प्रमेयरत्नावली

विकिस्रोतः तः
प्रमेयरत्नावली
[[लेखकः :|]]

प्रमेयरत्नावली

बलदेवविद्याभूषणप्रणीता


भगवत्पारतम्यम्[सम्पाद्यताम्]

जयति श्रीगोविन्दो गोपीनाथः समदनगोपाल । वक्ष्यामि यस्य कृपया प्रमेयरत्नावलीं सूक्ष्माम् ॥१॥

भक्तिआभासेनापि तोषं दधाने धर्माध्यक्षे विश्वनिस्तारितनाम्नि नित्यानन्दाद्वैतचैतन्यरूपे तत्त्वे तस्मिन्नित्यमास्तां रतिर्नः ॥२॥

आनन्दतीर्थनामा सुखमयधामा यतिर्जीयात। संसारार्णवतरणिं यमिह जनाः कीर्तयन्ति बुधाः ॥३॥

भवति विचिन्त्या विदुषां निरवकरा गुरुपरम्परा नित्यम् । एकान्तित्वं सिद्ध्यति ययोदयति येन हरितोषः ॥४॥

यदुक्तं पद्मपुराणे – सम्प्रदायविहीना ये मन्त्रास्ते निष्फला मताः । अतः कलौ भविष्यन्ति चत्वारः सम्प्रदायिनः श्रीब्रह्मरुद्रसनकाः वैष्णवाः क्षितिपावनाः चत्वारस्ते कलौ भाव्या ह्युत्कले पुरुषोत्तमात॥क॥

रामानुजं श्रीः स्वीचक्रे मध्वाचार्यं चतुर्मुखः श्रीविष्णुस्वामिनं रुद्रो निम्बादित्यं चतुःसनः ॥ख॥

तत्र स्वगुरुपरम्परा, यथा— श्रीकृष्णब्रह्मदेवर्षिबादरायणसंज्ञकान् श्रीमाध्वश्रीपद्मनाभश्रीमन्नरहरिमाधवान् अक्षोभ्यजयतीर्थज्ञानसिन्धुदयानिधीन् श्रीविद्यानिधिराजेन्द्रजयधर्मान्क्रमाद्वयम् पुरुषोत्तमब्रह्मण्यव्यासतीर्थांश्च संस्तुमः ततो लक्ष्मीपतिं माधवेन्द्रं च भक्तितः तच्छिष्यान्श्रीश्वराद्वैतनित्यानन्दान्जगद्गुरून् देवमीश्वरशिष्यं श्रीचैतन्यं च भजामहे श्रीकृष्णप्रेमदानेन येन निस्तारितं जगत॥ग॥

अथ प्रमेयाण्युद्दिश्यन्ते— श्रीमध्वः प्राह विष्णुं परतममखिलाम्नायवेद्यं च विश्वं सत्यं भेदं च जीवान्हरिचरणजुषस्तारतम्यं च तेषाम् । मोक्षं विष्ण्वङ्घ्रिलाभं तदमलभजनं तस्य हेतुं प्रमाणं प्रत्यक्षादित्रयं चेत्युपदिशति हरिः कृष्णचैतन्यचन्द्रः ॥५॥

तस्य श्रीविष्णोः परतमत्वं, यथा श्रीगोपालोपनिषदि—तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसेत्तं भजेत्तं यजेत॥ इति ॥क॥

श्वेताश्वतरोपनिषदि (१.१११२) च – ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः तस्याभिध्यानात्तृतीयं देहभेदे विश्वैश्वर्यं केवल आप्तकामः ॥(ख)॥ इति ।

एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित॥(ग) इति च ।

श्रीगीतासु (७.७) च – मत्तः परतरं नान्यत्किं चिदस्ति धनंजय मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥इति॥

हेतुत्वाद्विभुचैतन्यानन्दत्वादिगुणाश्रयात। नित्यलक्ष्म्यादिमत्वाच्च कृष्णः परतमो मतः ॥६॥

तत्र सर्वहेतुत्वं यथाहुः श्वेताश्वतराः (५.४) – सर्वा दिश ऊर्ध्वमधश्च तिर्यक् प्रकाशयन्भ्राजते यद्वनड्वान। एकः स देवो भगवान्वरेण्यो योनिस्वभावानधितिष्ठत्येकः ॥ (क) इति ।

