प्रपञ्चसारः (द्वितीयो भागः)
प्रपञ्चसारः (द्वितीयो भागः) शङ्कराचार्यः १९१० |
॥ प्रपञ्चसारः॥
विंशः पटलः॥
अथ प्रवक्ष्यामि च मासभेद-
भिन्नानि यन्त्राण्यपि संग्रहेण ।
रेखाक्रमद्युन्ति विचित्रवर्ण-
लसन्ति विष्णोश्च विधानभाञ्जि ॥१॥
यैः कुर्युरिष्ठाप्तिनिविष्टचेष्टा
धरण्यनन्तादिकसंज्ञकानि ।
व्रतान्यभीष्टार्थदकल्पवृक्षै-
रनारतेनैव च साधकेशाः ॥२॥
मेषादिकं यच्च चतुष्कमादौ
मासेषु तद्वायुगृहावृतं स्यात् ।
सिंहादिकं भूगृहसंवृतं च
चापादिकं पार्थिवयुग्मवीतम् ॥ ३ ॥
मेषादिकेषु त्रिगुणात्मकानि
चराणि भास्वद्गुणितात्मकानि ।
स्थिराण्यतो षड्गुणितानि तज्ज्ञै-
रुक्तानि यन्त्राण्युभयात्मकानि ॥ ४ ॥
तानि त्रिषड्द्वादशकात्मकोक्तैः
स्युर्ल्र्क्षणैरप्यभिलक्षितानि ।
स्वैः स्वैश्च नामप्रविभक्तरूप-
भेदैर्बहिर्वेष्टितबिम्बकानि ॥ ५ ॥
त्रिगुणितमपि यन्त्रमष्टपता-
वृतमथ षड्गुणितं हि घड्दलाभ्याम् ।
स्थिरगतमपि चाष्टयुग्मपत्रं
तदपि च षड्युगपत्रशोभितं वा ॥ ६ ॥
पद्मं चरोमस्थिरसंज्ञकेषु
रक्तप्रपीताच्छदलादिवर्णम् ।
मासेषु यन्त्रोदरक्लृप्रतत्त-
न्मासाभिधामूर्त्यभिधाक्षराढ्यम् ॥ ७ ॥
केशवमेषादीनां
ये दीर्घा मुक्तिराशिवर्णानाम् ।
ते वृत्तानि भवन्ति च
निगदितमिति यन्त्रक्लृप्तिसामान्यम् ॥ ८ ॥
सुवर्णगोक्षीरजपाशिलाल-
पीतेन्द्रनीलारुणकैरवाभाः।
काश्मीरमेधाञ्जनरोचिषश्च
क्रमेण वर्णैरपि केशवाद्याः ॥ ९ ॥
इतीरिताश्चारुकिरीटहार-
केयूरपीताम्बरकादितुल्या:।
सचक्रशङ्गाः सगदाम्बुजाश्च
संपूजनीयास्तपनैः क्रमेण ॥ १० ॥
धात्रर्यममित्राख्या वरुणांशभगा विवस्वदिन्दुयुताः| पूषाह्वयपर्जन्यौ त्वष्टा विष्णुश्च भानवः प्रोक्ताः ||११||
प्रथमं केशवधातृक- मित्रन्नारायणार्यमाख्यं च| अन्या माधवमैत्रं परमपि गोविन्दवारुणं प्रोक्तम्||१२||
पञ्चममपि विष्णवशं मधुसूदनभगवत्पञ्च षष्ठमपि| त्रिविक्रमविवस्वदाख्यं सप्तममन्यञ्च वामनैन्द्रमपि||१३||
श्रीधरपौष्णं नवमं दशमं च हृषीकनाथपर्जन्यम्| अम्बुजनाभं त्वाष्ठं
दामोदरवैष्णवं विधानमिति||१४|| आदौ विधानेषु समेतमूर्ति-
शक्तीश्चतस्रोऽभियजेद्यथावत् ।
राशिष्वथो भानुयुताश्च मूर्तीः
प्रवक्ष्यमाणं च निरूप्य मन्त्री ॥ १५ ॥
वृषहरिवृश्चिककलशा-
त्मकेष्वथो केतुकेशवाद्यैश्च ।
मत्स्यादिकशेषाद्ये।
समभियजेदन्तरा समावरणे ॥ १६ ॥
प्रानुप्रोद्यत्स्वराष्टद्वितयवृतमहाबीजकं शक्तिलक्ष्मी-
कामैरात्ताग्निकोणं बहिरभिवृतसिंहान्वितक्रोडमन्त्रम् ।
बिन्दूनामन्तरालेष्वपि च विलिखितैः कादिवगैश्च युक्तं
षड्भिर्वायव्यगेहावृतमभिमतकामप्रदं मेषयन्त्रम् ।।
गौरीन्दिरा रतिधृती
वसुधा पुष्टिक्षमासरस्वत्यः ।
मूर्त्योश्च मध्यमावृति-
राशेशात्प्राग्ध्वजादिरपि कथिता ॥ १८ ॥
हयरथगजभृत्यादी- नरिभवशौर्यादिसिद्धिं च । तेजो यशश्च विपुलं पूजयितुर्थितनुते विधानमिदम् ।। १९ ॥ वर्णराद्यैरमन्तैः समभिवृतमहाबीजमन्मध्यराज- स्पान्तक्षाद्यक्षराढ्यं गुहनयनहुताश्रिराजन्मथार्णम् । अश्रेर्गण्डद्वयोद्यत्पचलिपिपरिवीतं च नाद्यैः सकान्तैः काद्यैर्नान्तैश्च यन्त्रं बहुविधफलदं पूजितं स्याद्वृषोत्थम् ॥ नित्यानन्दा व्यापिनी व्योमरूपा शान्तिर्विद्यारूपिणी च प्रतिष्ठा । कल्यामोघा चण्डिका दीप्तजिह्वे- त्येवं प्रोक्ताथावृति: स्यात्तृतीया ॥ २१ ॥ सुरभिहयमहिषदासी- दासाभरणांशुकादिसिद्धिकरम् । वृषजं विधानमेत-
देहान्ते सिद्धिदं परस्य सतः ॥ २२ ॥प्रागच्छन्मात्रभिख्यालिपिपरिवृतबीजं स्वरावीतवृत्तं
शाद्यैः क्षान्तैस्तदाद्यैरपि परिवृतगण्डं तदश्रत्तजुंसम् ।
भाद्यैः कान्तैः प्रवीतं मयरलवहयुग्बिन्दुकं वायुगेहा-
वीतं वाञ्छाप्रदानप्रसवगुणयुतं युग्मजं यन्त्रमेतत् ।।
इन्द्राणी कौमारिका ब्रह्मजाता
वाराह्याख्या वैष्णवी चाथ लक्ष्मीः ।
चामुण्डा माहेश्वरी स्यात्तृतीया
रक्षाप्रज्ञाश्रीप्रदं स्याद्विधानम् ॥ २४ ॥
पाशाद्यष्टाक्षरार्णप्रतिपुटितमहाष्टाक्षरावेष्टितान्त-
र्बीजं शाखान्तरूढे गगननृहरिवीजात्तकोणं बहिश्च ।
कामिन्यष्टाक्षराद्यन्तगहरिहरवीजावृतं प्रत्यनूध
द्वर्णाढ्यं वायुगेहस्थितमिति गदितं कर्कटोत्थं च यन्त्रम् ॥
रक्ता रमा कराली
कमला चण्डेन्द्रिरा महोच्छुष्मा ।
श्रीरिति मूर्तियुगलयो-
र्मध्यगता चावृतीरियं चापि ॥ २६ ॥
भूतिर्विभूतिरुन्नति- नतिधृतिरतयश्च संयतिद्युतयः । आवृतिरेका प्रोक्ता श्रीवश्यकरं विधानमिति कथितम् ।। २७ ।। ऊष्मार्णाष्टाक्षरावेष्टितहृदयमथ द्वादशार्णात्तकोणं सान्त:स्थात्माष्टवर्णैः क्रमगतविगतैरुल्ल सत्तत्त्वगण्डम् । सिंहानुष्टुब्द्वयार्णान्तरितवृतकलालंकृतं चाथ वह्नि- प्राणेशानक्षपाटाश्रितकचटतपत्वच्छलं सिंहयन्त्रम् ।। पुष्टिस्तुष्टिर्धृतिरपि कृतिः शान्तिकान्तिप्रमोदा मेधा हर्षा स्मृतिरभिमता कान्तिका स्यात्तृतीया । कृष्णः सत्यो नृहरिवरदौ विश्वमूर्तिर्वरेण्यः शौरिः शूरो नरमुरजितौ विष्णुजिष्णू चतुर्थी ॥ २९॥ विपक्षनिग्रहं तेजो यशश्च धनसंगमम् । करोत्यर्चयितॄणां च विधानमिति सिंहजम् ॥ ३० ॥ सर्गाद्यान्ताद्यमन्तैरभिवृतह्रदयं दण्डिभिश्चापि हाही- हूहैहौहोभिरात्तश्रिक्रमथ तु शिखाद्योतिवर्गान्त्यवर्णम् ।
1. यशलं.वर्णै: प्रत्यन्वितैः प्रावृतमवनिपुराश्रोल्लसत्कामबीजं
क्लिन्ने स्वाहार्णयुक्तं महिततरफलं कन्यकोत्थं च यन्त्रम् ॥
अतार्च्यो मधुसूदनस्त्वथ हृषीकेशाह्वयो मोहिनी
वैकुण्ठो विरजा हरिः सरसिजा शार्ङ्गी तमोहारिणी ।
ब्रध्नाख्यः कमलावती च समुकुन्दाख्यो रमेति क्रमा-
न्मत्स्याद्यैश्च सुताश्च गोमहिषसौभाग्यप्रदं पावनम् ॥
आद्यैरावीतबीजं ग्रहवलययुतं हुंफडायुक्तकोणं
बाह्ये पाशाङ्कुशार्णावृतमथ युगषण्मूर्तिनामार्णमर्णैः ।
प्रत्यन्वेष्यद्भिरुद्यद्धरियुतहरवर्णैश्च वीतं धरायाः
कोणेषुद्यन्नृसिंहाक्षरमिति कथितं स्यात्तुलायन्त्रमेतत् ॥
प्राक्प्रोक्त्तैश्चक्राद्यै-
रुक्तास्य समावृतिस्तृतीया स्यात् ।
प्रोतोपलब्धिमेत-
त्करोति वाणिज्यलाभं च ॥ ३४ ॥
अक्लीबद्वादशाज्द्वादशलिपिवृतहृल्लेखमश्रिद्विषट्क-
प्रोल्लास्यष्टाक्षरोष्मार्णकमपि लिपिभिः कादिभिश्चाभिवीतम् ॥
तद्वाझे चन्द्रबिम्बप्रपुटितवसुधामण्डलाश्रिप्रराज. त्कीबार्ण वृश्चिकोत्थं प्रवरतरफलप्राप्निदं यन्त्रमेतत् ॥ ३५ ॥ चिद्रूपा चिन्मया चिन्ता- मणिः श्रीः क्षोणिसंज्ञिता । रतिश्च पावनी धारा धरणी तारणी तथा ॥ ३६॥ द्राविणी मोहिनी चेति तृतीयेयं समावृतिः । अन्वयाप्तिं धर्मरतिं प्राप्नुयादस्य चार्चनात् ॥ ३७ ।। 'षट्कोणाबद्धबाणासनविवरलसन्नारसिंहं तदन्त: शक्तेर्बाह्ये परानुप्ररचित्तलघुसंध्यर्णयुक्पञ्चकाढ्यम् । अश्रिष्वाबद्धशिष्टस्वरमुपरिलसच्छूलकं चात्तवर्गे भूम्योरष्टाश्रकोद्यद्यदुजुहुलवकं चापयन्त्रं तदेतत् ॥३८॥ हर्षाहा सुनदारुणा सगगना घोरा रमा द्राविणी वीरा वीरिणिहारिणी सहरिणी मन्दारिका द्वादश । प्रोक्तेयं च समावृति: पुनरिदं संपूजयन्प्राप्नुया- लक्ष्मीसंततिबुद्धिवश्यपटुताकान्तीश्च भक्तिं शुभाम् ॥ विंशः पटलः । मध्यस्थायाः परीतौ विलसदनुपरात्तस्वरप्राक्परार्धे सिंहार्णान्ताश्रि गण्डस्फुरितहरिहरार्णे प्रहार्णावृत्तं च । तद्वाह्ये षोडशार्णाक्षरवृतमुभकुद्योतितं कोणराज- त्सोऽहं हंसाक्षराढ्यं मकरभवमिदं यत्रमिष्टार्थदायि ॥ मेधा हर्षा श्रद्धा कृपा रतिर्वा सरस्वती प्रीतिः । वाणी चेति तृतीया वृतिरुक्ता मकरजे विधानेऽस्मिन् ॥ ४१ ॥ स्वक्षेत्रवर्तिनः स्यु- र्ग्रहा: क्रमात्केशवादिमूर्तियुताः । अर्चयितॄणामेत- द्धनधान्यसमृद्धिदं विधानं स्यात् शक्तिश्रीकामबीजै: पुटितहरिहरब्रह्मभिश्चावृतान्त- र्बीजं कोणद्विषट्कस्फुरितनृहरिबीजप्रतिद्योतितं च । आदिक्षान्तैश्च वर्णैर्वृतमवनिपुरद्वन्द्वकोणान्तकाम- श्रीशक्तिक्ष्मार्णचिन्तामणिमनु तदिदं श्रीकरं कुम्भयन्त्रम् ।। प्रपञ्चसारे अच्युतकामिनिभानुमनोज्ञा विश्वतनुर्विमला हरिभद्रे । सूक्ष्मसरस्वतिनन्दनसंध्या स्यादिति मध्यगता वृतिरेषा ॥४४॥ अवनिपशुपुलसंपद- मपि पितृसौख्यं च हृत्प्रबोधं च । कुरुते विधानमेत- त्प्रयोक्तुरन्ते च निवृतिं परमाम् ॥ ४५ ॥ व्यन्वेष्यस्वदीर्घाच्समभिवृतमहाबीजमश्रेषु षट्सु द्योतत्सौर्मारलक्ष्मीगिरिदुहितृधराबीजकप्रोंसमेतम् । वीतं काद्यैः कषान्तैर्बहिरपि च कुकोणाष्टकोल्लासिहंसं सर्वार्थान्साधकेभ्यो वितरति विधिवत्कल्पितं मीनयन्त्रम् ।। हृष्टिर्वृष्टिस्तुष्टिरिष्टा सुपुष्टिः कान्तिर्मेधा मङ्गला वामसंज्ञा । दुर्गा प्रज्ञा भारती मध्यसंस्था वाक्सामर्थ्ये श्रीकरं स्याद्विधानम् ।। ४७ ।।
1. अच्युतभामिनि. 2. द्योतद्वाङ्मार, एभिर्विधानधरणीव्रतादि-
दीक्षाविधीन्ये विधिना प्रकुर्युः ।
ते पुण्यभाजो नितरां समृद्धाः
सपुत्रदारा: सुखिनो भवन्ति ॥ ४८ ॥
दीर्घायुषो मुख्यतरेन्दिराश्च
महाप्रभावा: स्वसमानवीर्याः ।
कलेबरान्ते विगताधयस्ते
विष्णोरनन्यं पदमाप्नुवन्ति ॥ ४९ ॥
एभिर्विधेयाः कलशाश्च तत्त.
न्मासोक्तयन्त्रेषु नरैर्यथावत् ।
निजेप्सितं प्राप्य मनोरथान्ते
भुक्तेश्च मुक्तेरनुभावका: स्युः ॥ ५० ॥
कर्षोन्मिते च हाटक-
पट्टे पत्रं विलिख्य चतुरश्रे।
साहित्र्यंशकृते वा
कलशेषु विनिक्षिपेञ्च दीक्षासु ॥ ५१ ॥
अभिषिच्य यन्त्रकनकं गुरवे प्रददातु संयतः सुमतिः । दुरितापनोदविधये द्युतये यशसे श्रिये च मतिसंयतये ।। ५२ ।। एषां यागविधीना- मेकेन तु पूजयंस्तदवसाने । तत्तन्मूर्तिप्रीत्यै संस्तोतव्योऽनया हरिः स्तुत्या ।। ५३ ।। प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने । तवाङ्घिपङ्कजरजोरागिणीं भक्तिमुत्तमाम ।। ५४ ।। अज प्रसीद भगवन्नमितद्युतिपञ्जर । अप्रमेय प्रसीदास्मदुःखहन्पुरुषोत्तम ॥ ५५ ॥ स्वसंवेद्यस्वरूपास्मदानन्दात्मन्ननामय । अचिन्त्य सार विश्वात्मन्प्रसीदेश निरञ्जन ॥ ५६ ।। प्रसीद तुङ्ग तुङ्गानां प्रसीद शिव शोभन ।
प्रसीद स्पष्ट गम्भीर गम्भीराणां महाद्युते ।। ५७ ॥प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामणोरणो ।
प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ ५८ ॥
गुरोर्गरीयः सर्वेश प्रसीदानन्य देहिनाम् ।
जय माधव मायात्मञ्जय केशव केशिहन ॥ ५९ ॥
जय सुन्दर सौम्यात्मञ्जय शाश्वत शङ्खभृत् ।
जय शार्ङ्गधर श्रीमञ्जय नन्दकनन्दन ॥ ६० ॥
जय चक्रगदापाणे जयाजय्य जनार्दन ।
जय रत्नाकराबन्ध किरीटाक्रान्तमस्तक ॥६१ ॥
जय पक्षिपतिच्छायानिरुद्धार्ककराकर ।
नमस्ते नरकाराते नमस्ते मधुसूदन ॥ ६२ ॥
नमस्ते नलिनापाङ्ग नमस्ते नयनाञ्जन ।
नमः पापहरेशान नम: सर्वभयापह ॥ ६३ ॥
नमः संभृतसर्वात्मनमः संभृतकौस्तुभ ।
नमस्ते नयनातीत नमो विक्रान्तवाक्पथ ॥ ६४ ॥
नमो विभिन्नज्ञेयांश नमः स्मृतिपथातिग ।
नमखिमूर्तिभेदेन सर्गस्थित्यन्तहेतवे ॥ ६५ ॥
विष्णवे त्रिदशारातिजिष्णवे परमात्मने| चक्रभिन्नारिचक्राय चक्रिणे चक्रबन्धवे||६६||
विश्वाय विश्ववन्द्याय विश्वभूतात्मने नमः| नमोऽस्तु योगिध्येयाय नमोऽस्त्वध्यात्मरूपिणे||६७||
मुक्तिप्रदाय भक्तानां नमस्ते मुक्तिदायिने| मनोवाक्कायचेष्टाः स्युर्ध्यानस्तुतिनमस्क्रियाः||
देवेश कर्म सर्वं मे भवेदाराधनं तव| विषयेष्वपि सङ्गो मे हुतं विष्णो तवाच्युत||६९||
इति हवनजपार्चाभेदतो विष्णुपूजा- निरतहृदयकर्मा यस्तु मन्त्री चिराय| स खलु सकलकामान्प्राप्य हृष्टान्तरात्मा जननमृतिवियुक्तामुत्तमां मुक्तिमेति||७०||
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे विंशः पटलः||एकविंशः पटलः ॥
अथोच्यते द्वादशवर्णसंज्ञो
मन्त्रस्तु साङ्गः सजपः सहोमः ।
विधानतो यं प्रतिजप्य भक्ता
भुक्तेश्च मुक्तेश्च पदं भवेयुः ॥ १ ॥
तारं सहृदयं मध्ये गवते स्युर्भवार्णयोः ।
सुययोश्च तथा देवा मन्त्रोऽयं द्वादशाक्षरः ॥ २ ॥
ऋषिः प्रजापतिश्छान्दो गायत्रं विष्णुरुच्यते ।
देवता हृध्दुवेण स्यान्नमसा शिर उच्यते ॥ ३ ॥
चतुर्भिश्च शिखावर्णैः पञ्चभिः कवचं भवेत् ।
प्रोक्तमस्त्रं समस्तेन पञ्चाङ्गविधिरीदृशः ॥ ४ ॥
सपादजानुयुगललिङ्गनाभ्युदरेषु च ।
हृद्दोर्गलस्यदृङमस्तशिखास्वक्षरतो न्यसेत् ॥ ५ ॥
शिखाललाटनेत्रास्यगलदोर्हृदयेषु च। सकुक्षिनाभिलिङ्गाख्यजानुपादेषु विन्यसेत्।।६।।
हृत्कुक्षिनाभिषु तथा गुह्यजानुपदेष्वधः। करकण्ठास्यदृङ्मस्तशिखासूर्ध्वं च विन्यसेत्।।७।।
संहृतेर्दोषसंहारः सृष्टेश्च शुभपुष्टयः। स्थितेश्च शान्तिविन्यासस्तस्मात्कार्यस्त्रिधा मतः।।८।।
हरिमुज्ज्वलचक्रदराब्जगदा कुलदोः परिघं सितपद्मगतम्। वलयाङ्गदहारकिरीटधरं नवकुन्दरुचं प्रणमामि सदा।।९।।
विधिवदथ विहितदीक्षो जपेन्मनुं वर्णलक्षमानममुम्। शुद्धैश्च तिलैर्जुहुया द्वादशसाहस्रकं तथा मन्त्री।।१०।।
पीठे हरेरथाङ्गैः
सशक्तिभिर्मूर्तिभिस्तदनु यजेत्। केशवसुरनाथाद्यै-
रपि देवं भक्तिपूर्वतो विद्वान् ॥ ११ ॥
समिधामथ दुग्धवृक्षजानां
जुहुयादर्कसहस्रकं सदुग्धम् ।
मनसः परिशुद्धये मनस्वी
सधृतेनापि पयोन्धसा सितेन ॥ १२ ॥
द्वादशाक्षरजपं तु सार्चनं
यो भजेत्सुनियतो दिने दिने ।
ऐहिकं समुपलभ्य वाञ्छितं
प्रेत्य याति पदमक्षयं हरेः ॥ १३ ॥
अथ प्रवक्ष्यामि सुदर्शनस्य
विधिं मनोज्ञं ग्रहतेजपादैः ।
यत्सिद्धितः सिद्धिमवाप्य रम्यां
सिद्धा मुनीन्द्रा अपि सद्य एव ॥ १४ ॥
अन्त्यतुरीयतदादिक-
भृगुदहनानन्तवह्निवर्मास्रैः ।
तारादिर्मनुरुक्तः स्यादभिमतसिद्धिदो रथाङ्गाख्यः ॥ १५ ॥ ऋषिरस्याहिर्बुध्न्य- छन्दोऽनुष्टुप्च देवता विष्णुः । चक्रपदैराविसुधी सज्वालाद्यैः शिरोन्वितैरङ्गम् ।। १६ ।। ऐन्द्रीं समारभ्य दिशं त्वधस्ता- दन्तं समुक्त्वा क्रमशो दशानाम् । चक्रेण बध्नामि नमस्तथोक्त्वा चक्राय शीर्ष च दिशां प्रबन्धः ॥ १७ ॥ त्रैलोक्यं रक्ष रक्षेति हुंफट्स्वाहेति चोदितः । तारादिकोऽयं मन्त्रः स्यादग्निप्राकारसंज्ञकः ॥ १८ ॥ सारं तु मूर्ध्न्यथ सितारुणकृष्णवर्ण मध्ये ध्रुवोश्च समथो वदने हकारम् । इद्गुह्यजानुपदसंधिषु चावशिष्टा-
न्वर्णान्न्यसेदिति तनौ पुनरग्निवर्णान् ॥ १९ ॥अव्याद्भास्करसप्रभाभिरखिला भाभिर्दिशो भासय-
न्भीमाक्षः क्षरदट्टहासविकसद्दंष्ट्राप्रदीप्ताननः ।
दोर्भिश्चक्रदरौ गदाञ्जमुसलास्त्रासींश्च पाशाङ्कुशौ
विभ्रत्पिङ्गशिरोरुहोऽथ भवतश्चक्राभिधानो हरिः ॥२०॥
प्रोक्त्वा सुदर्शनायेति विद्महेऽन्ते महापदम् ।
ज्वालाय धीमहे चोक्त्वा तन्नश्चक्रः प्रचोदयात् ॥२१॥
सौदर्शनीयं गायत्री जप्तव्या जप्तुमिच्छता ।
