयनीयया यजन्ते ऽदितिम् एव तद् देवीं देवतां यजन्ते (१,४.८ल्ल्) अदितिर् देवी देवता भवन्ति (१,४.८म्म्) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति [एद्. आदित्या] (१,४.८न्न्) अथ यद् अनूबन्ध्यया यजन्ते मित्रावरुणाव् एव तद् देवौ देवते यजन्ते (१,४.८ओओ) मित्रावरुणौ देवौ देवते भवन्ति (१,४.८प्प्) मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८ॠॠ) अथ यत् त्वाष्ट्रेण पशुना यजन्ते त्वष्टारम् एव तद् देवं देवतां यजन्ते (१,४.८र्र्) त्वष्टा देवो देवता भवन्ति (१,४.८स्स्) त्वष्टुर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८त्त्) अथ यद् देविकाहविर्भिश् चरन्ति या एता उपसत्सु भवन्त्य् अग्निः सोमो विष्णुर् इति देव्यो देविका देवता भवन्ति (१,४.८उउ) देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८व्व्) अथ यद् दशातिरात्रम् उपयन्ति कामम् एव तद् देवं देवतां यजन्ते (१,४.८ww) कामो देवो देवता भवन्ति (१,४.८xx) कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८य्य्) अथ यद् उदवसानीयया यजन्ते स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते (१,४.८श्श्) स्वर्गो लोको देवो देवता भवन्ति (१,४.८अअअ) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.८ब्ब्ब्) तद् वा एतद् अग्निष्टोमस्य जन्म (१,४.८च्च्च्) स य एवम् एतद् अग्निष्टोमस्य जन्म वेदाप्त्वैव तद् अग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति (१,४.८द्द्द्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (१,४.८एएए) अग्निष्टोमेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ८ ॥

(१,४.९अ) अहोरात्राभ्यां वै देवाः प्रायणीयम् अतिरात्रं निरमिमत (१,४.९ब्) अर्धमासेभ्यश् चतुर्विंशम् अहः (१,४.९च्) ब्रह्मणो ऽभिप्लवम् (१,४.९द्) क्षत्रात् पृष्ठ्यम् (१,४.९ए) अग्नेर् अभिजितम् (१,४.९f) अद्भ्यः स्वरसाम्नः (१,४.९ग्) सूर्याद् विषुवन्तम् (१,४.९ह्) उक्ता आवृत्ताः स्वरसामानः (१,४.९इ) इन्द्राद् विश्वजितम् (१,४.९ज्) उक्तौ पृष्ठ्यभिप्लवौ (१,४.९क्) मित्रावरुणाभ्यां गवायुषी (१,४.९ल्) विश्वेभ्यो देवेभ्यो दशरात्रम् (१,४.९म्) दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम् (१,४.९न्) एभ्यो लोकेभ्यश् छन्दोमं त्र्यहम् (१,४.९ओ) संवत्सराद् दशमम् अहः (१,४.९प्) प्रजापतेर् महाव्रतम् (१,४.९ॠ) स्वर्गाल् लोकाद् उदयनीयम् अतिरात्रम् (१,४.९र्) तद् वा एतत् संवत्सरस्य जन्म (१,४.९स्) स य एवम् एतत् संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ९ ॥

(१,४.१०अ) अथ यत् प्रायणीयम् अतिरात्रम् उपयन्त्य् अहोरात्राव् एव तद् देवौ देवते यजन्ते (१,४.१०ब्) अहोरात्रौ देवौ देवते भवन्ति (१,४.१०च्) अहोरात्रयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति [एद्. ऽहोरात्रयोर्] (१,४.१०द्) अथ यच् चतुर्विंशम् अहर् उपयन्त्य् अर्धमासान् एव तद् देवान् देवता यजन्ते (१,४.१०ए) अर्धमासा देवा देवता भवन्ति (१,४.१०f) अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०ग्) अथ यद् अभिप्लवम् उपयन्ति ब्रह्माणम् एव तद् देवं देवतां यजन्ते (१,४.१०ह्) ब्रह्मा देवो देवता भवन्ति (१,४.१०इ) ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०ज्) अथ यत् पृष्ठ्यम् उपयन्ति क्षत्रम् एव तद् देवं देवतां यजन्ते (१,४.१०क्) क्षत्रं देवो देवता भवन्ति (१,४.१०ल्) क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०म्) अथ यद् अभिजितम् उपयन्त्य् अग्निम् एव तद् देवं देवतां यजन्ते (१,४.१०न्) अग्निर् देवो देवता भवन्ति (१,४.१०ओ) अग्नेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०प्) अथ यत् स्वरसाम्न उपयन्त्य् एव तद् देवीर् देवता यजन्त आपो देव्यो देवता भवन्ति (१,४.१०ॠ) अपां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०र्) अथ यद् विषुवन्तम् उपयन्ति सूर्यम् एव तद् देवं देवतां यजन्ते (१,४.१०स्) सूर्यो देवो देवता भवन्ति (१,४.१०त्) सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०उ) उक्ता आवृत्ताः स्वरसामानः (१,४.१०व्) अथ यद् विश्वजित मुपयन्तीन्द्रम् एव तद् देवं देवतां यजन्ते (१,४.१०w) इन्द्रो देवो देवता भवन्ति (१,४.१०x) इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०य्) उक्तौ पृष्ठ्याभिप्लवौ (१,४.१०श्) अथ यद् गवायुषी उपयन्ति मित्रावरुणाव् एव तद् देवौ देवते यजन्ते (१,४.१०अअ) मित्रावरुणौ देवौ देवते भवन्ति (१,४.१०ब्ब्) मित्रावरुणयोर् देवयोः सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०च्च्) अथ यद् दशरात्रम् उपयन्ति विश्वान् एव तद् देवान् देवता यजन्ते (१,४.१०द्द्) विश्वे देवा देवता भवन्ति (१,४.१०एए) विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०ff) अथ यद् दाशरात्रिकं पृष्ठ्यं षडहम् उपयन्ति दिश एव तद् देवीर् देवता यजन्ते (१,४.१०ग्ग्) दिशो देव्यो देवता भवन्ति (१,४.१०ह्ह्) दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०इइ) अथ यच् छन्दोमं त्र्यहम् उपयन्तीमान् एव तल् लोकान् देवान् देवता यजन्ते (१,४.१०ज्ज्) इमे लोका देवा देवता भवन्ति (१,४.१०क्क्) एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०ल्ल्) अथ यद् दशमम् अहर् उपयन्ति संवत्सरम् एव तद् देवं देवतां यजन्ते (१,४.१०म्म्) संवत्सरो देवो देवता भवन्ति [एद्. दवता] (१,४.१०न्न्) संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०ओओ) अथ यन् महाव्रतम् उपयन्ति प्रजापतिम् एव तद् देवं देवतां यजन्ते (१,४.१०प्प्) प्रजापतिर् देवो देवता भवन्ति [एद्. दवता] (१,४.१०ॠॠ) प्रजापतेर् देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०र्र्) अथ यद् उदयनीयम् अतिरात्रम् उपयन्ति स्वर्गम् एव तल् लोकं देवं देवतां यजन्ते (१,४.१०स्स्) स्वर्गो लोको देवो देवता भवन्ति (१,४.१०त्त्) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतद् उपयन्ति (१,४.१०उउ) तद् वा एतत् संवत्सरस्य जन्म (१,४.१०व्व्) स य एवम् एतत् संवत्सरस्य जन्म वेदाप्त्वैव तत् संवत्सरं स्वर्गे लोके प्रतितिष्ठति (१,४.१०ww) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (१,४.१०xx) संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ १० ॥

(१,४.११अ) स वा एष संवस्तरो ऽधिदैवं चाध्यात्मं च प्रतिष्ठितः (१,४.११ब्) स य एवम् एतत् संवत्सरम् अधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति (१,४.११च्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ ११ ॥

(१,४.१२अ) स वा एष संवत्सरो बृहतीम् अभिसंपन्नः (१,४.१२ब्) द्वाव् अक्षराव् अह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ (१,४.१२च्) गवायुषी दशरात्रस् (१,४.१२द्) तथा खलु षट्त्रिंशद् संपद्यन्ते (१,४.१२ए) षट्त्रिंशदवदाना गौः (१,४.१२f) षट्त्रिंशदक्षरा बृहती (१,४.१२ग्) बार्हतो वै स्वर्गो लोकः (१,४.१२ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते (१,४.१२इ) बृहत्या स्वर्गे लोके प्रतितिष्ठति (१,४.१२ज्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ १२ ॥

(१,४.१३अ) स वा एष संवत्सरस् त्रिमहाव्रतः (१,४.१३ब्) चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम् (१,४.१३च्) तं ह स्मैतम् एवंविद्वांसः पूर्वे त्रिमहाव्रतम् उपयन्ति (१,४.१३द्) ते तेजस्विन आसंत् सत्यवादिनः संशितव्रताः (१,४.१३ए) य एनम् अद्य तथोपेयुर् यथामपात्रम् उदक आसिक्ते निर्मृत्येद् एवं यजमाना निर्मृत्येरन्न् उपर्य् उपयन्ति (१,४.१३f) तथा हास्य सत्येन तपसा व्रतेन चाभिजितम् अवरुद्धं भवति य एवं वेद ॥ १३ ॥

(१,४.१४अ) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति (१,४.१४ब्) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात् (१,४.१४च्) अभिप्लवात् पृष्ठ्यो निर्मितः (१,४.१४द्) पृष्ठ्याद् अभिजित् (१,४.१४ए) अभिजितः स्वरसामानः (१,४.१४f) स्वरसामभ्यो विषुवान् (१,४.१४ग्) विषुवतः स्वरसामानः (१,४.१४ह्) स्वरसामभ्यो विश्वजित् (१,४.१४इ) विश्वजितः पृष्ठ्याभिप्लवौ (१,४.१४ज्) पृष्ठ्याभिप्लवाभ्यां गवायुषी (१,४.१४क्) गवायुर्भ्यां दशरात्रः (१,४.१४ल्) दशरात्रान् महाव्रतम् (१,४.१४म्) महाव्रताद् उदयनीयो ऽतिरात्रः (१,४.१४न्) उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ १४ ॥

(१,४.१५अ) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति (१,४.१५ब्) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात् (१,४.१५च्) अभिप्लवात् पृष्ठ्यो निर्मितः (१,४.१५द्) पृष्ठ्याद् अभिजित् (१,४.१५ए) अभिजितः स्वरसामानः (१,४.१५f) स्वरसामभ्यो विषुवान् [एद्. विषवान्] (१,४.१५ग्) विषुवतः स्वरसमानः (१,४.१५ह्) स्वरसामभ्यो विश्वजित् (१,४.१५इ) विश्वजितः पृष्ठ्याभिप्लवौ (१,४.१५ज्) पृष्ठ्याभिप्लवाभ्यां गवायुषी (१,४.१५क्) गवायुर्भ्यां दशरात्रः (१,४.१५ल्) अथ ह देवेभ्यो महाव्रतं न तस्थे कथम् ऊर्ध्वै स्तोमैर् विषुवन्तम् उपागातावृत्तैर् माम् इति (१,४.१५म्) ते देवा इहसामिवासुर् (१,४.१५न्) उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतद् अहर् अवाप्नुयामेति (१,४.१५ओ) तत एतं द्वादशरात्रम् ऊर्ध्वस्तोमं ददृशुस् (१,४.१५प्) तम् आहरन् (१,४.१५ॠ) तेनायजन्त (१,४.१५र्) तत एभ्यो ऽतिष्ठन् (१,४.१५स्) तिष्ठति हास्मै महाव्रतम् (१,४.१५त्) प्रतितिष्ठति (१,४.१५उ) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ १५ ॥

(१,४.१६अ) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति (१,४.१६ब्) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात् (१,४.१६च्) तद् आहुः कति संवत्सरस्य पराञ्च्य् अहानि भवन्ति कत्य् अर्वाञ्चि (१,४.१६द्) तद् यानि सकृत्सकृद् उपयन्ति तानि पराञ्चि (१,४.१६ए) अथ यानि पुनःपुनर् उपयन्ति तान्य् अर्वाञ्चीत्य् एवैनान्य् उपासीरन् (१,४.१६f) षडहयोर् ह्य् आवृत्तिम् अन्वावर्तन्ते ॥ १६ ॥

(१,४.१७अ) अथ यच् चतुर्विंशम् अहर् उपेत्यानुपेत्य विषुवन्तं महाव्रतम् उपेयात् कथम् अनागूर्त्यै भवतीति (१,४.१७ब्) यम् एवामुं पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्ति तेनेति ब्रूयात् [एद्. ऽतिरत्रम्] (१,४.१७च्) अभिप्लवं पुरस्ताद् विषुवतः पूर्वम् उपयन्ति (१,४.१७द्) पृष्ट्यम् उपरिष्टात् (१,४.१७ए) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस् (१,४.१७f) तस्मात् पूर्वे वयसि पुत्राः पितरम् उपजीवन्ति (१,४.१७ग्) पृष्ठ्यं पश्चाद् विषुवतः पूर्वम् उपयन्त्य् अभिप्लवम् उपरिष्टात् (१,४.१७ह्) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस् (१,४.१७इ) तस्माद् उत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद (१,४.१७ज्) तद् अप्य् एतद् ऋचोक्तं <शतम् इन् नु शरदो अन्ति देवा यत्रा नश् चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर् गन्तोः [ऋV १.८९.९]>इति (१,४.१७क्) उप ह वा एनं पूर्वे वयसि पुत्राः पितरम् उपजीवन्त्य् उपोत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद ॥ १७ ॥

(१,४.१८अ) अथ हैष महासुपर्णस् (१,४.१८ब्) तस्य यान् पुरस्ताद् विषुवतः षण्मासान् उपयन्ति स दक्षिणः पक्षः (१,४.१८च्) अथ यान् आवृत्तान् उपरिष्टात् षड् उपयन्ति स उत्तरः पक्षः (१,४.१८द्) आत्मा वै संवत्सरस्य विषुवान् अङ्गानि पक्षौ (१,४.१८ए) यत्र वा आत्मा तत् पक्षौ (१,४.१८f) यत्र वै पक्षौ तद् आत्मा (१,४.१८ग्) न वा आत्मा पक्षाव् अतिरिच्यते (१,४.१८ह्) नो पक्षाव् आत्मानम् अतिरिच्येते इति (१,४.१८इ) एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात् ॥ १८ ॥ [एद्. बूयात्]

(१,४.१९अ) तद् आहुर् यद् द्वादश मासाः संवत्सरो ऽथ हैतद् अहर् अवाप्नुयामेति (१,४.१९ब्) यद् वैषुवतम् अपरेषां स्विदितमहां परेषाम् इति (१,४.१९च्) अपरेषां चैव परेषां चेति ब्रूयात् (१,४.१९द्) आत्मा वै संवत्सरस्य विषुवान् अङ्गानि मासाः (१,४.१९ए) यत्र वा आत्मा तद् अङ्गानि (१,४.१९f) यत्राङ्गानि तद् आत्मा (१,४.१९ग्) न वा आत्माङ्गान्य् अतिरिच्यते नो ऽङ्गान्य् आत्मानम् अतिरिच्यन्त इति (१,४.१९ह्) एवम् उ हैव तद् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात् (१,४.१९इ) स वा एष संवत्सरः ॥ १९ ॥

(१,४.२०अ) तद् आहुः कथम् उभयतोज्योतिषो ऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य इति (१,४.२०ब्) उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत इति (१,४.२०च्) एष ह वा एतेषां ज्योतिर् य एनं प्रमृदीव तपति (१,४.२०द्) देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते (१,४.२०ए) तद् य एवंविदुषां दीक्षितानां पापकं कीर्तयद् एते एवास्य तद् देवचक्रे शिरश् छिन्दतः (१,४.२०f) दशरात्रम् उद्धिः (१,४.२०ग्) पृष्ठ्याभिप्लवौ चक्रे (१,४.२०ह्) दशरात्रम् उद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस् (१,४.२०इ) तयो स्तोत्राणि च शस्त्राणि च संचारेयत् (१,४.२०ज्) यः संचारयेत् तस्माद् इमे पुरुषे प्राणा नाना सन्त एकोदयाच् छरीरम् अधिवसति यन् न संचारयेत् प्रमायुको ह यजमानः स्यात् (१,४.२०क्) एष ह वै प्रमायुको यो ऽन्धो वा बधिरो वा (१,४.२०ल्) नवाग्निष्टोमा मासि संपद्यन्ते (१,४.२०म्) नव वै प्राणाः (१,४.२०न्) प्राणैर् यज्ञस् तायते (१,४.२०ओ) एकविंशतिर् उक्थ्याः (१,४.२०प्) एक उक्थ्यः षोडशी (१,४.२०ॠ) अन्नं वा उक्थ्यः (१,४.२०र्) वीर्यं षोडश्य् एव (१,४.२०स्) तथा रूढ्वा स्वर्गं लोकम् अध्यारोहन्ति ॥ २० ॥

(१,४.२१अ) अथातो ऽह्नाम् अध्यारोहः (१,४.२१ब्) प्रायणीयेनातिरात्रेणोदयनीयम् अतिरात्रम् अध्यारोहन्ति चतुर्विंशेन महाव्रतम् (१,४.२१च्) अभिप्लवेन परम् अभिप्लवम् (१,४.२१द्) पृष्ठ्येन परं पृष्ठ्यम् (१,४.२१ए) अभिजिताभिजितं स्वरसामभिः परान्त् स्वरसामानः (१,४.२१f) अथैतद् अहर् अवाप्नुयामेति यद् वैषुवतम् अपरेषां स्विदितमह्नां परेषाम् इत्य् अपरेषां चैव परेषां चेति ब्रूयात् (१,४.२१ग्) स वा एष संवत्सरः ॥ २१ ॥

(१,४.२२अ) अथातो ऽह्नां निवाहः (१,४.२२ब्) प्रायणीयो ऽतिरात्रश् चतुर्विंशायाह्ने निवहति (१,४.२२च्) चतुर्विंशम् अहर् अभिप्लवाय (१,४.२२द्) अभिप्लवः पृष्ठ्याय (१,४.२२ए) पृष्ठ्यो ऽभिजिते (१,४.२२f) अभिजित् स्वरसामभ्यः (१,४.२२ग्) स्वरसामानो विषुवते (१,४.२२ह्) विषुवान्त् स्वरसामभ्यः (१,४.२२इ) स्वरसामनो विश्वजिते (१,४.२२ज्) विश्वजित् पृष्ठ्याभिप्लवाभ्याम् (१,४.२२क्) पृष्ठ्याभिप्लवौ गवायुर्भ्याम् (१,४.२२ल्) गवायुषी दशरात्राय (१,४.२२म्) दशरात्रो महाव्रताय (१,४.२२न्) महाव्रतम् उदनीयायातिरात्राय (१,४.२२ओ) उदयनीयो ऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ २२ ॥ [एद्. ऽतिरत्रः]

(१,४.२३अ) आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति (१,४.२३ब्) त आदित्या लघुभिः सामभिश् चतुर्भि स्तोमैर् द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकम् अभ्यप्लवन्त (१,४.२३च्) यद् अभ्यप्लवन्त तस्माद् अभिप्लवः (१,४.२३द्) अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकम् अभ्यस्पृशन्त (१,४.२३ए) यद् अभ्यस्पृशन्त तस्मात् स्पृश्यस् (१,४.२३f) तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्य् आचक्षते परोक्षेण (१,४.२३ग्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,४.२३ह्) अभिप्लवात् पृष्ठ्यो निर्मितः (१,४.२३इ) पृष्ठ्याद् अभिजित् (१,४.२३ज्) अभिजितः स्वरसामानः (१,४.२३क्) स्वरसामभ्यो विषुवान् (१,४.२३ल्) विषुवतः स्वरसामानः (१,४.२३म्) स्वरसामभ्यो विश्वजित् (१,४.२३न्) विश्वजितः पृष्ठ्याभिप्लवौ (१,४.२३ओ) पृष्ठ्याभिप्लवाभ्यां गवायुषी (१,४.२३प्) गवायुर्भ्यां दशरात्रस् [एद्. दशरत्रस्] (१,४.२३ॠ) तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि (१,४.२३र्) तेषां शतंशतं रथानान्यन्तरं तद् यथारण्यान्य् आरूढा अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते (१,४.२३स्) एवं हैवैते प्रप्लवन्ते ये ऽविद्वांस उपयन्त्यि (१,४.२३त्) अथ ये विद्वांस उपयन्ति तद् यथा प्रवाहात् प्रवाहं स्थलात् स्थलं समात् समं सुखात् सुखम् अभयाद् अभयम् उपसंक्रामन्तीत्य् एवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २३ ॥

(१,४.२४अ) प्रेदिर् ह वै कौशाम्बेयः कौसुरुबिन्दुर् उद्दालक आरुणौ ब्रह्मचर्यम् उवास (१,४.२४ब्) तम् आचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्य् अमन्यतेति (१,४.२४च्) कति त्वेवेति (१,४.२४द्) दशेति होवाच (१,४.२४ए) दश वा इति होवाच (१,४.२४f) दशाक्षरा विराड् विराजो यज्ञः (१,४.२४ग्) कति त्वेवेति (१,४.२४ह्) नवेति होवाच (१,४.२४इ) नव वा इति होवाच (१,४.२४ज्) नव वै प्राणाः (१,४.२४क्) प्राणैर् यज्ञस् तायते (१,४.२४ल्) कति त्वेवेति (१,४.२४म्) अष्टेति होवाच (१,४.२४न्) अष्टौ वा इति होवाच (१,४.२४ओ) अष्टाक्षरा गायत्री (१,४.२४प्) गायत्री यज्ञः (१,४.२४ॠ) कति त्वेवेति (१,४.२४र्) सप्तेति होवाच (१,४.२४स्) सप्त वा इति होवाच (१,४.२४त्) सप्त छन्दांसि (१,४.२४उ) छन्दोभिर् यज्ञस् तायते (१,४.२४व्) कति त्वेवेति (१,४.२४w) षड् इति होवाच (१,४.२४x) षड् वा इति होवाच (१,४.२४य्) षड् वा ऋतवः (१,४.२४श्) ऋतूनाम् आप्त्यै (१,४.२४अअ) कति त्वेवेति (१,४.२४ब्ब्) पञ्चेति होवाच (१,४.२४च्च्) पञ्च वा इति होवाच (१,४.२४द्द्) पञ्चपदा पङ्क्तिः (१,४.२४एए) पाङ्क्तो यज्ञः (१,४.२४ff) कति त्वेवेति (१,४.२४ग्ग्) चत्वारीति होवाच (१,४.२४ह्ह्) चत्वारि वा इति होवाच (१,४.२४इइ) चत्वारो वै वेदाः (१,४.२४ज्ज्) वेदैर् यज्ञस् तायते (१,४.२४क्क्) कति त्वेवेति (१,४.२४ल्ल्) त्रीणीति होवाच (१,४.२४म्म्) त्रीणि वा इति होवाच (१,४.२४न्न्) त्रिषवणो वै यज्ञः (१,४.२४ओओ) सवनैर् यज्ञस् तायते (१,४.२४प्प्) कति त्वेवेति (१,४.२४ॠॠ) द्वे इति होवाच (१,४.२४र्र्) द्वे वा इति होवाच (१,४.२४स्स्) द्विपाद् वै पुरुषः (१,४.२४त्त्) द्विप्रतिष्ठः पुरुषः (१,४.२४उउ) पुरुषो वै यज्ञः (१,४.२४व्व्) कति त्वेवेति (१,४.२४ww) एकम् इति होवाच (१,४.२४xx) एकं वा इति होवाच (१,४.२४य्य्) अहरहर् इत्य् एव सर्वं संवत्सरं ॥ २४ ॥

(१,४.२४चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः ॥


(१,५.१अ) ओम् अभिप्लवः षडहः (१,५.१ब्) षड् ढ्य् अहानि भवन्ति ज्योतिर् गौर् आयुर् गौर् आयुर् ज्योतिः (१,५.१च्) अभिप्लवः पञ्चाहः (१,५.१द्) पञ्च ह्य् एवाहानि भवन्ति (१,५.१ए) यद् ध्य् एव प्रथमम् अहस् तद् उत्तमम् अहः (१,५.१f) अभिप्लवश् चतुरहः (१,५.१ग्) चत्वारो हि स्तोमा भवन्ति त्रिवृत् पञ्चदशः सप्तदश एकविंश एव (१,५.१ह्) अभिप्लवस् त्र्यहस् (१,५.१इ) त्र्यावृत्तिर् ज्योतिर् गौर् आयुः (१,५.१ज्) अभिप्लवो द्व्यहः (१,५.१क्) द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव (१,५.१ल्) अभिप्लव एकाह (१,५.१म्) एकाहस्य हि स्तोमैस् तायते (१,५.१न्) चतुर्णाम् उक्थ्यानां द्वादश स्तोत्राण्य् अतिरिच्यन्ते (१,५.१ओ) स सप्तमो ऽग्निष्टोमस् (१,५.१प्) तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणम् ॥ १ ॥


(१,५.२अ) अथातो गाधप्रतिष्ठा (१,५.२ब्) समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते (१,५.२च्) तेषां तीर्थम् एव प्रायणीयो ऽतिरात्रस् (१,५.२द्) तीर्थेन हि प्रतरन्ति (१,५.२ए) तद् यथा समुद्रं तीर्थेन प्रतरेयुस् तादृक् तत् (१,५.२f) गाधं प्रतिष्ठा चतुर्विंशम् अहर् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (१,५.२ग्) प्रस्नयो ऽभिप्लवः (१,५.२ह्) प्रस्नेयः पृष्ठ्यः (१,५.२इ) गाधं प्रतिष्ठाभिजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (१,५.२ज्) नीविदग्ध एव प्रथमः स्वरसामा (१,५.२क्) जानुदग्धो द्वितीयः (१,५.२ल्) कुल्फदग्धस् तृतीयः (१,५.२म्) द्वीपः प्रतिष्ठा विषुवान् यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (१,५.२न्) कुल्फदग्ध एव प्रथमो ऽर्वाक् स्वरसामा (१,५.२ओ) जानुदग्धो द्वितीयः (१,५.२प्) नीविदग्धस् तृतीयः (१,५.२ॠ) गाधं प्रतिष्ठा विश्वजिद् यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (१,५.२र्) प्रस्नेयः पृष्ठ्यः प्रस्नेयो ऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः (१,५.२स्) गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस् तादृक् तत् (१,५.२त्) तेषां तीर्थम् एवोदयनीयो ऽतिरात्रस् (१,५.२उ) तीर्थेन ह्य् उद्यन्ति (१,५.२व्) तद् यथा समुद्रं तीर्थेनोदेयुस् तादृक् तत् (१,५.२w) अथ ह स्माह श्वेतकेतुर् आरुणेयः संवत्सराय न्व् अहं दीक्षा इति [एद्. दिक्षा] (१,५.२x) तस्य ह पिता मुखम् उदीक्ष्योवाच वेत्थ नु त्वम् आयुष्मन्त् संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. ড়त्यल्] (१,५.२य्) वेदेति (१,५.२श्) एतद् ध स्मैतद् विद्वानाहेति ब्राह्मणम् ॥ २ ॥


(१,५.३अ) पुरुषो वाव संवत्सरस् (१,५.३ब्) तस्य पादाव् एव प्रायणीयो ऽतिरात्रः (१,५.३च्) पादाभ्यां हि प्रयन्ति तयोर् यच् छुक्लं तद् अह्नो रूपम् (१,५.३द्) यत् कृष्णं तद् रात्रेः (१,५.३ए) नखानि नक्षत्राणां रूपम् (१,५.३f) लोमान्य् ओषधिवनस्पतीनाम् (१,५.३ग्) ऊरू चतुर्विंशम् अहः (१,५.३ह्) उरो ऽभिप्लवः (१,५.३इ) पृष्ठं पृष्ठ्यः (१,५.३ज्) शिर एव त्रिवृत् त्रिवृतं ह्य् एव शिरो भवति त्वग् अस्थि मज्जा मस्तिष्कम् (१,५.३क्) ग्रीवाः पञ्चदशश् चतुर्दश ह्य् एवैतस्यां करूकराणि भवन्ति (१,५.३ल्) वीर्यं पञ्चदशम् (१,५.३म्) तस्माद् आभिरण्वीभिः सतीभिर् गुरुं भारं हरति (१,५.३न्) तस्माद् ग्रीवाः पञ्चदशः (१,५.३ओ) उरः सप्तदश. (१,५.३प्) अष्टाव् अन्ये जत्रवो ऽष्टाव् अन्य उरः सप्तदशम् (१,५.३ॠ) तस्माद् उरः सप्तदशः (१,५.३र्) उदरम् एकविंशः (१,५.३स्) विंशतिर् ह्य् एवैतस्यान्तर उदरे कुन्तापानि भवन्त्य् उदरम् एकविंशम् (१,५.३त्) तस्माद् उदरम् एकविंशः (१,५.३उ) पार्श्वे त्रिणवस् (१,५.३व्) त्रयोदशान्याः पर्शवस् त्रयोदशान्याः पार्श्वे त्रिणवे (१,५.३w) तस्मात् पार्श्वे त्रिणवः (१,५.३x) अनूकं त्रयस्त्रिंशः (१,५.३य्) द्वात्रिंशतिर् ह्य् एवैतस्य पृष्टीकुण्डीलानि भवन्ति (१,५.३श्) अनूकं त्रयस्त्रिशम् (१,५.३अअ) तस्माद् अनूकं त्रयस्त्रिंशस् (१,५.३ब्ब्) तस्यायम् एव दक्षिणो बाहुर् अभिजित् (१,५.३च्च्) तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः (१,५.३द्द्) आत्मा विषुवान् (१,५.३एए) तस्येमे सव्ये त्रयः प्राणा अर्वाक् स्वरसामानस् (१,५.३ff) तस्यायं सव्यो बाहुर् विश्वजित् (१,५.३ग्ग्) उक्तौ पृष्ठ्याभिप्लवौ (१,५.३ह्ह्) याव् अवाञ्चौ प्राणौ ते गवायुषी (१,५.३इइ) अङ्गानि दशरात्रः (१,५.३ज्ज्) मुखं महाव्रतम् (१,५.३क्क्) तस्य हस्ताव् एवोदयनीयो ऽतिरात्रः (१,५.३ल्ल्) हस्ताभ्यां ह्य् उद्यन्ति ॥ ३ ॥


(१,५.४अ) पुरुषो वाव संवत्सरस् (१,५.४ब्) तस्य प्राण एव प्रायणीयो ऽतिरात्रः (१,५.४च्) प्राणेन हि प्रयन्ति (१,५.४द्) वाग् आरम्भणीयम् अहः (१,५.४ए) यद्यद् आरभते वाग् आरभते (१,५.४f) वाचैव तद् आरभते (१,५.४ग्) तस्यायम् एव दक्षिणः पाणिर् अभिप्लवस् (१,५.४ह्) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम् (१,५.४इ) गायत्र्या आयतने (१,५.४ज्) तस्माद् इयम् अस्यै ह्रसिष्ठा (१,५.४क्) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम् (१,५.४ल्) त्रिष्टुभ आयतने (१,५.४म्) तस्माद् इयम् अस्यै वरिष्ठा (१,५.४न्) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम् (१,५.४ओ) जगत्या आयतने (१,५.४प्) तस्माद् इयम् अनयोर् वरिष्ठा (१,५.४ॠ) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम् (१,५.४र्) पङ्क्त्या आयतने (१,५.४स्) पृथुर् इव वै पङ्क्तिस् (१,५.४त्) तस्माद् इयम् आसां प्रथिष्ठा (१,५.४उ) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम् (१,५.४व्) विराज आयतने (१,५.४w) अन्नं वै श्रीः (१,५.४x) विराड् अन्नाद्यम् (१,५.४य्) अन्न्नाद्यस्य श्रियो ऽवरुद्ध्यै (१,५.४श्) तस्माद् इयम् आसां वरिष्ठा (१,५.४अअ) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम् (१,५.४ब्ब्) अतिछन्दस आयतने (१,५.४च्च्) अतिछन्दो वै छन्दसाम् आयतनम् (१,५.४द्द्) तस्माद् इदं प्रथिष्ठं फलकम् (१,५.४एए) तस्येदं प्रातःसवनम् इदं माध्यन्दिनं सवनम् इदं तृतीयसवनम् (१,५.४ff) स इतः स इतो ऽभिप्लवः स इत आत्मा पृष्ठ्यः (१,५.४ग्ग्) प्लवतीवाभिप्लवस् (१,५.४ह्ह्) तिष्ठतीव पृष्ठ्यः (१,५.४इइ) प्लवत इव ह्य् एवम् अङ्गैस् (१,५.४ज्ज्) तिष्ठतीवात्मना (१,५.४क्क्) तस्यायम् एव दक्षिणः कर्णो ऽभिजित् (१,५.४ल्ल्) तस्य यद् दक्षिणम् अक्ष्णः शुक्लं स प्रथमः स्वरसामा (१,५.४म्म्) यत् कृष्णं स द्वितीयः (१,५.४न्न्) यन् मण्डलं स तृतीयः (१,५.४ओओ) नासिके विषुवान् मण्डलम् एव प्रथमो ऽर्वाक् स्वरसामा (१,५.४प्प्) यत् कृष्णं स द्वितीयः (१,५.४ॠॠ) यच् छुक्लं स तृतीयस् (१,५.४र्र्) तस्यायं सव्यः कर्णो विश्वजित् (१,५.४स्स्) उक्तौ पृष्ठ्याभिप्लवौ (१,५.४त्त्) याव् अवाञ्चौ प्राणौ ते गवायुषी (१,५.४उउ) अङ्गानि दशरात्रः (१,५.४व्व्) मुखं महाव्रतम् (१,५.४ww) तस्योदान एवोदयनीयो ऽतिरात्रः (१,५.४xx) उदानेन ह्य् उद्यन्ति ॥ ४ ॥

(१,५.५अ) पुरुषो वाव संवत्सरः (१,५.५ब्) पुरुष इत्य् एकम् (१,५.५च्) संवत्सर इत्य् एकम् (१,५.५द्) अत्र तत् समम् (१,५.५ए) द्वे अहोरात्रे संवत्सरस्य (१,५.५f) द्वाव् इमौ पुरुषे प्राणाव् इति (१,५.५ग्) अत्र तत् समम् (१,५.५ह्) त्रयो वा ऋतवः संवत्सरस्य (१,५.५इ) त्रय इमे पुरुषे प्राणा इति (१,५.५ज्) अत्र तत् समम् (१,५.५क्) षड् वा ऋतवः संवत्सरस्य (१,५.५ल्) षड् इमे पुरुषे प्राणा इति (१,५.५म्) अत्र तत्समम् (१,५.५न्) सप्त वा ऋतवः संवत्सरस्य (१,५.५ओ) सप्तेमे पुरुषे प्राणा इति (१,५.५प्) अत्र तत् समम् (१,५.५ॠ) द्वादश मासाः संवत्सरस्य (१,५.५र्) द्वादशेमे पुरुषे प्राणा इति (१,५.५स्) अत्र तत् समम् (१,५.५त्) त्रयोदश मासाः संवत्सरस्य (१,५.५उ) त्रयोदशेमे पुरुषे प्राणा इति (१,५.५व्) अत्र तत् समम् (१,५.५w) चतुर्विंशतिर् अर्धमासाः संवत्सरस्य (१,५.५x) चतुर्विंशो ऽयं पुरुषः (१,५.५य्) विंशत्यङ्गुलिश् चतुरङ्ग इति (१,५.५श्) अत्र तत् समम् (१,५.५अअ) षड्विंशतिर् अर्धमासाः संवत्सरस्य (१,५.५ब्ब्) षड्विंशो ऽयं पुरुषः (१,५.५च्च्) प्रतिष्ठे षड्विंशे इति (१,५.५द्द्) अत्र तत् समम् (१,५.५एए) त्रीणि च ह वै शतानि षष्टिश् च संवत्सरस्याहोरात्राणीति (१,५.५ff) एतावन्त एव पुरुषस्य प्राणा इति (१,५.५ग्ग्) अत्र तत् समम् (१,५.५ह्ह्) सप्त च ह वै शतानि विंशतिश् च संवत्सरस्याहानि च रात्रयश् चेति (१,५.५इइ) एतावन्त एव पुरुषस्यास्थीनि च मज्जानश् चेति (१,५.५ज्ज्) अत्र तत् समम् (१,५.५क्क्) चतुर्दश च ह वै शतानि चत्वारिंशच् च संवत्सरस्यार्धाहाश् चार्धरात्रयश् चेति (१,५.५ल्ल्) एतावन्त एव पुरुषस्य स्थूरा मांसानीति (१,५.५म्म्) अत्र तत् समम् (१,५.५न्न्) अष्टाविंशतिश् च ह वै शतान्य् अशीतिश् च संवत्सरस्य पादाहाश् च पादरात्रयश् चेति (१,५.५ओओ) एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति (१,५.५प्प्) अत्र तत् समम् (१,५.५ॠॠ) दश च ह वै सहस्राण्य् अष्टौ च शतानि संवत्सरस्य मुहूर्ता इति (१,५.५र्र्) एतावन्त एव पुरुषस्य पेशशमरा इति (१,५.५स्स्) अत्र तत् समम् (१,५.५त्त्) यावन्तो मुहूर्ताः पञ्चदश कृत्वस् तावन्तः प्राणाः (१,५.५उउ) यावन्तः प्राणाः पञ्चदश कृत्वस् तावन्तो ऽपानाः (१,५.५व्व्) यावन्तो ऽपानाः पञ्चदश कृत्वस् तावन्तो व्यानाः (१,५.५ww) यावन्तो व्यानाः पञ्चदश कृत्वस् तावन्तः समानाः (१,५.५xx) यावन्तः समानाः पञ्चदश कृत्वस् तावन्त उदानाः (१,५.५य्य्) यावन्त उदानाः पञ्चदश कृत्वस् तावन्त्य् एतादीनि (१,५.५श्श्) यावन्त्य् एतादीनि तावन्त्य् एतर्हीणि (१,५.५अअअ) यावन्त्य् एतर्हीणि तावन्ति स्वेदायनानि (१,५.५ब्ब्ब्) यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि (१,५.५च्च्च्) यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः (१,५.५द्द्द्) यावन्तो रोमकूपाः पञ्चदश कृत्वस् तावन्तो वर्षतो धारास् (१,५.५एएए) तद् एतत् क्रोशशतिकं परिमाणम् (१,५.५fff) तद् अप्य् एतद् ऋचोक्तं <श्रमाद् अन्यत्र परिवर्तमानश् चरन् वासीनो यदि वा स्वपन्न् अपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणाम् अष्टौ च शतानि संवत्सरस्य मुहूर्तान् यान् वदन्त्य् अहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [श्Bं १२.३.२.७-८]>इति ब्राह्मणम् ॥ ५ ॥

(१,५.६अ) संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः (१,५.६ब्) एकम् एव पुरस्ताद् विषुवतो ऽतिरात्रम् उपयन्त्य् एकम् उपरिष्टात् (१,५.६च्) त्रिपञ्चाशतम् एव पुरस्ताद् विषुवतो ऽग्निष्टोमान् उपयन्ति त्रिपञ्चाशतम् उपरिष्टात् (१,५.६द्) विंशतिशतम् एव पुरस्ताद् विषुवत उक्थ्यान् उपयन्ति विंशतिशतम् उपरिष्टात् (१,५.६ए) षड् एव पुरस्ताद् विषुवतः षोडशिन उपयन्ति षड् उपरिष्टात् (१,५.६f) त्रिंशद् एव पुरस्ताद् विषुवतः षडहान् उपयन्ति त्रिंशद् उपरिष्टात् (१,५.६ग्) सैषा संवत्सरस्य समता (१,५.६ह्) स य एवम् एतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवान् अप्येतीति ब्रह्मणम् ॥ ६ ॥

(१,५.७अ) अथातो यज्ञक्रमाः (१,५.७ब्) अग्न्याधेयम् (१,५.७च्) अग्न्याधेयात् पूर्णाहुतिः (१,५.७द्) पूर्णहुतेर् अग्निहोत्रम् (१,५.७ए) अग्निहोत्राद् दर्शपूर्णमासौ (१,५.७f) दर्शपूर्णमासाभ्याम् आग्रयणम् (१,५.७ग्) आग्रयणाच् चातुर्मास्यानि (१,५.७ह्) चातुर्मास्येभ्यः पशुबन्धः (१,५.७इ) पशुबन्धाद् अग्निष्टोमः (१,५.७ज्) अग्निष्टोमाद् राजसूयः (१,५.७क्) राजसूयाद् वाजपेयः (१,५.७ल्) वाजपेयाद् अश्वमेधः (१,५.७म्) अश्वमेधात् पुरुषमेधः (१,५.७न्) पुरुषमेधात् सर्वमेधः (१,५.७ओ) सर्वमेधाद् दक्षिणावन्तः (१,५.७प्) दक्षिणावद्भ्यो ऽदक्षिणाः (१,५.७ॠ) अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन् (१,५.७र्) ते वा एते यज्ञक्रमाः (१,५.७स्) स य एवम् एतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्येतीति ब्राह्मणम् ॥ ७ ॥