यच्च स्वभावं पचति विश्वयोनिः पाच्यांश्च सर्वान्परिणामयेद्यः ॥ (ख) ॥ (श्वे.उ. ५.५)

विभुचैतन्यानन्दत्वं, यथा काठके— महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥ (ग) ॥ (क.उ. ४.४)

विज्ञानसुखरूपत्वमात्मशब्देन बोध्यते । अनेन मुक्तगम्यत्वव्यूत्पत्तेरिति तद्विदः ॥ ७ ॥

वाजसनेयिनश्चाहुः— विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ॥ (क) ॥ (बृ.आ.उ. ३.९.२८.७)

श्रीगोपालोपनिषदि च—

तमेकं गोविन्दं सच्चिदानन्दविग्रहम् ॥ (ख) ॥

मूर्तत्वं प्रतिपत्तव्यं चित्सुखस्यैव रागवत। विज्ञानघनशब्दादिकीर्तनाच्चापि तस्य तत। देहदेहिभिदा नास्तीत्येतेनैवोपदर्शितम् ॥ ८ ॥

मूर्तत्वस्यैव विभुत्वं यथा श्वेताश्वतरोपनिषदि—

वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस् तेनेदं पूर्णं पुरुषेण सर्वम् ॥ (क) ॥ (श्वे.उ. ३.९)

द्युस्थोऽपि निखिलव्यापीत्याख्यानान्मूर्तिमान्विभुः । युगपद्ध्यातृवृन्देषु साक्षात्काराच्च तादृशः ॥ ९ ॥

श्रीदशमे (१०.९.१३१४) च— न चान्तर्बहिर्यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश्चान्तर्जगतो यो जगच्च यः ॥ तं मत्वात्मजमव्यक्तं मर्त्यलिङ्गमधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ (क) ॥

श्रीगीतासु (९.४५) च— मया ततमिदं सर्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥ न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥ (ख) ॥

अनन्त्या शक्तिरस्तीशे योगशब्देन योच्यते । विरोधभञ्जिका सा स्यादिति तत्त्वविदां मतम् ॥ १० ॥

आदिना सर्वज्ञत्वं यथा मुण्डके (१.१.९, २.२.७)—

यः सर्वज्ञः सर्ववित॥ (क) ॥

आनन्दित्वं च तैत्तिरीयके (२.९.१)— आनन्दं ब्रह्मणो विद्वान्न विभेति कुतश्चन ॥ (ख) ॥

प्रभुत्वसुहृत्त्वज्ञानदत्वमोचकत्वानि च श्वेताश्वतरश्रुतौ (३.१७)— सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत॥ (ग) ॥

प्रज्ञा च तस्मात्प्रसृता पुराणी ॥ (घ) ॥ (श्वे.उ. ४.१४)

संसारमोक्षस्थितिबन्धहेतुः ॥ (ङ) ॥ (श्वे.उ. ६.१६)

माधुर्यं च, श्रीगोपालोपनिषदि (पूर्व १०)—

सत्पुण्डरीकनयनं मेघाभं वैद्युताम्बरम् । द्विभुजं ज्ञानमुद्राढ्यं वनमालिनमीश्वरम् ॥ (च) ॥

न भिन्ना धर्मिणो धर्मा भेदभानं विशेषतः । यस्मात्कालः सर्वदास्तीत्यादिधीर्विदुषामपि ॥ ११ ॥

एवमुक्तं नारदपञ्चरात्रे—

निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः । आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा ॥ (क) ॥

अथ नित्यलक्ष्मीकत्वं यथा विष्णुपुराणे—

नित्यैव सा जगन्माता विष्णोः श्रीरनपायिनी । यथा सर्वगतो विष्णुस्तथैवेयं द्विजोत्तम ॥ (ख) ॥

विष्णोः स्युः शक्तयस्तिस्रस्तासु या कीर्तिता परा । सैव श्रीस्तदभिन्नेति प्राह शिष्यान्प्रभुर्महान॥ १२ ॥

तत्र त्रिशक्तिर्विष्णुः, यथा श्वेताश्वतरोपनिषदि—

परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ (क) ॥

प्रधानक्षेत्रज्ञपतिर्गुणेशः ॥ (ख) ॥

श्रीविष्णुपुराणे (६.७.६१) च—

विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा । अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ (ग) ॥

