प्रशस्तपादभाष्यम्
प्रशस्तपादभाष्यम् प्रशस्तपादः |
प्रशस्तपादभाष्यम्
ग्रन्थप्रयोजनप्रकरणम्
[सम्पाद्यताम्]
प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः ।
पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ।।
द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां साधर्म्यवैधर्म्यतत्वज्ञानं निःश्रेयसहेतुः ।
तश्चेश्वरचोदनाभिव्यक्ताद्धर्मादेव ।।
उद्धेशप्रकरणम्
[सम्पाद्यताम्]
अथ के द्रव्यादयः पदार्थाः किञ्च तेषां साधर्म्य वैधर्म्यंश्चेति ? ।।
तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेष सञ्ज्ञयोक्तानि
नवैवेति । तद्व्यतिरेकेणान्यस्य सञ्ज्ञानभिधानात् ।।
गुणाश्च रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्चेति कण्ठोक्ताः सप्तदश । च शब्दसमुश्चिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिर्गुणाः ।
उत्क्षेपणापक्षेपणाकुञ्जनप्रसारणगमनानि पञ्चैव । गमनग्रहणाद्भ्रमणरेचनस्पन्दनोर्ध्वज्वलनतिर्य-
क्पतननमनोन्नमनादयो गमनविशेषा न जात्यन्तराणि ।
सामान्यं द्विविधं परमपरं चानुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता महाविषयत्वात् । सा चाऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव । द्रव्यत्वाद्यपरमल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सद्विशेषाख्यामपि लभते ।।
नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । ते खल्वत्यन्तव्यावृत्तेरपिहेतुत्वाद्विशेषा एव ।।
अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवायः । एवं धर्मैर्विना धर्मिणामुद्धेशः कृतः।
साधर्म्यवैधर्म्यप्रकरणम्
[सम्पाद्यताम्]
षण्णामपि पदार्थानामस्तित्वाभिधेयत्वज्ञेयत्वानि । आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः । द्रव्यादीनां पञ्चानां समवायित्वमनेकत्वं च । गुणादीनां पञ्चानामपि निर्गुगुणत्वनिष्क्रियत्वे । द्रव्यादीनां त्रयाणापि सत्तासम्बन्धः सामान्यविशेषवत्वं स्वसमयार्थशब्दाभिधेयत्वं धर्माधर्मकर्तृत्वं च । कार्यत्वानित्यत्वे कारणवतामेव । कारणत्वं चान्यत्र पारिमाण्डल्यादिभ्यः । द्रव्याश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः ।
सामान्यादीनां त्रयाणां स्वात्मसत्वं बुद्धिलक्षणत्वमकार्यत्वमकारणत्वमसामान्यविशेषवत्वं नित्यत्वमर्थशब्दानभिधेयत्वं चेति ।।
पृथिव्यादीनां नवानामपि द्रव्यत्वयोगः स्वात्मन्यारम्भकत्वं गुणवत्वं कार्यकारणाविरोधित्वमन्त्यविशेषवत्वं । अनाश्रितत्वनित्यत्वे चान्यत्रावयविद्रव्येभ्यः । पृथिव्युदकज्वलनपवनात्ममनसामनेकत्वापरजातिमत्वे। क्षितिजलज्योतिरनिलमनसां क्रियावत्वमूर्त्तत्वपरत्वापरत्ववेगवकत्वानि । आकाशकालदिगात्मनां सर्वगतत्वं परममहत्वं सर्वसंयोगिसमानदेशत्वं च । पृथिव्यादीनां पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्वं बाह्यैकैकेन्द्रियग्राह्यविशेषगुणवत्वानि ।
चतुर्णां द्रव्यारम्भकत्वस्पर्शवत्वे । त्रयाणां प्रत्यक्षत्त्वरूपवत्वद्रवत्वानि । द्वयोर्गुणत्वं रसवत्वं च ।
भूतात्मनां वैशेषिकगुणवत्वम् । क्षित्युदकात्मनां चतुर्दशगुणवत्वम् । आकाशात्मनां क्षणिकैकदेशवृत्तिविशेषगुणवत्वम् । दिक्कालयोः पञ्चगुणवत्वं सर्वोत्प्पत्तिमतां निमित्तकारणत्वम् च । क्षितितेजसोर्नैमित्तिकद्रवत्वयोगः।
एवं सर्वत्र साधर्म्यविपर्ययाद्वैधर्म्यं च वाच्यमिति द्रव्यासङ्करः ।
पृथिवीनिरूपणप्रकरणम्
[सम्पाद्यताम्]
इहेदानीमैककशो वैधर्म्यमुच्यते ।
पृथिवीत्वाभिसम्बन्धात्पृथिवी। रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती । एते च गुणविनिवेशाधिकारे रूपादयो गुणविशेषाः सिद्धाः ।
चाक्षुषवचनात् सप्त सङ्ख्यादयः । पतनोपदेशात् गुरुत्वम् । अद्भिः सामान्यवचनाद् द्रवत्वम् । उत्तरकर्मवचनात् संस्कारः ।
क्षितावेव गन्धः । रुपमनेकप्रकारं शुक्लादि । रसः षड्विधो मधुरादिः । गन्धो द्विविधः सुरभिरसुरभिश्च । स्पर्शोऽस्या अनुष्णायशीतत्वे सति पाकजः ।
सा तु द्विविधा-नित्या चानित्या च । परमाणुलक्षणा नित्या । कार्यलक्षणात्वनित्या । सा च स्थैर्याद्यवयवसन्निवेशविशिष्टाऽपरजातिबहुत्वोपेता शयनासनाद्यनेकोपकारकारि च । त्रिविधं चास्याः कार्यम्-शरीरेद्रियविषयसंज्ञकम् । शरीरं द्विविधम्- योनिजमयोनिजमं च । तत्रायोनिजमनपेक्ष्य शुक्रशोणितं देवर्षीणं शरीरं धर्मविशेषसहितेभ्योऽणुभ्यो जायते ।
क्षुद्रजन्तूनां यातनशरीराण्यधर्मविशेषसहितेभ्योऽणुभ्यो जायन्ते । शुक्रशोणितसन्निपातजं योनिजम् । तद् द्विविधं-जरयुजमण्डजं च । मानुषपशुमृगाणां जरायुजम् ।
इन्द्रियं गन्धव्यञ्चकं सर्वप्राणिनां जलाद्यनभिभूतैः पार्थिवावयवैरारब्धं घ्राणम् । विषयस्तु द्वयणुकादिक्रमेणारब्धस्त्रिविधो - मृत्पाषाणस्थावरलक्षणः । तत्र भूप्रदेशाः - प्राकारेष्टकादयो मृत्प्रकाराः । पाषाणा - उपलमणिवज्रादयः स्थावरास्तृणौषधिवृक्षलतावतानवनस्पतय इति ।
जलनिरूपणम्
[सम्पाद्यताम्]
आप्त्वाभिसम्बन्धादापः।।
रूपरसस्पर्शद्रवत्वस्नेहसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वसंस्कारवत्यः । पूर्ववदे़षां सिद्धिः। शुक्लमधुरशीता एव रूपरसस्पर्शाः स्नेहोऽम्भस्येव सासिद्धकं च द्रवत्वम्। ताश्च पूर्ववत् द्विविधाः। नित्यानित्यभेदात्। तासां तु कार्यं त्रिविघं शरीरेन्द्रियविषयसंज्ञकम्। तत्र शरीरमयोनिजमेव वरुणलोके पार्थिवावयवोपष्टम्म्भाच्चोपभोगसमर्थम् । इन्द्रियं सर्वप्राणिनांं रसव्यञ्जकं विजात्यनभिभूतैजलावयवैरारब्धं रसनम् । विषयस्तु सरित्समुद्रहिमकरकादिः।
तेजोनिरूपणप्रकरणम्
[सम्पाद्यताम्]
तेजस्त्वाभिसम्बन्धात्तेजः। रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारवत्। ।पूर्ववदेषां सिद्धिः। तत्र शुक्लं भास्वरं च रूपम् । उष्ण एव स्पर्शः । तदपि द्विविधगुणमणुकार्यात्त् । कार्यं च शरीरादित्रयम् । शरीरमयोनिजमेवादित्यलोके पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् । इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकमन्यावयवानभिभूतैस्तेजोवयवैैरारब्धं चक्षुः ।
विषयसंज्ञकं चतुर्विधम्- भौमं दिव्युदर्यमाकरजञ्च। तत्र भौमं काष्ठेन्धनप्रभवमूर्थ्वज्वलनस्वभावं पचनदहनस्वेदनादिसमर्थम् । दिव्यमबिन्धनं सौरविद्युदादि ।
भुक्तस्याहारस्य रसादिपरिणामार्थंमुदर्यम् । आकरजं सुवर्णादि। तत्र संयुक्तसमवायाद्रसाद्युपलब्धिरिति ।
वायुनिरूपणप्रकरणम्
[सम्पाद्यताम्]
वायुत्वाभिसम्बन्धाद्वायुः। स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारवान्। स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजः, गुणविनिवेशात् सिद्धः । अरूपिष्वाचाक्षुषवचनात् सप्त संख्यादयः । तृणकर्मवचनात् संस्काराः ।
स चायं द्विविधोऽणुकार्यभावात् । तत्र कार्यलक्षणश्चतुर्विधः-शरीरमिन्द्रियं विषय़ः प्राणः इति । तत्रायोनिजमेव शरीरं मरुतां लोके पार्थिवावयवोपष्टम्भाश्चोपभोगसमर्थम् ।
इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकं पृथिव्याध्यनभिभूतैर्वावाय्ववयवैरारब्धं सर्वशरीरव्यापि त्वगिन्द्रियम् ।
विषयस्तूपलभ्यमानस्पर्शाधिष्टानभूतः स्पर्शशब्दधृतिलिङ्गस्तिर्यग्गमनस्वभावो मेघादिप्रेरणधारणादिसमर्थः । तस्याप्रत्यक्षस्यापि नानात्वं सम्मूर्च्छनेनानुमीयते । सम्मूर्च्छनं पुनः समानजवयोर्वाय्वोर्विरुद्धदिक् क्रिययोः सन्निपातः ।
सोऽपि सावयविनोर्वाय्वोरूर्ध्वगमनेनानुमीयते तदपि तृणादिगमनेनेति । प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुरेकः सन् क्रियाभेदादपानादिसञ्ज्ञां लभते ।
सष्टिसंहारप्रकरणम्
[सम्पाद्यताम्]
इहेदानीं चतुर्णां महाभूतानां सृष्टिसंहारविधिरुच्यते। ब्राह्मेणमानेन वर्षशतान्ते वर्त्तमानस्य ब्रह्मणोऽ पवर्गकाले संसारखिन्नानां सर्वप्राणिनां निशि विश्रमार्थं सकलभुवनपतेर्महेश्वरस्य सञ्जिहीर्षासमकालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतानामदृष्टानां वृत्तिनिरोधे सति महेश्वरेच्छात्माणुसंयोगजकर्मेभ्यः शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापरमाण्वन्तो विनाशः। तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिन् सति पूर्वस्य पूर्वस्य विनाशः। ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्मसंस्कारानुविद्धा आत्मानस्तावन्तमेव कालम् ।
ततः पुनः प्राणिनां भोगभूतये महेश्वरसिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्म्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो द्व्यणुकादि प्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव वायावाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्लूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव पार्थिवेभ्यः परमाणुभ्यो महापृथिवी संहतावतिष्ठते । तदनन्तरं तस्मिन्नेव महादधौ तैजसेभ्योऽणुभ्यो द्व्यणुकादिक्रमेणोत्पन्नो महाँस्तेजोराशिः केनचिदनभिभूतत्वाद्देदीप्यमानस्तिष्ठति ।
एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते । तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते। स च महेश्वरेण विनियुक्तो ब्रह्मातिशयज्ञानवैराग्यैश्वर्य्यसम्पन्नः प्राणिनां कर्म्मविपाकं विदित्वा कर्म्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि भूतानि च सृष्ट्वाऽऽशयानुरूपैर्धर्मज्ञानवैराग्यैश्वर्य्यैः संयोजयतीति।
आकाशप्रकरणम्
[सम्पाद्यताम्]
आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्र: संज्ञा भवन्ति l आकाश:कालो दिगिति l तत्राकाशस्य गुणा: शब्दसंख्यापरिमाणपृथक्त्वसंयोगविभागा:l
शब्द: प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादयावद्द्रव्यव्यभावित्वादाश्रयादन्यत्रोपलब्देश्च न स्पर्शवद् विशेष गुण:l बाह्येन्दियप्रत्यक्षत्वादात्मान्तर ग्राह्यत्वादात्मान्यसमवायादहङ्कारेण विभक्तग्रहणाच्च नात्मगुण :l
श्रोत्रं पुनः श्रवणविवरसंज्ञको नभोदेशः। शब्दनिमित्तोपभोगप्रापकधर्मधर्मोपनिबद्धस्स्य च नित्यत्वे सत्युपनिबन्धकवैकल्याद्बाधिर्यमिति ।
कालप्रकरणम्
[सम्पाद्यताम्]कालःपरापरव्यतिकरयौगपद्यायौगपध्यचिरक्षिप्रप्रत्त्ययलिङ्गम्l तेषां विषये पूर्वप्रत्ययविलक्षणाना- मुत्पत्तावन्यनिमित्ताभावाध्यदत्र निमित्तं स कालःl सर्वकार्याणां चोत्पत्तिस्थितिविनाशहेतुस्तद्व्यपदेशात् l क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासर्त्वयनसंवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयव्यवहा-रहेतुः तस्य गुणाः संख्यापरिमाणपृथक्त्व संयोगविभागाः l काल लिङ्गाविशेषादेकत्वं सिद्धम् l तदनुविदानात् पृथक्त्वम् l कारणे काल इति वचनात् परममहत्परिमाणम् l कारण परत्वादिवचनात् संयोगः तद्विनाशत्वाद्विभाग इति l तस्याकाशवद्द्रव्यत्वनित्यत्वे सिद्धे काल काललिङ्गविशेषादञ्जसैकत्वेऽपि सर्व कार्याणामारम्भक्रियाभिर्निवृत्तिस्थितिनिरोधोपाधि भॆदान्मणिवत्पाचकवद्वानानात्वोपचार इति । </poem>
दिक्प्रकरणम्
[सम्पाद्यताम्]
दिक् पूर्वापरादिप्रत्ययलिङ्गा । मूर्तद्रव्यमवधिंकृत्वा मूर्तेष्वेव द्रव्येष्वेतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेनोत्त्त्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण चाधस्तादुपरिष्टाच्चेति दश प्रत्यया यतो भवन्ति सा दिगिति,अन्यनिमित्तासम्भवात् ।
तस्यास्तु गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागाः कालवदेते सिद्धाः । दिग्लिङ्गाविशेषादञ्जसैकत्वेऽपि दिशः परममहर्षिभिः श्रुतिस्मृतिलोकसंव्यवहारार्थं मेरुं प्रदक्षिणमावर्तमानस्य भगवतः सवितुर्ये संयोगविशेषाः लोकपालपरिगृहीतदिक्प्रदेशानामन्वर्थाः प्राच्यादिभेदेन दशविधाः सञ्ज्ञाः कृताः अतो भक्त्या दश दिशः सिद्धाः । तासामेव देवतापरिग्रहात् पुनर्दशसञ्ज्ञा भवन्ति माहेन्द्रो वैश्वानरी याम्या नैर्ऋती वारुणी वायव्या कौबेरी ऐशानी ब्राह्मी नागी चेति ।
आत्मप्रकरणम्
[सम्पाद्यताम्]
आत्मत्वाभिसम्बन्धादात्मा । तस्य सौक्ष्म्यस्यादप्रत्यक्षे सति करणैः शब्दाध्युपलब्ध्यनुमितौ श्रोत्त्त्रादिभिः समधिगमः क्रियते,-वास्यादीनां करणानां कर्तृप्रयोज्यत्वदर्शनात्, शब्दादिषु प्रसिद्धया च प्रसाधकोऽनुमीयते । न शरीरेन्द्रियमनसामज्ञत्वात् ।