(१,५.८अ) प्रजापतिर् अकामयतानन्त्यम् अश्नुवीयेति (१,५.८ब्) सो ऽग्नीन् आधाय पूर्णाहुत्यायजत (१,५.८च्) सो ऽन्तम् एवापश्यत् (१,५.८द्) सो ऽग्निहोत्रेणेष्ट्वान्तम् एवापश्यत् (१,५.८ए) स दर्शपूर्णमासाभ्याम् इष्ट्वान्तम् एवापश्यत् (१,५.८f) स आग्रयणेनेष्ट्वान्तम् एवापश्यत् (१,५.८ग्) स चातुर्मास्यैर् इष्ट्वान्तम् एवापश्यत् (१,५.८ह्) स पशुबन्धेनेष्ट्वान्तम् एवापश्यत् (१,५.८इ) सो ऽग्निष्टोमेनेष्ट्वान्तम् एवापश्यत् (१,५.८ज्) स राजसूयेनेष्ट्वा राजेति नामाधत्त (१,५.८क्) सो ऽन्तम् एवापश्यत् (१,५.८ल्) स वाजपेयेनेष्ट्वा सम्राड् इति नामाधत्त (१,५.८म्) सो ऽन्तम् एवापश्यत् (१,५.८न्) सो ऽश्वमेधेनेष्ट्वा स्वराड् इति नामाधत्त (१,५.८ओ) सो ऽन्तम् एवापश्यत् (१,५.८प्) स पुरुषमेधेनेष्ट्वा विराड् इति नामाधत्त (१,५.८ॠ) सो ऽन्तम् एवापश्यत् (१,५.८र्) स सर्वमेधेनेष्ट्वा सर्वराड् इति नामाधत्त (१,५.८स्) सो ऽन्तम् एवापश्यत् (१,५.८त्) सो ऽहीनैर् दक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत् (१,५.८उ) सो ऽहीनैर् अदक्षिणावद्भिर् इष्ट्वान्तम् एवापश्यत् (१,५.८व्) स सत्त्रेणोभयतो ऽतिरात्रेणान्ततो ऽयजत (१,५.८w) वाचं ह वै होत्रे प्रायच्छत् (१,५.८x) प्राणम् अध्वर्यवे चक्षुर् उद्गात्रे मनो ब्रह्मणे ऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः (१,५.८य्) एवम् आनन्त्यम् आत्मानं दत्त्वानन्त्यम् आश्नुत (१,५.८श्) तद् या दक्षिणा आनयत् ताभिर् आत्मानं निष्क्रीणीय (१,५.८अअ) तस्माद् एतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत (१,५.८ब्ब्) यो ह्य् अनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सो ऽनिष्क्रीय प्रैतीति ब्राह्मणम् ॥ ८ ॥

(१,५.९अ) यद् वै संवत्सराय संवत्सरसदो दीक्षन्ते कथम् एषाम् अग्निहोत्रम् अनन्तरितं भवति (१,५.९ब्) व्रतेतेति ब्रूयात् (१,५.९च्) कथम् एषां दर्शो ऽनन्तरितो भवति (१,५.९द्) दध्ना च पुरोडाशेन चेति ब्रूयात् (१,५.९ए) कथम् एषां पौर्णमासम् अनन्तरितं भवति (१,५.९f) आज्येन च पुरोडाशेन चेति ब्रूयात् (१,५.९ग्) कथम् एषाम् आग्रयणम् अनन्तरितं भवति (१,५.९ह्) सौम्येन चरुणेति ब्रूयात् (१,५.९इ) कथम् एषां चातुर्मास्यान्य् अनन्तरितानि भवन्ति (१,५.९ज्) पयस्ययेति ब्रूयात् (१,५.९क्) कथम् एषां पशुबन्धो ऽनन्तरितो भवति (१,५.९ल्) पशुना च पुरोडाशेन चेति ब्रूयात् (१,५.९म्) कथम् एषां सौम्यो ऽध्वरो ऽनन्तरितो भवति (१,५.९न्) ग्रहैर् इति ब्रूयात् (१,५.९ओ) कथम् एषां गृहमेधो ऽनन्तरितो भवति (१,५.९प्) धानाकरम्भैर् इति ब्रूयात् (१,५.९ॠ) कथम् एषां पितृयज्ञो ऽनन्तरितो भवति (१,५.९र्) औपासनैर् इति ब्रूयात् (१,५.९स्) कथम् एषां मिथुनम् अनन्तरितं भवति (१,५.९त्) हिंकारेनेति ब्रूयात् (१,५.९उ) सैषा संवत्सरे यज्ञक्रतूनाम् अपीतिः (१,५.९व्) स य एवम् एतां संवत्सरे यज्ञक्रतूनाम् अपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवान् अप्य् एतीति ब्राह्मणम् ॥ ९ ॥

(१,५.१०अ) देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे (१,५.१०ब्) तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्य् आसन्न् अथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि (१,५.१०च्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१०द्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१०ए) तद् अयातयाम मध्ये यज्ञस्यापश्यन् (१,५.१०f) तेनायातयाम्ना या वेदे व्यष्टिर् आसीत् तां पञ्चस्व् अपश्यन्न् ऋचि यजुषि साम्नि शान्ते ऽथ घोरे (१,५.१०ग्) ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति (१,५.१०ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा] (१,५.१०इ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१०ज्) तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यम् अपश्यन् (१,५.१०क्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१०ल्) स खलु द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिर् द्वाशमासांत् सुत्याभिः (१,५.१०म्) अथ यद् द्वादश मासान् दीक्षाभिर् एति द्वादशमासान् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति (१,५.१०न्) अथ यद् द्वादश मासांत् सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति (१,५.१०ओ) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१०प्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१०ॠ) तत एतं संवत्सरंम् तापश्चितस्याञ्जस्यम् अपश्यन् (१,५.१०र्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१०स्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१०त्) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१०उ) तत एतं द्वादशाहं संवत्सरस्याञ्जस्यम् अपश्यन् (१,५.१०व्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१०w) स खलु द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिर् द्वादशाहं सुत्याभिः (१,५.१०x) अथ यद् द्वादशाहं दीक्षाभिर् एति द्वादशाहम् उपसद्भिस् तेनैताव् अग्न्यर्काव् आप्नोति (१,५.१०य्) अथ यद् द्वादशाहं सुत्याभिस् तेनेदं महदुक्थम् अवाप्नोति (१,५.१०श्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप] (१,५.१०अअ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१०ब्ब्) तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यम् अपश्यन् (१,५.१०च्च्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१०द्द्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१०एए) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१०ff) तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यम् अपश्यन् (१,५.१०ग्ग्) ते ह्य् एव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१०ह्ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१०इइ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१०ज्ज्) स वा एष विश्वजिद् यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१०क्क्) एष ह प्रजानां प्रजापतिर् यद् विश्वजिद् इति ब्राह्मणम् ॥ १० ॥

(१,५.११अ) पुरुषं ह वै नारायणं प्रजापतिर् उवाच यजस्य यजस्वेति (१,५.११ब्) स होवाच यजस्व यजस्वेत्य् एवं हात्थ मा (१,५.११च्) त्रिर् अपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन (१,५.११द्) यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो ऽहं वा एतद् वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास् तृतीयसवनेन यज्ञवास्तुन्य् एव पर्यशिषो यज्ञवास्तुम् इत्य् एवम् आशिषो विद्वांसो नूनं त्वा याजयेयुः (१,५.११ए) एते ह वा अविद्वांसो यत्रानृग्विद् धोता भवत्य् अयजुर्विद् अध्वर्युर् असामविद् उद्गाताभृग्वङ्गिरोविद् ब्रह्मा (१,५.११f) यजस्वैव हन्त तु ते तद् वक्ष्यामि (१,५.११ग्) यथा सूत्रे मणिर् इव सूत्रम् एतान्य् उक्थाहानि भवन्ति सूत्रम् इव वा मणाव् इति (१,५.११ह्) तस्माद् य एव सर्ववित् स्यात् तं ब्रह्माणं कुर्वीत (१,५.११इ) एष ह वै विद्वांत् सर्वविद् ब्रह्मा यद् भृग्वङ्गिरोवित् (१,५.११ज्) एते ह वा अस्य सर्वस्य शमयितारः पालयितारस् (१,५.११क्) तमाद् ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ ११ ॥

(१,५.१२अ) श्येनो ऽसि गायत्रछन्दा (१,५.१२ब्) अनु त्वारभे (१,५.१२च्) स्वस्ति मा संपारयेति (१,५.१२द्) स यद् आह श्येनो ऽसीति सोमं वा एतद् आह (१,५.१२ए) एष ह वा अग्निर् भूत्वास्मिंल् लोके संशाययति (१,५.१२f) तद् यत् संशाययति तस्माच् छेयनस् (१,५.१२ग्) तच् छेयनस्य श्येनत्वम् (१,५.१२ह्) स यद् आह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निं सन्तम् अन्वारभते (१,५.१२इ) स यद् आह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच् छन्दसा वसुभिर् देवैः प्रातःसवने ऽस्मिंल् लोके ऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद

(१,५.१३अ) अथ माध्यंदिने पवमाने वाचयति सम्राड् असि त्रिष्टुप्छन्दा (१,५.१३ब्) अनु त्वारभे (१,५.१३च्) स्वस्ति मा संपारयेति (१,५.१३द्) स यद् आह सम्राड् असीति सोमं वा एतद् आह (१,५.१३ए) एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति (१,५.१३f) तद् यत् सम्राजति तस्मात् सम्राट् (१,५.१३ग्) तत् सम्राजस्य सम्राट्त्वम् (१,५.१३ह्) स यद् आह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने ऽन्तरिक्षलोके वायुं सन्तम् अन्वारभते (१,५.१३इ) स यद् आह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति (१,५.१३ज्) त्रैष्टुभेनैवैनं तच् छन्दसा रुद्रैर् देवैर् माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद ॥ १३ ॥

(१,५.१४अ) अथार्भवे पवमाने वाचयति स्वरो ऽसि गयो ऽसि जगच्छन्दा (१,५.१४ब्) अनु त्वारभे (१,५.१४च्) स्वस्ति मा संपारयेति (१,५.१४द्) स यद् आह स्वरो ऽसीति सोमं वा एतद् आह (१,५.१४ए) एष ह वै सूर्यो भूत्वामुष्मिंल् लोके स्वरति (१,५.१४f) तद् यत् स्वरति तस्मात् स्वरस् (१,५.१४ग्) तत् स्वरस्य स्वरत्वम् (१,५.१४ह्) स यद् आह गयो ऽसीति सोमं वा एतद् आह (१,५.१४इ) एष ह वै चन्द्रमा भूत्वा सर्वांल् लोकान् गच्छति (१,५.१४ज्) तद् यद् गच्छति तस्माद् गयस् (१,५.१४क्) तद् गयस्य गयत्वम् (१,५.१४ल्) स यद् आह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्यं सन्तम् अन्वारभते (१,५.१४म्) स यद् आह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच् छन्दसादित्यैर् देवैस् तृतीयसवने ऽमुष्मिंल् लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद ॥ १४ ॥

(१,५.१५अ) अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वम् इति (१,५.१५ब्) पृथिव्य् एव भर्गो ऽन्तरिक्ष एव महो द्यौर् एव यशो ऽप एव सर्वम् (१,५.१५च्) अग्निर् एव भर्गो वायुर् एव मह आदित्य एव यशश् चन्द्रमा एव सर्वम् [एद्. आदित्या] (१,५.१५द्) वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम् (१,५.१५ए) गायत्र्य् एव भर्गस् त्रिष्टुब् एव महो जगत्य् एव यशो ऽनुष्टुब् एव सर्वम् (१,५.१५f) प्राच्य् एव भर्गः प्रतीच्य् एव मह उदीच्य् एव यशो दक्षिणैव सर्वम् (१,५.१५ग्) वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरद् एव सर्वम् (१,५.१५ह्) त्रिवृद् एव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम् (१,५.१५इ) ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम् (१,५.१५ज्) होतैव भर्गो ऽध्वर्युर् एव मह उद्गातैव यशो ब्रह्मैव सर्वम् (१,५.१५क्) वाग् एव भर्गः प्राण एव महश् चक्षुर् एव यशो मन एव सर्वम् ॥ १५ ॥

(१,५.१६अ) स यद् आह मयि भर्ग इति पृथिवीम् एवैतल् लोकानाम् अहाग्निं देवानां वसून् देवान् देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तम् ऋतूनां त्रिवृतं स्तोमानाम् ऋग्वेदं वेदानां हौत्रं होत्रकाणां वाचम् इन्द्रियाणाम् ॥ १६ ॥

(१,५.१७अ) स यद् आह मयि मह इत्य् अन्तरिक्षम् एवैतल् लोकानाम् आह वायुं देवानां रुद्रान् देवान् देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्मम् ऋतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानाम् आध्वर्यवं होत्रकाणां प्राणम् इन्द्रियाणाम् ॥ १७ ॥

(१,५.१८अ) स यद् आह मयि यश इति दिवम् एवैतल् लोकानाम् आहादित्यं देवानाम् आदित्यान् देवगणानां जागतं छन्दसाम् उदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानाम् औद्गात्रं होत्रकाणां चक्षुर् इन्द्रियाणाम् ॥ १७ ॥

(१,५.१९अ) स यद् आह मयि सर्वम् इत्य् अप एवैतल् लोकानाम् आह चन्द्रमसं देवानां विश्वान् देवान् देवगणानाम् आनुष्टुभं छन्दसां दक्षिणां दिशां शरदम् ऋतूनाम् एकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणाम् ॥ १८ ॥

(१,५.२०अ) स वा एष दशधा चतुः संपद्यते (१,५.२०ब्) दश च ह वै चतुर् विराजो ऽक्षराणि (१,५.२०च्) तं गर्भा उपजीवन्ति (१,५.२०द्) श्रीर् वै विराड् (१,५.२०ए) यशो ऽन्नाद्यम् (१,५.२०f) श्रियम् एव तद् विराजं यशस्य् अन्नाद्यो प्रतिष्ठापयति (१,५.२०ग्) प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतिष्ठति (१,५.२०ह्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ २० ॥

(१,५.२१अ) अनर्वाणं ह वै देवं दध्यङ्ङ् आङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति (१,५.२१ब्) स दध्यङ्ङ् आङ्गिरसो ऽब्रवीद् यो वै सप्तदशं प्रजापतिं यज्ञे ऽन्वितं वेद नास्य यज्ञो रिष्यते (१,५.२१च्) न यज्ञपतिं रिष्यन्त इति (१,५.२१द्) ता वा एताः पञ्च व्याहृतयो भवन्त्य् ओ श्रावयास्तु श्रौषड् यज ये यजामहे वौषड् इति (१,५.२१ए) स दध्यङ्ङ् आङ्गिरसो ऽब्रवीन् न वयं विद्मो यदि ब्राह्मणाः स्मो यद्य् अब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति (१,५.२१f) अनर्वाणश् च ह वा ऋतावन्तश् च पितरः स्वधायाम् आवृषायन्त वयं वदामहै वयं वदामहा इति (१,५.२१ग्) सो ऽयात् स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति (१,५.२१ह्) तस्मात् प्रवरे प्रव्रियमाणे वाचयेद् देवाः पितर इति तिस्रः (१,५.२१इ) य एति संयजति स भवति यश् च न ब्रूते यश् च न ब्रूत इति ब्राह्मणम् ॥ २१ ॥

(१,५.२२अ) सावित्रं ह स्मैतं पूर्वे पुरस्तात् पशुम् आलभन्त इत्य् एतर्हि प्राजापत्यम् (१,५.२२ब्) यो ह्य् एव सविता स प्रजापतिर् इति वदन्तस् (१,५.२२च्) तस्माद् उ समुप्याग्नींस् तेन यजेरन् (१,५.२२द्) ते समानधिष्ण्या एव स्युर् ओखासंभरणीयायाः (१,५.२२ए) उखासंभरणीयायां विन्युपयाग्नींस् तया यजेरन् (१,५.२२f) ते नानाधिष्ण्या एव स्युर् आ दीक्षणीयायाः (१,५.२२ग्) दीक्षणीयायां संन्युप्याग्नींस् तया यजेरन् (१,५.२२ह्) ते समानधिष्ण्या एव स्युर् ओदवसानीयायाः (१,५.२२इ) उदवसानीयायां विन्युप्याग्नींस् तया यजेरन् (१,५.२२ज्) ते नानाधिष्ण्या एव स्युः (१,५.२२क्) अथ यदि यजमानस्योपतपेत् पार्श्वतो ऽग्नीन् आधाय तावद् आसीत यावद् अगदः स्यात् (१,५.२२ल्) यदि प्रेयात् स्वैर् एव तम् अग्निभिर् दहेत् (१,५.२२म्) अशवाग्निभिर् इतरे यजमाना आसत इति वदन्तस् (१,५.२२न्) तस्य तद् एव ब्राह्मणं यद् अदः पुरःसवने (१,५.२२ओ) पितृमेध आशिषो व्याख्याताः ॥ २२ ॥

(१,५.२३अ) सायंप्रातर्होमौ स्थालीपाको नवश् च यः । बलिश् च पितृयज्ञश् चाष्टका सप्तमः पशुः ॥ इत्य् एते पाकयज्ञाः (१,५.२३ब्) अग्न्याधेयम् अग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश् चातुर्मास्यानि पशुबन्धो ऽत्र सप्तमः ॥ इत्य् एते हविर्यज्ञाः (१,५.२३च्) अग्निष्टोमो ऽत्यग्निष्टोम उक्थ्यः षोडशिमांस् ततः । वाजपेयो ऽतिरात्रश् चाप्तोर्यामात्र सप्तमः ॥ इत्य् एते सुत्याः (१,५.२३द्) के स्विद् देवा प्रवोवाजाः के स्विद् देवा अभिद्यवः । के स्विद् देवा हविष्मन्तः किं स्विज् जिगाति सुम्नयुः ॥ (१,५.२३ए) ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस् तज् जिगाति सुन्मयुः ॥ (१,५.२३f) कति स्विद् रात्रयः कत्य् अहानि कति स्तोत्राणि कति शस्त्राण्य् अस्य । कति स्वित् सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्य् अस्य ॥ (१,५.२३ग्) <द्वाव् अतिरात्रौ षट् शतम् अग्निष्टोमा द्वे विंशतिशते उक्थ्यानां । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [Vऐत्ष् ३१.१५]> ॥ (१,५.२३ह्) अहान्यस्य विंशतिशतानि त्रीण्य् अहश् चैकं तावद् अस्य । संवत्सरस्य सवनाः सहस्रम् असीति त्रीणि च संस्तुतस्य ॥ (१,५.२३इ) षट्षष्टिश् च द्वे च शते भवत स्तुतशस्त्राणाम् अयुतं चैकम् अस्य । स्तोत्रियाश् च नवतिसहस्रा द्वे नियुते नवतिश् चाति षट् च ॥ (१,५.२३ज्) अष्टौ शतान्य् अयुतानि त्रिंशच् चतुर्नवतिश् च पदान्य् अस्य । संवत्सरस्य कविभिर् मितस्यैतावती मध्यमा देवमात्रा ॥ (१,५.२३क्) अयुतम् एकं प्रयुतानि त्रिंशद् द्वे नियुते तथा ह्य् अनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्य् एतावान् आत्मा परमः प्रजापतेः ॥ (१,५.२३ल्) आद्यं वषट्कारः प्रदानान्तम् एतम् अग्निष्टोमे पर्वशः साधु कॢप्तम् । सौभेषजं छन्द ईप्सन् यद् अग्नौ चतुःशतं बहुधा हूयते यत् ॥ (१,५.२३म्) प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन कॢप्तस् त्रयस्त्रिंशेन सवनं तृतीयम् ॥ २३ ॥

(१,५.२४अ) श्रद्धायां रेतस् तपसा तपस्वी वैश्वानरः सिषिचे ऽपत्यम् ईप्सन् । ततो जज्ञे लोकजित् सोमजम्भा ऋषेर् ऋषिर् अङ्गिराः संनभूव ॥ (१,५.२४ब्) ऋषेर् यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकम् अमुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृताम् उ लोकम् ॥ (१,५.२४च्) ऋचो ऽस्य भागांश् चतुरो वहन्त्य् उक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर् हविर्भिश् च कृताकृतश् च यजूंषि भागांश् चतुरो वहन्ति ॥ (१,५.२४द्) औदुम्बर्यां सामघोषेण तावत् सविष्टुतिभिश् च स्तोमैः छन्दसा । सामानि भागांश् चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥ (१,५.२४ए) प्रायश्चित्तैर् भेषजैः संस्तुवन्तो ऽथर्वाणो ऽङ्गिरसश् च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान् भागांश् चतुरो वहन्ति ॥ (१,५.२४f) यो ब्रह्मवित् सो ऽभिकरो ऽस्तु वः शिवो धिया धीरो रक्षतु धर्मम् एतम् । मा वः प्रमत्ताम् अमृताच् च यज्ञात् कर्माच् च येनान् अङ्गिरसो ऽपियासीत् ॥ (१,५.२४ग्) मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर् युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्मम् उद्यतं यज्ञं कालाश स्तुतिगोपनायनम् ॥ (१,५.२४ह्) होता च मैत्रावरुणश् च पादम् अच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भि स्तुवन्तो ऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥ (१,५.२४इ) अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादम् एकम् । सम् अन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥ (१,५.२४ज्) साम्नोद्गाता छादयन्न् अप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥ (१,५.२४क्) साम्ना दिव्य् एकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादम् एकम् ॥ (१,५.२४ल्) अथर्वभिर् अङ्गिरोभिश् च गुप्तो ऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक् चतुर्धा ॥ (१,५.२४म्) मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञम् । दक्षिणतो ब्रह्मणस्यों जनद् इत्य् एतां व्याहृतिं जपन् ॥ (१,५.२४न्) सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥ (१,५.२४ओ) एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिर् एव सुन्वन् । एकविंशतिर् एवैषां संस्थायाम् अङ्गिरो वह ॥ (१,५.२४प्) वेदैर् अभिष्टुतो लोको नानावेशापराजितः । ॥ २४ ॥

(१,५.२५अ) सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना यान् ऋषयो सृजन्ति ये च सृष्टाः पुराणैः ॥ (१,५.२५ब्) एतेषु वेदेष्व् अपि चैकम् एवापव्रजम् ऋत्विजां संभरन्ति । कृट्स्तृपात् सचते ताम् अशस्तिं विष्कन्धम् एनं विसृतं प्रजासु ॥ (१,५.२५च्) निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्य् अनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥ (१,५.२५द्) द्वादशवर्षं ब्रह्मचर्यं पृथग् वेदेषु तत् स्मृतम् । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥ (१,५.२५ए) सन्ति चैषां समानाः मन्त्राः कल्पाश् च ब्राह्मणानि च । व्यवस्थानं तु तत् सर्वं पृथग्वेदेषु तत् स्मृतम् ॥ (१,५.२५f) ऋग्वेदस्य पृथिवी स्थानम् अन्तरिक्षस्थानो ऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतम् ॥ (१,५.२५ग्) अग्निर् देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश् च भृग्वङ्गिरसाम् ॥ (१,५.२५ह्) त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥ (१,५.२५इ) वाग् अध्यात्मम् ऋग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतम् ॥ (१,५.२५ज्) ऋग्भिः सह गायत्रं जागतम् आहुर् यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥ (१,५.२५क्) ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् उद्वहेत ॥ (१,५.२५ल्) ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित् सोमजम्भाः । अथर्वभिर् अङ्गिरोभिश् च गुप्तो यज्ञश् चतुष्पाद् दिवम् आरुरोह ॥ (१,५.२५म्) ऋचो विद्वान् पृथिवीं वेद संप्रति यजूंषि विद्वान् बृहद् अन्तरिक्षम् । दिवं वेद सामगो यो विपश्चित् सर्वान् लोकान् यद् भृग्वङ्गिरोवित् ॥ (१,५.२५न्) यांश् च ग्रामे यांश् चारण्ये जपन्ति मन्त्रान् नार्थान् बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसो ऽपियन्ति नूतना सा हि गतिर् ब्रह्मणो यावरार्ध्या ॥ (१,५.२५ओ) त्रिविष्टपं त्रिदिवं नाकम् उत्तमं तम् एतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तो ऽथर्वणाम् अङ्गिरसां च सा गतिः ॥ अथर्वणाम् अङ्गिरसां च सा गतिर् इति ब्राह्मणम् ॥ २५ ॥

(१,५.२५चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥

(१चोल्) इति पूर्वब्राह्मणं समाप्तम्

(२,१.१अ) अथ यद् ब्रह्मसदनात् तृणं निरस्यति शोधयत्य् एवैनं तत् (२,१.१ब्) अथोपविशतीदम् अहम् अर्वाग्वसोः सदने सीदामीति (२,१.१च्) अर्वाग्वसुर् ह वै देवानां ब्रह्मा पराग्वसुर् असुराणाम् (२,१.१द्) तमेवैतत् पूर्वं सादयति (२,१.१ए) अरिष्टं यज्ञं तनुताद् इति (२,१.१f) अथोपविश्व जपति बृहस्पतिर् ब्रह्मेति (२,१.१ग्) बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा (२,१.१ह्) तस्मिन्न् एवैतद् अनुज्ञाम् इच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्य् आ हविष्कृत उद्वादनात् (२,१.१इ) एतद् वै यज्ञस्य द्वारम् (२,१.१ज्) तद् एतद् अशून्यं करोति (२,१.१क्) इष्टे च स्विष्टकृत्य् आनुयाजानां प्रसवाद् इति (२,१.१ल्) एतद् वै यज्ञस्य द्वितीयं द्वारम् (२,१.१म्) तद् एवैतद् अशून्यं करोति (२,१.१न्) यत् परिधयः परिधीयन्ते यज्ञस्य गोपीथाय (२,१.१ओ) परिधीन् परिधत्ते यज्ञस्य सात्मत्वाय (२,१.१प्) परिधीन्त् संमार्ष्टि (२,१.१ॠ) पुनात्य् एवैनान् (२,१.१र्) त्रिर् मध्यमम् (२,१.१स्) त्रय इमे प्राणाः (२,१.१त्) प्राणान् एवाभिजयति (२,१.१उ) त्रिर् दक्षिणार्ध्यम् (२,१.१व्) त्रयो वै लोकाः (२,१.१w) लोकान् एवाभिजयति (२,१.१x) त्रिर् उत्तरार्ध्यं (२,१.१य्) त्रयो वै देवलोकाः (२,१.१श्) देवलोकान् एवाभिजयति (२,१.१अअ) त्रिर् उपवाजयति त्रयो वै देवयानाः पन्थानस् (२,१.१ब्ब्) तान् एवाभिजयति (२,१.१च्च्) ते वै द्वादश भवन्ति (२,१.१द्द्) द्वादश ह वै मासाः संवत्सरः (२,१.१एए) संवत्सरम् एव तेन प्रीणाति (२,१.१ff) अथो संवत्सरम् एवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै ॥ १ ॥

(२,१.२अ) प्रजापतिर् वै रुद्रं यज्ञान् निरभजत् (२,१.२ब्) सो ऽकामयत (२,१.२च्) मेयम् अस्मा आकूतिः समर्धि यो मा यज्ञान् निरभाक्षीद् इति (२,१.२द्) स यज्ञम् अभ्यायम्याविध्यत् (२,१.२ए) तद् आविद्धं निरकृन्तत् (२,१.२f) तत् प्राशित्रम् अभवत् (२,१.२ग्) तद् उदयच्छत् (२,१.२ह्) तद् भगाय पर्यहरन् (२,१.२इ) तत् प्रत्यैक्षत (२,१.२ज्) तस्य चक्षुः परापतत् (२,१.२क्) तस्माद् आहुर् अन्धो वै भग इति (२,१.२ल्) अपि ह तं नेच्छेद् यम् इच्छति (२,१.२म्) तत् सवित्रे पर्यहरन् (२,१.२न्) तत् प्रत्यगृहात् तस्य पाणी प्रचिच्छेद (२,१.२ओ) तस्मै हिरण्मयौ प्रत्यदधुस् (२,१.२प्) तस्माद् धिरण्यपाणिर् इति स्तुतस् (२,१.२ॠ) तत् पूष्णे पर्यहरन् (२,१.२र्) तत् प्राश्नात् (२,१.२स्) तस्य दन्ताः परोप्यन्त (२,१.२त्) तस्माद् आहुर् अदन्तकः पूषा पिष्टभाजन इति (२,१.२उ) तद् इध्मायाङ्गिरसाय पर्यहरन् (२,१.२व्) तत् प्राश्नात् (२,१.२w) तस्य शिरो व्यपतत् (२,१.२x) तं यज्ञ एवाकल्पयत् (२,१.२य्) स एष इध्मः (२,१.२श्) समिधो ह पुरातनस् (२,१.२अअ) तद् बर्हय आङ्गिरसाय पर्यहरन् (२,१.२ब्ब्) तत् प्राश्नात् (२,१.२च्च्) तस्याङ्गा पर्वाणि व्यस्रंसन्त (२,१.२द्द्) तं यज्ञ एवाकल्पयत् (२,१.२एए) तद् एतद् बर्हिः (२,१.२ff) प्रस्तरो ह पुरातनस् (२,१.२ग्ग्) तद् बृहस्पतय आङ्गिरसाय पर्यहरन् (२,१.२ह्ह्) सो ऽबिभेद् बृहस्पतिर् इत्थं वाव स्य आर्तिम् आरिष्यतीति (२,१.२इइ) स एतं मन्त्रम् अपश्यत् (२,१.२ज्ज्) <सूर्यस्य त्वा चक्षुषा प्रतीक्षे [ড়्ष् २०.५७.११, Kऔश्ष् ९१.२, Vऐत्ष् ३.८]> इत्य् अब्रवीत् (२,१.२क्क्) न हि सूर्यस्य चक्षुः किं चन हिनस्ति (२,१.२ल्ल्) सो ऽबिभेत् प्रतिगृह्णन्तं मा हिंसिष्यतीति (२,१.२म्म्) देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्य् अब्रवीत् (२,१.२न्न्) सवितृप्रसूत एवैनं तद् देवताभिः प्रत्यगृह्णात् (२,१.२ओओ) तद् व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास् त्वा नाभौ सादयामीति (२,१.२प्प्) पृथिवी वा अन्नानां शमयित्री तयैवैनच् छमयां चकार (२,१.२ॠॠ) सो ऽबिभेत् प्राश्नन्तं मा हिंसिष्यतीति (२,१.२र्र्) अग्नेष् ट्वास्येन प्राश्नामीत्य् अब्रवीत् (२,१.२स्स्) न ह्य् अग्नेर् आस्यं किं चन हिनस्ति (२,१.२त्त्) सो ऽबिभेत् प्राशितं मा हिंसिष्यतीति (२,१.२उउ) इन्द्रस्य त्वा जठरे सादयामीत्य् अब्रवीत् (२,१.२व्व्) न हीन्द्रस्य जठरं किं चन हिनस्ति (२,१.२ww) वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति ॥ २ ॥

(२,१.३अ) अथो आहुर् ब्राह्मणस्योदर इति (२,१.३ब्) आत्मास्यात्मन्न् आत्मानं मे मा हिंसीः स्वाहेति (२,१.३च्) अन्नं वै सर्वेषां भूतानाम् आत्मा तेनैवैनच् छमयां चकार (२,१.३द्) प्राशितम् अनुमन्त्रयते <यो ऽग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एतत् सुहुतम् अस्तु प्राशित्रं तन् मा मा हिंसीत् परमे व्योमन् [ড়्ष् २०.५७.१५]> इति (२,१.३ए) तत् सर्वेण ब्रह्मणा प्राश्नात् (२,१.३f) तत एनं नाहिनत् (२,१.३ग्) तस्माद् यो ब्रह्मिष्ठः स्यात् तं ब्रह्माणं कुर्वीत (२,१.३ह्) बृहस्पतिर् वै सर्वं ब्रह्म (२,१.३इ) सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते (२,१.३ज्) अप वा एतस्मात् प्राणाः क्रामन्ति य आविद्धं प्राश्नाति (२,१.३क्) अद्भिर् मार्जयित्वा प्राणान्त् संस्पृशते वाङ् म आस्यन्न् इति (२,१.३ल्) अमृतं वै प्राणाः (२,१.३म्) अमृतम् आपः (२,१.३न्) प्राणान् एव यथास्थानम् उपाह्वयते (२,१.३ओ) तद् उ हैक आहुर् इन्द्राय पर्यहरन्न् इति (२,१.३प्) ते देवा अब्रुवन्न् इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस् (२,१.३ॠ) तस्मा एनत् परिहरतेति (२,१.३र्) तत् तस्मै पर्यहरन् (२,१.३स्) तत् स ब्रह्मणा शयमां चकार (२,१.३त्) तस्माद् आहुर् इन्द्रो ब्रह्मेति (२,१.३उ) यवमात्रं भवति (२,१.३व्) यवमात्रं वै विषस्य न हिनस्ति (२,१.३w) यद् अधस्ताद् अभिधारयति तस्माद् अधस्तात् प्रक्षरणं प्रजा अरुर् न हिनस्ति (२,१.३x) यद् उपरिष्टाद् अभिधारयति तस्माद् उपरिष्टात् प्रक्षरणं प्रजा अरुर् न हिनस्ति (२,१.३य्) यद् उभयतो ऽभिघारयत्य् उभयतो ऽभिघारि प्रजा अरुर् घातुकं स्यात् (२,१.३श्) यत् समयाभिहरेद् अनभिविद्धं यज्ञस्याभिविध्येत् ॥ ३ ॥

(२,१.४अ) अग्रेण परिहरति (२,१.४ब्) तीर्थेनैव परिहरति (२,१.४च्) वि वा एतद् यज्ञश् छिद्यते यत् प्राशित्रं परिहरति (२,१.४द्) यद् आह ब्रह्मन् प्रस्थास्यामीति बृहस्पतिर् वै सर्वं ब्रह्म (२,१.४ए) सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणतः संदधाति (२,१.४f) अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस् (२,१.४ग्) तत एवैनम् आलभते (२,१.४ह्) यद् धस्तेन प्रमीवेद् वेपनः स्यात् (२,१.४इ) यच् छीर्ष्णा शीर्षक्तिमान्त् स्यात् (२,१.४ज्) यत् तूष्णीम् आसीतासंप्रत्तो यज्ञः स्यात् (२,१.४क्) प्रतिष्ठेत्य् एव ब्रूयात् (२,१.४ल्) वाचि वै यज्ञः श्रितः (२,१.४म्) यत्र ब्रह्मा यत्रैव यज्ञः श्रितस् तत एवैनं संप्रयच्छति (२,१.४न्) अग्नीध आदधाति (२,१.४ओ) अग्निमुखान् एवर्तून् प्रीणाति (२,१.४प्) अथोत्तरासाम् आहुतीनां प्रतिष्ठित्या (२,१.४ॠ) अथो समिद्वत्य् अव जुहोति (२,१.४र्) परिधीन्त् संमार्ष्टि (२,१.४स्) पुनात्य् एवैनान् (२,१.४त्) सकृत्सकृत् संमार्ष्टि (२,१.४उ) पराङ् एव ह्य् एतर्हि यज्ञः (२,१.४व्) चतुः संपद्यते (२,१.४w) अथो चतुष्पादः पशवः (२,१.४x) पशूनाम् आप्त्यै (२,१.४य्) देव सवितर् एतत् ते प्राहेत्य् आह प्रसूत्यै (२,१.४श्) बृहस्पतिर् ब्रह्मेत्य् आह (२,१.४अअ) स हि ब्रह्मिष्ठः (२,१.४ब्ब्) स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्य् आह (२,१.४च्च्) यज्ञाय च यजमानाय च पशूनाम् आप्त्यै ॥ ४ ॥

(२,१.५अ) न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते (२,१.५ब्) य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै (२,१.५च्) इष्टी वा एतेन यद् यजते ऽथो वा एतेन पूर्ती य एष ओदनः पच्यते (२,१.५द्) एष ह वा इष्टापूर्ती य एनं पचति ॥ ५ ॥

(२,१.६अ) द्वया वै देवा यजमानस्य गृहम् आगच्छन्ति सोमपा अन्ये ऽसोमपा अन्ये (२,१.६ब्) हुतादो ऽन्ये ऽहुतादो ऽन्ये (२,१.६च्) एते वै देवा अहुतादो यद् ब्राह्मणाः (२,१.६द्) एतद्देवत्य एष यः पुरानीजानः (२,१.६ए) एते ह वा एतस्य प्रजायाः पशूनाम् ईशते (२,१.६f) ते ऽस्याप्रीता इषम् ऊर्जम् आदायापक्रामन्ति (२,१.६ग्) यद् अन्वाहार्यम् अन्वाहरति तान् एव तेन प्रीणाति (२,१.६ह्) दक्षिणतःसद्भ्यः परिहर्तवा आह (२,१.६इ) दक्षिणावतैव यज्ञेन यजते (२,१.६ज्) आहुतिभिर् एव देवान् हुतादः प्रीणाति दक्षिणाभिर् मनुष्यदेवान् (२,१.६क्) ते ऽस्मै प्रीता इषम् ऊर्जं नियच्छन्ति ॥ ६ ॥

(२,१.७अ) देवाश् च ह वा असुराश् चास्पर्धन्त (२,१.७ब्) ते देवाः प्रजापतिम् एवाभ्ययजन्त (२,१.७च्) अन्यो ऽन्यस्यासन्न् असुरा अजुहवुस् (२,१.७द्) ते देवा एतम् ओदनम् अपश्यन् (२,१.७ए) तं प्रजापतये भागम् अनुनिरवपन् (२,१.७f) तं भागं पश्यन् प्रजापतिर् देवान् उपावर्तत (२,१.७ग्) ततो देवा अभवन् परासुराः (२,१.७ह्) स य एवंविद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति (२,१.७इ) प्रजापतिर् वै देवेभ्यो भागधेयानि व्यकल्पयत् (२,१.७ज्) सो ऽमन्यतात्मानम् अन्तरगाम् इति (२,१.७क्) स एतम् ओदनम् अभक्तम् अपश्यत् (२,१.७ल्) तम् आत्मने भागं निरवपत् (२,१.७म्) प्रजापतेर् वा एष भागः (२,१.७न्) अपरिमितः स्यात् (२,१.७ओ) अपरिमितो हि प्रजापतिः (२,१.७प्) प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान् (२,१.७ॠ) अक्षितो ऽसि (२,१.७र्) अक्षित्यै त्वा (२,१.७स्) मा मे क्षेष्ठा अमुत्रामुष्मिंल् लोक इह च (२,१.७त्) प्राणापनौ मे पाहि (२,१.७उ) समानव्यानौ मे पाहि (२,१.७व्) उदानरूपे मे पाहि (२,१.७w) ऊर्ग् असि (२,१.७x) ऊर्जं मे धेहि (२,१.७य्) कुर्वतो मे मा क्षेष्ठाः (२,१.७श्) ददतो मे मोपदसः (२,१.७अअ) प्रजापतिम् अहं त्वया समक्षम् ऋध्यासम् इति (२,१.७ब्ब्) प्रजापतिम् एव समक्षम् ऋध्नोति य एवं वेद य एवं वेद ॥ ७ ॥

(२,१.८अ) ये वा इह यज्ञैर् आर्ध्नुवंस् तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि (२,१.८ब्) तन् नक्षत्राणां नक्षत्रत्वं यन् न क्षीयन्ति (२,१.८च्) दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ (२,१.८द्) ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि पतन्तीव (२,१.८ए) तद् यथा ह वा इदम् अस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैते ऽमुष्मांल् लोकान् नोनुद्यन्ते (२,१.८f) त एते प्रच्यवन्ते ॥ ८ ॥

(२,१.९अ) यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदियात् तांस् त्रेधा ताण्डुलान् विभजेत् (२,१.९ब्) ये मध्यमास् तान् अग्नये दात्रे ऽष्टाकपालं निर्वपेत् (२,१.९च्) ये स्थविष्ठास् तान् इन्द्राय प्रादात्रे दधनि चरुम् (२,१.९द्) ये क्षोदिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम् [एद्. क्षोदिस्थास्, चोर्र्. ড়त्यल्] (२,१.९ए) पशवो वा एते ऽतिरिच्यन्ते (२,१.९f) तान् एवाप्नोति (२,१.९ग्) तान् अवरुन्द्धे (२,१.९ह्) अग्निर् वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता (२,१.९इ) यद् एवेदं क्षुद्रं पशूनां तद् विष्णोः शिपिविष्टम् (२,१.९ज्) तद् एवाप्नोति (२,१.९क्) पशून् एवावरुन्द्धे ॥ ९ ॥