परैव विष्ण्वभिन्ना श्रीरित्युक्तं तत्रैव (वि.पु. १.९.४४४५)—

कलाकाष्ठानिमेषादिकालसूत्रस्य गोचरे । यस्य शक्तिर्न शुद्धस्य प्रसीदतु स नो हरिः ॥ प्रोच्यते परमेशो यः यः शुद्धोऽप्युपचारतः । प्रसीदतु स नो विष्णुरात्मा यः सर्वदेहिनाम् ॥ (घ) ॥

एषा परैव त्रिवृदित्यप्युक्तं, तत्रैव (वि.पु. १.१२.६९)—

ह्लादिनी सन्धिनी संवित्त्वय्येका सर्वसंश्रये । ह्लादतापकरी मिश्रा त्वयि नो गुणवर्जिते ॥ (ङ) ॥

एकोऽपि विष्णुरेकापि लक्ष्मीस्तदनपायिनी । स्वसिद्धैर्बहुभिर्वेशैर्बहुरित्यभिधीयते ॥ १३ ॥

तत्रैकत्वे सत्येव विष्णोर्बहुत्वं, यथा श्रीगोपालोपनिषदि (पूर्व २०)—

एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन्बहुधा योऽवभाति । तं पीठस्थं ये तु यजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥ (क) ॥

अथ लक्ष्म्यास्तद्यथा—परास्य शक्तिर्विविधैव श्रूयते ॥ (ख) ॥ (श्वे.उ. ९.८)

पूर्तिः सार्वत्रिकी यद्यप्यविशेषा तथापि हि । तारतम्यं च तच्छक्तिव्यक्त्यव्यक्तिकृतं भवेत॥ १४ ॥

तत्र विष्णोः सार्वत्रिकी पूर्तिर्, यथा वाजसनेयके (बृ.आ.उ. ५.१.१)—

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ (क) ॥

महावाराहे च—

सर्वे नित्याः शाश्वताश्च देहास्तस्य परात्मनः । हानोपादानरहिता नैव प्रकृतिजाः क्वचित॥ परमानन्दसन्दोहा ज्ञानमात्राश्च सर्वतः । सर्वे सर्वगुणैः पूर्णाः सर्वदोषविवर्जिताः ॥ (ख) ॥

अथ श्रियः सा यथा श्रीविष्णुपुराणे (१.९.१४०१४३)—

एवं यथा जगत्स्वामी देवदेवो जनार्दनः । अवतारं करोत्येष तथा श्रीस्तत्सहायिनी ॥ पुनश्च पद्मादुद्भूता आदित्योऽभूद्यदा हरिः । यदा च भार्गवो रामस्तदाभूद्धरणी त्वियम् ॥ राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येषु चावतारेषु विष्णोरेषा सहायिनी ॥ देवत्वे देवदेहेयं मनुष्यत्वे च मानुषी । विष्णोर्देहानुरूपां वै करोत्येषात्मनस्तनुम् ॥ (ग) ॥

स्यात्स्वरूपसती पूर्तिरिहैक्यादिति विन्मतम् ॥ १५ ॥

अथ तथापि तारतम्यम्—तत्र श्रीविष्णोस्तद्यथा श्रीभागवते (भा.पु. १.३.२८)—

एते चांशकलाः पुंसः कृष्णस्तु भगवान्स्वयम् ॥ (क) ॥

अष्टमस्तु तयोरासीत्स्वयमेव हरिः किल ॥ इति च ॥ (ख) ॥ (भा.पु. ९.२४.५५)

अथ श्रियस्तद्यथा पुरुषबोधिन्यामथर्वोपनिषदि—गोकुलाख्ये माथुरमण्डल इत्युपक्रम्य द्वे पार्श्वे चन्द्रावली राधिका चेत्यभिधाय परत्र यस्या अंशे लक्ष्मीदुर्गादिका शक्तिरिति ॥ (ग) ॥

गौतमीयतन्त्रे च—

देवी कृष्णमयी प्रोक्ता राधिका परदेवता । सर्वलक्ष्मीमयी सर्वकान्तिः सम्मोहिनी परा ॥ (घ) ॥