सांनिध्यकारिणीं मुद्रां दर्शयेदनया सुधीः ।। २२ ।।
नमो भगवते प्रोक्त्वा महासुदर्शनाय च ।
महाचक्राय च तथा महाज्वालाय चेत्यथ ॥ २३ ॥
दीप्तिरूपाय चेत्युक्त्वा सर्वतो रक्ष रक्ष माम् ।
महाबलाय स्वाहेति प्रोक्तस्तारादिको मनुः ।
रक्षाकरः प्रसिद्धोऽयं क्रियमाणेषु कर्मसु ॥ २४ ॥
षट्कोणान्त:स्थतारं विवरलिखितमन्त्राक्षरं सिद्धिराज-
त्स्वाङ्गं बाह्ये कलाकेसरमुदरगताष्टाक्षरं चाष्टपत्रम् ।
पद्मं वर्णैर्विराजद्विकृतिदललसत्षोडशार्ण त्रिवीतं व्योमान्त्यार्णे स्वनान्ना विरचितगुणपाशाङ्कुशं चक्रयन्त्रम् ।। प्रणवहद्भगवद्युतङे महा. दिकरथाङ्गचतुर्थिहुमस्रकैः । निगदित्तस्त्विह षोडशवर्णको मनुवरो मुनिभिर्विहितादरः ॥ २६ ॥ काथैः पयोभूरुहचर्मसिद्धै- दुग्धेन गव्यैरपि पञ्चभिर्वा । मूत्रैः पशोर्वा प्रतिपूर्य कुम्भं समर्चयेच्चक्रहरिं यथावत् ॥ २७ ॥ भङ्गैः प्रथमावृत्तिरपि पूज्या चक्रादिभिर्द्वितीया च । लक्ष्म्यादिभिस्तृतीया क्रमात्तथेन्द्रादिभिश्चतुर्थी स्यात् ॥ २८ ॥ चक्रशङ्खगदापद्ममुसला धनुरेव च । पाशाङ्कुशौ पीतरक्तसितश्यामा द्विजस्त्विमाः ॥ २९ ॥ एकविंशः पटलः । लक्ष्मी: सरस्वती चाथ रतिः प्रीत्याह्वया तथा । कीर्तिः कान्तिस्तुष्टिपुष्टी क्रमेणैव तु शक्तय: ॥ ३० ॥ संपूज्य चैवं विधिना हरिं तु शिष्यं गुरु: प्रीततमोऽभिषिञ्जेत् । भक्त्या स्वशक्त्या विभवैर्द्विजाती- न्संतर्प्य भूयो गुरुणानुशिष्टः ॥ ३१ ॥ एकाप्रचित्तो रविलक्षसंख्यं जपेन्मनुं नित्यकृतामिपूजः । तावत्सहस्रं किल सर्षपाश्च बिल्वाज्यदौग्धानि जुहोतु सम्यक् ॥ ३२ ॥ समुद्रतीरेऽप्यथ वाद्रिशृङ्गे समुद्रगानां सरितां च तीरे । जपेद्विविक्ते निज एव गेहे विष्णोगृहे वा पुरुषो मनस्वी ॥ ३३॥ यथोक्तसंख्यं विधिवत्प्रजप्ते मन्त्रे यथोक्तैश्च हुते हुताशे। 1. तिलसर्षपाश्च. प्रपञ्चसारे द्रव्यैरथ स्वार्थपरार्थहेतोः कुर्यात्प्रयोगान्विधिना यथावत् ।। ३४ ।। पीताभा कर्णिका स्यादरुणतरमरं श्यामलं चान्तरालं नेमि श्वेतं च बाह्ये विरचितशितिरेखाकुलं पार्थिवान्तम् । चक्रद्वन्द्वं लिखित्वा विशदमतिरथो सौम्ययाम्यं च मन्त्री कुम्भं संपूर्य सौम्ये प्ररचयतु तथा दक्षिणे होमकर्म ।। षड्विंशच्छतसंमितैरथ घृतापामार्गजेमाक्षतैः सद्राजीतिलपायसैश्च सकलैर्द्रव्यैघृतान्तैः क्रमात् । हुत्वा तद्भुतशिष्टमन्त्र विधिवक्षिप्त्वा प्रतिद्रव्यकं प्रस्थार्धान्नकृतं च पिण्डममलं कुम्भोदके मन्त्रवित् ॥ संस्थाप्य दक्षिणस्यां साध्यं कुम्भेन तेन नीराज्य । तमथ घटं सद्रव्यं बहिरारावष्टमे क्षिपेद्राशौ ॥ ३० ॥ अग्न्यादिकमपि सर्व क्षिपेदथ घटस्य दक्षिणे भागे। 1. शिखिरेखाकुलं. एकविंशः पटलः । हुतशिष्टान्नेन बलिं मन्त्रेणानेन मन्त्रवित्कुर्यात् ॥ ३८ ॥ हृदयान्ते विष्णुपदं प्रोक्त्वाथ गणेभ्य उश्चरेत्सर्वम् । शान्तिकरेभ्यश्च बलिं गृहन्त्विति शान्तये नमोन्तं स्यात् ।। ३९॥ ज्वरादिका रोगपरम्परां वा विस्मृत्यपस्मारभवां रुजं वा । रक्ष:पिशाचग्रहवैकृतं वा विधिस्त्वयं मङ्क्षु हरेद्विकारम् ॥ ४० ॥ पालाशैर्वा स्तनज. दुमजैर्वा पञ्जरे कृते फलकैः । संपूर्य पञ्चगव्यै- स्तत्र तु संस्थाप्य शुद्धमपि गदिनम् ॥ ४१॥ पूर्वोरिष्टैर्दिक्ष्वपि सजपं जुहुयुः पृथग्द्विजा वशिनः । प्रपञ्चसारे द्रव्यैः स दक्षिणान्ता- नभ्यर्च्य विमुच्यते रुजो जन्तुः ॥ १२ ॥ विप्रक्षीरद्रुमत्वङ्गलयजपुरकाश्मीरकुष्ठत्रियामा बिल्वापामार्गराजीतिलतुलसियुगक्रान्तिदूर्वायवार्कैः । लक्ष्मीदेवीकुशागोमयकमलवचारोचनापञ्चगव्यैः सिद्धेऽग्नौ कुम्भसिद्धं मनुजपमहितं मम सर्वार्थदायि ॥ लक्ष्भ्यायुष्करमतुलं पिशाचभूता- पस्मारादिकमचिरेण नाशयेश्व । क्षुद्रादीनपि विविधांस्तथोपसर्गा- नेतस्मान्न परतरा समस्ति रक्षा ।। ४४ ॥ जुहुयाद्गुग्गुलुगुलिका- सहस्रकं साष्टकं च मन्त्रितमः । त्रिदिनं चतुर्दिनं वा सर्वोपद्रवनिवारणं भवति ॥ ४५ ॥ खरमञ्जर्याः समिधा- मयुतं वा मन्त्रवित्तमो जुहुयात् । 1. त्रिधामा. एकविंशः पटलः । ज्वरभूतामयविस्मृ- त्यपस्मृतीः शमयितुं नियतचित्तः ॥ ४६॥ आज्याक्तैर्जुहुयाच्छ्रिये सरसिजैर्दूर्वाभिरप्यायुषे मेधायै द्विजभूरुहैश्च कुमुदै: श्वेतैस्तथा वाससे । शुद्धाज्यैः पशवेऽप्युदुम्बरभवैः पुत्राय चाश्वत्थजै- रेकाब्दं विधिवत्सहस्रसमितैरष्टोत्तरं मुक्तये ॥ ४७ ।। चक्रस्य नाभिसंस्थं कृत्वात्मानं मनुं जपेन्मन्त्री। स्वयमेकोऽपि न युद्धे मर्त्यो बहुभिः पराजितो भवति ॥ ४८ ॥ मन्त्री सुनियतचित्त- श्चक्रस्थं भ्रामयेद्धिया ग्रस्तम् । आविश्य सकलमुक्त्वा मुञ्चति दग्धोऽग्निना शुनाभिभुवा ॥४९॥ दीप्तं करालदहनप्रतिमं च चक्रं यस्य स्मरेच्छिरसि कस्यचिदप्रियस्य । 1. स्मृत्वात्मानम्. प्रपञ्चसारे सप्ताहतोऽस्य दहनप्रतिमो ज्वरः स्या- त्रिंशदिनैश्च स परेतपुरं प्रयाति ॥ ५० ।। कलावृतं चाहिपदाभिवेष्टितं समक्षरं यच्छिरसि स्मरेत्सदा । दशाहतोऽसौ प्रति चाट्यते रिपु- र्मृर्ति तथा मण्डलतः प्रयाति ॥ ५१ ॥ सान्तं वायसवर्ण शत्रोः शिरसि स्मरेश्च सप्ताहम् । उत्पाटयति क्षिप्रं मारयतोवाधिवोऽस्य नैशिस्यात् ।। ५२ ॥ सवत्सुधावर्षिणमिन्दुसप्रभं समुज्ज्वलं यच्छिरसि प्रचिन्तयेत् । क्षणात्समाप्यायितसर्वविग्रहो भवेत्स मर्त्यः सुचिरं च जीवति ।। ५३ ।। मध्ये तारं तदनु च मनुं वर्णश: कोणषट्के बाह्ये चाङ्ग लिखतु करके रूप्यके वापि ताम्रे । 1. मारयतेवाधियो. एकविंशः पटलः । पाषाणे वा विधिवदथ जप्याथ संस्थापितं त- चक्रं चोरग्रहरिपुभयध्वंसि रक्षाकरं च ॥ ५४॥ स्थाने हृषीकेशविदर्भितं च स्पष्टाक्षरं चाप्यभिजप्तमेतत् । रक्षां ग्रहादेः सततं विधत्ते यन्त्रं सुक्लृप्तं च मनुत्रयेण ।। ५५ ।। अष्टाक्षरान्तरितपादचतुष्ककोष्ठं कोष्ठत्रयालिखितसाध्यसुदर्शनं च । रेखाभिरप्युभयतः श्रुतिश: प्रबर्द्ध तत्सप्तकोष्ठमिति यन्त्रमिदं प्रशस्तम् ॥ ५६ ॥ भूर्जे वा क्षौमपट्टे तनुमसृणतरे कर्पठे वास्य यन्त्रं मन्त्री सम्यग्लिखित्वा पुनरपि गुलिकीकृत्य लाक्षाभिवीतम् । कृत्वा भस्मादिहोमप्रविहितधृतसंपातपातात्तशक्तिं जप्तं सम्यङ्निदध्यात्प्रतिशममुपयान्त्येव सर्वे विकाराः ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे एकविंशः पटलः॥ द्वाविंशः पटलः ॥ अथोच्यते श्रीकरनामधेय- मष्टाक्षरं लोकहिताय तावत् । येन प्रजप्तेन समर्चितेन हुतेन सिद्धिं समुपैति मन्त्री ॥ १ ॥ सर्गादकः क्षतो विंशतियुगमयुतं शान्तगं चन्द्रबिम्बं श्रीबाहुः शुक्लमेदोहरिशयनहकारा मनुः श्रीकराख्यः । ऋष्याद्या वामपङ्कीरहिरपि पुनरङ्गानि यान्तैर्हुमन्तै- र्भीषत्रासप्रमर्दप्रसहितगदितध्वंसरक्षौर्द्विरुक्तैः मूर्धाक्षिकण्ठहृदयोदरसोरुजानु- पादद्वयेषु लिपिशो न्यसतु स्वदेहे । विषादिकान्मुखकरोरुपदेषु वर्णी. श्वकादिकानपि करेषु ततस्तदखान् ॥ ३ ॥ द्वाविंशः पटलः । दुग्धाब्धिद्वीपवर्यप्रविलसितसुरोद्यानकल्पद्रुमाधो भद्राम्भोजन्मपीठोपरिगतविनतानन्दनस्कन्धसंस्थः । दोर्भिर्बिभ्रद्रथाङ्गं सदरमथ गदापङ्कजे स्वर्णवर्णो भास्वन्मौलिविचित्राभरणपरिगत: स्याच्छ्रिये वो मुकुन्दः॥ दिक्पत्रेषु श्रीरति- धृतिकान्तीः कोणकेषु मूर्तीश्च । इष्ट्वाभितो निधीशौ विष्वक्सेनं च दिक्पतीन्प्रयजेत् ॥ ५ ॥ आराध्य चैवं विधिना च विष्णुं मन्त्री पुनर्होमविधिं करोतु । श्रीदुग्धवृक्षोत्थसमिद्भिरब्जैः साज्येन दौग्धेन च सर्पिषा च ।। ६ ।। पृथगष्टशतं क्रमेण हुत्वा कनकाद्यैरपि तर्पिते गुरौ च । अभिषिच्य तथामिपूज्य विप्रा- न्मनुमेनं प्रजपेदथाष्टलक्षम् ।। ७ । 1. श्रीवृक्षदुग्धोत्थ. प्रपञ्चसारे द्रव्यैस्तै: प्रतिजुहुयाद्दशांशमानै- राचार्ये पुनरपि पूजयेज्जपान्ते । संप्राप्नोत्यपरिमितां श्रियं च कीर्ति कान्ति वा चिरमनुरज्यते च लोकैः ॥ ८॥ दूर्वा धृतप्रसिक्तां जुहुयादयुतं नरस्तु हुतशिष्टैः । आज्यैश्चरुमुपयुज्या- द्दद्याद्गुरवे च दक्षिणां शक्त्या ।। ९ ॥ परिपूजयेश्च विप्रां- स्तेषु दिनेषु स्वशक्तितो भक्त्या । अपमृत्युरोगपापा- न्विजित्य स तु दीर्घमायुराप्नोति ॥ १०॥ अनुदिनमादित्यमुखः प्रजपेदूर्ध्वीकृतस्वबाहुयुगः। तस्य गृहेऽनसमृद्धि- श्चिराय संजायते सुपुष्टतरा ॥ ११ ॥ द्वाविंशः पटलः । एवं प्रोक्तैः प्रतिजपहुतार्चादिर्भिर्मत्रमेनं भक्त्या चो वा भजति मनुजो नित्यशः सोऽचिरेण । इष्टैः पुत्रैर्घरणिधनधान्यादिभिर्हृष्टचेता: स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥ १२ ॥ अथ कथयामि विधानं महावराहाभिधानमन्त्रस्य । साङ्गं सजपं सहुता- राधनमपि मन्त्रिणामभीष्टाप्त्यै ॥ १३ ॥ वाक्यं प्रोक्त्वा हृदाख्यं तदनु भगवतेयुग्वराहं च रूपा- येत्युक्त्वा व्याहृतीनामुपरि च पतये भूपतित्वं च मेऽन्ते । देहीत्याभाष्य दान्तः सुमतिरथ पुनदीपयस्वेति हान्तं प्रोक्त्वा तारादिकं प्रोद्धरतु मनुवरं तत्र यस्त्रिंशदर्णम् ॥ ऋषिस्तु भार्गवः प्रोक्तोऽथानुष्टुप्छन्द ईरितम् । वराहो देवता चास्य कथ्यन्तेऽङ्गान्यतः परम् ॥ १५ ॥ अस्यैकशृङ्गो हृदयं शिरश्च व्योमोल्कतेजोऽधिपतिः शिखा च ।
- P rr. 3 प्रपञ्चसारे
स्याद्विश्वरूपं कवचं महाद्यो दंष्ट्रोस्खमुक्तं स्वयमेव चाङ्गम् ॥ १६ ॥ सप्तभिश्च पुन: षड्भिः सप्तभिश्चाथ पञ्चभिः । अष्टभिर्मूलमन्त्रार्णौर्विद्ध्यादङ्गकल्पनाम् ॥ १७ ॥ जान्वोरापादमुद्यत्कनकमिव हिमप्रख्यमाजानु नाभे: कण्ठादानाभि वह्निप्रभमथ शिरसश्चार्गलं नीलवर्णम् ! मौलेर्व्योमाभमाकं करलसदरिशङ्खासिखेटं गदा श- क्त्याख्येष्टाभीतियुक्तं प्रणमत वसुधोल्लासिदंष्ट्रं वराहम् ॥ सजलाम्बुवाहनिममुद्धतदो:- परिधं धराधरसमानतनुम् । सितदंष्ट्रिकाधृतभुवं स्वथ वा प्रविचिन्तयेत्सपदि कोलमुखम् ।। १९ ॥ हेमप्रख्यं पार्थिवे मण्डले वा नीहाराभं नीरजेऽग्नेस्तदाभम् । वायोः कृष्णं द्युप्रभं वा दिविस्थं कोडं व्याप्तं सत्यसंस्थं यजेद्वा ॥ २० ॥ द्वाविंशः पटलः । अष्टपत्रमथ पद्ममुल्लस- त्कर्णिकं विधिवदारचय्य च । मण्डले रविसहस्र संनिभं सूकरं यजतु तत्र सिद्धये ॥ २१ ।। प्रारदक्षिणप्रत्यगुदग्दिशासु चत्वारि चाङ्गानि यजेत्क्रमेण । अखं विदिक्षुर्ध्वमधश्च चक्रा- वस्त्राणि पूज्यानि वराहमूर्तेः ॥ १२ ॥ अरिशङ्खकृपाणखेटसंज्ञा- न्सगदाशक्तिवराभयाह्वयांश्च । अभिपूज्य दिशाधिपान्यथाव- द्वरगन्धाक्षतपुष्पधूपदीपैः ॥ २३ ॥ दंष्ट्रायां वसुधां सशैलनगरारण्यापगां हुंकृती बागीशीं श्वसितेऽनिलं रविशशी बाहोश्च दक्षान्ययोः । कुक्षौ स्थुर्वसवो दिशः श्रुतिपथे दस्नौ दृशोः पादयोः पद्मोत्थो हृदये हरिः पृथगभी पूज्या मुखे शंकरः ॥ प्रपञ्चसारे एवं काले कोलमभ्यर्चयित्वा जप्यो मन्त्रोऽसौ पुनर्लक्षसंख्यम् । होमं कृत्वा तद्दशांशैश्च पद्मै- विस्वाद्वक्तैः प्राप्नुयाभूसमृद्धिम् ॥ २५ ॥ ध्यानादपि धनसिद्धि- र्मन्त्रजपाञ्चाधरो भवेत्सघरः । जपपूजाहुत्तविधिभि- र्मङ्क्षु नरो धनधरेन्दिरावास्यात् ॥ २६ ॥ ध्यात: सन्भूगृहेऽसौ भुवमतुलतरां वारुणे शान्तिमुच्चै- राग्नेये वश्यकीर्त्त्यादिकमनिलपुरस्थोऽयमुच्चाटनादीन् । रक्षां व्योम्नोऽरिभूतग्रहविषदुरितेभ्योऽनिलाग्न्योश्च पीडां युद्धे वङ्गीरयोर्वै जयमपि नितरां संनिधत्ते वराहः ।। हरिस्थेऽर्केऽष्टम्यामथ सितरुचौ कोलवपुषा सितां गव्यैः सर्वैर्युतमयुतजप्तामपि शिलाम् । उदग्वक्त्रो मन्त्री मनुजपरतः स्थापयतु ता. मयत्नं क्षेत्रेषु द्रुतमरिनिरोधं शमयति ॥ २८॥ द्वाविंशः पटलः । भौमे वारेऽथ भानूदयमनु जपवान्संगृहीत्वा मृदंशं कोलात्मा वैरिरुद्धादपि च कुतलतस्तं च कृत्वा गुणांशम् । एकं जातौ विलिप्यात्युनरपरतरं पाकपाके तथान्यं तोये तस्मिन्सदुग्धे प्रतिपचतु हविः संस्कृते हव्यवाहे ।। भाराध्य चाष्टोर्ध्वशतप्रमाणं साज्येन मन्त्री हविषाथ तेन । सप्तारवारं जुहुयाद्यथाव- त्क्षेत्रोत्थितापत्प्रशमं प्रयाति ॥ ३०॥ भृगुवारे च मुखेऽह्नः संगृह्य मृदं हविः समापाद्य । जुहुयादीरितविधिना बलिमपि दद्यान्महाविरोधेषु ।। ३१॥ हुतक्रियैवं दिवसैश्च सप्तभि- र्विनाशयेद्भूमिविवादसंकटम् । परेतवेतालपिशाचडाकिनी- समुत्थितां वा विकृतिं विधिस्त्वयम् ॥ ३२ ॥ प्रपञ्चसारे विलोड्य तामेव मृदं च दुग्धे हुनेद्धृते वाष्टयुतं सहस्त्रकम् । द्विमण्डलादेव मही महार्ध्या स्थानमन्त्रिणोऽस्यैव तु नि:सपत्ना ॥ ३३ ॥ नृपतरुसमिधामयुतं मन्त्रणानेन यो हुनेन्मन्त्री। गृहयात्रास्य न सीदे त्क्षेत्रादिकमपि च वर्धते क्रमशः ॥ ३४॥ अष्टोर्ध्वशतं मन्त्री दिनशो यो वा जुहोति शालीभिः । स तु वत्सरेण मन्त्री विराजते ब्रीहिपुञ्जपूर्णगृहः ॥ ३५ ॥ मन्त्रेणानेन सर्पिर्जुहुत दशशतं मण्डलात्स्वर्णसिद्धिः स्वाद्वक्तेनाञ्जलिन्या अपि कुसुमसहस्रेण वाससांच। लाजानां कन्यकाया अपि च मधुमतां होमतो वाञ्छितायाः सिद्धी रक्तोत्पलानामपि मधुरयुजां स्याधुताच्छ्रीः समग्रा । द्वाविंशः पटलः । दण्ड्यधीशो व्योमा- सनस्तु वाराहमुच्यते बीजम् । नमुना तु साधितेन प्राप्स्यन्ति नरा: समृद्धिमतुलतराम् ॥ ३७ ॥ 'तारेऽमुमपि लिखित्वा तद्वाह्येऽनलपुरं समापुटित्तम् । तदाो च चतुर्दल- मब्जं स्यात्तद्वहिस्तथाष्टदलम् ॥ ३८ ॥ बाह्ये बोडशपत्रं मण्डलमाखण्डलीयमपि बाह्ये । मध्ये सूकरबीजे साध्यक्षेत्राख्यमन्त्रमश्रिषु च ॥ ३९ ॥ रन्ध्रेष्वङ्गमनूनपि दलमूलेऽष्टार्णकेसराणि लिखेत् ।। भष्टावष्टौ दलमनु सूकरमन्त्रस्य चाक्षरान्क्रमशः ॥ ४०॥ 1. तार इमं विलिखित्वा प्रपञ्चसारे अन्त्येऽवशिष्टमक्षर- मथाष्टपत्रे स्वराख्यकिञ्जल्के । वर्णाश्चतुश्चतुरपि तथाष्टमे पञ्च चालिखेत्पत्रे ॥ ४१ ।। व्य अनकि जल्केऽन्त्ये द्वौ द्वौ त्रयमन्त्यके दले विलिखेत् । तारमहीकोलाणैः प्रवेष्टयेत्साध्यवर्णपरिपुटितैः ॥ १२ ॥ तद्वाह्ये मनुवर्णै- र्विदर्भिताभिश्च साध्यपदलिपिभिः । क्ष्माबिम्बचतुष्कोणे गर्भगसाध्याक्षरं चतुर्बीजम् ॥ ४३ ॥ अष्टसु शूलेषु तथा वाराहं वासुसेनसंवृत्तम् । लाक्षाकुङ्कुमचन्दन- लघुकर्पूरैः सरोचनैर्विलिखेत् ।। 1, च भूबीजम् . वासुधेनसंपृक्तम् द्वाविंशः पटलः । गोशकदम्भोयुक्तै- र्लेखिन्या हैमया दिने प्रवरे ।। ४४ ॥ सौवर्णे राज्वसिद्धिं रजतकफलके प्रामसिद्धिं च ताग्रे साहस्रस्वर्णसिद्धिं भुजदललिखितं चाशु संसारयात्राम् । क्षौमे लाभं धराया: पिचुतरुफलके कार्यसिद्धिं निजेष्टां यन्त्रं संजप्तक्लप्तं घृतहुतकृतसंपातपातं करोति ॥४५॥ मन्त्री समास्थाय वराहरूपं साध्यप्रदेशे निखनेश्च यन्त्रम् । स्थिराख्यराशावभिवाह्य कोल. मङ्गानि दिक्षु क्षिपतां यथावत् ॥ ४६ ॥ यन्त्रमिदं रक्षायै रोगप्रहवैकृतेषु जन्तूनाम् । संजप्य शिरसि बन्ध्या- त्स तु नीरोगस्त्वयत्नतो भवति ॥ १७ ॥ इत्येवं प्रणिगदितो वराहमन्त्रो यस्त्वेनं प्रभजति नित्यशो जपाद्यैः । प्रपञ्चसारे स्र प्राप्नोत्याखिलमहीसमृद्धिमस्मि- न्देहान्ते ब्रजति हरेः परं पदं तत् ।। ४८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे द्वाविंशः पटलः॥ त्रयोविंशः पटलः॥ अथ प्रवक्ष्यामि नृसिंहमन्त्र- स्यानुष्टुभः संग्रहतो विधानम् । साङ्गं सजापं सहुतक्रमं च सार्चाविधानं निजवाञ्छिताप्त्यै ॥१॥ उग्रं वीरयुतं महान्तिकमथो विष्णुं ज्वलन्तान्वितं संप्रोक्त्वाथ च सर्वतोमुखनृसिंहार्णे तथा भीषणम् । भद्रं मृत्युयुतं च मृत्युमपि च प्रोक्त्वा नमाम्या युतं भूयोऽहंपदमुद्धरेन्मनुमिमं मन्त्री समस्तार्थकम् ॥ २ ॥ ब्रह्मा प्रजापतिर्वा प्रोक्त ऋषिर्नारदश्च विद्वद्भिः । छन्दोऽनुष्टुबुदाहृत- मथ विष्णुर्देवता नृसिंहाख्यः ॥ ३ ॥ ३४८ प्रपञ्चसारे वर्णेश्चतुर्भिरुदितं हृदयं शिरश्न तावद्भिरभिरथास्य शिखा प्रविष्टा । षड्भिश्च वर्म नयनं च चतुर्भिरलं प्रोक्तं क्रमेण मनुनाक्षरशः षडङ्गम् ।। ४ ।। सशिरोललाटद्दग्युग- मुखकरपदसंधिकेषु साप्रेषु । उदरहृदोर्गलपार्श्वे- ष्वपरे ककुदि क्रमान्न्यसेद्वर्णान् ॥ ५ ॥ प्रतिपत्तिरस्य चोक्ता प्रसन्नता क्रूरता विशेषेण । द्विविधा प्रसनया स्या- त्साधनपूजान्यया प्रयोगविधिः ॥ ६॥ जान्बोरासक्ततीक्ष्णवनखरुचिलसद्धाहुसंस्पृष्टकेश- श्चक्रं शङ्खं च दोर्भ्यो दधदनलसमज्योतिषा भग्नदैत्यः । ज्वालामालापरीतं रविशशिदहनत्रीक्षणं दीप्तजिह्वं दंष्ट्रोग्रं धूतकेशं बदनमपि वहन्पातु वो नारसिंहः ।। ७ ।। त्रयोविंशः पटलः । उद्यद्भास्वत्सहस्रप्रभमशनिनिमन्त्रीक्षणैर्विक्षरन्तं वहीनह्नाय विद्युत्ततिविततसटाभीषणं भूषणैश्च ! दिव्यैरादीप्तदेहं निशितनखलसद्वाहुदण्डैरनेकैः संमिन्नं भिन्नदैत्येश्वरतनुमतनुं नारसिंहं नमामि ॥ ८॥ नरसिंहममुं धियैव पूर्वे प्रणिपत्यार्ध्यकपाद्यसाचमाद्यैः प्रयजेत्सहगन्धपुष्पधूपा- दिभिरेवं प्रवरैश्च तृत्तगीतैः ॥ ९॥ सुविशदमतिरथ बहिरपि सम्यक्संपूज्य वैष्णवं पीठम् । तत्रावाह्य च नरहरि- मुपचारैः सभ्यगर्चयेत्प्रवरैः ॥ १० ॥ अङ्गैः प्रथमावृतिरपि पक्षीन्द्रानन्तशर्वकमलभवैः । सश्रीहीधृतिपुष्टिभि- रपरोक्ता लोकपालकैरन्या ॥ ११ ॥ प्रपञ्चसारे प्राक्प्रत्यग्यमशशिनां दिगाश्रया मूर्तयोऽनलादिषु च । स्युः शक्तय इत्येवं अक्त्या परया युतोऽर्चयेद्देवम् ॥ १२ ॥ द्वात्रिंशके सहस्रै- रधिकृतिरचुतैर्भवेत्पुरश्चरणम् । तावद्भिस्तावद्भि- र्लक्षैः सिद्धिः समीरितास्य मनोः ॥ १३ ॥ विकृतिद्विगुणसहस्रै- र्जुहुयादाज्यान्वितैश्च दुग्धान्नैः । जपसंपूर्तौ मन्त्री दिनशः संपूजयेच्च नरसिंहम् ॥ १४ ॥ विधाय तद्वीजविशिष्टकर्णिकं चतुश्चतुर्वर्णलसहलाष्टकम् । सुलक्षितं मण्डलमन्यलक्षणै- र्निधाय तस्मिन्कलशं प्रपूर्य च ।। १५ ॥ नयोविंशः पटलः । यथोक्तमार्गेण समर्च्य साष्टकं सहस्रसंख्यं प्रजपेन्मनुं ततः । त्रिरुचरन्मन्त्रमथाभिषेचये- द्यमेष मृत्योर्विनिवर्तते मुखात् ।। १६ ।। वर्णान्तानलभुवना- र्धेन्दुरुक्तं नृसिंहबीजमिदम् । तन्नास्ति सम्यगमुना मन्त्रविदा साधितेन यदसाध्यम् ॥ १७ ॥ विभवानुरूपतोऽस्मै दातव्या दक्षिणा च निजगुरवे । प्राणप्रदानकर्त्रे न तु कार्ये वित्तशाठ्यममलधिया ॥ १८॥ संप्रीणयित्वा गुरुमात्मशक्त्या संभोजयेद्विप्रवरान्यथावत् । स त्वैहिकीं सिद्धिमवाप्य शुद्धं परं परत्रापि पदं समेति ॥ १९ ।। 1. बिन्दुभिरुकं प्रपञ्चसारे दूर्वात्रिकैरष्टसहस्रसंख्यै- राराध्य मन्त्री जुहुयादथाप्सु । शान्ति प्रयान्त्येव तदोपसर्गा भापो हि शान्ता इति च श्रुति: स्यात् ॥ २०॥ उत्पाते महति सति ह्युपद्रवाणां होमोऽयं भवति च शान्तिदो नराणाम् । यद्वान्यन्निजमनसेप्सितं च कामं तच्चाप्नोत्यखिलनृणां प्रियश्च भूयात् ॥ २१ ॥ दुःस्वप्नेष्वपि दृष्टे- ष्ववशिष्टा जाग्रता निशा नेया । जपमानमन्त्रशक्या सुस्वप्नो भवति तत्क्षणादेव ॥ २२ ॥ चरन्वने दुष्टमृगाहिचोर- व्यालाकुले मन्त्रममुं जपेद्यः । असाधितं साधितमेव तस्य न विद्यते भीर्बहुरूपजाता ॥ २३ ॥ प्रयोविंशः पटलः । जनाष्टसहस्त्रं कलशेनाप्यहिविषार्तमभिषिञ्चेत् । अतिविषमेण विषेणा- प्यसौ विमुक्तः सुखी भवति ॥ २४ ॥ मूषिकलूतावृश्चिक- बहुपादाद्युत्थितं विषं शमयेत् । अष्टोत्तरशतजापा- न्मनुरयमभिमन्त्रितं च भस्माद्यम् ॥ २५ ॥ सशिरोक्षिकण्ठदद्गल- कुक्षिरुजाज्वरविसर्पवमिहिक्काः । मन्त्रौषधाभिचारक- कृतान्विकारानयं मनुः शमयेत् ॥ २६ ॥ नरहरिवपुषात्मना गृहीतं हरिणशिशुं निजवैरिणं विचिन्त्य । क्षिपतु गगनत: क्षितौ सुदूरं यमनुदिनं प्रतिचाट्यते समासात् ।। २७ ।। 1. मूर्तिक. 2. कर्णदद्गल
- P, I), 4 प्रपञ्चसारे
यां च दिशं प्रति मनुना क्षिप्तोऽसौ ता दिशं प्रयात्यचिरात् । पुत्रकलत्रधनादी- स्त्यक्त्वा त्वपुनर्निवृत्तये सहसा ।। २८ ।। नरहरिवपुषात्मना निजारिं नखरखराग्रसमग्रभिन्नदेहम् । क्षणमिव निहतं विचिन्त्य खाद- निव जपतां मनुमेष नाशमेति ॥ २९ ॥ पूर्वतरे मृत्युपदे विधाय निजसाध्यनाम मन्त्रितमः। क्रूरेण चक्षुषा तं दहन्निवालोक्य जपतु सप्तदिनम् ॥ ३० ॥ दिनशोऽष्टोर्ध्वसहस्रं म्रियते रिपुरस्य नात्र संदेहः । मारणकर्म न शस्तं
क्रियते यद्ययुतमथ जपेच्छान्त्यै ॥ ३१ ॥ वश्याकृष्टिद्वेषण
मोहोच्चाटादिकानि यदि वाञ्छेत् ।
तदर्हया प्रतिपत्त्या
तत्तत्कर्म प्रसाधयेन्मन्त्री ॥ ३२ ।।
दिनमनु दिननाथं पूजयित्वा दिनादौ
नरहरिमपि सम्यक्प्रोक्तमार्गेण मन्त्री ।
तदनु तदनुमत्या भस्मना मन्त्रितेन
प्रतिरचयतु राज्ञे वाप्यभीष्टाय रक्षाम् ।। ३३ ।।
न्यासोक्तेषु स्थाने
ष्वपि न्यसेद्भस्मना समन्त्रार्णम् ।
अखिलोपद्रवशान्त्यै
संपत्त्यै वाञ्छितार्थसंसिद्धयै ॥ ३४॥
अथ परराष्ट्रजयेच्छो
राज्ञः कुर्यात्प्रयोगविधिमेवम् ।
नरहरिमपि विधिना तं
हिरण्यकशिपुद्विषं समभ्यर्च्य ॥ ३५ ॥
तस्य पुरस्ताद्विधिव-
न्निधाय वह्निं विभीततरुकाष्ठैः ।
उज्ज्वलिते च ज्वलने
समूलतूलैः शरेध्मदशशतकैः ॥
खादन्निवोञ्चरन्मनु-
मरींश्च मिन्दन्निव क्षिपेत्समिधः ॥ ३६ ॥
हुत्वा परराष्ट्रेभ्यः
पृतनां संनाह्य च पुरस्तस्याः ।
निघ्नन्तं रिपुसेनां
स्मरन्नृसिंहं पुरेव दितितनयात् ॥ ३७ ॥
यावज्जितारिरेष्यति
नृपतिस्तावज्जपेत्स्मरन्नेवम् ।
सेन्द्रसुरासुररक्षो-
यक्षानपि जयति का कथा मनुजे ॥ ३८ ॥
श्रीकामः श्रीप्रसूनैर्दशकमथ शतानां हुनेद्विल्वकाष्ठै-
स्तत्पत्रैर्वा प्रसूनैः सुमतिरथ समिद्भिः फलैर्वा तदीयैः ।
पुन्नेप्सुः पुत्रजीवेन्धनचितदहने तत्फलैर्वा सहस्रं
दूर्वाभिस्त्वायुषेऽब्दादभिमतमखिलं प्राप्नुयान्मश्रजापी ।
ब्राह्मीं वचां वाष्टशताभिजप्तां
प्रात: समद्यान्नृहरिं विचिन्त्य ।
संप्राप्य मेधां स तु वेदशास्त्र-
निष्णातधीः स्यादपि वासरेण ॥ ४०॥
उक्तैः किमत्र बहुभिर्मनुनामुनैव
संप्रार्थितं सकलमेव लभेद्विधिज्ञः।
तस्मादमुं भजत तत्प्रतिपन्नचित्ताः
संसारसागरसमुत्तरणार्थिनो ये ॥ ४१ ॥
पाशाङ्कुशान्तरितशक्तिनृसिंहबीजै-
र्वर्मास्त्रयुङ्मनुरयं कथितः षडर्णः ।
ऋष्यादिकाः स्वभवपङ्क्तिकनारसिंहा
वर्णैश्च मन्त्रनिहितै: कथितं षडङ्गम् ॥ १२ ॥
भव्यान्निर्व्याजरौद्राकृतिरभिविवृतास्योल्लेसत्तीक्ष्णदंष्ट्र-
श्चक्रं शङ्खं च पाशाङ्कुशकुलिशगदादारणाख्यान्दघानः ।
रक्ताकारश्च नाभेरध उपरि सितो दिव्यभूषाविशेषो
देवोऽर्काग्नीन्दुनेत्रो निखिलसुखकरो नारसिंहश्चिरं वः ॥
हल्लेखान्तःस्थसाध्यं दहनपुरयुगाश्रिस्थमन्तार्णमन्तः-
सिंहानुष्टुप्चतुर्वर्णकलसितदलाढ्यं कलाकेसरं च ।
वृत्तोद्यद्यञ्जनावेष्टितमवनिपुराश्रस्थचिन्तोपलं त-
द्यन्त्रं रक्षःपिशाचामयविषयरिपुध्वंसनं नारसिंहम् ।।
इति विरचितयन्त्रप्रोज्ज्वले मण्डले प्रा-
क्समभिहितकषायाम्भोभिरापूर्य कुम्भम् ।
प्रतियजतु तदङ्गैरस्त्रभेदैस्तदीयै-
स्तदनु मखशताद्यैः साधुवज्रादिकैश्च ॥ ४५ ॥
रथचरणशङ्खपाशा-
ङ्कुशकुलिशगदाहयानि चास्त्राणि ।
दारुणमुद्राकरयो-
र्ययोस्तदीयौ कृपाणखेटाख्यौ ।। ४६ ॥
इति कृतदीक्षः प्रजपे-
दक्षरलक्षप्रमाणकं मन्त्रम् ।
जुहुयाञ्च षट्सहस्रं
जपावसाने घृतेन शुद्धेन ॥ ४७ ॥
खरमञ्जरीसमुत्थं
जुहुयादथ मञ्जरीसहस्रतयम् ।
प्रस्नातपञ्चगव्यं
सप्तदिनं भूतशान्तये मन्त्री ॥ ४८ ॥
छिन्नरूहां समिधां त्रिसहस्त्रं
यश्च जुहोति चतुर्दिनमात्रम् ।
दुग्धयुजं नचिरान्मनुजानां
होमविधिर्ज्वरशान्तिकरः स्यात् ॥ १९ ॥
अस्य यन्त्रमभिलिख्य भूर्जके
साधु चाथ तृणराजपत्रके ।
मन्त्रजप्तमपि शीर्षबन्धना-
ज्जूर्तिविभ्रमशिरोरुजापहम् ॥ ५० ॥
रक्तोत्पलै: प्रतिदिनं मधुरत्रयाक्तै-
र्यो वा जुहोति नियमेन सहस्रसंख्यैः ।
मासेन वाञ्छितमवाप्स्यति मन्त्रजापी
स्याद्वत्सरेण धनधान्यसमृद्धगेहः ॥५१॥
आरक्तैस्तरणिसहारकं प्रफुल्लै-
रम्भोजैस्त्रि्मधुरसंयुत्तैर्जुहोति ।
लक्ष्मी: स्यादथ महती महत्तथायु:
संप्राप्तः सकलजगत्प्रियश्च भूयात् ।। ५२ ॥
लाजाभिस्त्रिमधुरसंयुताभिरह्वो
मासार्धे प्रतिजुहुयान्मुखे सहस्रम् ।
कन्यार्थी प्रतिलभते वरोऽथ कन्यां
कन्या वा भवति वरार्थिनी वराढ्या ॥५३॥
तिलै: सराजीखरमञ्जरीसमि-
द्धविर्धृ्तैश्च द्विसहस्रसंख्यकैः ।
प्रजुह्वतो नैव रुजा ग्रहोद्भवा
न चाभिचारक्षतिरस्य जायते ॥ ५४ ॥
दशाधिकशतैः पयोघृतयुतैश्च दूर्वात्रयै-
र्हुनेदिनमुखेऽपि यो नरहरिं विचिन्त्यानले ।
अवाप्य स तु दीर्घमायुरखिलैर्वियुक्तो गदैः
सुखी भवति मानवो निजकलत्रपुत्रादिभिः ॥
विस्तारैः किं प्रतिजपति यो मन्त्रमेनं यथोक्तं
लब्ध्वा कामान्समभिलषितानाशु मन्त्री स भूयः ।
द्रव्यैराढ्यो द्विजनृपवरैः पूजित: शान्तचेताः
स्यादप्यन्ते परमपरिशुद्धं परं धाम विष्णोः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रयोविंशः पटलः॥
चतुर्विशः पटलः॥
अथ संप्रति विष्णुपञ्जरस्य
प्रतिवक्ष्यामि समासतो विधानम् ।
जितवांस्त्रिपुरं हरोऽपि येन
त्रिदशानामधिपो वलासुरं च ॥ १ ॥
शक्तेर्द्वादशगुणिते
यन्त्रे मन्त्राणि मण्डलान्यपि च ।
बीजानि यानि चोक्ता-
न्येभिः क्लृप्तं तु पञ्जरं विष्णोः ॥ २॥
विष्णुं लिखेन्मध्यगशक्तिबिन्दौ
कपोलयोः सिंहवराहबीजे ।
तद्विश्वरूपाह्वयमन्त्रवीतं
प्रवेष्टयेत्षोडशमन्त्रवर्णैः ॥ ३ ॥
तारं हृदयं भगव-
त्पदं महाविष्णुवासुदेवौ उन्तौ ।
विश्वादिरूप शरणं
भव मे प्रभविष्णवे नमस्यामन्सः ॥४॥
द्वादशाक्षरमन्वान्ते भवेतां कवचास्त्रको ।
स्वाहान्तषोडशार्णोऽयं मश्रः सर्वार्थसाधकः ॥ ५॥
क्रमेण तद्वर्णविकारजाता-
चनादिका: षोडश मूर्तयः स्युः ।
याभिस्तु विष्णोरिह पखरस्य
प्रवर्तते शक्तिरनेकरूपा ॥६॥
यन्त्रस्य बीजेषु चतुषु पूर्व
प्रारदक्षिणप्रत्यगुदग्गतेषु ।
विद्वांस्तु चक्रं च गदां च शाई
खड्गं च मन्त्रैः सहित विलिख्यात् ॥ ७ ॥
शकहलमुसलशूला-
न्यग्न्याश्रिध्वथाष्टबीजेषु ।
विलिखेद्दण्डं कुन्तं शक्तिं
पाशाङ्कुशं कुलिशशतमुखवह्नीन् ॥ ८ ॥
सप्रणवहृदयभगव-
द्विष्णुस्वाख्यानमूर्तिधरयुक्ताः ।
सेनापतिसहिता निज-
मन्त्रान्ता मूर्तयोऽत्र लिखितव्याः ॥ ९॥
सहस्रारपदं पूर्वे कौमोदकि ततो भवेत् ।
महाशार्ङ्गपदं पश्चान्महाखड्गपदं पुनः ॥ १० ॥
प्रोक्तानि वर्मास्त्रान्तानि निजमन्त्राणि वै क्रमात् ।
पूर्वे महापाञ्चजन्यं महाहलमनन्तरम् ॥ ११ ॥
ततो महामुसलकं महाशूलं ततः परम् ।
स्वाहान्तानि च मन्त्राणि शङ्खादीनां क्रमाद्विदुः ॥ १२ ॥
दण्डादीनामथाष्टानामन्ते युञ्ज्यान्नमःपदम् ।
पोत्रोद्धृतधरं विद्वान्वाराहे विष्ण्वभिख्ययोः ॥ १३ ॥
अन्तरा योजयेन्मन्त्री नारसिंहं पुनः सुधीः ।
नखं च दलितं चैव रिपुविग्रहमेव च ॥ १४ ॥
योजयित्वा नृसिंहात्प्राक् सिंहमन्त्रं समापयेत् ।
विष्णोरन्ते महापक्षिराजाय च गरुत्मते ॥ १५ ॥
हरिपूर्वे वाहनाय प्राणात्मन इतीरयेत् ।
नमोऽन्तोऽसौ तु विद्वद्भिर्मन्त्रो गारुत्मतो मतः ॥ १६ ॥
स त्रिष्टुभा वह्निगृहेण पूर्वे
सानुष्टुभेन्दोर्निलयेन चापि ।
गायत्रिमन्त्रोल्लसितेन भूयः
प्रवेष्टयेदर्कनिकेतनेन ।। १७ ।।
अनुलोमविलोमगैश्च वर्णै-
रभिवीतं वसुधापुरद्वयेन ।
नलिनं बहिरष्टयुग्मपत्रं
प्रविदध्यादथ मूर्तिमन्त्रयुक्तम् ॥ १८॥
तद्वहिर्मण्डलं सर्वलक्षणैरभिलक्षितम् ।
तस्मिन्नारवाह्य विधिवद्विश्वरूपहारिं यजेत् ।। १९ ॥
अग्नीषोमात्मकमरिगदाशार्ङ्गखङ्गैः सशङ्खै-
रुद्यद्वाहुं हलमुसलशूलैः सकुन्तैः सदण्डैः ।।
शक्त्या पाशाङ्कुशकुलिशटङ्काग्निभिश्चार्कवह्नि-
द्योतदूक्त्राङ्घ्रिकसरसिजं तप्तकार्तस्वराभम् ।।
विष्णुं भास्वत्किरीटं मणिमकुटकटीसूत्रकेयूरहार-
ग्रैवेयोर्म्यादिमुख्यामरणमणिगणोल्लासिदिव्याङ्गरागम् ।
विश्वाकाशावकाशप्रविततमयुतादित्यनीकाशमुद्य-
द्वाह्वप्रव्यग्रनानायुधनिकरकरं विश्वरूपं नमामि ।।
अभ्यर्च्य पूर्ववत्पीठं नवशक्तिसमन्वितम् ।
अर्चयेत्क्रमशो विद्वान्मूर्तिशक्तिचतुष्टयम् ।। २२ ।।
चक्रं च चक्राङ्ककिरीटमौलिं
सचक्रशङ्खं सगदं सशार्ङ्गम् ।
रक्ताम्बरं रक्ततनुं कराल-
दंष्ट्राननं प्राग्दलकेऽर्चयीत ।। २३ ॥
पूज्या गदा गदाङ्कित-
मौलिः सगदा सचक्रशङ्खधनुः ।
पीताम्बरानुलेपा
पीता क्रुद्धा च याम्यसंस्थदले ॥ २४ ॥
श्यामं शार्ङ्गाङ्कितकं
शार्ङ्गे शार्ङ्गारिदरगदाहस्तम् ।
रक्तांशुकानुलेपन-
माल्यदिं वारुणे यजेत्पत्रे ॥ २५ ॥
खड्गं सखड्गशिरसं
खड्गारिगदाधनुष्करं धूम्रम् ।
विकृताम्बरातुलेप-
स्रजं समभ्यर्चयेदुदक्पत्रे ॥ २६ ॥
शङ्खं सशङ्खशिरसं
शङ्खारिगदाधनुष्करं सुसितम् ।
सितवसनमाल्यभूषं
यजेन्महानादमग्निसंस्थदले ॥ २७ ॥
शङ्खोक्तचिह्नभूषा-
न्स्वास्त्रादिकधरचतुर्भुजानपरान् ।
हलमुसलशूलसंज्ञा-
न्यजेन्निशाटादिकेषु पत्रेषु ॥ २८ ॥
दण्डादिकांस्तथाष्टौ
च्छिद्रदलेष्वकर्चयीत रक्ताभान् ।
स्वस्वायुधप्रधानां-
श्चतुर्भुजाञ्शतमुखानलान्तांश्च ॥ २९ ॥
दंष्ट्राग्रलग्नवसुधं सजलाम्बुवाह-
चोरार्चिषं त्वभियजेदधरेऽष्टबाहुम् ।
चक्रासिबाणसगदादरचर्मशार्ङ्ग-
शक्त्याख्यकान्दधतमादिमहावराहम् ॥ ३० ॥
अर्कानलोज्ज्वलमुखं नयनैस्त्रिभिश्च
वह्निं क्षरन्तमवधूतसटाकलापम् ।
शुक्लाभभूषमरिशङ्खगदासिबाहुं
भूयोऽभिराधयतु खे च महानृसिंहम् ॥ ३१ ॥
अग्रे समग्रबलमुग्रतनुं स्वपक्ष-
विक्षेपविक्षतविलक्षविपक्षपक्षम् ।
खण्डाग्रतुण्डममुमण्डजदण्डनाथ.