(२,१.१०अ) या पूर्वा पौर्णमासी सानुमतिः (२,१.१०ब्) योत्तरा राका (२,१.१०च्) या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः (२,१.१०द्) चन्द्रमा एव धाता च विधाता च (२,१.१०ए) यत् पूर्णो ऽन्यां वसत्य् अपूर्णो ऽन्यां तन् मिथुनम् (२,१.१०f) यत् पश्यत्य् अन्यां नान्यां तन् मिथुनम् (२,१.१०ग्) यद् अमावास्यायाश् चन्द्रमा अधि प्रजायते तन् मिथुनम् (२,१.१०ह्) तस्माद् एवास्मै मिथुनात् पशून् प्रजनयति ॥ १० ॥

(२,१.११अ) न द्वे यजेत (२,१.११ब्) यत् पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात् (२,१.११च्) यद् उत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात् (२,१.११द्) नेष्टिर् भवति न यज्ञस् (२,१.११ए) तद् अनु ह्रीतमुख्य् अपगल्भो जायते (२,१.११f) एकाम् एव यजेत (२,१.११ग्) प्रगल्भो हैव जायते (२,१.११ह्) अनादृत्य तद् द्वे यजेत (२,१.११इ) यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया (२,१.११ज्) देवता एवं पूर्वयाप्नोतीन्द्रियम् उत्तर्या (२,१.११क्) देवलोकम् एव पूर्वयावरुन्द्धे मनुष्यलोकम् उत्तरया भूयसो यज्ञक्रतून् उपैत्य (२,१.११ल्) एषा ह वै सुमना नामेष्टिः (२,१.११म्) यम् अद्येजानं पश्चाच् चन्द्रमा अभ्युदियाद् अस्मा अस्मिंल् लोक आर्धुकं भवति ॥ ११ ॥

(२,१.१२अ) अग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासाव् आरिप्समाणः (२,१.१२ब्) अग्निर् वै सर्वा देवता विष्णुर् यज्ञः (२,१.१२च्) देवताश् चैव यज्ञं चारभत ऋद्ध्यै (२,१.१२द्) ऋध्नोत्य् एव (२,१.१२ए) उभौ सहारम्भाव् इत्य् आहुः (२,१.१२f) उदिन् नु शृङ्गे सितो मुच्यत इति (२,१.१२ग्) दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः (२,१.१२ह्) अथ यत् परस्तात् पौर्णमास आरभ्यते तद् यथा पूर्वं क्रियते (२,१.१२इ) तद् यत् पौर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती पौर्णमासः सरस्वान् इति (२,१.१२ज्) उभाव् एवैनौ सहारभत ऋद्ध्यै (२,१.१२क्) ऋध्नोत्य् एव ॥ १२ ॥

(२,१.१३अ) अग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्य प्रज्ञातेष्टिर् अतिपद्यते (२,१.१३ब्) बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिर् अतिपद्यते (२,१.१३च्) अग्निर् वै देवानां पथिकृत् (२,१.१३द्) तम् एव भागधेयेनोपासरत् (२,१.१३ए) स एनं पन्थानम् अपिनयति (२,१.१३f) अनड्वान् दक्षिणा (२,१.१३ग्) स हि पन्थानम् अभिवहति ॥ १३ ॥

(२,१.१४अ) अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन् प्रवसेत् (२,१.१४ब्) बहु वा एष व्रतम् अतिपातयति य आहिताग्निः सन् प्रवसति व्रत्ये ऽहनि स्त्रियं वोपैति मांसं वाश्नाति (२,१.१४च्) अग्निर् वै देवानां व्रतपतिः (२,१.१४द्) अग्निम् एतस्य व्रतम् अगात् (२,१.१४ए) तस्माद् एतस्य व्रतम् आलम्भयते ॥ १४ ॥

(२,१.१५अ) अग्नये व्रतभृते ऽष्टाकपालं निर्वपेद् य आहिताग्निर् आर्तिजम् अश्रु कुर्यात् (२,१.१५ब्) आनीतो वा एष देवानां य आहिताग्निस् (२,१.१५च्) तस्माद् एतेनाश्रु न कर्तव्यम् (२,१.१५द्) न हि देवा अश्रु कुर्वन्ति (२,१.१५ए) अग्निर् वै देवानां व्रतभृत् (२,१.१५f) अग्निम् एतस्य व्रतम् अगात् (२,१.१५ग्) तस्माद् एतस्य व्रतम् आलम्भयते ॥ १५ ॥

(२,१.१६अ) ऐन्द्राग्नम् उस्रम् अनुसृष्टम् आलभेत यस्य पिता पितामहः सोमं न पिबेत् (२,१.१६ब्) इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति (२,१.१६च्) यद् ऐन्द्र इन्द्रियेणैवैनं तद् वीर्येण समर्धयति (२,१.१६द्) देवताभिर् वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति (२,१.१६ए) यद् आग्नेयो ऽग्निर् वै सर्वा देवताः (२,१.१६f) सर्वाभिर् एवैनं तद् देवताभिः समर्धयति (२,१.१६ग्) अनुसृष्टो भवति (२,१.१६ह्) अनुसृष्ट इव ह्य् एतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति (२,१.१६इ) तस्माद् एष एव तस्या देवतायाः पशूनां समृद्धः ॥ १६ ॥

(२,१.१७अ) देवा वा ओषधीषु पक्वास्व् आजिम् अयुः (२,१.१७ब्) स इन्द्रो ऽवेद् अग्निर् वावेमाः प्रथम उज्जेष्यतीति (२,१.१७च्) सो ऽब्रवीद् यतरो नौ पूर्व उज्जयात् तन् नौ सहेति (२,१.१७द्) ता अग्निर् उदजयत् (२,१.१७ए) तद् इन्द्रो ऽनूदजयत् (२,१.१७f) स एष ऐन्द्राग्नः सन्न् आग्नेन्द्रः (२,१.१७ग्) एका वै तर्हि यवस्य श्नुष्टिर् आसीद् एका व्रीहेर् एका माषस्यैका तिलस्य (२,१.१७ह्) तद् विश्वे देवा अब्रुवन् वयं वा एतत् प्रथयिष्यामो भागो नो ऽस्त्व् इति (२,१.१७इ) तद् भूम एव वैश्वदेवः (२,१.१७ज्) अथो प्रथयत्य् एतेनैव (२,१.१७क्) पयसि स्याद् वैश्वदेवत्वाय (२,१.१७ल्) वैश्वदेवं हि पयः (२,१.१७म्) अथेमाव् अब्रूतां न वा ऋत आवाभ्याम् एवैतद् यूयं प्रथयत मयि प्रतिष्ठितम् असौ वृष्ट्या पचति नैतदितो ऽभ्युज्जेष्यतीति (२,१.१७न्) भागो नाव् अस्त्व् इति (२,१.१७ओ) ताभ्यां वा एष भागः क्रियत उज्जित्या एव (२,१.१७प्) अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः (२,१.१७ॠ) सौमीर् वा ओषधीः (२,१.१७र्) सोम ओषधीनाम् अधिराजः (२,१.१७स्) याश् च ग्राम्या याश्चारण्यास् तासाम् एष उद्धारो यच् छ्यामाकः (२,१.१७त्) यच् छ्यामाकः सौम्यस् तम् एव भागिनं कृणुते (२,१.१७उ) यद् अकृत्वाग्रयणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अद्यात् (२,१.१७व्) संवत्सराद् वा एतद् अधिप्रजायते यद् आग्रयणम् (२,१.१७w) संवत्सरं वै ब्रह्मा (२,१.१७x) तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्व् आवपेत (२,१.१७य्) एकहायनी दक्षिणा (२,१.१७श्) स हि संवत्सरस्य प्रतिमा (२,१.१७अअ) रेत एव ह्य् एषो ऽप्रजातः (२,१.१७ब्ब्) प्रजात्यै ॥ १७ ॥

(२,१.१८अ) अथ हैतद् अप्रतिरथम् <इन्द्रस्य बाहू स्थविरौ वृषाणौ> इति (२,१.१८ब्) एतेन ह वा इन्द्रो ऽसुरान् प्रत्यजयत् [एद्. ऽसुरान] (२,१.१८च्) अप्रति ह भवत्य् एतेन यजमानो भ्रातृव्यं जयति (२,१.१८द्) संग्रामे जुहुयाद् अप्रति ह भवति (२,१.१८ए) एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत् (२,१.१८f) स राष्ट्र्य् अभवत् (२,१.१८ग्) यं कामयेत राष्ट्री स्याद् इति तम् एतेन संनह्येत् (२,१.१८ह्) राष्ट्री ह भवति (२,१.१८इ) एतेन ह वा इन्द्रो विराजम् अभ्यजयत् (२,१.१८ज्) दशैवान्वाह (२,१.१८क्) दशाक्षरा विराड् वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते (२,१.१८ल्) तद् उ हैक एकादशान्वाहुः (२,१.१८म्) एकादशाक्षरा वै त्रिष्टुप् त्रैष्टुभो वज्रः (२,१.१८न्) वज्रेणैवैतद् रक्षांस्य् अपसेधति (२,१.१८ओ) दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन् (२,१.१८प्) तान्य् अप्रतिरथेनापाघ्नत (२,१.१८ॠ) तस्माद् ब्रह्माप्रतिरथं जपन्न् एति (२,१.१८र्) यद् ब्रह्माप्रतिरथं जपन्न् एति यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ १८ ॥

(२,१.१९अ) अथातश् चातुर्मास्यानां प्रयोगः (२,१.१९ब्) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत (२,१.१९च्) मुखं वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी मुखम् उत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व] (२,१.१९द्) तद् यथा प्रवृत्तस्यान्तौ समेतौ स्याताम् एवम् एवैतत् संवत्सरस्यान्तौ समेतौ भवतस् (२,१.१९ए) तद् यत् फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर् यजते मुखत एवैतत् संवत्सरं प्रयुङ्क्ते (२,१.१९f) अथो भैषज्ययज्ञा वा एते यच् चातुर्मास्यानि (२,१.१९ग्) तस्माद् ऋतुसंधिषु प्रयुज्यन्ते (२,१.१९ह्) ऋतुसंधिषु वै व्याधिर् जायते (२,१.१९इ) तान्य् एतान्य् अष्टौ हवींस्षि भवन्ति (२,१.१९ज्) अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति (२,१.१९क्) चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः (२,१.१९ल्) अथ यद् अग्निं मन्थन्ति प्रजापतिर् वै वैश्वदेवम् (२,१.१९म्) प्रजात्या एव (२,१.१९न्) अथैतं दैवं गर्भं प्रजनयति (२,१.१९ओ) अथ यत् सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः (२,१.१९प्) प्रजापतेर् आप्त्यै (२,१.१९ॠ) अथ यत् सद्वन्ताव् आज्यभागाव् असिसंतीति वै सद्वन्तौ भवतः (२,१.१९र्) अथ यद् विराजौ संयाज्ये अन्नं वै श्रीर् विराड् अन्नाद्यस्य श्रियो ऽवरुद्ध्यै [एद्. ऽवरुद्ध्या ऽथ] (२,१.१९स्) अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन् नक्षत्रीयां विराजम् आप्नोति (२,१.१९त्) अथो आहुर् दशनीं विराजम् इति प्रयाजानुयाजा हवींष्य् आघाराव् आज्यभागाव् इति ॥ १९ ॥

(२,१.२०अ) अथ यद् अग्नीषोमौ प्रथमं देवतानां यजत्य् अग्नीषोमौ वै देवानां मुखम् (२,१.२०ब्) मुखत एव तद् देवान् प्रीणाति (२,१.२०च्) अथ यत् सवितारं यजत्य् असौ वै सविता यो ऽसौ तपति (२,१.२०द्) एतम् एव तेन प्रीणाति (२,१.२०ए) अथ यत् सरस्वतीं यजति वाग् वै सरस्वती (२,१.२०f) वाचम् एतेन प्रीणाति (२,१.२०ग्) अथ यन् पूषणं यजत्य् असौ वै पूषा यो ऽसौ तपति (२,१.२०ह्) एतम् एव तेन प्रीणाति (२,१.२०इ) अथ यन् मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस् (२,१.२०ज्) तान् एव तेन प्रीणाति (२,१.२०क्) अथ यद् विश्वान् देवान् यजत्य् एते वै विश्वे देवा यत् सर्वे देवास् (२,१.२०ल्) तान् एव तेन प्रीणाति (२,१.२०म्) अथ यद् द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ (२,१.२०न्) प्रतिष्ठित्या एव (२,१.२०ओ) अथ यद् वाजिनो यजति पशवो वै वाजिनः (२,१.२०प्) पशून् एव तेन प्रीणाति (२,१.२०ॠ) अथो ऋतवो वै वाजिनः (२,१.२०र्) ऋतून् एव तेन प्रीणाति (२,१.२०स्) अथो छन्दांसि वै वाजिनः (२,१.२०त्) छन्दांस्य् एव तेन प्रीणाति (२,१.२०उ) अथो देवाश्वा वै वाजिनः (२,१.२०व्) अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति (२,१.२०w) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति ॥ २० ॥

(२,१.२१अ) वैश्वदेवेन वै प्रजापतिः प्रजा असृजत (२,१.२१ब्) ताः सृष्टा अप्रसूता वरुणस्य यवाञ् जक्षुस् (२,१.२१च्) ता वरुणो वरुणपाशैः प्रत्यबन्धात् (२,१.२१द्) ताः प्रजाः प्रजापतिं पितरम् एत्योपावदन्न् उप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणम् अप्रीणात् (२,१.२१ए) स प्रीतो वरुणः (२,१.२१f) वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः संप्रमुच्यन्त इति (२,१.२१ग्) तत एतं प्रजापतिर् यज्ञक्रतुम् अपश्यद् वरुणप्रघासान् (२,१.२१ह्) तम् आहरत् (२,१.२१इ) तेनायजत (२,१.२१ज्) तेनेष्ट्वा वरुणम् अप्रीणात् (२,१.२१क्) स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत् (२,१.२१ल्) प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच् च पाप्मनो मुच्यन्ते (२,१.२१म्) य एवं वेद (२,१.२१न्) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति (२,१.२१ओ) यन् मथ्यते तस्योक्तं ब्राह्मणम् (२,१.२१प्) अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम् (२,१.२१ॠ) अथ यन् नव प्रयाजा नवानुयाजा नवैतानि हवींषि (२,१.२१र्) समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि (२,१.२१स्) तेषाम् उक्तं ब्राह्मणम् ॥ २१ ॥

(२,१.२२अ) अथ यद् ऐन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी (२,१.२२ब्) बलम् एव तत् तेजसि प्रतिष्ठापयति (२,१.२२च्) अथ यद् वारुण्य् आमिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. ড়त्यल्] (२,१.२२द्) स उ वै पयोभाजनस् (२,१.२२ए) तस्माद् वारुण्य् आमिक्षा [एद्. अमिक्षा] (२,१.२२f) अथ यन् मारुती पयस्याप्सु वै मरुतः श्रिताः [एद्. श्रितः. चोर्र्. ড়त्यल्] (२,१.२२ग्) आपो हि पयः (२,१.२२ह्) अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस् (२,१.२२इ) तस्मान् मारुती पयस्या (२,१.२२ज्) अथ यत् काय एककपालः प्रजापतिर् वै कः (२,१.२२क्) प्रजापतेर् आप्त्या (२,१.२२ल्) अथो सुखस्य वा एतन् नामधेयं कम् इति [एद्. नामघेयम्] (२,१.२२म्) सुखम् एव तद् अध्य् आत्मन् धत्ते (२,१.२२न्) अथ यन् मिथुनौ गावौ ददाति तत् प्रजात्यै रूपम् (२,१.२२ओ) उक्थ्या वाजिनः (२,१.२२प्) अथ यद् अप्सु वरुणं यजति स्व एवैनं तद् आयतने प्रीणाति (२,१.२२ॠ) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैर् इष्टं भवति ॥ २२ ॥

(२,१.२३अ) ऐन्द्रो वा एष यज्ञक्रतुर् यत् साकमेधास् (२,१.२३ब्) तद् यथा महाराजः पुरस्तात् सेनानीकानि व्युह्याभयं पन्थानम् अन्वियाद् एवम् एवैतत् पुरस्ताद् देवता यजति [एद्. सैनानीकानि, चोर्र्. ড়त्यल्] (२,१.२३च्) तद् यथैवादः सोमस्य महाव्रतम् एवम् एवैतद् इष्टिमहाव्रतम् (२,१.२३द्) अथ यद् अग्निम् अनीकवन्तं प्रथमं देवतानां यजत्य् अग्निर् वै देवानां मुखम् (२,१.२३ए) मुखत एव तद् देवान् प्रीणाति (२,१.२३f) अथ यन् मध्यंदिने मरुतः सांतपनान् यजतीन्द्रो वै मरुतः संतपनाः (२,१.२३ग्) ऐन्द्रं माध्यंदिनम् (२,१.२३ह्) तस्माद् एतान् इन्द्रेणोपसंहितान् यजति (२,१.२३इ) अथ यत् सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः (२,१.२३ज्) सायं पोषः पशूनाम् (२,१.२३क्) तस्मात् सायं गृहमेधीयेन चरन्ति (२,१.२३ल्) अतह् यच् छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत् प्रातः कर्मोपसंतन्वन्ति (२,१.२३म्) अथ यत् प्रातर् मरुतः क्रीडिनो यजतीन्द्रो वै मरुतः क्रीडिनस् (२,१.२३न्) तस्माद् एनान् इन्द्रेणोपसंहितान् यजति (२,१.२३ओ) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति (२,१.२३प्) यन् मथ्यते तस्योक्तं ब्राह्मणम् (२,१.२३ॠ) अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम् (२,१.२३र्) अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्व् एव षट्संचराणि हवींषि भवन्त्य् ऐन्द्राग्नान्तानि (२,१.२३स्) तेषाम् उक्तं ब्राह्मणम् (२,१.२३त्) अथ यन् महेन्द्रम् अन्ततो यजत्य् अन्तं वै श्रेष्ठी भजते (२,१.२३उ) तस्माद् एनम् अन्ततो यजति (२,१.२३व्) अथ यद् वैश्वकर्मण एककपालो ऽसौ वै विश्वकर्मा यो ऽसौ तपति (२,१.२३w) एतम् एव तेन प्रीणाति (२,१.२३x) अथ यद् ऋषभं ददात्य् ऐन्द्रो ह यज्ञक्रतुः ॥ २३ ॥

(२,१.२४अ) अथ यद् अपराह्णे पितृयज्ञेन चरन्त्य् अपराह्णभाजो वै पितरस् (२,१.२४ब्) तस्माद् अपराह्णे पितृयज्ञेन चरन्ति (२,१.२४च्) तद् आहुर् यद् अपरपक्षभाजो वै पितरः कस्माद् एनान् पूर्वपक्षे यजन्तीति (२,१.२४द्) देवा वा एते पितरस् (२,१.२४ए) तस्माद् एनान् पूर्वपक्षे यजन्तीति (२,१.२४f) अथ यद् एकां सामिधेनीं त्रिर् अन्वाह सकृद् ह वै पितरस् (२,१.२४ग्) तस्माद् एकां सामिधेनीं त्रिर् अन्वाह (२,१.२४ह्) अथ यद् यजमानस्यार्षेयं नाह नेद् यजमानं प्रवृणजानीति (२,१.२४इ) अथ यत् सोमं पितृमन्तं पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्वात्तान् इत्य् आवाहयति (२,१.२४ज्) न हैके स्वं महिमानम् आवाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेद् इति त्व् एव स्थितम् (२,१.२४क्) अग्नेर् ह्य् एष महिमा भवति (२,१.२४ल्) ओं स्वधेत्य् आश्रावयति (२,१.२४म्) अस्तु स्वधेति प्रत्याश्रावयति (२,१.२४न्) स्वधाकारो हि पितॄणाम् (२,१.२४ओ) अथ यत् प्रयाजानुयाजेभ्यो बर्हिष्मन्ताव् उद्धरति प्रजा वै बर्हिर् नेत् प्रजां पितृषु दधानीति (२,१.२४प्) ते वै षट् संपद्यन्ते (२,१.२४ॠ) षड् वा ऋतवः (२,१.२४र्) ऋतवः पितरः (२,१.२४स्) पितॄणाम् आप्त्यै ॥ २४ ॥

(२,१.२५अ) अथ यज् जीवनवन्ताव् आज्यभागौ भवतो यजमानम् एव तज् जीवयति (२,१.२५ब्) अथ यद् एकैकस्य हविषस् तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्य् एवैनान् प्रथमया (२,१.२५च्) द्वितीयया गमयति (२,१.२५द्) प्रैव तृतीयया यच्छति (२,१.२५ए) अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयति (२,१.२५f) अथो दक्षिणासंस्थो वै पितृयज्ञस् (२,१.२५ग्) तम् एवैतद् उदक्संस्थं कुर्वन्ति (२,१.२५ह्) अथ यद् अग्निं कव्यवाहनम् अन्ततो यजत्य् एतत् स्विष्टकृतो पितरस् (२,१.२५इ) तस्माद् अग्निं कव्यवाहनम् अन्ततो यजति (२,१.२५ज्) अथ यद् इडाम् उपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा (२,१.२५क्) नेत् पशून् प्रवृणजानीति (२,१.२५ल्) अथ यत् सूक्तवाके यजमानस्याशिषो ऽन्वाह नेद् यजमानं प्रवृणजानीति (२,१.२५म्) अथ यत् पत्नीं न संयाजयन्ति नेत् पत्नीं प्रवृणजानीति (२,१.२५न्) अथ यत् पवित्रवति मार्जयन्ते शान्तिर् वै भेषजम् आपः (२,१.२५ओ) शान्तिर् एवैषा भेषजम् अन्ततो यज्ञे क्रियते (२,१.२५प्) अथ यद् अध्वर्युः पितृभ्यो निपृणाति जीवान् एव तत् पितॄन् अनु मनुष्याः पितरो ऽनुप्रवहन्ति (२,१.२५ॠ) अथो देवयज्ञम् एवैनं पितृयज्ञेन व्यावर्तयन्ति (२,१.२५र्) अथो दक्षिणासंस्थो वै पितृयज्ञस् (२,१.२५स्) तम् एवैतद् उदक्संस्थं कुर्वन्ति (२,१.२५त्) अथ यत् प्राञ्चो ऽभ्युत्क्रम्यादित्यम् उपतिष्ठन्ते देवलोको वा आदित्यः (२,१.२५उ) पितृलोकः पितरः (२,१.२५व्) देवलोकम् एवैतत् पितृलोकाद् उपसंक्रामन्तीति (२,१.२५w) अथ यद् दक्षिणाञ्चो ऽभ्युत्क्रम्याग्नीन् उपतिष्ठन्ते प्रीत्यैव तद् देवेष्व् अन्ततो ऽर्धं चरन्ति (२,१.२५x) अथ यद् उदञ्चो ऽभ्युत्क्रम्य त्रैयंबकैर् यजन्ते रुद्रम् एव तत् स्वस्यां दिशि प्रीणन्ति [एद्. स्वायां बुत् सेए चोर्रिगेन्द प्. ३०२] (२,१.२५य्) अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयन्ति (२,१.२५श्) अथो दक्षिणासंस्थो वै पितृयज्ञस् (२,१.२५अअ) तम् एवैतद् उदक्संस्थं कुर्वन्ति (२,१.२५ब्ब्) अथ यद् अन्तत आदित्येष्ट्या यजतीयं वा अदितिः (२,१.२५च्च्) अस्याम् एवैनम् अन्ततः प्रतिष्ठापयति (२,१.२५द्द्) अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैर् इष्टं भवति ॥ २५ ॥

(२,१.२६अ) त्रयोदशं वा एतं मासम् आप्नोति यच् छुनासीर्येण यजते (२,१.२६ब्) एतावान् वै संवत्सरो यावान् एष त्रयोदशो मासः (२,१.२६च्) अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति (२,१.२६द्) यन् मथ्यते तस्योक्तं ब्राह्मणम् (२,१.२६ए) यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रं भवति (२,१.२६f) प्रतिष्ठा वै पौर्णमासम् (२,१.२६ग्) प्रतिष्ठित्या एवाथ यद् वायुं यजति प्राणो वै वायुः (२,१.२६ह्) प्राणम् एव तेन प्रीणाति (२,१.२६इ) अथ यच् छुनासीरं यजति संवत्सरो वै शुनासीरः (२,१.२६ज्) संवत्सरम् एव तेन प्रीणाति (२,१.२६क्) अथ यत् सूर्यं यजत्य् असौ वै सूर्यो यो ऽसौ तपति (२,१.२६ल्) एतम् एव तेन प्रीणाति (२,१.२६म्) अथ यच् छ्वेतां दक्षिणां ददात्य् एतस्यैव तद् रूपं क्रियते (२,१.२६न्) अथ यत् प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनम् एव तत् कुर्वन्ति (२,१.२६ओ) यज्ञस्यैव शान्तिर् यजमानस्य भैषज्याय (२,१.२६प्) तैर् वा एतैश् चातुर्मास्यैर् देवाः सर्वान् कामान् आप्नुवंत् सर्वा इष्टीः सर्वम् अमृतत्वम् (२,१.२६ॠ) स वा एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि (२,१.२६र्) तस्य मुखम् एव वैश्वदेवम् (२,१.२६स्) बाहू वरुणप्रघासाः (२,१.२६त्) प्राणो ऽपानो व्यान इत्य् एतास् तिस्र इष्टयः [एद्. प्रणो] (२,१.२६उ) आत्मा महाहविः (२,१.२६व्) प्रतिष्ठा शुनासीरम् (२,१.२६w) स वा एष प्रजापतिर् एव संवत्सरो यच् चातुर्मास्यानि (२,१.२६x) सर्वं वै प्रजापतिः (२,१.२६य्) सर्वं चातुर्मास्यानि (२,१.२६श्) तत् सर्वेणैव सर्वम् आप्नोति य एवं वेद यश् चैवं विद्वांश् चातुर्मास्यैर् यजते चातुर्मास्यैर् यजते चातुर्मास्यैर्यजते

(२,१.२६चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः ॥

(२,२.१अ) ओं मांसीयन्ति वा आहिताग्नेर् अग्नयस् (२,२.१ब्) त एनम् एवाग्रे ऽभिध्यायन्ति यजमानम् (२,२.१च्) य एतम् ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितम् आत्मानं निरवदयते (२,२.१द्) आयुष्काम आलभेत (२,२.१ए) प्राणापानौ वा इन्द्राग्नी (२,२.१f) प्राणापानाव् एवात्मनि धत्ते (२,२.१ग्) आयुष्मान् भवति (२,२.१ह्) प्रजाकाम आलभेत (२,२.१इ) प्राणापानौ वा इन्द्राग्नी (२,२.१ज्) प्राणापानौ प्रजा अनुप्रजायन्ते (२,२.१क्) प्रजावान् भवति (२,२.१ल्) पशुकाम आलभेत (२,२.१म्) प्राणापानौ वा इन्द्राग्नी (२,२.१न्) प्राणापानौ पशवो ऽनुप्रजायन्ते (२,२.१ओ) पशुमान् भवति (२,२.१प्) यामं शुकं हारितम् आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्याम् इति [एद्. शुकहरितं, चोर्र्. ড়त्यल्] (२,२.१ॠ) एतेन ह वै यमो ऽमुष्मिंल् लोक आर्ध्नोत् (२,२.१र्) पितृलोक एवार्ध्नोति (२,२.१स्) त्वाष्ट्रं वडवम् आलभेत प्रजाकामः (२,२.१त्) प्रजापतिर् वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत् [एद्. सिसृक्समाणः, चोर्रेच्तेद् प्. ३०२॑ ড়त्यल्॒ रेअद् नाविन्दत?] (२,२.१उ) स त्वाष्ट्रं वडवम् अपश्यत् (२,२.१व्) त्वष्टा हि रूपाणां प्रजनयिता (२,२.१w) तेन प्रजा असृजत (२,२.१x) तेन मिथुनम् अविन्दत् (२,२.१य्) प्रजावान् मिथुनवान् भवति य एवं वेद यश् चैवंविद्वान् एतम् आलभते (२,२.१श्) योनीन् वा एष काम्यान् पशून् आलभते यो ऽनिष्ट्वैन्द्राग्नेन काम्यं पशुम् आलभत इष्ट्वालम्भः समृद्ध्यै ॥ १ ॥

(२,२.२अ) पञ्चधा वै देवा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस् (२,२.२ब्) ते देवा अब्रुवन्न् असुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मः (२,२.२च्) या न इमाः प्रियास् तन्वस् ताः समवद्यामहा इति (२,२.२द्) ताः समवाद्यन्त (२,२.२ए) ताभ्यः स निरृच्छाद्यो नः प्रथमो ऽन्यो ऽन्यस्मै द्रुह्याद् इति (२,२.२f) यत् तन्वः समवाद्यन्त तत् तानूनप्त्रस्य तानूनप्त्रत्वम् (२,२.२ग्) ततो देवा अभवन् परासुरास् (२,२.२ह्) तस्माद् यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिम् आर्छति (२,२.२इ) यत् तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै (२,२.२ज्) भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति ॥ २ ॥

(२,२.३अ) पञ्च कृत्वो ऽवद्यति (२,२.३ब्) पाङ्क्तो यज्ञः (२,२.३च्) पञ्चधा हि ते ताः समवाद्यन्त (२,२.३द्) आपतये त्वा गृह्णामीत्य् आह (२,२.३ए) प्राणो वा आपतिः (२,२.३f) प्राणम् एव तेन प्रीणाति (२,२.३ग्) परिपतये त्वेत्य् आह (२,२.३ह्) मनो वै परिपतिः (२,२.३इ) मन एव तेन प्रीणाति (२,२.३ज्) तनूनप्त्र इत्य् आह (२,२.३क्) तन्वो हि ते ताः समवाद्यन्त (२,२.३ल्) शाक्वरायेत्य् आह (२,२.३म्) शक्त्यै हि ते ताः समवाद्यन्त (२,२.३न्) शक्मन ओजिष्ठायेत्य् आह (२,२.३ओ) ओजिष्ठं हि ते तद् आत्मनः समवाद्यन्त (२,२.३प्) अनाधृष्टम् इत्य् आह (२,२.३ॠ) अनाधृष्टं ह्य् एतत् (२,२.३र्) अनाधृष्यम् इत्य् आह (२,२.३स्) अनाधृष्यं ह्य् एतत् (२,२.३त्) देवानाम् ओज इत्य् आह (२,२.३उ) देवानां ह्य् एतद् ओजः (२,२.३व्) अभिशस्तिपा इत्य् आह (२,२.३w) अभिशस्तिपा ह्य् एतत् (२,२.३x) अनभिशस्तेन्यम् इत्य् आह (२,२.३य्) अनभिशस्तेन्यं ह्य् एतत् [एद्. अनभिशस्तेनं, चोर्र्. ড়त्यल्] (२,२.३श्) अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषं स्विते मा धा इत्य् आह यथायजुर् एवैतत् ॥ ३ ॥

(२,२.४अ) घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन् (२,२.४ब्) स्रुचौ बाहू (२,२.४च्) तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते (२,२.४द्) अवधीयेत सोमस् (२,२.४ए) तस्मात् स्रुचौ चाज्यं चान्तिकम् आहार्षीत् (२,२.४f) अन्तिकम् इव खलु वा अस्यैतत् प्रचरन्ति यत् तानूनप्त्रेण प्रचरन्ति (२,२.४ग्) अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद इत्य् आह (२,२.४ह्) यद् एवास्यापवायते यन् मीयते तद् एवास्यैतेनाप्याययन्ति (२,२.४इ) आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह (२,२.४ज्) उभाव् एवेन्द्रं च सोमं चाप्याययन्ति (२,२.४क्) आप्याययास्मान्त् सखीन्त् सन्या मेधया प्रजया धनेनेत्य् आह (२,२.४ल्) ऋत्विजो वा एतस्य सखायस् (२,२.४म्) तान् एवास्यैतेनाप्याययन्ति (२,२.४न्) स्वस्ति ते देव सोम सुत्याम् उदृचम् अशीयेत्य् आह (२,२.४ओ) आशिषम् एवैताम् आशास्ते (२,२.४प्) प्र वा एतस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति (२,२.४ॠ) अन्तरिक्षदेवत्यो हि सोम आप्यायितः (२,२.४र्) एष्टा राय एष्टा वामानि प्रेषे भगाय (२,२.४स्) ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति (२,२.४त्) द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिंल् लोके प्रतितिष्ठति प्रतितिष्ठति ॥ ४ ॥

(२,२.५अ) मख इत्य् एतद् यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात् (२,२.५ब्) छिद्रं खम् इत्य् उक्तम् (२,२.५च्) तस्य मेति प्रतिषेधः (२,२.५द्) मा छिद्रं करिष्यतीति (२,२.५ए) छिद्रो हि यज्ञो भिन्न इवोदधिर् विस्रवति (२,२.५f) तद् वै खलु छिद्रं भवत्य् ऋत्विग्यजमानविमानाद् वा (२,२.५ग्) अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानाम् अप्रयोगाद् यथोक्तानां वा दक्षिणानाम् अप्रदानाद् धीनाद् वातिरिक्ताद् वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमाद् इति (२,२.५ह्) एतद् वै सर्वं ब्रह्मण्य् अर्पितम् (२,२.५इ) ब्रह्मैव विद्वान् यद् भृग्वङ्गिरोवित् सम्यग् अधीयानश् चरितब्रह्मचर्यो ऽन्यूनानतिरिक्ताङ्गो ऽप्रमत्तो यज्ञं रक्षति (२,२.५ज्) तस्य प्रमादाद् यदि वाप्य् असांनिध्याद् यथा भिन्ना नौर् अगाधे महत्य् उदके संप्लवेन् मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनाम् (२,२.५क्) एवं खल्व् अपि यज्ञश् छिन्नभिन्नो ऽपध्वस्त उत्पाताद्भुतो बहुलो ऽथर्वभिर् असंस्कृतो ऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनां (२,२.५ल्) तद् अपि श्लोकाः (२,२.५म्) छिन्नभिन्नो ऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् ॥ (२,२.५न्) ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद् यत्र यज्ञो विरिष्यते ॥ [एद्. विरष्यते, चोर्रेच्तेद् प्. ३०२] (२,२.५ओ) दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदाद् असंस्कृतः ॥ (२,२.५प्) चतुष्पात् सकलो यज्ञश् चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैर् ऋत्विग्भिर् वेदपारगैः ॥ (२,२.५ॠ) प्रायश्चित्तैर् अनुध्यानैर् अनुज्ञानानुमन्त्रणैः । होमैश् च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् ॥ इति (२,२.५र्) तस्माद् यजमानो भृग्वङ्गिरोविदम् एव तत्र ब्रह्माणं वृणीयात् (२,२.५स्) स हि यज्ञं तारयतीति ब्राह्मणम् ॥ ५ ॥

(२,२.६अ) यज्ञो वै देवेभ्य उदक्रामन् न वो ऽहम् अन्नं भविष्यामीति [एद्. उदक्रमन्, चोर्र्. ড়त्यल्] (२,२.६ब्) नेति देवा अब्रुवन्न् अन्नम् एव नो भविष्यसीति (२,२.६च्) तं देवा विमेथिरे (२,२.६द्) स एभ्यो विहृतो न प्रबभूव (२,२.६ए) ते होचुर् देवाः (२,२.६f) न वै न इत्थं विहृतो ऽलं भविष्यति (२,२.६ग्) हन्तेमं संभराम् एति (२,२.६ह्) तं संजभ्रुस् (२,२.६इ) तं संभृत्योचुर् अश्विनाव् इमं भिषज्यतम् इति [एद्. अश्विणाव्, चोर्र्. ড়त्यल्] (२,२.६ज्) अश्विनौ वै देवानां भिषजौ (२,२.६क्) अश्विनाव् अध्वर्यू (२,२.६ल्) तस्माद् अध्वर्यू घर्मं संभरतस् (२,२.६म्) तं संभृत्योचतुर् ब्रह्मन् घर्मेण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् उद्गातः सामानि गायेति (२,२.६न्) प्रचरत घर्मम् इत्य् अनुजानाति (२,२.६ओ) ब्रह्मप्रसूता हि प्रचरन्ति (२,२.६प्) ब्रह्म हेदं प्रसवानाम् ईशे (२,२.६ॠ) सवितृप्रसूततायै (२,२.६र्) <घर्मं तपामि [ড়्ष् ५.१६.२, सकल अत् Vऐत्ष् १४.१]> <ब्रह्म जज्ञानम् [ড়्ष् ५.२.२, श्ष् ४.१.१, Vऐत्ष् १४.१]> <इयं पित्र्या राष्ट्र्य् एत्व् अग्रे [ড়्ष् ५.२.१, श्ष् ४.१.२, Vऐत्ष् १४.१]>इति घर्मं ताप्यमानम् उपासीत शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः (२,२.६स्) एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धम् (२,२.६त्) यत् कर्म क्रियमाणम् ऋग् यजुर् वाभिवदति स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद (२,२.६उ) देवमिथुनं वा एतद् यद् घर्मस् (२,२.६व्) तस्माद् अन्तर्धाय प्रचरन्ति (२,२.६w) अन्तर्हिता वै मिथुनं चरन्तीति (२,२.६x) तद् एतद् देवमिथुनम् इत्य् आचक्षते (२,२.६य्) तस्य यो घर्मस् तच्छिश्नम् (२,२.६श्) यौ शफौ ताव् आण्ड्यौ (२,२.६अअ) योपयमनी ते श्रोणिकपाले (२,२.६ब्ब्) यत् पयस् तद् रेतस् (२,२.६च्च्) तद् अग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय (२,२.६द्द्) सो ऽग्निर् देवयोनिर् ऋङ्मयो यजुर्मयः साममयो ब्रह्ममयो ऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकम् एति (२,२.६एए) तद् आहुर् न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनम् उत्तरे यज्ञक्रतवो भवन्तीति (२,२.६ff) कामं तु यो ऽनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्यात् (२,२.६ग्ग्) आत्मा वै स यज्ञस्येति विज्ञायते (२,२.६ह्ह्) अपशिरसा ह वा एष यज्ञेन यजते यो ऽप्रवर्ग्येण यजते (२,२.६इइ) शिरो ह वा एतद् यज्ञस्य यत् प्रवर्ग्यस् (२,२.६ज्ज्) तस्मात् प्रवर्ग्यवतैव याजयेन् नाप्रवग्येण (२,२.६क्क्) तद् अप्य् एषाभ्यनूक्ता <चत्वारि शृङ्गा [ড়्ष् ८.१३.३, सकल अत् १,२.१६f]>इति ॥ ६ ॥

(२,२.७अ) देवाश् च ह वा ऋषयश् चासुरैः संयत्ता आसन् [एद्. चिआसुरैः] (२,२.७ब्) तेषाम् असुराणाम् इमाः पुरः प्रत्यभिजिता आसन्न् अयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस् (२,२.७च्) ते देवाः संघातंसंघातं पराजयन्त (२,२.७द्) ते ऽविदुर् अनायतना हि वै स्मस् (२,२.७ए) तस्मात् पराजयामहा इति [एद्. पराजयामह, चोर्र्. ড়त्यल्] (२,२.७f) त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रम् अन्तरिक्षात् सदः पृथिव्यास् (२,२.७ग्) ते देवा अब्रुवन्न् उपसदम् उपायाम (२,२.७ह्) उपसदा वै महापुरं जयन्तीति (२,२.७इ) त एभ्यो लोकेभ्यो निरघ्नन् (२,२.७ज्) एकयामुष्माल् लोकाद् एकयान्तरिक्षाद् एकया पृथिव्यास् (२,२.७क्) तस्माद् आहुर् उपसदा वै महापुरं जयन्तीति (२,२.७ल्) त एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशन् (२,२.७म्) ते षड् उपायन् (२,२.७न्) तान् उपसद्भिर् एवर्तुभ्यो निरघ्नन् (२,२.७ओ) द्वाभ्याम् अमुष्माल् लोकाद् द्वाभ्याम् अन्तरिक्षाद् द्वाभ्यां पृथिव्यास् (२,२.७प्) त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन् (२,२.७ॠ) ते द्वादशोपायन् (२,२.७र्) तान् उपसद्भिर् एव संवत्सरान् निरघ्नन् (२,२.७स्) चतसृभिर् अमुष्माल् लोकाच् चतसृभिर् अन्तरिक्षाच् चतसृभिः पृथिव्यास् (२,२.७त्) ते संवत्सरान् निर्हता अहोरात्रे प्राविशन् (२,२.७उ) ते यत् सायम् उपायंस् तेनैनान् रात्र्या अनुदन्त यत् प्रातस् तेनाह्नस् (२,२.७व्) तस्माद् गौः सायं प्रातस्तनम् आप्यायते प्रातः सायन्तनम् (२,२.७w) तान् उपसद्भिर् एवैभ्यो लोकेभ्यो नुदमाना आयन् (२,२.७x) ततो देवा अभवन् परासुराः (२,२.७य्) सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वान् उपसदम् उपैति ॥ ७ ॥