अथ नित्यधामत्वमादिशब्दात्, यथा छान्दोग्ये (छा.उ. ७.२४.१)—

स भगवः कस्मिन्प्रतिष्ठित इति । स्वे महिम्नीति ॥ (ङ) ॥

दिव्ये ब्रह्मपुरे ह्येष संव्योम्न्यात्मा प्रतिष्ठित ॥ (च) इति च ॥ (मु.उ. २.२.७) ॥

ऋक्षु च (ऋग्वेद, १.१५४.६)—

ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः । अत्राह तदुरुगायस्य वृष्णः परमं पदमवभाति भूरि ॥ (छ) ॥

श्रीगोपालोपनिषदि च (उत्तर ३५)—

तासां मध्ये साक्षाद्ब्रह्मगोपालपुरी हि ॥ (ज) ॥

जितन्तेस्तोत्रे च—

लोकं वैकुण्ठनामानं दिव्यषाड्गुण्यसंयुतम् । अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् ॥ नित्यसिद्धैः समाकीर्णं तन्मयैः पाञ्चकालिकैः । सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभम् ॥ वापीकूपतडागैश्च वृक्षषण्डैः सुमण्डितम् । अप्राकृतं सुरैर्वन्द्यमयुतार्कसमप्रभम् ॥ इति ॥ (झ) ॥

ब्रह्मसंहितायां च (ब्र.सं. ५.२)—

सहस्रपत्रं कमलं गोकुलाख्यं महत्पदम् । तत्कर्णिकारं तद्धाम तदनन्तांशसम्भवम् ॥ इति ॥ (ञ) ॥

प्रपञ्चे स्वात्मकं लोकमवतार्य महेश्वरः । आविर्भवति तत्रेति मतं ब्रह्मादिशब्दतः ॥ १६ ॥ गोविन्दे सच्चिदानन्दे नरदारकता यथा । अज्ञैर्निरूप्यते तद्वद्धाम्नि प्राकृतता किल ॥ १७ ॥

अथ नित्यलीलत्वं च, तथा हि श्रुतिः (बृह्.आ.उ. ३.८.३)—यद्गतं भवच्च भविष्यच्च ॥ (क) ॥

एको देवो नित्यलीलानुरक्तो भक्तव्यापी भक्तहृद्यन्तरात्मा ॥ (ख) ॥

स्मृतिश्च (गीता ४.९)—

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥ (ग) ॥

रूपानन्त्याज्जनानन्त्याद्धामानन्त्याच्च कर्म तत। नित्यं स्यात्तदभेदाच्चेत्युदितं तत्त्ववित्तमैः ॥ १८ ॥

इति प्रमेयरत्नावल्यां भगवत्पारतम्यप्रकरणं नाम प्रथमप्रमेयं ॥ १ ॥

अथाखिलाम्नायवेद्यत्वम्[सम्पाद्यताम्]

यथा श्रीगोपालोपनिषदि (गो.टा.उ., २.२७)— योऽसौ सर्वैर्वेदैर्गीयते ॥ इति ॥ (क) ॥

काठके च (क.उ. १.२.१५)— सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ॥ इति ॥ (ख) ॥

श्रीहरिवंशे च— वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च हरिः सर्वत्र गीयते ॥ इति ॥ (ग) ॥

साक्षात्परम्पराभ्यां वेदा गायन्ति माधवं सर्वे । वेदान्ताः किल साक्षादपरे तेभ्यः परम्परया ॥ १ ॥

क्वचित्क्वचिदवाच्यत्वं यद्वेदेषु विलोक्यते । कार्त्स्न्येन वाच्यं न भवेदिति स्यात्तत्र सद्गतिः । अन्यथा तु तदारम्भो व्यर्थः स्यादिति मे मतिः ॥ २ ॥

शब्दप्रवृत्तिहेतूनां जात्यादीनामभावतः । ब्रह्म निर्धर्मकं वाच्यं नैवेत्याहुर्विपश्चितः ॥ ३ ॥ सर्वैः शब्दैरवाच्ये तु लक्षणा न भवेदतः । लक्ष्यं च न भवेद्धर्महीनं ब्रह्मेति मे मतम् ॥ ४ ॥

इति प्रमेयरत्नावल्यां अखिलाम्नायवेद्यत्वप्रकरणं नाम द्वितीयप्रमेयं ॥ २ ॥

विश्वसत्यत्वम्[सम्पाद्यताम्]