माराधयेदथ च पञ्चरगस्य विष्णोः ॥ ३२ ॥
भूयोऽपि केशवेन्द्रा-
दिकौ समभ्यर्चयेश्च वज्रादीन् ।
गन्धादिभिरूपचारैः
पञ्चभिरथ संयतात्मको मन्त्री ॥ ३३ ॥
निवेदिते होमविधिश्च कार्यो
दीक्षाविधानाभिहितश्च वह्नौ ।
ससर्पिषान्नेन तु वह्निमूर्ति
हुत्वा तु विष्णोर्मनुना तथैव ॥ ३४ ॥
जुहुयाञ्च 'बामदेवा-
दिकशान्त्यादींश्च रुद्रसंख्येन ।
दुग्धतरूत्थाः समिधः
क्रमेण चक्रादिभिश्चतुर्मन्त्रैः ॥ ३५ ॥
जुहुयादष्टोर्ध्वशतं
संख्याद्यैर्द्वादशभिरथ मनुभिः ।
तिलसिद्धार्थैर्जुहुया-
द्विकारसंख्यं पृथक्पृथङ्मन्त्री ॥ ३६॥
त्रिष्टुबनुष्टुप्तत्पद-
मन्त्रैर्मन्त्रार्णसंख्यकं हविषा ।
सघृतेन केशवाद्यै-
र्दिनकरसंख्यं तथेन्द्रवज्राद्यैः ॥
जुहुयात्पृथगपि वसुमित-
मथ च महाव्याहृतीर्हुनेन्मतिमान् ।। ३७ ॥
आराध्य च विसृज्याग्निमभिषिच्य सुसंयतः ।
विष्णोस्तु पञ्जरं कुर्यादृषिर्ब्रह्मबृहस्पती ॥ ३८ ॥
छन्दस्त्वनुष्टुप् त्रिष्टुप् च मुनिभिः समुदाहृते ।
विश्वरूपादिको विष्णुर्विष्णुपञ्जरदेवता ॥ ३९ ॥
अष्टार्णचक्रमनुमध्यगतैश्च पादै-
र्व्यस्तैस्तथा सुमतिरारचयेत्समस्तैः ।
गीतामनोः क्रमश एव च जातियुञ्चि
पञ्चाङ्गकानि हरिपञ्जरकल्पितानि ॥ १०॥
वेष्णु: प्राच्यादिकमथ जपेन्नारसिंहोऽम्बरांन्तं
त्रिस्त्रिर्मन्त्रान्पुनरपि तथा पञ्चशस्त्वेकविंशत् ।
बुद्धिस्वास्थ्यप्रभृति च तथा पञ्चवारं त्रिगाधा
भूयो जप्याद्विमलशितधश्चिक्रमन्त्राभिधानम् ॥ ४१ ॥
नमो भगवते सर्वविष्णवे विश्वरूपिणे ।
वासुदेवाय चक्रादिसर्वायुधभृते नमः ॥ ४२ ॥
अर्केन्दुवह्निनिलयस्फुरितत्रिमन्त्र-
शक्तिप्रबन्धमहसः परमस्य विष्णोः ।
पादारविन्दगलितामृतसिक्तगात्रं
साध्यं स्मरेज्जपविधावपि साधकेशः ॥ ४३ ॥
विष्णोः सांनिध्यलब्धोल्लसितबलचलद्धस्तदण्डोद्यतास्त्रै-
श्चक्राद्यैर्भीषणास्येक्षणचरणवचोहासहुंकारघोरैः ।
उत्क्षिप्ताक्षिप्तकृत्तस्फुटितविगलिताघूर्णितध्वस्तशान्ता
ध्यायेद्वेतालभूतग्रहदुरितपिशाचारिनागारिरोगान् ॥
पूर्वे स्थाने हृषीकेशमन्त्रयुक्तं विधानवित् ।
विश्वरूपात्मकं जप्याद्वैष्णवं मूलमन्त्रकम् ॥ १५ ॥
योजयित्वा जपेत्पश्चाच्चक्रादिषु यथाक्रमम् ।
चतुर्षु चतुरः पादान्गीतात्रिष्टुप्समुद्भवान् ॥ ४६॥
पूर्णेषु षोडशेष्वेवमाद्यं पादे वराहके ।
द्वितीयान्नारसिंहे च द्वितीयं गारुडे पुन: ॥ ४७ ॥
चतुर्थे च क्रमं ते च योजयित्वा जपेत्सुधीः ।
मन्त्रं सुदर्शनं चेत्थमिष्टमष्टादशं मनुम् ॥ ४८ ॥
संयोज्य कृच्छ्रे महति जपेन्मन्त्री विधानवित् ।
आग्नेये वक्ष्यमाणेन विधानेन समाहितः ॥ ४९ ॥
सिकतोपलसर्वादीन्साधयेदथ तैः क्रियाः ।
वास्तौ पुरै वा ग्रामे वा विदध्याद्विषयेऽपि वा ॥ ५० ॥
मध्ये च षोडशाशान्ते खनेदष्टादशावटान् ।
अष्टादशं तु शक्रस्य विदध्यात्पुरतोऽवटम् ॥ ५१ ॥
हस्तागाधांस्तथायामांश्चतुरश्रान्समन्ततः ।
अन्योन्यतश्चङ्कमार्थे शुद्धान्मार्गाविधाय च ॥ ५२ ॥
गोमयेनोपलिप्येत नारीयस्थाप्यवस्त्वपि ।
शुष्कृपष्करपत्रेषु विदध्याद्विंशतिष्वपि ॥ ५३ ॥
ततो मध्यमकुण्डस्य प्रविश्य पुरतो गुरुः ।
तदन्तरिष्ट्वा पीठं च तत्र यन्त्रमनुस्मरन् ॥ ५४ ॥
स्थापयेद्वैष्णवे स्थाने विश्वरूपधिया सुधीः ।
ततः क्रमेण चक्रादीन्दिक्कुण्डेषु चतुर्ष्वपि ॥ ५५ ॥
पुनः शङ्खादिकांस्तद्वत्कुण्डेष्वश्राश्रितेष्वपि ।
तथा दण्डादिकानष्टौ च्छिद्राशासु प्रकल्पयेत् ॥ ५६ ॥
मध्ये पुनरधश्चोर्ध्वे कोलकेसरिणौ यजेत् ।
चक्रस्य प्राक्तने कुण्डे स्थापयेद्विनतासुतम् ॥ ५७ ॥
तत: समस्थलीकृत्य क्रमात्समुपलिप्य च ।
प्रत्यगानन आसीनो मध्यगस्थाण्डिलस्थिते ॥ ५८॥
यज्ञे काञ्चनपत्रस्थे पूजयेत्पूर्ववत्प्रभुम् ।
बादित्रघोषबहुलं निवेद्यान्तं यथाक्रमम् ॥ ५९॥
हुनेश्च पूर्वसंदिष्टैर्द्रव्यैः पूर्वोक्तमार्गतः ।
आशोपाशान्तराशासु बलिं दद्यात्रिशस्त्रिशः ॥ ६०॥
क्रमाञ्चक्रादिमूर्तीनां पञ्चपूरान्धसा सुधीः ।
तत उद्वास्य देवेशं पूजां प्रतिसमाप्य च ॥ ६१ ।।
दत्वा सुवर्णे वासांसि गुरवे ब्राह्मणानपि ।
संतर्प्य विभवैः सम्यग्भोजयेद्देवताधिया ॥ ६२ ॥
तन्त्रोपसर्गा नश्यन्ति नरनारीमहीभृताम् ।
प्रहक्षुद्रपिशाचाद्या नेक्षन्ते तो दिशं भयात् ॥ ६३ ॥
अश्मपातादिका ये च भया नश्यन्ति ते चिरात् ।
सस्यर्द्धिर्गोसमृद्धिश्च प्रजावृद्धिश्च जायते ॥ ६४ ॥
धनधान्यसमृद्धिश्च वर्धते तत्कुलं क्रमात् ।
दारिद्र्यरोगनिर्मुक्तं सुखमाभूतसंप्लवम् ॥ ६५ ॥
रक्षोभिरक्षितबलैरसुरैश्च देत्यैः
सर्वैः समुद्धृतमहास्त्रकरैः परीतम् ।
विष्णोस्तु पञ्जरमिदं प्रभजन्तमव्या-
त्साक्षादपीन्द्रमपरत्र नरे कथा का ॥ ६६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे चतुर्विंशः पटलः॥
पञ्चविंशः पटलः॥
अथाभिधास्यामि मनुं समासा-
त्प्रासादसंझं जगतो हिताय ।
येन प्रजप्तेन तथार्चितेन
हुतेन सिद्धिं लभते यथेष्टम् ॥ १
प्रसादनत्वान्मनसो यथाव-
त्प्रासादसंज्ञास्य मनो: प्रदिष्टा ।
अन्त्यात्तृतीय: प्रतिलोमतः स्या-
दनुग्रहार्धेन्दुयुतश्च मन्त्रः ॥ २ ॥
ऋषिरस्य वामदेवः
पङ्क्तिश्छन्दोऽस्य देवतेश: स्यात् ।
तेनेवाक्लीबकला-
दीर्घयुजाङ्गानि तस्य बीजेन ॥ ३ ॥
शूलाही टङ्कघण्टासिसृणिकुलिशपाशाग्न्यभीतीर्दधानं
दोर्भिः शीतांशुखण्डप्रतिघटितजटाभारमौलिं त्रिणेत्रम् ।
नानाकल्पाभिरामापघनमभिमतार्थप्रदं सुप्रसन्नं
पद्मास्थं पञ्चवक्त्रं म्फटिकमाणिनिभं पार्वतीशं नमामि ॥
ईशानादीन्मन्त्रवित्पञ्च मन्त्रा-
नङ्गुष्ठादिष्वङ्गुलीषु क्रमेण ।
न्यस्येदज्मिर्व्युत्क्रमाद्वषोमगाभि-
र्ह्रस्वाख्याभिस्ताभिरेवाङ्गुलीभिः ॥ ५ ॥
ईशानस्तत्पुरुषो-
ऽघोराख्यो वामदेवसंज्ञश्च ।
सद्योजाताह्वय इति
मन्त्राणां देवता: कमात्पञ्च ॥ ६ ॥
मूर्धाननत्द्दगद्गुह्यक-
पादेषु च नामभिः स्वबीजाद्यैः ।
ऊर्ध्वप्राग्दक्षोद-
क्पश्चिमगेष्वाननेषु विन्यस्येत् ॥ ७ ॥
प्रतिपाद्य निजं शरीरमेवं
प्रजपेदिन्द्रियलक्षकं शिवात्मा ।
जुहुयाञ्च दशांशतस्तदन्ते
मधुराक्तैः करवीरजप्रसूनैः ॥ ८ ॥
अथ वा कुसुमैर्जपासमुत्थैः
कमलैर्वा विमलेन पायसेन |
नृपवृक्षभवैः समिद्वरैर्वा
जुहुयात्साधकसत्तमः समृद्धयै ॥ ९ ॥
अष्टपत्रगुणवृत्तराशिभि-
र्वीथिकल्पतरुभिः समावृतम् ।
मण्डलं प्रतिविधाय शूलिन:
पीठमन्त्र नवशक्तिभिर्यजेत् ॥ १० ॥
वामा ज्येष्ठा रौद्री
काल्या कलबलाद्यविकलिन्यौ ।
सबलप्रमथिनिसर्वभूत-
दमन्यौ मनोन्मनीं च यजेत् ॥ ११ ॥
तारादिकं नतिमपि
प्रोक्त्वा भगवत्पदं चतुर्थ्यन्तम् ।
सकलगुणात्मपदान्ते
शक्तिं युक्ताय चेति संभाष्य ॥ १२ ॥
भूयोऽनन्तायेति च
योगान्ते पीठमात्मने चेति ।
नमसा युक्तं ब्रूया-
त्पीठाख्योऽयं मनुः समुद्दिष्टः ॥ १३ ॥
न्यासक्रमेण देहे
मन्त्री गन्धादिकमपि पूज्य ।
पूर्वोक्तदिक्षु मूर्तीर्विदिक्षु
सनिवृत्तिपूर्विकाश्च यजेत् ॥ १४ ॥
सद्यो वेदाक्षमालाभयवरदकरः कुन्दमन्दारगौरो
वाम: काश्मीरवर्णोऽभयवरदपरश्चाक्षमालाविलासी ।
अक्षस्त्रग्वेदपाशाङ्कुशडमरुकखट्वाङ्गशूलान्कपालं
बिभ्राणो भीमदंष्ट्रोऽञ्जनरुचिरतनुर्भीतिदश्चाप्यघोरः ॥
विद्युद्वर्णोऽथ वेदाभयवरदकुठारान्दघत्पूरुषाख्यः
प्रोक्ता: सर्वे त्रिणेत्रा विधृतमुखचतुष्काश्चतुर्बाहवश्च ।
मुक्तागौरोऽभयेष्टाधिककरकमलोऽघोरत: पञ्चवक्त्र-
स्त्वीशो ध्येयोऽम्बुजन्मोद्भवमुररिपुरुद्रेश्वराः स्यु: शिवान्ताः॥
भूतानां शक्तित्वा-
द्वचाप्तित्वाज्जगति वा निवृत्त्याद्याः ।
तेजोरूपाः करपद-
वर्णविहीना मनीषिभिः प्रोक्ताः ॥ १७ ॥
अनन्तसूक्ष्मौ च शिवोत्तमश्च
तथैकपूर्वावपि नेत्ररुद्रौ।
त्रिमूर्तिश्रीकण्ठशिखण्डिनश्च
प्रागादिपत्रेषु समर्चनीयाः ॥१८॥
शूलाशनिशरचापो-
ल्लासितदोर्दण्डभीषणा: सर्वे ।
पद्मासनाश्च नाना-
विधभूषणभूषितास्त्रिणेत्रा: स्युः ॥ १९ ॥
पाटलपीतसितारुण-
शितिरक्तशशिप्रभाश्च धूम्रान्ताः ।
कोटीरघटितविलस-
च्छशिशकलयुताश्च मूर्तयः क्रमशः ॥ २० ॥
उमा चण्डेश्वरो नन्दी महाकालो गणेश्वरः ।
वृषो भृङ्गिरिटः स्कन्दः संपूज्याश्चोत्तरादितः ॥ २१ ॥
कनकविडूरजविद्रुम-
मरतकमुक्तासिताच्छरक्ताभाः ।
पद्मासनसंस्थाश्च
क्रमादुमाद्या गुणान्तिका: प्रोक्ताः ॥ २२ ॥
पुनराशेशास्तदनु च
कुलिशाद्यादिक्रमेण संपूज्याः ।
प्रासादविधानमिदं
निगदितमिति सकलवर्गसिद्धिकरम् ॥ २३ ।।
अमुना विधिना महेशपूजां
दिनशो यः कुरुते समाहितात्मा ।
स तु सम्यगवाप्य दृष्टभोगा- न्परमन्ते परिपूर्णमेति धाम ॥ २४ ॥ वक्ष्यामि शैवागमसारमष्ट- त्रिंशत्कलान्यासविधिं यथावत् । सपञ्चभिब्रह्महरीशपूर्वैः सर्ष्यादिकैः साङ्गविशेषकैश्च ।। २५ ॥ ईशोऽनुष्टुब्भूरी- श्वरा: स तत्पुरुषसंज्ञगायत्र्यापः । पुनरग्न्यनुष्टुबापो वामदेवः कतिमर्गहरस्त्वनुष्टुब्भगयुक् ॥ २६ ॥ इन्द्रियतारसमेतं खर्वज्ञायेति हृच्छिरस्त्वमृते । तेजोमालिनिपूर्वे तृप्राय ब्रह्माशिरस इति कथितम् ॥ २७ ॥ ज्वलितशिखिशिखेत्य- नादिबोधाय चान्वितेति शिखा । प्रपञ्चसारे वज्रिणे वज्रधराय स्वाहास्वतन्त्राय वर्म नेत्रं च । सौ सौ हौ बिन्दुयुतं संप्रोक्त्वा लुप्तशक्तये च तथा ॥ २८ ॥ सश्रीपशुहुंफ- डनन्तशक्तये तथास्त्रं स्यात् । समुनिच्छन्दोदैवत- युक्तं तदङ्गषट्कमिति कथितम् ।। २९ ।। करदेहमुखन्यासं मन्त्रैः पूर्ववदाचरेत् । कलाः प्रविन्यसेद्देहे वक्ष्यमाणक्रमेण तु ॥ ३० ॥ ताः स्युः पञ्च चतस्रोऽष्टौ त्रयोदश चतुर्द्वयम् । अष्टत्रिंशत्कला: सम्यङ् न्यस्तव्या मन्त्रवित्तमैः ॥३१॥ दिक्षु प्राग्याम्यवारीवसुपनिजभुवामैन्द्रवारकिंराज्ञां हृद्ग्रीवांसद्वयीनाभ्युदरचरमवक्षःसु गुह्याङ्कयोश्च । खोर्वोर्जान्वोः सजङ्घास्फिगुभयकटीपार्श्वपद्दोस्तलेषु घ्राणे कं बाहुयुग्मेष्वतिविशदमतिर्विन्यसेदङ्गुलीभिः ।। 1. सौ चौ. 2, वारार्किराज्ञां पश्चविंशः पटलः । विन्यासः प्रतिमाकृतौ च नितरां सांनिध्यकृत्स्यादयं देहे चापि शरीरिणां निगदितः सामर्थ्यकारीति च । आस्ते यत्र तथामुनैव दिनशो विन्यस्तदेहः पुमा- न्क्षेत्रं देशममुं च योजनमितं शैवागमज्ञा विदुः ।। न्यस्यैवं पञ्चभिर्ब्रह्मभिरथ शिवमाराधयेद्दग्भिराभि- र्मध्यग्नाग्याम्यसौम्यापरदिशि पुनरङ्गैरनन्तादिभिश्च । अन्यो माद्यैर्दिशापैः पुनरपि कुलिशाद्यैर्यजेदेवमुक्तं पाश्चब्रह्मं विधानं सकलसुखयशोभुक्तिमुक्तिप्रदं च ।। पञ्चाक्षरविहितविधिं वक्ष्ये जपतामभीष्टसिद्धिकरम् । सिद्धेन येन देही प्रेत्येह च वाञ्छितं फलं लभते ॥ ३५ ॥ मेषो विषो विसर्गी मृत्युः साक्षी सवाक्षरः पवन: । ताराद्भवति यदस्मा- त्तदादिरभिधीयते मनुप्रवरः ।। ३६ ।। 1. दीर्धाविषो प्रपञ्चसारे अस्याक्षराण्यमूनि च पञ्च स्युः पञ्चभूतगानि तथा । जगदपि भूतारब्धं तेन हि जगदात्मतोदितास्य मनोः ॥ ३७॥ प्रोक्तमृष्यादिकं पूर्वमङ्गवर्णैस्तु मन्त्रकैः । अङ्गुलीदेहवक्त्रेषु मूलमन्त्राक्षरादिकान् ॥ ३८ ॥ न्यसेत्तत्पुरषाघोरसद्योवामेशसंज्ञकान् । सतर्जनीमध्यमान्त्यानामिकाङ्गुष्ठकेषु च ॥ ३९ ॥ वक्त्रहृत्पादगुह्याख्यमूर्धस्वपि च नामभिः । प्राग्याम्यवारुणोदीच्यवकेष्वपि च मूर्धसु ॥ ४० ॥ बिभ्रद्दोर्भिः कुठारं मृगमभयवरौ सुप्रसन्नो महेश: सर्वालंकारदीप्रः सरसिजनिलयो व्याघ्रचर्मात्तवासाः । ध्येयो मुक्तापरागामृतरसकलिताद्रिप्रभः पञ्चवक्र- स्त्र्यक्ष: कोटीरकोटीघटिततुहिनरोचिष्कलोत्तुङ्गमौलिः ॥ अक्षरलक्षचतुष्कं जप्यात्तावत्सहस्रमपि जुहुयात् । पञ्चविंशः पटलः । शुद्धैस्तिलैर्घुतैर्वा दुग्धान्नैर्दुग्धभूरुहेध्मैर्वा ॥ १२ ॥ तत्पुरुषाद्याः सर्वे प्रधानसंप्रोक्तबाहुहेतियुताः । उल्लासिमुखचतुष्का- स्तेजोरूपो विलक्षणस्त्वीश: ॥ ४३ ॥ आवृतिराद्या मूर्तिभि- रङ्गैरन्या पराप्यनन्ताद्यैः । अपरोमादिभिरपरे- न्द्राद्यैरपरा तदायुधैः प्रोक्ता ।। ४४ ॥ कथयामि मनोविधानमन्य- न्मुनिपूज्यं प्रवरं पिनाकपाणेः । स्वतनौ परिकल्प्य पीठमङ्गा- न्यपि विन्यस्य तथैव मन्त्रवर्णान् ॥ ४५ ॥ हृन्मुखांसोरुयुग्मेषु षड्वर्णान्क्रमतो न्यसेत् । कर्णमूले तथा नाभौ पार्श्वयुक्पृष्टहृत्सु च ॥ १६ ॥ 1. कण्ठमूले.