(२,२.८अ) न द्वादशाग्निष्टोमस्योपसदः स्युः (२,२.८ब्) अशान्ता निर्मृज्युर् न तिस्रो ऽहीनस्य (२,२.८च्) उपरिष्टाद् यज्ञक्रतुर् गरीयान् अभिषीदेद् यथा गुरुर् भारो ग्रीवा निःशृणीयाद् आर्तिम् आर्छेत् (२,२.८द्) द्वादशाहीनस्य कुर्यात् (२,२.८ए) प्रत्युत्तब्ध्यै सयत्वाय (२,२.८f) तिस्रो ऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय (२,२.८ग्) ते देवा असुर्यान् इमांल् लोकान् नान्ववैतुम् अधृष्णुवन् (२,२.८ह्) तान् अग्निना मुखेनान्ववायन् (२,२.८इ) यद् अग्निम् अन्त्य् उपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रे ऽन्ववनयत्य् एवम् एवैतद् अग्निना मुखेनेमांल् लोकान् अभिनयन्तो यन्ति [एद्. ऽन्ववनयन्त्य्, चोर्र्. ড়त्यल्] (२,२.८ज्) यो ह वै देवान् साध्यान् वेद सिध्यत्य् अस्मै (२,२.८क्) इमे वाव लोका यत् साध्या देवाः (२,२.८ल्) स य एवम् एतान्त् साध्यान् वेद सिध्यत्य् अस्मै (२,२.८म्) सिध्यत्य् अमुष्मै सिध्यत्य् अस्मै लोकाय य एवंविद्वान् उपसदम् उपैति ॥ ८ ॥

(२,२.९अ) अथ यत्राहाध्वर्युर् अग्नीद् देवपत्नीर् व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्याम् आह्वयेति तद् अपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे (२,२.९ब्) पृथिव्य् अग्नेः पत्नी (२,२.९च्) वाग् वातस्य पत्नी (२,२.९द्) सेनेन्द्रस्य पत्नी (२,२.९ए) धेना बृहस्पतेः पत्नी (२,२.९f) पथ्या पूष्णः पत्नी (२,२.९ग्) गायत्री पसूनां पत्नी (२,२.९ह्) त्रिष्टुब् रुद्राणां पत्नी (२,२.९इ) जगत्य् आदित्यानां पत्नी (२,२.९ज्) अनुष्टुम् मित्रस्य पत्नी (२,२.९क्) विराड् वरुणस्य पत्नी (२,२.९ल्) पङ्क्तिर् विष्णोः पत्नी (२,२.९म्) दीक्षा सोमस्य राज्ञः पत्नीति (२,२.९न्) अति भ्रातृव्यान् आरोहति नैनं भ्रातृव्या आरोहन्त्य् उपरि भ्रातृव्यान् आरोहति य एवंविद्वान् आग्नीध्रो देवपत्नीर् व्याचष्टे ॥ ९ ॥ [एद्. आरुओहन्त्य्, आरुओहति]

(२,२.१०अ) यथा वै रथ एकैकम् अरम् अभिप्रतितिष्ठन् वर्तत एवं यज्ञ एकैकां तन्वम् अभिप्रतितिष्ठन्न् एति (२,२.१०ब्) पुरा प्रचरितोर् आग्नीध्रीये होतव्याः (२,२.१०च्) एतद् ध वा उवाच वासिष्ठः सात्यहव्यो ऽस्कन् सोम इत्य् उक्ते मा सूर्क्षत प्रचरत प्रातर् वावाद्याहं सोमं समस्थापयम् इति (२,२.१०द्) नास्य सोम स्कन्दति य एवंविद्वान्त् सोमं पिबति (२,२.१०ए) स ह स्म वै स आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबति (२,२.१०f) अहं वाव सर्वतो यज्ञं वेद य एतान् वेद (२,२.१०ग्) न माम् एष हिंसिष्यतीति (२,२.१०ह्) नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त् सोमं पिबति (२,२.१०इ) तं ह स्म यद् आहुः कस्मात् त्वम् इदम् आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबसीति (२,२.१०ज्) देवतास्व् एव यज्ञं प्रतिष्ठापयामीत्य् अब्रवीद् ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान् यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद् ब्रह्मणो, चोर्र्. ড়त्यल्] (२,२.१०क्) देवतास्व् एव यज्ञं प्रतिष्ठापयति (२,२.१०ल्) यज्ञार्तिं प्रतिजुहुयात् (२,२.१०म्) सयोनित्वाय (२,२.१०न्) त्रयस्त्रिंशद् वै यज्ञस्य तन्व इति (२,२.१०ओ) एकान्नत्रिंशत् स्तोमभागास् (२,२.१०प्) त्रीणि सवनानि (२,२.१०ॠ) यज्ञश् चतुर्थः (२,२.१०र्) स्तोमभागैर् एवैतत् स्तोमभागान् प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम् (२,२.१०स्) सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः (२,२.१०त्) देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति (२,२.१०उ) यद्यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन् (२,२.१०व्) सवितृप्रसूता एव स्तुवन्ति (२,२.१०w) ऋध्नुवन्ति (२,२.१०x) ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे (२,२.१०य्) ऋध्यते यजमान ऋध्यते प्रजायाः [एद्. ऋध्यते ऋध्यते, चोर्रेच्तेद् प्. ३०२] (२,२.१०श्) ऋध्यते पशुभ्यः (२,२.१०अअ) ऋध्यते ब्रह्मणे यस्यैवंविद्वान् ब्रह्मा भवति ॥ १० ॥

(२,२.११अ) देवाश् च ह वा असुराश् चास्पर्धन्त (२,२.११ब्) ते देवाः समावद् एव यज्ञे कुर्वाणा आसन् (२,२.११च्) यद् एव दवा अकुर्वत तद् असुरा अकुर्वत (२,२.११द्) ते न व्यावृतम् अगच्छन् (२,२.११ए) ते देवा अब्रुवन् नयतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामह इति (२,२.११f) तम् एताभिर् आच्छाद्योदक्रामन् यजूंषि यज्ञे समिधः स्वाहेति (२,२.११ग्) तं तिर उपर्य् असुरेभ्यो यज्ञम् अतन्वत (२,२.११ह्) तम् एषां यज्ञम् असुरा नान्ववायन् (२,२.११इ) ततो देवा अभवन् परासुराः (२,२.११ज्) स य एवंविद्वांस् तिर उपर्य् असुरेभ्यो यज्ञं तनुते भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति (२,२.११क्) एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश् चतुर्भिर् अन्वाख्यायम् (२,२.११ल्) पुरस्तात् प्रातरनुवाकस्य जुहुयात् (२,२.११म्) एतावान् वै यज्ञो यावान् एष यज्ञस् तं वृङ्क्ते (२,२.११न्) सयज्ञो भवति (२,२.११ओ) अयज्ञ इतरः (२,२.११प्) एतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्य (२,२.११ॠ) एष ह वै प्रत्यक्षं द्वादशाहस् (२,२.११र्) तम् एवालभ्यैतैर् एव जुहुयात् (२,२.११स्) पुरस्ताद् दीक्षायाः (२,२.११त्) एषा ह वै प्रत्यक्षं दीक्षा (२,२.११उ) ताम् एवालभ्यैतैर् एवातिथ्यम् अभिमृशेद् <यज्ञेन यज्ञम् अयजन्त देवाः [श्ष् ७.५.१, ড়्ष् २०.२.२, Vऐत्ष् १६.१५]> इति ॥ ११ ॥

(२,२.१२अ) यत्र विजानाति ब्रह्मन्त् सोमो ऽस्कन्न् इति तम् एतयालभ्याभिमन्त्रयते<अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् [ऋV ४.५४.१]>इति (२,२.१२ब्) <ये अग्नयो अप्स्व् अन्तर् [श्ष् ३.२१.१, Vऐत्ष् १६.१६, च्f. ড়्ष् १०.९.१?]> इति सप्तभिर् अभिजुहोति (२,२.१२च्) यद् एवास्यावस्कन्नं भवति तद् एवास्यैतद् अग्नौ स्वगाकरोति (२,२.१२द्) अग्निर् हि सुकृतीनां हविषां प्रतिष्ठा (२,२.१२ए) अथ विसृप्य वैप्रुषान् होमाञ् जुहोति <द्रप्सश् चस्कन्द [ऋV १०.१७.११, ড়्ष् २०.१३.७, श्ष् १८.४.२८, Vऐत्ष् १६.१७]>इति [एद्. जुह्वति, चोर्र्. ড়त्यल्] (२,२.१२f) या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्य् अंशुर् वा ता एवास्यैतद् आहवनीये स्वगाकरोति [एद्. आहवणीये] (२,२.१२ग्) आहवनीयो ह्य् आहुतीनां प्रतिष्ठा (२,२.१२ह्) <यस् ते द्रप्स स्कन्दति [ऋV १०.१७.१२अ, ড়्ष् २०.१३.८अ, Vऐत्ष् १६.१७]>इति (२,२.१२इ) स्तोको वै द्रप्सः (२,२.१२ज्) <यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् [ऋV १०.१७.१२ब्, ড়्ष् २०.१३.८ब्, Vऐत्ष् १६.१७]>इति बाहुभिर् अभिच्युतो ऽंशुर् अधिषवणाभ्याम् अधिस्कन्दति (२,२.१२क्) <अध्वर्योर् वा परि यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् [ড়्ष् २०.१३.८च्द्, ऋV १०.१७.१२च्द्, Vऐत्ष् १६.१७]> इति (२,२.१२ल्) तद् यथा वषट्कृतं स्वाहाकृतं हुतम् एवं भवति ॥ १२ ॥

(२,२.१३अ) ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन् (२,२.१३ब्) तं वसिष्ठ एव प्रत्यक्षम् अपश्यत् (२,२.१३च्) सो ऽबिभेद् इतरेभ्य ऋषिभ्यो मा प्रवोचद् इति (२,२.१३द्) सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते (२,२.१३ए) अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति (२,२.१३f) तस्मा एतान् स्तोमभागान् उवाच (२,२.१३ग्) ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त (२,२.१३ह्) स्तोमो वा एते एतेषां भागस् (२,२.१३इ) तत् स्तोमभागानां स्तोमभागत्वम् (२,२.१३ज्) रश्मिर् असि क्षयाय त्वेति (२,२.१३क्) क्षयो वै देवाः (२,२.१३ल्) देवेभ्य एव यज्ञं प्राह (२,२.१३म्) प्रेतिर् असि धर्मणे त्वेति (२,२.१३न्) धर्मो मनुष्याः (२,२.१३ओ) मनुष्येभ्य एव यज्ञं प्राह (२,२.१३प्) अन्वितिर् असि संधिर् असि प्रतिधिर् असीति [एद्. अनितिर्, चोर्र्. ড়त्यल्] (२,२.१३ॠ) त्रयो वै लोकाः (२,२.१३र्) लोकेष्व् एव यज्ञं प्रतिष्ठापयति (२,२.१३स्) विष्टम्भो ऽसीति (२,२.१३त्) वृष्टिम् एवावरुन्द्धे (२,२.१३उ) प्रावो ऽस्य् अह्नांसीति मिथुनम् एव करोति (२,२.१३व्) उशिग् असि प्रकेतो ऽसि सुदितिर् असीति (२,२.१३w) अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग् द्वात्रिंशी स्वरस् त्रयस्त्रिंशस्त्रयस्त्रिंशद् देवाः (२,२.१३x) देवेभ्य एव यज्ञं प्राह (२,२.१३य्) ओजो ऽसि पितृभ्यस् त्वेति (२,२.१३श्) बलम् एव तत्पितॄन् अनुसंतनोति (२,२.१३अअ) तन्तुर् असि प्रजाभ्यस् त्वेति (२,२.१३ब्ब्) प्रजा एव पशून् अनुसंतनोति (२,२.१३च्च्) रेवद् अस्य् ओषधीभ्यस् त्वेति (२,२.१३द्द्) ओषधीष्व् एव यज्ञं प्रतिष्ठापयति (२,२.१३एए) पृतनाषाड् असि पशुभ्यस् त्वेति (२,२.१३ff) प्रजा एव पशून् अनुसंतनोति (२,२.१३ग्ग्) अभिजिद् असीति (२,२.१३ह्ह्) वज्रो वै षोडशी (२,२.१३इइ) व्यावृत्तो ऽसौ वज्रस् (२,२.१३ज्ज्) तस्माद् एषो ऽन्यैर् व्यावृत्तः (२,२.१३क्क्) नाभुर् असीति (२,२.१३ल्ल्) प्रजापतिर् वै सप्तदशः (२,२.१३म्म्) प्रजापतिम् एवावरुन्द्धे ॥ १३ ॥

(२,२.१४अ) अधिपतिर् असि धरुणो ऽसि संसर्पो ऽसि वयोधा असीति (२,२.१४ब्) प्राणो ऽपानश् चक्षुः श्रोत्रम् इत्य् एतानि वै पुरुषम् अकरन् प्रणान् उपैति (२,२.१४च्) प्रजात्या एव (२,२.१४द्) त्रिवृद् असि प्रवृद् असि स्ववृद् अस्य् अनुवृद् असीति (२,२.१४ए) मिथुनम् एव करोति (२,२.१४f) आरोहो ऽसि प्ररोहो ऽसि संरोहो ऽस्य् अनुरोहो ऽसीति [एद्. आरुओहो] (२,२.१४ग्) प्रजापतिर् एव (२,२.१४ह्) वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असीति (२,२.१४इ) प्रतिष्ठितिर् एव (२,२.१४ज्) आक्रमो ऽसि संक्रमो ऽस्य् उत्क्रमो ऽस्य् उत्क्रान्तिर् असीति (२,२.१४क्) ऋद्धिर् एव (२,२.१४ल्) यद् यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन् (२,२.१४म्) सवितृप्रसूता एव स्तुवन्ति (२,२.१४न्) ऋध्नुवन्ति (२,२.१४ओ) बृहस्पतये स्तुतेति (२,२.१४प्) बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा (२,२.१४ॠ) तद् अनुमत्यैवों भूर् जनद् इति प्रातःसवने (२,२.१४र्) ऋग्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेति (२,२.१४स्) एवों भुवो जनद् इति माध्यंदिने सवने (२,२.१४त्) यजुर्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तैः (२,२.१४उ) स्तुतेत्य् एवों स्वर् जनद् इति तृतीयसवने (२,२.१४व्) सामभिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेत्य् एव (२,२.१४w) अथ यद्य् अहीन उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्यामा वा स्यात् सर्वाभिः सर्वाभिर् अत ऊर्ध्वं व्याहृतिभिर् अनुजानाति (२,२.१४x) ओं भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इन्द्रवन्त स्तुतेति सेन्द्रान् मापगायत सेन्द्रान् स्तुतेत्य् एव (२,२.१४य्) इन्द्रियवान् ऋद्धिमान् वशीयान् भवति य एवं वेद यश् चैवंविद्वान्त् स्तोमभागैर् यजते ॥ १४ ॥

(२,२.१५अ) यो ह वा आयतांश् च प्रतियतांश् च स्तोमभागान् विद्यात् स विष्पर्धमानयोः समृतसोमयोर् ब्रह्मा स्यात् (२,२.१५ब्) <स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून् वो देवान् रुद्रान् वो देवान् आदित्यान् वो देवान् साध्यान् वो देवान् आप्त्यान् वो देवान् विश्वान् वो देवान् सर्वान् वो देवान् विश्वतस् परि हवामहे [Vऐत्ष् १७.७]> (२,२.१५च्) <जनेभ्यो ऽस्माकम् अस्तु केवलः [Vऐत्ष् १७.७ (च्f. ড়्ष् ५.४.९च्)]> (२,२.१५द्) <इतः कृणोतु वीर्यम् [Vऐत्ष् १७.७ (ড়्ष् ५.४.९द्)]> इति (२,२.१५ए) एते ह वा आयताश् च प्रतियताश् च स्तोमभागास् (२,२.१५f) ताञ् जपन्न् उपर्युपरि परेषां ब्रह्माणम् अवेक्षेत (२,२.१५ग्) तत एषाम् अधःशिरा ब्रह्मा पतति (२,२.१५ह्) ततो यज्ञस् (२,२.१५इ) ततो यजमानः (२,२.१५ज्) यजमाने ऽधःशिरसि पतिते स देशो ऽधःशिराः पतति यस्मिन्न् अर्धे यजन्ते (२,२.१५क्) देवाश् च ह वा असुराश् च समृतसोमौ यज्ञाव् अतनुताम् (२,२.१५ल्) अथ बृहस्पतिर् आङ्गिरसो देवानां ब्रह्मा (२,२.१५म्) स आयतांश् च प्रतियतांश् च स्तोमभागाञ् जपन्न् उपर्युपर्य् असुराणां ब्रह्माणम् अवैक्षत (२,२.१५न्) तत एषाम् अधःशिरा ब्रह्मापतत् (२,२.१५ओ) ततो यज्ञस् (२,२.१५प्) ततो ऽसुरा इति ॥ १५ ॥

(२,२.१६अ) देवा यज्ञं पराजयन्त (२,२.१६ब्) तम् आग्नीध्रात् पुनर् उपाजयन्त (२,२.१६च्) तद् एतद् यज्ञस्यापराजितं यद् आग्नीध्रम् (२,२.१६द्) यद् आग्नीध्राद् धिष्ण्यान् विहरति तत एवैनं पुनस् तनुते (२,२.१६ए) पराजित्यै (२,२.१६f) अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति (२,२.१६ग्) बहिष्पवमाने स्तुत आह (२,२.१६ह्) अग्नीद् अग्नीन् विहर बर्हि स्तृणीहि पुरोडाशान् अलंकुर्व् इति (२,२.१६इ) यज्ञम् एवापराजित्य पुनस् तन्वाना आयन्ति (२,२.१६ज्) अङ्गारैर् द्वे सवने विहरति शलाकाभिस् तृतीयसवनं सश्रुक्रत्वाय (२,२.१६क्) अथो संभवत्य् एवम् एवैतत् (२,२.१६ल्) दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन् [एद्. अजिधांसन्] (२,२.१६म्) तान्य् आग्नीध्रेणापाघ्नत (२,२.१६न्) तस्माद् दक्षिणामुखस् तिष्ठन्न् अग्नीत् प्रत्याश्रावयति (२,२.१६ओ) यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ १६ ॥

(२,२.१७अ) तद् आहुर् अथ कस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति न हविर्यज्ञ इति (२,२.१७ब्) अकृत्स्ना वा एषा देवयज्या यद् धविर्यज्ञः (२,२.१७च्) अथ हैषैव कृत्स्ना देवयज्या यत् सौम्यो ऽध्वरस् (२,२.१७द्) तस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति (२,२.१७ए) जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग् यद् वाचो मधुमत्तमं तस्मिन् मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात् स्वाहाकारेण जुहोति [एद्. -स्वाहाकरेण] (२,२.१७f) तस्माद् वाग् अत ऊर्ध्वम् उत्सृष्टा यज्ञं वहति मनसोत्तराम् (२,२.१७ग्) मनसा हि मनः प्रीतम् (२,२.१७ह्) तद् उ हैके सप्ताहुतीर् जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रम् इति वदन्तः (२,२.१७इ) यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै (२,२.१७ज्) प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम् (२,२.१७क्) तस्मात् सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः (२,२.१७ल्) जनं ह्य् एतत् (२,२.१७म्) देवलोकं ह्य् अध्यारोहन्ति (२,२.१७न्) तेषाम् एतद् आयतनं चोदयनं च यद् आग्नीध्रं च सदश् च (२,२.१७ओ) तद् यो ऽविद्वान्त् संचरत्य् आर्तिम् आर्छत्यि (२,२.१७प्) अथ यो विद्वान्त् संचरति न स धिष्णीयाम् आर्तिम् आर्छति ॥ १७ ॥ [एद्. विद्वन्त्]

(२,२.१८अ) प्रजापतिर् वै यज्ञस् (२,२.१८ब्) तस्मिन्त् सर्वे कामाः सर्वा इष्टीः सर्वम् अमृतत्वम् (२,२.१८च्) तस्य हैते गोप्तारो यद् धिष्ण्यास् (२,२.१८द्) तान्त् सदः प्रस्रप्स्यन् नमस्करोति (२,२.१८ए) नमो नम इति (२,२.१८f) न हि नमस्कारम् अति देवास् (२,२.१८ग्) ते ह नमसिताः कर्तारम् अतिसृजन्तीति (२,२.१८ह्) तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति (२,२.१८इ) न हि नमस्कारम् अति देवाः (२,२.१८ज्) स तत्रैव यजमानः सर्वान् कामान् आप्नोति सर्वान् कामान् आप्नोति ॥ १८ ॥

(२,२.१९अ) यो वै सदस्यान् गन्धर्वान् वेद न सदस्याम् आर्तिम् आर्छति (२,२.१९ब्) सदः प्रस्रप्स्यन् ब्रूयाद् उपद्रष्ट्रे नम इति (२,२.१९च्) अग्निर् वै द्रष्टा तस्मा उ एवात्मानं परिददाति (२,२.१९द्) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद (२,२.१९ए) सदः प्रसृप्य ब्रूयाद् उपश्रोत्रे नम इति (२,२.१९f) वायुर् वा उपश्रोता (२,२.१९ग्) तस्मा उ एवात्मानं परिददाति (२,२.१९ह्) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद (२,२.१९इ) सदः प्रसर्पन् ब्रूयाद् अनुख्यात्रे नम इति (२,२.१९ज्) आदित्यो वा अनुख्याता (२,२.१९क्) तस्मा उ एवात्मानं परिददाति (२,२.१९ल्) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद (२,२.१९म्) सदः प्रसृप्तो ब्रूयाद् उपद्रष्ट्रे नम इति (२,२.१९न्) ब्राह्मणो वा उपद्रष्टा (२,२.१९ओ) तस्मा उ एवात्मानं परिददाति (२,२.१९प्) सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद (२,२.१९ॠ) ते वै सदस्या गन्धर्वाः (२,२.१९र्) स य एवम् एतान्त् सदस्यान् गन्धर्वान् अविद्वान्त् सदः प्रसर्पति स सदस्याम् आर्तिम् आर्छति (२,२.१९स्) अथ यो विद्वान्त् संचरति न सदस्याम् आर्तिम् आर्छति (२,२.१९त्) एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस् (२,२.१९उ) ते न सदस्याम् आर्तिम् आर्छन्ति (२,२.१९व्) अथ यान् कामयेत न सदस्याम् आर्तिम् आर्छेयुर् इति तेभ्य एतेन सर्वं सदः परिब्रूयात् (२,२.१९w) ते न सदस्याम् आर्तिम् आर्छन्ति (२,२.१९x) अथ यं कामयेत प्रमीयतेति तम् एतेभ्य आवृश्चेत् (२,२.१९य्) प्रमीयते ॥ १९ ॥

(२,२.२०अ) तद् आहुर् यद् ऐन्द्रो यज्ञो ऽथ कस्माद् द्वाव् एव प्रातःसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च [एद्. ऐद्रीभ्यां] (२,२.२०ब्) <इदं ते सोम्यं मधु [ऋV ८.६५.८]>इति होता यजति (२,२.२०च्) <इन्द्र त्वा वृषभं वयम् [ऋV ३.४०.१, Vऐत्ष् १९.६]> इति ब्राह्मणाच्छंसी (२,२.२०द्) नानादेवत्याभिर् इतरे (२,२.२०ए) कथं तेषाम् ऐन्द्र्यो भवन्ति (२,२.२०f) <मित्रं वयं हवामहे [ऋV १.२३.४अ]>इति मैत्रावरुणो यजति (२,२.२०ग्) <वरुणं सोमपीतये [ऋV १.२३.४ब्]>इति (२,२.२०ह्) यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम् (२,२.२०इ) तेनेन्द्रं प्रीणाति (२,२.२०ज्) <मरुतो यस्य हि क्षये [ऋV १.८६.१अ, श्ष् २०.१.२अ]>इति पोता यजति (२,२.२०क्) <स सुगोपातमो जनः [ऋV १.८६.१च्, श्ष् २०.१.२च्]>इति [एद्. सुगोपतमो, चोर्रेच्तेद् प्. ३०२] (२,२.२०ल्) इन्द्रो वै गोपास् (२,२.२०म्) तद् ऐन्द्रं रूपम् (२,२.२०न्) तेनेन्द्रं प्रीणाति (२,२.२०ओ) <अग्ने पत्नीर् इहा वह [ऋV १.२२.९अ]>इति नेष्टा यजति (२,२.२०प्) <त्वष्टारं सोमपीतये [ऋV १.२२.९च्]>इति (२,२.२०ॠ) यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम् (२,२.२०र्) तेनेन्द्रं प्रीणाति (२,२.२०स्) <उक्षान्नाय वशान्नाय [ऋV ८.४३.११अ, ড়्ष् ३.१२.६अ, श्ष् ३.२१.६अ/२०.१.३अ]>इत्य् आग्नीध्रो यजति (२,२.२०त्) <सोमपृष्ठाय वेधसे [ऋV ८.४३.११ब्, ড়्ष् ३.१२.६ब्, श्ष् ३.२१.६ब्/२०.१.३ब्]>इति (२,२.२०उ) इन्द्रो वै वेधास् (२,२.२०व्) तद् ऐन्द्रं रूपम् (२,२.२०w) तेनेन्द्रं प्रीणाति (२,२.२०x) <प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋV ८.३८.७]>इति (२,२.२०य्) स्वयंसमृद्धा अच्छावाकस्य (२,२.२०श्) एवम् उ हैता ऐन्द्र्यो भवन्ति (२,२.२०अअ) यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति (२,२.२०ब्ब्) यद् गायत्र्यस् तेनाग्नेय्यस् (२,२.२०च्च्) तस्माद् एताभिस् त्रयम् अवाप्तं भवति ॥ २० ॥

(२,२.२१अ) ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभिर् यजन्ति (२,२.२१ब्) अभितृणवतीभिर् एके (२,२.२१च्) <पिबा सोमम् अभि यम् उग्र तर्दः [ऋV ६.१७.१]>इति होता यजति (२,२.२१द्) <स ईं पाहि य ऋजीषी तरुत्रः [ऋV ६.१७.२]>इति मैत्रावरुणः (२,२.२१ए) <एवा पाहि प्रत्नथा मन्दतु त्वा [ऋV ६.१७.३]>इति ब्राह्मणाच्छंसी (२,२.२१f) <अर्वाङ् एहि सोमकामं त्वाहुः [ऋV १.१०४.९]>इति पोता (२,२.२१ग्) <तवायं सोमस् त्वम् एह्य् अर्वाङ् [ऋV ३.३५.६]> इति नेष्टा (२,२.२१ह्) <इन्द्राय सोमाः प्रदिवो विदानाः [ऋV ३.३६.२]>इत्य् अच्छावाकः (२,२.२१इ) <आपूर्णो अस्य कलशः स्वाहा [ऋV ३.३२.१५]>इत्य् आग्नीध्रः [एद्. स्वहोत्य्] (२,२.२१ज्) एवम् उ हैता अभितृणवत्यो भवन्ति (२,२.२१क्) इन्द्रो वै प्रातःसवनं नाभ्यजयत् (२,२.२१ल्) स एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् (२,२.२१म्) तद् यद् एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् तस्माद् एता अभितृणवत्यो भवन्ति ॥ २१ ॥

(२,२.२२अ) तद् आहुर् यद् ऐन्द्रार्भवं तृतीयसवनम् अथ कस्माद् एक एव तृतीयसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रार्भव्या यजति (२,२.२२ब्) <इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितम् [ऋV ३.६०.५]> इति होतैव (२,२.२२च्) नानादेवत्याभिर् इतरे (२,२.२२द्) कथं तेषाम् ऐन्द्रार्भव्यो भवन्ति (२,२.२२ए) <इन्द्रावरुणा सुतपाव् इमं सुतम् [ऋV ६.६८.१०, ড়्ष् २०.७.५अ, श्ष् ७.५८.१अ]> इति मैत्रावरुणो यजति [एद्. सतम्, चोर्रेच्तेद् प्. ३०२] (२,२.२२f) <युवो रथो अध्वरो देववीतये [ড়्ष् २०.७.५च्, श्ष् ७.५८.१च्, ऋV ६.६८.१०च्]>इति बहूनि वाह (२,२.२२ग्) तद् ऋभूणां रूपम् (२,२.२२ह्) <इन्द्रश् च सोमं पिबतं बृहस्पतये [ऋV ४.५०.१०अ, Vऐत्ष् २२.११]>इति ब्राह्मणाच्छंसी यजति (२,२.२२इ) <आ वां विशन्त्व् इन्दवः स्वाभुवः [ऋV ४.५०.१०च्]>इति बहूनि वाह (२,२.२२ज्) तद् ऋभूणां रूपम् (२,२.२२क्) <आ वो वहन्तु सप्तयो रघुष्यदः [ऋV १.८५.६अ]>इति पोता यजति (२,२.२२ल्) <रघुपत्वानः प्र जिगात बाहुभिः [ऋV १.८५.६ब्]>इति बहूनि वाह (२,२.२२म्) तद् ऋभूणां रूपम् (२,२.२२न्) <अमेव नः सुहवा आ हि गन्तन [ऋV २.३६.३]>इति नेष्टा यजति (२,२.२२ओ) गन्तनेति बहूनि वाह (२,२.२२प्) तद् ऋभूणां रूपम् (२,२.२२ॠ) <इन्द्राविष्णू पिबतं मध्वो अस्य [ऋV ६.६९.७अ]>इत्य् अच्छावाको यजति (२,२.२२र्) <आ वाम् अन्धांसि मदिराण्य् अग्मन् [ऋV ६.६९.७च्]>इति बहूनि वाह (२,२.२२स्) तद् ऋभूणां रूपम् (२,२.२२त्) <इमं स्तोमम् अर्हते जातवेदसे [ऋV १.९४.१अ]>इत्य् आग्नीध्रो यजति (२,२.२२उ) <रथम् इव सं महेमा मनीषया [ऋV १.९४.१ब्]>इति बहूनि वाह (२,२.२२व्) तद् ऋभूणां रूपम् (२,२.२२w) एवम् उ हैता ऐन्द्रार्भव्यो भवन्ति (२,२.२२x) यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति (२,२.२२य्) यद् उ जगत्प्रासाहा जागतम् उ वै तृतीयसवनम् (२,२.२२श्) तृतीयसवनस्य समष्ट्यै ॥ २२ ॥

(२,२.२३अ) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् (२,२.२३ब्) विचक्षयन्ति ब्राह्मणम् (२,२.२३च्) चनसयन्ति प्राजापत्यम् (२,२.२३द्) सत्यं वदन्ति (२,२.२३ए) एतद् वै मनुष्येषु सत्यं यच् चक्षुस् (२,२.२३f) तस्माद् आहुर् आचक्षाणम् अद्राग् इति (२,२.२३ग्) स यद् आहाद्राक्षम् इति तथाहास्य श्रद्दधति (२,२.२३ह्) यद्य् उ वै स्वयं वै दृष्टं भवति न बहूनां जनानाम् एष श्रद्दधाति (२,२.२३इ) तस्माद् विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् (२,२.२३ज्) सत्योत्तरा हैवैषां वाग् उदिता भवति ॥ २३ ॥

(२,२.२४अ) समृतयज्ञो वा एष यद् दर्शपूर्णमासौ (२,२.२४ब्) कस्य वाव देवा यज्ञम् आगच्छन्ति कस्य वा न (२,२.२४च्) बहूनां वा एतद् यजमानानां सामान्यम् अहस् (२,२.२४द्) तस्मात् पूर्वेद्युर् देवताः परिगृह्णीयात् (२,२.२४ए) यो ह वै पूर्वेद्युर् देवताः परिगृह्णाति तस्य श्वो भूते यज्ञम् आगच्छन्ति (२,२.२४f) तस्माद् विहव्यस्य चतस्र ऋचो जपेत् (२,२.२४ग्) यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः ॥ २४ ॥

(२,२.२४चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः ॥

(२,३.१अ) ओं देवपात्रं वै वषट्कारः (२,३.१ब्) यद् वषट्करोति देवपात्रेणैव तद् देवतास् तर्पयति (२,३.१च्) अथो यद् आभितृष्यन्तीर् अभिसंस्थं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति (२,३.१द्) तद् यथैवादो ऽश्वान् वा गा वा पुनरभ्याकारं तर्पयत्य् एवम् एव तद् देवतास् तर्पयति यद् अनुवषट्करोति (२,३.१ए) इमान् एवाग्नीन् उपासत इत्य् आहुर् धिष्ण्यान् (२,३.१f) अथ कस्मात् पूर्वस्मिन्न् एवाग्नौ जुह्वति पूर्वस्मिन् वषट्करोति (२,३.१ग्) यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान् प्रीणाति (२,३.१ह्) अथ संस्थितान् सोमान् भक्षयन्तीत्य् आहुर् येषां नानुवषट्करोति (२,३.१इ) तद् आहुः को नु सोमस्य स्विष्टकृद्भाग इति (२,३.१ज्) यद् एव सोमस्याग्ने वीहीत्य् अनुवषट्करोति तेनैव संस्थितान् सोमान् भक्षयन्तीत्य् आहुः (२,३.१क्) स उ एष सोमस्य स्विष्टकृद्भागो यद् अनुवषट्करोति ॥ १ ॥

(२,३.२अ) वज्रो वै वषट्कारः (२,३.२ब्) स यं द्विष्यात् तं मनसा ध्यायन् वषट्कुर्यात् (२,३.२च्) तस्मिंस् तद् वज्रम् आस्थापयति (२,३.२द्) षड् इति वषट्करोति (२,३.२ए) षड् वा ऋतवः (२,३.२f) ऋतूनाम् आप्त्यै (२,३.२ग्) वौषड् इति वषट्करोति (२,३.२ह्) असौ वाव वाव् ऋतवः षट् (२,३.२इ) एतम् एव तद् ऋतुष्व् आदधाति (२,३.२ज्) ऋतुषु प्रतिष्ठापयति (२,३.२क्) तद् उ ह स्माह वैद एतानि वा एतेन षट् प्रतिष्ठापयति (२,३.२ल्) द्यौर् अन्तरिक्षे प्रतिष्ठिता (२,३.२म्) अन्तरिक्षं पृथिव्याम् (२,३.२न्) पृथिव्य् अप्सु (२,३.२ओ) आपः सत्ये (२,३.२प्) सत्यं ब्रह्मणि (२,३.२ॠ) ब्रह्म तपसीति (२,३.२र्) एता एव तद् देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीर् इदं सर्वम् अनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. ড়त्यल्] (२,३.२स्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद ॥ २ ॥

(२,३.३अ) त्रयो वै वषट्काराः (२,३.३ब्) वज्रो धामच्छद् रिक्तः (२,३.३च्) स यद् एवोच्चैर् बलं वषट्करोति स वज्रस् (२,३.३द्) तं तं प्रहरति द्विषते भ्रातृव्याय वधं यो ऽस्य स्तृत्यस् तस्मै स्तरीतवे (२,३.३ए) तस्मात् स भ्रातृव्यवता वषट्कृत्यः (२,३.३f) अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत् (२,३.३ग्) तं तं प्रजाश् च पशवश् चानूपतिष्ठन्ते (२,३.३ह्) तस्मात् स प्रजाकामेन पशुकामेन वषट्कृत्यः (२,३.३इ) अथ येनैव षड् अपराध्नोति स रिक्तः (२,३.३ज्) रिणक्त्य् आत्मानं रिणक्ति यजमानम् (२,३.३क्) पापीयान् वषट्कर्ता भवति पापीयान् यस्मै वषट्करोति (२,३.३ल्) तस्मात् तस्याशां नेयात् (२,३.३म्) किं स्वित् स यजमानस्य पापभद्रम् आद्रियेतेति ह स्माह यो ऽस्य वषट्कर्ता भवति (२,३.३न्) अत्रैवैनं यथा कामयेत तथा कुर्यात् (२,३.३ओ) यं कामयेत यथैवानीजानो ऽभूत् तथैवेजानः स्याद् इति यथैवास्यर्चं ब्रूयात् तथैवास्य वषट्कुर्यात् (२,३.३प्) समानम् एवैनं तत् करोति (२,३.३ॠ) यं कामयेत पापीयान् स्याद् इत्य् उच्चैस्तराम् अस्यर्चं ब्रूयान् नीचैस्तरां वषट्कुर्यात् (२,३.३र्) पापीयांसम् एवैनं तत् करोति (२,३.३स्) यं कामयेत श्रेयान् स्याद् इति नीचैस्तराम् अस्यर्चं ब्रूयाद् उच्चैस्तरां वषट्कुर्यात् (२,३.३त्) श्रेयांसम् एवैनं तत् करोति (२,३.३उ) श्रिय एवैनं तच् छ्रियम् आदधाति ॥ ३ ॥

(२,३.४अ) यस्यै देवतायै हविर् गृहीतं स्यात् तां मनसा ध्यायन् वषट्कुर्यात् [एद्. दवतायै] (२,३.४ब्) साक्षाद् एव तद् देवतां प्रीणाति (२,३.४च्) प्रत्यक्षाद् देवतां परिगृह्णाति (२,३.४द्) संततम् ऋचा वषट्कृत्यम् (२,३.४ए) संतत्यै (२,३.४f) संधीयते प्रजया पशुभिर् य एवं वेद ॥ ४ ॥

(२,३.५अ) वज्रो वै वषट्कारः (२,३.५ब्) स उ एष प्रहृतो ऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम् (२,३.५च्) तस्माद् धाप्य् एतर्हि भूयान् इव मृत्युस् (२,३.५द्) तस्य हैषैव शान्तिर् एषा प्रतिष्ठा यद् वाग् इति (२,३.५ए) वषट्कृत्य वाग् इत्य् अनुमन्त्रयते (२,३.५f) वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेद् इति [एद्. प्रतिष्ठीसि, चोर्रेच्तेद् प्. ३०२] (२,३.५ग्) तद् उ स्माह दीर्घम् एवैतैत् सदप्रभ्व् ओजः सह ओज इत्य् अनुमन्त्रयेत (२,३.५ह्) ओजश् च ह वै सहश् च वषट्कारस्य प्रियतमे तन्वौ (२,३.५इ) प्रियाभ्याम् एव तत् तनूभ्यां समर्धयति (२,३.५ज्) प्रियया तन्वा समृध्यते य एवं वेद ॥ ५ ॥

(२,३.६अ) वाक् च वै प्राणापानौ च वषट्कारस् (२,३.६ब्) ते वषट्कृते वषट्कृते व्युत्क्रामन्ति (२,३.६च्) तान् अनुमन्त्रयते वाग् ओजः सह ओजो मयि प्राणापानाव् इति (२,३.६द्) वाचं चैव तत् प्राणापानौ च होतात्मनि प्रतिष्ठापयति (२,३.६ए) सर्वम् आयुर् एति (२,३.६f) न पुरा जरसः प्रमीयते य एवं वेद (२,३.६ग्) <शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः [ऋV ८.४८.४, Vऐत्ष् १९.१८]>इत्य् आत्मानं प्रत्यभिमृशति (२,३.६ह्) ईश्वरो वा एषो ऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुम् अनर्हन् मा भक्षयेद् इति (२,३.६इ) तद् यद् एतेन प्रत्यभिमृशत्य् आयुर् एवास्मै तत् प्रतिरते (२,३.६ज्) आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसान् आप्याययन्त्य् अभिरूपाभ्याम् (२,३.६क्) यद् यज्ञे ऽभिरूपं तत् समृद्धम् ॥ ६ ॥