न शरीरस्य चैतन्यं घटादिवद्भूतकार्यत्वात् मृते चासम्भवात् । नेन्द्रियाणां करणत्वात्, उपहतेषु विषयासान्निध्ये चानुस्मृतिदर्शनात् । नापि मनसः करणानन्तरानपेक्षित्वे युगपदालोचनास्मृतिप्रसङ्गात्, स्वयं करणभावाच्च । परिशेषादात्मकार्यत्वात् तेनात्मा समधिगम्यते । शरीरसमवायिनीभ्यां च हिताहितप्राप्तिपरिहारयोग्याभ्यां प्रवृत्तिनिवृत्तिभ्यां रथकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्टाताऽनुमीयते, प्राणादिभिश्चेति ।
कथं ? शरीरपरिगृहीते वायौ विकृतकर्मदर्शनाद्भस्नाध्मापयितेव, निमेषोन्मेषकर्मणा नियतेन दारुयन्त्रप्रयोक्तेव देहस्य वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वात् गृहपतिरिव, अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन मनःकर्मणा गृहकोणेषु पेलकप्रेरक इव दारकः, नयन विषयालोचनानन्तरं रसानुस्मृतिक्रमेण रसनविक्रियादर्शनादनेकगवाक्षान्तर्गतप्रेक्षकवदुभयदर्शी कश्चिदेको विज्ञायते ।
सुखदुःखेच्छाद्वेषप्रयत्नैश्च गुणैर्गुण्यनुमीयते । ते च न शरीरेन्द्रियगुणाः, कस्मात् ? अहङ्कारेणैकवाक्यताभावात् प्रदेशवृत्तित्त्वादयावद्द्रव्यभावित्वाद् वाह्येन्द्रियाप्रत्यक्षत्वाच्च तथाऽहंशब्देनापि पृथिव्यादिशब्दव्यतिरेकादिति। तस्यगुणाःबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसख्यापरिमाणपृथक्त्वसं-येगविभागाः । आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः । धर्माधर्मावात्मान्तरगुणानामकारणत्ववचनात् । संस्काराः स्मृत्युत्पत्तौ कारणव्यवस्थावचनात् संख्या पृथक्त्वमप्यत एव । तथा चात्मेतिवचनात् परममहत्परिमाणम् । सन्निकर्षजत्वात् सुखादीनां संयोगः । तद्विनाशकत्वाद्विभाग इति ।
मनःप्रकरणम्
[सम्पाद्यताम्]
मनस्त्वयोगान्मनः । सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञानसुखादीनामभूत्वोत्पत्तिदर्शनात् करणान्तरमनुमीयते । श्रोत्राध्यव्यापारे स्मृत्त्युत्पत्तिदर्शनात् बाह्येन्द्रियैरगृहीतसुखादिग्राह्यान्तरभावाच्चान्तःकरणम् ।
तस्य गुणाः - संख्यापरिमाणपृथक्तवसंयोगविभागपरत्वापरत्वसंस्काराः । प्रयत्नज्ञानायौगपध्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् । पृथक्तवमप्यत एव । तदभाववचनादणुपरिमाणम् । अपसर्पणोपसर्पणवचनात् संयोगविभागौ । मूर्त्तत्वात् परत्वापरत्वे । अस्पर्शवत्वात् द्रव्यानारम्भकत्वम् । क्रियावत्वान्मूर्त्तत्वम् । साधारणविग्रहत्वप्रसङ्गादज्ञत्वम् । करणभावात् परार्थम् । गुणवत्वात् द्रव्यम् । प्रयत्नादृष्टपरिग्रहवशादाशुसञ्चारि चेति ।।
इति प्रशस्तपादभाष्ये द्रव्यपदार्थाः ।।
गुणपदार्थनिरूपणम्
[सम्पाद्यताम्]
साधर्म्यप्रकरणम्
रूपादीनां गुणानां सर्वेषां गुणत्वाभिसम्बन्धो द्रव्याश्रितत्वं निर्गुणत्वं निष्क्रियत्वम् ।
रूपरसगन्धस्पर्शपरत्वापरत्वगुरुत्वद्रवत्वस्नेहवेगा मूर्तगुणाः । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अमूर्तगुणाः । संख्यापरिमाणपृथक्त्वसंयोगविभागा उभयगुणाः ।
संयोगविभागद्वित्वद्विपृथक्त्वादयोऽनेकाश्रिताः । शेषास्त्वेकैकद्रव्यवृत्तयः ।
रूपरसगन्धस्पर्शस्नेहसांसिद्धिकद्रवत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा वैशेषिकगुणाः।
संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमित्तिकद्रवत्ववेगाः सामान्यगुणाः।
शब्दस्पर्शरूपरसगन्धा बाह्यकैकेन्द्रियग्राह्याः। संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वस्नेहवेगा द्वीन्द्रियग्राह्याः । बुद्धिसुखदुःखच्छा द्वेषप्रयत्नास्त्वन्तःकरणग्राह्याः । गुरुत्वधर्माधमभावनाह्यदीन्द्रियाः।
अपाक जरूपरसगन्धस्पर्श परिमाणैकत्वैकपृथक्त्वगुरुत्वद्रवत्वस्नेह वेगाः कारगुणपूर्वकाः।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दा अकारणगुणपूर्वकाः ।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाशब्दतूलपरिमाणोत्तरसंयोगनैमित्तिकद्रवत्वपरत्वापरत्वपाकजाः संयोगजाः ।
संयोगविभागवेगाः कर्मजाः । शब्दोत्तरविभागौ विभागजौ।
पर त्वापरत्व द्वित्वद्विपृथक्त्वादयो बुद्ध्यपेक्षाः।
रूपरसगन्धानुष्णस्पर्शशब्दपरिमाणैकत्वैकपृथक्त्वस्नेहाः समानजात्यारम्भकाः।
सुखदुःखेच्छाद्वेषप्रयत्नाश्चासमानजात्यारम्भकाः ।।
संयोगविभागसंख्यागुरुत्वद्रवत्वोष्णस्पर्शज्ञानधर्माधर्मसंस्काराः समानासमानजात्यारम्भकाः । बुद्धिसुखदुःखेच्छाद्वेषभावनाशब्दाः स्वाश्रयसमवेतारम्भकाः॥
रूपरसगन्धस्पर्शपरिमाणस्नेहप्रयत्नाः परत्रारम्भकाः । संयोगविभागसंख्यैक पृथक्त्वगुरुत्व द्रवत्ववेगधर्माधर्मास्तूभयत्रारम्भकाः॥ गुरुत्वद्रवत्ववेगप्रयत्नधर्माधर्मसंयोगविशेषाः क्रियाहेतवः।।
रूपरसगन्धानुष्णस्पर्शसंख्यापरिमाणैकपृथक्त्वस्नेहशब्दानामसमवायिकारणत्वम् ।।
बुद्धिसुखदुःखेच्छाद्वेष प्रयत्नधमाधर्मभावनानां निमित्तकारणत्वम् ॥ संयोगविभागोष्णस्पर्शगुरुत्वद्रवत्ववेगानामुभयथा कारणत्वम् ।।
परत्वापरत्वद्वित्वद्विपृथक्त्वादीनामकारणत्वम् ॥
संयोगविभागशब्दात्मविशेषगुणानां प्रदेशवृत्तित्वम् ।।
शेषाणामाश्रयव्यापित्वम् ।।
अपाकजरूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्त्व सांसिद्धिकद्रवत्वगुरुत्वस्नेहानां यावद्द्रव्यभावित्वम् ।।
शेषाणामयावद्रव्यभावित्वं चेति ॥
रूपादीनां सर्वेषां गुणानां प्रत्येकमपरसामान्यसम्बन्धाद्रूपादिसञ्ज्ञा भवन्ति ॥
(२) रूपप्रकरणम् ।
तत्र रूपं चक्षुर्ग्राह्यम् | पृथिव्युदकज्वलनवृत्ति द्रव्याद्युपलम्भकं नयनसहकारि शुक्लाद्यनेकप्रकारं सलिलादिपरमाणुषु नित्यं पार्थिवपरमाणुष्वग्निसंयोगविरोधि सर्वकार्यद्रव्येषु कारणगुणपूर्वकम् आश्रयविनाशादेव विनश्यतीति ।।
(३) रसप्रकरणम्
रसो रसनग्राह्यः । पृथिव्युदकवृत्ति। जीवनपुष्टि बलारोग्यनिमित्तम् रसनसहकारी मधुराम्ललवणतिक्तकटुकषायभेदभिन्नः । अस्यापि नित्यानित्यत्वनिष्पत्तयो रूपवत् ।
(४) गन्धप्रकरणम् ।
गन्धो घ्राणग्राह्यः । पृथिवीवृत्तिः घ्राणसहकारी सुरभिरसुरभिश्च । अस्यापि पूर्ववदुत्पत्त्यादयो व्याख्याताः ।
(५) स्पर्शप्रकरणम् ।
स्पर्शस्त्वगिन्द्रियग्राह्यः।क्षित्युदकज्वलनपवनवृत्तिः त्वकसहकारो रूपानुविधायी शीतोष्णानुष्णाशीतभेदात् त्रिविधः । अस्यापिनित्यानित्यत्वनिष्पत्तयः पूर्ववत् ।
(६) पाकजप्रकरणम् ।
पार्थिवपरमाणुरूपादीनां पाकजोत्पत्तिविधानम् ।
घटादेरामद्रव्यस्याग्निसम्बद्धस्याग्न्यभिघातान्नोदनाद्वा तदारम्भकेष्वणुषु कर्माण्युत्पद्यन्ते तेभ्यो विभागाः विभागेभ्यः संयोगविनाशाः संयोगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति । तस्मिन् विनष्टे स्वतन्त्रेषु परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छ्यामादीनां विनाशः पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात् पाकजा जायन्ते । तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगात् द्वयणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते । तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिः । न च कार्यव्य एव रूपाद्युत्पत्तिविनाशो वा सम्भवति सर्वावयवेष्वन्तर्बहिश्च वतमानस्याग्निना व्याप्त्यभावाद् अणुप्रवेशादपि च व्याप्तिर्न सम्भवति कार्यद्रव्यविनाशादिति ।
(७) संख्याप्रकरणम् ।
एकादिव्यवहारहेतुः संख्या । सा पुनरेकद्रव्या चानेकद्रव्या च । तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः ।
अनेकद्रव्या तु द्वित्वादिका परार्धान्ता। तस्याः खल्वेकत्वेभ्योऽनेकविषय. बुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद् विनाश इति । कथम् ? यदा बोद्धइचक्षुषा समानासमानजातीययोद्रव्ययोः सग्निकर्षे सति तत्संयुक्तसमवेतसमवेतैकत्वसामान्यज्ञानोत्पत्तावेकत्वसामान्यतत्सम्बन्धज्ञानेभ्य एकगुणयोरनेकविषयिण्येका बुद्धिरुत्पद्यते ।
तदा तामपेक्ष्यैकत्वाभ्यां स्वाश्रययोद्वित्वमारभ्यते, ततःपुनस्तस्मिन् द्वित्वसामान्यज्ञानमुत्पद्यते तस्माद् द्वित्वसामान्यज्ञानादपेक्षाबुद्धविनश्यत्ता द्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्यो द्वित्वगुणबुद्धेरुत्पद्यमानतेत्येकः काल । तत इदानोमपेक्षाबुद्धिविनाशाद्वित्वगुणस्य विनश्यत्ता, द्वित्वगुणज्ञान द्वित्वसामान्यज्ञानस्य विनाशकारणं द्वित्वगुणतज्ज्ञानसम्बन्धेभ्यो द्वे द्रव्ये इति द्रव्यबुद्धरुत्पद्यमानतेत्येकः कालः।तदनन्तरं द्वे द्रव्ये इति द्रव्यज्ञानस्योत्पादः द्वित्वस्य विनाशः, द्वित्वगुणबुद्धविनश्यत्ता, द्रव्यज्ञानात् संस्कारस्योत्पद्यमानतेत्येकः कालः तदनन्तरं द्रव्यज्ञानाद् द्वित्वगुणबुद्धविनाशो द्रव्यबुद्धरपि संस्कारात् ।
एतेन त्रित्वाद्युत्पत्तिरपि व्याख्याता । एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाच्च विनाश इति ।कचिच्चाश्रयविनाशादिति । कथम् ? यदैकत्वाधारावयवे कर्मोत्पद्यते तदेवैकत्वसामान्यज्ञानमुत्पद्यते, कर्मणा चावयवान्तराद्विभागः क्रियते अपेक्षाबुद्धश्वोत्पत्तिः। ततो यस्मिन्नेव काले विभागात् संयोगविनाशस्तस्मिन्नेव काले द्वित्वमुत्पद्यते संयोगविनाशाद् द्रव्यविनाशः सामान्यबुद्धेश्वोत्पत्तिः। ततो यस्मिन्नेव काले सामान्यज्ञानादपेक्षाबुद्धेविनाशः तस्मिन्नेव काले आश्रयविनाशाद् द्वित्वविनाश इति शोभनमेतद्विधानम् बध्यघातकपक्षे, सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ? गुणबुद्धिसमकालमपेक्षाबुद्धिविनाशाद् द्वित्वविनाशे तदपेक्षस्य द्वे द्रव्ये इति द्रव्यज्ञानस्यानु त्पत्तिप्रसङ्ग इति ।
लैङ्गिक ज्ज्ञानमात्रादिति चेत्स्यान्मतम् यथाऽभूतं भूतस्येत्यत्र लिङ्गाभावेऽपि ज्ञानमात्रादनुमानम् तथा गुणविनाशेऽपि गुणबुद्धिमात्रात् द्रव्यप्रत्ययः स्यादिति | न, विशेष्यज्ञानत्वात् । न हि विशेष्यज्ञानं सारूप्याद्विशेषणसम्बन्धमन्तरेण भवितुमर्हति । तथा चाह सूत्रकारः- “समवायिनः श्वैत्याच्छवैत्यबुद्धेः श्वेते बुद्धिस्ते कार्यकारणभूते' [अ०८ आ० १ सू०९] इति ।
न तु लैङ्गिक ज्ञानमभेदेनोत्पद्यते तस्माद्विषमोऽयमुपन्यासः । न, आशूत्पत्तेः यथा शब्दवदाकाशमित्यत्र त्रीणि ज्ञानान्याशूत्पद्यन्ते तथा द्वित्वादिज्ञानोत्पत्तावित्यदोषः । बध्यघातकपक्षेऽपि समानो दोष इति चेत् स्यान्मतम् ननु बध्यघातकपक्षेऽपि तर्हि द्रव्यज्ञानानुत्पत्तिप्रसङ्गः । कथम् ? द्वित्वसामान्यबुद्धिसमकालं संस्कारादपेक्षावुद्धिविनाशादिति
न समूहज्ञानस्य संस्कारहेतुत्वात्-समूहज्ञानमेव संस्कारकारणं नालोचनज्ञानमित्यदोषः । ज्ञानायौगपद्यप्रसङ्ग इति चेत् स्यान्मतम्-ननु ज्ञानानां बध्यघातकविरोधेपि ज्ञानायौगपद्यप्रसङ्ग इति । न, अविनश्यतोरवस्थानप्रतिवेधात् । ज्ञानायौगपद्यवचनेन ज्ञानयोयुगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानं प्रतिषिध्यते नहि बध्यघातकविरोधे ज्ञानयोयुगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानमस्तीति ।
(८) परिमाणप्रकरणम् ।
परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम्-अणु महद्दीर्घं हृस्वं चेति । तत्र महद् द्विविधं- नित्यमनित्यं च । नित्यमाकाशकालदिगात्मसु परममहत्त्वम् अनित्यं द्व्यणुकादावेव । तथा चाण्वपि द्विविधं-नित्यमनित्यं च । नित्यं परमाणुमनस्सु तत्त पारिमाण्डल्यम् । अनित्यं द्वयणुक एव । कुवलयामलकबिल्वादिषुमहत्स्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तोऽणुत्वव्यवहारः।
दीर्घत्वहृस्वत्वे चोत्पाद्यमहदणुत्वैकार्थसमवेते । समिदिक्षुवंशादिष्वञ्जसा दीर्घेष्वपि तत्प्रकर्षभावाभावमपेक्ष्य भाक्तो ह्रस्वत्वव्यवहारः ।
अनित्यं चतुर्विधमपि संख्या-परिमाण-प्रचययोनि ।
तत्रेश्वरबुद्धिमपेक्ष्योत्पन्ना परमाणुद्वयणुकेषु बहुत्वसंख्या तैरारब्धे कार्यद्रव्ये त्र्यणुकादिलक्षणे रूपमुत्पत्तिसमकालं महत्त्वं दीर्घत्वं च करोति ।
द्विबहुभिर्महद्भिश्चारब्धे कार्यद्रव्ये कारणमहत्त्वान्येव महत्त्वमारभन्ते न बहुत्वम् । समानसख्यैश्चारब्धेऽतिशयदर्शनात् ।
प्रचयश्च तूलपिण्डयोर्वतमानः पिण्डारम्भकावयवप्रशिथिलसंयोगानपेक्षमाण
इतरेतरपिण्डावयवसंयोगापेक्षो वा द्वितूलके महत्त्वमारभते न बहुत्वमहत्त्वानि, समानसंख्यापलपरिमाणैरारब्धेऽतिशयदर्शनात् ।
द्वित्वसंख्या चाण्वोर्वर्तमाना द्वयणुकेऽणुत्वमारभते । महत्त्ववत् त्र्यणुकादौ कारणबहुत्वमहत्त्वसमानजातीयप्रचयेभ्यो दीर्घत्वस्योत्पत्तिः । अणुत्ववत् द्व्यणुके द्वित्वसंख्यातो हृस्वत्वस्योत्पत्तिः।
अथ त्र्यणुकादिषु वर्तमानयोमहत्त्वदीर्घत्वयोः परस्परतः को विशेषः, ह्यणुकेषु चाणुत्वहृस्वत्वयोरिति ?