स्वशक्त्या सृष्टवान्विष्णुर्यथार्थं सर्वविज्जगत। इत्युक्तेः सत्यमेवैतद्वैराग्यार्थमसद्वचः ॥ १ ॥

तथा हि श्वेताश्वतरोपनिषदि (श्वे.उ. ४.१)

य एकोऽवर्णो बहुधा शक्तियोगाद् वर्णाननेकान्निहितार्थो दधाति ॥ इति ॥ (क) ॥

श्रीविष्णुपुराणे च (वि.पु. १.२२.५४)—

एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथेदमखिलं जगत॥ इति ॥ (ख) ॥

ईशावास्योपनिषदि (ई.उ. ८)—

स पर्यगाच्छुक्रमकायमव्रणम् अस्नाविरं शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयंभूर् याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ इति ॥ (ग) ॥

श्रीविष्णुपुराणे च (वि.पु. १.२२.५८)—

तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पवत॥ इति ॥ (घ) ॥

महाभारते च (म. भा., अश्वमेध ३५.३४)—

ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः । सत्याद्भूतानि जातानि सत्यं भूतमयं जगत॥ इति ॥ (ङ) ॥

आत्मा वा इदमित्यादौ वनलीनविहङ्गवत। सत्त्वं विश्वस्य मन्तव्यमित्युक्तं वेदवेदिभिः ॥ २ ॥

इति प्रमेयरत्नावल्यां विश्वसत्यत्वप्रकरणं नाम तृतीयप्रमेयम् ॥ ३ ॥

भेदसत्यत्वम्[सम्पाद्यताम्]

अथ विष्णुतो जीवानां भेदः ।

तथा हि श्वेताश्वतराः पठन्ति (श्वे.उ. ४.६)—

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषष्वजाते । तयोरन्यः पिप्पलं स्वाद्व् अत्त्यनश्नन्नन्योऽभिचाकशीति ॥ (क) ॥

समाने वृक्षे पुरुषो निमग्नो ऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशम् अस्य महिमानमिति वीतशोकः ॥ (ख) ॥ (मु. उ., ३.१.२)

उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्तौ च लिङ्गं तात्पर्यनिर्णये ॥ इति तात्पर्यलिङ्गानि षड्यान्याहुर्मनीषिणः । भेदे तानि प्रतीयन्ते तेनासौ तस्य गोचरः ॥ १ ॥

किं च मुण्डके (मु. उ., ३.१.३)—

यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥ (क) ॥

काठके च (क.उ. ४.१.१४)— यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम ॥ (ख) ॥

श्रीगीतासु च (गीता १४.२)—

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ (ग) ॥

एषु मोक्षेऽपि भेदोक्तेः स्याद्भेदः पारमार्थिकः । ब्रह्माहमेको जीवोऽस्मि नान्ये जीवा न चेश्वरः ॥ २ ॥ मदविद्याकल्पितास्ते स्युरितीत्थं च दूषितम् । अन्यथा नित्य इत्यादिश्रुत्यर्थो नोपपद्यते ॥ ३ ॥

तथा हि कठाः पठन्ति (क.उ. २.२.१३)—

नित्यो नित्यानां चेतनश्चेतनानाम् एको बहूनां यो विदधाति कामान। तमात्मस्थं येऽनुपश्यन्ति धीरास् तेषां शान्तिः शाश्वती नेतरेषाम् ॥ (क) ॥

एकस्मादीश्वरान्नित्याच्चेतनात्तादृशा मिथः । भिद्यन्ते बहवो जीवास्तेन भेदः सनातनः ॥ ४ ॥ प्राणैकाधीनवृत्तित्वाद्वागादेः प्राणता यथा । तथा ब्रह्माधीनवृत्तेर्जगतो ब्रह्मतोच्यते ॥ ५ ॥

तथा हि छान्दोग्ये पठ्यते (छा. उ., ५.१.१५)—

न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते । प्राण इत्येवाचक्षते प्राणो ह्येवैतानि सर्वाणि भवति ॥ (क) ॥