(२,३.७अ) प्राणा वा ऋतुयाजास् (२,३.७ब्) तद् यद् ऋतुयाजैश् चरन्ति प्राणान् एव तद् यजमाने दधति (२,३.७च्) षड् ऋतुनेति यजन्ति (२,३.७द्) प्राणम् एव तद् यजमाने दधति (२,३.७ए) चत्वार ऋतुभिर् इति यजन्ति (२,३.७f) अपानम् एव तद् यजमाने दधति (२,३.७ग्) द्विर् ऋतुनेत्य् उपरिष्टात् (२,३.७ह्) व्यानम् एव तद् यजमाने दधति (२,३.७इ) स चासु संभृतस् त्रेधा विहृतः प्राणो ऽपानो व्यान इति [एद्. ऽपाणो] (२,३.७ज्) ततो ऽन्यत्र गुणितस् (२,३.७क्) तथा ह यजमानः सर्वम् आयुर् एत्य् अस्मिंल् लोक आर्ध्नोति (२,३.७ल्) आप्नोत्य् अमृतत्वम् अक्षितं स्वर्गे लोके (२,३.७म्) ते वा एते प्राणा एव यद् ऋतुयाजास् (२,३.७न्) तस्माद् अनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. ড়त्यल्] (२,३.७ओ) प्राणानां सन्तत्यै (२,३.७प्) सन्तन्ता इव हीमे प्राणाः (२,३.७ॠ) अथो ऋतवो वा ऋतुयाजाः (२,३.७र्) संस्थानुवषट्कारः [एद्. अनुवषट्कुआरो] (२,३.७स्) यो ऽत्रानुवषट्कुर्याद् असंस्थितान् ऋतून् संस्थापयेत् (२,३.७त्) यस् तं तत्र ब्रूयाद् असंस्थितान् ऋतून् समतिष्ठिपद् दुःषमं भविष्यतीति शश्वत् तथा स्यात् ॥ ७ ॥

(२,३.८अ) तद् आहुर् यद् धोता यक्षद् धोता यक्षद् इति मैत्रावरुणो होत्रे प्रेष्यत्य् अथ कस्माद् अहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद् धोता यक्षद् इति प्रेष्यतीति (२,३.८ब्) वाग् वै होता वाक् सर्व ऋत्विजः (२,३.८च्) वाग् यक्षद् वाग् यक्षद् इति (२,३.८द्) अथो सर्वे वा एते सप्त होतारो ऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति (२,३.८ए) अथ य उपरिष्टाद् द्वादशर्चजामितायै (२,३.८f) ते वै द्वादश भवन्ति (२,३.८ग्) द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. ড়त्यल्] (२,३.८ह्) संवत्सरः प्रजापतिः (२,३.८इ) प्रजापतिर् यज्ञः (२,३.८ज्) स यो ऽत्र भक्षयेद् यस् तं तत्र ब्रूयाद् अशान्तो भक्षो ऽननुवषट्कृत आत्मानम् अन्तरगान् न जीविष्यतीति तथा ह स्यात् [एद्. ऽनानुवषट्कृत, चोर्र्. ড়त्यल्] (२,३.८क्) यो वै भक्षयेत् प्राणो भक्षः प्राण आत्मानम् अन्तरगाद् इति तथैव भवति (२,३.८ल्) लिम्पेद् इवैवावजिघ्रेद् अत्र च द्विदेवत्येषु चेति (२,३.८म्) तद् उ तत्र शासनं वेदयन्ते (२,३.८न्) अथ यद् अभू व्यभिचरतो नान्योन्यम् अनुप्रपद्येते अध्वर्यू तस्माद् ऋतुर् ऋतुं नानुप्रपद्यते ॥ ८ ॥

(२,३.९अ) प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत (२,३.९ब्) ता हिंकारेणैवाभ्यजिघ्रत् [एद्. हिंकारेन, चोर्र्. ড়त्यल्] (२,३.९च्) ताः प्रजा अश्वम् आरंस् तद् बध्यते वा एतद् यज्ञो यद् धवींषि पच्यन्ते यत् सोमः सूयते यत् पशुर् आलभ्यते (२,३.९द्) हिंकारेण वा एतत् प्रजापतिर् हतम् अभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति (२,३.९ए) तस्माद् उ हिंक्रियते (२,३.९f) तस्माद् उ य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति (२,३.९ग्) प्रजापतिर् हि तम् अभिजिघ्रति (२,३.९ह्) यच् छकुनिर् आण्डम् अध्यास्ते यन् न सूयते तद् धि सापि हिंकृणोति (२,३.९इ) अथो खल्व् आहुर् महर्षिर् वा एतद् यज्ञस्याग्रे गेयम् अपश्यत् (२,३.९ज्) तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस् (२,३.९क्) तं देवाश् च ऋषयश् चाब्रुवन् वसिष्ठो ऽयम् अस्तु यो नो यज्ञस्याग्रे गेयम् अद्राग् इति (२,३.९ल्) तद् एतद् यज्ञस्याग्रे गेयं यद् धिंकारस् (२,३.९म्) ततो वै स देवानां श्रेष्ठो ऽभवत् (२,३.९न्) येन वै श्रेष्ठस् तेन वसिष्ठस् (२,३.९ओ) तस्माद् यस्मिन् वासिष्ठो ब्राह्मणः स्यात् तं दक्षिणाया नान्तरीयात् [एद्. स्यांत्] (२,३.९प्) तथा हास्य प्रीतो हिंकारो भवति (२,३.९ॠ) अथ देवाश् च ह वा ऋषयश् च यद् ऋक्सामे अपश्यंस् ते ह स्मैते अपश्यन् (२,३.९र्) ते यत्रैते अपश्यंस् तत एवैनं सर्वं दोहम् अदुहन् (२,३.९स्) ते वा एते दुग्धे यातयामे ये ऋक्सामे (२,३.९त्) ते हिंकारेणैवाप्यायेते (२,३.९उ) हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते (२,३.९व्) तस्माद् उ हिंकृत्याध्वर्यवः सोमम् अभिषुण्वन्ति (२,३.९w) हिंकृत्योद्गातारः साम्ना स्तुवन्ति (२,३.९x) हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति (२,३.९य्) हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति (२,३.९श्) तस्माद् उ हिंक्रियते (२,३.९अअ) प्रजापतिर् हि तम् अभिजिघ्रति (२,३.९ब्ब्) अथो खल्व् आहुर् एको वै प्रजापतेर् व्रतं बिभर्ति गौर् एव (२,३.९च्च्) तद् उभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति ॥ ९ ॥

(२,३.१०अ) देवविशः कल्पयितव्या इत्य् आहुः (२,३.१०ब्) छन्दश् छन्दसि प्रतिष्ठाप्यम् इति (२,३.१०च्) शंसावोम् इत्य् आह्वयते प्रातःसवने त्र्यक्षरेण (२,३.१०द्) शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण (२,३.१०ए) तद् अष्टाक्षरं संपद्यते (२,३.१०f) अष्टाक्षरा वै गायत्री (२,३.१०ग्) गायत्रीम् एवैतत् पुरस्तात् प्रातःसवने ऽचीकॢपताम् (२,३.१०ह्) उक्थं वाचीत्य् आह शस्त्वा चतुरक्षरम् (२,३.१०इ) ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति चतुरक्षरम् (२,३.१०ज्) तद् अष्टाक्षरं संपद्यते (२,३.१०क्) अष्टाक्षरा वै गायत्री (२,३.१०ल्) गायत्रीम् एवैतद् उभयतः प्रातःसवने ऽचीकॢपताम् (२,३.१०म्) अध्वर्यो शंसावोम् इत्य् आह्वयते माध्यंदिने षडक्षरेण (२,३.१०न्) शंसावो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरेण (२,३.१०ओ) तद् एकादशाक्षरं संपद्यते (२,३.१०प्) एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतत् पुरस्तान् माध्यंदिने ऽचीकॢपताम् (२,३.१०ॠ) उक्थं वाचीन्द्रायेत्य् आह शस्त्वा षडक्षरम् (२,३.१०र्) ओमुक्थशा यजेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम् (२,३.१०स्) तद् एकादशाक्षरं संपद्यते (२,३.१०त्) एकादशाक्षरा वै त्रिष्टुप् त्रिष्टुभम् एवैतद् उभयतो माध्यंदिने ऽचीकॢपताम् (२,३.१०उ) अध्वर्यो शंशंसावोम् इत्य् आह्वयते तृतीयसवने सप्ताक्षरेण (२,३.१०व्) शंसवो दैवेत्य् अध्वर्युः प्रतिगृणाति पञ्चाक्षरम् (२,३.१०w) तद् द्वादशाक्षरं संपद्यते (२,३.१०x) द्वादशाक्षरा वै जगती (२,३.१०य्) जगतीम् एवैतत् पुरस्तात् तृतीयसवने ऽचीकॢपताम् (२,३.१०श्) उक्थं वाचीन्द्राय देवेभ्य इत्य् आह शस्त्वा नवाक्षरम् (२,३.१०अअ) ओमुक्थशा इत्य् अध्वर्युः प्रतिगृणाति त्र्यक्षरम् (२,३.१०ब्ब्) तद् द्वादशाक्षरं संपद्यते (२,३.१०च्च्) द्वादशाक्षरा वै जगती (२,३.१०द्द्) जगतीम् एवैतद् उभयतस् तृतीयसवने ऽचीकॢपताम् इति (२,३.१०एए) एतद् वै तच् छन्दश् छन्दसि प्रतिष्ठापयति (२,३.१०ff) कल्पयत्य् एव देवविशो य एवं वेद (२,३.१०ग्ग्) तद् अप्य् एषाभ्यनूक्ता यद् गायत्रे अधि गायत्रम् आहितम् इति ॥ १० ॥

(२,३.११अ) अथैतन् नाना छन्दांस्य् अन्तरेण गर्ता इव (२,३.११ब्) अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते (२,३.११च्) ताभ्यां प्रतिपद्यते (२,३.११द्) तद् गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम् (२,३.११ए) तद् अनवानं संक्रामेत् (२,३.११f) अमृतं वै प्रणवः (२,३.११ग्) अमृतेनैव तन् मृत्युं तरति (२,३.११ह्) तद् यथा मत्येन वा वंशेन वा गर्तं संक्रामेद् एवं तत् प्रणवेनोपसंतनोति (२,३.११इ) ब्रह्म ह वै प्रणवः (२,३.११ज्) ब्रह्मणैवास्मै तद् ब्रह्मोपसंतनोति (२,३.११क्) शुद्धः प्रणवः स्यात् प्रजाकामानाम् (२,३.११ल्) मकारान्तः प्रतिष्ठाकामानाम् (२,३.११म्) मकारान्तः प्रणवः स्याद् इति हैक आहुः (२,३.११न्) शुद्ध इति त्व् एव स्थितः (२,३.११ओ) मीमांसितः प्रणवः (२,३.११प्) अथात इह शुद्ध इह पूर्ण इति (२,३.११ॠ) शुद्धः प्रणवः स्यात् (२,३.११र्) शस्त्रानुवचनयोर् मध्य इति ह स्माह कौषीतकिस् (२,३.११स्) तथा संहितं भवति (२,३.११त्) मकारान्तो ऽवसानार्थे (२,३.११उ) प्रतिष्ठा वा अवसानम् (२,३.११व्) प्रतिष्ठित्या एव (२,३.११w) अथोभयोः कामयोर् आप्त्यै (२,३.११x) एतौ वै छन्दःप्रवाहाव् अवरं छन्दः परं छन्दो ऽतिप्रवहतस् (२,३.११य्) तस्यायुर् न हिनस्ति (२,३.११श्) छन्दसां छन्दो ऽतिप्रोढं स्यात् तत्रैव यं द्विष्यात् तं मनसा प्रैव विध्येत् (२,३.११अअ) छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति (२,३.११ब्ब्) त्रिः प्रथमां त्रिर् उत्तमाम् अन्वाह यज्ञस्यैव तद् बर्हिसो नह्यति (२,३.११च्च्) स्थेम्ने बलायाविस्रंसाय (२,३.११द्द्) यद्य् अपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण (२,३.११एए) अथो प्रातःसवनरूपेणेति (२,३.११ff) न त्रिष्टुब्जगत्याव् एतस्मिन् स्थाने ऽर्धर्चशस्ये यत् किं चिच् छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यम् इति सा स्थितिः ॥ ११ ॥

(२,३.१२अ) अथात एकाहस्य प्रातःसवनम् (२,३.१२ब्) प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर् मृत्युपाशेन प्रत्युपाक्रामत (२,३.१२च्) स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत (२,३.१२द्) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (२,३.१२ए) तं सामाज्येष्ठसीदत् (२,३.१२f) स वायव्या प्र"उगं प्रत्यपद्यत (२,३.१२ग्) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (२,३.१२ह्) तं माध्यंदिने पवमाने ऽसीदत् (२,३.१२इ) स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत (२,३.१२ज्) मृत्युर् वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (२,३.१२क्) स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियम् आसीदत् (२,३.१२ल्) तम् अस्तृणोत् (२,३.१२म्) तस्माद् उ य एव पूर्वम् आसीदति स तत् स्तृणुते विद्वान् (२,३.१२न्) मृत्युर् अनवकाशम् अपाद्रवद् अशंसद् इतरो निष्केवल्यम् (२,३.१२ओ) तस्माद् एकम् एवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यम् एव (२,३.१२प्) अत्र हि प्रजापतिं मृत्युर् व्यजहात् ॥ १२ ॥

(२,३.१३अ) मित्रावरुणाव् अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतं मैत्रावरुणीयाम् (२,३.१३ब्) तथेत्य् अब्रूताम् (२,३.१३च्) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् (२,३.१३द्) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां मैत्रावरुणीयाम् (२,३.१३ए) तस्मान् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति (२,३.१३f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम् (२,३.१३ग्) यद् व् एव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर् मित्रावरुणोत हव्यैः [ऋV ७.६३.५]><उत वाम् उषसो बुधि साकं सूर्यस्य रश्मिभिः [ऋV १.१३७.२]>इत्य् ऋचाभ्यनूक्तम् (२,३.१३ह्) <आ नो मित्रावरुणा [ऋV ३.६२.१६]><आ नो गन्तं रिशादसा [ऋV ५.७१.१]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (२,३.१३इ) <प्र वो मित्राय गायत [ऋV ५.६८.१]>इत्य् उक्थमुखम् (२,३.१३ज्) <प्र मित्रयोर् वरुणयोः [ऋV ७.६६.१]>इति पर्यासः (२,३.१३क्) <आ यातं मित्रावरुणा [ऋV ७.६६.१९]>इति यजति (२,३.१३ल्) एते एव तद् देवते यथाभागं प्रीणाति (२,३.१३म्) वषट्कृत्यानुवषट्करोति (२,३.१३न्) प्रत्य् एवाभिमृशन्ते (२,३.१३ओ) नाप्याययन्ति (२,३.१३प्) न ह्य् अनाराशंसाः सीदन्ति ॥ १३ ॥

(२,३.१४अ) इन्द्रम् अब्रवीत् त्वं न इमं यज्ञस्याङ्गम् अनुसमाहर ब्राह्मणाच्छंसीयाम् (२,३.१४ब्) केन सहेति (२,३.१४च्) सूर्येनेति (२,३.१४द्) तथेत्य् अब्रूताम् (२,३.१४ए) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् (२,३.१४f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां ब्राह्मणाच्छंसीयाम् (२,३.१४ग्) तस्माद् ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति (२,३.१४ह्) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम् (२,३.१४इ) यद् व् एवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस् तव हि पूर्वपीतिः [ऋV १०.११२.१]>इत्य् ऋचाभ्यनूक्तम् (२,३.१४ज्) <आ याहि सुषुमा हि ते [ऋV ८.१७.१, Vऐत्ष् २१.१]><आ नो याहि सुतावतः [ऋV ८.१७.४, Vऐत्ष् २१.१]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ (२,३.१४क्) <अयम् उ त्वा विचर्षणे [ऋV ८.१७.७, Vऐत्ष् २१.२]>इत्य् उक्थमुखम् (२,३.१४ल्) <उद् घेद् अभिश्रुतामघम् [ऋV ८.९३.१, Vऐत्ष् २१.२]> इति पर्यासः (२,३.१४म्) <इन्द्र क्रतुविदम् [ऋV ३.४०.२]> इति यजति (२,३.१४न्) एते एव तद् देवते यथाभागं प्रीणाति (२,३.१४ओ) वषट्कृत्यानुवषट्करोति (२,३.१४प्) प्रत्य् एवाभिमृशन्ते (२,३.१४ॠ) नाप्याययन्ति (२,३.१४र्) न ह्य् अनाराशंसाः सीदन्ति ॥ १४ ॥

(२,३.१५अ) इन्द्राग्नी अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतम् अच्छावाकीयाम् (२,३.१५ब्) तथेत्य् अब्रूताम् (२,३.१५च्) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् (२,३.१५द्) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम् अच्छावाकीयाम् (२,३.१५ए) तस्माद् अच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति (२,३.१५f) तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरताम् (२,३.१५ग्) यद् व् एवैन्द्राग्नानि शंसति <प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋV ८.३८.७]>इत्य् ऋचाभ्यनूक्तम् (२,३.१५ह्) <इन्द्राग्नी आ गतम् [ऋV ३.१२.१]><तोशा वृत्रहणा हुवे [ऋV ३.१२.४]>इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ [एद्. तोषा, चोर्रेच्तेद् प्. ३०२] (२,३.१५इ) <इन्द्राग्नी अपसस् परि [ऋV ३.१२.७]>इत्य् उक्थमुखम् (२,३.१५ज्) <इहेन्द्राग्नी उपह्वये [ऋV १.२१.१]>इति पर्यासः (२,३.१५क्) <इन्द्राग्नी आ गतम्> इति यजति (२,३.१५ल्) एते एव तद् देवते यथाभागं प्रीणाति (२,३.१५म्) वषट्कृत्यानुवषट्करोति (२,३.१५न्) प्रत्य् एवाभिमृशन्ते (२,३.१५ओ) नाप्याययन्ति (२,३.१५प्) न ह्य् अनाराशंसाः सीदन्ति ॥ १५ ॥

(२,३.१६अ) अथ शंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुर् आह्वयन्ते (२,३.१६ब्) चतस्रो वै दिशः [एद्. चसस्रो] (२,३.१६च्) दिक्षु तत् प्रतितिष्ठन्ति (२,३.१६द्) अथो चतुष्पादः पशवः (२,३.१६ए) पशूनाम् आप्त्यै (२,३.१६f) अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास् (२,३.१६ग्) तस्माच् चतुः सर्वे गायत्राणि शंसन्ति (२,३.१६ह्) गायत्रं हि प्रातःसवनम् (२,३.१६इ) सर्वे समवतीभिः परिदधति (२,३.१६ज्) तद् यत् समवतीभिः परिदधति (२,३.१६क्) अन्तो वै पर्यासः (२,३.१६ल्) अन्त उदर्कः (२,३.१६म्) अन्तेनैवान्तं परिदधति (२,३.१६न्) सर्वे मद्वतीभिर् यजन्ति (२,३.१६ओ) तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति (२,३.१६प्) यद् यज्ञे ऽभिरूपं तत् समृद्धम् (२,३.१६ॠ) सर्वे ऽनुवषट्कुर्वन्ति (२,३.१६र्) स्विष्टकृत्वानुवषट्कारः (२,३.१६स्) नेत् स्विष्टकृतम् अन्तरयामेति (२,३.१६त्) अयं वै लोकः प्रातःसवनम् (२,३.१६उ) तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य (२,३.१६व्) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति ॥ १६ ॥

(२,३.१७अ) घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति (२,३.१७ब्) यज्ञं वा एतद् धन्ति यद् दक्षिणा नीयन्ते (२,३.१७च्) यज्ञं वा एतद् दक्षयन्ति (२,३.१७द्) तद् दक्षिणानां दक्षिणात्वम् (२,३.१७ए) स्वर्गो वै लोको माध्यंदिनं सवनम् (२,३.१७f) यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै (२,३.१७ग्) बहु देयम् (२,३.१७ह्) सेतुं वा एतद् यजमानः संस्कुरुते (२,३.१७इ) स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै (२,३.१७ज्) द्वाभ्यां गार्हपत्ये जुहोति (२,३.१७क्) अध्वर्युर् अस्याक्रान्तेनाक्रामयति (२,३.१७ल्) आग्नेय्याग्नीध्रीये (२,३.१७म्) अन्तरिक्षं तेन (२,३.१७न्) यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके (२,३.१७ओ) हिरण्यं हस्ते भवति (२,३.१७प्) अथ नयति (२,३.१७ॠ) सत्यं वै हिरण्यम् (२,३.१७र्) सत्येनैवैनं तन् नयति (२,३.१७स्) अग्रेण गार्हपत्यं जघनेन सदो ऽन्तराग्नीध्रीयं च सदश् च (२,३.१७त्) ता उदीचीर् अन्तराग्नीध्रीयं च सदश् च चात्वालं चोत्सृजन्ति (२,३.१७उ) एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकम् आयन् (२,३.१७व्) ता वा एताः पन्थानम् अभिवहन्ति ॥ १७ ॥

(२,३.१८अ) अग्नीधे ऽग्रे ददाति (२,३.१८ब्) यज्ञमुखं वा अग्नीत् (२,३.१८च्) यज्ञमुखेनैव तद् यज्ञमुखं समर्धयति (२,३.१८द्) ब्रह्मणे ददाति (२,३.१८ए) प्राजापत्यो वै ब्रह्मा (२,३.१८f) प्रजापतिम् एव तया प्रीणाति (२,३.१८ग्) ऋत्विग्भ्यो ददाति (२,३.१८ह्) होत्रा एव तया प्रीणाति (२,३.१८इ) सदस्येभ्यो ददाति (२,३.१८ज्) सोमपीथं तया निष्क्रीणीते (२,३.१८क्) न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात् (२,३.१८ल्) यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति (२,३.१८म्) याम् अश्रुश्रुवुषे ऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति (२,३.१८न्) याम् अप्रसृप्ताय ददाति वनस्पतस् तया प्रथन्ते (२,३.१८ओ) यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते (२,३.१८प्) यां भीषा क्षत्रं तया ब्रह्मातीयात् (२,३.१८ॠ) यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा (२,३.१८र्) यस् तां पुनः प्रतिगृह्णीयाद् व्याघ्र्य् एनं भूत्वा प्रव्लीनीयात् (२,३.१८स्) अन्यया सह प्रतिगृह्णीयात् (२,३.१८त्) अथ हैनं न प्रव्लीनाति ॥ १८ ॥

(२,३.१९अ) यद् गां ददाति वैश्वदेवी वै गौः (२,३.१९ब्) विश्वेषाम् एव तद् देवानां तेन प्रियं धामोपैति (२,३.१९च्) यद् अजं ददात्य् आग्नेयो वा अजः (२,३.१९द्) अग्नेर् एव तेन प्रियं धामोपैति (२,३.१९ए) यद् अविं ददात्य् आव्यं तेनावजयति (२,३.१९f) यत् कृतान्नं ददाति मांसं तेन निष्क्रीणीते (२,३.१९ग्) यद् अनो वा रथो वा ददाति शरीरं तेन (२,३.१९ह्) यद् वासो ददाति ब्रृहस्पतिं तेन (२,३.१९इ) यद् धिरण्यं ददात्य् आयुस् तेन वर्षीयः कुरुते (२,३.१९ज्) यद् अश्वं ददाति सौर्यो वा अश्वः (२,३.१९क्) सूर्यस्यैव तेन प्रियं धामोपैति (२,३.१९ल्) अन्ततः प्रतिहर्त्रे देयम् (२,३.१९म्) रौद्रौ वै प्रतिहर्ता (२,३.१९न्) रुद्रम् एव तन् निरवजयति (२,३.१९ओ) यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रम् अन्ववयजेत् (२,३.१९प्) स्वर्भानुर् वा आसुरः सूर्यं तमसाविध्यत् (२,३.१९ॠ) तद् अत्रिर् अपनुनोद (२,३.१९र्) तद् अत्रिर् अन्वपश्यत् (२,३.१९स्) यद् आत्रेयाय हिरण्यं ददाति तम एव तेनापहते (२,३.१९त्) अथो ज्योतिर् उपरिष्टाद् धारयति (२,३.१९उ) स्वर्गस्य लोकस्य समष्ट्यै ॥ १९ ॥

(२,३.२०अ) अथात एकाहस्यैव माध्यंदिनम् (२,३.२०ब्) ऋक् च वा इदम् अग्ने साम चास्तां (२,३.२०च्) सैव नामर्ग् आसीत् (२,३.२०द्) अमो नाम साम (२,३.२०ए) सा वा ऋक्सामोपावदन् मिथुनं संभवाव प्रजात्या इति (२,३.२०f) नेत्य् अब्रवीत् साम (२,३.२०ग्) ज्यायान् वा अतो मम महिमेति (२,३.२०ह्) ते द्वे भूत्वोपावदताम् (२,३.२०इ) ते न प्रति चन समवदत (२,३.२०ज्) तास् तिस्रो भूत्वोपावदन् (२,३.२०क्) यत् तिस्रो भूत्वोपावदंस् तत् तिसृभिः समभवत् (२,३.२०ल्) यत् तिसृभिः समभवत् तस्मात् तिसृभिः स्तुवन्ति (२,३.२०म्) तिसृभिर् उद्गायन्ति (२,३.२०न्) तिसृभिर् हि साम संमितं भवति (२,३.२०ओ) तस्माद् एकस्य बह्व्यो जाया भवन्ति (२,३.२०प्) न हैकस्या बहवः सह पतयः (२,३.२०ॠ) यद् वै तत् सा चामश् च समवदतां तत् सामाभवत् (२,३.२०र्) तत् साम्नः सामत्वम् (२,३.२०स्) सामन् भवति (२,३.२०त्) श्रेष्ठतां गच्छति (२,३.२०उ) यो वै भवति स सामन् भवति (२,३.२०व्) असामन्य इति ह निन्दन्ते (२,३.२०w) ते वै पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेताम् आहावश् च हिंकारश् च प्रस्तावश् च प्रथमा चर्ग् उद्गीथश् च मध्यमा च प्रतीहारश् चोत्तमा च निधनं च वषट्कारश् च ते यत् पञ्चान्यद् भूत्वा पञ्चान्यद् भूत्वाकल्पेतां तस्माद् आहुः पाङ्क्तो यज्ञः (२,३.२०x) पाङ्क्ताः पशव इति (२,३.२०य्) यद् उ विराजं दशिनीम् अभिसंपद्येतां तस्माद् आहुर् विराजि यज्ञो दशिन्यां प्रतिष्ठित इति (२,३.२०श्) यद् उ बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति (२,३.२०अअ) तद् एनं स्वेन रूपेण समर्धयति [एद्. रुपेण] (२,३.२०ब्ब्) द्वे तिस्रः करोति पुनरादायम् (२,३.२०च्च्) प्रजात्यै रूपम् (२,३.२०द्द्) द्वाव् इवाग्रे भवतस् (२,३.२०एए) तत उपप्रजायेते ॥ २० ॥

(२,३.२१अ) आत्मा वै स्तोत्रियः (२,३.२१ब्) प्रजा अनुरूपः (२,३.२१च्) पत्नी धाय्या (२,३.२१द्) पशवः प्रगाथः (२,३.२१ए) गृहाः सूक्तम् (२,३.२१f) यद् अन्तरात्मंस् तन् निवित् (२,३.२१ग्) प्रतिष्ठा परिधानीयान्नं याज्या (२,३.२१ह्) सो ऽस्मिंश् च लोके भवत्य् अमुष्मिंश् च प्रजया च पशुभिश् च गृहेषु भवति य एवं वेद ॥ २१ ॥

(२,३.२२अ) स्तोत्रियं शंसति (२,३.२२ब्) आत्मा वै स्तोत्रियः (२,३.२२च्) स मध्यमया वाचा शंस्तव्यः (२,३.२२द्) आत्मानम् एवास्य तत् कल्पयत्य् अनुरूपं शंसति (२,३.२२ए) प्रजा वा अनुरूपः (२,३.२२f) तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति (२,३.२२ग्) प्रतिरूपो हैवास्य प्रजायाम् आजायते नाप्रतिरूपः (२,३.२२ह्) तस्मात् प्रतिरूपम् अनुरूपं कुर्वन्ति (२,३.२२इ) स उच्चैस्तराम् इव शंस्तव्यः (२,३.२२ज्) प्रजाम् एवास्य तच् छ्रेयसीं करोति (२,३.२२क्) धाय्यां शंसति (२,३.२२ल्) पत्नी वै धाय्या (२,३.२२म्) सा नीचैस्तराम् इव शंस्तव्या (२,३.२२न्) अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान् नीचैस्तरां धाय्यां शंसति (२,३.२२ओ) प्रगाथं शंसति (२,३.२२प्) पशवो वै प्रगाथः (२,३.२२ॠ) सः स्वरवत्या वाचा शंस्तव्यः (२,३.२२र्) पशवो वै प्रगाथः (२,३.२२स्) पशवः स्वरः (२,३.२२त्) पशूनाम् आप्त्यै (२,३.२२उ) सूक्तं शंसति (२,३.२२व्) गृहा वै सूक्तम् (२,३.२२w) प्रतिवीतम् (२,३.२२x) तत् प्रतिवीततमया वाचा शंस्तव्यम् (२,३.२२य्) स यद्य् अपि ह दूरात् पशूंल् लभते गृहान् एवैनान् आजिगमिषति (२,३.२२श्) गृहा हि पशूनां प्रतिष्ठा (२,३.२२अअ) निविदं शंसति (२,३.२२ब्ब्) यद् अन्तरात्मंस् तन् निवित् (२,३.२२च्च्) तद् एवास्य तत् कल्पयति (२,३.२२द्द्) परिधानीयां शंसति (२,३.२२एए) प्रतिष्ठा वै परिधानीया (२,३.२२ff) प्रतिष्ठायाम् एवैनं ततः प्रतिष्ठापयति (२,३.२२ग्ग्) याज्यया यजति (२,३.२२ह्ह्) अन्नं वै याज्या (२,३.२२इइ) अन्नाद्यम् एवास्य तत् कल्पयति (२,३.२२ज्ज्) मूलं वा एतद् यज्ञस्य यद् धाय्याश् च याज्याश् च (२,३.२२क्क्) तद् यद् अन्या अन्या धाय्याश् च याज्याश् च कुर्युर् उन्मूलम् एव तद् यज्ञं कुर्युस् तस्मात् ताः समान्य एव स्युः ॥ २२ ॥

(२,३.२३अ) तद् आहुः किंदेवत्यो यज्ञ इति (२,३.२३ब्) ऐन्द्र इति ब्रूयात् (२,३.२३च्) ऐन्द्रे वाव यज्ञे सति यथाभागम् अन्या देवता अन्वायंस् ताः प्रातःसवने मरुत्वतीये तृतीयसवने च (२,३.२३द्) अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात् (२,३.२३ए) तस्मात् सर्वे निष्केवल्यानि शंसन्ति (२,३.२३f) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम् (२,३.२३ग्) यद् व् एव निष्केवल्यान्य् एकं ह वा अग्रे सवनम् आसीत् प्रातःसवनम् एव (२,३.२३ह्) अथ हैतं प्रजापतिर् इन्द्राय ज्येष्ठाय पुत्रायैतत् सवनं निरमिमीत यन् माध्यंदिनं सवनम् (२,३.२३इ) तस्मान् माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति (२,३.२३ज्) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम् (२,३.२३क्) यद् व् एव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनो ऽनुशंसन्ति मैत्रावरुणं तृचं प्रऽुगे होता शंसति (२,३.२३ल्) तद् उभयं मैत्रावरुणं मैत्रावरुणो ऽनुशंसति (२,३.२३म्) ऐन्द्रं तृचं प्रऽुगे होता शंसति (२,३.२३न्) तद् उभयम् ऐन्द्रम् (२,३.२३ओ) ऐन्द्रं ब्राह्मणाच्छंस्य् अनुशंसति (२,३.२३प्) ऐन्द्राग्नं तृचं प्रऽुगे होता शंसति (२,३.२३ॠ) तद् उभयम् ऐन्द्राग्नाग्नम् अच्छावाको ऽनुशंसति (२,३.२३र्) अथ हैतत् केवलम् एवेन्द्रस्य यद् ऊर्ध्वं मरुत्वतीयात् (२,३.२३स्) तस्मात् सर्वे निष्केवल्यानि शंसन्ति (२,३.२३त्) यद् एव निष्केवल्यानि तत् स्वर्गस्य लोकस्य रूपम् (२,३.२३उ) यद् व् एव निष्केवल्यानि <यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य [ऋV ७.९८.५, श्ष् २०.८७.५]>इत्य् ऋचाभ्यनूक्तम् (२,३.२३व्) देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अजिघांसन् (२,३.२३w) ते ऽब्रुवन् वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति (२,३.२३x) मध्यतो वसिष्ठम् (२,३.२३य्) उत्तरतो भरद्वाजम् (२,३.२३श्) सर्वान् अनु विश्वामित्रम् (२,३.२३अअ) तस्मान् मैत्रावरुणो वामदेवान् न प्रच्यवते वसिष्ठाद् ब्राह्मणाच्छंसी भरद्वाजाअ अच्छावाकः सर्वे विश्वामित्रात् (२,३.२३ब्ब्) एत एवास्मै तदृषयो ऽहरहर् नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद ॥ २३ ॥

(२,३.२३चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः ॥

(२,४.१अ) ओं <कया नश् चित्र आ भुवत् [ऋV ४.३१.१, श्ष् २०.१२४.१]> <कया त्वं न ऊत्या [ऋV ८.९३.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (२,४.१ब्) <कस् तम् इन्द्र त्वावसुम् [ऋV ७.३२.१४]> इति बार्हतः प्रगाथस् (२,४.१च्) तस्योपरिष्टाद् ब्राह्मणम् (२,४.१द्) <सद्यो ह जातो वृषभः कनीनः [ऋV ३.४८.१]>इत्य् उक्थमुखम् (२,४.१ए) <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋV ४.१९.१]>इति पर्यासः (२,४.१f) <उशन्नु षु णः सुमना उपाके [ऋV ४.२०.४]>इति यजति (२,४.१ग्) एताम् एव तद् देवतां यथाभागं प्रीणाति (२,४.१ह्) वषट्कृत्यानुवषट्करोति (२,४.१इ) प्रत्य् एवाभिमृशन्ते [एद्. सेएम्स् तो गिवे एवाभिमृशन्त] (२,४.१ज्) नाप्याययन्ति (२,४.१क्) न ह्य् अनाराशंसाः सीदन्ति ॥ १ ॥

(२,४.२अ) <तं वो दस्मम् ऋतीषहं [ऋV ८.८८.१, श्ष् २०.९.१]> <तत् त्वा यामि सुवीर्यम् [ऋV ८.३.९, श्ष् २०.९.४]> इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ (२,४.२ब्) <उद् उ त्ये मधुमत्तमा गिरः [ऋV ८.३.१५, श्ष् २०.५९.१]>इति बार्हतः प्रगाथः (२,४.२च्) पशवो वै प्रगाथः (२,४.२द्) पशवः स्वरः (२,४.२ए) पशूनाम् आप्त्यै (२,४.२f) अतो मध्यं वै सर्वेषां छन्दसां बृहती (२,४.२ग्) मध्यं माध्यंदिनं सवनानाम् (२,४.२ह्) तन् मध्येनैव मध्यं समर्धयति (२,४.२इ) <इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋV ३.३४.१, श्ष् २०.११.१]>इत्य् उक्थमुखम् (२,४.२ज्) <उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋV ७.२३.१, श्ष् २०.१२.१]>इति पर्यासः (२,४.२क्) <एवेद् इन्द्रं वृषणं वज्रबाहुम् [ऋV ७.२३.६अ, श्ष् २०.१२.६अ]> इति परिदधाति (२,४.२ल्) <वसिष्ठासो अभ्य् अर्चन्त्य् अर्कैः [ऋV ७.२६.६ब्, श्ष् २०.१२.६ब्]>इति (२,४.२म्) अन्नं वा अर्कः (२,४.२न्) अन्नाद्यम् एवास्मै तत् परिदधाति (२,४.२ओ) <स न स्तुतो वीरवद् धातु गोमत् [ऋV ७.२६.६च्, श्ष् २०.१२.६च्]>इति (२,४.२प्) अन्नं वा अर्कःइति (२,४.२ॠ) प्रजां चैवास्मै तत् पशूंश् चाशास्ते (२,४.२र्) <यूयं पात स्वस्तिभिः सदा नः [ऋV ७.२६.६द्, श्ष् २०.१२.६द्]>इति स्वस्तिमती रूपसमृद्धा (२,४.२स्) एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धं यत् कर्म क्रियमाणम् ऋग्यजुर्वाभिवदति (२,४.२त्) स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति (२,४.२उ) <ऋजीषी वज्री वृषभस् तुराषाट् [ऋV ५.४०.४, श्ष् २०.१२.७]>इति यजति [एद्. ऋजिषी, चोर्रेच्तेद् प्. ३०२] (२,४.२व्) एताम् एव तद् देवतां यथाभागं प्रीणाति (२,४.२w) वषट्कृत्यानुवषट्करोति (२,४.२x) प्रत्य् एवाभिमृशन्ते (२,४.२य्) नाप्याययन्ति (२,४.२श्) न ह्य् अनाराशंसाः सीदन्ति ॥ २ ॥

(२,४.३अ) <तरोभिर् वो विदद्वसुम् [ऋV ८.६६.१]><तरणिर् इत् सिषासति [ऋV ७.३२.२०]>इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ (२,४.३ब्) <उद् इन् न्व् अस्य रिच्यते [ऋV ७.३२.१२, श्ष् २०.५९.३]>इति बार्हतः प्रगाथस् (२,४.३च्) तस्योक्तं ब्राह्मणम् (२,४.३द्) <भूय इद् वावृधे वीर्याय [ऋV ६.३०.१]>इत्य् उक्थमुखम् (२,४.३ए) <इमाम् ऊ षु प्रभृतिं सातये धाः [ऋV ३.३६.१]>इति पर्यासस् (२,४.३f) तस्य दशमीम् उद्धरति (२,४.३ग्) घोरस्य वा आङ्गिरसस्यैतद् आर्षं नेद् यज्ञं निर्दहेच् छस्यमानम् (२,४.३ह्) <पिबा वर्धस्व तव घा सुतासः [ऋV ३.३६.३]>इति यजति (२,४.३इ) एताम् एव तद् देवतां यथाभागं प्रीणाति (२,४.३ज्) वषट्कृत्यानुवषट्करोति (२,४.३क्) प्रत्य् एवाभिमृशन्ते (२,४.३ल्) नाप्याययन्ति (२,४.३म्) न ह्य् अनाराशंसाः सीदन्ति ॥ ३ ॥

(२,४.४अ) अथाध्वर्यो शंसावोम् इति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते (२,४.४ब्) पञ्चपदा पङ्क्तिः (२,४.४च्) पाङ्क्तो यज्ञः (२,४.४द्) सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति (२,४.४ए) ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम् (२,४.४f) सर्वे समवतीभिः परिदधति (२,४.४ग्) तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्कः (२,४.४ह्) अन्तेनैवान्तं परिदधति (२,४.४इ) सर्वे मद्वतीभिर् यजन्ति (२,४.४ज्) तद् यन् मद्वतीभिर् यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति (२,४.४क्) यद् यज्ञे ऽभिरूपं तत् समृद्धम् (२,४.४ल्) सर्वे ऽनुवषट्कुर्वन्ति (२,४.४म्) स्विष्टकृत्वानुवषट्कारः (२,४.४न्) नेत् स्विकृत अन्तरयामेति (२,४.४ओ) अन्तरिक्षलोको माध्यंदिनं सवनम् (२,४.४प्) तस्य पञ्च दिशः (२,४.४ॠ) पञ्चोक्थानि माध्यंदिनस्य सवनस्य (२,४.४र्) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोत्य् एताः पञ्च दिश आप्नोति ॥ ४ ॥

(२,४.५अ) अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄन् एव तेन प्रीणाति (२,४.५ब्) उपांशु पात्नीवतस्याग्नीध्रो यजति (२,४.५च्) रेतो वै पात्नीवतः (२,४.५द्) उपांश्व् इव वै रेतः सिच्यते (२,४.५ए) तन् नानुवषट्करोति नेद् रेतः सिक्तं संस्थापयानीति (२,४.५f) असंस्थितम् इव वै रेतः सिक्तं समृद्धम् (२,४.५ग्) संस्था वा एषा यद् अनुवषट्कारस् (२,४.५ह्) तस्मान् नानुवषट्करोति (२,४.५इ) नेष्टुर् उपस्थे धिष्ण्यान्ते वासीनो भक्षयति (२,४.५ज्) पत्नीभाजनं वै नेष्टा (२,४.५क्) अग्नीत् पत्नीषु रेतो धत्ते (२,४.५ल्) रेतसः सिक्ताः प्रजाः प्रजायन्ते (२,४.५म्) प्रजानां प्रजननाय (२,४.५न्) प्रजावान् प्रजनयिष्णुर् भवति (२,४.५ओ) प्रजात्यै (२,४.५प्) प्रजायते प्रजया पशुभिर् य एवं वेद ॥ ५ ॥