- P 11.6 प्रपञ्चसारे
मूर्धास्यनेत्रघ्राणेषु दो:पत्संध्यग्रकेषु च । सशिरोवक्त्रहृदयजठरोरुपदेष्वपि ॥ १७ ॥ हृदाननपरश्वेणाभीत्याख्यवरदेषु च । मुखांसहृदयेषु त्रीन्पदान्पादोरुकुक्षिषु ॥ १८ ॥ ऊर्ध्वधःक्रमतो न्यस्येद्गोलकान्यासमुत्तमम् । पुनस्तत्पुरुषाघोरसद्योवामेशसंज्ञकान् ॥ ४९ ॥ लालाटव्द्यंसजठरहृदयेषु कमान्न्यसेत् । पुनस्तत्प्रतिपत्त्यर्थे जपेन्मन्त्रमिमं सुधीः ॥ ५० ॥ नमोऽस्तु स्थाणुभूताय ज्योतिर्लिङ्गावृतात्मने । चतुर्मूर्तिवपुश्छायाभासिताङ्गाय शंभवे ॥ ५१ ।। कुर्यादनेन मन्त्रेण निजदेहे समाहितः । मन्त्री पुष्पाञ्जलिं सम्यक्त्रिशः पञ्चश एव वा ।। ५२ ॥ पूर्वोक्त एव पीठे प्रागङ्गैर्मूर्तिशक्तिभिस्तदनु। पञ्चविंशः पटलः । वृषपालचण्डदुर्गा- गुहनन्दिगणपसैन्यपा: पूज्याः ॥ ५३ ।। अन्या च वासवाद्यैः पुनरुपहारैः क्रमेण भक्तिमता । अभ्यर्चिते हुते च स्तोतव्यः संस्तवेन पुनरीशः ॥ ५४॥ नमो विरिञ्चविष्ण्वीशभेदेन परमात्मने । सर्गसंस्थितिसंहारव्यावृत्तिव्यक्तवृत्तये ॥ ५५ ॥ नमश्चतुर्धा प्रोद्भूतभूतभूतात्मने भुवः । भूरिभारार्तिसंहर्त्रे भूतनाथाय शूलिने ॥ ५६ ।। विश्वग्रासाय विलसत्कालकूटविषाशिने । तत्कलङ्काङ्कितप्रीवनीलकण्ठाय ते नमः ।। ५७ ॥ नमो ललाटनयनप्रोल्लसत्कृष्णवर्त्मने । ध्वस्तस्मरनिरस्ताधियोगिध्याताय शंभवे ॥ ५८ ॥ नमो देहार्धकान्ताय दग्धदक्षाध्वराय च । चतुर्वर्गेष्वभीष्टार्थदायिने मायिनेऽणवे ।। ५९ ॥ ३८८ प्रपश्चसारे स्थूलाय मूलभूताय शूलदारितविद्विषे । कालहन्त्रे नमश्चन्द्रखण्डमण्डितमौलये ॥ ६० ॥ विवाससे कपर्दान्तभ्रार्न्ताहिसरिदिन्दवे । देवदैत्यासुरेन्द्राणां मौलिघृष्टाय नमः ॥ ६१ ॥ भस्माभ्यक्ताय भक्तानां भुक्तिमुक्तिप्रदायिने । व्यक्ताव्यक्तस्वरूपाय शंकराय नमो नमः ।। ६२ ॥ नमोऽन्धकान्तकरिपवे पुरद्विषे नमोऽस्तु ते द्विरदवराहभेदिने । विषोल्लसत्कणिकुलबद्धमूर्तये नमः सदा वृषवरवाहनाय ते ॥ ६३ ॥ वियन्मरुद्भुतवहधासुंधरा- मखेशरव्यमृतमयूखमूर्तये । नमः सदा नरकभयावभेदिने भवेह नो भवभयभङ्गकृद्विभो ।। ६४ ॥ स्तुत्वेन्दुखण्डपरिमण्डितमौलिमेव- मुद्वासयेत्पुनरमुं हृदयाम्बुजे स्वे । पञ्चविंशः पटलः। ३८९ अभ्यर्च्य देवमभिसंयत्तचित्तवृत्ति- र्भूत्वा शिवो जपतु मन्बमहेशमेनम् ॥ १५ ॥ संतप्ये विप्रान्पुनरेवमेव संपूजयेदिन्दुकलावतंसम् । जपेद्यथाशक्ति शिवस्वरूपी भूत्वा ततोऽन्ते च शिवः स भूयात् ॥ ६६ ॥ अमुमेव मनुं लक्षं मन्त्री हल्लेखयाभिसंरुद्धम् । जप्त्वा नृपतरुसमिधां मधुरयुजां मनुसहस्त्रकं जुहुयात् ॥ ६७ ॥ वन्दे हरं वरदशूलकपालहस्तं साभीतिमद्रिसुतयोज्ज्वलदेहकान्तिम् । सामोरुपीठगतया निजवामहस्त- न्यस्तारुणोत्परुचा परिरब्धदेहम् ।। ६८ ॥ आवृतिरङ्गैराद्या हृलेखाद्याभिरनु वृषाद्यैश्च । ३९० प्रपञ्चसारे मात्राशेशैरुक्तं पञ्चाावरणं विधानमीशस्य ।। ६९ ॥ आप्यायिनी शशियुताप्यरुणाग्निमाया बिन्द्वन्तिका चलकुलीभुवनेन्दुयुक्ता । दीर्घाकलायुतशिवश्च शिवायवर्णा- स्याच्छूलिनो मनुरयं वसुवर्णयोगी ॥ ७० ॥ वामाड्कन्यस्तवामेतरकरकमलायास्तथा वामबाहु- व्यस्तारक्तोत्पलाया: स्तनविधृतिलसद्बामबाहु: प्रियायाः। सर्वाकल्पाभिरामो धृतपरशुमृगेष्टः करैः काञ्चनामो ध्येय: पद्मासनस्थ: स्मरललिततनुः संपदे पार्वतीशः ॥ पञ्चार्णोक्ताङ्गाद्यः परब्रह्मप्रदिष्टपूजश्च । वसुमितलक्षजपोऽयं मन्त्रस्तांवत्सहस्रमश्च ॥ २ ॥ इति जपहुतपूजाध्यानकैरीशयाजी प्रियतरचरित: स्यात्सर्वतो देहभाजाम् । पञ्चविंशः पटलः । ३९१ धनविभवयशःश्रीसंपदा दीर्घजीवी तनुविपदि च शैवं तत्परं धाम भूयात् ।। ७३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे पञ्चविंशः पटलः॥ षड्विंशः पटलः ॥ अथ प्रवक्ष्यते मन्त्रो दक्षिणामूर्तिसंज्ञकः । जपतामिष्टसंसिद्धिविधानसुरपादपः ॥ १॥ अत्रिः क्षिणा कालकर्णकामिकायुप्रयेक्षराः । सुध्यामध्यगता: स्युभ्यं बटमूलनिवासिने ॥ २ ॥ नैधातृनिरताङ्गाय नमो रुद्राय शंभवे । तारशक्तिनिरुद्धोऽयं मन्त्रः षट्त्रिंशदक्षरः ।। ३ ।। शुकः प्रोक्तो मुनिश्छन्दोऽनुष्टुप्च समुदाहृतम् । दक्षिणामूर्तिरुद्रोऽस्य देवता समुदीरिता ॥ ४ ॥ तारशक्त्यादिकैर्हाङाद्यन्तैर्मन्त्राक्षरैः क्रमात् । ऋत्वक्षिवसुवस्वग्निगुणवर्णैर्विभागशः ॥ ५ ॥ मन्त्री कुर्यात्षडङ्गानि जातियुञ्जि समाहितः । कालिकश्रुतिद्वग्गण्डद्वयनासास्यके दश ॥ ६ ॥ षड्विंशः पटलः । दो:संधिकण्ठस्तनह्र्न्नाभिकट्यन्धुषु क्रमात् । पत्संधिषु पुनर्द्वाभ्यां मन्त्रविद्व्यापकं न्यसेत् ॥ एवं न्यस्तशरीरोऽथ चिन्तयेमन्त्रदेवताम् ॥ ७ ॥
मुद्रा भद्रार्थदात्रीं सपरशुहरिणां बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगवरसमाबद्धकक्ष्यो वटाधः । आसीनश्चन्द्रखण्डप्रतिघटितजटः क्षीरगौरविणेत्रो दद्यादाद्यैः शुकाद्यैर्मुनिभिरभिनुतो' भावशुद्धिं भवो वः ॥
प्राक्प्रोक्तविधानेन च सम्यक्संपूज्य साधु कलशादयैः | कृतसंदीक्षो मन्त्री जप्यादेनं मनुं समाहितधीः ॥ ९॥ द्वात्रिंशदयुतमानं जप्याश्च जुहोतु तद्दशांशमितैः । दुग्धाप्लुस्तिलैर्वा साज्येन पयोन्धसा द्वयेनापि ॥१०॥ ३९४ प्रपञ्चसारे जप्तवैवं मन्त्रमेनं दिनमनु गिरिशं पूजयित्वा च हुत्वा नत्वा स्तुत्वा मनोवाक्तनुभिरवहितः प्राप्य कामानशेषान् । व्याख्याता चागमानां भुवि कविषु बरः साधु वेदान्तवेदी वादीट् सोऽद्वैतविद्याविमलतरमतिर्याति शैवं पदं तत् ॥ जीवशिखिकर्णरेफा- न्प्रतिवीप्स्य प्रादिकांश्च पुनरपि तान् । मेधाप्यायिनियान्तांं- स्तानेव तरान्तिकान्सतनुरूपान् ॥ १२ ॥ आभाष्य चटप्रचटौ सकहवमौ बन्धघातयौ वीप्स्य । प्रोक्त्वा वर्मास्त्रावधि समुद्धरेच्छक्तिपूर्वकंं मन्त्रम् ॥ १३ ॥ ऋषिरस्याघोराख्यः संप्रोक्तस्त्रिष्टुबुच्यते च्छन्दः । रुद्रोऽप्यघोरपूर्वः समीरितो देवता तथास्य मनोः ॥ १४ ॥ . षड्विंशः पटलः ३९५ हृत्पञ्चभिस्तदर्णै: शिरो हि षड्भिः शिखा तथा दशभिः । तावद्भिरेव कवचं दृगष्टभिर्द्वादशभिरपि चास्त्रम् ॥ १५ ॥ कदृगास्यकण्ठहृृन्ना- भ्यन्धूरुषु जानुजङ्घयोः पदयोः । एकादशधा मिन्नै- र्मन्त्रार्णैर्न्यसतु विग्रहे मन्त्री !॥ १६ ।। पञ्चभिरथो सषड्भि- र्द्वाभ्यामप्यष्टभिश्चतुर्भिश्च । षड्भिश्चतुस्त्रयेण च षड्भिर्द्वाभ्यां च भेदितैः क्रमशः ॥ १७ ॥ कालाभ्राभ: कराप्रैः परशुडमरुको स्वङ्गखेटौ च बाणे- ष्वासौ शूलं कपालं दधदतिभयदो भीषणास्यस्त्रिनेत्रः । रक्ताकाराम्बरो हि प्रवरघटितगात्रोऽरिनागप्रहादी- न्खादन्निष्टार्थदायी भवदनभिमतच्छित्तये स्यादघोरः ।। ३९६ प्रपञ्चसारे स्वच्छो मुमुक्षोस्तु भवेदघोरः काम्यक्रियायामपि रक्तवर्णः । कृष्णोऽभिचारे ग्रहवैकृते च प्रोक्तो जपः स्यादपि लक्षमानम् ॥ १९ ॥ घृतावसिक्तैस्तिलतण्डुलैश्च जयावसाने जुहुयाद्दशांशम् । घृतप्लुतैर्वाथ हविर्भिरेवं तावत्प्रजुह्वन्समुपैति कामान् ॥ २०॥ हृृल्लेखास्थितसाध्या- क्षरविलसत्कर्णिकं कलावीतम् । वर्गाष्टकात्तकेसर- मन्त्ये सहळक्षयाक्षरोल्लसितम् ॥ २१ ॥ मन्त्राक्षरत्रयोध- इलमध्यदलाग्रकं च तद्वाहो। वह्निपुटाश्रिसामाश्रित-
कवचास्त्रं प्रतिविलिख्य यन्त्रमिदम् ॥ २२॥कृत्वा समाप्य मण्डल-
मत्र विनिक्षिप्य पूरयेत्कलशम् ।
पीठे पिनाकपाणे-
र्गव्यैर्वा कवाथक्लृप्रतोयैर्वा ॥ २३ ॥
अङ्गावृतेरनु च हेतिभिरीरिताभिः
पश्वाञ्च मातृभिरथापि दिशाधिनाथैः ।
संपूजयीत विधिनेति षडक्षरोक्त-
मार्गेण वा मनुपरिस्फुरणाय मन्त्री ॥ २४ ॥
आज्यापामार्गसमि-
त्तिलसर्पपपायसाज्यकैश्च पृथक् ।
रात्रौ सहस्रहोमा-
द्भूतद्रोहादिशान्तिरुद्दिष्टा ॥ २५ ॥
सितकिंशुकनिर्गुण्डी-
कनकापामार्गजन्मनां समिधाम् ।
पृथमपि सहस्रहोमा-
न्निग्रहमोक्षोऽचिराद्ग्रहाणां स्यात् ॥ २६ ॥
गव्याक्तैर्जुहुयात्पृथग्दशशतं मन्त्री मयूरेध्मकै-
र्भूयस्तैश्चतुरङ्गुलैश्च शिवपञ्चम्यां निशायां हुनेत् ।
सर्पिर्मार्गसपञ्चगव्यचरुसर्पिः ससंपातकं
हुत्वा तलतिभोजयेत्प्रतिशमं यान्त्येव सर्वे ग्रहाः ।।
षट्कोणे कर्णिकायां स्फुरयुगलवृतां साध्यगर्भो च शक्तिं
कोणाग्रे प्रस्फुरद्वन्द्वकमथ विलिखेन्मन्त्रवर्णान्दलेषु ।
षड्वेदद्वन्द्वषड्वेदकचतुर्युगषट्संख्यकान्बाह्यपट्के
वर्मास्त्रार्णो तदेतद्ग्रहगदभयहृद्यन्त्रमाघोरमाहुः ।।
न च रिपवो न च रोगा
न ग्रहपीडा न शस्त्रबाधा च ।
न क्ष्वेलरुजा मर्त्या-
न्स्पृशन्त्यघोरास्त्रमन्त्रजापपरान् ॥ २९॥
तस्मादघोरास्त्रमनुं प्रजप्या-
त्समर्चयेत्तद्विहितं यथावत् ।
हुनेच्च तेनैव समस्तवाञ्छा-
संसिद्धये चाथ विमुक्तये च ॥ ३०॥
खसप्तमः कर्णयुतोऽर्धचन्द्रवा-
ल्लंपञ्चमो द्वीन्दुयुतो ध्रुवादिकः ।
मनुः स्वयं मृत्युजयात्मकः स्फुटं
समीरितः साधकरक्षणक्षमः ।। ३१ ।।
ऋषिरस्य कहोलाख्य-
श्छन्दो देव्यादिका च गायत्री ।
स्याद्देवता च मृत्युं-
जयरुद्रोऽङ्गान्यथाचरेद्भृगुणा ।। ३२ ।।
स्फुटितनलिनसंस्थं मौलिबद्धेन्दुरेखा-
गलदमृतजलार्द्रे, चन्द्रवह्नयर्कनेत्रम् ।
स्वकरकलितमुद्रापाशवेदाक्षमालं
स्फटिकरजतमुक्तागौरमीशं नमामि ॥ ३३ ॥
जप्तव्योऽयं मन्त्रवर्यस्त्रिलक्षं
दीक्षापूर्वे होमकृत्स्यादशांशैः ।
दुग्धाज्याक्तैः शुद्धखण्डैर्गलूच्या
गुर्वादेशात्साधको हव्यवाहे ॥ ३४ ॥
अर्चा कार्या नित्यशः शैवपीठे
स्यादप्यङ्गैर्लोकपालैस्तदस्त्रैः ।
सम्यक्पूजावस्तुभिर्मन्त्रजापैः
प्रोक्तं ह्येतन्मृत्युभेत्तुर्विधानम् ॥ ३५ ॥
इति जपहुतार्चनाद्यैः
सिद्धो मन्त्रोक्तमूर्तिविहितमनुः ।
संभावयेन्निजान्त-
र्योगं कृत्यापमृत्युनाशकरम् ॥ ३६॥
तारनालमथ मध्यपत्रकं
हाद्यकर्णिकयुतं क्रमोत्क्रमात् ।
चिन्तयेन्नियतमन्तरा शिवं
नीरुजे च नियतायुषेऽब्जयोः ॥ ३७ ।।
ऊर्ध्वाधःप्रोतपद्मद्वयदलनिचितैरक्षराद्यैर्ध्रवाद्यै-
राद्यन्तैर्मन्दमन्दप्रतिगलितसुधापूरसंसिच्यमानम् ।
ईशानं सूक्ष्मरूपं विमलतरसुषुम्नान्तरा संनिषण्णं
ध्यायन्नाप्नोति रोगैर्नियतपरिहृतः संजपाद्दीर्घमायुः ॥
आदौ तारं विलिखतु ससाध्याह्वयं कर्णिकायां
दिक्पत्रेष्वप्यपरमपरं चापि तत्कोणकेषु ।
भूयो भूमेः पुरमनु मृगाङ्कं तदश्रेषु टान्तं
जप्त्वा बन्धं ग्रहगदविषध्वंसि यत्नं तदेतत् ॥ ३८॥
इति कृतयन्त्रविभूषित-
मण्डलमध्ये निधाय कलशमपि ।
आपूर्यं चाभिषिञ्चे-
च्छ्रीवश्यकरं ग्रहाभिचारहरम् ॥ ३९ ॥
तत्तश्छिन्नोद्भवानां तु समिद्भिश्चतुरङ्गुलैः ।
दुग्धसिक्तैः समिद्धेऽग्नौ षट्सहस्रद्वयं हुनेत् ॥ १० ॥
यस्तु वह्नौ जुहोत्येवं यावत्संख्येन साधकः ।
तावत्संख्यैः सुधाकुम्भैरग्निः प्रीणाति शंकरम् ॥ ११ ॥
भाष्यायितोऽग्निना शर्वः साधकस्येप्सितान्वरान् ।
प्रदद्यादायुराद्यांश्च दुरन्तान्प्रलयान्तिकान् ॥ १२ ॥
मन्त्रान्ते साध्याख्यां
पालययुगलं प्रतीपमपि मन्त्रम् ।
प्रोक्त्वा समापयेन्मनु-
मयमपि मृत्युंजयाह्वयो मन्त्रः॥ ४३ ॥
अथ वामलकमलपुटा-
न्तरितं शिशुवेषभूषणं रुद्रम् ।
ध्यात्वा जपेद्यथाव-
द्भुतक्लृप्त्या मृत्युनाशनं दृष्टम् ।। ४४ ॥
चतुरङ्गुलपरिमाणै-
रमृताखण्डैरथार्कसाहस्रम् ।
जुहुयाश्च दुग्धसिक्तै-
रारोग्यायायुषे च लक्ष्म्यै च ॥ ४५ ॥
अमृतावटतिलदूर्वाः
पयो घृतं पायसं क्रमेणेति ।
सप्तद्रव्याण्युक्ता-
न्येतैर्जुहुयात्पृथक्सहस्रतयम् ॥ ४६ ।।
तीव्रे ज्वरे घोरतरेऽभिचारे
सोन्मादके दाहगदे च मोहे ।
तनोति शान्तिं नचिरेण होमः
संजीवनं चाब्दशतप्रमाणम् ।। ४७ ॥
संभोजयेद्धोमदिने च विप्रा-
न्सप्ताधिकान्स्वादुभिरन्नजातैः ।
सतर्णका गाश्च हुतावसाने
दद्याद्विजेभ्यो हुतकर्मकृभ्द्यः ॥ ४८ ॥
निजजन्मदिने शतं शतं यो
जुहुयाद्रव्यवरैः ससप्तसंख्यैः ।
मधुरैरपि भोजयेच्च विप्रा-
नभिवाञ्छन्नियमेन दीर्घमायुः ॥ १९ ॥
अथ वा सप्तभिरतै-
र्द्रव्यैरेकेन वा सहस्रतयम् ।
जन्मर्क्षे होममात्रा-
न्निरुपद्रवमुत्तमं व्रजेदायुः ॥ ५० ।।
दूर्वात्रितयैर्जुहुया-
न्मन्त्रविदेकादशाहुतीर्दिनशः ।।
प्रपञ्चसारे जित्वापमृत्युरोगा- न्प्रयात्यसावायुषश्च दैर्ध्यमपि ॥५१॥ जन्मर्क्षाणां त्रितये च्छिन्नाकाष्मर्यवकुलकैरिध्मैः । क्रमशो हुनेत्सहस्रं नश्यन्त्यपमृत्युरोगदुरितानि ।। ५२ ॥ सितसिद्धार्थसहस्रा- हुत्या नश्यन्त्युपद्रवा ज्वरजाः। तद्वदपामार्गहुता मृत्युंजयमप्यरोगतां लभते ॥ ५३ ।। प्रोक्तैर्ध्यानजपार्चनाहुतविधानाद्यैश्च मृत्युंजयं यो मन्त्री प्रभजन्मनुं प्रतिदिनं प्रातः प्रसन्नाशयः तस्येष्टानि भवन्ति संसृतिरपि स्फीता च पुत्रादयः संपन्न: सुसुखी च जीवति चिरं देहापदि स्याच्छिवः ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे षड्विंशः पटलः॥
अथ सजपहुताद्यो वक्ष्यते साधुचिन्ता-
मणिरभिमतकामप्राप्तिकल्पद्रुमोऽयम् ।
अनलकषमरेफप्राणस्रद्यान्तवाम-
1श्रुतिहिमधरखड्गैर्मण्डितो मन्त्रराजः ॥ १ ॥
ऋषिरपि काश्यप उक्त-
श्छन्दोऽनुष्टुप्च देवतोमेशः ।
2यान्तैः षड्भिर्वर्णै-
रङ्गं वा देवतार्धनारीश: ॥ २ ॥
अहिशशधरगङ्गाबद्धतुङ्गाप्तमौलि-
स्त्रिदशगणनताङ्घ्रीस्त्रीक्षण: स्त्रीविलासी ।
भुजगपरशुशूलान्खड्गवह्नी कपालं
शरमपि धनुरीशो बिभ्रदव्याच्चिरं वः ॥ ३॥
हावभावललितार्धनारिकं
भीषणार्धमपि1 वा महेश्वरम् ।
पाशसोत्पलकपालशूलिनं
चिन्तयेज्जपविधौ विभूतये ।। ४ ।।
अथ वा षोडशशूल-
व्यप्रभुजा त्रिणयनाभिनद्धाङ्गी ।
अरुणांशुकानुलेपन-
वर्णाभरणा च भगवती ध्येया ॥ ५ ॥
विहितार्चनाविधिरथानुदिनं
प्रजपेद्दशायुतमितं मतिमान् ।
अयुतं हुनेत्रिमधुरांर्द्रतरै-
स्तिलतण्डुलैस्तदवसानविधौ ॥ ६॥
शैवोक्तपीठेऽङ्गपर्यथाव-
द्वृक्षेचदुर्गुर्नगशैर्मुखाद्यैः ।
समातृभिर्दिक्पतिभिर्महेशं
पञ्चोपहारैर्विधिनार्चयीत ॥ ७ ॥
आरभ्यादिज्वलनं
दिक्संस्थैरष्टभिर्मनोरर्णैः ।
आराधयेश्च मातृभि-
रिति संप्रोक्तः प्रयोगविधिरपरः ॥ ८॥
कात्पूर्वं हसलिपिस्रंयुतं जपादौ
जत्पॄणां प्रवरमितीह केचिदाहुः ।
प्रासादाद्ययुतजपेन मङ्क्षु कुर्या-
दावेशादिकमपि नीरुजां च मन्त्री ॥९॥
शिरसोऽवतरन्निशेशबिम्ब-
स्थितमज्भिर्वृतमागलत्सुधार्द्रम् ।
अपमृत्युहरं विषज्वराप-
स्मृतिविभ्रान्तिशिरोरुजापहं च ॥१०॥
निजवर्णविकीर्णकोणवैश्वा-
नरगेहद्वितयावृतत्रिकोणे।
विगतस्वरवीतमुत्तमाङ्गे
स्मृतमेतत्क्षपयेत्क्षणाद्ग्रहार्तिम् ॥ ११ ॥
वह्नेर्बिम्बे वह्नि०वत्प्रज्वलन्तं
न्यस्त्वा बीजं मस्तके प्रस्तजन्तोः ।
ध्यात्वावेशं कारयेद्वन्धुजीवं
तज्जप्तं वा सम्यगाघ्राणनेन ॥ १२ ॥
शुक्लादिः शुक्लभाः पौष्टिकशमनविधौ कृष्टिवश्येषु रक्तो
रक्तादिः क्षोभसंस्तोभनविधिषु हकारादिको हेमवर्णः ।
धूम्रोऽङ्गामर्दनोच्चाटनविधिषु समीरादिकोऽदादिरुक्तः1
पीताभ: स्तम्भनादौ मनुरतिविमलो भुक्तिमाजामदादिः ।।
कृष्णाभः प्राणगेहस्थितमथ नयने ध्यातमान्ध्यं विधत्ते
बाधिर्ये कर्णरन्ध्रेऽर्दितमपि वदने कुक्षिगं शूलमाशु ।
मर्मस्थाने समीरं सपदि शिरस्रि वा दुःसहं शीर्षरोगं
वाग्रोधं कण्ठनालेऽवनिवृतमथ तन्मण्डले 2पीतमेतत् ॥
प्रालेयत्विषि च स्वरावृतमिदं नेत्रे स्मृतं तद्रुजं
योनौ वामदृशोऽस्त्रविस्रुतिमथो कुक्षौ च शूलं 3जपेत् ।
विस्फोटे सविषे ज्वरे तृषि प्रथा रक्तामये विभ्रमे
दाहे शीर्षगदे स्मरेद्विर्धिमिमं स्रंतृप्तये मन्त्रवित् ॥ १५॥
साध्याया हृदयकुशेशयोदरस्थं
प्राणाख्यं दृढमवबध्य बीजवर्णैः ।
तेजस्तच्छिरसि विधुं विधाय वाते
नाकर्षेदपि निजवाञ्छयैव मन्त्री ॥ १६ ॥
पारिभद्रसुमनोदलभद्रं
वह्निबिम्बगतमक्षरमेतत् ।