तत्रास्ति महत्त्वदीर्घत्वयोः परस्परतो विशेषः-महत्सु दीर्घेषु च महदानीयतामिति विशिष्टव्यवहारदर्शनादिति । अणुत्बह्रस्वत्वयोस्तु परस्परतो विशेषस्तदर्शिनां प्रत्यक्ष इति ।
तच्चतुर्विधर्माप परिमाणमुत्पाद्यमाश्रयविनाशादेव विनश्यतीति ।
(९) पृथक्त्वप्रकरणम् ।
पृथक्त्वमपोद्धारव्यवहारकारणम् । तत्पुनरेकद्रव्यमनेकद्रव्यं च । तस्य तु नित्यानित्यत्वनिष्पत्तयः संख्यया व्याख्याताः ।
एतावांन्तु विशेषः- एकत्वादिवदेकपृथक्त्वादिष्वपरसामान्याभावः सख्यातु विशिष्यते तद्विशिष्टव्यवहारदर्शनादिति ।
(१०) संयोगप्रकरणम् ।
संयोग: संयुक्तप्रत्ययनिमित्तम् । स च द्रव्यगुणकर्महेतुः। द्रव्यारम्भे
निरपेक्षः-तथा भवतीति सापेक्षेभ्यो निरपेक्षेभ्यश्चेति वचनात् । गुणकमा रम्भे तु सापेक्षः-'संयुक्तसमवायाद् अग्नेर्वैशेषिकमपि वचनात् ।
अथ कथं लक्षण: कतिविधश्चेति ? अप्राप्तयोः प्राप्तिः संयोगः । स च त्रिविधः-अन्यतरकर्मजः, उभयकमजः,संयोगश्च । तत्रान्यतरकर्मजः-क्रियावता निष्क्रियस्य यथा स्थाणोः इथेन विभूनां च मूतैः । उभयकर्मजो - विरुद्वदिक्क्रिययोः सन्निपातः यथा मल्लयोर्मेषयोर्वा । संयोगजस्तूत्पन्नमात्रस्य चिरोत्पन्नस्य वा निष्क्रियस्य कारणसंयोगिभिरकारणैः कारणाकारणसंयोगपूर्वकः कार्याकार्यगतः संयोगः ।
स चैकस्माद् द्वाभ्यां बहुभ्यश्च भवति । एकस्मात् तावत् तन्तुवीरणसंयोगात् द्वितन्तुवीरणसंयोगः । द्वाभ्यां तन्त्वाकाशसंयोगाभ्यामेको द्वितन्तुकाकाशसंयोगः बहुभ्यश्च तन्तुतुरीसंयोगेभ्य एकः पटतुरीसंयोगः।। एकस्माच्च द्वयोरुत्पत्तिः । कथम् ? यदा पार्थिवाप्ययोरण्वोः संयोगे सत्यन्येन पार्थिवेन पार्थिवस्यान्येनाप्येन चाप्यस्य युगपत्संयोगौ भवतस्तदा ताभ्यां संयोगाभ्यां पार्थिवाप्ये द्वयणुके युगपदारभ्येते । ततो यस्मिन् काले द्वयणुकयोः
कारणगुणपूर्वक्रमेण रूपाद्युत्पत्तिः तस्मिन्नेव काले इतरेतरकारणाकारणगतात् संयोगादितरेतरकार्याकार्यगतौ संयोगौ युगपदुत्पद्यते ।
किं कारणम् ? कारणसंयोगिना ह्यकारणेन कार्यमवश्यं संयुज्यते इति न्यायः । अतः पार्थिवं द्वयणुकं कारणसंयोगिनाप्येनाणुना सम्बद्धयते आप्यमपि द्वयणुकं कारणसंयोगिना पार्थिवेनेति । अथ द्वयणुकयोरितरेतरकारणाकारणसम्बद्धयोः कथं परस्परतः सम्बन्ध इति ? तयोरपि संयोगजाभ्यां संयोगाभ्यां सम्वन्ध इति ।
नास्त्यजः संयोगो नित्यपरिमण्डलवत् पृथगनभिधानात् । यथा चतुर्विधं परिमाणमुत्पाद्यमुक्त्त्वाऽऽह नित्यं परिमण्डलमित्येवमन्यतरकर्मजादिसंयोगमुत्पाद्यमुक्त्त्वा पृथङ्नित्यं ब्रूयान्न त्वेवमब्रवीत् तस्मान्नास्त्यजः संयोगः । परमाणुभिराकाशादीनां प्रदेशवृत्तिरन्यतरकर्मजः संयोगः । विभूनां तु परस्परतः संयोगो नास्ति युतसिद्धयभावात् । सा पुनद्वयोरन्यतरस्य वा पृथग्गतिमत्त्वं पृथगाश्रयाश्रयित्वं चेति ।
विनाशस्तु सर्वस्य संयोगस्यैकार्थसमवेताद्विभागात् , क्वचिदाश्रयविनाशादपि | कथम् ? यदा तन्त्वोः संयोगे सत्यन्यतरतन्त्वारम्भके अंशो कर्मोत्पद्यते तेन कर्मणा अंश्वन्तराद्विभागः क्रियते विभागाच्च तन्त्वारम्भकसंयोगविनाशः संयोगविनाशात् तन्तुविनाशस्तद्विनाशे । तदाश्रितस्य तन्त्वम्तरसंयोगस्य विनाश इति ॥
(११) विभागप्रकरणम् ।
विभागो विभक्तप्रत्ययनिमित्तम् । शब्दविभागहेतुश्च । प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । स च त्रिविधः-अन्यतरकर्मज, उभयकर्मजो विभागजश्च विभाग इति । तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत् । विभागजस्तु द्विविधः कारणविभागात् कारणाकारणविभागाच्च ।
तत्र कारणविभागात् तावत्-कार्याविष्टे कारणे कर्मोत्पन्नं यदा तस्यावयवान्तराद्विभागं करोति न तदाऽऽकाशादिदेशात् यदा त्वाकाशादिदेशाद्विभागं करोति न तदावयवान्तरादिति स्थितिः । अतोऽवयवकर्मावयवान्तरादेव
विभागमारभते ततो विभागाच्च द्रध्यारम्भकसंयोगविनाशः तस्मिन् विनष्टे कारणाभावात् कार्याभाव इत्यवयविविनाशः, तदा कारणयोर्वर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकाशादिदेशाद्विभागमारभते न निष्क्रियस्य कारणाभावादुत्तरसंयोगानुत्पत्तावनुपभोग्यत्वप्रसङ्गः ।न तु तदवयवकर्माकाशादिदेशाद्विभागं करोति तदारम्भकालातीतत्वात् । प्रदेशान्तरसंयोगं तु करोत्येव अकृतसंयोगस्य कर्मणः कालात्ययाभावादिति । कारणाकारणविभागादपि कथम् ?
यदा हस्ते कर्मोत्पन्नमवयवान्तराद् विभागमकुर्वदाकाशादिदेशेभ्यो
विभागानारभ्य प्रदेशान्तरे संयोगानारभते तदा ते कारणाकारणविभागाः कर्म यां दिशं प्रति कार्यारम्भाभिमुखं तामपेक्ष्य कार्याकार्यविभागानारभन्ते, तदनन्तरं कारणाकारणसंयोगाच्च कार्याकार्यसंयोगानिति । यदि कारणविभागानन्तरं कार्यविभागोत्पत्तिः कारणसंयोगानन्तरं कार्यसंयोगोत्पत्तिः । नन्वेवमवयवावयविनोयुतसिद्धिदोषप्रसङ्गः इति । न । युतसिद्धयपरिज्ञानात्
सा पुनद्वयोरन्यतरस्य वा पृथग्गतिमत्त्वमियन्तु नित्यानाम् , अनित्यानां तु
युतेष्वाश्रयेषु समवायो युतसिद्धिरिति । त्वगिन्द्रियशरीरयोः पृथग्गतिमत्त्वं नास्ति युतेष्वाश्रयेषु समवायोऽस्तीति परस्परेण संयोगः सिद्धः । अण्वाकाशयोस्त्वाश्रयान्तराभावेऽन्यन्यतरस्य पृथग्गतिमत्त्वात् संयोगविभागौ सिद्धौ । तन्तुपटयोरनित्ययोराश्रयान्तराभावात् परस्परतः संयोगविभागाभाव इति । दिगादीनान्तु पृथग्गतिमत्त्वाभावादिति परस्परेण संयोगविभागाभाव इति ।
विनाशस्तु सर्वस्य विभागस्य क्षणिकत्वादुत्तरसंयोगावधिसद्भावात् क्षणिक इति । न तु संयोगवद्ययोरेव विभागस्तयोरेव संयोगाद्विनाशो भवति ।कस्मात् ? संयुक्तप्रत्ययवद्विभक्तप्रत्ययानुवृत्त्यभावात् । तस्मादुत्तरसंयोगावधिसद्भावात् क्षणिक इति ।
कचिञ्चाश्रयविनाशादेव विनश्यतीति कथम् ? यदा द्वितन्तुककारणावयवे अंशो कर्मोत्पन्नमंश्वन्तराद्विभागमारभते तदैव तन्त्वन्तरेऽपि कर्मोत्पद्यते विभागाच्च तन्त्वारम्भकसंयोगविनाशः तन्तुकर्मणा तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः । ततो यस्मिन्नेव काले विभागात् तन्तुसंयोगविनाशस्तस्मिन्नेव काले संयोगविनाशात् तन्तुविनाशस्तस्मिन् विनष्टे तदाश्रितस्य तन्त्वन्तरविभागस्य विनाश इति । एवं तमुत्तरविभागानुत्पनिप्रसङ्गः कारणविभागाभावात् , ततः प्रदेशान्तरसंयोगनि संयोगाभाव इत्यतो विरोधिगुणासम्भवत कर्मणश्चिरकालावस्थायित्वं नित्यद्रव्यसमवेतस्य च नित्यत्वमिति दोषः ।
कथम् ? यदाप्यद्वयणुकारम्भकपरमाणौ कर्मोत्पन्नमण्वन्तराद्विभागं करोति तदैवाण्वन्तरेऽपि कर्म, ततो यस्मिन्नेव काले विभागाद् द्रव्यारम्भकसंयोगविनाशः तदैवाण्वन्तरकर्मणा द्वथणुकाण्योविभागः क्रियते ततो यस्मिन्नेव काले विभागात् द्वयणुकाणुसंयोगस्य विनाशः तस्मिन्नेव काले संयोगविनाशात् द्वयणुकस्य विनाशः तस्मिन् विनष्टे तदाश्रितस्य द्वयणुकाणुविभागस्य विनाशः । ततश्च विरोधिगुणासम्भवान्नित्यद्रव्य समवेतकर्मणां नित्यत्वमिति । तन्त्वंश्वन्तरविभागाद्विभाग इत्यदोषः । आश्रयविनाशात्तन्त्वोरेव विभागो विनष्टो न तन्त्वंश्वन्तरविभाग इति एतस्मादुत्तरो विभागो जायते अङ्गुल्याकाशविभागाच्छशरीराकाशविभागवत् तस्मिन्नेव काले कर्म संयोगं कृत्वा विनश्यतीत्यदोषः ।
अथवा अश्वन्तरविभागोत्पत्तिसमकालं तस्मिन्नेव तन्तौ कर्मोत्पद्यते ततोंश्वन्तरविभागात् तन्त्वारम्भकसंयोगविनाशः तन्तुकर्मणा च तन्त्वन्तराद्विभागः क्रियते इत्येकः कालः | ततः संयोगविनाशात् तन्तुविनाशः तद्विनाशाच्च तदाश्रितयोर्विभागकर्मणोर्युगपद्विनाशः।
तन्तुवीरणयोर्वा संयोगे सति द्रव्यानुत्पत्तौ पूर्वोक्तेन विधानेनाश्रयविनाशसंयोगाभ्यां तन्तुवीरणविभागाविनाश इति ॥
(१२) परत्वापरत्वप्रकरणम् ।
परत्वमपरत्वं च परापराभिधानप्रत्ययनिमित्तम् । तत्तु द्विविधं दिक्कृत कालकृतं च । तत्र दिक्कृतं दिग्विशेषप्रत्यायकम् । कालकृतं च वयोभेदप्रत्यायकम् । तत्र दिक्कृतस्योत्पत्तिरभिधीयते । कथम् ?