ब्रह्मव्याप्यत्वतः कैश्चिज्जगद्ब्रह्मेति मन्यते ॥ ६ ॥

यदुक्तं श्रीविष्णुपुराणे (वि.पु. १.९.६९)—

योऽयं तवागतो देव समीपं देवतागणः । सत्यमेव जगत्स्रष्टा यतः सर्वगतो भवान॥ (क) ॥

प्रतिबिम्बपरिच्छेदपक्षौ यौ स्वीकृतौ परैः । विभुत्वाविषयत्वाभ्यां तौ विद्वद्भिर्निराकृतौ ॥ ७ ॥

अद्वैतं ब्रह्मणो भिन्नमभिन्नं वा त्वयोच्यते । आद्ये द्वैतापत्तेरन्ते सिद्धसाधनताश्रुतेः ॥ ८ ॥

अलीकं निर्गुणं ब्रह्म प्रमाणाविषयत्वतः । श्रद्धेयं विदुषां नैवेत्यूचिरे तत्त्ववादिनः ॥ ९ ॥

इति प्रमेयरत्नावल्यां भेदसत्यत्वप्रकरणं नाम चतुर्थप्रमेयं ॥ ४ ॥

अथ जीवानां भगवद्दासत्वम्[सम्पाद्यताम्]

तथा हि श्वेताश्वतराः पठन्ति (श्वे.उ. ६.७)—

तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् । पतिं पतीनां परमं परस्ताद् विदाम देवं भुवनेशमीड्यम् ॥ (क) ॥

स्मृतिश्च— ब्रह्मा शम्भुस्तथैवार्कश्चन्द्रमाश्च शतक्रतुः । एवमाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥ इत्याद्या ॥

सब्रह्मकाः सरुद्राश्च सेन्द्रा देवा महर्षिभिः । अर्चयन्ति सुरश्रेष्ठं देवं नारायणं हरिम् ॥ इति च (ख) ॥

पाद्मे च जीवलक्षणे— दासभूतो हरेरेव नान्यस्यैव कदाचन ॥ (ग) ॥

इति प्रमेयरत्नावल्यां जीवानां भगवद्दासत्वप्रकरणं नाम पञ्चमप्रमेयम् ॥ ५ ॥

==अथ जीवानां तारतम्यम्==

अणुचैतन्यरूपत्वज्ञानित्वाद्यविशेषतः । साम्ये सत्यपि जीवानां तारतम्यं च साधनात॥ १ ॥

तत्राणुत्वमुक्तं श्वेताश्वतरैः (श्वे.उ. ५.९)—

बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञेयः स चानन्त्याय कल्पते ॥ (क) ॥

चैतन्यरूपत्वं ज्ञानित्वादिकं च षट्प्रश्न्यां (प्र. उ. ४.९)—

एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ॥ (ख) ॥

आदिना गुणेन देहव्यापित्वं च, श्रीगीतासु (गीता १३.३३)—

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ (ग) ॥

आह चैव सूत्रकारः (ब्र. सू., २.३.२४)—गुणाद्वालोकवत॥ (घ) ॥

गुणनित्यत्वमुक्तं वाजसनेयिभिः (बृ.आ.उ. ४.५.१४)—अविनाशी वा अरे अयमात्मानुच्छित्तिधर्मा ॥ (ङ) ॥

एवं साम्येऽपि वैषम्यमैहिकं कर्मभिः स्फुटम् । प्राहुः पारत्रिकं तत्तु भक्तिभेदैः सुकोविदः ॥ २ ॥

तथा हि कौथुमाः पठन्ति—

यथाक्रतुरस्मिन्लोके पुरुषो भवति । तथेतः प्रेत्य भवति ॥ इति ॥ (क) ॥

स्मृतिश्च— यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ इति ॥ (ख) ॥

शान्त्याद्या रतिपर्यन्ता ये भावाः पञ्च कीर्तिताः । तैर्देवं स्मरतां पुंसां तारतम्यं मिथो मतम् ॥ ३ ॥

इति प्रमेयरत्नावल्यां जीवतारतम्यप्रकरणं नाम षष्ठप्रमेयं ॥६॥

कृष्णप्राप्तिरूपमोक्षम्[सम्पाद्यताम्]

अथ श्रीकृष्णप्राप्तेर्मोक्षत्वम् ।

यथा— ज्ञात्वा देवं सर्वपाशापहानिः ॥ इत्यादि (क) ॥ (श्वे.उ. १.१०) एको वशी सर्वगः कृष्ण ईड्यम् ॥ इत्यादि च (ख) ॥ (गो.ता.उ., पूर्व, २०)