स्रंस्मरेच्छिरसि यस्य स वश्यो
जायते न खलु तत्र विचारः ॥ १७ ॥
निजनामगर्भमथ बीजमिदं
प्रविचिन्त्य योनिसुषिरे सुदृशः ।
वशयेत्क्षणाच्छिततया मनस:
स्रवयेश्च शुकुमथ वा रुधिरम् ॥ १८॥
निजशिवशिर:श्रितं त-
1द्बिम्बं स्मृत्वा प्रवेशयेद्योनौ
यस्यास्तत्संपर्का-
त्तां च क्षरयेत्क्षणेन वशयेच्च ॥ १९ ॥
पररेफगर्भधृतसाध्यपदं
त्रिकगं हुताशयुतषट्कवृतम् ।
विगतस्वरावृतमगारभुवि
स्थितमेतदाशु वशयेद्रमणान् ॥ २०॥
मधुरत्रयसंयुतेन शाली-
रजसा पुत्तलिकां विधाय तेन ।
मनुना जुहुयात्तया विभज्य
विदिनं यस्य कृते वशो भवेत्सः ॥ २१ ॥
विषपावकोद्यदभिधानगदं
ठगतं कुकोणयुतलाङ्गलिकम्1 ।
अहिपत्रक्लृप्तपरिजप्तमिदं
शिरसो रुजं प्रशमयेददनात् ॥ २२ ॥
कण्ठे केनावनद्धार्पितदहनयुजा मज्जया मेन वामं
दक्षं स्रंवेष्ट्य वक्षोरुहमनलसमीरौभिरंसद्वयं च ।
बक्ते नाभौ च दीर्घं सुमतिरथ विनिक्षिप्य बिन्दुं निशेशं
वक्षस्याधाय बद्धा चिरमिव विहरेत्कन्दुकैरात्मसाध्यैः ॥
कृत्वा बह्नेः पुरमनु मनुं बन्धुजीवेन तस्मि-
न्नाधायाग्निं विधिवदभिसंपूज्य चाज्यैः शताख्यम् ।
त्रैलोहाख्ये प्रतिविहितसंपातमष्टोत्तरं त-
द्धुत्वा जप्तं दुरितविषवेतालभूतादिहारि ॥ २४ ॥
साध्याख्यागर्भसेनं लिख दहनपुरे कर्णिकायां षडश्रं
बाह्येऽश्रिष्वङ्गमन्नान्दलमनु परितो बीजवर्णान्विभज्य ।
भूयोऽचः कादियादीस्त्रिषु वृतिषु कुगेहाश्रके नारसिंहं
तस्मिन्कार्ये यथावत्कलशबिधिरयं सर्वरक्षाकरः स्यात् ।।
टान्ते लिख्यात्कलाभिर्वृतमनुमनलावासयुग्मेन बह्नि-
द्योतत्कोणेन बाह्ये तदनु सवितृबिम्बेन काद्यार्णभाजा ।
तद्वाह्ये क्ष्मापुराभ्यां लिखितनृहरियुक्ताश्रकाभ्यां तदेत-
द्यन्त्रं रक्षाकरं स्याद्रुहगदविषमक्ष्वेलजूर्त्यादिरोगे ॥२६॥
बिम्बद्वन्द्वे कृशानोर्विलिखतु मणिमेनं सस्राध्यं तदाश्रि-
ष्वग्न्यादीन्व्यञ्जनार्णान्स्वरयुगलमथो संधिषट्के यथावत् ।
तारावीतं च बाह्ये कुगृहपरिवृतं गोमयाब्रोचनाभ्यां
लाक्षाबद्धं निबध्याज्जपमहितमिदं साधु साध्योत्तमाङ्गे ॥
लक्ष्म्यायुःपुष्टिकरं
परं च सौभाग्यवश्यकृत्सततम् ।
चोरव्यालमहोरग-
भूतापस्मारहारि यन्त्रमिदम् ॥ २८ ॥
साध्याख्याकर्मयुक्तं दहनपुरयुगे मत्रमेनं तदश्रि-
ष्वग्निज्वालाश्च बाह्ये विषतरुविटपे साग्रशाखे लिखित्वा ।
जत्वाष्टोर्ध्व्ं सहस्रं नृहरिकृतधिया स्वापयेत्तत्र शत्रु-
व्याघ्रादिकोडचोरादिभिरपि च पिशाचादयो न व्रजन्ति ।।
ससिद्धसुरपूजितः सकलवर्गसंसाधको
ग्रह्ज्वररुजापहो विषविसर्पदोषापहः ।
किमत्र बहुनार्थिनामभिमतार्थचिन्तामणिः
समुक्त इह संग्रहान्मनुवरस्तु चिन्तामणिः ॥
षष्ठस्वरो हुतवहस्तययोस्तुरीया-
वाद्यस्वरो मनुरयं कथित: फडन्तः ।
अस्य त्रिको निगदितो मनुरप्यनुष्टु-
प्छन्दश्च चण्डसहितो मनुदेवतेशः ।। ३१ ।।
सप्तज्वलज्वालिनिभिस्तटेन च हतेन च । सर्वज्वालिनिसंयुक्तैः फडन्तैरङ्गमाचरेत् ।। ३२ ।।
अव्यात्कपर्दकलितेन्दुकरः करात्त- शूलाक्षसूत्रककमण्डलुटङ्क ईशः । रक्ताभवर्णवसनोऽरुणपङ्कजस्थो नेत्रत्रयोल्लसितवक्त्रसरोरुहो वः ॥ ३३ ॥
कृतसंदीक्षो मन्त्री जप्याल्लक्षस्रयं च मन्त्रमिमम् । जुहुयाधिमधुरसिक्तैः सतिलैरपि तण्डुलैर्दशांशेन ॥ ३४ ॥
व्याघातसमिद्भिर्वा मनुजापी तावतीभिरथ जुहुयात् । 'पूर्वोक्तार्चापीठे गन्धाद्यैरर्चयेच्च चण्डेशम् ॥ ३५ ॥
चण्डचण्डाय चेत्युक्त्वा प्रवदेद्विद्महेपदम् । चण्डेश्वराय च प्रोक्त्वा धीमहीपदमुच्चरेत् ॥ ३६ ।। 1. पूर्वोक्त एव पाठे. , धीमहे. प्रपञ्चसारे तन्नश्चण्ड इति प्रोक्त्वा भूयो ब्रूयात्प्रचोदयात् । एषा तु चण्डगायत्री जपात्सानिध्यकारिणी ॥ ३७॥
अङ्गैः समातृभिर्मन्त्री लोकेशैः संप्रपूजयेत् । कूर्मों विष्णुयुतो दण्डी बीजमस्योच्यते बुधैः ।। ३८ ॥
बदेच्चण्डेश्वरायेति बीजादिहृदयान्तिकम् । अर्चनादिष्विमं मन्त्रं यथावत्संप्रयोजयेत् ॥ ३९ ।।
एवं जपहुतार्चाभिः सिद्धमात्रे तु मन्त्रके ।
वाञ्छितादधिकं लभ्येत्काञ्चनं नात्र संशयः ॥ ४०॥
न्न्यक्षरस्य जपो यावत्तावज्जप्यात्षडक्षरम् । ऐहिकामुष्मिकीं सिद्धिं यथा हि लभते नरः ।। ४१ ॥
कृत्वा पिष्टेन शल्या: प्रतिकृतिमनलं चापि काष्टैश्चिताना- माधायारभ्य पुंसस्त्रिमधुरलुलिता दक्षिणाङ्गुष्टदेशात् छित्त्वा च्छित्त्वाष्टयुक्तं शतमथ जुहुयाद्योषितां वामपादा- द्विप्रादीनां चतुर्णी वशकरमनिशं मन्त्रमेतद्धुतान्तम् ।।
अनुदिनमष्टशतं यो जुहुयात्पुष्पैरनेन मन्त्रेण । सप्तविंशः पटलः । सप्तदिनैः स तु लभते वासस्तद्वर्णसंकाशम् ॥ ४३ ॥ अहरहरष्टशतं यो मन्त्रेणानेन तर्पयेदीशम् । तस्य तु मासचतुष्का- दर्वाक्संजायते महालक्ष्मीः ।। ४४ ॥ साध्यर्क्षाङ्घ्रिपचर्मणां सुममृणां पिष्टैश्च लोणैः समं कृत्वा पुत्तलिकां प्रतिष्ठितचलां जप्त्वा च रात्रौ हुनेत् । सप्ताहं पुरुषोऽङ्गना यदि चिरं वश्यं त्ववश्यं भवे. दस्मिञ्जन्मनि नात्र चोद्यविषयो देहान्तरे संशयः ।। इति चण्डमन्त्रविहितं विधिव- द्विधिमादरेण य इमं भजते । स तु वाञ्छितं 'पदमिहाप्य पुन: शिवरूपतामपि परत्र लभेत् ॥ ४६ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द- भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे सप्तविंशः पटलः॥ 1. पदमवाप्य. अष्टाविंशः पटलः॥ अथाखिलार्थानुततैव'1 शक्ति- र्युक्ता चतुर्विंशतितत्त्वभेदैः। गायत्रिखंज्ञापि च तद्विशेषा- नथ प्रयोगान्कथयामि साङ्गान् ॥ १ ॥ ताराह्वयो व्याहृतयश्च सप्त गायत्रिमन्त्र: शिरसा समेतः । अन्वर्थकं मन्त्रमिमं तु वेद- सारं पुनर्वेदविदो वदन्ति ॥२॥ जप्यः स्यादिह परलोकसिद्धिकामै- र्मन्त्रोऽयं 2महिततर्द्विजैर्यथावत् । भूदेवा नरपतयस्तृतीयवर्णाः संप्रोक्ता द्विजवचनेन तत्र भूयः ।। ३ ।। 1. अनुगतैव. १. महिततरो. अष्टाविंशः पटलः । तेषां शुद्धकुलद्वयोत्थमहसामारभ्य तन्तुक्रियां तारव्याहृतिसंयुता सहशिरा गायत्र्युपास्या परा । संध्योपासनया जपेन च तथा स्वाध्यायभेदैरपि प्राणायामविधानतः सुमतिभिर्ध्यानेन नित्यं द्विजैः । आदौ तारः प्रकृतिविकृतिप्रोत्थितोऽसौ च मूला- धारादारादलिविरुतिराविश्य सौषुम्नमार्गम् । आद्यैः शान्तावधिभिरनुगो मात्रया सप्तभेदैः शुद्धो मूर्धावधि परिगत्त: शाश्वतोऽन्तर्बहिश्च ।। ५ ।। प्रकाशितादौ प्रणवप्रपञ्चता निगद्यते व्याहृतिसप्तकं पुनः । सभूर्भुवः स्वश्च महर्जनस्तपः- समन्वितं सत्यमिति क्रमेण च ॥६॥ भूःपदाद्या व्याह्रतयो भूशब्दस्तदि वर्तते । तत्पदं सदिति प्रोक्तं सम्मानत्वात्तु भूरतः ॥ ७ ॥ भूतत्वात्कारणत्वाच्च भुव:शब्दस्य संगतिः । 1सर्वस्वीकरणास्थात्मतया च स्वरितीरितम् ॥ ८ ॥ 1. सर्वस्य स्वीरणात्
- P.II.8 प्रपञ्चसारे
1 महत्त्वाच्च महत्त्वाच महःशब्दः समीरितः । तदेव सर्वजनता तस्मात्तु व्याहृतिर्जनः ॥ ९ ॥ तपो ज्ञानतया चैव तथा तापतया स्मृतम् । सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्मृतम् ।। १० ।। प्रणवस्य व्याहृतीनामत: संबन्ध उच्यते । अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥ ११ ॥ बिन्दुरंमहस्तथा नादो जन: शक्तिस्तपः स्मृतम् । शान्तं सत्यमिति प्रोक्तं यत्तत्परतरं पदम् ॥ १२ ॥ प्रणवस्य व्याहृतीनां गायत्र्यैक्यमथोच्यते ।। अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवर्ण्यते ॥ १३ ॥ तद्वितीयैकवचनमनेनाखिलवस्तुनः । सृष्टयादिकारणं तेजोरूपमादित्यमण्डले ।। १ ।। अभिध्येयं परानन्दं परं ब्रह्माभिधीयते । यत्तत्सवितुरित्युक्तं षष्ठयेकवचनात्मकम् ।। १५ ।। धातोरिह समुत्पन्नं प्राणिप्रसववाचकात् । सर्वासां प्राणिजातीनामिति प्रसवितुः सदा ॥ १६ ॥ 1. सदानन्द अष्टाविंशः पटलः । वरेण्यं वरणीयत्वात्सेवनीयतया तथा । भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥ १७ ॥ पूर्वस्याष्टाक्षरस्यैवं व्याहृत्तिर्भूरिति स्मृता । पापस्य भञ्जनाद्भर्गो भक्तस्निग्धतया तथा ॥ १८॥ देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः । प्रभूतेन प्रकाशेन दीप्यमानस्य वै तथा ॥ १९ ॥ ध्यैचिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः । निगमायेन दिव्येन विद्यारूपेण चक्षुषा ।। २० ॥ दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः । हीनतारहितं तेजो यस्य स्यात्स हिरण्मयः ॥ २१ ॥ य: सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव तु । द्वितीयाष्टाक्षरस्यैवं व्याहृतिर्भुव ईरिता ॥ २२ ॥ धियो बुद्धीर्मनोरस्य च्छान्दसत्वाद्य ईरितः । कृतश्च लिङ्गव्यत्यास: सूत्रात्सुप्तिङुपग्रहात् ॥ २३ ॥ यत्तु तेजो निरुपमं सर्वदेवमयात्मकम् । भजतां पापनाशस्य हेतुभूतमिहोच्यते ।। २४.६4. प्रपञ्चसारे न इति प्रोक्त आदेशः षष्ठ्यासौ युष्मदस्मदोः। तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ।। २५ ॥ तृतीयाष्टाक्षरस्यापि व्याहृत्ति: स्वरितीरिता। एवं दश पदान्यस्यास्त्रयश्चाष्टाक्षरा: स्मृताः ॥ २६ ॥ षडक्षराश्च चत्वारः स्युश्चतुर्विशदक्षराः । इत्थंभूतं यदेतस्य देवस्य सवितुर्विभोः ॥ २७ ॥ वरेण्यं भजतां पापविनाशनकरं परम् । भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥ २८ ॥ उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते । आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥२९॥ तदात्मकं जगत्सर्वं रसस्तेजोद्वयं युतम् । अमृतं तदनाशित्वाद्ब्रह्मत्वाद्ब्रह्म उच्यते ॥ ३० ॥ यदानन्दात्मकं ब्रह्म सत्यज्ञानादिलक्षणम् । तद्भूर्भुवःस्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥ ३१ ॥ एतत्तु वेदसारस्य शिरस्त्वाच्छिर उच्यते । लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥ ३२ ॥ अष्टाविंशः पटलः । फलार्थी तदवाप्नोति मुमुक्षुर्मोक्षमृच्छति । उपव्युषस्येवोत्थाय कृतशौचविधिर्द्विजः ॥ ३३ ॥ दन्तानां धावनं चैव जिह्वानिर्लेखनादिकम् । कृत्वा स्नात्वा समाचम्य मन्त्रपूतेन वारिणा ॥३४॥ आपो हि ष्ठा मयेत्यादिऋग्भिस्तिसृभिरेव च । अभ्युक्ष्य शुद्धदेहः सन्नपः पीत्वा समाहितः ॥ ३५॥ सूर्यश्चेत्यनुवाकेन पुनराचम्य पूर्ववत् । अभ्युक्ष्य शुद्धदेहः सन्गृहीत्वाञ्जलिना जलम् ॥ ३६॥ आदित्याभिमुखो भूत्वा तद्गतात्मोर्ध्वलोचनः । वेदसारं परं ज्योतिर्मूलभूतं परात्परम् ।। ३७ ॥ हत्स्थं सर्वस्य लोकस्य मण्डलान्तर्व्यवस्थितम् । चिन्तयन्परमात्मानमप ऊर्ध्वं बिनिक्षिपेत् ।। ३८ ॥ एनस्ता: प्रतिनिघ्नन्ति जगदाप्याययन्ति च । ततः प्रदक्षिणीकृत्य पुनराचम्य संयतः ॥ ३९ ।। क्रमात्तारादिमन्त्राणामृष्यादीन्विन्यसेत्सुधीः । तत्र तु प्रणवस्यादावृषिरक्त: प्रजापतिः ॥ ४० ॥ ४२.२ प्रपञ्चसारे छन्दश्च देवी गायत्री परमात्मा च देवता । जमदग्निभरद्वाजभृगुगौतमकाश्यपाः ॥ ११ ॥ विश्वामित्रवसिष्ठाख्यावृषयो व्याहृतीरिताः । गायत्र्युष्णिगनुष्टुप्च बृहती पङ्क्तिरेव च ॥ ४२ ॥ त्रिष्टुब्जगत्यौ च्छन्दांसि कथ्यन्ते देवता अपि । सप्तार्चिरनिल: सूर्यो वाक्पतिवरुणो वृषा ॥ ४३ ॥ . 1 विश्वेदेवा इति प्रोक्ता: सप्त व्याहृतिदेवताः । ह्रन्मुखांसोकरूयुग्मेषु सोदरेषु क्रमान्न्यसेत् ॥ ४४ ।। विश्वामित्रस्तु गायत्र्या ऋषिश्छन्दः स्वयं स्मृतम् । सविता देवता चास्य ब्रह्मा शिर ऋषिः स्मृतः ॥४५॥ छन्दश्च देवी गायत्री परमात्मा च देवता । स्थानेषु पूर्वमुक्तेषु सताराव्याह्रतीर्न्यसेत् ॥ ४६ ।। गायत्रीं शिरसा विद्वासपेत्रिः स्यादुपासना । हृदयेऽधस्तथोर्ध्वं च महादिक्ष्वपि संयतः ॥ ४७ ॥ व्यापयेव्द्याहृती: सम्यग्गायत्रीं च शिरोयुताम् । सार्थसंस्मृति संजप्यान्निरिदं जपलक्षणम् ।। ४८ ।। अष्टाविंशः पटलः । ४.२.३. आत्मन्यधश्चोपरितो दिग्भ्यस्ताः समुपानयेत् । गायत्री पूर्ववज्जयात्स्वाध्यायविधिरीदृशः ॥ ४९ ॥ एतत्त्रयं विशः कुर्यादृजुकायस्त्वनन्यधीः । निरूच्छासः स विज्ञेयः प्राणायामो मनीषिमिः ॥५०॥ ध्यानस्य केवलस्यास्य व्याख्याने दर्शितः क्रमः ।. त्रिव्याहत्यादिमभ्यस्येद्गायत्रीं संध्ययोः सुधीः ॥ ५१ ।। शतं वाथ सहस्रं वा मन्त्रार्थगतमानसः । पूर्वं प्रपञ्चयागोक्तान्गाणपत्यजपादिकान् ।। ५२ ॥ लिपिन्यासादिकान्साङ्गान्महन्न्यासादिसंयुतान् । सनिजार्ष्यादिकान्सान्विदध्याद्विधिवद्बुधः ॥ ५३॥ पादसंधिचतुष्कान्धुनाभिह्रद्गलदोर्द्वयी । संध्यास्यनासागण्डाक्षिकर्णभ्रूमस्तकेष्वपि ॥ ५४ ॥ वारुणैन्दवयाम्यप्रागूर्ध्वकेषु मुखेषु च । क्रमेण वर्णान्विन्यस्यद्गायत्र्या मन्त्रवित्तमः ॥ ५५ ॥ शिरोभ्रूमध्यनयनवक्त्रकण्ठेषु वै क्रमात् । ह्रन्नाभिगुह्यजान्वाख्यपादेष्वपि पदान्न्यसेत् ॥ ५६ प्रपञ्चसारे सब्रह्मविष्णुरुद्रैश्च सेश्वरैः ससदाशिवैः । ससर्वात्माह्वयैः कुर्यादङ्गन्यासं समाहितः ।। ५७ ।। एवं कृत्वा तु सिद्धयर्थं गायत्रीं दीक्षितो जपेत् । अथ त्रिगुणिते प्रोक्त विचित्रे मण्डलोत्तमे ॥ ५८ ।। शक्तिभिः प्राक्समुक्ताभिः सौर पीठं समर्चयेत् । तत्र निक्षिप्य कलशं यथापूर्वोपचारतः ॥ ५९॥ गव्यैर्वा पञ्चभिः क्वाथजलैर्वा पूरयेत्ततः । तस्मिन्नाबाह्य कलशे शक्तिमित्थं विचिन्तयेत् ॥ ६० ।। मन्दाराह्वयरोचनाञ्जनजपाख्याभैर्मुखैरिन्दुम- द्रत्नोद्यन्मकुटांशुभिस्ततचतुर्विंशाणचित्रा'1 तनुः । अम्भोजारिदराह्वयौ गुणकपालाख्ये च पाशाङ्कुशे- ष्टाभीतीर्दधती भवेद्भवदभीष्टोत्तारिणी तारिणी ॥ ११ ॥ संचिन्य भारमिति प्रमाणां त्रिशक्तिमूर्तीः प्रथम समर्च्य॑ । आदित्यशक्त्याख्यचतुष्टयेन यजेद्वितीयावरणे दिनेशम् ।। ६२ ।। 1. मकुटांशुसंततचतुर्विशार्णतत्त्वा प्रह्लादिनीं प्रभां नित्यां सविश्वंभरसंज्ञकाम् । विलासिनीप्रभावत्यौ जयां शान्तां क्रमाद्यजेत् ।। ६३ ।। तमोपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् । पचालयां परां शोभां भद्ररूपां तथा यजेत् ॥ ६४ ।। मातृभिश्चारुणाभिश्च षष्ठयथो सप्तमीग्रहैः । आदित्यपार्षदन्तैरप्यष्टमीन्द्रादिभिः सुरैः ।। ६५ ।। आवृत्तिः कथिता चेति वेधानं परमीदृशम् । गन्धादिभिर्निवेद्यान्तैर्दिनेशं सम्यगर्चयेत् ॥ ६६ ॥ अथ पुनरमुमभिषिञ्चे- त्संयतचित्तं च देशिक: शिष्यम् । कृतहुतविधिमपि विधिव- द्विहितबलिं दत्तदक्षिणं गुरवे ॥ ६७ ।। भूयस्त्वक्षरलक्षं गायत्री संघतात्मको जत्वा । जुहुयात्पायसतिलघृत- दुर्वाभिर्दुग्धतरुसमिद्भिरपि ।। ६८ ॥ एकैकं त्रिसहस्त्रं मन्त्री समभीष्टसिद्धये मुक्त्यै । अक्षरसहस्रसंख्यं मुख्यतरैः केवलैस्तिलैर्जुहुयात् ॥ ६९ ॥ दुरितोच्छेदनविधये मन्त्री दीर्घायुषे च विशदमतिः । आयुष्कामो जुहुया- त्पायसहविराज्यकेवलाज्यैश्च ॥ ७० ॥ दूर्वाभिः सतिलाभिः सर्वैस्त्रिसहस्रसंख्यकं मन्त्री । अथ तु त्रिमधुरसिक्तै- ररुणैर्जुहुयात्सरोरुहैरयुतम् ।। ७१ ॥ नष्टश्रीरपि भूयो भवति मनोज्ञश्च मन्दिरं लक्ष्म्याः । अन्नाद्यर्थ्यत्रैरपि पालाशैर्ब्रह्मवर्चसे जुडुयात् । सर्वैरेतैर्जुहुया- त्सर्वफलायै द्विजेश्वरो मतिमान् ॥ ७२ ।। इति परमरहस्यं वेदसारस्य सारं गदितमजसुशुद्धैर्योगिभिर्ध्यानगम्यम् । अमुमथ जपहोमध्यानकाले य एवं भजति स तु विशुद्धः कर्मभिमुक्तिमेति ॥७३॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे अष्टाविंशः पटलः॥ अथ वक्ष्यामि विद्यायास्त्रिष्टुभः प्रवरं विधिम् । ऋषिच्छन्दोदेवताभिरङ्गन्यासक्रमैः सह ॥ १ ॥ मारीच: काश्यपो ज्ञेय ऋषिश्छन्दः स्वयं स्मृतम्। देवता जातवेदोऽग्निरुच्यन्तेऽङ्गान्यतः परम् ।। २ ।। नवभिः सप्तभिः षड्भिः सप्तभिश्च तथाष्टभिः । सप्तभिर्मूलमन्त्रेण कुर्यादङ्गानि षट् क्रमात् ॥ ३ ॥ अङ्गुष्ठगुल्फजङ्घासु जानूरुकटिगुह्यके । सनाभिहृदयोरोजपार्श्वयुक्पृष्ठकेषु च ॥ ४ ॥ स्कन्धयोरुभयोर्मध्ये बाहुमूलोपबाहुषु । प्रकूर्परप्रकोष्ठेषु मणिबन्धतलेषु च ॥ ५ ॥ मुखनासाक्षिकर्णेषु मस्तमस्तिष्कमूर्धसु । न्यसेन्मन्त्राक्षरान्मन्त्री क्रमाद्वा व्युत्क्रमात्तनौ ॥ ६ ॥ शिखाललाटदृक्कर्णयुगोष्ठरसनासु च । स्रकर्णबाहुहृत्कुक्षिकटिगुह्योरुजानुषु । जङ्घाचरणयोर्न्यस्येत्पदानि त्रिष्टुभः क्रमात् ॥ ७ ॥ भास्वद्विद्युत्करालाकुलद्दरिगलसंस्थारिशङ्खासिखेटे. वस्त्रासाख्यत्रिशूलानरिंगणभयदां तर्जनी चादधाना । चर्माण्युद्धूर्णदोभिः प्रहरणनिपुणाभिर्वृता कन्यकाभि- दद्यात्कार्शानवीष्टांखिणयनलसिता कापि कात्यायनी वः॥ इति विन्यस्तदेहस्तु कुर्याज्जयादिका: क्रियाः । दीक्षा प्रवर्त्यते पूर्व यथावद्देशिकोत्तमैः ॥ ९ ॥ ततोऽस्वक्लप्तिः संप्रोक्ता स्यात्प्रयोगविधिस्ततः । दीक्षकाख्याक्षराण्यादौ शक्त्यावेष्टय तत्तो बहिः ॥१०॥ यन्त्रं षड्गुणितं कृत्वा दुर्वर्णलसिताश्रकम् । बहिरष्टदलं पनं प्रोतलक्षणलक्षितम् ॥ ११ ॥ अत्र पीठं यजेन्मन्त्री कमात्सनवशक्तिकम् । जया च विजया भद्रा भद्रकाली सुदुर्मुखी ॥ १२ ॥ व्याघ्रसिंहमुखीदुर्गात्रिष्टुभो नव शक्तयः । तत्रादाय घटं दिव्यक्वाथमूत्रपयोम्भसाम् ॥ १३ ॥ एकेन पूरयित्वास्मिन्नाबाह्य च विभावसुभ् । अङ्गावृत्तेर्बहिर्ग्न्यादिपादाष्टकविनि:सृताः ॥ १४ ॥ मूर्तीरभ्यर्चयेदग्नेर्जातवेदादिकाः क्रमात् । पृथिव्यम्ध्वनलेरानप्यात्मनेपदसंयुतान् ॥ १५ ॥ अर्चयेद्दिक्षु कोणेषु निवृत्यादीर्यथाक्रमम् । विश्वकादशसंख्या: स्युर्जागताधर्णशक्तयः ॥ १६ ॥ लोकपालांश्च तद्धेतीविधिनेति समर्चयेत् । जागता तापिनी वेदगी दाहनरूपिणी ॥ १७ ॥ सेन्दुःखण्डा सुम्भहन्त्री सनभश्चारिणी तथा ! वागीश्वरी मदवहा सोमरूपा मनोजबा ॥ १८ ॥ मरुद्वेगा रात्रिसंज्ञा तीनकोपा यशोवती । तोयात्मिका तथा नित्या दयावत्यपि हारिणी ॥ १९॥ तिरस्क्रियाः वेदमाता तथान्या दमनप्रिया । समाराध्या नन्दिनी च परा रिपुविमर्दिनी ॥ २० ॥ षष्ठी च दण्डिनी तिग्मा दुर्गा गायत्रिसंज्ञका । निरवद्या विशालाक्षी श्वासोद्वाहा च नादिनी ।। २१ ॥ वेदना वह्निगर्भा च सिंहवाहाह्नया तथा । धुर्या दुर्विषहा चैव रिरंसा तापहारिणी ।। २२ ।। त्यक्तदोषा निःसपत्ना चत्वारिंशच्चतुर्युताः । अभिषिच्य पुनः शिष्यं कुम्भादीन्गुरुराहरेत् ॥ २३ ॥ ईदृशं यन्त्रमारुह्य जपेच्छिष्यः सुयन्त्रितः । मन्त्राक्षरसहस्सं तु सिद्ध्यर्थं गुरुसंनिधौ ।। २४ ।। सर्वजापेषु संज्ञेया गायत्र्या द्विगुणो जपः । कर्तव्यो वाञ्छितार्थात्यै रक्षायै कार्यसिद्धये ॥ २५ ॥ तिलराज्यनलक्षीरवृक्षेमइविराज्यकैः । सर्पि:सिक्तैः क्रमाद्धोमः साधयेदीप्सितं नृणाम् ।।२६ ॥ चत्वारि चत्वारिंशच्च चतुःशतसमन्वितम् । चतुःसहस्रसंयुक्तं प्रोक्तैरेतैर्हुतक्रिया ॥ २७ ॥ एवं संसिद्धमन्त्रस्य स्युरस्राद्याः क्रिया मता: । चत्वारि चत्वारिंशच्च वर्णानामस्त्रमिष्यते ॥ २८ ।। अपञ्चसारे विलोमपाठो वर्णानामस्त्रमाहुर्मनीषिणः । पादाष्टकमिदं विधात्ततोऽष्टाङ्गो मनुः स्वयम् ॥ २९॥ जनुकामो मनुं त्वेनं पादास्तु प्रतिलोमतः । पठेत्तथा हि मन्त्रोऽयं क्षाल्यते दुष्टदूषित: ।। ३० ॥ आद्याः पञ्चाक्षरपदास्त्रयः सप्ताक्षरः परः । पञ्चमञ्चाथ षष्ठश्च द्वौ तु पादौ षडक्षरौ । पश्चाक्षरौ तदन्त्यौ च तेषां भावो निगद्यते ॥ ३१॥ ग्न्याद्यं ज्ञानेन्द्रियं कामं द्वितीयं पाञ्चभौतिकम् । तृतीयं धातवः सप्त चतुर्थं वर्णसप्तकम् ॥ ३२ ॥ पद्धर्मयः पञ्चमं स्यात्वष्ठः षट्कोशिको मतः । सप्तमश्वाष्टमः पादः शब्दाचं वचनादिकम् ।। ३३ ॥ साङ्गः सत्प्रतिपत्तिकः सगुरुपद्वन्द्वप्रमाणक्रमा- ज्जाप्येत्यादिषडन्तकोऽन्तविगतो वर्णप्रतीपस्तथा । गुर्वादेशविधानतश्च विविधध्यानक्रियो मन्त्रिणा तत्तत्कार्यसमाप्तयेऽखिलविपद्ध्वान्तौघभानूदयः ।। अनुलोमजपेऽङ्गानामपि पाठोऽनुलोमतः । प्रतिलोमानि तानि स्युः प्रतिलोमविधौ तथा ॥ ३५ ॥ अन्त: पादप्रतीपे हि तथा तानि भवन्ति हि । वर्णप्रतीपे च तथा मात्राण्यप्रतिलोमके !! ३६ ॥ प्रतिपत्तिविशेषांश्च तत्र तत्र विचक्षणः । गुर्वादेशविधानेन प्रविदध्यान्न चान्यथा ॥ ३७ ।। जपः पुरोक्तसंख्यः स्याद्भुतक्ऌप्तिस्तथा भवेत् । क्षीरद्रुमसमिद्राजितिलहव्यधृतैः क्रमात् ।। ३८॥ अथ वा पञ्चगव्योत्थचरुणा हुतमुच्यते । प्रत्यङ्मुखेन कर्तव्यं प्रायो जपहुतादिकम् ।। ३९ ।। तत्र स्युर्मन्त्रवर्णेभ्यस्तावत्यो वह्निदेवताः । प्रत्येकमावृतास्तास्तु पञ्चकेन नतध्रुवाम् ॥ ४० ॥ तत्पञ्चकं च प्रत्येकमावृतं पञ्चभिः पृथक् । प्रत्येक पञ्चकानां तु षोडशावृतिरिष्यते ॥ ४१ ॥ प्रत्येकं षोडशानां तु कोटयः परिचारिकाः । इत्येकाक्षरजात्पूर्वमेकस्मात्षोडशात्मकात् ।। ४२ ॥ एतावत्यस्तु जातान्तद्विस्तरं पुनरूहयेत् । तत्र त्विन्द्रियजा: प्रोक्ता देवतास्तूर्ध्वदृष्टयः ।। ४ ३ ।। तिर्यञ्चो भौतिकाः प्रोक्ता धातूत्थास्तूभया नराः । उर्मिजास्तूचंवदनास्तिर्यञ्चश्चाथ कोशज्ञा: ॥ १४ ॥ क्लीबा सुखद्वयोपेता गोचरोत्था: स्त्रियो मताः । अधोमुखाश्च तिर्यञ्च इत्युक्तो मूर्तिसंग्रहः ॥ ४५ ॥ आभिः सर्वाभिरपि च शिखाभिर्जातवेदसः । व्याप्यते परराष्ट्रेषु वृक्षगुल्मतृणादिकम् ।। ४६ ॥ आरम्भे मानुषाणि स्युर्नक्षत्राण्याभिचारके । कर्माण्यासुरभानि स्युर्दैवानि स्युस्तथा हृतौ ॥ १७ ॥ अन्त्याश्वीन्द्वर्कादिति गुरुहरिमित्रानिलाह्वया देवा: । पूर्वोत्तरत्रयी यम- इरविधयो मानुषाः परेऽसुरभा: ।। १८ ॥ बन्दास्वारभ्य रिक्तासु प्रयोज्यात्मनि संहरेत् । भद्रासु संग्रहं कुर्याज्जयासु च विशेषतः । आरेणारभ्य मन्देन प्रयोज्यादित्यवारके ॥ ४९ ॥ संहरेत्संग्रहं कुर्याद्वारे त्वाचार्ययो: सुधीः । चरोर्विसृज्योभयकैराहरेदभ्यसेत्स्थिरैः ।। ५० ।। दिनास्त्रं दिनकृयुक्तं वारग्रहसमन्वितम । कृत्तिकादि च कृत्यान्तं कृत्यानं जातवेदसः ।। ५१ ॥ नक्षत्रात्मा हुताग: स्यात्तिथ्यात्मेन्दुरुदाहृतः । ताभ्यां करोति दिनकृतिसादानकर्मणी ।। ५२ ।। रक्षानिग्रहकर्मणोरनु पराग्वक्त्राः प्रधानाकृति- प्रख्या मन्त्रविधानविच्च दिशि दिश्येकादशैकादश । संस्थाप्य क्रमशोऽक्षरोदितरुची: शक्तीर्जपेद्वा मनुं सम्यग्वा जुहुयादनुप्रतिगतं सिद्ध्यै समाराधयेत् ।। पीतायोमुष्टिगदा- हस्ता महिषाज्यसंयुतपुलाकैः । वैतारिटसमि- त्कोद्रवकैः स्तम्भयेच्च हुतविधिना ।। ५४ ॥ सुसिता पाशाङ्कुशयु- ग्विगलद्वारिप्रवाहस्रंभिन्ना । वेतससमिदाहुत्या मधुरयुजा मञ्ज वर्षयेद्दुर्गा ।। ५५ ॥ रक्ता पाशाङ्कुशिनी निशि फलिनीकेसरोद्भवैः कुसुमैः । चन्दनरससंसिक्तै- होमाहुर्गा वशीकरोति जगत् ॥ ५६ ॥ लवणैस्त्रिमधुरसिक्तै- स्तत्कृतया वा जुहोतु पुत्तल्या । उडुतरुकाष्ठैर्नक्तं सप्ताहान्नृपतिमपि वशीकुरुते ॥ ५७ ॥ सकपालशूलपाशा- शहस्तारुणतरा तथा दुर्गा । आकर्षयते लावण- पुत्तल्या त्रिमधुराक्तया होमात् ॥ ५८ ॥ ध्यात्वा धूम्रो मुसल- त्रिशिखकरामस्थिभिश्च तीक्ष्णाक्तैः । कापसानां निम्ब- च्छदमेषघृतैर्हताच विद्वेषः ।। ५९ ॥ धूम्रा तर्जनिशूला- हितहस्ता विषदलैः समहिषाज्यैः । होमाञ्च मरिचसर्षप- चरुभिरजारुधिरसेचितैरटयेत् ॥६॥ 'शिखिशूलकराग्निनिभा सर्षपतैलाक्तमत्तबीजैश्च । मरिचैर्वा राजियुतै- होमादहितान्विमोहयेहुर्गा ॥ ६१ ॥ कृष्णा शूलासिकरा रिपुदिनवृक्षोद्भवैः समित्प्रवरैः । वकृतसंसिक्तै- होमान्मासेन मारयेदुर्गा ॥ ६२ ।। नक्षत्रवृक्षसमिधो मरिचानि च तीक्ष्णहिङ्गुशकलानि । मारणकर्मणि विहिता- न्यरुष्करस्नेहसिक्तानि ।। नक्षत्रवृक्षसमिधां विलिखितसाध्याभिधानकर्मवताम् । सचतुश्चत्वारिंश- त्तत्त्वयुजां होमकर्म मरणकरम् ।। ६४ ।। मरिच नौद्रसमेतं प्रत्यक्पुष्पीपरागसंभिन्नम् । उष्णाम्भ:परिलुलितं प्रसेचयेदृक्षवृक्षपुत्तल्याः ॥ ६५ ॥ हृदये वदने च रिपोः संमुखतः संप्रतिष्ठितोरायाः । जूर्त्यभिभूतोऽरि: स्या- तत्क्वथनात्पक्षमात्रकान्भ्रियते ।। ६६ ॥ सैव प्रतिकृतिरसकृ- त्प्रतिष्ठितसमीरणा च विशदधिया । तीक्ष्णस्नेहालिप्ता विलोमजापेन तापनीयानौ ॥ ६७ ।। विधिना ज्वरपीडा स्या- दपधनहोमेन हानिरङ्गस्य । सर्वाहुत्या मरणं प्राप्नोति रिपुर्न तत्र संदेहः ।। ६८ ।। प्राक्प्रोक्तान्भूतवर्णान्दश दश युगशो बिन्दुयुक्तान्नमोन्ता- न्योनेर्मध्याश्रमध्येष्वपि पुनरथ संस्थाप्य भूताभवर्णान् । वर्णैस्तैः साकमग्नेर्मनुमपि कुलिशाधैः स्खचिह्नः समेतं कुर्यात्कर्माणि सम्यक्पटुविशदमतिः स्तम्भनाद्यानि मन्त्री ।। ऊदोद्गादिलळा: को- र्नसौ चतुर्थार्णका बसौ बाराम् । दृष्ट्यैद्वितीयरक्षा बह्नेरद्वन्द्वयोनिकादियषाः ॥ ४०॥ मरुतः कपोलबिन्दुक- पञ्चमवर्णा: शहौ तथा व्योम्नः। मनुषु परेष्वपि मन्त्री कर्माणि करोतु तत्र संसिद्ध्यै ॥ ७१ ।। उन्मत्तक्ष्वेलनेत्रद्रुमभवसमिधां सप्तसाहनिकान्तं प्रत्येकं राजितैलालुस्तिमथ हुनेन्माहिषाज्यप्लुतं वा । कृष्णाष्टम्याद्यमेवं सुनियतचरित: सप्तरानं निशायां निःसंदेहोऽस्य शत्रुम्त्यजति किल निजं देहमाविष्टमोहः ॥ सामुद्रे च सहिङ्गुजीरकविषे साध्यक्षवृक्षाकृतिं कृत्वा यो बदनाञ्जले घटकटाहादिश्रिते क्वाथयेत् । सप्ताहं ज्वलनं जपन्विषतरोर्यष्ट्या शिरस्ताडनं कुर्वन्सप्तदिनान्तरैर्यमपुरक्रीडापरः स्यादरिः ।। ७३ ।। अकस्यन्दनबद्धपनगमुखग्रस्ताविमाशाम्बरं न्यग्वक्र तिलजाप्लुतं विषहरं दीप्तं करैर्भास्वतः। वायुप्रेरितवह्निमण्डलमहाज्वालाकुलारमादिक ध्यायन्वैरिणमुत्क्षिपेजलम, मन्त्रं जपेन्मृत्यचे ॥ ७४ ॥ आद्रीशुकोऽग्निमनुना त्वथ सप्तरात्रं सिद्धार्थतेललुलितैमरिचर्जुहोतु । आरभ्य विष्टिदिवसेऽरिनरः प्रलाप- मूर्छान्वितेन विषयीक्रियते ज्वरेण ।। ७५ ॥ तालल्य पत्रे भुजपत्रके वा मध्ये लिखेत्साध्यनराभिधानम् । अथाभिलो मन्त्रमिम विलोम विलिख्य भूमौ विनिखन्य तत्र ॥ ७६ !! आधाय वैश्वानरमादरेण समर्थ्य सम्यङ्मरिचर्जुहोतु । तीव्रो ज्वरस्तस्य भवेत्पुनस्त- तोये क्षिपेद्वश्यतमः स भूयात् ।। ७७ ॥ सिंहस्थाशरनिकरैः कृशानुवक्त्रै- र्धावन्तं रिपुमनुधावमानमेनाम् । मंचिन्त्य क्षिपतु जलं दिनेशबिम्बे जत्वामुं मनुमपि चाटनाय शीघ्रम् ।। ७८ ।। कृत्वा स्थण्डिलमङ्गणे भगवती न्यासक्रमरचये- इन्धाद्यैः पुनरन्धसा च विकिरन्मन्त्री निशायां बलिम् । जप्त्वा मन्त्रममुं च रोगसहिताः कृत्यानिकृत्या कृतां- स्तास्तान्भूतपिशाचवैरिविहितान्दु:खानसौ नाशयेत् ।। विधिवदभिज्वाल्यानल- मन्वहमाराध्य गन्धपुष्पाद्यैः । संध्याजपाच मनुरय- माकाङ्कितसकलसिद्धिकल्पतरुः ।। ८० ॥ कुसुमरसलुलितलोणे- वारुणवदनो जुहोतु संध्यासु । मन्त्रार्णसंख्यमने- रैक्येन द्रावयेदरीनचिरात् !! ८१ ॥ शुद्धैश्च तण्डुलैरपि हविर्विनिष्पाद्य पञ्चगव्यमपि । सघृतेन तेन जुहुया. दष्ट सहस्त्रं समेतसंपातम् ।। ८२ ।। प्राशितसंपातस्य स्थाद्रक्षा सर्वथैव साध्यस्य । प्राङ्गणमन्दिरयोरपि निखनेद्वारे च शिष्टसंपातम् ।। ८३ ।। कृत्या नश्यति तस्मि- न्वीक्षन्ते न प्रहादयो भीत्या । कारमेव कुपिता कृत्या सर्वात्मना च नाशयति ।। ८४ ।। ब्रह्मगुमफलकान्ते मन्त्रितमः सप्तसप्तकोष्ठयुते । कोणोदराणि हित्वा मायाबीजं सकर्ममध्यगते ।। ८५ ॥ 1. समे ससंपातम् विलिखेत्क्रमेण मन्त्रा- क्षरांश्च शिष्टेषु तेषु कोष्ठेषु । तत्र मरुतः प्रतिष्ठां विधाय विनिधाय वह्निमपि जुहुयात् ।। ८६ ।। आज्यनाष्टसहस्त्रं फलकोपरि सम्यगात्तसंपातम् । विप्रतिपत्तिधरायां निखनेन्नश्यन्त्युपद्रवाः सद्यः ।। ८७ ।। सिकताचरुगव्याश्मक- मृदां प्रतिष्ठा विधीयते सिद्ध्यै । प्रस्थाढकघटमाना ग्रहपुरविषयाभिगुप्तये सिकता: ॥ ८८ ॥ मध्याष्टाशान्तासु च कुण्डानामारचय्य नवकमपि । विधिना निवपेत्क्रमशः सिंहधनुश्छागयायिनि दिनेशे ॥ ८९ ॥ तिथिषु तु कालाष्टम्यां तेषु विशाखाग्निमूलभागेषु । वारेषु मन्दवाक्पति- वर्जं सर्वे तथा प्रशस्यन्ते ॥ १० ॥ हस्तश्रवणमखासु प्राजापत्येषु कर्म कुर्वीत । द्वादशसहस्रसंख्यं प्रजपेद्गायत्रमपि यथाप्रोक्तम् ।। ९१ ॥ मध्ये च मूलमनुना तदायुधैरष्टदिक्षु चक्राद्यैः । सकपालान्तैः पृथगपि संस्थापनकर्म निगदितं विधिवत् ।। ९२ ॥ तास्ताश्च देवता अपि परिपूज्य यथाक्रमेण मन्त्रितमः । कुर्याद्वलिं दिनग्रह- करणेभ्यो लोकपालराशिभ्यः ।। ९३ ॥ सिकताः षोडशकुडुवं ब्रह्मद्रुमभाजने तु गव्याक्तम् । निवपति यदि विधिना तं देशं प्रामं करोति चतुरब्दात ।। १४ ।। अर्केऽजस्थेऽब्धिगायामपरिमितजलायां समादाय शुद्धाः संम्यक्संशोषयित्वातपमनु सिकताः शूर्पकोणैर्विशोध्य । संसिद्धे पञ्चगव्ये सुमतिरथ विनिक्षिप्य ता: कुम्भसंस्था मन्त्राग्नौ मन्त्रजापी द्विजतरुसमिधा भर्जयत्कार्यहेतोः ।। एवं मृदुपलचरवः संस्थाप्यन्ते सपञ्चगव्यास्ते । वसुधाविप्रतिपत्ति. श्रयं च पुष्टिं च कुर्वते क्रमश: ।। ९६ ।। ब्रीहिभिरनैः क्षीरैः समिद्भिरथ दुग्धवीरुधामाज्यैः । मधुरनयमधुरतरै- महतीमृद्धिं करोति हुतविधिना ॥ ९७ ॥ यद्यद्वाञ्छति पुरुष- स्तत्तदमुष्य प्रभावतः साध्यम् । सग्रहनक्षत्राद्यां सगिरिपुरग्रामकाननां वसुधाम् ।। ९८ ।। साहिझषोपलमुदधिं दहति ह मतिमानयत्नमेतेन । एवं प्रोत्थापयति च मन्त्रेणानेन निशितधीर्मन्त्री ॥ पुंसा केन कियद्वा मन्त्रस्याचक्षतेऽस्य सामर्थ्यम् ।। ९९ ।। तस्मादेनं मनुवरमभीष्टानये संयत्तात्मा जप्यान्नित्यं सहुतविधिरप्यादरादर्चयीत । भक्त्या कुर्यात्सुमतिरभिषेकादिकं कर्मजातं कतै वान्यत्प्रवणमतिरत्रैव भक्तः सदा स्यात् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे एकोनविंशः पटलः । अथाभिवक्ष्ये माहितस्य मन्त्र- स्यानुष्टुभः संग्रहतो विधानम् । ऋष्यादिकैरङ्गपदैर्यथाव- दीक्षाजपार्चाहवनैः क्रमेण ॥ १ ॥ ऋषिरभिहितो बसिष्ठ- श्छन्दोऽनुष्टुप्च देवता रुद्रः । व्यम्बकपदादिका स्या- न्मनुनैव षडङ्गक्लृप्तिरथ कथिता ।। २॥ त्रिभिस्तु वर्णैर्हृदयं शिरश्च चतुर्भिरष्टाभिरथो शिखा च । उक्तं नत्राणैः कवचं तथाक्षि- पञ्चार्णकं त्र्यक्षरमस्त्रमाहुः ॥ ३ ॥ प्राक्प्रत्यग्याम्पसौम्ये शिरसि च बदनोरोगलांसषु नाभी हृदेशे पृष्ठकुक्ष्योरथ शिवगुदयोहरुमूलान्तयो । जान्दोस्तहृत्तयुग्मन्तनतटयुगपार्श्वेषु पत्पाणिनासा- शीध्वप्यूर्वतोऽणैय॑सतु पुनरथस्ताऽपि मन्त्री तथोयम् ।। चरणाप्रसंधिषु गुदा- धारोदरहृदयकंधरेषु पुनः । बाह्वो: संध्यप्रास्य- घ्राणायहक्श्रुतिभ्रुशीर्षेषु ।। ५ ॥ वर्णान्न्यस्य शिरोभ्रू- दृग्वककगलहृदुदरगुह्येषु । ऊर्वोर्जान्वोः पदयोः पदैश्च मनुविक्रमेण विन्यस्येत् ॥ ६ ॥ वसिष्टादिक्रमेणैव अङ्गन्यासं समाचरेत् । वसिष्ठस्त्र्यम्बकश्चैव त्रिणेत्रश्च तथैव च । अनुष्टुप्छन्दसे चेति जातियुक्तेन मन्त्रवित् ॥ ७ ॥ अच्छस्वच्छारविन्दस्थितिरुभव कराङ्कस्थितं पूर्णकुम्भ द्वाभ्यो वेदाक्षमाले निजकरकमलाभ्यां घटौ नित्यपूर्णौ ।
- P.I). 10 द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकलाबन्धुरे प्लावयन्तौ