एकस्यां दिश्यवस्थितयोः पिण्डयोः संयुक्तसंयोगबह्वल्पभावे सत्येकस्य द्रष्टुः सन्निकृष्टमवधिं कृत्वा एतस्माद्विप्रकृष्टोऽयमिति परत्वाधारेऽसन्निकृष्टा बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण दिक्प्रदेशेन संयोगात् परत्वस्योत्पत्तिः । तथा विप्रकृष्टं चावधिं कृत्वा एतस्मात् सन्निकृष्टोऽयमित्यपरत्वाधारे इतरस्मिन् सन्निकृष्टा बुद्धिरुत्पद्यते । ततस्ताम पेक्ष्यापरेण दिक्प्रदेशेन संयोगादपरत्वस्योत्पत्तिः । कालकृतयोरपि कथम् ?
वर्तमानकालयोरनियतदिग्देशसंयुक्तयोयुवस्थविरयो रूढश्मश्रुकार्कश्यवलिपलितादिसान्निध्ये सत्येकस्य द्रष्टुर्युवानमवधिं कृत्वा स्थविरे विप्रकृष्टा बुद्धिरुत्पद्यते । ततस्तामपेक्ष्य परेण कालप्रदेशेन संयोगात् परत्वस्योत्पत्तिः । स्थविरं चावधिं कृत्वा यूनि सन्निकृष्टा बुद्धिरुत्पद्यते। ततस्तामपेक्ष्यापरेण कालप्रदेशेन संयोगादपरत्वस्योत्पत्तिरिति । विनाशस्त्वपेक्षाबुद्धिसंयोगद्रव्यनाशात् ।
अपेक्षाबुद्धिविनाशात् तावदुत्पन्ने परत्वे यस्मिन् काले सामान्य बुद्धिरुत्पन्ना भवति, ततोऽपेक्षाबुद्धेर्विनश्यत्ता सामान्यज्ञानतत्सम्बन्धेभ्यः परत्वगुणबुद्धेरुत्पद्यमानतेत्येकः कालः । ततोऽपेक्षाबुद्धिविनाशाद् गुणस्य विनश्यत्ता गुणतत्सम्बन्धेभ्यो द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः । ततो द्रव्यबुद्धेरुत्पत्तिः गुणस्य विनाश इति । संयोगविनाशादपि कथम् ? अपेक्षाबुद्धिसमकालमेव परत्वाधारे कर्मोत्पद्यते तेन कर्मणा दिक्पिण्डविभागः क्रियते अपेक्षाबुद्धितः परत्वस्योत्पत्तिरित्येकः कालः । ततः सामान्य बुद्धरुत्पत्तिः दिक्पिण्डसंयोगस्य च विनाशः ततो यस्मिन् काले गुणबुद्धिरुत्पद्यते तस्मिन्नेव काले दिक्पिण्डसंयोगविनाशाद्गुणस्य विनाशः।
द्रव्यविनाशादपि कथम् ? परत्वाधारावयवे कर्मोत्पन्नं यस्मिन्नेव कालेऽवयवान्तराद्विभागं करोति तस्मिन्नेव कालेऽपेक्षाबुद्धिरुत्पद्यते ततो विभागाद्यस्मिन्नेव काले संयोगविनाशः तस्मिन्नेव काले परत्वमुत्पद्यते ततः संयोगविनाशाद् द्रव्यविनाशः तद्विनाशाच्च तदाश्रितस्य गुणस्य विनाशः।
द्रव्यापेक्षाबुद्ध्योर्युगपद्विनाशादपि कथम् ? यदा परत्वाधारावयवे कर्मोत्पद्यते तदैवापेक्षावुद्धिरुत्पद्यते कर्मणा चाऽवयवान्तराद्विभागः क्रियते परत्वस्योत्पत्तिरित्येकः कालः । ततो यस्मिन्नेव कालेऽवयवविभागाद् द्रव्यारम्भकसंयोगविनाशस्तस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते तदनन्तरं संयोगविनाशाद् द्रव्यविनाशः सामान्यबुद्धेश्चापेक्षाबुद्धिविनाश इत्येकः कालः । ततो द्रव्यापेक्षाबुद्धयोर्विनाशात् परत्वस्य विनाशः।
द्रव्यसंयोगविनाशादपि कथम् ? यदा परत्वाधारावयवे कर्मोत्पन्नमवयवान्तराद्विभागं करोति तस्मिन्नेव काले पिण्डकर्मापेक्षाबुद्ध्योर्युगपदुत्पत्तिः ततो यस्मिन्नेव काले परत्वस्योत्पत्तिस्तस्मिन्नेव काले विभागाद् द्रव्यारम्भकसंयोग विनाशः पिण्डकर्मणा दिक्पिण्डस्य च विभागः क्रियते इत्येकः कालः । ततो यस्मिन्नेव काले सामान्यबुद्धिरुत्पद्यते तस्मिन्नेव काले द्रव्यारम्भकसंयोगविनाशात् पिण्डविनाशः पिण्डविनाशाच्च पिण्डसंयोगविनाशः ततो गुणबुद्धिसमकालं पिण्डदिक्पिण्डसंयोगविनाशात् परत्वस्य नाशः ।
संयोगापेक्षाबुद्धयोर्युगपद्विनाशादपि कथम् ? यदा परत्वमुत्पद्यते तदा परत्वाधारे कर्म ततो यस्मिन्नेव काले परत्वसामान्य बुद्धिरुत्पद्यते तस्मिन्नेव काले पिण्डकर्मणा दिपिण्डसंयोविभागा क्रियते ततः सामान्यबुद्धितोऽपेक्षाबुद्धिविनाशो विभागाच्च दिक्पिण्डसंयोगविनाश इत्येकः कालः । ततः संयोगापेक्षाबुद्धिविनाशात् परत्वस्य विनाशः। त्रयाणां समवाय्यसमवायिनिमित्तकारणानां युगपद् विनाशादपि कथम् ! यदापेक्षाबुद्धिरुत्पद्यते तदा पिण्डावयवे कर्म ततो यस्मिन्नेव काले कर्मणाऽवयवान्तराद्विभागः क्रियतेऽपेक्षाबुद्धेः परत्वस्य चोत्पत्तिस्तस्मिन्नेव काले पिण्डेपि
कर्म ततोऽवयव विभागात् पिण्डारम्भकसंयोगविनाशः पिण्डकर्मणा च दिक्पिण्डविभागः क्रियते सामान्यबुद्धेश्चोत्पत्तिरित्येकः कालः ।
ततः संयोगविनाशात् पिण्डविनाशः विभागाच्च दिक्पिण्डसंयोगविनाश सामान्यज्ञानादपेक्षाबुद्धेर्विनाश इत्येतत् सर्व युगपत्त्रयाणां समवाय्यसमवायिनिमित्त कारणानां विनाशात् परत्वस्य विनाश इति ।
(१३) बुद्धिप्रकरणम् ।
बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः । सा चानेकप्रकाराऽर्थानन्त्याप्रत्यर्थनियतत्वाच्च ।
तस्याः सत्यप्यनेकविधत्वे समासतो द्वे विधे-विद्या चाविद्या चेति । तत्राविद्या चतुर्विधा संशयविपर्ययानध्यवसायस्वप्नलक्षणा।
(१४) संशयप्रकरणम् ।
संशयस्तावत् प्रसिद्धानेकविशेषयोः सादृश्यमात्रदर्शनादुभयविशेषानुस्मरणादधर्माच्च किंस्विदित्युभयावलम्बी विमर्षः संशयः। स च द्विविधःअन्तर्बहिश्च । अन्तस्तावत्-आदेशिकस्य सम्यग्मिथ्या चोद्दिश्य पुनरादिशतत्रिषु कालेषु संशयो भवति किन्नु सम्यग्मिथ्या वेति ।
बहिर्द्विविधा-प्रत्यक्षविषये चाप्रत्यक्षविषये च। तत्राप्रत्यक्षविषये तावत्-साधारणलिङ्गदर्शनादुभयविशेषाऽनुस्मरणादधर्माच्च संशयो भवति । यथाऽटव्यां विषाणमात्रदर्शनाद् गौर्गवयो वेति
प्रत्यक्षविषयेऽपि स्थाणुपुरुषयोरूर्ध्वतामात्रसादृश्य दर्शनात् वक्रादिविशेषानुपलब्धितः स्थाणुत्वादिसामान्यविशेषानभिव्यक्तावुभयविशेषानुस्मरणादुभयत्राकृष्यमाणस्यात्मनः प्रत्ययो दोलायते किं नु खल्वयं स्थाणुः त्यात्पुरुषो वेति ।
(१५) विपर्ययप्रकरणम् ।
विपर्ययोऽपि प्रत्यक्षानुमानविषय एव भवति । प्रत्यक्षविषये तावत्- प्रसिद्धानेकविशेषयोः पित्तकफानिलोपहतेन्द्रियस्यायथार्थालोचनात् असन्निहितविषयज्ञानजसंस्कारापेक्षादात्मनसोः संयोगादधर्माच्चातस्मिंस्तदिति प्रत्ययो विपर्ययः । यथा गव्येवाश्व इति । असत्यपि प्रत्यक्षे प्रत्यक्षाभिमानो भवति यथा व्यपगतघनपटलमचलजलनिधिसदृशमम्बरमञ्जनचूर्णपुञ्जश्यामं शार्वरं तम इति ।
अनुमानविषयेऽपि- बाष्पादिभिधूमाभिमतैर्वह्न्यनुमानं गवयविषाणनाच्च गौरिति ।
त्रयोदर्शनविपरोतेषु शाक्यादिदर्शनेष्विदं श्रेय इति मिथ्याप्रत्ययः विपर्ययः. शरोरेन्द्रियमनस्स्वात्माभिमानः, कृतकेषु नित्यत्वदर्शनं, कारण वैकल्ये कार्योत्पत्तिज्ञानं, हितमुपदिशत्स्वहितमिति ज्ञानम् अहितमुपदिशत्सु हितमिति ज्ञानम् ।।
(१६) अनध्यवसायप्रकरणम्
अनध्यवसायोऽपिप्रत्यक्षानुमानविषय एव सञ्जायते । तत्र प्रत्यक्षविषये तावत्-प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा व्यासङ्गादर्थित्वाद्वा किमित्यालोचनमात्रमनध्यवसायः। यथा वाहीकस्य पनसादिष्वनध्यवसायो भवति । तत्र सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्वरूपवत्त्वादिशाखाद्यपेक्षोऽध्यवसायो भवति । पनसत्वमपि पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव केवलं तूपदेशाभावाद्विशेषसंज्ञाप्रतिपत्तिर्न भवति ।
अनुमानविषयेऽपि-नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को नु खल्वयं प्राणीस्यादित्यनध्यवसायो भवति ॥
(१७) स्वप्नप्रकरणम् ।
उपरतेन्द्रियग्रामस्य प्रलीनमनस्कस्येन्द्रियद्वारेणैव यदनुभवनं मानसं तत् स्वप्नज्ञानम् । कथम् ?