बहुधा बहुभिर्वेशैर्भाति कृष्णः स्वयं प्रभुः । तमिष्ट्वा तत्पदे नित्ये सुखं तिष्ठन्ति मोक्षिनः ॥ १ ॥

इति प्रमेयरत्नावल्यां कृष्णप्राप्तिरूपमोक्षप्रकरणं नाम सप्तमप्रमेयम् ॥ ७ ॥

विशुद्धभक्तेर्मुक्तिप्रदत्वम्[सम्पाद्यताम्]

अथैकान्तभक्तेर्मोक्षहेतुत्वम् ।

यथा श्रीगोपालतापन्याम्—

भत्किरस्य भजनं तदिहामुत्रोपाधिनैरास्येनामुष्मिन्मनःकल्पनमेतदेव नैष्कर्म्यम् ॥ (क) ॥ (गो. ता. उ., पूर्व १४)

नारदपञ्चरात्रे च—

सर्वोपाधिविनिर्मुक्तं तत्परत्वेन निर्मलम् । हृषीकेण हृषीकेशसेवनं भक्तिरुच्यते ॥ (ख) ॥

नवधा चैषा भवति । यदुक्तं श्रीभागवते (भा.पु. ७.५.२३२४)—

श्रवनं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥ इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा । क्रियते भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ (ग) ॥

सत्सेवा गुरुसेवा च देवभावेन चेद्भवेत। तदैषा भगवद्भक्तिर्लभ्यते नान्यथा क्वचित॥ १ ॥

देवभावेन सत्सेवा यथा तैत्तिरीयके (तै.उ. १.११.२)—अतिथिदेवो भव ॥ (क) ॥

तया तद्भक्तिर्, यथा श्रीभागवते (भा.पु. ७.५.३२)—

नैषां मतिस्तावदुरुक्रमाङ्घ्रिं स्पृषत्यनर्थापगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत॥ (ख) ॥

देवभावेन गुरुसेवा यथा तैत्तिरीयके (तै.उ. १.११.२)—आचार्यदेवो भव ॥ (ग) ॥

श्वेताश्वतरोपनिषदि च (श्वे.उ. ६.२२)—

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ (घ) ॥

तया तद्भक्तिर्, यथा श्रीभागवते (भा.पु. ११.३.२१२२)—

तस्माद्गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥ तत्र भागवतान्धर्मान्शिक्षेद्गुर्वात्मदैवतः । अमायया.अनुवृत्त्या यैस्तुष्येदात्मात्मदो हरिः ॥ (ङ) ॥

अवाप्तपञ्चसंस्कारो लब्धद्विविधभक्तिकः । साक्षात्कृत्य हरिं तस्य धाम्नि नित्यं प्रमोदते ॥ २ ॥

तत्र पञ्च संस्कारा यथा स्मृतौ—

तापः पुण्ड्रं तथा नाम मन्त्रो यागश्च पञ्चमः । अमी हि पञ्च संस्काराः परमैकान्तिहेतवः ॥ (ग) ॥

तापोऽत्र तप्तचक्रादिमुद्राधारणमुच्यते । तेनैव हरिनामादिमुद्रा चाप्युपलक्ष्यते ॥ ३ ॥

सा यथा स्मृतौ— हरिनामाक्षरैर्गात्रमङ्कयेच्चन्दनादिना । स लोकपावनो भूत्वा तस्य लोकमवाप्नुयात॥ (क) ॥

पुण्ड्रं स्यादूर्ध्वपुण्ड्रं तच्छास्त्रे बहुविधं स्मृतम् । हरिमन्दिरतत्पादाकृत्याद्यतिशुभावहम् ॥ नामात्र गदितं सद्भिर्हरिभृत्यत्वबोधकम् । मन्त्रोऽष्टादशवर्णादिः स्वेष्टदेववपुर्मतः ॥ शालग्रामादिपूजा तु यागशब्देन कथ्यते । प्रमाणान्येषु दृश्यानि पुराणादिषु साधुभिः ॥ ४ ॥

नवधा भक्तिर्विधिरुचिपूर्वा द्वेधा भवेद्यया कृष्णः । भूत्वा स्वयं प्रसन्नो ददाति तत्तदीप्सितं धाम ॥ ५ ॥