(२,४.६अ) अथ शाकलाञ् जुह्वति (२,४.६ब्) तद् यथाहिर् जीर्णायास् त्वचो निर्मुच्येतेषीका वा मुञ्जाद् एवं हैवैते सर्वस्मात् पाप्मनः संप्रमुच्यन्ते ये शाकलाञ् जुह्वति (२,४.६च्) द्रोणकलशे धाना भवन्ति (२,४.६द्) तासां हस्तैर् आदधति (२,४.६ए) पशवो वै धानास् (२,४.६f) ता आहवनीयस्य भस्मान्ते निवपन्ति (२,४.६ग्) योनिर् वै पशूनाम् आहपनीयः (२,४.६ह्) स्व एवैनांस् तद् गोष्ठे निरपक्रमे निदधति (२,४.६इ) अथ सव्यावृतो ऽप्सु सोमान् आप्याययन्ति (२,४.६ज्) तान् हान्तर्वेद्यां सादयन्ति (२,४.६क्) तद् धि सोमस्यायतनम् (२,४.६ल्) चात्वालाद् अपरेणाध्वर्युश् चमसान् अद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति (२,४.६म्) यदा वा आपश् चौषधयश् च संगच्छन्ते ऽथ कृत्स्नः सोमः संपद्यते (२,४.६न्) ता वैष्णव्य् अर्चा निनयन्ति (२,४.६ओ) यज्ञो वै विष्णुः (२,४.६प्) यज्ञ एवैनम् अन्ततः प्रतिष्ठापयति (२,४.६ॠ) अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद् भक्षेण दैवं भक्षम् अन्तर्दधति ॥ ६ ॥

(२,४.७अ) पूतिर् वा एषो ऽमुष्मिंल् लोके ऽध्वर्युं च यजमानं चाभिवहति (२,४.७ब्) तद् यद् एनं दध्नानभिहुत्यावभृथम् उपहरेयुर् यथा कुणपं वात्य् एवम् एवैनं तत् करोति (२,४.७च्) अथ यद् एनं दध्नाभिहुत्यावभृथम् उपहरन्ति सर्वम् एवैनं सयोनिं संतनुते (२,४.७द्) समृद्धिं संभरन्ति (२,४.७ए) <अभूद् देवः सविता वन्द्यो नु नः [ऋV ४.५४.१]>इति जुहोति (२,४.७f) सर्वम् एवैनं सपर्वाणं संभरति [एद्. अवैनं] (२,४.७ग्) तिसृभिस् (२,४.७ह्) त्रिवृद् धि यज्ञः (२,४.७इ) द्रप्सवतीभिर् अभिजुहोति (२,४.७ज्) सर्वम् एवैनं सर्वाङ्गं संभरति (२,४.७क्) सौमीभिर् अभिजुहोति (२,४.७ल्) सर्वम् एवैनं सात्मानं संभरति (२,४.७म्) पञ्चभिर् अभिजुहोति (२,४.७न्) पाङ्क्तो यज्ञः (२,४.७ओ) यज्ञम् एवावरुन्द्धे (२,४.७प्) पाङ्क्तः पुरुषः (२,४.७ॠ) पुरुषम् एवाप्नोति (२,४.७र्) पाङ्क्ताः पशवः (२,४.७स्) पशुष्व् एव प्रतितिष्ठति (२,४.७त्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ ७ ॥

(२,४.८अ) अग्निर् वाव यम इयं यमी (२,४.८ब्) कुसीदं वा एतद् यमस्य यजमान आदत्ते यद् ओषधीभिर् वेदिं स्तृणाति (२,४.८च्) तां यद् अनुपोष्य प्रयायाद् यातयेरन्न् एनम् अमुष्मिंल् लोके (२,४.८द्) यमे यत् कुसीदम् <अपमित्यम् अप्रतीत्तम् [ড়्ष् १६.४९.१०, श्ष् ६.११७.१, Vऐत्ष् २४.१५]> इति वेदिम् उपोषति (२,४.८ए) इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकम् एति (२,४.८f) <विश्वलोप विश्वदावस्य त्वासञ् जुहोमि [ट्ष् ३.३.८.२, Vऐत्ष् २४.१६]>इत्य् आह होताद्वा (२,४.८ग्) यजमानस्यापराभावाय (२,४.८ह्) यद् उ मिश्रम् इव चरन्त्य् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात् (२,४.८इ) एष ह वा अग्निर् वैश्वानरो यत् प्रदाव्यः (२,४.८ज्) स्वस्याम् एवैनं तद् योन्यां सादयति ॥ ८ ॥

(२,४.९अ) अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षम् उपोषेत् (२,४.९ब्) यदि दहति पुण्यसमं भवति (२,४.९च्) यति न दहति पापसमं भवति (२,४.९द्) एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रम् उपयन्ति (२,४.९ए) यो ह वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारम् एव विद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते (२,४.९f) अग्निर् वा उपद्रष्टा (२,४.९ग्) वायुर् वा उपश्रोता (२,४.९ह्) आदित्यो वा अनुख्याता (२,४.९इ) तान् य एवंविद्वान् यजते सम् अमुष्मिंल् लोक इष्टापूर्तेन गच्छते (२,४.९ज्) <अयं नो नभसस् पतिः [ড়्ष् १९.१६.१७, श्ष् ६.७९.१, च्f. ट्ष् ३.३.८.५]>इत्य् आह (२,४.९क्) अग्निर् वै नभसस् पतिः (२,४.९ल्) अग्निम् एव तद् आहैतं नो गोपायेति (२,४.९म्) <स त्वं नो नभसस् पतिः [च्f. ट्ष् ३.३.८.६]>इत्य् आह (२,४.९न्) वायुर् वै नभसस् पतिः (२,४.९ओ) वायुम् एव तद् आहैतं नो गोपायेति (२,४.९प्) <देव संस्फान [ट्ष् ३.३.८.६]>इत्य् आह (२,४.९ॠ) आदित्यो वै देवः संस्फानः (२,४.९र्) आदित्यम् एव तद् आहैतं नो गोपायेति (२,४.९स्) <अयं ते योनिः [ড়्ष् ३.३४.१, श्ष् ३.२०.१]>इत्य् अरण्योर् अग्निं समारोपयेत् (२,४.९त्) तद् आहुर् यद् अरण्योः समारूढो नश्येद् उद् अस्याग्निः सीदेत् (२,४.९उ) पुनराधेयः स्याद् इति (२,४.९व्) या ते अग्ने यज्ञिया तनूस् तया मे ह्य् आरोह तया मे ह्य् आविश (२,४.९w) अयं ते योनिर् इत्य् आत्मन्न् अग्नीन् समारोपयेत् (२,४.९x) एष ह वा अग्नेर् योनिः (२,४.९य्) स्वस्याम् एवैनं तद् योन्यां सादयति ॥ ९ ॥

(२,४.१०अ) यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकताम् अश्नुते य एवं वेद (२,४.१०ब्) यो ह वा एष तपत्य् एषो ऽग्निष्टोम एष साह्नस् (२,४.१०च्) तं सहैवाह्ना संस्थापयेयुः (२,४.१०द्) साह्नो वै नामैषः (२,४.१०ए) तेनासंत्वरमाणाश् चरेयुः (२,४.१०f) यद् ध वा इदं पूर्वयोः सवनयोर् असंत्वरमाणाश् चरन्ति तस्माद् धेदं प्राच्यो ग्रामता बहुलाविष्टाः (२,४.१०ग्) अथ यद् धेदं तृतीयसवने संत्वरमाणाश् चरन्ति तस्माद् धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति (२,४.१०ह्) यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने (२,४.१०इ) एवम् उ ह यजमानो ऽप्रमायुको भवति (२,४.१०ज्) तेनासंत्वरमाणाश् चरेयुः (२,४.१०क्) यदा वा एष प्रातर् उदेत्य् अथ मन्द्रतमं तपति (२,४.१०ल्) तस्मान् मन्द्रतमया वाचा प्रातःसवने शंसेत् (२,४.१०म्) अथ यदाभ्येत्य् अथ बलीयस् तपति (२,४.१०न्) तस्माद् बलीयस्या वाचा माध्यंदिने सवने शंसेत् (२,४.१०ओ) अथो यदाभितराम् एत्य् अथो बलिष्ठतमं तपति (२,४.१०प्) तस्माद् बलिष्ठतमया वाचा तृतीयसवने शंसेत् (२,४.१०ॠ) एवं शंसेद् यदि वाच ईशीत (२,४.१०र्) वाग् घि शस्त्रम् (२,४.१०स्) यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत (२,४.१०त्) एतत् सुशस्ततरम् इव भवति (२,४.१०उ) स वा एष न कदा चनास्तम् अयति नोदयति (२,४.१०व्) तद् यद् एनं पश्चाद् अस्तम् अयतीति मन्यन्ते ऽह्न एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते (२,४.१०w) अहर् एवाधस्तात् कृणुते रात्रीं परस्तात् (२,४.१०x) स वा एष न कदा चनास्तम् अयति नोदयति (२,४.१०य्) तद् यद् एनं पुरस्ताद् उदयतीति मन्यते रात्रेर् एव तद् अन्तं गत्वाथात्मानं विपर्यस्यते (२,४.१०श्) रात्रिम् एवाधस्तात् कृणुते ऽहः परस्तात् (२,४.१०अअ) स वा एष न कदा चनास्तम् अयति नोदयति (२,४.१०ब्ब्) न ह वै कदा चन निम्रुचति (२,४.१०च्च्) एतस्य ह सायुज्यं सलोकताम् अश्नुते य एवं वेद ॥ १० ॥

(२,४.११अ) अथात एकाहस्यैव तृतीयसवनम् (२,४.११ब्) देवासुरा वा एषु लोकेषु समयतन्त (२,४.११च्) ते देवा असुरान् अभ्यजयम् (२,४.११द्) ते जिता अहोरात्रयोः संधिं समभ्यवागुः (२,४.११ए) स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः (२,४.११f) कश् चाहं चेमान् असुरान् अभ्युत्थास्यामहा इति (२,४.११ग्) अहं चेत्य् अग्निर् अब्रवीत् (२,४.११ह्) अहं चेति वरुणः (२,४.११इ) अहं चेति बृहस्पतिः (२,४.११ज्) अहं चेति विष्णुस् (२,४.११क्) तान् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुः (२,४.११ल्) यद् अभ्युत्थायाहोरात्रयोः संधेर् निर्जघ्नुस् तस्माद् उत्था (२,४.११म्) अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद (२,४.११न्) सो ऽग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय (२,४.११ओ) यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाअय तस्माद् आग्नेयीभिर् उक्थानि प्रणयन्ति (२,४.११प्) यद् अग्निर् अश्वो भूत्वा प्रथमः प्रजिगाय तस्मात् साकम् अश्वम् (२,४.११ॠ) यत् पञ्च देवता अभ्युत्तस्थुस् तस्मात् पञ्च देवता उक्थे शस्यन्ते (२,४.११र्) या वाक् सो ऽग्निः (२,४.११स्) यः प्राणः स वरुणः (२,४.११त्) यन् मनः स इन्द्रः (२,४.११उ) यच् चक्षुः स बृहस्पतिः (२,४.११व्) यच् छ्रोत्रं स विष्णुः (२,४.११w) एते ह वा एतान् पञ्चभिः प्राणैः समीर्योदस्थापयन् [एद्. समीर्युदस्थापयन्, चोर्र्. ড়त्यल्] (२,४.११x) तस्माद् उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ ११ ॥

(२,४.१२अ) प्रजापतिर् ह्य् एतेभ्यः पञ्चभ्यः प्राणेभ्यो ऽन्यान् देवान् ससृजे (२,४.१२ब्) यद् उ चेदं किं च पाङ्क्तम् (२,४.१२च्) तत् सृष्ट्वा व्याज्वलयत् (२,४.१२द्) ते होचुर् देवा म्लानो ऽयं पिता मयोभूः [एद्. पितामयो ऽभूः, चोर्र्. ড়त्यल्] (२,४.१२ए) पुनर् इमं समीर्योत्थापयामेति (२,४.१२f) स ह सत्त्वम् आख्यायाभ्युपतिष्ठते (२,४.१२ग्) यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते (२,४.१२ह्) यो वै प्रजापतिः स यज्ञः (२,४.१२इ) स एतैर् एव पञ्चभिः प्राणैः समीर्योत्थापितः (२,४.१२ज्) ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन् (२,४.१२क्) ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ १२ ॥

(२,४.१३अ) तद् आहुर् यद् द्वयोर् देवतयो स्तुवत इन्द्राग्न्योर् इत्य् अथ कस्माद् भूयिष्ठा देवता उक्थे शस्यन्त इति [एद्. भूयिष्ठो, चोर्र्. ড়त्यल्] (२,४.१३ब्) अन्तो वा आग्निमारुतम् अन्तर् उक्थान्य् अन्त आश्विनम् (२,४.१३च्) कनीयसीषु देवतासु स्तुवते तिष्ठेति (२,४.१३द्) अथ कस्माद् भूयिष्ठो देवता उक्थे शस्यन्त इति (२,४.१३ए) द्वे द्वे उक्थमुखे भवतस् तद् यद् द्वे द्वे ॥ १३ ॥

(२,४.१४अ) अथ यद् ऐन्द्रावारुणं मैत्रावरुस्योक्थं भवत्य् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्य् ऐन्द्रावैष्णावम् अच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकम् ऐन्द्रावारुणं भवति (२,४.१४ब्) द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकम् ऐन्द्राबार्हस्पत्यं भवति (२,४.१४च्) द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकम् ऐन्द्रावैष्णवं भवति (२,४.१४द्) द्वे द्वे उक्थमुखे भवतस् (२,४.१४ए) तद् यद् द्वे द्वे ॥ १४ ॥

(२,४.१५अ) अथ यद् ऐन्द्रावरुणं मैत्रावरुणस्योक्थं भवति<इन्द्रावरुणा सुतपाव् इमं सुतं सोमं पिबतं मद्यं धृतव्रतौ [श्ष् ७.५८.१, ऋV ६.६८.१०]>इत्य् ऋचाभ्यनूक्तम् (२,४.१५ब्) मद्वद् धि तृतीयसवनम् (२,४.१५च्) <एह्य् ऊ षु ब्रवाणि ते [ऋV ६.१६.१६]><आग्निर् अगामि भारतः [ऋV ६.१६.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (२,४.१५द्) <चर्षणीधृतं मघवानम् उक्थ्यम् [ऋV ३.५१.१]> इत्य् उक्थमुखम् (२,४.१५ए) तस्योपरिष्टाद् ब्राह्मणम् (२,४.१५f) <अस्तभ्नाद् द्याम् असुरो विश्ववेदाः [ऋV ८.४२.१]>इति वारुणं सांशंसिकम् [एद्. अस्तभ्नाद्याम्, चोर्रेच्तेद् प्. ३०२] (२,४.१५ग्) अहं चेति वरुणो ऽब्रवीत् (२,४.१५ह्) देवतयोः संशंसायान् अतिशंसाय (२,४.१५इ) <इन्द्रावरुणा युवम् अध्वराय नः [ऋV ७.८२.१]>इति पर्यास ऐन्द्रावरुणे (२,४.१५ज्) ऐन्द्रावरुणम् अस्यैतन् नित्यम् उक्थम् (२,४.१५क्) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (२,४.१५ल्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (२,४.१५म्) विजित्या एव (२,४.१५न्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै (२,४.१५ओ) सैकपादिनी भवति (२,४.१५प्) एकपादिन्या होता परिदधाति (२,४.१५ॠ) यत्र होतुर् होत्रकाणां युञ्जन्ति तत् समृद्धम् (२,४.१५र्) तद् वै खल्व् <आ वां राजानाव् अध्वरे ववृत्याम् [ऋV ७.८४.१]> इति [एद्. आवां, चोर्रेच्तेद् प्. ३०३] (२,४.१५स्) एवम् एव केवलपर्यासं कुर्यात् केवलसूक्तम् (२,४.१५त्) केवलसूक्तम् एवोत्तरयोर् भवति (२,४.१५उ) <इन्द्रावरुणा मधुमत्तमस्य [ড়्ष् २०.७.६, श्ष् ७.५८.२, ऋV ६.६८.११]>इति यजति (२,४.१५व्) एते एव तद् देवते यथाभागं प्रीणाति (२,४.१५w) वषट्कृत्यानुवषट्करोति (२,४.१५x) प्रत्य् एवाभिमृशन्ते (२,४.१५य्) नाप्याययन्ति न ह्य् अनाराशंसाः सीदन्ति ॥ १५ ॥

(२,४.१६अ) अथ यद् ऐन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति<इन्द्रश् च सोमं पिबतं बृहस्पते ऽस्मिन् यज्ञे मन्दसाना वृषण्वसू [ऋV ४.५०.१०]> इत्य् ऋचाभ्यनूक्तम् (२,४.१६ब्) मद्वद् धि तृतीयसवनम् (२,४.१६च्) <वयम् उ त्वाम् अपूर्व्य [ऋV ८.२१.१, श्ष् २०.१४.१/२०.६२.१]> <यो न इदमिदं पुरा [ऋV ८.२१.९, श्ष् २०.१४.३/२०.६२.३, Vऐत्ष् २५.३]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ (२,४.१६द्) <प्र मंहिष्ठाय बृहते बृहद्रये [ऋV १.५७.१, श्ष् २०.१५.१]>इत्य् उक्थमुखम् (२,४.१६ए) ऐन्द्राजागतम् (२,४.१६f) जागताः पशवः (२,४.१६ग्) पशूनाम् आप्त्यै (२,४.१६ह्) जागतम् उ वै तृतीयसवनम् (२,४.१६इ) तृतीयसवनस्य रूपम् (२,४.१६ज्) <उदप्रुतो न वयो रक्षमाणाः [ऋV १०.६८.१, श्ष् २०.१६.१]>इति बार्हस्पत्यं सांशंसिकम् (२,४.१६क्) अहं चेति बृहस्पतिर् अब्रवीत् (२,४.१६ल्) देवतयोः संशंसायनतिशंसाय (२,४.१६म्) <अच्छा म इन्द्रं मतयः स्वर्विदः [ऋV १०.४३.१, श्ष् २०.१७.१]>इति पर्यास ऐन्द्राबार्हस्पत्यः (२,४.१६न्) ऐन्द्राबार्हस्पत्यम् अस्यैतन् नित्यम् उक्थम् (२,४.१६ओ) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (२,४.१६प्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (२,४.१६ॠ) विजित्या एव (२,४.१६र्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै (२,४.१६स्) <बृहस्पतिर् नः परि पातु पश्चात् [ऋV १०.४२/४३/४४.११अ, ড়्ष् १५.११.१/१६.८.११अ, श्ष् ७.५१.१/२०.१७.११/२०.८९.११/२०.९४.११अ]>इत्य् ऐन्द्राबार्हस्पत्या परिदधाति (२,४.१६त्) इन्द्राबृहस्पत्योर् एव यज्ञं प्रतिष्ठापयति (२,४.१६उ) <उतोत्तरस्माद् अधराद् अघायोर् इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु [ऋV १०.४२/४३/४४.११ब्च्द्, ড়्ष् १५.११.१/१६.८.११ब्च्द्, श्ष् ७.५१.१/२०.१७.११/२०.८९.११/२०.९४.११ब्च्द्]>इति (२,४.१६व्) सर्वाभ्य एव दिग्भ्य आशिषम् आशास्ते नार्त्वी (२,४.१६w) यं कामं कामयते सो ऽस्मै कामः समृध्यते य एवं वेद यश् चैवंविद्वान् ब्राह्मणाच्छंस्य् एतया परिदधाति [एद्. एतस्या, चोर्र्. ড়त्यल्॑ एद्. ब्राह्मणाच्छंय्] (२,४.१६x) <बृहस्पते युवम् इन्द्रश् च वस्वः [ऋV ७.९७.१०]>इति यजति (२,४.१६य्) एते एव तद् देवते यथाभागं प्रीणाति (२,४.१६श्) वषट्कृत्यानुवषट्करोति (२,४.१६अअ) प्रत्य् एवाभिमृशन्ते (२,४.१६ब्ब्) नाप्याययन्ति (२,४.१६च्च्) न ह्य् अनाराशंसाः सीदन्ति ॥ १६ ॥

(२,४.१७अ) अथ यद् ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति<इन्द्राविष्णू मदपती मदानाम् आ सोमं यातं द्रविणो दधाना [ऋV ६.६९.३]>इत्य् ऋचाभ्यनूक्तम् [एद्. अच्छावाकस्योक्तं] (२,४.१७ब्) मद्वद् धि तृतीयसवनम् (२,४.१७च्) <अधा हीन्द्र गिर्वणः [ऋV ८.९८.७]><इयं त इन्द्र गिर्वणः [ऋV ८.१३.४]>इत्य् अच्छावाकस्य स्तोत्रियानुरूपौ (२,४.१७द्) <ऋतुर् जनित्री तस्या अपस् परि [ऋV २.१३.१]>इत्य् उक्थमुखम् (२,४.१७ए) तस्योक्तं ब्राह्मणम् (२,४.१७f) <नू मर्तो दयते सनिष्यन् [ऋV ७.१००.१]>इति वैष्णवं सांशंसिकम् [एद्. सांशंसिकंम्] (२,४.१७ग्) अहं चेति विष्णुर् अब्रवीत् (२,४.१७ह्) देवतयोः संशंसायानतिशंसाय (२,४.१७इ) <सं वां कर्मणा सम् इषा हिनोमि [ऋV ६.६९.१]>इति पर्यास ऐन्द्रावैष्णवः (२,४.१७ज्) ऐन्द्रावैष्णवम् अस्यैतन् नित्यम् उक्थम् [एद्. उखं] (२,४.१७क्) तद् एतत् स्वस्मिन्न् आयतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (२,४.१७ल्) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (२,४.१७म्) विजित्या एव (२,४.१७न्) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै (२,४.१७ओ) <उभा जिग्यथुर् न परा जयेथे [ऋV ६.६९.८, ড়्ष् २०.१६.३, श्ष् ७.४४.१]> इत्य् ऐन्द्रावैष्णव्यर्चा परिदधाति (२,४.१७प्) इन्द्राविष्णोर् एव यज्ञं प्रतिष्ठापयति (२,४.१७ॠ) <इन्द्राविष्णू पिबतं मध्वो अस्य [ऋV ६.६९.७]>इति यजति (२,४.१७र्) एते एव तद् देवते यथाभागं प्रीणाति (२,४.१७स्) वषट्कृत्यानुवषट्करोति (२,४.१७त्) प्रत्य् एवाभिमृशन्ते (२,४.१७उ) नाप्याययन्ति (२,४.१७व्) न ह्य् अनाराशंसाः सीदन्ति ॥ १७ ॥

(२,४.१८अ) अथाध्वर्यो शंशंसावोम् इति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते (२,४.१८ब्) चतस्रो वै दिशः (२,४.१८च्) दिक्षु तत् प्रतितिष्ठन्ते (२,४.१८द्) अथो चतुष्पादः पशवः (२,४.१८ए) पशूनाम् आप्त्यै (२,४.१८f) अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास् (२,४.१८ग्) तस्माच् चतुः (२,४.१८ह्) सर्वे त्रैष्टुभं जागतानि शंसन्ति (२,४.१८इ) जागतं हि तृतीयसवनम् (२,४.१८ज्) अथ हैतत् त्रैष्टुभानि (२,४.१८क्) अप्रतिभूतम् इव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम् (२,४.१८ल्) धीतरसं वा एतत् सवनं यत् तृतीयसवनम् (२,४.१८म्) अथ हैतद् अधीतरसं शुक्रियं छन्दो यत् त्रिष्टुब् अयातयाम (२,४.१८न्) सवनस्यैव तत् सरसतायै (२,४.१८ओ) सर्वे समवतीभिः परिदधति (२,४.१८प्) तद् यत् समवतीभिः परिदधत्य् अन्तो वै पर्यासो ऽन्त उदर्को ऽन्तः सजाया उ ह वा अवैनाय (२,४.१८ॠ) अन्तेनैवान्तं परिदधति (२,४.१८र्) सर्वे मद्वतीभिर् यजन्ति (२,४.१८स्) तद् यन् मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिर् अभिरूपाभिर् यजन्ति (२,४.१८त्) यद् यज्ञे ऽभिरूपं तत् समृद्धम् (२,४.१८उ) सर्वे ऽनुवषट्कुर्वन्ति (२,४.१८व्) स्विष्टकृत्वानुवषट्कारः (२,४.१८w) नेत् स्विष्टकृत अन्तरयामेति (२,४.१८x) असौ वै लोकस् तृतीयसवनम् (२,४.१८य्) तस्य पञ्च दिशः (२,४.१८श्) पञ्चोक्थानि तृतीयसवनस्य (२,४.१८अअ) स एतैः पञ्चभिर् उक्थैर् एताः पञ्च दिश आप्नोति (२,४.१८ब्ब्) तद् यद् एषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल् लोकान् ऋध्नोतीमांल् लोकान् ऋध्नोतीति ॥ १८ ॥

(२,४.१९अ) तद् आहुः किं षोडशिनः षोडशित्वम् (२,४.१९ब्) षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिर् अक्षरैर् आदत्ते (२,४.१९च्) द्वे वा अक्षरे अतिरिच्येते षोडशिनो ऽनुष्टुभम् अभिसंपन्नस्य (२,४.१९द्) वाचो वा एतौ स्तनौ (२,४.१९ए) सत्यानृते वाव ते (२,४.१९f) अवत्य् एनं सत्यं नैनम् अनृतं हिनस्ति य एवं वेद य एवं वेद ॥ १९ ॥ [एद्. वेद य एवं वेइ]

(२,४.१९चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः ॥


(२,५.१अ) ओम् अहर् वै देवा आश्रयन्त रात्रीम् असुरास् (२,५.१ब्) ते समावद्वीर्या एवासन् (२,५.१च्) नो व्यावर्तन्त (२,५.१द्) सो ऽब्रवीद् इन्द्रः कश् चाहं चेमान् असुरान् रात्रीम् अन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. ড়त्यल्] (२,५.१ए) स देवेषु न प्रत्यविन्दत् (२,५.१f) अबिभयू रात्रेस्तमसो मृत्योस् (२,५.१ग्) तम इव हि रात्रिः (२,५.१ह्) मृत्युर् वै तमस् (२,५.१इ) तस्माद् धाप्य् एतर्हि भूयान् इव नक्तं स यावन् मात्रम् इवापक्रम्य बिभेति (२,५.१ज्) तं वै छन्दांस्य् एवान्ववायन् (२,५.१क्) तद् यच् छन्दांस्य् एवान्ववायंस् तस्माद् इन्द्रश् च छन्दांसि च रात्रिं वहन्ति (२,५.१ल्) न निविच् छस्यते न पुरोरुङ् न धाय्या नान्या देवता (२,५.१म्) इन्द्रश् च ह्य् एव छन्दांसि च रात्रिं वहन्ति (२,५.१न्) तान् वै पर्यायैः पर्यायम् अनुदन्त (२,५.१ओ) यत् पर्यायैः पर्यायम् अनुदन्त तस्मात् पर्यायास् (२,५.१प्) तत् पर्यायाणां पर्यायत्वम् (२,५.१ॠ) तान् वै प्रथमैर् एव पर्यायैः पूर्वरात्राद् अनुदन्त मध्यमैर् मध्यरात्राद् उत्तमैर् अपररात्रात् (२,५.१र्) अपिशर्वर्या अपिस्मसीत्य् अब्रुवन् (२,५.१स्) तद् यद् अपिशर्वर्या अपिस्मसीत्य् अब्रुवंस् तद् अपिशर्वराणाम् अपिशर्वरत्वम् (२,५.१त्) शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह (२,५.१उ) एतानि ह वा इन्द्रं रात्र्यास् तमसो मृत्योर् अभिपत्यावारयन् (२,५.१व्) तद् अपिशर्वराणाम् अपिशर्वरत्वम् ॥ १ ॥

(२,५.२अ) प्रथमेषु पर्यायेषु स्तुवते प्रथमान्य् एव पदानि पुनर् आददते (२,५.२ब्) यद् एवैषां मनोरथा आसंस् तद् एवैषां तेनाददते (२,५.२च्) मध्यमेषु पर्यायेषु स्तुवते मध्यमान्य् एव पदानि पुनर् आददते (२,५.२द्) यद् एवैषाम् अश्वा गाव आसंस् तद् एवैषां तेनाददते (२,५.२ए) उत्तमेषु पर्यायेषु स्तुवत उत्तमान्य् एव पदानि पुनर् आददते (२,५.२f) यद् एवैषां वासो हिरण्यं मणिर् अध्यात्मम् आसीत् तद् एवैषां तेनाददते (२,५.२ग्) आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद ॥ २ ॥

(२,५.३अ) पवमानवद् अहर् इत्य् आहुर् न रात्रिः पवमानवती (२,५.३ब्) कथम् उभे पवमानवती भवतः (२,५.३च्) केन ते समावद्भाजौ भवत इति (२,५.३द्) यद् एवेन्द्राय मद्वने सुतम् इदं वसो सुतम् अन्ध इदं ह्य् अन्वोजसा सुतम् इति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती (२,५.३ए) तेनोभे पवमानवती भवतस् (२,५.३f) तेन ते समावद्भाजौ भवतः (२,५.३ग्) पञ्चदशस्तोत्रम् अहर् इत्य् आहुर् न रात्रिः पञ्चदशस्तोत्रा (२,५.३ह्) कथम् उभे पञ्चदशस्तोत्रे भवतः (२,५.३इ) केन ते समावद्भाजौ भवत इति (२,५.३ज्) द्वादश स्तोत्राण्य् अपिशर्वराणि (२,५.३क्) तिसृभिर् देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते (२,५.३ल्) तेन रात्रिः पञ्चदशस्तोत्रा (२,५.३म्) तेनोभे पञ्चदशस्तोत्रे भवतस् (२,५.३न्) तेन ते समावद्भाजौ भवतः (२,५.३ओ) परिमितं स्तुवन्त्य् अपरिमितमनुशंसन्ति (२,५.३प्) परिमितं भूतम् अपरिमितं भव्यम् (२,५.३ॠ) अपरिमितान्य् एवावरुन्ध्याद् इत्य् अतिशंसति स्तोमम् (२,५.३र्) अति वै प्रजास्यात्मानम् अति पशवस् (२,५.३स्) तद् यद् एवास्यात्यात्मानं तद् एवास्यैतेनाप्याययन्ति (२,५.३त्) अथो द्वयं वा इदं सर्वं स्नेहश् चैव तेजश् च (२,५.३उ) अथ तद् अहोरात्राभ्याम् आप्तम् (२,५.३व्) स्नेहतेजसोर् आप्त्यै (२,५.३w) गायत्रान् स्तोत्रियानुरूपाञ् छंसन्ति (२,५.३x) तेजो वै गायत्री (२,५.३य्) तमः पाप्मा रात्रिस् (२,५.३श्) तेन तेजसा तमः पाप्मानं तरन्ति (२,५.३अअ) पुनरादायं शंसन्ति (२,५.३ब्ब्) एवं हि सामगा स्तुवते (२,५.३च्च्) यथा स्तुतम् अनुशस्तं भवति (२,५.३द्द्) न हि तत् स्तुतं यन् नानुशस्तम् (२,५.३एए) तद् आहुर् अथ कस्माद् उत्तमात् प्रतीहाराद् आहूय साम्ना शस्त्रम् उपसंतन्वन्तीति ॥ ३ ॥

(२,५.४अ) पुरुषो वै यज्ञस् (२,५.४ब्) तस्य शिर एव हविर्धानम् (२,५.४च्) मुखम् आहवनीयः (२,५.४द्) उदरं सदः (२,५.४ए) अन्नम् उक्थानि (२,५.४f) बाहू मार्जालीयश् चाग्नीध्रीयश् च (२,५.४ग्) या इमा देवतास् ते ऽन्तःसदसं धिष्ण्याः (२,५.४ह्) प्रतिष्ठे गार्हपत्यव्रतश्रपणाव् इत्य् अथापरम् (२,५.४इ) तस्य मन एव ब्रह्मा (२,५.४ज्) प्राण उद्गाता (२,५.४क्) अपानः प्रस्तोता (२,५.४ल्) व्यानः प्रतिहर्ता (२,५.४म्) वाग् घोता (२,५.४न्) चक्षुर् अध्वर्युः (२,५.४ओ) प्रजाति सदस्यः (२,५.४प्) अङ्गानि होत्राशंसिनः (२,५.४ॠ) आत्मा यजमानस् (२,५.४र्) तद् यद् अध्वर्युः स्तोत्रम् उपाकरोति सोमः पवत इति चक्षुर् एव तत् प्राणैः संदधाति (२,५.४स्) अथ यत् प्रस्तोता ब्रह्माणम् आमन्त्रयते ब्रह्मन्त् स्तोष्यामः प्रशास्तर् इति मनो ऽग्रणीर् भवति (२,५.४त्) एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति (२,५.४उ) प्राणान् एव तन् मनसा संदधाति (२,५.४व्) अथ यद् ब्रह्मा स्तुतेत्य् उच्चैर् अनुजानाति मनो वै ब्रह्मा (२,५.४w) मन एव तत् प्राणैः संदधाति (२,५.४x) अथ यत् प्रस्तोता प्रस्तौत्य् अपानम् एव तत् प्राणैः संदधाति (२,५.४य्) अथ यत् प्रतिहर्ता प्रतिहरति व्यानम् एव तद् अपानैः संदधाति (२,५.४श्) अथ यद् उद्गातोद्गायति समानम् एव तत् प्राणैः संदधाति (२,५.४अअ) अथ यद् धोता साम्ना शस्त्रम् उपसंतनोति वाग् वै होता वाचम् एव तत् प्राणैः संदधाति (२,५.४ब्ब्) अथ यत् सदस्यो ब्रह्माणम् उपासीदति प्रजातिर् वै सदस्यः प्रजातिम् एवाप्नोति (२,५.४च्च्) अथ यद् धोत्राशंसिनः सामसंततिं कुर्वन्त्य् अङ्गानि वै होत्राशंसिनो ऽङ्गान्य् एवास्य तत् प्राणैः संदधाति (२,५.४द्द्) अथ यद् यजमानः स्तोत्रम् उपासीदत्य् आत्मा वै यजमान आत्मानम् एवास्य तत् कल्पयति (२,५.४एए) तस्मान् नैनं बहिर्वेद्यभ्याश्रावयेत् (२,५.४ff) नाभ्युदियात् (२,५.४ग्ग्) नाभ्यस्तमियात् (२,५.४ह्ह्) नाधिष्ण्ये प्रतपेत् (२,५.४इइ) नेत् प्राणेभ्य आत्मानम् अन्तरगाद् इति ॥ ४ ॥

(२,५.५अ) प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्राद् एव तद् असुरान् निर्घ्नन्ति (२,५.५ब्) मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति (२,५.५च्) मध्यमरात्राद् एव तद् असुरान् निर्घ्नन्ति (२,५.५द्) उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति (२,५.५ए) उत्तमरात्राद् एव तद् असुरान् निर्घ्नन्ति (२,५.५f) तद् यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्य् एवम् एवैतत् स्तोत्रियानुरूपाभ्याम् अहोरात्राभ्याम् एव तद् असुरान् निर्घ्नन्ति (२,५.५ग्) गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री (२,५.५ह्) तेज एवास्मै तद् ब्रह्मवर्चसं यजमाने दधति (२,५.५इ) गायत्रीः शस्त्वा जगतीः शंसन्ति (२,५.५ज्) ब्रह्म ह वै जगती (२,५.५क्) ब्रह्मणैवास्मै तद् ब्रह्मवर्चसं यजमाने दधति (२,५.५ल्) व्याह्वयन्ते गायत्रीश् च जगतीश् चान्तरेण (२,५.५म्) छन्दांस्य् एव तन् नानावीर्याणि कुर्वन्ति (२,५.५न्) जगतीः शस्त्वा त्रिष्टुभः शंसन्ति (२,५.५ओ) पशवो वै जगती (२,५.५प्) पशून् एव तत् त्रिष्टुब्भिः परिदधति (२,५.५ॠ) बलं वै वीर्यं त्रिष्टुप् (२,५.५र्) बलम् एव तद् वीर्ये ऽन्ततः प्रतिष्ठापयति (२,५.५स्) अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस् त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः (२,५.५त्) एतद् वै रात्रीरूपम् (२,५.५उ) जागृयाद् रात्रिम् (२,५.५व्) यावद् उ ह वै न वा स्तुवते न वा शस्यते तावद् ईश्वरा असुरा रक्षांसि च यज्ञम् अन्ववनयन्ति (२,५.५w) तस्माद् आहवनीयं समिद्धम् आग्नीध्रीयं गार्हपत्यं धिष्ण्यान् समुज्ज्वलयतेति भाषेरन् (२,५.५x) ज्वलयेरन् (२,५.५य्) प्रकाशम् इवैव तत् स्यात् (२,५.५श्) आरेभन्तः शयीरन् (२,५.५अअ) तान् ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति (२,५.५ब्ब्) ते तमः पाप्मानम् अपाघ्नते ते तमः पाप्मानमपाघ्नते ॥ ५ ॥

(२,५.६अ) विश्वरूपं वै त्वाष्ट्रम् इन्द्रो ऽहन् (२,५.६ब्) स त्वष्टा हतपुत्रो ऽभिचरणीयम् अपेन्द्रं सोमम् आहरत् (२,५.६च्) तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत् (२,५.६द्) स विष्वङ् व्यार्छत् (२,५.६ए) तस्मात् सोमो नानुपहूतेन [न] पातव्यः (२,५.६f) सोमपीथो ऽस्य व्यर्धुको भवति (२,५.६ग्) तस्य मुखात् प्राणेभ्यः श्रीर् यशांस्य् ऊर्ध्वान्य् उदक्रामन् [एद्. प्रणेभ्यः, चोर्र्. ড়त्यल्] (२,५.६ह्) तानि पशून् प्राविशन् (२,५.६इ) तस्मात् पशवो यशः (२,५.६ज्) यशो ह भवति य एवं वेद (२,५.६क्) ततो ऽस्मा एतद् अश्विनौ च सरस्वती च यज्ञं समभरन्त् सौत्रामणिं भैषज्याय (२,५.६ल्) तयेन्द्रम् अभ्यषिञ्चन् (२,५.६म्) ततो वै स देवानां श्रेष्ठो ऽभवत् (२,५.६न्) श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश् चैवंविद्वान्त् सौत्रामण्याभिषिच्यते ॥ ६ ॥

(२,५.७अ) अथ साम गायति ब्रह्मा (२,५.७ब्) क्षत्रं वै साम (२,५.७च्) क्षत्रेणैवैनं तद् अभिषिञ्चति (२,५.७द्) अथो साम्राज्यं वै साम (२,५.७ए) साम्राज्येनैवैनं तत् साम्राज्यं गमयति (२,५.७f) अथो सर्वेषां वा एष वेदानां रसो यत् साम (२,५.७ग्) सर्वेषाम् एव तद् वेदानां रसेनाभिषिञ्चति (२,५.७ह्) बृहत्यां गायति (२,५.७इ) बृहत्यां वा असाव् आदित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस् तपति (२,५.७ज्) ऐन्द्र्यां बृहत्यां गायति (२,५.७क्) ऐन्द्रो वा एष यज्ञक्रतुर् यत् सौत्रामणिः (२,५.७ल्) इन्द्रायतन एष एतर्हि यो यजते (२,५.७म्) स्व एवैनं तद् आयतने प्रीणाति (२,५.७न्) अथ कस्मात् संशानानि नाम (२,५.७ओ) एतैर् वै सामभिर् देवा इन्द्रम् इन्द्रियेण वीर्येण समश्यन् (२,५.७प्) तथैवैतद् यजमाना एतैर् एव सामभिर् (२,५.७ॠ) इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन] (२,५.७र्) संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति (२,५.७स्) एष्व् एवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति (२,५.७त्) चतस्रो वै दिशः (२,५.७उ) दिक्षु तत् प्रतितिष्ठन्ते (२,५.७व्) अथो चतुष्पादः पशवः (२,५.७w) पशूनाम् आप्त्यै (२,५.७x) तद् आहुर् यद् एतत् साम गीयते ऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा (२,५.७य्) त्रया देवा एकादशेत्य् आहुः (२,५.७श्) एतद् वा एतस्य साम्न उक्थम् एषा प्रतिष्ठा (२,५.७अअ) त्रयस्त्रिंशं ग्रहं गृह्णाति (२,५.७ब्ब्) साम्नः प्रतिष्ठायै प्रतिष्ठायै ॥ ७ ॥