यदा बुद्धिपूर्वादात्मनः शरीरख्यापारादहनिखिन्नानां प्राणिनां निशि विश्रमार्थमाहारपरिणामार्थं वाऽदृष्टकारितप्रयत्नापेक्षादात्मान्तःकरणसम्बन्धान्मनसि क्रियाप्रबन्धादन्तर्हृदये निरिन्द्रिये आत्मप्रदेशे निश्चलं मनस्तिष्ठति तदा प्रलीनमनस्क इत्याख्यायते, प्रलीने च तस्मिन्नुपरतेन्द्रियग्रामो भवति, तस्यामवस्थायां प्रबन्धेन प्राणापानसन्तानप्रवृत्तावात्ममनःसंयोगविशेषात् स्वापाख्यात् संस्काराच्च्चेन्द्रियद्वारेणेवासत्सु विषयेषु प्रत्यक्षाकारं स्वप्नज्ञानमुत्पद्यते ।
तत्तु त्रिविधम् । संस्कारपाटवाद्धातुदोषाददृष्टाच्च ।
तत्र संस्कारपाटवात् तावत्- कामी क्रुद्धो वा यदा यमर्थमादृतश्चिन्तयन् स्वपिति तदा सैव चिन्तासन्ततिः प्रत्यक्षाकारा सञ्जायते ।
धातुदोषाद्वातप्रकृतिस्तद्दूषितो वा आकाशगमनादोन पश्यनि । पित्तदूषितो वाऽग्निप्रवेशकनकपर्वतादीन् पश्यति । श्लेष्मप्रकृतिः श्लेष्मदूषितो वा सरित्समुद्रप्रतरणहिमपर्वतादीन् पश्यति ।
यत्स्वयमनुभूतेष्वननुभूतेषु वा प्रसिद्धार्थेष्वप्रसिद्धार्र्थेषु वा यच्छुभावेदकं गजारोहणच्छत्रलाभादि तत्सर्वे संस्कारधर्माभ्यां भवति, विपरीतं च तैलाभ्यञ्जनखरोष्ट्रारोहणादि तत्सर्वमधर्मसस्काराभ्यां भवति । अत्यन्ताप्रसिद्धार्थेष्वष्टादेवेति । स्वप्नान्तिकं यद्यप्युपरतेन्द्रियग्रामस्य भवति, तथाप्यतीतस्य ज्ञानप्रबन्धस्य प्रत्यवेक्षणात् स्मतिरेवेति भवत्येषा चतुर्विधाऽविद्ध्येति ।।
प्रत्यक्षप्रकरणम्
[सम्पाद्यताम्] (१८) प्रत्यक्षप्रकरणम् ।
विद्यापि चतुर्विधा । प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा ।। तत्राक्षमक्षं प्रतीत्योत्पद्यते इति प्रत्यक्षम् | अक्षाणीन्द्रियाणि घाणरसनचक्षुस्त्वक्च्छ्रोत्रमनांसि षट् । तद्धि द्रव्यादिषु पदार्थेषूत्पद्यते । द्रव्ये तावद् त्रिविधे महत्यनेकद्रव्यवत्वोद्भूतरूपप्रकाशचतुष्टयसन्निकर्षाद् धर्मादिसामग्र्ये च स्वरूपालोचनमात्रम् ।
सामान्यविशेषद्रव्यगुणकर्मविशेषणापेक्षादात्ममनःसन्निकर्षात् प्रत्यक्षमुत्पद्यते सद् द्रव्यं पृथिवी विषाणी शुल्को गौर्गच्छतीति ।
रूपरसगन्धस्पर्र्शेष्वनेकद्रव्यसमवायात् स्वगतविशेषात् स्वाश्रयसन्नियतेन्द्रियनिमित्तमुत्पध्यते ।
शब्दस्य त्रयसन्निकर्षाच्छोत्रसमवेतस्य तेनैवोपलब्धिः। संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वस्नेहद्रवत्ववेगकर्मणां । प्रत्यक्षद्रव्यसमवायाचक्षु स्पर्शनाभ्यां ग्रहणम् । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नानां द्वयोरात्ममनसोः संयोगादुपलब्धिः। भाव- द्रव्यत्वगुणत्वकर्मत्वादीनामुपलभ्याधारसमवेतानामाश्रयग्राहकैरिन्द्रियैर्ग्रहणमित्येतदस्मदादीनां प्रत्यक्षम् ।
अस्मद्विशिष्टानां तु योगिनां युक्तानां योगजधर्मानुगृहीतेन- मनसास्वात्मान्तराकाशादिक्कालपरमाणुवायुमनस्सु तत्समवेतगुणकर्म सामान्यविशेषेषु समवाये चावितथं स्वरूपदर्शनमुत्पद्यते । वियुक्तानां पुनश्चतुष्टयसन्निकर्षाद्योगजधर्मानुग्रहसामर्थ्यात् सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते ।
तत्र सामान्यविशेषेषु स्वरूपालोचनमात्रं प्रत्यक्षं प्रमाण प्रमेया द्रव्यादयः पदार्थाः प्रमाताऽऽत्मा प्रमितिद्रव्यादिविषयं ज्ञानम् सामान्यविशेषज्ञानोत्पत्तावविभक्तमालोचनमात्रं प्रत्यक्षं प्रमाणम् अस्मिन्नान्यत्प्रमाणान्तरमस्ति अफलरूपत्वात्।
अथवा सर्वेषु पदार्थेषु चतुष्टयसन्निकर्षादवितथमव्यपदेश्यं यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षं प्रमाणं, प्रमेया द्रव्यादयः पदार्थाः, प्रमाताऽऽत्मा, प्रमितिगुणदोषमाध्यस्थ्यदर्शनमिति ।।
अनुमानप्रकरणम्
[सम्पाद्यताम्] (१९) अनुमानप्रकरणम् ।
लिङ्गदर्शनात् सञ्जायमानं लैङ्गिकम् । लिङ्गं पुनः-
यदनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते ।
तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ।
विपरीतमतो यत् स्यादेकेन द्वितयेन वा।
विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ।।
यदनुमेयेनार्थेन देशविशेषे कालविशेषे वा सहचरितमनुमेयधर्मान्विते चान्यत्र सर्वस्मिन्नेकदेशे वा प्रसिद्धमनुमेयविपरीते च सर्वस्मिन् प्रमाणतोऽसदेव तदप्रसिद्धार्थस्यानुमापकं लिङ्गं भवतीति ।।
यत्तु यथोक्तात् त्रिरूपाल्लिङ्गादेकेन धर्मेण द्वाभ्यां वा विपरीतं तदनुमेयस्याधिगमे लिङ्गं न भवतीत्येतदेवाह सूत्रकारः-"अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चेति ”॥
विधिस्तु यत्र धूमस्तत्राग्निरग्न्यभावे धूमोऽपि न भवतीति । एवं प्रसिद्धसमयस्यासन्दिग्धधूमदर्शनात् साहचर्यानुस्मरणात् तदनन्तरमग्न्यध्यवसायो भवतीति ।
एवं सर्वत्र देशकालाविनाभूतमितरस्य लिङ्गम् । शास्त्रे कार्यादिग्रहणं निदर्शनार्थं कृतं नावधारणार्थम् । कस्मात्? व्यतिरेकदर्शनात् । तद्यथा अध्वर्युरोंश्रावयन् व्यवहितस्य हेतुर्लिङ्गम् , चन्द्रोदयः समुद्रवृद्धेः कुमुदविकाशस्य च शरदि जलप्रसादोऽगस्त्योदयस्येति । एवमादि तत्सर्वमस्येदमिति सम्बन्धमात्रवचनात् सिद्धम्।
तत्तु द्विविधम् - दृष्टं सामान्यतो दृष्टं च ।
तत्र दृष्टं प्रसिद्धसाध्ययोरत्यन्तजात्यभेदेऽनुमानम् । यथा गव्येव सास्नामात्रमुपलभ्य देशान्तरेऽपि सास्नामात्रदर्शनाद्गवि प्रतिपत्तिः ।
प्रसिद्धसाध्ययोरत्यन्तजातिभेदे लिंगानुमेयधर्मसामान्यानुवृत्तितोऽनुमानं सामान्यतो दृष्टम्। यथा कर्षकवणिग्राजपुरुषाणां च प्रवृत्तेः फलवत्वमुपलभ्य वर्णाश्रमिणामपि दृष्टं प्रयोजनमनुदिश्य प्रवर्तमानानां फलानुमानमिति।
तत्र लिंगदर्शनं प्रमाणं प्रमितिरग्निज्ञानम् ।
अथवाऽग्निज्ञानमेव प्रमाणं प्रमितिरग्नौ गुणदोषमाध्यस्थ्यदर्शनमित्येतत् स्वनिश्चितार्थमनुमानम्॥
शब्दादीनामप्यनुमानेऽन्तर्भावः समानविधित्वात् । यथा प्रसिद्धसमयस्यासन्दिग्धलिंगदर्शनप्रसिद्धयनुस्मरणाभ्यामतीन्द्रियेऽर्थे भवत्यनुमानमेवं शब्दादिभ्योऽपीति।
श्रुतिस्मृतिलक्षणोऽप्याम्नायो वक्तृप्रामाण्यापेक्षः, तद्वचनादाम्नायप्रामाण्यम् । लिंगाच्चानित्योबुद्धिपूर्वा वाक्यप्रकृतिर्वेदे, बुद्धिपूर्वो ददातिरित्युक्तत्वात् ।।
प्रसिद्धाभिनयस्य चेष्टया प्रतिपत्तिदर्शनात् तदप्यनुमानमेव।।
आप्तेनाप्रसिद्धस्य गवयस्य गवा गवयप्रतिपादनादुपमानमाप्तवचनमेव ।। दर्शनार्थादर्थापत्तिर्विरोध्येव श्रवणादनुमितानुमानम् ।
सम्भवोऽप्यविनाभावित्वादनुमानमेव ।।
अभावोऽप्यनुमानमेव | यथोत्पन्न कार्यं कारणसद्भावे लिङ्गम् । एवमनुत्पन्नं कार्यं कारणासद्भावे लङ्गम्।। तथैवैतिह्यमप्यवितथमाप्तोपदेश एवेति ॥
पञ्चावयवेन वाक्येन स्वनिश्चितार्थप्रतिपादनं परार्थानुमानम् । पञ्चावयवेनैव वाक्येन संशयितविपर्यस्ताव्युत्पन्नानां परेषां स्वनिश्चितार्थप्रतिपादनं परार्थानुमानं विज्ञेयम् ।।
(२०) अवयवप्रकरणम् ।
अवयवाः पुनः प्रतिज्ञापदेशनिदर्शनानुसन्धानप्रत्याम्नाया:। तत्रानुमेयोद्देशोऽविरोधी प्रतिज्ञा । प्रतिपिपादयिषितधर्मविशिष्टस्य धर्मिणोऽपदेशविषयमापादयितुमुद्देशमात्रं प्रतिज्ञा । यथा द्रव्यं वायुरिति ।
अविरोधिग्रहणात् प्रत्यक्षानुमानाभ्युपगतस्वशास्त्रस्ववचनविरोधिनो निरस्ता भवन्ति । यथाऽनुष्णोऽग्निरिति प्रत्यक्षविरोधो, घनमम्बरमित्यनुमानविरोधी, ब्राह्मणेन सुरा पेयेत्यागमविरोधी वैशेषिकस्य सत्कार्यमिति ब्रुवतः स्वशास्त्रविरोधी, न शब्दोऽर्थप्रत्यायक इति स्ववचनविरोधी।।
अपदेशप्रकरणम्
[सम्पाद्यताम्] (२१) अपदेशप्रकरणम् ।
लिङ्गवचनमपदेशः । यदनुमेयेन सहचरितं तत्समानजातीये सर्वत्र सामान्येन प्रसिद्ध तद्विपरीते च सर्वस्मिन्नसदेव तल्लिङ्गमुक्तं, तस्य वचनमपदेशः ।
यथा क्रियावत्त्वाद्गुणवत्त्वाच्च तथा च तदनुमेयेऽस्ति तत्समानजातीये च सर्वस्मिन् गुणवत्त्वमसर्वस्मिन् क्रियावत्त्वम् । उभयमप्येतदद्रव्ये नास्त्येव तस्मात् तस्य वचनमपदेश इति सिद्धम् ।
(२२) हेत्वाभासप्रकरणम् । एतेनासिद्धविरुद्धसन्दिग्धानध्यवसितवचनानामनपदेशतत्वमुक्तम्भवति।
तत्रासिद्धश्चतुर्विधः - उभयासिद्धोऽन्यतरासिद्धः तद्भावासिद्धोऽनुमेयासिद्धश्चेति ।
तत्रोभयासिद्धः - उभयोर्वादिप्रतिवादिनोरसिद्धः यथाऽनित्यः शब्दः सावयवत्वादिति । अन्यतरासिद्धः- यथाऽनित्यः शब्दः कार्यत्वादिति । तद्भावासिद्धो - यथा धूमभावेनाग्न्यधिगतौ कर्तव्यायामुपन्यस्यमानो बाष्पो धूमभावेनासिद्ध इति । अनुमेयासिद्धो-यथा पार्थिवं द्रव्यं तमः कृष्णरूपवत्वादिति ।
यो ह्यनुमेयेऽविद्यमानोऽपि तत्समानजातीये सर्वस्मिन्नास्ति तद्विपरीते चास्ति स विपरीतसाधनाद्विरुद्धः यथा यस्माद्विषाणी तस्मादश्व इति।
यस्तु सन्ननुमेये तत्समानासमानजातीययोः साधारणः सन्नेव स सन्देह जनकत्वात् सन्दिग्धः यथा यस्मद्वि- षाणी तस्माद्गौरिति । एकस्मिंश्च द्वयोर्हेत्वोर्यथोक्तलक्षणयोर्विरुद्धयोः सन्निपाते सति संशयदर्शनादयमन्यः सन्दिग्ध इति केचित् । यथा मूर्तत्वामूर्तत्वं प्रति मनसः क्रियावत्वास्पर्शवत्वयोरिति । नन्वयमसाधारण एवाचाक्षुषत्वप्रत्यक्षत्ववत् संहतयोरन्यतरपक्षासम्भवात् ततश्चानध्यवसित इति वक्ष्यामः ।
ननु शास्त्रे तत्रतत्रोभयथा दर्शनं संशयकारणमपदिश्यत इति । न, संशयो विषयद्वैतदर्शनात्। संशयोत्पत्तौ विषयद्वैतदर्शनं कारणम् तुल्यबलत्वे च तयोः परस्परविरोधान्निर्णयानुत्पादकत्वं स्यान्न तु संशयहेतुत्वम् । न च तयोस्तुल्यबलवत्त्वमस्ति अन्वतरस्यानुमेयोद्देशस्यागमबाधितत्वादयं तु विरुद्धभेद एव ।
यश्चानुमेये विद्यमानस्तत्समानासमानजातीययोरसन्नेव सोऽन्यतरासिद्धोऽनध्यवसायहेतुत्वादनध्यवसितः यथा सत्कार्यंमुत्पत्तेरिति । अयमप्रसिद्धोऽनपदेश इति वचनादविरुद्धः । ननु चायं विशेषः संशयहेतुरभिहितः शास्त्रे तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्योभयथा दृष्टत्वादिति, नान्यार्थत्वात् । शब्दे विशेषदर्शनात् संशयानुत्पत्तिरित्युक्ते, नायं द्रव्यादीनामन्यतमस्य विशेषः स्याच्छ्रावणत्वं किन्तु सामान्यमेव सम्पद्यते । कस्मात् ? तुल्यजातीयेस्वर्थान्तरेभूतेषु द्रव्यादिभेदानामेकैकशो विशेषस्योभयथा दृष्टत्वादित्युक्तं न संशयकारणम् , अन्यथा षट्स्वपि पदार्थेषु संशयप्रसङ्गात् तस्मात् सामान्यप्रत्ययादेव संशय इति ॥
(२३) निदर्शनप्रकरणम् ।
द्विविधं निदर्शनं साधर्म्येण वैधर्म्येण च । तत्रानुमेयसामान्येन लिङ्गमान्यस्यानुविधानदर्शनं साधर्म्यनिदर्शनम् । तद्यथा यत् क्रियावत् तद् द्रव्यं दृष्टं यथा शर इति । अनुमेयविपर्यये च लिङ्गस्याभावादर्शनं वैधर्म्यनिदर्शनम् । तद्यथा यदद्रव्यं तत् क्रियावन्न भवति यथा सत्तेति ।।
(२४ ) निदर्शनाभासप्रकरणम् ।
अनेन निदर्शनाभासा निरस्ता भवन्ति । तद्यथा नित्यः शब्दोऽमूर्तत्वात् यदमूर्तं दृष्टं तन्नित्यम् यथा परमाणुर्यथा कर्म यथा स्थाली यथा तमः अम्बरवदिति यद् द्रव्यं तत् क्रियावदृष्टमिति च लिङ्गानुमेयोभयाश्रयासिद्धाननुगतविपरीतानुगताः साधर्म्यनिदर्शनाभासा:।
