फलकम्:मुख्यपृष्ठं - मुख्यग्रन्थाः

विकिस्रोतः तः
मार्च् २०२४
शुक्रवासरः
२९
०७:४० UTC
ईशोपनिषदः शान्तिमन्त्रः

ईशावास्योपनिषत् (Ishavasyopanishat) शुक्लयजुर्वेदीया उपनिषत् । उपनिषत्सरणौ ईशोपनिषत् प्रथमा वर्तते । शुक्लयजुर्वेदस्य संहितोपनिषदियम् । अष्टादशमन्त्रात्मिका विद्यते ।इयम् उपनिषत् शुक्लयजुर्वेदीयकाण्वशाखीयसंहितायाम् अन्तर्भवति । पूर्णमदः पूर्णमिदमिति शान्तिपाठः आरभ्यते । अनन्तगुण-अनन्तशक्ति-अनन्तज्ञानेन युक्तः परमात्मा सर्वसम्पूर्णः । इदं व्यक्तविश्वमपि नियमबद्धमित्यतः वस्तुतः सम्पूर्णमस्ति । इदं नियमबद्धं सम्पूर्णं विश्वं सर्वसम्पूर्णेन अनन्तपरमात्मना एव उद्भूतम् । किन्तु अस्य विश्वस्य उत्पत्त्या परमात्मनि न्यूनता भवेत् किम् ? सर्वथा न । सः अनन्तः, अखण्डः, अच्युतः, परिपूर्णश्च । तस्मात् अनन्तानि ब्रह्माण्डानि सृष्टानि चेदपि तदीयाः अनन्तज्ञानगुणविक्रमाः अच्युताः तिष्ठन्ति । अनन्तसङ्ख्यया अनन्तसङ्ख्या व्यवकलितः चेदपि अनन्तसङ्ख्या एव यथा अवशिष्येत तथा परमात्मनः अनन्तत्वस्य अखण्डत्वस्य बाधा न कापि विद्यते ।

(सम्पूर्णग्रन्थः)