(२,५.८अ) प्रजापतिर् अकामयत वाजम् आप्नुयां स्वर्गं लोकम् इति (२,५.८ब्) स एतं वाजपेयम् अपश्यत् (२,५.८च्) वाजपेयो वा एष य एष तपति (२,५.८द्) वाजम् एतेन यजमानः स्वर्गं लोकम् आप्नोति (२,५.८ए) शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति (२,५.८f) तेजो ब्रह्मवर्चसं ताभिर् आप्नोति (२,५.८ग्) वाजवत्यो माध्यंदिने सवने (२,५.८ह्) स्वर्गस्य लोकस्य समष्ट्यै (२,५.८इ) अन्नवत्यो गणवत्यः पशुमत्यस् तृतीयसवने भवन्ति (२,५.८ज्) भूमानं ताभिर् आप्नोति (२,५.८क्) सर्वः सप्तदशो भवति (२,५.८ल्) प्रजापतिर् वै सप्तदशः (२,५.८म्) प्रजापतिम् एवाप्नोति (२,५.८न्) हिरण्यस्रज ऋत्विजो भवन्ति (२,५.८ओ) महस एव तद् रूपं क्रियते (२,५.८प्) एष मे ऽमुष्मिंल् लोके प्रकाशो ऽसद् इति (२,५.८ॠ) ज्योतिर् वै हिरण्यम् (२,५.८र्) ज्योतिषैवैनम् अन्तर्दधति (२,५.८स्) आजिं धावन्ति (२,५.८त्) यजमानम् उज्जापयन्ति (२,५.८उ) नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति (२,५.८व्) मनुष्यलोकाद् एवैनम् अन्तर्दधति (२,५.८w) देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयम् इति ब्रह्मा रथचक्रं सर्पति (२,५.८x) सवितृप्रसूत एवैनं तत् सर्पति (२,५.८य्) अथो प्रजापतिर् वै ब्रह्मा (२,५.८श्) प्रजापतिम् एवैनं वज्राद् अधिप्रसुवति (२,५.८अअ) नाकस्योज्जित्यै (२,५.८ब्ब्) वाजिनां संतत्यै (२,५.८च्च्) वाजिसामाभिगायति (२,५.८द्द्) वाजिमान् भवति (२,५.८एए) वाजो वै स्वर्गं लोकः (२,५.८ff) स्वर्गम् एव तल् लोकं रोहति (२,५.८ग्ग्) विष्णोः शिपिविष्टवतीषु बृहद् उत्तमं भवति (२,५.८ह्ह्) स्वर्गम् एव तल् लोकं रूढ्वा ब्रध्नस्य विष्टपम् अतिक्रामत्य् अतिक्रामति ॥ ८ ॥

(२,५.९अ) अथातो ऽप्तोर्यामा (२,५.९ब्) प्रजापतिर् वै यत् प्रजा असृजत ता वै तान्ता असृजत (२,५.९च्) ताः सृष्टाः पराच्य एवासन् (२,५.९द्) नोपावर्तन्त (२,५.९ए) ता एकेन स्तोमेनोपागृह्णात् (२,५.९f) ता अत्यरिच्यन्त (२,५.९ग्) ता द्वाभ्याम् (२,५.९ह्) ताः सर्वैस् (२,५.९इ) तस्मात् सर्वस्तोमस् (२,५.९ज्) ता एकेन पृष्ठेनोपागृह्णात् (२,५.९क्) ता अत्यरिच्यनत (२,५.९ल्) ता द्वाभ्याम् (२,५.९म्) ताः सर्वैस् (२,५.९न्) तस्मात् सर्वपृष्ठस् (२,५.९ओ) ता अतिरिक्तोक्थे वारवन्तीयेनावारयन् (२,५.९प्) तस्माद् एषो ऽतिरिक्तोक्थवान् भवति (२,५.९ॠ) तस्माद् वारवन्तीयम् (२,५.९र्) ता यद् आप्त्वायच्छद् अतो वा अप्तोर्यामा (२,५.९स्) अथो प्रजा वा अप्तुर् इत्य् आहुः (२,५.९त्) प्रजानां यमन इति हैवैतद् उक्तं ता बर्हिः प्रजा अश्नायेरन् [एद्. प्रजाश्नायेरंस्, चोर्र्. ড়त्यल्] (२,५.९उ) तर्हि हैतैन यजते (२,५.९व्) स एषो ऽष्टापृष्ठो भवति (२,५.९w) तद् यथान्यस्मिन् यज्ञे विश्वजितः पृष्ठम् अनु संचरं भवति कथम् एतद् एवम् अत्रेति (२,५.९x) पितैष यज्ञानाम् (२,५.९य्) तद् यथा श्रेष्ठिनि संवश्रेयुर् अपि विद्विषाणा एवम् एवैतच् छ्रेष्ठिनो वशेयान्नम् अन्नस्यानुचर्याय क्षमन्ते ॥ ९ ॥

(२,५.१०अ) तद्यथैवादो ऽह्न उक्थानाम् आग्नेयं प्रथमं भवत्य् एवम् एवैतद् अत्राप्य् आग्नेयं प्रथमं भवति (२,५.१०ब्) ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे] (२,५.१०च्) ऐन्द्रे वा एते (२,५.१०द्) ऐन्द्रावैष्णवम् अच्छावाकस्योक्थं भवति (२,५.१०ए) चतुराहावान्य् अतिरिक्तोक्थानि भवन्ति (२,५.१०f) पशवो वा उक्थानि (२,५.१०ग्) चतुष्टया वै पशवः (२,५.१०ह्) अथो चतुष्पादः पशवः (२,५.१०इ) पशूनाम् आप्त्यै (२,५.१०ज्) त एते स्तोत्रियानुरूपास् तृचा अर्धर्चशस्याः (२,५.१०क्) प्रतिष्ठा वा अर्धर्चः (२,५.१०ल्) प्रतिष्ठित्या एव (२,५.१०म्) अथैतेषाम् एवाश्विनानां सूक्तानां द्वे द्वे समाहावम् एकैकम् अहरहः शंसति (२,५.१०न्) अश्विनौ वै देवानां भिषजौ (२,५.१०ओ) तस्माद् आश्विनानि सूक्तानि शंसति (२,५.१०प्) तद् अश्विभ्यां प्रददुर् इदं भिषज्यतम् इति (२,५.१०ॠ) क्षैत्रपत्याः परिधानीया भवन्ति (२,५.१०र्) यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस् ता दीना एताभिर् यथाक्षेत्रं पाययां चकार तर्पयां चकार [एद्. ह तस्तत्, चोर्र्. ড়त्यल्] (२,५.१०स्) अथो इयं वै क्षेत्रं पृथिवी (२,५.१०त्) अस्याम् अदीनायाम् अन्ततः प्रतिष्ठास्यामह इति (२,५.१०उ) त्रिष्टुभो याज्या भवन्ति (२,५.१०व्) यत्र हतस् तत् प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस् ता हैवैना एताभिर् यथौकसं व्यवसाययां चकार (२,५.१०w) तस्माद् एता याज्या भवन्ति तस्माद् एता याज्या भवन्ति ॥ १० ॥

(२,५.११अ) अथातो ऽनैकाहिकम् [एद्. अथतो] (२,५.११ब्) श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने (२,५.११च्) अहीनम् एव तत् संतन्वन्ति (२,५.११द्) अहीनस्य संतत्यै (२,५.११ए) तद् यथा ह वा एकाहः सुत एवम् अहीनः सुतस् (२,५.११f) तद् यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्य् एवम् अहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति (२,५.११ग्) तद् यच् छ्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने (२,५.११ह्) अहर् एवं तद् अह्नो ऽनुरूपं कुर्वन्ति (२,५.११इ) अपरेणैव तद् अह्नापरम् अहर् अभ्यारभन्ते तत् (२,५.११ज्) तथा न माध्यंदिने सवने (२,५.११क्) श्रीर् वै पृष्ठानि (२,५.११ल्) तानि तस्मिन्न् एवावस्थितानि भवन्ति (२,५.११म्) एतेनैव विधिना तृतीयसवने (२,५.११न्) न श्वस्तोत्रियम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति ॥ ११ ॥

(२,५.१२अ) अथात आरम्भणीया एव (२,५.१२ब्) <ऋजुनीती नो वरुण> इति मैत्रावरुणस्य <मित्रो नयतु विद्वान् [ऋV १.९०.१]> इति (२,५.१२च्) प्रणेता वा एष होत्रकाणां यन् मैत्रावरुणस् (२,५.१२द्) तस्माद् एषा प्रणेतृमती भवति [एद्. प्रणेत्रिमती, चोर्र्. ড়त्यल्] (२,५.१२ए) <इन्द्रं वो विश्वतस् परि [ऋV १.७.१०अ, श्ष् २०.३९.१/२०.७०.१६अ]> इति ब्राह्मणाच्छंसिनः (२,५.१२f) <हवामहे जनेभ्यः [ऋV १.७.१०ब्, श्ष् २०.३९.१/२०.७०.१६ब्]>इतीन्द्रम् एवैतयाहरहर् निर्ह्वयन्ते (२,५.१२ग्) न हैवैषां विहवे ऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान् ब्राह्मणाच्छंस्य् एताम् अहरहः शंसति (२,५.१२ह्) <यत् सोम आ सुते नरः [ऋV ७.९४.१०अ]>इत्य् अच्छावाकस्य (२,५.१२इ) <इन्द्राग्नी अजोहवुः [ऋV ७.९४.१०ब्]>इतीन्द्राग्नी एवैतयाहरहर् निर्ह्वयन्ते (२,५.१२ज्) न हैवैषां विहवे ऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वान् अच्छावाक एताम् अहरहः शंसति (२,५.१२क्) ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः (२,५.१२ल्) स्वर्गम् एवैताभिर् लोकम् अनुसंतरन्ति ॥ १२ ॥

(२,५.१३अ) अथातः परिधानीया एव (२,५.१३ब्) <ते स्याम देव वरुण [ऋV ७.६६.९अ]>इति मैत्रावरुणस्य (२,५.१३च्) <इषं स्वश् च धीमहि [ऋV ७.६६.९ब्]>इत्य् अयं वै लोक इषम् इत्य् असौ लोकः स्वर् इति (२,५.१३द्) उभाव् एवैनौ तौ लोकाव् आरभते (२,५.१३ए) <व्य् अन्तरिक्षम् अतिरत् [ऋV ८.१४.७अ, श्ष् २०.२८.१अ, २०.३९.२अ]>इति ब्राह्मणाच्छंसिनः (२,५.१३f) विवत् तृचम् (२,५.१३ग्) स्वर्गम् एवैताभिर् लोकं विवृणोति (२,५.१३ह्) <मदे सोमस्य रोचनेन्द्रो यद् अभिनद् वलम् [ऋV ८.१४.७ब्च्, श्ष् २०.२८.१ब्च्, २०.३९.२ब्च्]> इति (२,५.१३इ) सिषासवो ह वा एते यद् दीक्षितास् (२,५.१३ज्) तस्माद् एषा वलवती भवति (२,५.१३क्) <उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः । अर्वाञ्चं नुनुदे वलम् [ऋV ८.१४.८, श्ष् २०.२८.२, २०.३९.३]> इति [एद्. कृवन्, चोर्र्. ড়त्यल्] (२,५.१३ल्) सनिम् एतेभ्य एतयावरुन्द्धे (२,५.१३म्) <इन्द्रेण रोचना दिवो दृढानि दृंहितानि च । स्थिराणि न पराणुदे [ऋV ८.१४.९, श्ष् २०.२८.३, २०.३९.४]>इति (२,५.१३न्) स्वर्गम् एवैतयाहरहर् लोकम् अवरुन्द्धे (२,५.१३ओ) <आहं सरस्वतीवतोः [ऋV ८.३८.१०अ]>इत्य् अच्छावाकस्य [एद्. स्वरस्वतीवतोर्, चोर्रेच्तेद् प्. ३०३] (२,५.१३प्) <इन्द्राग्न्योर् अवो वृणे [ऋV ८.३८.१०ब्]>इति (२,५.१३ॠ) एतद् ध वा इन्द्राग्न्योः प्रियं धामो यद् वाग् इति प्रियेणैवैनौ तद् धाम्ना समर्धयति (२,५.१३र्) प्रियेणैव धाम्ना समृध्यते य एवं वेद ॥ १३ ॥

(२,५.१४अ) उभय्यो होत्रकाणां परिधानीया भवन्त्य् अहीनपरिधानयाश् चैकाहिनस्य (२,५.१४ब्) तत ऐकाहिकीभिर् एव मैत्रावरुणः परिदधाति (२,५.१४च्) तेनास्माल् लोकान् न प्रच्यवते (२,५.१४द्) आहिनीकीभिर् अच्छावाकः (२,५.१४ए) स्वर्गस्य लोकस्याप्त्यै (२,५.१४f) उभयीभिर् ब्राह्मणाच्छंसी (२,५.१४ग्) एवम् असाव् उभौ व्यन्वारभमाण एतीमं च लोकम् अमुं च (२,५.१४ह्) अथो ऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं च (२,५.१४इ) एवम् असाव् उभौ व्यन्वारभमाण एति (२,५.१४ज्) अथ तत ऐकाहिकीभिर् एव तृतीयसवने होत्रकाः परिदधति (२,५.१४क्) तेनास्माल् लोकान् न प्रच्यवते (२,५.१४ल्) आहिनीकीभिर् अच्छावाकः (२,५.१४म्) स्वर्गस्य लोकस्य समष्ट्यै (२,५.१४न्) कामं तद् धोता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः (२,५.१४ओ) यद् वै होता तद् धोत्रकाः (२,५.१४प्) प्राणो वै होताङ्गानि होत्रकाः (२,५.१४ॠ) समानो वा अयं प्राणो ऽङ्गान्य् अनुसंचरति (२,५.१४र्) तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः (२,५.१४स्) यद् वै होता तद् धोत्रकाः (२,५.१४त्) आत्मा वै होताङ्गानि होत्रकाः (२,५.१४उ) समाना वा इमे ऽङ्गानाम् अन्तास् (२,५.१४व्) तस्मात् तत् कामं होता शंसेद् यद् धोत्रकाः पूर्वेद्युः शंसेयुः [एद्. पुर्वेद्युः] (२,५.१४w) यद् वै होता तद् धोत्रकाः (२,५.१४x) सूक्तान्तैर् होता परिदधाति (२,५.१४य्) अथ समान्य एव होत्रकाणां परिधानीया भवन्ति ॥ १४ ॥

(२,५.१५अ) यः श्वस्तोत्रियस् तम् अद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने (२,५.१५ब्) अहीनम् एव तत् संतन्वन्ति (२,५.१५च्) अहीनस्य संतत्यै (२,५.१५द्) त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिने ऽहीनसूक्तानि शंसन्ति (२,५.१५ए) <आ सत्यो यातु मघवां ऋजीषी [ऋV ४.१६.१, श्ष् २०.७७.१]>इति सत्यवान् मैत्रावरुणः [एद्. सत्यवन्, चोर्र्. ড়त्यल्] (२,५.१५f) <अस्मा इद् उ प्र तवसे तुराय [ऋV १.१६.१, श्ष् २०.३५.१]>इति ब्राह्मणाच्छंसी (२,५.१५ग्) <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋV ३.३१.१]>इत्य् अच्छावाकस् (२,५.१५ह्) तद् आहुः कस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति (२,५.१५इ) वीर्यवान् वा एष बह्वृचो यद् अच्छावाकः (२,५.१५ज्) वहति ह वै वह्निर् धुरो यासु युज्यते (२,५.१५क्) तस्माद् अच्छावाको वह्निवद् एतत् सूक्तम् उभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति (२,५.१५ल्) तानि पञ्चस्व् अहःसु शस्यन्ते चतुर्विंशे ऽभिजिति विषुवति विश्वजिति महाव्रते (२,५.१५म्) तान्य् एतान्य् अहीनसूक्तानीत्य् आचक्षते (२,५.१५न्) न ह्य् एषु किं चन हीयते (२,५.१५ओ) पराञ्चि ह वा एतान्य् अहान्य् अनभ्यावर्तीनि भवन्ति (२,५.१५प्) तस्माद् एतान्य् एतेष्व् अहःसु शस्यन्ते (२,५.१५ॠ) यद् एतानि शंसन्ति तत् स्वर्गस्य लोकस्य रूपम् (२,५.१५र्) यद् वेवैतानि शंसन्तीन्द्रम् एवैतैर् निर्ह्वयन्ते यथर्षभं वाशितायै (२,५.१५स्) ते वै देवाश् चर्षयश् चाब्रुवन्त् समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्] (२,५.१५त्) तद् एतद् यज्ञस्य समानम् अपश्यन् (२,५.१५उ) समानान् प्रगाथान्त् समानीः प्रतिपदः समानानि सूक्तानि [एद्. प्रगाथांत्] (२,५.१५व्) ओकःसारी वा इन्द्रः (२,५.१५w) यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्य् एव तत्रापरम् (२,५.१५x) यज्ञस्यैव सेन्द्रतायै ॥ १५ ॥

(२,५.१५चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः ॥


(२,६.१अ) ओं तान् वा एतान् संपातान् विश्वामित्रः प्रथमम् अपश्यत् (२,६.१ब्) <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋV ४.१९.१]> <यन् न इन्द्रो जुजुषे यच् च वष्टि [ऋV ४.२२.१]> <कथा महाम् अवृधत् कस्य होतुः [ऋV ४.२३.१]>इति (२,६.१च्) तान् विश्वामित्रेण दृष्टान् वामदेवो ऽसृजत (२,६.१द्) स हेक्षां चक्रे विश्वामित्रो यान् वा अहं संपातान् अदर्शं तान् वामदेवो ऽसृजत (२,६.१ए) कानि न्व् अहं हि सूक्तानि संपातांस् तत् प्रतिमान्त् सृजेयम् इति (२,६.१f) स एतानि सूक्तानि संपातांस् तत् प्रतिमान् असृजत (२,६.१ग्) <सद्यो ह जातो वृषभः कनीनः [ऋV ३.४८.१]><उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋV ७.२३.१, श्ष् २०.१२.१]><अभि तष्टेव दीधया मनीषाम् [ऋV ३.३८.१]> इति विश्वमित्रः (२,६.१ह्) <इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋV ३.३४.१, श्ष् २०.११.१]><य एक इद् धव्यश् चर्षणीनाम् [ऋV ६.२२.१, श्ष् २०.३६.१]><यस् तिग्मशृङ्गो वृषभो न भीमः [ऋV ७.१९.१, श्ष् २०.३७.१]>इति वसिष्ठः (२,६.१इ) <इमाम् ऊ षु प्रभृतिं सातये धाः [ऋV ३.३६.१]><इच्छन्ति त्वा सोम्यासः सखायः [ऋV ३.३०.१]> <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋV ३.३१.१]>इति भरद्वाजः (२,६.१ज्) एतैर् वै संपातैर् एत ऋषय इमांल् लोकान्त् समपतन् (२,६.१क्) तद् यत् समपतंस् तस्मात् संपातास् (२,६.१ल्) तत् संपातानां संपातत्वम् (२,६.१म्) ततो वा एतांस् त्रीन् संपातान् मैत्रावरुणो विपर्यासम् एकैकम् अहरहः शंसत्य् <एवा त्वाम् इन्द्र वज्रिन्न् अत्र [ऋV ४.१९.१]>इति प्रथमे ऽहनि (२,६.१न्) <यन् न इन्द्रो जुजुषे यच् च वष्टि [ऋV ४.२२.१]>इति द्वितीये (२,६.१ओ) <कथा महाम् अवृधत् कस्य होतुः [ऋV ४.२३.१]>इति तृतीये (२,६.१प्) त्रीन् एव संपातान् ब्राह्मणाच्छंसी विपर्यासम् एकैकम् अहरहः शंसति<इन्द्रः पूर्भिद् आतिरद् दासम् अर्कैः [ऋV ३.३४.१, श्ष् २०.११.१]>इति प्रथमे ऽहनि (२,६.१ॠ) <य एक इद् धव्यश् चर्षणीनाम् [ऋV ६.२२.१, श्ष् २०.३६.१]> इति द्वितीये (२,६.१र्) <यस् तिग्मशृङ्गो वृषभो न भीमः [ऋV ७.१९.१, श्ष् २०.३७.१]>इति तृतीये (२,६.१स्) त्रीन् एव संपातान् अच्छावाको विपर्यासम् एकैकम् अहरहः शंसति<इमाम् ऊ षु प्रभृतिं सातये धाः [ऋV ३.३६.१]>इति प्रथमे ऽहनि (२,६.१त्) <इच्छन्ति त्वा सोम्यासः सखायः [ऋV ३.३०.१]>इति द्वितीये (२,६.१उ) <शासद् वह्निर् दुहितुर् नप्त्यं गात् [ऋV ३.३१.१]>इति तृतीये (२,६.१व्) तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि (२,६.१w) तानि द्वादश भवन्ति (२,६.१x) द्वादश ह वै मासाः संवत्सरः (२,६.१य्) संवत्सरः प्रजापतिः (२,६.१श्) प्रजापतिर् यज्ञस् (२,६.१अअ) तत् संवत्सरं प्रजापतिं यज्ञम् आप्नोति (२,६.१ब्ब्) तस्मिन्त् संवत्सरे प्रजापतौ यज्ञे ऽहरहः प्रतितिष्ठन्तो यन्ति (२,६.१च्च्) प्रतितिष्ठन्ते [एद्. प्रतितिष्ठत, चोर्र्. ড়त्यल्] (२,६.१द्द्) इदं सर्वम् अनु प्रतितिष्ठति (२,६.१एए) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (२,६.१ff) तान्य् अन्तरेणावापम् आवपेरन् (२,६.१ग्ग्) अन्यूङ्खा विराजश् चतुर्थे ऽहनि वैमदीश् च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे (२,६.१ह्ह्) अथ यान्य् अन्यानि महास्तोत्राण्य् अष्टर्चान्य् आवपेरन् ॥ १ ॥

(२,६.२अ) <को अद्य नर्यो देवकामः [ऋV ४.२५.१]>इति मैत्रावरुणः (२,६.२ब्) <वने न वा यो न्य् अधायि चाकन् [ऋV १०.२९.१, श्ष् २०.७६.१]>इति ब्राह्मणाच्छंसी (२,६.२च्) <आ याह्य् अर्वाङ् उप वन्धुरेष्ठाः [ऋV ३.४३.१]>इत्य् अच्छावाकः (२,६.२द्) एतानि वा आवपनानि (२,६.२ए) एतैर् एवावपनैर् देवाश् चर्षयश् च स्वर्गं लोकं आयन् (२,६.२f) तथैवैतद् यजमाना एतैर् एवावपनैः स्वर्गं लोकं यन्ति (२,६.२ग्) <सद्यो ह जातो वृषभः कनीनः [ऋV ३.४८.१]>इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति (२,६.२ह्) तद् एतत् सूक्तं स्वर्ग्यम् (२,६.२इ) एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन् (२,६.२ज्) तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति (२,६.२क्) तद् ऋषभवत् पशुमद् भवति (२,६.२ल्) पशूनाम् आप्त्यै (२,६.२म्) तत् पञ्चर्चं भवति (२,६.२न्) अन्नं वै पङ्क्तिः (२,६.२ओ) अन्नाद्यस्यावरुद्ध्यै (२,६.२प्) <अरिष्टैर् नः पथिभिः पारयन्ता [ऋV ६.६९.१द्]>इति स्वर्गताया एवैतद् अहरहः शंसति (२,६.२ॠ) <उद् उ ब्रह्माण्य् ऐरत श्रवस्या [ऋV ७.२३.१, श्ष् २०.१२.१]>इति ब्राह्मणाच्छंसी (२,६.२र्) ब्रह्मण्वद् एतत् सूक्तं समृद्धम् (२,६.२स्) एतेन सूक्तेन देवाश् चर्षयश् च स्वर्गं लोकम् आयन् (२,६.२त्) तथैवैतद् यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति (२,६.२उ) तद् उ वै षडृचम् (२,६.२व्) षड् वा ऋतवः (२,६.२w) ऋतूनाम् आप्त्यै (२,६.२x) तद् उपरिष्टात् संपातानाम् अहरहः शंसति (२,६.२य्) <अभि तष्टेव दीधया मनीषाम् [ऋV ३.३८.१अ]> इत्य् अच्छावाकः [एद्. अच्छावको] (२,६.२श्) अहरहः शंसत्य् अभिवदति तत्यै रूपम् (२,६.२अअ) <अभि प्रियाणि मर्मृशत् पराणि [ऋV ३.३८.१च्]>इति (२,६.२ब्ब्) यान्य् एव पराण्य् अहानि तानि प्रियाणि (२,६.२च्च्) तान्य् एव तद् अभिमर्मृशन्तो यन्त्य् अभ्यारभमाणाः (२,६.२द्द्) परो वा अस्माल् लोकात् स्वर्गो लोकः (२,६.२एए) स्वर्गम् एव तल् लोकम् अभिमृशन्ति (२,६.२ff) <कवींर् इच्छामि संदृशे सुमेधाः [ऋV ३.३८.१द्]>इति (२,६.२ग्ग्) ये ह वा अनेन पूर्वे प्रेतास् ते वै कवयस् तान् एव तद् अभ्यतिवदति (२,६.२ह्ह्) यद् उ वै दशर्चं दश वै प्राणाः (२,६.२इइ) प्राणेन तद् आप्नोति (२,६.२ज्ज्) प्राणानां संतत्यै (२,६.२क्क्) यद् उ वै दशर्चम् (२,६.२ल्ल्) दश वै पुरुषे प्राणाः (२,६.२म्म्) दश स्वर्गा लोकाः (२,६.२न्न्) प्राणांश् चैव तत् स्वर्गांश् च लोकान् आप्नोति (२,६.२ओओ) प्राणेषु चैवैतत् स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति (२,६.२प्प्) यद् उ वै दशर्चम् (२,६.२ॠॠ) दशाक्षरा विराट् (२,६.२र्र्) इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा (२,६.२स्स्) तद् एतद् अस्यां प्रतिष्ठायां प्रतिष्ठापयति (२,६.२त्त्) सकृद् इन्द्रं निराह (२,६.२उउ) तेनैन्द्राद् रूपान् न प्रच्यवते (२,६.२व्व्) तद् उपरिष्टात् संपातानाम् अहरहः शंसति ॥ २ ॥

(२,६.३अ) <कस् तम् इन्द्र त्वावसुम् [ऋV ७.३२.१४]><कन् नव्यो अतसीनाम् [ऋV ८.३.१३]><कद् ऊ न्व् अस्याकृतम् [ऋV ८.६६.९]> इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते (२,६.३ब्) को वै प्रजापतिः (२,६.३च्) प्रजापतेर् आप्त्यै (२,६.३द्) यद् एव कद्वन्तस् तत् स्वर्गस्य लोकस्य रूपम् (२,६.३ए) यद् व् एव कद्वन्तः (२,६.३f) अथो अन्नं वै कम् (२,६.३ग्) अथो अन्नस्यावरुद्ध्यै (२,६.३ह्) यद् व् एव कद्वन्तः (२,६.३इ) अथो सुखं वै कम् (२,६.३ज्) अथो अन्नस्यावरुद्ध्यै (२,६.३क्) यद् व् एव कद्वन्तः (२,६.३ल्) अथो ऽहरहर् वा एते शान्तान्य् अहीनसूक्तान्य् उपयुञ्जाना यन्ति (२,६.३म्) तानि कद्वद्भिः प्रगाथैः शमयन्ति (२,६.३न्) तान्य् एभ्यः शान्तानि कं भवन्ति (२,६.३ओ) तान्य् एताञ् छान्तानि स्वर्गं लोकम् अभिवहन्ति (२,६.३प्) त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस् (२,६.३ॠ) ता हैके पुरस्तात् प्रगाथानां शंसन्ति धाय्या इति वदन्तस् (२,६.३र्) तद् उ तथा न कुर्यात् (२,६.३स्) क्षत्रं वै होता विशो होत्राशंसिनः (२,६.३त्) क्षत्रायैव तद् विशं प्रत्युद्यामिनीं कुर्युः (२,६.३उ) पापवस्यसम् (२,६.३व्) त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्य् एवं विद्यात् (२,६.३w) यथा वै समुद्रं प्रतरेयुर् एवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते (२,६.३x) तद् यथा सैरावतीं नावं पारकामाः समारोहेयुर् एवं हैवैतास् त्रिष्टुभः स्वर्गकामाः समारोहन्ति (२,६.३य्) न ह वा एतच् छन्दो गमयित्वा स्वर्गं लोकम् उपावर्तते (२,६.३श्) वीर्यवत्तमं हि (२,६.३अअ) ताभ्यो न व्याह्वयीत (२,६.३ब्ब्) समानं हि छन्दः (२,६.३च्च्) अथो नेद् धाय्याः करवाणीति (२,६.३द्द्) यद् एनाः शंसन्ति तत् स्वर्गस्य लोकस्य रूपम् (२,६.३एए) यद् व् एवैनाः शंसन्तीन्द्रमेवैताभिर् निर्ह्वयन्ते यथर्षभं वाशितायै ॥ ३ ॥

(२,६.४अ) <अपेन्द्र प्राचो मघवन्न् अमित्रान् [ড়्ष् १९.१६.८अ, श्ष् २०.१२५.१अ]> इति मैत्रावरुणः पुरस्तात् संपातानाम् अहरहः शंसति [एद्. अपेन्द] (२,६.४ब्) <अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम [ড়्ष् १९.१६.८ब्च्द्, श्ष् २०.१२५.१ब्च्द्]>इति (२,६.४च्) अभयस्य रूपम् (२,६.४द्) अभयम् इव ह्य् अन्विच्छति (२,६.४ए) <ब्रह्मणा ते ब्रह्मयुजा युनज्मि [ऋV ३.३५.५, श्ष् २०.८६.१]>इति ब्राह्मणाच्छंसी (२,६.४f) एताम् अहरहः शंसति युक्तवतीम् (२,६.४ग्) युक्त इव ह्य् अहीनः (२,६.४ह्) अहीनस्य रूपम् (२,६.४इ) <उरुं नो लोकम् अनु नेषि [ऋV ६.४७.८, ড়्ष् ३.३५.४, श्ष् १९.१५.४]>इत्य् अच्छावाको ऽहरहः शंसति (२,६.४ज्) अनुनेषीत्य् एत इव ह्य् अहीनः (२,६.४क्) अहीनस्य रूपम् (२,६.४ल्) नेषीति सत्त्रायणरूपम् ओकःसारी हैवैषाम् इन्द्रो भवति (२,६.४म्) यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषाम् इन्द्रो यज्ञम् आगच्छति (२,६.४न्) न शुनंहूययाहीनस्य परिदध्यात् (२,६.४ओ) क्षत्रियो ह राष्ट्राच् च्यवते (२,६.४प्) यो हैव परो भवति तम् अभिह्वयति ॥ ४ ॥

(२,६.५अ) अथातो ऽहीनस्य युक्तिश् च विमुक्तिश् च (२,६.५ब्) <व्य् अन्तरिक्षम् अतिरत् [ऋV ८.१४.७अ, श्ष् २०.२८.१अ, २०.३९.२अ]>इत्य् अहीनं युङ्क्ते (२,६.५च्) <एवेद् इन्द्रम् [ऋV ७.२३.६अ, श्ष् २०.१२.६अ, लोन्गेर् पर्तीक अत् २.४.२]> इति विमुञ्चति (२,६.५द्) <नूनं सा ते [ऋV २.११.२१, १५.१०, १६.९, १७.९, १८.९, १९.९, २०.९]>इत्य् अहीनं युङ्क्ते (२,६.५ए) <नू ष्टुतः [ऋV ४.१६.२१, १७.२१, १९.११, २०.११, २१.११, २२.११, २३.११, २४.११]>इति विमुञ्चति (२,६.५f) एषा ह वा अहीनं तन्तुम् अर्हति य एनं योक्तं च विमोक्तं च वेद (२,६.५ग्) तस्य हैषैव युक्तिर् एषा विमुक्तिस् (२,६.५ह्) तद् यत् प्रथमे ऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर् नाहीनकर्म कुर्युः (२,६.५इ) अथ यद् अहीनपरिधानीयाभिः परिदध्युस् तद् यथा युक्तो ऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन् (२,६.५ज्) नाहीनकर्म कुर्युः (२,६.५क्) अथ यद् उभयीभिः परिदध्युस् तद् यथा दीर्घाध्व उपविमोकं यायात् तादृक् तत् (२,६.५ल्) समानीभिः परिदध्युस् (२,६.५म्) तद् आहुर् एकया द्वाभ्यां वा स्तोमम् अतिशंसेत् (२,६.५न्) दीर्घारण्यानि भवन्ति (२,६.५ओ) यत्र बह्वीभि स्तोमो ऽतिशस्यते ऽथो क्षिप्रं देवेभ्यो ऽन्नाद्यं संप्रयच्छामीति (२,६.५प्) अपरिमिताभिर् उत्तरयोः सवनयोर् अपरिमितो वै स्वर्गो लोकः (२,६.५ॠ) स्वर्गस्य लोकस्य समष्ट्यै (२,६.५र्) तद् यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत् तादृक् तत् (२,६.५स्) समानीभिः परिदध्युः (२,६.५त्) संततो हैवैषाम् आरब्धो ऽविस्रस्तो यज्ञो भवति (२,६.५उ) संततम् ऋचा वषट्कृत्यम् (२,६.५व्) संतत्यै संधीयते प्रजया पशुभिर् य एवं वेद ॥ ५ ॥

(२,६.६अ) तद् आहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति (२,६.६ब्) असौ वै होता यो ऽसौ तपति (२,६.६च्) स वा एक एव (२,६.६द्) तस्माद् एकसूक्तः (२,६.६ए) स यद् विध्यातो द्वाव् इवाभवति (२,६.६f) तेज एव मण्डलं भा अपरं शुक्लम् अपरं कृष्णम् (२,६.६ग्) तस्माद् अ द्व्युक्थः (२,६.६ह्) रश्मयो वाव होत्रास् (२,६.६इ) ते वा एकैकम् (२,६.६ज्) तस्माद् एकोक्थास् (२,६.६क्) तद् यद् एकैकस्य रश्मेर् द्वौद्वौ वर्णौ भवतस् तस्माद् द्विसूक्ताः (२,६.६ल्) संवत्सरो वाव होता (२,६.६म्) स वा एक एव (२,६.६न्) तस्माद् एकसूक्तस् (२,६.६ओ) तस्य यद् द्वयान्य् अहानि भवन्ति शीतान्य् अन्यान्य् उष्णान्य् अन्यानि तस्माद् द्व्युक्थः (२,६.६प्) ऋतवो वाव होत्रास् (२,६.६ॠ) ते वा एकैकम् (२,६.६र्) तस्माद् एकोक्थास् (२,६.६स्) तद् यद् एकैकस्यर्तौ द्वौद्वौ मासौ भवतस् तस्माद् द्विसूक्ताः (२,६.६त्) पुरुषो वाव होता (२,६.६उ) स वा एक एव (२,६.६व्) तस्माद् एकसूक्तः (२,६.६w) स यत् पुरुषो भवत्य् अन्यथैव प्रत्यङ् भवत्य् अन्यथा प्राङ् तस्माद् द्व्युक्थः (२,६.६x) अङ्गानि वाव होत्रास् (२,६.६य्) तानि वा एकैकम् (२,६.६श्) तस्माद् एकोक्थास् (२,६.६अअ) तद् यद् एकैकम् अङ्गं द्युतिर् भवति तस्माद् द्विसूक्तास् (२,६.६ब्ब्) तद् आहुर् यद् द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत् समं भवति (२,६.६च्च्) यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात् (२,६.६द्द्) तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे द्वे होतुर् उक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति (२,६.६एए) यद् एव द्विदेवत्याभिर् यजन्त्य् अथो यद् द्विसूक्ता होत्रा इति ब्रूयात् (२,६.६ff) तद् आहुर् यद् अग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्य् आप्याययन्ति (२,६.६ग्ग्) अथ कतमेन छन्दसायातयामान्य् उक्थानि प्रणयन्ति कया देवतयेति (२,६.६ह्ह्) गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात् (२,६.६इइ) देवान् ह यज्ञं तन्वानान् असुररक्षांस्य् अभिचेरिरे यज्ञपर्वणि यज्ञम् एषां हनिष्यामस् तृतीयसवनं प्रति (२,६.६ज्ज्) तृतीयसवने ह यज्ञस् त्वरिष्टो बलिष्ठः (२,६.६क्क्) प्रतनुमेषां यज्ञं हनिष्याम इति (२,६.६ल्ल्) ते वरुणं दक्षिणतो ऽयोजयन् (२,६.६म्म्) मध्यतो बृहस्पतिम् (२,६.६न्न्) उत्तरतो विष्णुम् (२,६.६ओओ) ते ऽब्रुवन्न् एकैकाः स्मः (२,६.६प्प्) नेदम् उत्सहामह इति (२,६.६ॠॠ) स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति (२,६.६र्र्) तान् इन्द्रो ऽब्रवीत् सर्वे मद्द्वितीया स्थेति (२,६.६स्स्) ते सर्व इन्द्रद्वितीयास् (२,६.६त्त्) तस्माद् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् अनुशस्यते (२,६.६उउ) द्वितीयवन्तो ह वा एतेन स्वा भवन्ति (२,६.६व्व्) द्वितीयवन्तो मन्यन्ते य एवं वेद ॥ ६ ॥

(२,६.७अ) आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति (२,६.७ब्) वीर्यं वा अग्निः (२,६.७च्) वीर्येणैवास्मै तत् प्रणयन्ति (२,६.७द्) ऐन्द्रावारुणम् अनुशस्यते (२,६.७ए) वीर्यं वा इन्द्रः (२,६.७f) क्षत्रं वरुणः (२,६.७ग्) पशव उक्थानि (२,६.७ह्) वीर्येणैव तत् क्षत्रेण चोभयतः पशून् परिगृह्णाति (२,६.७इ) स्थित्यै (२,६.७ज्) अनपक्रान्त्यै (२,६.७क्) ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति (२,६.७ल्) वीर्यं वा इन्द्रः (२,६.७म्) वीर्येणैवास्मै तत् प्रणयन्ति (२,६.७न्) ऐन्द्राबार्हस्पत्यम् अनुशस्यते (२,६.७ओ) वीर्यं वा इन्द्रः (२,६.७प्) ब्रह्म बृहस्पतिः (२,६.७ॠ) पशव उक्थानि (२,६.७र्) वीर्येणैव तद् ब्रह्मणा चोभयतः पशून् परिगृह्णाति (२,६.७स्) स्थित्यै (२,६.७त्) अनपक्रान्त्यै (२,६.७उ) ऐन्द्रीष्व् अच्छावाकस्योक्थं प्रणयन्ति (२,६.७व्) वीर्यं वा इन्द्रः (२,६.७w) वीर्येणैवास्मै तत् प्रणयन्ति (२,६.७x) ऐन्द्रावैष्णवम् अनुशस्यते (२,६.७य्) वीर्यं वा इन्द्रः (२,६.७श्) यज्ञो विष्णुः (२,६.७अअ) पशव उक्थानि (२,६.७ब्ब्) वीर्येणैव तद् यज्ञेन चोभयतः पशून् परिगृह्य क्षत्रे ऽन्ततः प्रतिष्ठापयति (२,६.७च्च्) तस्माद् उ क्षत्रियो भूयिष्ठं हि पशूनाम् ईशते [एद्. भुयिष्ठं, चोर्र्. ড়त्यल्] (२,६.७द्द्) याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास् (२,६.७एए) तान्य् एतान्य् ऐन्द्राणि जागतानि शंसन्ति (२,६.७ff) अथो एतैर् एव सेन्द्रं तृतीयसवनम् एतैर् जागतं सवनम् (२,६.७ग्ग्) धराणि ह वा अस्यैतान्य् उक्थानि भवन्ति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत् (२,६.७ह्ह्) तस्मात् तानि सार्धम् एवोपेयुः (२,६.७इइ) सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति (२,६.७ज्ज्) ये ह वा एतानि नानूपेयुर् यथा रेतः सिक्तं विलुम्पेत् कुमारं वा जातम् अङ्गशो विभजेत् तादृक् तत् (२,६.७क्क्) तस्मात् तानि सार्धम् एवोपेयुः (२,६.७ल्ल्) सार्धम् इदं रेतः सिक्तं समृद्धम् एकधा प्रजनयामेति (२,६.७म्म्) शिल्पानि शंसति देवशिल्पानि (२,६.७न्न्) एतेषां वै शिल्पानाम् अनुकृतीह शिल्पम् अधिगम्यते (२,६.७ओओ) हस्ती कंसो वासो हिरण्यम् अश्वतरीरथः शिल्पम् (२,६.७प्प्) शिल्पं हास्य समधिगम्यते य एवं वेद (२,६.७ॠॠ) यद् एव शिल्पानि शंसति तत् स्वर्गस्य लोकस्य रूपम् (२,६.७र्र्) यद् व् एव शिल्पान्य् आत्मसंस्कृतिर् वै शिल्पानि (२,६.७स्स्) आत्मानम् एवास्य तत् संस्कुर्वन्ति ॥ ७ ॥