यदनित्यं तन्मूर्तं दृष्टम् यथा कर्म यथा परमाणुर्यथाऽऽकाशं यथा तमः घटवत् यन्निष्क्रियं तदद्रव्यञ्चेति लिङ्गानुमेयोभयाव्यावृत्ताश्रयासिद्धाव्यावृत्तविपरीतव्यावृत्ता वैधर्म्यनिदर्शनाभासा इति ।
(२५) अनुसन्धानप्रकरणम् ।
निदर्शनेऽनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्यस्यानुमेयेऽन्वानयनमनुसन्धानम् । अनुमेयधर्ममात्रत्वेनाभिहितं लिङ्गसामान्यमनुपलब्धशक्तिकं निदर्शने साध्यधर्मसामान्येन सह दृष्टमनुमेये येन वचनेनानुसन्धीयते तदनुसन्धानम् । तथा च वायुः क्रियावानिति । अनुमेयाभावे च तस्यासत्त्वमुपलभ्य न च तथा वायुर्निष्क्रिय इति ।
(२६) प्रत्याम्नायप्रकरणम् ।
अनुमेयत्वेनोद्दिष्टे चानिश्चिते च परेषां निश्चयापादनार्थं प्रतिज्ञायाः पुनर्वचनं प्रत्याम्नाय: । प्रतिपाद्यत्वेनोद्दिष्टे चानिश्चिते च परेषां हेत्वादिभिरवयवैराहितशक्तीना परिसमाप्तेन वाक्येन निश्चयापादनार्थं प्रतिज्ञायाः पुनर्ववचनं प्रत्याम्नायः । तस्माद्द्रव्यमेवेति । न ह्येतस्मिन्नसति परेषामवयवानां समस्तानां व्यस्तानां वा तदर्थवाचकत्वमस्ति। गम्यमानार्थत्वादिति चेन्न अतिप्रसङ्गात् । तथाहि प्रतिज्ञानन्तरं हेतुमात्राभिधानं कर्तव्यम् विदुषामन्वयव्यतिरेकरस्मरणात् तदर्थावगतिर्भविष्यतोति तस्मादत्रैवार्थ परिसमाप्तिः ।
कथम् ? अनित्यःशब्दःइत्यनेनानिश्चितानित्यत्वमात्रविशिष्टः शब्दः कथ्यते प्रयत्नानन्तरीयकत्वादित्यनेनानित्यत्वसाधनधर्ममात्रमभिधीयते । इह यत् प्रयत्नन्तरीयकं तदनित्यं दृष्टम् यथा घट इत्यनेन साध्यसामान्येन साधनसामान्यस्यानुगममात्रमुच्यते । नित्यमप्रयत्नानन्तरीयकं दृष्टम् यथाऽऽकाशमित्यनेन साध्याभावेन साधनस्यासत्त्वं प्रदर्श्यते । तथा च प्रयत्नानन्तरीयकः शब्दो न च तथाऽऽकाशवदप्रयत्नानन्तरीयकः शब्द इत्यन्वयव्यतिरेकाभ्यां दृष्टसामर्थ्यस्य साधनसामान्यस्य शब्देऽनुसन्धानं गम्यते । तस्मादनित्यः शब्द इत्यनेनानित्य एव शब्द इति प्रतिपिपादयिषिताऽथपरिसमाप्तिर्गम्यते । तस्मात् पञ्चावयवेनैव वाक्येन परेषां स्वनिश्चितार्थप्रतिपादनं क्रियते इत्येतत्परार्थानुमानं सिद्धमिति ।।
(२७) निर्णयस्य मानान्तरत्वखण्डनम् ।
विशेषदर्शनजमवधारणज्ञानं संशयविरोधी निर्णयः। एतदेव प्रत्यक्षमनुमानं वा। यद् विशेषदर्शनात् संशविरोध्युत्पद्यते स प्रत्यक्षनिर्णयः । यथा स्थाणुपुरषयोरूर्ध्वतामात्र सादृश्यालोचनाद्विशेषेष्वप्रत्यक्षेषूभयविशेपानम्मरणात् किमयं स्थाणुः पुरुषो वेति संशयोत्पत्तौ शिरःपाण्याददर्शनात् पुरुष एवायमित्यवधारणज्ञानं प्रत्यक्षनिर्णयः । विषाणमात्रदर्शनाद् गौर्गवयो वेति संशयोपत्तौ सास्नामात्रदर्शनाद् गौरे गवयमित्यवधारणज्ञानमनुमाननिर्णय इति ।।
(२८) स्मृतिप्रकरणम् ।
लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोगविशेषात् पट्वभ्यासादरप्रत्ययजनिताश्च संस्काराद् दृष्टश्रृतानुभूतेष्वर्थेषु शेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुरतीतविषया स्मृतिरिति।।
(२९) आर्षज्ञानप्रकरणम् ।
आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियाद्यर्थेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगाद् धर्मविशेष च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदामित्याचक्षते । तत्तु प्रस्तारेण देवर्षीणाम् । काचिदेव लौकिकानां यथा कन्यका ब्रवीति श्वो मे भ्राताऽऽगन्तेति हृदयं मे कथयतीति ।।
(३०) सिद्धदर्शनान्तर्भावप्रकरणम् ।
सिद्धदर्शन न ज्ञानान्तरम् । कस्मात् ? प्रयत्नपूर्वकमञ्जनपादलेपखड्गगुलिकादिसिद्धानां दृश्यद्रष्टृणां सूक्ष्मव्यवहितविप्रकृष्टेष्वर्थेषु यद्दर्शनं तत्प्रत्यक्षमेव । अथ दिव्यान्तरिक्षभौमानां प्राणिनां ग्रहनक्षत्रसञ्चारादिनिमित्तं धर्माधर्म विपाकदर्शनमिष्टम् तदप्यनुमानमेव । अथ लिङ्गानपेक्षं धर्मादिषु दर्शनमिष्टं तदपि प्रत्यक्षार्र्षयोरन्यतरस्मिन्नन्तभूतमित्येवं बुद्धिरिति ।।
(३१) सुखप्रकरणम् ।
अनुग्रहलक्षणं सुखम् । स्रगाद्यभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगादनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत् सुखम् । अतीतेषु विषयेषु स्मृतिजम् । अनागतेषु सङ्कल्पजम् । यत्तु विदुषामसत्सु विषयानुस्मरणेच्छासङ्कल्पेष्वाविर्भवति तद्विद्याशमसन्तोषधर्मविशेषनिमित्तमिति ।।
(३२) दुःखप्रकरणम् ।
उपघातलक्षणं दुःखम् । विषाद्यनभिप्रेतविषयसान्निध्ये सत्यनिष्टोपलब्धीन्द्रियार्थसन्निकर्षादधर्माद्यपेक्षादात्ममनसोः संयोगाद्यदमर्षापघातदैन्यनिमित्तमुत्पद्यते तद् दुःखम् । अतीतेषु सर्पव्याघ्रचौरादिषस्मृतिजम्। अनागतेषुसङ्कल्पजमिति ।
(३३) इच्छाप्रकरणम् ।
स्वार्थं परार्थं वाऽप्राप्तप्रार्थनेच्छा। सा चात्ममनसोः संयोगात् सुखाद्यपेक्षात् स्मृत्यपेक्षाद्वोत्पद्यते । प्रयत्नस्मृतिधर्माधर्महेतुः । कामोऽभिलाषः रागः सङ्कल्पः कारुण्यं वैराग्यम् उपधा भाव इत्येवमादय इच्छाभेदाः।
मैथुनेच्छा कामः । अभ्यवहारेच्छाऽभिलाषः । पुनः पुनर्विषयानुरञ्जनेच्छा रागः । अनासन्नक्रियेच्छा सङ्कल्पः । स्वार्थमनपेक्ष्य परदुःखप्रहाणेच्छा कारुण्यम् । दोषदर्शनाद्विषयत्यागेच्छा वैराग्यम् । परवञ्चनेच्छा उपधा । अन्तर्निगूढेच्छा भावः । चिकीर्षाजिहीत्यादिक्रियाभेदादिच्छाभेदा भवन्ति ।
(३४ ) द्वेषप्रकरणम् ।
प्रज्वलनात्मको द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते स द्वेषः । स चात्ममनसोः संयोगाद् दुःखापेक्षात् स्मृत्यपेक्षाद्वोत्पद्यते । प्रयत्नस्मृतिधर्माः धर्महेतुः । क्रोधो द्रोहः मन्युरक्षमाऽमर्ष इति द्वेषभेदाः ॥
(३५) प्रयत्नप्रकरणम् ।
प्रयत्नः संरम्भ उत्साह इति पर्यायाः। स द्विविधो-जीवनपूर्वकः इच्छा द्वेषपूर्वकश्च । तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसन्तानप्रेरकः प्रबोधकाले चान्तःकरणस्येन्द्रियान्तरप्राप्तिहेतुः । अस्य जीवनपूर्वकस्यात्ममनसोः संयोगाद्धर्माधर्मपेक्षादुत्पत्तिः । इतरस्तु हिताहितप्राप्तिपरिहारसमर्थस्य व्यापारस्य हेतुः शरीरविधारकश्च । स चात्ममनसोः संयोगादिच्छापेक्षाद् द्वेषापेक्षाद्वोत्पद्यते ।।
(३६) गुरुत्वप्रकरणम् ।
गुरुत्वं जलभूम्योः पतनकर्मकारणम् । अप्रत्यक्षं पतनकर्मानुमेयं संयोगप्रयत्नसंस्कारविरोधि । अस्य चाबादिपरमाणरूपादिवन्नित्यानित्यत्वनिष्पत्तयः ।।
(३७) द्रवत्वप्रकरणम् ।
द्रवत्वं स्यन्दनकर्मकारणम् । त्रिद्रव्यवृत्ति । तत्तु द्विविधम्-सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकमपां विशेषगुणः । नैमित्तिकं पृथिवीतेजसोः सामान्यगुणः सांसिद्धिकस्य गुरुत्वन्नित्यानित्यत्वनिष्पत्तयः। सङ्घातदर्शनात् सांसिद्धिकभयुक्तमिति चेन्न दिव्येन तेजसा संयुक्तानामाप्यानां परमाणूनां परस्परं संयोगो द्रव्यारम्भकः सङ्घताख्यः तेन परमाणुद्रवत्वप्रतिबन्धात् कार्य हिमकरकादौ द्रवत्वानुत्पत्तिः ।
नैमित्तिकं च पृथिवीतेजसोरग्निसंयोगजम् । कथम् ? सर्पिर्जतुमधूच्छिष्टादीनां कारणेषु परमाणुष्वग्निसंयोगाद्वेगापेक्षात् कर्मोत्पत्तौ तज्जेभ्यो विभागेभ्यो द्रव्यारम्भकसंयोगविनाशात् कार्यद्रव्यनिवृत्तावग्निसंयोगादौष्ण्यापेक्षात् स्वतन्त्रेषु परमाणुषु द्रव्यत्वमुत्पद्यते ततस्तेषु भोगिनामदृष्टापेक्षयात्माणसंयोगात् कर्मोत्पत्तौ तज्जेभ्यः संयोगेभ्यो द्वयणुकादिप्रक्रमेण कार्यद्रव्यमुत्पाद्यते तस्मिंश्च रूपाद्युत्पत्तिमकालं कारणगुणप्रक्रमेण द्रवत्वमुत्पद्यत इति ।।
(३५) स्नेहप्रकरणम्
स्नेहोऽपां विशेषगुणः । संग्रहमृजादिहेतुः । अस्यापि गुरुत्ववन्नित्यानित्यत्वनिष्पत्तयः ।।
(३६) संस्कारप्रकरणम् ।
संस्कारस्त्रिविधो वेगो भावना स्थितिस्थापकश्च तत्र वेगो मूर्तिमत्सु पञ्चसु द्रव्येषु निमित्तविशेषापेक्षात् कर्मणो जायते नियतदिक्क्रियाप्रबन्धहेतुः स्पर्शवद्रव्यसंयोगविशेषविरोधी क्वचित्कारणगुणपूर्वक्रमेणोत्पद्यते ।
भावनांसंज्ञकस्त्वात्मगुणो दुष्टश्रुतानुभूतेष्वर्थषु स्मृतिप्रत्यभिज्ञानहेतुर्भवति ज्ञानमददुःखादिविरोधी । पट्वभ्यासादरप्रत्ययजः पटुप्रत्ययापेक्षात्ममनसोः संयोगादाश्चयेऽर्थे पटुः संस्कारातिशयो जायते । यथा दाक्षिणात्यस्योष्ट्र दर्शनादिति ।
विद्याशिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थं पूर्वपूर्वसंस्कारमपेक्षमाणादुत्तरोत्तरस्मात् प्रत्ययादात्ममनसोः संयोगात् संस्कारातिशयो जायते । प्रयत्नेन मनश्चक्षुपि स्थापयित्वाऽपूर्वमर्थं दिदृक्षमाणस्य विद्युत्सम्पातदर्शनवदादरप्रत्ययः तमपेक्षमाणादात्ममनसोः संयोगात् संस्कारातिशयो जायते यथा देवह्रदे राजतसौवर्णपद्मदर्शनादिति ।
स्थितिस्थापकस्तु स्पर्शवद्रव्येषु वर्तमानो वनावयवसन्निवेशविशिष्टेषु कालान्तरावस्यायिषु स्वाश्रयमन्यथाकृतं यथावस्थितं स्थापयति । स्थावरजङ्गमविकारेषु धनुःशाखा श्रृङ्गदन्तास्थिसूत्रवस्त्रादिषु भुग्नसंवर्तितेषु स्थितिस्थापकस्य कार्यंसंलक्ष्यते। नित्यानित्यत्व निष्पत्तयाऽस्यापि गरुत्ववत्।।
( ३९ ) धर्मलक्षणम् ।
धर्मः पुरुषगुणः। कर्तुः प्रियहितमोक्षहेतुः अतीन्द्रियोऽन्त्यसुखसंविज्ञानविरोधी पुरुषान्तःकरणसंयोगविशुद्धाभिसन्धिजः वर्णाश्रमिणां प्रतिनियतसाधनसनिमित्तः। तस्य तु साधनानि श्रुतिम्मृतिविहितानि वर्णाश्रमिणां सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणि ।
तत्र सामान्यानि-धर्मे श्रद्धा अहिंसा भूतहितत्वं सत्यवचनमस्तेयं ब्रह्मचर्यमनुपधा क्रोधवर्जनमभिषेचनं शुचिद्रव्यसेवनं विशिष्टदेवताभक्तिरुपवासोऽप्रमादश्च ।
ब्रह्माणक्षत्रिय वैश्यानामिज्याध्ययनदानानि । ब्रह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश्च संस्काराः । क्षत्रियस्य सम्यक्प्रजापालनमसाधुनि ग्रहो युद्वेष्वनिवर्तनं स्वकीयाश्च संस्काराः।
वैश्यस्य क्रयविक्रयकृषि पशुपालनानि स्वकीयाश्च संस्काराः । शूद्रस्य पूर्ववर्णपारतन्त्र्यममन्त्रिकाश्च क्रियाः । आश्रमिणां तु ब्रह्मचारिणो गुरुकुलनिवासिनः स्वशास्त्रविहितानि गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि मधुमांसदिवास्वप्नाञ्जनाभ्यञ्जनादिवर्जन च । विद्याव्रतस्नातकस्य कृतदारस्य गृहस्थस्य शालीनयायावरवृत्त्युपार्जितैर्थैर्भूतमनुष्यदेवपितृब्रह्माख्यानां पञ्चानां महायज्ञानां सायम्प्रातरनुष्ठानम् एकाग्निविधानेन पाकयज्ञसंस्थानां च नित्यानां शक्तौ विद्यमानायामग्न्याधेयादीनां च हविर्यज्ञसंस्थानामग्निष्टोमादीनां सोमयज्ञसंस्थानां च।
ऋृत्वन्तरेण ब्रह्मचर्यमपत्योत्पादनं च । ब्रह्मचारिणो गृहस्थस्य वा ग्रामान्निर्गतस्य वनवासो वल्कलाजिनकेशश्मश्रनखरोमधारणं च । वन्यहुतातिथिशेषभोजनानि वानप्रस्थस्य । त्रयाणामन्यतमस्य श्रद्धावतः सर्वभूतेभ्योनित्याभयं दत्त्वा संन्यस्य स्वानि कर्माणि यमनियमेष्वप्रमत्तस्य षट् पदार्थप्रसंख्यानाद्योगप्रसाधनं प्रव्रजितस्येति । दृढं च प्रयोजनमनुद्दिश्यतानि साधनानि भावप्रसादं चापेक्ष्यात्ममनसोः संयोगाद्धर्मोत्पत्तिरिति ।