विधिनाभ्यर्च्यते देवश्चतुर्बाह्वादिरूपधृक। रुच्यात्मकेन तेनासौ नृलिङ्गः परिपूज्यते ॥ ६ ॥

तुलस्यश्वत्थधात्र्यादिपूजनं धामनिष्ठता । अरुणोदयविद्धस्तु सन्त्याज्यो हरिवासरः । जन्माष्टम्यादिकं सूर्योदयविद्धं परित्यजेत॥ ७ ॥

लोकसङ्ग्रहमन्विच्छन्नित्यनैमित्तिकं बुधः । प्रतिष्ठितश्चरेत्कर्म भक्तिप्राधान्यमत्यजन॥ ८ ॥

दश नामापराधांस्तु यत्नतः परिवर्जयेत॥ ९ ॥

कृष्णावाप्तिफला भक्तिरेकान्तात्राभिधीयते । ज्ञानवैराग्यपूर्वा सा फलं सद्यः प्रकाशयेत॥ १० ॥

इति प्रमेयरत्नावल्यां विशुद्धभक्तेर्मुक्तिप्रदत्वप्रकरणं नाम अष्टमप्रमेयम् ॥८॥

==प्रमाणत्रित्वम्==

अथ प्रत्यक्षानुमानशब्दानामेव प्रमाणत्वम् ।

यथा श्रीभागवते (भा.पु. ११.१९.१७)—

श्रुतिः प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ॥ (क) ॥

प्रत्यक्षेऽन्तर्भवेद्यस्मादैतिह्यं तेन देशिकः । प्रमाणं त्रिविधं प्राख्यत्तत्र मुख्या श्रुतिर्भवेत॥ १ ॥

प्रत्यक्षमनुमानं च यत्साचिव्येन शुद्धिमत। मायामुण्डावलोकादौ प्रत्यक्षं व्यभिचारि यत॥ २ ॥

अनुमा चातिधूमेऽद्रौ वृष्टिनिर्वापिताग्निके । अतः प्रमाणं तत्तच्च स्वतन्त्रं नैव सम्मतम् ॥ ३ ॥

अनुकूलो मतस्तर्कः शुष्कस्तु परिवर्जितः ॥ ४ ॥

तथा हि वाजसनेयिनः (बृ.आ.उ. २.४.५)—

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ॥ (क) ॥

काठकाः (क.उ. २.९)—

नैषा तर्केण मतिरापनेया प्रोक्तान्येन सुज्ञानाय प्रेष्ठ ॥ (ख) ॥

स्मृतिश्च— पूर्वापराविरोधेन कोऽत्रार्थोऽभिमतो भवेत। इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत॥ (ग) ॥

नावेदविदुषां यस्माद्ब्रह्मधीरुपजायते । यच्चौपनिषदं ब्रह्म तस्मान्मुख्या श्रुतिर्मता ॥ ५ ॥

तथा हि श्रुतिः (बृ.आ.उ. ३.९.२६) नावेदविन्मनुते तं बृहन्तम् ॥ इति ॥ औपनिषदं पुरुषं पृच्छामि ॥ (क) ॥

इति प्रमेयरत्नावल्यां प्रमाणत्रित्वप्रकरणं नाम नवमप्रमेयम् ॥ ९ ॥

ओ)०(ओ

एवमुक्तं प्राचा—

श्रीमध्वमते हरिः परतमः सत्यं जगत्तत्त्वतो भेदो जीवगणा हरेरनुचरा नीचोच्चभावं गताः । मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनम् अक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥ १ ॥

आनन्दतीर्थै रचितानि यस्यां प्रमेयरत्नानि नवैव सन्ति । प्रमेयरत्नावलिरादरेण प्रधीभिरेषा हृदये निधेया ॥ २ ॥

नित्यं निवसतु हृदये चैतन्यात्मा मुरारिर्नः । निरवद्यो निर्वृतिमान्गजपतिरनुकम्पया यस्य ॥ ३ ॥

इति श्रीभगवत्कृष्णचैतन्यसम्प्रदायाचार्यश्रीमद्बलदेवविद्याभूषणकृता प्रमेयरत्नावली पूर्तिमगात।

समाप्तोऽयं ग्रन्थः

"https://sa.wikisource.org/w/index.php?title=प्रमेयरत्नावली&oldid=399668" इत्यस्माद् प्रतिप्राप्तम्