(२,६.८अ) नाभानेदिष्ठं शंसति (२,६.८ब्) रेतो वै नाभानेदिष्ठः (२,६.८च्) रेत एवास्य तत् कल्पयति (२,६.८द्) तद् रेतोमिश्रं भवति (२,६.८ए) <क्ष्मया रेतः संजग्मानो नि षिञ्चत् [ऋV १०.६१.७ब्]>इति (२,६.८f) रेतसः समृद्ध्या एव (२,६.८ग्) तं सनारशंसं शंसति (२,६.८ह्) प्रजा वै नरः (२,६.८इ) वाक् शंसः (२,६.८ज्) प्रजासु तद् वाचं दधाति (२,६.८क्) तस्माद् इमाः प्रजा वदन्त्यो जायन्ते (२,६.८ल्) तं हैके पुरस्तात् प्रगाथानां शंसन्ति पुरुस्तादायतना वाग् इति वदन्तः (२,६.८म्) उपरिष्टाद् एक उपरिष्टादायतना वाग् इति वदन्तः (२,६.८न्) मध्य एव शंसेत् (२,६.८ओ) मध्यायतना वा इयं वाक् (२,६.८प्) उपरिष्टान् नेदीयसीव (२,६.८ॠ) तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति (२,६.८र्) एतस्य त्वं प्राणान् कल्पयेति (२,६.८स्) वालखिल्याः शंसति (२,६.८त्) प्राणा वै वालखिल्याः (२,६.८उ) प्राणान् एवास्य तत् कल्पयति (२,६.८व्) ता विहृताः शंसति (२,६.८w) विहृता वै प्राणाः (२,६.८x) प्राणेनापानः (२,६.८य्) अपानेन व्यानः (२,६.८श्) स पच्छः प्रथमे सूक्ते विहरति (२,६.८अअ) अर्धर्चशो द्वितीये [एद्. द्वितिये, चोर्र्. ড়त्यल्] (२,६.८ब्ब्) ऋक्शः तृतीये (२,६.८च्च्) स यत् प्रथमे सूक्ते विहरति वाचं चैव तन् मनश् च विहरति (२,६.८द्द्) यद् द्वितीये चक्षुश् चैव तच् छ्रोत्रं च विहरति (२,६.८एए) यत् तृतीये प्राणां चैव तद् आत्मानं च विहरति (२,६.८ff) तद् उपाप्तो विहरेत् कामः (२,६.८ग्ग्) नेतुर् वै प्रगाथाः कल्पन्ते (२,६.८ह्ह्) अतिमर्शम् एव विहरेत् (२,६.८इइ) तथा वै प्रगाथाः कल्पन्ते (२,६.८ज्ज्) यद् एवातिमर्शं तत् स्वर्गस्य लोकस्य रूपम् (२,६.८क्क्) यद् व् एवातिमर्शम् आत्मा वै बृहती (२,६.८ल्ल्) प्राणाः सतोबृहती (२,६.८म्म्) स बृहतीम् अशंसीत् (२,६.८न्न्) स आत्मा (२,६.८ओओ) अथ सतोबृहतीम् (२,६.८प्प्) ते प्राणाः (२,६.८ॠॠ) अथ बृहतीम् (२,६.८र्र्) अथ सतोबृहतीम् (२,६.८स्स्) तद् आत्मानं प्राणैः परिवृहन्न् एति (२,६.८त्त्) यद् व् एवातिमर्शम् आत्मा वै बृहती (२,६.८उउ) प्रजाः सतोबृहती (२,६.८व्व्) स बृहतीम् अशंसीत् (२,६.८ww) स आत्मा (२,६.८xx) अथ सतोबृहतीम् (२,६.८य्य्) ते प्रजाः (२,६.८श्श्) अथ बृहतीम् (२,६.८अअअ) अथ सतोबृहतीम् (२,६.८ब्ब्ब्) तद् आत्मानं प्रजया परिवृहन्न् एति (२,६.८च्च्च्) यद् व् एवातिमर्शम् आत्मा वै बृहती (२,६.८द्द्द्) पशवः सतोबृहती (२,६.८एएए) स बृहतीम् अशंसीत् (२,६.८fff) स आत्मा (२,६.८ग्ग्ग्) अथ सतोबृहतीम् (२,६.८ह्ह्ह्) ते पशवः (२,६.८इइइ) अथ बृहतीम् (२,६.८ज्ज्ज्) अथ सतोबृहतीम् (२,६.८क्क्क्) तद् आत्मानं पशुभिः परिवृहन्न् एति (२,६.८ल्ल्ल्) तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति (२,६.८म्म्म्) एतस्य त्वं प्रजनयेति (२,६.८न्न्न्) सुकीर्तिं शंसति (२,६.८ओओओ) देवयोनिर् वै सुकीर्तिस् (२,६.८प्प्प्) तद् यज्ञियायां देवयोन्यां यजमानं प्रजनयति (२,६.८ॠॠॠ) वृषाकपिं शंसति (२,६.८र्र्र्) आत्मा वै वृषाकपिः (२,६.८स्स्स्) आत्मानम् एवास्य तत् कल्पयति (२,६.८त्त्त्) तं न्यूङ्खयति (२,६.८उउउ) अन्नं वै न्यूङ्खः (२,६.८व्व्व्) अन्नाद्यम् एवास्मै तत् संप्रयच्छति यथा कुमाराय जाताय स्तनम् (२,६.८www) स पाङ्क्तो भवति (२,६.८xxx) पाङ्क्तो ह्य् अयं पुरुषः पञ्चधा विहितः (२,६.८य्य्य्) लोमानि त्वग् अस्थि मज्जा मस्तिष्कम् (२,६.८श्श्श्) स यावान् एव पुरुषस् तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति (२,६.८अअअअ) एतस्य त्वं प्रतिष्ठा कल्पयेति (२,६.८ब्ब्ब्ब्) एवयामरुतं शंसति (२,६.८च्च्च्च्) प्रतिष्ठा वा एवयामरुत् (२,६.८द्द्द्द्) प्रतिष्ठायाम् एवैनम् अन्ततः प्रतिष्ठापयति (२,६.८एएएए) याज्यया यजति (२,६.८ffff) अन्नं वै याज्या (२,६.८ग्ग्ग्ग्) अन्नाद्यम् एवास्मै तत् संप्रयच्छति ॥ ८ ॥

(२,६.९अ) तानि वा एतानि सहचराणीत्य् आचक्षते यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुत् (२,६.९ब्) तानि सह वा शंसेत् सह वा न शंसेत् (२,६.९च्) यद् एषाम् अन्तरीयात् तद् यजमानस्यान्तरीयात् (२,६.९द्) यदि नाभानेदिष्ठं रेतो ऽस्यान्तरीयात् (२,६.९ए) यदि वालखिल्याः प्राणान् अस्यान्तरीयात् (२,६.९f) यदि वृषाकपिम् आत्मानम् अस्यान्तरीयात् (२,६.९ग्) यद्य् एवायामरुतं प्रतिष्ठा वा एवयामरुत् प्रतिष्ठाया एवैनं तं श्रावयेद् दैव्याश् च मानुष्याश् च (२,६.९ह्) तानि सह वा शंसेत् सह वा न शंसेत् (२,६.९इ) स ह बुडिल आश्वितरास्युर् विश्वजितो होता सन्न् ईक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुर् उक्थे माध्यंदिनम् अभिप्रच्यवेते (२,६.९ज्) हन्ताहम् इत्थम् एवायापरुतं शंसयानीति (२,६.९क्) तद् ध तथा शंसयां चक्रे (२,६.९ल्) तद् ध तथा शस्यमाने गोश्ल आजगम (२,६.९म्) स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति (२,६.९न्) किं ह्य् अभूद् इति (२,६.९ओ) एवयामरुद् अयम् उत्तरतः शस्यत इति (२,६.९प्) स होवाचैन्द्रो वै माध्यंदिनः (२,६.९ॠ) कथेन्द्रं माध्यंदिनान् निनीषसीति (२,६.९र्) नेन्द्रं माध्यंदिनान् निनीषामीति स होवाच (२,६.९स्) छन्दस् त्व् इदम् अमाध्यंदिनंसाचि (२,६.९त्) जागतं वातिजागतं वा (२,६.९उ) स उ मारुतः (२,६.९व्) मैवं संमृष्टेति (२,६.९w) स होवाचारमाच्छावाकेति (२,६.९x) अथास्मिन्न् अनुशासनम् ईषे (२,६.९य्) स होवाचैन्द्रम् एष विष्णुन्यङ्गानि शंसति (२,६.९श्) अथ त्वं होतुर् उपरिष्टाद् रौद्रिया धाय्यायाः पुरस्तान् मारुतस्य सूक्तस्याप्यस्यथा इति (२,६.९अअ) तथेति (२,६.९ब्ब्) तद् अप्य् एतर्हि तथैव शस्यते (२,६.९च्च्) यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथम् अत्राशस्त एव नाभानेदिष्ठो भवत्य् अथ वालखिल्याः शंसति (२,६.९द्द्) रेतो वा अग्रे ऽथ प्राणाः (२,६.९एए) एवं ब्राह्मणाच्छंसी (२,६.९ff) अशस्त एव नाभानेदिष्ठो भवत्य् अथ वृषाकपिं शंसति (२,६.९ग्ग्) रेतो वा अग्रे ऽथात्मा कथम् अत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति (२,६.९ह्ह्) यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति (२,६.९इइ) स यथा गर्भो योन्याम् अन्तर् एव प्राणान् अस्यान्तरियात् (२,६.९ज्ज्) यदि वृषाकपिम् आत्मानम् अस्यान्तरियाद् यद्य् एव या संभवञ् छेते (२,६.९क्क्) न ह वै सकृद् एवाग्रे सर्वं संभवति (२,६.९ल्ल्) एकैकं वा अङ्गं संभवतः संभवति (२,६.९म्म्) सर्वाणि चेत् समाने ऽहनि क्रियेरन् कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः (२,६.९न्न्) अथ हैवैवयामरुतं होता शंसेत् (२,६.९ओओ) तद् यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. ড়त्यल्] (२,६.९प्प्) तस्याम् एवैनम् अन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ॥ ९ ॥ [एद्. प्रतिस्थापयति २x, चोर्र्. ড়त्यल्]

(२,६.१०अ) देवक्षेत्रं वै षष्ठम् अहः (२,६.१०ब्) देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठम् अहर् आगच्छन्ति (२,६.१०च्) न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुर् ऋतोर् गृहे वसतीत्य् आहुस् (२,६.१०द्) तद् यथायथम् ऋत्विज ऋतुयाजान् यजन्त्य् असंप्रदायम् (२,६.१०ए) तद् यद् ऋतून् कल्पयन्ति यथायथं जनिता (२,६.१०f) तद् आहुर् नर्तुप्रैषैः प्रेष्येयुर् नर्तुप्रैषैर् वषट्कुर्युः (२,६.१०ग्) वाग् वा ऋतुप्रैषाः (२,६.१०ह्) आप्यते वै वाक् षष्ठे ऽहनीति (२,६.१०इ) यद् ऋतुप्रैषैः प्रेष्येयुर् यद् ऋतुप्रैषैर् वषट्कुर्युर् वाचम् एव तदाप्तां शान्ताम् ऋक्णवतीं वहरावणीम् ऋच्छेयुः [एद्. ऋक्तवतीं, चोर्र्. ড়त्यल्] (२,६.१०ज्) अच्युताद् यज्ञस्य च्यवेरन् (२,६.१०क्) यज्ञात् प्राणात् प्रजायाः पशुभ्यो जिह्मा ईयुस् [एद्. प्राणान्, चोर्र्. ড়त्यल्] (२,६.१०ल्) तस्माद् ऋग्मेभ्य एव प्रेषितव्यम् (२,६.१०म्) ऋग्मेभ्यो ऽधि वषट्कृत्यम् (२,६.१०न्) तन् न वाचम् आप्तां शान्ताम् ऋक्तवतीं वहरावणीम् ऋच्छन्ति (२,६.१०ओ) नाच्युताद् यज्ञस्य च्यवेरन् (२,६.१०प्) न यज्ञात् प्राणान् प्रजायाः पशुभ्यो जिह्मा यन्ति (२,६.१०ॠ) पारुच्छेपीर् उपदधति द्वयोः सवनयोः पुरस्तात् प्रस्थितयाज्यानाम् (२,६.१०र्) रोहितं वै नामैतच् छन्दो यत् पारुच्छेपम् (२,६.१०स्) एतेन ह वा इन्द्रः सप्त स्वर्गांल् लोकान् आरोहत् (२,६.१०त्) आरोहति सप्त स्वर्गांल् लोकान् य एवं वेद (२,६.१०उ) तद् आहुर् यत् पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात् सप्तपदाः षष्ठे ऽहनि शस्यन्त इति (२,६.१०व्) षड्भिर् एव पदैः षष्ठम् अहर् अवाप्नुवन्त्य् अवछिद्येवैतद् अहर् यत् सप्तमम् (२,६.१०w) तद् एव सप्तमेन पदेनाभ्यारुह्या वसन्ति (२,६.१०x) संततैस् त्र्यहैर् अव्यवछिन्नैर् यन्ति य एवंविद्वांस उपयन्ति ॥ १० ॥

(२,६.११अ) देवासुरा वा एषु लोकेषु समयतन्त (२,६.११ब्) ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्यो ऽसुरान् पराणुदन्त (२,६.११च्) तेषां यान्य् अन्तर्हस्तानि वसून्य् आसंस् तान्य् आदाय समुद्रं प्रारूप्यन्त (२,६.११द्) तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्य् आददत (२,६.११ए) तद् एवैतत् पदं पुनःपदम् (२,६.११f) स एवाङ्कुश आकुञ्चनाय (२,६.११ग्) आ द्विषतो वसु दत्ते निर् एवैनम् एभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद (२,६.११ह्) द्यौर् वै देवता षष्ठम् अहर् वहति (२,६.११इ) त्रयस्त्रिंश स्तोमः (२,६.११ज्) रैवतं साम (२,६.११क्) अतिच्छन्दश् छन्दः (२,६.११ल्) यथादेवतम् एनेन यथास्तोमं यथासाम यथाछन्दसम् ऋध्नोति य एवं वेद (२,६.११म्) यद् वै समानोदर्कं तत् षष्ठस्याह्नो रूपम् (२,६.११न्) यद्य् एव प्रथमम् अहस् तद् उत्तमम् अहस् (२,६.११ओ) तद् एवैतत् पदं पुनर् यत् षष्ठं यद् अश्ववद् यद् रथवद् यत् पुनरावृत्तं यत् पुनर् निवृत्तं यद् अन्तरूपं यद् असौ लोको ऽभ्युदितो यन् नाभानेदिष्ठं यत् पारुच्छेपं यन् नाराशंसं यद् द्वैपदा यत् सप्तपदा यत् कृतं यद् रैवतं तत् तृतीयस्याह्नो रूपम् (२,६.११प्) एतानि वै षष्ठस्याह्नो रूपाणि (२,६.११ॠ) छन्दसाम् उ ह षष्ठेनाह्नाक्तानां रसो ऽत्यनेदत् (२,६.११र्) तं प्रजापतिर् उदानान् नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा [एद्. गयत्र्या] (२,६.११स्) एतानि वै छन्दांसि षष्ठे ऽहनि शस्तानि भवन्त्य् अयातयामानि (२,६.११त्) छनदसाम् एव तत् सरसताया अयातयामतायै (२,६.११उ) सरसानि हास्य छन्दांसि षष्ठे ऽहनि शस्तानि भवन्ति (२,६.११व्) सरसैश् छन्दोभिर् इष्टं भवति सरसैश् छन्दोभिर् यज्ञं तनुते य एवं वेद ॥ ११ ॥ (२,६.१२अ) अथ यद् द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [ऋV १०.१५७.१, श्ष् २०.६३.१, २०.१२४.४]>इति (२,६.१२ब्) द्विपाद् वै पुरुषः (२,६.१२च्) द्विप्रतिष्ठः पुरुषः (२,६.१२द्) पुरुषो वै यज्ञस् (२,६.१२ए) तस्माद् द्वैपदौ स्तोत्रियानुरूपौ भवतः (२,६.१२f) अथ सुकीर्तिं शंसत्य् <अपेन्द्र प्राचो मघवन्न् अमित्रान् [ড়्ष् १९.१६.८अ, श्ष् २०.१२५.१अ, सकलपाठ अत् २.६.४]> इति (२,६.१२ग्) देवयोनिर् वै सुकीर्तिः (२,६.१२ह्) स य एवम् एतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान् स्वर्गे लोके प्रतितिष्ठति (२,६.१२इ) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (२,६.१२ज्) अथ वृषाकपिं शंसति <वि हि सोतोर् असृक्षत [ऋV १०.८६.१, श्ष् १०.१२६.१]>इति (२,६.१२क्) आदित्यो वै वृषाकपिस् (२,६.१२ल्) तद् यत् कम्पयमानो रेतो वर्षति तस्माद् वृषाकपिस् (२,६.१२म्) तद् वृषाकपेर् वृषाकपित्वम् (२,६.१२न्) वृषाकपिर् इव वै स सर्वेषु लोकेषु भाति य एवं वेद (२,६.१२ओ) तस्य तृतीयेषु पादेष्व् आद्यन्तयोर् न्यूङ्खनिनर्दान् करोति (२,६.१२प्) अन्नं वै न्यूङ्खः [एद्. न्युङ्खो, चोर्र्. ড়त्यल्] (२,६.१२ॠ) बलं निनर्दः (२,६.१२र्) अन्नाद्यम् एवास्मै तद् बले निदधाति (२,६.१२स्) अथ कुन्तापं शंसति (२,६.१२त्) कुयं ह वै नाम कुत्सितं भवति (२,६.१२उ) तद् यत् तपति तस्मात् कुन्तापास् (२,६.१२व्) तत् कुन्तापानां कुन्तापत्वम् (२,६.१२w) तप्यन्ते ऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति (२,६.१२x) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (२,६.१२य्) तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति (२,६.१२श्) ताः प्रग्राहं शंसति यथा वृषाकपिम् (२,६.१२अअ) वार्षरूपं हि (२,६.१२ब्ब्) वृषाकपेस् तन् न्यायम् एत्य् एव (२,६.१२च्च्) अथ रैभीः शंसति (२,६.१२द्द्) <वच्यस्व रेभ वच्यस्व [ऋVKह् ५.९.१, श्ष् २०.१२७.४]>इति (२,६.१२एए) रेभन्तो वै देवाश् चर्षयश् च स्वर्गं लोकम् आयन् (२,६.१२ff) तथैवैतद् यजमाना रेभन्त एव स्वर्गं लोकं यन्ति (२,६.१२ग्ग्) ताः प्रग्राहम् एत्य् एव (२,६.१२ह्ह्) अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति (२,६.१२इइ) संवत्सरो वै परिक्षित् (२,६.१२ज्ज्) संवत्सरो हीदं सर्वं परिक्षियतीति (२,६.१२क्क्) अथो खल्व् आहुर् अग्निर् वै परिक्षित् (२,६.१२ल्ल्) अग्निर् हीदं सर्वं परिक्षियतीति (२,६.१२म्म्) अथो खल्व् आहुर् गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस् तद् यथा कुर्यात् (२,६.१२न्न्) गाथा एवैताः शस्ता भवन्ति (२,६.१२ओओ) यद्य् उ वै गाथा अग्नेर् एव गाथाः संवत्सरस्य वेति ब्रूयात् (२,६.१२प्प्) यद्य् उ वै मन्त्रो ऽग्निर् एव मन्त्रः संवत्सरस्य वेति ब्रूयात् (२,६.१२ॠॠ) ताः प्रग्राहम् एत्य् एव (२,६.१२र्र्) अथ कारव्याः शंसति<इन्द्रः कारुम् अबूबुधत् [ऋVKह् ५.११.१, श्ष् २०.१२७.११]>इति (२,६.१२स्स्) यद् एव देवाः कल्याणं कर्माकुर्वंस् तत् कारव्याभिर् अवाप्नुवन् (२,६.१२त्त्) तथैवैतद् यजमाना यद् एव देवाः कल्याणं कर्म कुर्वन्ति तत् कारव्याभिर् अवाप्नुवन्ति (२,६.१२उउ) ताः प्रग्राहम् इत्य् एव (२,६.१२व्व्) अथ दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [ऋVKह् ५.१२.१, श्ष् २०.१२८.१]>इति जनकल्पा उत्तराः शंसति <यो ऽनाक्ताक्षो अनभ्यक्तः [ऋVKह् ५.१३.१, श्ष् २०.१२८.६]>इति (२,६.१२ww) ऋतवो वै दिशः प्रजननस् (२,६.१२xx) तद् यद् दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [ऋVKह् ५.१२.१, श्ष् २०.१२८.१]>इति जनकल्पा उत्तराः शंसत्य् ऋतून् एव तत् कल्पयति (२,६.१२य्य्) ऋतुषु प्रतिष्ठापयति (२,६.१२श्श्) प्रतिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति (२,६.१२अअअ) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (२,६.१२ब्ब्ब्) ता अर्धर्चशः शंसति (२,६.१२च्च्च्) प्रतिष्ठित्या एव (२,६.१२द्द्द्) अथेन्द्रगाथाः शंसति <यद् इन्द्रादो दाशराज्ञे [ऋVKह् ५.१४.१, श्ष् २०.१२८.१२]>इति (२,६.१२एएए) इन्द्रगाथाभिर् ह वै देवा असुरान् आगायाथैनान् अत्यायन् (२,६.१२fff) तथैवैतद् यजमाना इन्द्रगाथाभिर् एवाप्रियं भ्रातृव्यम् आगायाथैनम् अतियन्ति (२,६.१२ग्ग्ग्) ता अर्धर्चशः शंसति (२,६.१२ह्ह्ह्) प्रतिष्ठित्या एव ॥ १२ ॥

(२,६.१३अ) अथैतशप्रलापं शंसत्य् <एता अश्वा आ प्लवन्ते [ऋVKह् ५.१५.१, श्ष् २०.१२९.१]>इति (२,६.१३ब्) ऐतशो ह मुनिर् यज्ञस्यायुर् ददर्श (२,६.१३च्) स ह पुत्रान् उवाच पुत्रका यज्ञस्यायुर् अभिददर्शम् (२,६.१३द्) तद् अभिलपिष्यामि मा मा दृप्तं मन्यध्वम् इति (२,६.१३ए) तथेति (२,६.१३f) तद् अभिललाप (२,६.१३ग्) तस्य हाभ्यग्निर् ऐतशायनो ज्येष्ठः पुत्रो ऽभिद्रुत्य मुखम् अपिजग्राह ब्रुवन् दृप्तो नः पितेति (२,६.१३ह्) स होवाच धिक् त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर् यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गाम् अकरिष्यं सहस्रायुषं पुरुषम् इति (२,६.१३इ) तस्माद् अभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया (२,६.१३ज्) यद् ऐतशप्रलापस् तत् स्वर्गस्य लोकस्य रूपम् (२,६.१३क्) यद् व् एवैतशप्रलापो ऽयातयामा वा अक्षितिर् ऐतशप्रलापः [एद्. ऐतशैतशप्रलापो] (२,६.१३ल्) अयातयामा मे यज्ञो ऽसद् अक्षितिर् मे यज्ञो ऽसद् इति (२,६.१३म्) तं वा एतम् ऐतशप्रलापं शंसति पदावग्राहम् [एद्. वा ऐतशैतशप्रलापं] (२,६.१३न्) तासाम् उत्तमेन पदेन प्रणौति यथा निविदः [एद्. प्राणौति, चोर्र्. ড়त्यल्] (२,६.१३ओ) अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [ऋVKह् ५.१६.१, श्ष् २०.१३३.१]>इति प्रतिराधान् उत्तरान् शंसति <भुग् इत्य् अभिगतः [ऋVKह् ५.१८.१, श्ष् २०.१३५.१]>इति [एद्. प्रतिराधानुत्तरान्ः] (२,६.१३प्) प्रवल्हिकाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् (२,६.१३ॠ) तद् यथाभिर् ह वै देवा असुराणां रसान् प्रववृहुस् तस्मात् प्रवल्हिकास् (२,६.१३र्) तत् प्रवल्हिकानां प्रवल्हिकात्वम् (२,६.१३स्) ता वै प्रतिराधैः प्रत्यराध्नुवन् (२,६.१३त्) तद् यत् प्रतिराधैः प्रत्यराध्नुवंस् तस्मात् प्रतिराधास् (२,६.१३उ) तत् प्रतिराधानां प्रतिराधत्वम् (२,६.१३व्) प्रवल्हिकाभिर् एव द्विषतां भ्रातृव्याणां रसान् प्रवल्हिकास् (२,६.१३w) ता वै प्रतिराधैः प्रतिराध्नुवन्ति (२,६.१३x) ताः प्रग्राहम् इत्य् एव (२,६.१३य्) अथाजिज्ञासेन्याः शंसति<इहेत्थ प्राग् अपाग् उदग् अधराक् [ऋVKह् ५.१७.१, श्ष् २०.१३४.१]>इति [एद्. उदाग्, चोर्रेच्तेद् प्. ३०३] (२,६.१३श्) आजिज्ञासेन्याभिर् ह वै देवा असुरान् आज्ञायाथैनान् अत्यायन् (२,६.१३अअ) तथैवैतद् यजमाना आजिज्ञासेन्याभिर् एवाप्रियं भ्रातृव्यम् आज्ञायाथैनम् अतियन्ति (२,६.१३ब्ब्) ता अर्धर्चशः शंसति (२,६.१३च्च्) प्रतिष्ठित्या एव (२,६.१३द्द्) अथातिवादं शंसति <वीमे देवा अक्रंसत [ऋVKह् ५.१९.१, श्ष् २०.१३५.४]>इति (२,६.१३एए) श्रीर् वा अतिवादस् (२,६.१३ff) तम् एकर्चं शंसति (२,६.१३ग्ग्) एकस् ता वै श्रीस् (२,६.१३ह्ह्) तां वै विरेभं शंसति (२,६.१३इइ) विरेभैः श्रियं पुरुषो वहतीति (२,६.१३ज्ज्) ताम् अर्धर्चशः शंसति (२,६.१३क्क्) प्रतिष्ठित्या एव ॥ १३ ॥

(२,६.१४अ) अथादित्याश् चाङ्गिरसीश् च शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो अदक्षिणाम् अनयन् [ऋVKह् ५.२०.१, श्ष् २०.१३५.६]>इति (२,६.१४ब्) तद् देवनीथम् इत्य् आचक्षते (२,६.१४च्) आदित्याश् च ह वा अङ्गिरसश् च स्वर्गे लोके ऽस्पर्धन्त वयं पूर्वे स्वर् एष्यामो वयं पूर्व इति (२,६.१४द्) ते हाङ्गिरसः श्वःसुत्यां ददृशुस् (२,६.१४ए) ते हाग्निम् ऊचुः परेह्य् आदित्येभ्यः श्वःसुत्यां प्रब्रूहीति (२,६.१४f) अथादित्या अद्यसुत्यां ददृशुस् (२,६.१४ग्) ते हाग्निम् ऊचुर् अद्यसुत्यास्माकम् (२,६.१४ह्) तेषां नस् त्वं होतासीत्य् उपेमस् त्वाम् इति (२,६.१४इ) स एत्याग्निर् उवाचाथादित्या अद्यसुत्याम् ईक्षन्ते कं वो होतारम् अवोचन् वाह्वयन्ते युष्माकं वयम् इति (२,६.१४ज्) ते हाङ्गिरसश् चुक्रुधुर् मा त्वं गमो नु वयम् इति (२,६.१४क्) नेति हाग्निर् उवाचानिन्द्या वै माह्वयन्ते (२,६.१४ल्) किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति (२,६.१४म्) तस्माद् अतिद्रूरम् अत्यल्पम् इति यजमानस्य हवम् इयाद् एव (२,६.१४न्) किल्बिषं हि तद् यो ऽनिन्द्यस्य हवं नैति (२,६.१४ओ) तान् हादित्यान् अङ्गिरसो याजयां चक्रुस् (२,६.१४प्) तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस् (२,६.१४ॠ) तां ह न प्रतिजगृहुः (२,६.१४र्) सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत् कुपिता मां न प्रत्यग्रहीषुर् इति (२,६.१४स्) तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते (२,६.१४त्) तस्मान् निवृत्तदक्षिणां नोपाकुर्यान् नैनां प्रमृजेत् (२,६.१४उ) नेद् दक्षिणां प्रमृणजानीति (२,६.१४व्) तस्माद् य एवास्य समानजन्मा भ्रातृव्यः स्याद् वृणहूयुस् तस्मा एनां दद्यात् (२,६.१४w) तन् न पराची दक्षिणा विवृणक्ति (२,६.१४x) द्विषति भ्रातृव्ये ऽन्ततः शुचं प्रतिष्ठापयति यो ऽयौ तपति (२,६.१४य्) स वै शंसत्य् <आदित्या ह जरितर् अङ्गिरोभ्यो दक्षिणाम् अनयंस् तां ह जरितः प्रत्यायन् [ऋVKह् ५.२०.१अब्च्, श्ष् २०.१३५.६अब्च्]>इति (२,६.१४श्) न हीमां पृथिवीं प्रत्यायन् (२,६.१४अअ) <ताम् उ ह जरितः प्रत्यायन् [ऋVKह् ५.२०.१द्, श्ष् २०.१३५.६द्]>इति प्रति हि ते ऽमुम् आयन् (२,६.१४ब्ब्) <तां ह जरितर् नः प्रत्य् अगृभ्णन् [ऋVKह् ५.२०.२अ, श्ष् २०.१३५.७अ]>इति (२,६.१४च्च्) न हीमां पृथिवीं प्रत्यगृभ्णन् (२,६.१४द्द्) <ताम् उ ह जरितर् नः प्रत्यगृभ्ण [ऋVKह् ५.२०.२ब्, श्ष् २०.१३५.७ब्]>इति प्रगृह्यादित्यम् अगृभ्णन् (२,६.१४एए) <अहानेतरसं न विचेतनानि [ऋVKह् ५.२०.२च्, श्ष् २०.१३५.७च्]>इत्य् एष ह वा अह्नां विचेता यो ऽसौ तपति (२,६.१४ff) स वै शंसति <यज्ञानेतरसं न पुरोगवासः [ऋVKह् ५.२०.२द्, श्ष् २०.१३५.७द्]>इति (२,६.१४ग्ग्) एषा ह वै यज्ञस्य पुरोगवी यद् दक्षिणा (२,६.१४ह्ह्) यथार्हामः स्रस्तम् अतिरेतदन्त्येतेष एवेश्वर उन्नेता (२,६.१४इइ) <उत श्वेत आशुपत्वा उत पद्याभिर् यविष्ठ उतेम् आशु मानं पिपर्ति [ऋVKह् ५.२०.३, श्ष् २०.१३५.८]>इति (२,६.१४ज्ज्) एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर् यविष्ठः (२,६.१४क्क्) <उतेम् आशु मानं पिपर्ति [ऋVKह् ५.२०.३च्, श्ष् २०.१३५.८च्]>इति (२,६.१४ल्ल्) <आदित्या रुद्रा वसवस् तेनुत इदं राधः प्रतिगृभ्णीह्य् अङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत् पृथु देवा ददत्वासुरं तद् वो अस्तु सुचेतनं । युष्मां अस्तु दिवे दिवे प्रत्य् एव गृभायत [ऋVKह् ५.२०.४-५, श्ष् २०.१३५.९-१०]>इति तद् यद् आदित्याश् चाङ्गिरसीश् च शंसति स्वर्गताया एवैतत् [एद्. यस्ंां, चोर्र्. ড়त्यल्] (२,६.१४म्म्) अहरहः शंसति यथा निविदः (२,६.१४न्न्) अथ भूतेछदः शंसति <त्वम् इन्द्र शर्म रिणा [ऋVKह् ५.२१.१, श्ष् २०.१३५.११]>इति (२,६.१४ओओ) इमे वै लोका भूतेछदः (२,६.१४प्प्) असुरान् ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस् तितीर्षमाणास् (२,६.१४ॠॠ) तान् इमे देवाः सर्वेभ्यो भूतेभ्यो ऽछादयन् (२,६.१४र्र्) तद् यद् एतान् इमे देवाः सर्वेभ्यो ऽछादयंस् तस्माद् भूतेछदस् (२,६.१४स्स्) तद् भूतेछदां भूतेछदत्वम् (२,६.१४त्त्) छादयन्ति ह वापरम् इमे लोकाः (२,६.१४उउ) सर्वेभ्यो भूतेभ्यो निरघ्नन् (२,६.१४व्व्) सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद ॥ १४ ॥

(२,६.१५अ) अथाहनस्याः शंसति <यद् अस्या अंहुभेद्याः [ऋVKह् ५.२२.१, श्ष् २०.१३६.१]>इति (२,६.१५ब्) आहनस्याद् वा इदं सर्वं प्रजातम् (२,६.१५च्) आहनस्याद् वा एतद् अधिप्रजायते (२,६.१५द्) अस्यैव सर्वस्याप्त्यै प्रजात्यै (२,६.१५ए) ता वै षट् शंसेत् (२,६.१५f) षड् वा ऋतवः (२,६.१५ग्) ऋतवः पितरः (२,६.१५ह्) पितरः प्रजापतिः (२,६.१५इ) प्रजापतिर् आहनस्यास् (२,६.१५ज्) ता दश शंसेद् इति शाम्भव्यस्य वचः (२,६.१५क्) दशाक्षरा विराट् (२,६.१५ल्) वैराजो यज्ञस् (२,६.१५म्) तं गर्भा उपजीवन्ति (२,६.१५न्) श्रीर् वै विराट् (२,६.१५ओ) यशो ऽन्नाद्यम् (२,६.१५प्) श्रियम् एव तद् विराजं यशस्य् अन्नाद्ये प्रतिष्ठापयति (२,६.१५ॠ) प्रतितिष्ठन्तीर् इदं सर्वम् अनुप्रतितिष्ठति (२,६.१५र्) प्रतितिष्ठति प्रजया पशुभिर् य एवं वेद (२,६.१५स्) तिस्रः शंसेद् इति वात्स्यस् (२,६.१५त्) त्रिवृद् वै रेतः सिक्तं संभवत्य् आण्डम् उल्वं जरायु (२,६.१५उ) त्रिवृत्प्रत्ययं माता पिता यज् जायते तत् तृतीयम् (२,६.१५व्) अभूतोद्यम् एवैतद् यच् चतुर्थीं शंसेत् (२,६.१५w) सर्वा एव षोडश शंसेद् इति हैके (२,६.१५x) कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. ড়त्यल्] (२,६.१५य्) रेतसः सिक्तात् प्रजाः प्रजायन्ते प्रजानां प्रजननाय (२,६.१५श्) प्रजावान् प्रजनयिष्णुर् भवति प्रजात्यै प्रजायते प्रजया पशुभिर् य एवं वेद ॥ १५ ॥

(२,६.१६अ) अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषम् [ऋV ४.३९.६, ऋVKह् ५.२२.१३, श्ष् २०.१३७.३]> इति (२,६.१६ब्) तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [ऋV ९.१०१.४, श्ष् २०.१३७.४]>इत्य् अन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. ড়त्यल्] (२,६.१६च्) पवित्रं पावमान्यस् (२,६.१६द्) तद् उ हैके पावमानीभिर् एव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वाग् अन्नाद्या यः पवत इति वदन्तस् (२,६.१६ए) तद् उ तथा न कूर्याद् उपनश्यति ह वाग् अशनायती (२,६.१६f) स दाधिक्रीम् एव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति (२,६.१६ग्) तद् यद् दाधिक्रीं शंसतीयं वाग् आहनस्यां वाचम् अवादीत् (२,६.१६ह्) तद् देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. ড়त्यल्] (२,६.१६इ) सा वा अनुष्टुब् भवति (२,६.१६ज्) वाग् वा अनुष्टुप् (२,६.१६क्) तत् स्वेनैव छन्दसा वाचं पुनीते (२,६.१६ल्) ताम् अर्धर्चशः शंसति (२,६.१६म्) प्रतिष्ठित्या एव (२,६.१६न्) अथ पावमानीः शंसति (२,६.१६ओ) पवित्रं वै पावमान्यः (२,६.१६प्) इयं वाग् आहनस्यां वाचम् अवादीत् (२,६.१६ॠ) तत् पावमानीभिर् एव वाचं पुनीते (२,६.१६र्) ताः सर्वा अनुष्टुभो भवन्ति (२,६.१६स्) वाग् वा अनुष्टुप् (२,६.१६त्) तत् स्वेनैव छन्दसा वाचं पुनीते (२,६.१६उ) ता अर्धर्चशः शंसति (२,६.१६व्) प्रतिष्ठित्या एव (२,६.१६w) <अव द्रप्सो अंशुमतीम् अतिष्ठत् [ऋV ८.९६.१३, श्ष् २०.१३७.७]>इत्य् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसति (२,६.१६x) अथ हैतद् उत्सृष्टम् (२,६.१६य्) तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति सवनधारणम् इदं गुल्मह इति वदन्तस् (२,६.१६श्) तद् उ तथा न कुर्यात् (२,६.१६अअ) त्रिष्टुबायतना वा इयं वाग् एषां होत्रकाणां यद् ऐन्द्राबार्हस्पत्या तृतीयसवने (२,६.१६ब्ब्) तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यम् अन्त्यं तृचम् ऐन्द्राजागतं शंसति स्व एवैनं तद् आयतने प्रीणाति स्वयोर् देवतयोः (२,६.१६च्च्) कामं नित्यम् एव परिदध्यात् (२,६.१६द्द्) कामं तृचस्योत्तमया (२,६.१६एए) तद् आहुः संशंसेत् षष्ठे ऽहनि न संशंसेत् (२,६.१६ff) कथम् अन्येष्व् अहःसु संशंसति (२,६.१६ग्ग्) कथम् अत्र न संशंसतीति (२,६.१६ह्ह्) अथो खल्व् आहुर् नैव संशंसेत् (२,६.१६इइ) स्वर्गौ वै लोकः षष्ठम् अहः (२,६.१६ज्ज्) असमायी वै स्वर्गो लोकः (२,६.१६क्क्) कश् चिद् वै स्वर्गे लोके शमयतीति (२,६.१६ल्ल्) तस्मान् न संशंसति (२,६.१६म्म्) यद् एव न संशंसति तत् स्वर्गस्य लोकस्य रूपम् (२,६.१६न्न्) यद् व् एवैनाः संशंसति यन् नाभानेदिष्ठो वालखिल्यो वृषाकपिर् एवयामरुद् एतानि वा अत्रोक्थानि भवन्ति तस्मान् न संशंसति (२,६.१६ओओ) ऐन्द्रो वृषाकपिः (२,६.१६प्प्) सर्वाणि छन्दांस्य् ऐतशप्रलापः (२,६.१६ॠॠ) उपाप्तो यद् ऐन्द्राबार्हस्पत्या तृतीयसवने तद् यद् एतं तृचम् ऐन्द्राबार्हस्पत्यं सूक्तं शंसत्य् ऐन्द्राबार्हस्पत्या परिधानीया विशो अदेवीर् अभ्याचरन्तीर् इति (२,६.१६र्र्) अपरजना ह वै विशो देवीर् न ह्य् अस्यापरजनं भयं भवति (२,६.१६स्स्) शान्ताः प्रजाः कॢप्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणम् ॥ १६ ॥

(२,६.१६चोल्) इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः ॥

(चोल्) इत्य् अथर्ववेदब्राह्मणपूर्वोत्तरं समाप्तम् ॥


README

This file has been copied from the following source, with fonts changed:

http://gretil.sub.uni-goettingen.de/gretil/1_sanskr/1_veda/2_bra/gopbra_r.txt

"https://sa.wikisource.org/w/index.php?title=फलकम्:Plain_sister/gopatha01&oldid=39398" इत्यस्माद् प्रतिप्राप्तम्