(४०) अधर्मप्रकरणम् ।
अधर्मोऽप्यात्मगुणः। कर्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी । तस्य तु साधनानि शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसा अतस्तेयादीनि विहिताकरणं प्रमादश्चैतानि दुष्टाभिसन्धिं चापेक्ष्यात्ममनसोःसंयोगादधर्मस्योत्पत्तिः ।
(४१)(प्रासङ्गिकं) संसारापवर्गप्रकरणम् ।
अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मात् प्रकृष्टात् स्वल्पाधर्मसहितात् ब्रह्मेन्द्रप्रजापतिपितृमनुष्यलोकेष्वाशयानुरूपैरिष्टशरोरेन्द्रियविषयसुखादिभिर्योगा भवति । तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात् प्रततिर्यग्योनिस्थानेश्ष्वनिष्टशरीरेन्द्रियविषयदुःखादिभिर्योगो भवति । एवं प्रवृत्तिलक्षणाद्वादधर्मसहिताद्देवमनुष्यतिर्यङनारकेपु पुनः पुनः संसारबन्धो भवति ।
ज्ञानपूर्वकात्तु कृतादसङ्कल्पितफलाद्विशुद्धे कुले जातस्य दुःखविगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्न षट्पदार्थतत्त्वज्ञानस्याज्ञाननिवृत्तौ विरक्तस्य रागद्वेषाद्यभावात् तज्जयोर्धर्माधर्मयोरनुत्पत्तौ पूर्वसञ्चितयोश्चोपभोगान्निरोधे सन्तोषसुखं शरीरपरिच्छेदं चोत्पाद्य रागादिनिवृत्तौ निवृत्तिलक्षणः केवलो धर्मः परमार्थदर्शनजं सुखं कृत्वा निवर्तते । तदा निरोधात् निर्बीजस्यात्मनः शरीरादिनावृत्तिः पुनः शरोराद्यनुत्पत्तौ दग्धेन्धनानलवदुपशमो मोक्ष इति ।।
शब्दप्रकरणम् ।
[सम्पाद्यताम्]
(४२) शब्दप्रकरणम् ।
शब्दोऽम्बरगुणः श्रोत्रग्राह्यः क्षणिकः कार्यकारणोभयविरोधो संयोगविभागशब्दजः प्रदेशवृत्तिः समानासमानजातीयकारणः । स द्विविधो-वर्णलक्षणो ध्वनिलक्षणश्च । तत्र अकारादिर्वर्णलक्षणः शङ्खादिनिमित्तो ध्वनिलक्षणश्च । तत्र वर्णलक्षणस्योत्पत्तिः-आत्ममनसोः संयोगात् स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा तदनन्तरं प्रयत्नस्तमपेक्षमाणादात्मवायुसंयोगाद्वायौ कर्म जायते स चोर्ध्वं गच्छन् कण्ठादीनभिहन्ति तत: स्थानवायुसंयोगापेक्षमाणात् स्थानाकाशसंयोगात् वर्णोत्पत्तिः । अवर्णलक्षणोऽपि भेरादण्डसंयोगापेक्षाद्भेर्या- काशसंयोगादुत्पद्यते । वेणुपर्वविभागाद् वेण्वाकाविभागाच्च शब्दाच्च संयोग विभागनिष्पन्नाद्वीचीसन्तानवच्छब्दसन्तान इत्येवं सन्तानेन श्रोत्रप्रदेशमागतस्य ग्रहण, नास्ति, परिशेषात् सन्तानसिद्धिरिति । इति प्रशस्तपादभाष्ये गुणपदार्थः समाप्तः ॥
कर्मपदार्थनिरूपणम्
[सम्पाद्यताम्]
अथ कर्मपदार्थनिरूपणम्
(१) उत्क्षेपणादिकर्मप्रकरणम् ।
उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसम्बन्धः । एकद्रव्यवत्त्वं क्षणिकत्वं मूर्तद्रव्यवृत्तित्वम् अगुणवत्वं गुरुत्वद्रवत्वप्रयत्नसंयोगजत्वं स्वकार्यसंयोगविरोधित्वं संयोगविभागनिरपेक्षकारणत्वम् असमवायिकारणत्वं स्वपराश्रयसमवेतकार्यारम्भकत्वं समानजातीयानारम्भकत्वं द्रव्यानारम्भकत्वं च प्रतिनियतजातियोगित्वम् । दिग्विशिष्टकार्यारम्भकत्वं च विशेषः ।।
तत्रोत्क्षेपणं शरीरावयवेषु तत्सम्बद्धेषु च यदूर्ध्वभाग्भिः प्रदेशैः संयोगकारणमधोभाग्भिश्च प्रदेशैः विभागकारणं कर्मोत्पद्यते गुरुत्वप्रयत्नसंयोगेभ्यस्तदुत्क्षेपणम् ।
तद्विपरीतसंयोगविभागकारणं कर्मापक्षेपणम् ।
ऋजुनो द्रव्यस्याग्रावयवानां तद्देशैर्विभागः संयोगश्च मूलप्रदेशैर्येन कर्मणावयवी कुटिलः संजायते तदाकुश्वनम् ।।
तद्विपर्ययेण संयोगविभागोत्पत्तौ येन कर्मणावयवी ऋजुः सम्पद्यते तत्प्रसारणम् ।
यदनियतदिक्प्रदेशसंयोगविभागकारणं तद् गमनमिति ।।
(२) गमनप्रकरणम् ।
एतत्पञ्चविधमपि कर्म शरीरावयवेषु तत्सम्बद्धेषु च । सत्प्रत्ययमसत्प्रत्ययं च यदन्यत्तदप्रत्ययमेव तेष्वन्येषु च तद् गमनमिति ।
कर्मणां जातिपञ्चकत्वमयुक्तं गमनाविशेषात् । सर्वं हि क्षणिकं कर्म गमनमात्रमुत्पन्नं स्वाश्रयस्योर्ध्व मधस्तिर्यग्वाप्यणुमात्रैः प्रदेशैः संयोगविभागान् करोति सर्वत्र गमनप्रत्ययोऽविशिष्टस्तस्माद् गमनमेव सर्वमिति । न वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् - इहोत्क्षेपणं परत्रापक्षेपणमित्येवमादि सर्वत्र
वर्गशः प्रत्ययानुवृत्तिव्यावृत्ती दृष्ट तद्धेतुः सामान्यविशेषभेदोऽवगम्यते । तेषामुदाद्यपसर्गविशेषात् प्रतिनियतदिग्विशिष्टकार्यारम्भत्वादुपलक्षणभेदोऽपि सिद्ध ।
एवमपि पञ्चैवेत्यवधारणानुपपत्तिः । निष्क्रमणप्रवेशनादिष्वपि वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनात् । यद्यत्क्षेपणादिषु सर्वत्र वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिदर्शनाजातिभेद इष्यते एवञ्च निष्क्रमणप्रवेशनादिष्वपि । कार्यभेदात्तेषु प्रत्ययानुवृत्तिव्यावृत्ती इति चेत् न उत्क्षेपणादिष्वपि कार्यभेदादेव प्रत्ययानुवृत्तिव्यावृत्तिप्रसङ्गः । अथ समाने वर्गशः प्रत्ययानुवृत्तिव्यावृत्तिसद्भावे उत्क्षेपणादीनामेव जातिभेदो न निष्क्रमणादीनामित्यत्र विशेषहेतुरस्तीति न, जातिसङ्करप्रसङ्गात् । निष्क्रमणादीनां जातिभेदात् प्रत्ययानुवृत्तिव्यावृत्तौ जातिसङ्करः प्रसज्यते ।
कथम् ? द्वयोर्द्रष्ट्रोरेकस्मादपवरकादपवरकान्तरं गच्छतो युगपन्निष्क्रमणप्रवेशनप्रत्ययौ दृष्टौ तथा द्वारप्रदेशे प्रविशति निष्क्रामतीति च । यदा तु प्रतिसीराद्यपनीतं भवति तदा न प्रवेशनप्रत्ययो नापि निष्क्रमणप्रत्ययः किन्तु गमनप्रत्ययः एव भवति । तथा नोलिकायां वंशपत्रादौ पतति बहूनां द्रष्टृणां युगपद्भ्रमणपतनप्रवेशनप्रत्यया दृष्टा इति जातिसङ्करप्रसङ्गः । न चैवमुत्क्षेपणादिषु प्रत्ययसङ्करो दृष्टः तस्मादुत्क्षेपणादोनामेव जातिभेदात् प्रत्ययानुवृत्तिर्व्यावृत्ती निष्क्रमणादीनां तु कार्यभेदादिति ।
कथं युगपत्प्रत्ययभेद इति चेत्, अथ मतम् –“यथा जाति सङ्करो नास्ति एवमनेककर्मसमावेशोऽपि नास्तीत्येकस्मिन् कर्मणि युगपद् द्र्ष्टृणां भ्रमणपतन प्रवेशनप्रत्ययाः कथं भवन्तीति” | अत्र ब्रूमः-न अवयवावयविनोर्दिंगविशिष्टसंयोगविभागानां भेदात् ।
यो हि द्रष्टा अवयवानां पार्श्वतः पर्यायेण दिक्प्रदेशैः संयोगविभागान् पश्यति तस्य भ्रमणप्रत्ययो भवति यो ह्यवयविन ऊर्ध्वप्रदेशैविभागमधःसंयोगं चावेक्षते तस्य पतनप्रत्ययो भवति । यः पुनर्नालिकान्तर्देशे संयोगं बहिर्दशे च विभागं पश्यति तस्य प्रवेशनप्रत्ययो भवतीति सिद्धः कार्यभेदानिष्क्रमणादीनां प्रत्ययभेद इति । भवतूत्क्षेपणादीना जातिभेदात् प्रत्ययभेदः निष्क्रमणादीनां तु कार्यभेदादिति।
अथ गमनत्वं किं कर्मत्वपर्यायः आहोस्विदपर सामान्यमिति | कुतस्ते संशयः ? समस्तेषूक्षेपणादिषु कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्यायइति गम्यते । यतस्तूत्क्षेपणादिवद्विशेषसज्ञयाभिहितं तस्मादपरं सामान्यं स्यादिति । न । कर्मत्वपर्यायत्वात् -आत्मत्वपुरुषत्ववत्कर्मत्व पर्याय एव गमनत्वमिति ।
अथ विशेषसंज्ञया किमर्थं गमनग्रहणं कृतमिति. न, भ्रमणाद्यवरोधार्थत्वात् । उक्षेपणादिशब्दैरनवरुद्धानां भ्रमणपतनस्पन्दनादीनामवरोधार्थं गमनग्रहणं कृतमिति । अन्यथा हि यान्येव चत्वारे विशेषसंज्ञयोक्तानि तान्येव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरन्निति । अथवा अस्त्वपरं सामान्यं गमनत्वमनियदिग्देशसंयोगविभागकारणेषु भ्रमणादिष्वेव वर्तते गमनशब्दश्चोत्क्षेपणादिषु भाक्तो द्रष्टव्यः स्वाश्रयसंयोगविभागकतृत्वसामान्यादिति ।।
(३) सत्प्रत्ययकर्मप्रकरणम् ।
सत्प्रत्ययकर्मविधिः । कथम् ? चिकीर्षितेषु यज्ञाध्ययनदानकृष्यादिषु यदा हस्तमुत्क्षेप्तुमिच्छत्यपक्षेप्तुं वा तदा हस्तवत्यात्मप्रदेशे प्रयत्नः सञ्जायते तं प्रयत्नं गुरुत्वं चापेक्षमाणादात्महस्तसंयोगाद्धस्ते कर्म भवति हस्तवत् सर्वशरीरावयवेषु पादादिषु शरीरे चेति ।
तत्सम्बद्धेष्वपि कथम् ? यदा हस्तेन मुसलं गृहीत्वेच्छां करोति "उत्क्षिपामि हस्तेन मुसलमिति” तदनन्तरंप्रयत्नस्तमपेक्षमाणादात्महस्तसंयोगाद्यस्मिन्नेव काले हस्ते उत्क्षेपणकर्मोत्पद्यते तस्मिन्नेव काले तमेवप्रयत्नमपेक्षमाणाद्धस्तमुसलसंयोगात् मुसलेऽपि कर्मेति । ततो दूग्मुक्षिप्ते मुसले तदर्थेच्छा निवर्ततेपुनरप्यपक्षेपणेच्छोत्पद्यते तदनन्तरं प्रयत्नस्तमपेक्षमाणाद्याक्तात
संयोगाद्धम्तमुसलयोयुगपदपक्षेपणकर्मणो भवतः ततोऽन्त्येन मुसलकर्मणोलूखलमुसलयोरभिघाताख्यः संयोगः क्रियते, स संयोगो मुसलगतवेगमपेक्षमाणोऽप्रत्ययं मुसले उत्पतनकर्म करोति । तत्कर्माभिघातापेक्षं मुसले संस्कारमारभते तमपेक्ष्य मुसलहस्तसंयोगोऽप्रत्ययं हस्तेऽप्युत्पतनकर्म करोति । यद्यपि प्राक्तनः संस्कागे विनष्टः तथापि मुसलोलूखलयोः संयोगः पटुकर्मोत्पादकः संयोगविशेषभावात् तस्य संस्कारारम्भे साचिव्यसमर्थो भवति ।
अथवा प्राक्तन एव पटुः संस्कारोऽभिघातादविनश्यन्नवस्थित इति | अतः संस्कारवति पुनः संस्कारारम्भो नास्त्यतो यस्मिन् काले संस्कारापेक्षादभि घातादप्रत्ययं मुसले उत्पतनकर्म तस्मिन्नेव काले तमेव संस्कारमपेक्षमाणात् मुसलहस्तसंयोगादप्रत्ययं हस्तेऽप्युत्पतनकर्मेति ।।
पाणिमुक्तेषु गमनविधिः । कथम् ? यदा तोमरं हस्तेन गृहीत्वोत्क्षेप्तुमिच्छोत्पद्यते तदनन्तरं प्रयत्नः तमपेक्षमाणाद्यथोक्तात् संयोगद्वयात् तोमरहस्तयोर्युगपदाकर्षणकर्मणो भवतः । प्रसारिते च हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते
तदनन्तरं तिर्यगूर्ध्वं दूरमासन्नं वा क्षिपामीतीच्छा सञ्जायते तदनन्तरं तदनुरूपः प्रयत्नस्तमपेक्षमाणस्तोमरहस्तसंयोगो नोदनाख्यः तस्मात् तोमरे कर्मोत्पन्नं नोदनापेक्षं तस्मिन् संस्कारमारभते । ततः संस्कारनोदनाभ्यां तावत् कर्माणि भवन्ति यावद्धस्ततोमरविभाग इति । ततो विभागान्नोदने निवृत्ते संस्कारादूर्ध्वं तिर्यग्दूरमासन्नं वा प्रयत्नानुरूपाणि कर्माणि भवन्त्यापतनादिति ।।
तथा यन्त्रमुक्तेषु गमनविधिः । कथम् ? यो बलवान् कृतव्यायामो वामेन करेण धनुर्विष्टभ्य दक्षिणेन शरं सन्धाय सशरां ज्यां मुष्टिना गृहीत्वा आकर्षणेच्छां करोति “सज्येष्वाकर्षयाम्येतद्धनुरिति” | तदनन्तरं प्रयत्नस्तमपेक्षमाणादात्महस्तसंयोगादाकर्षणकर्म हस्ते यदेवोत्पद्यते तदैव तमेव प्रयत्नमपेक्षमाणाद्धस्तज्याशरसंयोगाद् ज्यायां शरे च कर्म प्रयत्नविशिष्टहस्तज्याशरसंयोगमपेक्षमाणाभ्यां
ज्याकोटिसंयोगाभ्यां कर्मणो भवतो धनुष्कोट्योरित्येतत् सर्वं युगतत् । एवमाकर्णादाकृष्टे धनुषिनातःपरमनेनगन्तव्यमिति यज्ज्ञानं ततस्दाकर्षणार्थस्य प्रयत्नस्य विनाशस्ततः पुनर्मोक्षणेच्छा सञ्जायते तदनन्तरंप्रयत्नस्तमपेक्षमाणादात्माङ्गुलिसंयोगादङ्गुलिकर्म तस्माज्ज्याङ्गुलिविमागः ततोविभागात् संयोगविनाशः तस्मिन् विनष्टे प्रतिबन्धकाभावाद्यदा धनुषि वर्तमानः स्थितिस्थापकः संस्कारो मण्डलीभूतं धनुर्यथावस्थितं स्थापयति तदा तमेव संस्कारमपेक्षमाणाद्धनुर्ज्यासंयोगाज्ज्यायां शरे च कर्मोत्पद्यते तत्स्वकारणापेक्षं ज्यायां संस्कारं करोति तमपेक्षमाण इषुज्यासंयोगो नोदनं तस्मादिषावाद्यं कर्म नोदनापेक्षमिषौ संस्कारमारभते । तस्मात् संस्कारान्नोदनसहायात् तावत्
कर्माणि भवन्ति यावदिषुज्याविभागो विभागान्निवृत्ते नोदने कर्माण्युत्तरोत्तराणोषुसंस्कारादेवापतनादिति । बहूनि कर्माणि क्रमशः, कस्मात् ? संयोगबहुत्वात् एकस्तु संस्कारोऽन्तराले कर्मणोऽपेक्षाकारणाभावादिति
एवमात्माधिष्ठितेषु सत्प्रत्ययमसत्प्रत्ययं च कर्मोक्तम् ।
(४) अप्रत्ययकर्म प्रकरणम् ।।
अनधिष्ठितेषु बाह्येषु चतुर्षु महाभूतेष्वप्रत्ययं कर्म गमनमेव नोदनादिभ्यो भवति । तत्र नोदनं गुरुत्वद्रवत्ववेगप्रयत्नान् समस्तव्यस्तानपेक्षमाणो यः संयोगविशेषो नोदनमविभागहेतोरेकस्य कर्मणः कारणम् तस्माच्चतुर्ष्वपि महाभूतेषु कर्म भवति । यथा पङ्काख्यायां पृथिव्याम् ।
वेगापेक्षो यः संयोगविशेषो विभागहेतोरेकस्य कर्मणः कारणं सोऽभिघातः तस्मादपि चतुर्षु महाभूतेषु कर्म भवति । यथा पाषाणादिषु निष्ठुरे वस्तुन्यभिपतितेषु । तथा पादादिभिर्नुद्यमानायामभिहन्यमानायां वा पङ्काख्यायां पृथिव्यां यः संयोगो नोदनाभिघातयोरन्यतरापेक्ष उभयापेक्षो वा स संयुक्तसंयोगः तस्मादपि पृथिव्यादिषु कर्म भवति । ये च प्रदेशा न नुद्यन्ते नाप्यभिहन्यन्ते तेष्वपि कर्म जायते ।
पृथिव्युदकयोर्गुरुत्वविधारकसंयोगप्रयत्नवेगाभावे सति गुरुत्वाद्यधोगमनं तत्पतनम् । यथा मुसलशरीरादिषूक्तम् । तत्राद्यं गुरुत्वाद् द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् ।।
स्रोतोभूतानामपां स्थलान्निम्नाभिसर्पणं यत्तद्रवत्वात् स्यन्दनम् । कथम् ? समन्ताद्रोधःसंयोगेनावयविद्वत्वं प्रतिबद्धम् अवयवद्रवत्वमप्येकार्थसमवेतं तेनैव प्रतिबद्धमुत्तरोत्तरावयवद्रवत्वानि संयुक्तसंयोगैः प्रतिबद्धानि । यदा तु मात्रया सेतुभेदः कृतो भवति तदा समन्तात् प्रतिबद्धत्वादवयविद्रवत्वस्य कार्यारम्भो नास्ति सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषामवयवद्रवत्वानां प्रतिबन्धकाभावाद् वृत्तिलाभः । ततः क्रमशः संयुक्तानामेवाभिसर्पणम् । ततः पूर्वद्रव्यविनाशे सति प्रबन्धेनावस्थितैरवयवैर्दीर्घ द्रव्यमारभ्यते, तत्र च कारणगुणपूर्वक्रमेण द्रवत्वमुत्पद्यते । तत्र च कारणानां संयुक्तानां प्रबन्धेन गमने यदवयविनि कर्मोत्पद्यते तत् स्यन्दनाख्यामिति ।।
संस्कारात् कर्म इष्वादिसूक्तम् । तथा चक्रादिष्ववयवानां पार्श्वतः प्रतिनियतदिग्देशसंयोगविभागोत्पत्तौ यदवयविनः संस्कारादनियतदिग्देशसंयोगविभागनिमित्तं कर्म तद् भ्रमणमिति । एवमादयो गमनविशेषाः ॥
प्राणाख्ये तु वायौ कर्म आत्मवायुसंयोगादिच्छाद्वेषपूर्वक प्रयत्नापेक्षाज्जाग्रतदर्शनात् । सुप्तस्य प्रबोधकाले जीवनपूर्वकप्रयत्नापेक्षात् । अपसर्पणकर्मोपसर्पणकर्म चात्ममनःसंयोगाददृष्टापेक्षात् । कथम् ? यदा जोवनसहकारिणोधर्माधर्मयोरुपभोगात् प्रक्षयोऽन्योन्याभिभवो वा तदा जीवनसहाययोर्वैकल्यात् तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोधे सत्यन्याभ्यां लब्धवृत्तिभ्यां धर्माधर्माभ्यामात्ममनःसंयोगसहायाभ्यां मृतशरीराद्विभागकारणमपसर्पणकर्मोत्पद्यते । ततः शरीराद्बहिरपगतं ताभ्यामेव धर्माधर्माभ्यां समुत्पन्नेनातिवाहिकशरीरेण सम्बध्यते तत्संक्रान्तं च स्वर्गं नरकं वा गत्वा आशयानुरूपेण शरीरेण सम्बद्धयते तत्संयोगार्थं कर्मोपसर्पणमिति | योगिनां च बहिरुद्रेचितस्यमनसोऽभिप्रेतदेशगमनं प्रत्यागमनञ्च । तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थं कर्मादृष्टकारितम् । एवमन्यदपि महाभूतेषु यत्प्रत्यक्षानुमानाभ्यामनुपलभ्यमानकारणमुपकारापकारसमर्थं च भवति तदप्यदृष्टकारितम् । यथा सर्गादावणुकर्म अग्निवाय्वोरूर्ध्वतिर्यग्गमने महाभूतानां प्रक्षोभणम् । अभिषिक्तानां मणीनां तस्करं प्रति गमनम् । अयसोऽयस्कान्ताभिसर्पणञ्चेति ।।
इति प्रशस्तपादभाष्ये कर्मपदार्थः समाप्तः ।।
सामान्यपदार्थनिरूपणम्
[सम्पाद्यताम्]
अथ सामान्यपदार्थनिरूपणम् ।
(४) सामान्यप्रकरणम् ।
सामान्यं द्विविधं परमपरञ्च । स्वविषय सर्वगतमभिन्नात्मकमनेक वृत्ति एकद्विवहुष्वात्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमान- मनुवृत्तिप्रत्ययकारणम् । कथम् ? प्रतिपिण्डं सामान्यापेक्ष प्रबन्धेन ज्ञानोत्पनावभ्यास प्रत्ययजनिताच्च संस्कारादतीतज्ञानप्रबन्धप्रत्यवेक्षणाद् यदनुगतमस्ति तत्सामान्यमिति ।
तत्र सत्तासामान्यं परमनुवृत्तिप्रत्ययकारणमेव । यथा परस्पर विशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकस्मान्नीलद्रव्याभिसम्बन्धात् नीलं नीलमिति प्रत्ययानुत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमर्हतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा। सत्तानुसम्बन्धात् सत्सदिति प्रत्ययानुवृत्तिः तस्मात् सा सामान्यमेव । अपरं द्रव्यत्वगुणत्वकर्मस्वादि अनुवृत्तिव्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति । तत्र द्रव्यत्वं परस्परविशिष्टेषु रूपादिष्वनुवृत्तिहेतित्वात् सामान्यं द्रव्यगुणकर्मभ्यो व्यावृत्तिहेतृत्वात् विशेषः । तथा गुणत्वं परस्परविशिष्टेषु रूपादिष्वनुवृत्तिहेतुत्वात् सामान्यं द्रव्यकर्मभ्यो व्यावृत्तिहेतुत्वाद्विशेषः। तथा कर्मस्वं परस्पर विशिष्टेषूत्क्षेपणादिष्वनुवृत्ति प्रत्ययहेतुत्वात् सामान्यं द्रव्यगुणेभ्यो व्यावृत्तिहेतुत्वाद्विशेषः ।
एवं पृथिवीत्वरूपत्वोत्क्षेपणत्वगोत्वघटत्वपटत्यादीनामपि प्राण्यप्राणिगतानामनुवृत्ति व्यावृत्तिहेतुत्वात् सामान्यविशेषभावः सिद्धः । एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि स्वाश्रयविशेषकत्वाद्भक्त्या विशेषाख्यानीति ।
लक्षणभेदादेषां द्रव्यगुणकर्मेभ्यः पदार्थान्तरत्वं सिद्धम् । अत एव च नित्यत्वम्। द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच्च परस्परतश्चान्यत्वम् । प्रत्येकं स्वाश्रयेपु लक्षण विशेषाद्विशेषलक्षणाभावाच्चैकत्वम् ।
यद्यप्यपरित्छिन्नदेशानि सामान्यानि भवन्ति तथाप्युपलक्षणनियमात् कारणसाममोनियमाच्च स्वविषयसर्वगतानि । अन्तराले च संयोगसमवाय. वृत्त्यभावादव्यपदेश्यानीति ।
इति प्रशस्तपादभाध्ये सामान्यपदार्थः
विशेषपदार्थनिरूपणम्
[सम्पाद्यताम्]
अथ विशेषपदार्थनिरूपणम् । (५) विशेषप्रकरणम् ।
अन्तेषु भवा अन्त्याः स्वाश्रयविशेषकत्वाद्विशेषाः। विनाशारम्भरहितेषु नित्यद्रव्येवण्वाकाश कालदिगात्ममनस्सु प्रतिद्रव्यमेकैकशो वर्तमानाः अत्यन्तव्यावृत्तिबुद्धिहेतवः । यथाऽस्मदादीनां गवादिष्वश्वादिभ्यस्तुल्याकृतिगुणक्रियावयवसंयोगनिमित्ता प्रत्ययव्यावृत्तिदृष्टा गौः शुक्ल: शीघ्रगतिः, पीनककुमान् महाघण्ट इति । तथास्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु च अन्यनिमित्तासम्भवात् येभ्यो निमित्तेभ्यः प्रत्याधारं विलक्षणोऽयं विलक्षणोऽयमिति प्रत्यययावृत्तिः देशकालविप्रकर्षे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति तेऽन्त्या विशेषाः ।
यदि पुनरन्त्यविशेषमन्तरेण योगिनां योगजाद्धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिज्ञानं न स्यात् ततः किं स्यान्नैवं भवति । यथा च योगजाद्धर्मादशुक्ले शुक्लप्रत्ययः सञ्जायते अत्यन्तादृष्टे च प्रत्यभिज्ञानम् । यदि स्यान्मिथ्या भवेत् तथेहाप्यन्त्यविशेषमन्तरेण योगिनां न योगजाद्धर्मात् प्रत्ययव्यावृत्तिः प्रत्यभिझानं वा भवितुमर्हति अथान्त्यविशेषेष्विव परमाणुषु कस्मान्न स्वतः प्रत्ययव्यावृत्तिः कल्प्यते इति चेन्न तादात्म्यात् । इहातदात्मकेन्वयनिमित्तः प्रत्ययो भवति यथा घटादिषु प्रदीपात् न तु प्रदीपे प्रदीपान्तरात् । यथा गवाश्वमांसादीनां स्वत एवाशुचित्वं तद्योगादन्येषां तथेहापि तादात्म्यादन्त्यविशेषेषु स्वत एवं प्रत्ययव्यावृत्तिः तद्योगात् परमायादिग्ष्विति ।
इति प्रशस्तपादभाष्ये विशेषपदार्थः समाप्तः ।।
अथ समवायपदार्थनिरूपणम्।
समवायपदार्थनिरूपणम्
[सम्पाद्यताम्] अथ समवायपदार्थनिरूपणम्। (६) समवायप्रकरणम् ।
अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इह प्रत्ययहेतुः स समवायः । द्रव्यगुणकर्मसामान्यविशेषाणां कार्यकारणभूतानामकार्यकारणभूतानाम् वाऽयुतसिद्धाना- माधार्याधारभावेनावस्थितानामिहेदमितिबुद्धिर्यतो भवति यतश्चसर्वगतानामधिगतान्यत्वाना- मविष्वग्भावः स समवायाख्यः सम्बन्धः । कथम् ? यथेह कुण्डे दधीतिप्रत्ययः सम्बन्धे सति दृष्टस्तथेह तन्तुषु पटः, इह वोरणेषु कटः, इह द्रव्ये गुणकमणी, इह द्रव्यगुणकर्मसु सत्ता, इह द्रव्ये द्रव्यत्वम् , इह गुणे गुणत्वम् , इह कमणि कर्मत्वम् , इह नित्यद्रव्येऽन्त्या विशेषा इतिप्रत्ययदर्शनादस्त्येषां सम्बन्ध इति ज्ञायते।।
न चासौ संयोगः सम्बन्धिनामयुतसिद्धत्वात् अन्यतरकर्मादिनिमित्तासम्भवात् विभागान्तत्वादर्शनादधिकरणाधिकर्तव्योरेव भावादिति ।।
'स च द्रव्यादिभ्यः पदार्थान्तरं भाववल्लक्षणभेदात् । यथा भावस्य द्रव्यत्वादीनां स्वाधारेषु आत्मानुरूपप्रत्ययकर्तृत्वात् स्वाश्रयादिभ्यः परस्परतश्चाथोन्तरभावः तथा समवायस्यापि पश्चसु पदार्थेष्विहेतिप्रत्ययदर्शनात् तेभ्यः पदार्थान्तरत्वमिति । न च संयोगवन्नानात्वं भाववल्लिङ्गाविशेषात् विशेषलिङ्गाभावाच्च तस्माद्भाववत्सर्वत्रैकः समवाय इति ।।
ननु यद्येकः समवायो द्रव्यगुणकर्मणां द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति न, आधारानियमात् । यद्यप्येकः समवायः सर्वत्र स्वतन्त्रः तथाप्याचाराधेयनियमोऽस्ति । कथम् द्रव्येष्वेव द्रव्यत्वं, गुणेष्वेव गुणत्वं कर्मस्वेव कर्मत्वमिति । एवमादि कस्मात् । अन्वयव्यतिरेकदर्शनात् । इहेतिसमवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वादिनिमित्तानां व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते । यथा कुण्डध्नोः संयोगैकत्वे भवत्याश्रयायिभाव. नियमः । तथा द्रव्यत्वादोनामपि समवायकत्वेपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयनियम इति ।।
सम्बन्ध्यनित्यत्वेऽपि न संयोगवदनित्यत्वं भाववदकारणत्वात् । यथा प्रमाणतः कारणानुपलब्धेर्नित्यो भाव इत्युक्तम् तथा समवायोऽपीति । न ह्यस्य किञ्चित् कारणं प्रमाणत उपलभ्यते इति । कया पुनर्वृत्त्या द्रव्यादिषु समवायो वर्तते । न संयोगः सम्भवति तस्य गुणत्वेन द्रव्याश्रितत्वात् । नापि समवायस्यैकत्वात् न चान्या वृत्तिरस्तीति । न तादात्म्यात् । यथा द्रव्यगुणकर्मणां सदात्मकस्य भावस्य नान्यः सत्तायोगोऽस्ति । एवमविभागिनो वृत्यात्मकस्य समवायस्य नान्या वृत्तिरस्ति तस्मात् स्वात्मवृत्तिः । अत एवातीन्द्रियः सत्तादीनामिव प्रत्यक्षेषु वृत्यभावान् स्वात्मगतसंवेदनाभावाच्च । तस्मादिह बुद्धयनुमेयः समवाय इति ।।
इति प्रशस्तपादभाष्ये समवायपदार्थः समाप्तः ।
समाप्तश्चायं ग्रन्थः