देहं देवो दधानः प्रदिशतु विशदाकल्पजालः श्रियं वः ।। प्रासादोक्त पीठे गव्यैर्वा दुग्धतरुकषायैर्वा । संपूर्य कलशमस्मि- न्महेशमावाह्य पूजयेद्भक्त्या ॥ ९ ॥ अबैराद्यार्काद्यैः पुनरावृतिरष्टभिर्द्वितीया स्यात् । मन्त्रार्णशक्तिभिः स्युः पुनश्चतस्रो दिशापवज्राद्यैः ॥ १० ॥ अर्केन्दुधरणितोया- नलेरवियदात्मसंज्ञकास्ते च। आनुष्टुभयमित्यष्टा- वरणं प्रोक्तं विधानवरमेवम् ।। ११ ॥ रमा राका प्रभा ज्योत्स्ना पूर्णोषा पूरणी सुधा । विधा विद्या सुधा प्रह्वा सारा संध्या शिवा निशा ।। आर्द्रा प्रज्ञा प्रभा मेधा कान्तिः शान्तिद्युतिर्मतिः । परोमा पावनी पद्मा शान्ता मेधा जयामला ।। १३ ।। द्वात्रिंशदिति निर्दिष्टाः शक्तयोऽनुष्टुभः क्रमात् । शिवानुभावतो नित्यं जगदाप्याययन्ति याः ।। १४ ।। इति परिपूज्य महेशं कलशजलैः समभिषेषयेच्छिष्यम् । कनकांशुकरत्नाद्यै- र्गुरुमपि परिपूज्य मनुमत: सिद्धम् ॥ १५॥ प्रजपेल्लक्षायत्या द्रव्यैर्जुहुयाज्जपावसाने च । बिल्वपलाशौ खदिरो बटतिलसिद्धार्थदोग्धदुग्धानि ॥ १६ ।। दधिदूर्वेति दशैता- न्याज्यसमेतानि होमवस्तूनि । एकैकशः सहस्रं दशभिर्दुत्वा प्रतर्प्य विप्रांश्च ॥ १७ ॥ भवति नरः सिद्धमनु- र्मन्त्रेण च सर्वकर्मकर्ता स्यात् । बिल्वैरयुतं हुत्वा महतीं लक्ष्मीमवाप्नुयाद्विप्रः ॥ १८ ॥ तावद्भिर्द्विजवृक्षै- र्द्विजः श्रियं पुष्कलामवाप्नोति ।। खदिरसभिदयुतहोमा- त्तेजोबलपुष्टिमाप्नुयादिष्टाम् ॥ १९ ॥ न्यग्रोधायुतहोमा- द्धनधान्यसमृद्धिमेति नचिरेण । अयुतं तिलैः प्रजुह्व- न्नपमृत्योः पाप्मनो विमुक्तः स्यात् ॥ २० ॥ सिद्धार्थाचुतहोमो वैरिणमपमृत्युमपि विनाशयति । पायसहुतेन परमां रमामथायुर्यशो लभेन्मर्त्यः ॥ २१ ॥ दुग्धहुतात्कान्ति: स्या- त्परकृत्या नश्यति श्रियं लभते । दधिदोमतोऽन्नवान्स्या- त्संवननकरं च तं बदन्ति बुधाः ॥ २२ ॥ दूर्वायुतेन जुहुया- द्रोगानिर्वास्य सर्वमपमृत्युम् । गर्वितधीरब्दानां विप्रवर: सर्वथा शतं जीवेत् ।। २३ ।। निजजन्मदिने पयोन्धसा वा शतवीर्यवितयैः पयोधृताक्तैः । जुहुयाच्च शतं सविंशतिं यः स लभेदायुररोगतां चिराय ॥ २४ ॥ काठमर्यदारुसमिधां त्रिशतं सहस्त्रं सर्पिःपयोन्नसहितं त्रितयं जुहोतु । विप्रान्प्रतर्प्य च गुरून्परिपूज्य सम्य- ग्दीर्घ विमुक्तगदमायुरवाप्तुकामः ॥ २५ ॥ स्नात्वार्काभिमुखोऽम्भसि स्थित इमं मन्त्रं सहनं जपे- दायुष्यं प्रतिपर्व दुग्धहविषा होमो महाश्रीप्रदः । लाजाभिर्निजवाञ्छिताय हवनात्कन्याशु संदीयते स्वाद्वक्तस्तनजद्रुमैश्च हवनात्सर्वान्वशे स्थापयेत् ॥ गायत्रिवर्णपरिपूर्णतनुस्तु भानु- स्त्रिष्टुब्बिशिष्टमहिमा महितः कृशानुः । आनुष्टुभाक्षरसमग्ररुचि: शशाको दद्युः समुद्यतममी परिवाञ्छितं वः ॥ २७॥ एभिस्त्रिभिर्मनुवरैस्तु शताक्षराख्यो मन्त्रोऽभिकाङ्क्षितफलाप्तिदकामधेनुः । प्रोक्तो हिताय जगतां मुनिभिः कृपा- चित्तैर्यथोक्तमथ संग्रड्तो वदामि ॥ २८ ॥ ऋष्याद्याः पूर्वोक्ता- स्त्रिदशा स्युर्हृत्रयोदशभिरर्णैः । शिर एकादशभिश्च द्वाविंशद्भिस्तथा शिक्षाकवचम ॥ २९ ॥ त्रिंशः पटलः। नयनं पश्चदशार्णैः ससप्तभिर्दशभिरस्रमङ्गविधिः । विन्यासं च मनूनां मन्त्रज्ञः पूर्ववत्क्रमाकुर्यात् ॥ ३० ॥ स्मर्तव्याखिललोकवर्ति सततं यजङ्गमस्थावरं व्याप्तं येन च यत्प्रपञ्चविहितं मुक्तिश्च यासिद्धितः । यद्धा स्यात्प्रणवत्रिभेदगहनं श्रुत्या च यद्गीयते तद्वः काङ्क्षितसिद्धयेऽस्तु परमं तेजस्त्रयोत्थं महः ।। लक्षायतो जपविधिः शताक्षरस्याथ होमविधिरुक्तः । भयुतावधिको द्रव्यं दौग्धान्नं सर्मिषा समायुक्तम् ॥ ३२ ॥ घौर पीठे पूज्या पूर्वोक्ताङ्गैः समावृतिः प्रथमा । प्रह्लादिन्याद्याभि- स्तिस्रः प्रोक्ता: क्रमात्समावृतयः ॥ ३३ ।। 1. ज्योतिस्र. प्रपञ्चसारे पञ्चम्यावृतिरुक्ता त्रैष्टुभवजागतादिभिस्तदनु । स्याच्चरमादिभिरावृति- चतुष्कमुक्तं दशम्यथेन्द्राद्यैः ॥ ३४ ॥ इति शताक्षरमन्त्रसमर्चना निगदितेह दशवरणा बुधैः । प्रजपतामभिकाङ्क्षितसिद्धये निखिलसंसृतिमोक्षपदाप्तये ॥ ३५ ॥ दुग्धाक्तैर्जुहुयात्सहस्रममताकाण्डैस्तु वीर्घायुषे दूर्वाणां त्रितयैस्तथा धृतपयःसिक्तैर्वृतेनैव वा । लक्ष्म्यै कोकनंदैश्च शोणरुचिभिनिस्वादुयुक्तैस्तथा रक्तैरुत्पलकैस्तदह्नि विकचैर्बैल्वप्रसूनैरपि ।। ३६ ।। अनुदिनमघशान्त्यै संयत्तात्मा सहस्त्रं प्रतिजुहुतु तिलैर्वा मन्त्रविन्मासमेकम् । अपि दिनकरसंख्यं भोजयीत द्विजाती- म्विविधरसविशिष्टैर्भक्तितो भोज्यजातै: ।। ३७ ।। त्रिंशः पटलः । शतं शतं प्रातरतन्द्रितोद्यत्तो जपोद्विजो मन्त्रमिमं शताक्षरम् । अरोगजुष्टं बहुलेन्दिरायुतं शतं स जीवेच्छरदां सुखेन सः ॥ ३८ ॥ सर्वान्कामानवाप्नोति मन्त्रमेनं जपेत्तु यः । सर्वं साधयते मन्त्री अस्त्रशस्त्रादिलक्षणम् ।। ३९ ।। प्रणवव्याहृत्याद्या व्याहृतितारान्तिका च मन्त्री च । जप्त्वा शताक्षरी स्यादिहपरलोकप्रसिद्धये दिनशः ॥४०॥ मनुममुमघशान्त्यै पत्पदाद्यं प्रजप्या- द्गदगणरहितायाप्यायुषेऽनुष्टुवाद्यम् । विमलमतिररातिध्वंस्रने त्रिष्टुबाद्यं दिनमनु दिनवक्रे वत्सरं संयतात्मा ।। ४१ ॥ शताक्षरमनोरयं क्रम उदीरितः संग्रहा- द्भजेदमुमतन्द्रितो दिनश एव मन्त्री रहः । अभीष्टफलसिद्धये सुयशसे च दीर्घायुषे- ऽप्यशेषजनरञ्जनाय चिरमिन्दिरावाप्तये ॥ ४२ ।। प्रपञ्चसारे संवादसूक्तनिहितं विधानमथ साङ्गदेवतारूपम् । वक्ष्यामि साधकाना- मनुदिनमभिवाञ्छित्तप्रदानकरम् ॥ ४३ ।। ऋषिरपि संबननोऽस्या- नुष्टुप्च त्रिष्टुबुच्यते च्छन्दः । संवादाद्यः प्रोक्तः संज्ञानाद्यश्च देवता वह्निः ।। ४४ ।। ब्रह्माख्यो हृदयमनुः शिरश्च विष्णू रुद्रः स्वादिह तु शिखेश्वरश्च वर्म। नेत्रे द्वे भवति सदाशिवस्तथास्रं सर्वात्मेत्यथ कथितं षडङ्गमेवम् ॥ ४५ ॥ धवलनलिनराजश्चन्द्रमध्ये निषण्णं करविलसितपाशं साङ्कुशं साभयं च । सदरदममलेन्दुक्षीरगौरं त्रिणेत्रं प्रणमत सुरवक्त्रं मङ्क्षु संवादयन्त्रम् ।। ४६ ।। त्रिंशः पटलः । सहस्रकाणां दशभिश्चतुर्भिर- प्यथो सहस्रैश्च चतुर्भिरन्वितम् । जपेन्मनुं सम्यगथाभिदीक्षितः पयोन्धसान्ते जुहुयाद्दशांशकम् ॥ ४॥ यजेत्पुराङ्गैश्च तदर्धनाविधौ पुनर्द्वितीयावरणेऽग्निमूर्तिभिः । अनन्तरं च त्रिदिवेश्वरादिभिः क्रमेण वह्निं विधिनेति पूजयेत् ॥ ४८ ॥ संवादसूक्ते विधिनत्यनेन संसाधिते कर्म करोतु मन्त्री । चतुःशतं चापि दशोत्तरेण चतुश्चतुष्कं प्रजपेद्धुनेद्वा ।। ४९ ।। पायसेन मधुरत्रयभाजा विप्रराजतरुजैः कुसुमैर्वा । -सर्पिषा स्तनजवृक्षसमिद्भि- र्वाञ्छितार्थविधये प्रजुहोतु ॥ ५० ॥ प्रपञ्चसारे जुहुयात्कलाचतुष्कैः प्रत्यृचमायोज्य कादिवर्गचतुष्कैः ! तद्वच पयशलाद्यै- र्वर्गैः संयोज्य पूर्ववन्मतिमान् ॥ ५१ ॥ तद्वद्दचं प्रतियोज्य त्रिष्टुप्पादांश्च पूर्वसंख्येन। जुहुयात्सर्पि:सिक्तं पायसमचिरेण कार्य समवाप्त्यै ॥ ५२ ।। प्रतिपादमथर्क्पादिं प्रतियोज्य जुहोतु पूर्ववन्मतिमान् । तेनाभीष्टावाप्ति र्नचिरेण नरस्य हस्तगा भवति ॥ ५३ ॥ अक्षरपादात्रिष्टु- ब्युक्तैः सूक्तैस्तु पूर्वसंख्येन । जुहुयात्समाजरूपं संवादयितुं प्रतर्पयेद्वाग्भिः ।। ५४ ।। त्रिंशः पटलः । उद्दिश्य यद्यदिह मन्त्रितमो जुहोति सूक्तैरमा निगदितैस्त्रिविधैश्च मन्त्रैः । व्यस्तैर्यथाविभवतो विधिवत्समस्तै- स्तन्तस्य सिध्यति समग्रमयत्नमेव ।। ५५ ॥ ऋग्वारुणी ध्रुवा स्वाद्या या मा त्रिष्टुनिगद्यते । ऋषिर्वसिष्ठस्त्रिष्टुप्च च्छन्दो वारीशदेवता ।। ५६ ॥ अष्टभिः सप्तभिः षड्भिः पुनस्तावद्भिरक्षरैः । षडङ्गानि विधेयानि तन्मन्त्रसमुदीरितैः ।। ५७ ।। अङ्गुल्यप्रससंधिपायुशिवसंज्ञाधारनामिष्वथो कुक्षौ पृष्ठहदोफरोजगलदो:संध्यप्रवकेषु च । गण्डघ्राणविलोचन श्रवणयुग्भ्रूमध्यमध्येषु के सर्वाङ्गेषु तथा न्यसेद्विशदधीर्वर्णैः समर्थैः क्रमात् ।। अच्छांशुकाभरणमाल्यविलेपनाढ्यः पाशाङ्कुशाभयवरोद्यतदो: सरोजः । स्वच्छारविन्दवसत्तिः सुसितः प्रसन्नो भूयाद्विभूतिविधये वरुणश्चिरं वः ।। ५९ ॥ प्रपञ्चसारे अङ्गैरष्टभिरहिपै- र्दिशाधिपैः समभिपूज्य वारीशम् । कलशैः पुनरभिषिञ्चे- त्परमगुरुर्मन्त्रजापिनं शिष्यम् ।। ६० ॥ वसुभिः प्रसाद्य देशिक. मथ शिष्यो मनुमिमं जपेल्लक्षम् । जुहुयाच्च दुग्धपक्वै. रनैरयुतं घृताप्लुतैर्मतिमान् ॥ ६१ ॥ ऋगियमृणमोचनी स्या- जपैर्हुतैस्तर्पणैश्च मन्त्रविदः । संप्राप्तदुर्गतेरपि सद्यो हृद्यां च संवहेल्लक्ष्मीम् ॥ ६२ ॥ इक्षोः सितैश्च शकलै. र्घृतसंसिक्तैश्चतुर्दिनं जुहुयात् । सकलोपद्रवशान्त्यै तथर्णमुक्त्यै च संपदे सुचिरम् ॥ ६३ ।। त्रिंशः पटलः । वैतससमिदयुतहुता. दृष्टिमकालेऽपि क्तिनुते वरुणः । गव्यक्षीरसमेता- स्त्रिदिनकृताद्दिनमुखेषु मुदितमना: ॥ ६४ ॥ शतभिषाज समुदित्तेऽर्के चतुःशतं पायसं हुनेत्सघृतम् । ऋणमोचनाय लक्ष्म्यै जनसंबननाय शुक्रवारे वा ।। ६५ ।। पाशाबद्धं वैरिण- मङ्कुशसंप्रोतमम्बुधेः पारे। ध्यायन्परे क्षिपन्तं वरुणं जुहुयाश्च वा तथा प्रजपेत् । पाशनिबद्धं वैरिण- मसिना च्छित्वाशु नाशयन्तममुम् । ध्यायन्वेतससमिधा गोमूत्रयुजा हुनेत्तदपहत्यै ।। ६७ ।। ४६४ प्रपञ्चसारे दौग्धान्नैर्भृगुबारे धृतसंसिक्तैः कृतश्च हवनविधिः । ऋणमोक्षदश्व विविधो पद्रवशमकृद्रमाकरः प्रोक्तः ।। ६८ ।। पश्चिमसंध्यासमये पश्चिमवदनोऽनलं समाराध्य । ऋचमेनामभिजप्या- च्चतु:शतं सकलदुःखनाशाय ।। ६९ ॥ शालीधृतसंसिक्ताः सरिदन्तरतो जुहोतु परसेनाम् । संस्तम्भयितुं त्रिदिनं सुमना मन्त्री चतुःशतावृत्त्या ।। ७० ॥ प्रत्यक्ष्मुखोऽथ मन्त्री प्रतर्पयेद्वा जलैः सुशुद्धतरैः। य: सोऽप्युपद्रवाणां रुन्धेन्निवहं श्रियं समृच्छति च ॥ ७१ ।। त्रिंशः पटलः । बहुना किमनेन मन्त्रिमुख्यो मनुनाशु प्रतिसाधयेदभीष्टम् । हवनक्रिययाथ तर्पणैर्वा सजपैः पाशभृतो महामहिम्नः ॥ ७२ ।। अथ लवणमनुं वदामि साङ्गं सजपं सप्रतिपत्तिकं सहोमम् । विधिवद्विहितेन येन सर्वां जगतीमात्मवशे करोति मन्त्री ।। ७३ ।। लवणाम्भसि चेत्याद्या द्वितीया लबणे इति । दहेति च तृतीया स्यात्लदग्ध्वेति चतुर्थ्यपि ।। ७४ ॥ ऋक्पञ्चमी तु या ते म्याद्यथा प्रोक्तमथर्वणि । ऋग्भिराभिस्तु पञ्चाङ्गं पञ्चभिर्वा समीरितम् ।। ७५ ॥ चिट्यक्षरैः षडङ्गं वा प्रणवाद्यैर्निगद्यते । पञ्चभिश्च त्रिभिरपि पञ्चभिः पञ्च चाक्षरैः ॥ ७६ ॥ सपञ्चभिर्युगार्णेण जातियुक्तैः समाहितः । अङ्गिरा: स्यादृषिश्छन्दोऽनुष्टुबत्रैव देवता । अग्निरात्री तथा दुर्गा भद्रकाली समरिता ।। ७७ ॥
- P. Il. 11 प्रपञ्चसारे
अरुणोऽरुणपङ्कजसंनिहितः स्रुवशक्तिवराभययुक्तकरः। अमितार्चिरजात्तगतिर्विलस- न्नयनत्रितयोऽवतु वो दहनः ।। ७८ ।। नीलवरांशुककेशकलापा नीलतनुर्निबिडस्तनभारा। साङ्कुशपाशसशूलकपाला यामवती भवतोऽवतु नित्यम् ॥ ७९ ।। करकमलविराजञ्चक्रशङ्खातिशूला परिलसितकिरीटा पातितानेकदैत्या । त्रिणयसलसिताङ्गी तिग्मरश्मिप्रकाशा पवनसखनिभाङ्गी पातु कात्यायनी वः ।।८।। सुरौद्रसितदंष्ट्रिका त्रिणयनोर्ध्वकेशोल्बणा कपालपरशूल्लसड्डमरुका त्रिशूलाकुला । धनाधननिभा रणद्रुचिरकिङ्किणीमालिका भवद्विभवसिद्धये भवतु भद्रकाली चिरम् ।। ८१॥ त्रिंशः पटलः। खेटासिमुसलतोमर. कपालशक्तीः सपाशस्मृणि दधती । दंष्ट्रोप्रा सिंहस्था ..रात्रिकालिका ध्येया ॥ ८२ ॥ अयुतं नियतो मत्रमृक्पञ्चकसमन्वितम् । प्रजपेत्निसहस्रं वा सम्यगेनं समाहितः ॥ ८३ ॥ दशांशेन हुनेत्सिद्ध्यै हविषा घृतसंयुजा । एवं कृते प्रयोगार्हो मन्त्री भूयान चान्यथा ॥ ८४ ।। वह्निरात्री वरे स्यातां वश्याकर्षणकर्मणोः । दुर्गाकाल्यौ तथा देव्यौ शस्ते मारणकर्मणि ।। ८५ ।। आरभ्य कर्मकृन्मन्त्री तृतीयां कृष्णपक्षजाम् । संदीक्षितो भवेत्पूते मन्दिरे मन्त्रजापवान् ।। ८६ ॥ निस्वन्यात्तत्र कुण्डं च दोर्मात्रं त्र्यश्रमेखलम् । चतुष्कं सुन्दराकारं पुत्तलीनां च कारयेत् ।। ८७ ॥ एतां साध्यर्क्षवृक्षेण शालिपिष्टेन चापराम् । चक्रीकरमृदा चान्यां मधूच्छिष्टेन चेतराम् ॥ ८८ ॥ १६८ प्रपञ्चसारे तासु हृद्देशलिखितसाध्याख्यासु समाहितः । सम्यक्संस्थापयेत्प्राणान्साध्यादानीय साधकः ।। ८९ ।। उक्तानां दारवीं कुण्डे स्वनेन्मन्त्राभिमन्त्रिताम् । विष्ठरां विष्टरस्याध: पादस्थाने च मृन्मयीम् ॥ ९० ॥ लम्बयेदम्बरे सिद्धमयीमूर्ध्वमधोमुखीम् । पुनः कृष्णाष्ट्रमीरात्रौ पूर्वयामे गते सति ॥ ९१ ।। रक्तमाल्याम्बरो मन्त्री कृतरक्तानुलेपनः । सम्यकृतलिपिन्यासप्राणायामादिकः शुचिः ॥ ९२ ।। कुडुबं पोतलवणं सुश्लक्ष्णं परिचूर्णितम् । दधिक्षौद्रघृतक्षीरैः प्रोक्षयित्वा सुशोधितम् ।। ९३ ॥ आलोड्य गुडमध्वाज्यैर्विस्पष्टावयवामथ । तेन पुत्तलिकां मन्त्री चार्वङ्गीं कारयेत्सुधीः ॥ ९४ ।। तस्यां च स्थापयेत्प्राणान्गुर्वादेशविधानतः । अष्टोर्ध्वशतसंख्यं वा तथाष्टोर्ध्वसहस्रकम् ।। ९५ ॥ ऋक्पञ्चकं पञ्चविंशत्संख्यं प्रतिकृतिं स्पृशन् । जपित्वाङ्गीनि विन्यस्येत्स्वाङ्गप्रतिकृतावपि ।। ९६ ॥ त्रिंशः पटलः । सतारैश्चिटिमन्त्रार्णैश्चतुर्विंशतिसंख्यकैः । शिरोललाटहक्कर्णनासास्यचिबुकेष्वपि ।। ९ ।। सकण्ठहृदयोरोजकुक्षिनाभिकटीषु च । मेढ्रपायूराजान्वाख्यजङ्घाङ्घिषु च विन्यसेत् ॥ ९८॥ अधो गुह्यादभेदः स्थादूर्ध्व भेदेऽन्त्रिते सति । आत्मन्येवं प्रविन्यस्य पुनः प्रतिकृतौ न्यसेत् ॥ ९९ ॥ अङ्गुष्ठसंधिप्रपदजङ्घाजानूरुपायुषु । सलिङ्गनाभिजठरहृदयेषु स्तनद्वये ।। १००॥ कंधराचिबुकास्येषु घ्राणक्कर्णयुग्मके । ललाटशिरसोर्न्यस्येत्प्रतिमायां च संहरेत् ॥ १०१ ।। उपलिप्याथ कुण्डं तद्वहिर्गोमयवारिणा । साध्यसंमुख आसीन आदध्याव्यवाहनम् ॥ १०२ ॥ प्रज्वाल्य साध्योडुतरकाष्टैरभ्यर्च्य दीप्तिमान् । राजीकुशीतपुष्पाद्भिश्चषके रजतादिके ॥ १०३ ॥ देवतां प्रतिपाद्यार्ध्यं दत्त्वा कार्यार्थसिद्धये । उपतिष्ठेद्भुतस्यादावन्ते मन्त्रैरितीरितैः ॥ १०४ ॥ ४७० प्रपञ्चसारे त्वमाननममित्रघ्न निशायां हव्यवाहन । हविषा मन्त्रदतेन तृप्तो अव मया सह ।। १०५ ।। जातवेदो महादेव तप्तजाम्बूनदप्रभ । स्वाहपते विश्वमक्ष लवणं दह शत्रुहन् ॥ १०६ ।। ईशे ईश्वरि शर्वाणि प्रस्तं मुक्तं त्वया जगत् । महादेवि नमस्तुभ्यं वरदे कामदा भव ।। १०७ ।। तमोमयि महादेवि महादेवस्य सुव्रते । स्त्रिया से पुरुषं गत्वा वशमानय देहि मे ।। १०८ ।। दुर्गे दुर्गादिरहिते दुर्गसंशोधनार्गले । चक्रशङ्खधरे देवि दुष्टशत्रुभयंकरि ।। १०९ ।। नमस्ते दह शत्रुं मे वशमानय चण्डिके । शाकंभरि महादेवि शरणं मे भवानघे ॥ ११०॥ भद्रकालि भवाभीष्टे भद्रसिद्धिप्रदायिनि । सपत्नात्मे दह दह पच शोषय तापय ॥ १११ ।। शूलादिशक्तिवाद्यैरुत्कृत्योत्कृत्य मारय । महादेवि महाकालि रक्षात्मानं कुमारिके ॥ ११२ ॥ त्रिंशः पटलः । ४७१ पुनः प्रतिकृतेरङ्गसहकं निशितायसा । दक्षपादादिकं छित्वा पञ्चर्चं प्रजपेन्मनुम् ॥ ११३ ॥ साध्यं संस्मृत्य शितधीर्जुहुयात्सप्तसंख्यया । दक्षिणं चरणं पूर्वं ततो दक्षार्धकं पुन: ॥ ११४ ॥ दक्षहस्तं तृतीयं स्याद्गळादूर्ध्वं चतुर्थकम् । पञ्चमं बामहस्तं स्यात्षष्ठं वामार्धमेव च ।। ११५ ॥ सप्तमं वामपादं स्यादन्यापि स्याद्धुतक्रिया । सप्त सप्त विभागो वा क्रमादङ्गेषु सप्तसु ॥ ११६ ॥ एकादशांशभिन्नैर्वा तदङ्गैः सप्तभिहुनेत् । होमोऽन्यथा वा पूर्व तु दक्षिणश्चरणो भवेत् ।। ११७॥ द्वितीयो दक्षिणकरस्तृतीयः शिर उच्यते । वामबाहुश्चतुर्थस्तु मध्यादूर्ध्वं तु पञ्चकम् ।। ११८ ॥ अधोभागस्तु षष्ठः स्याद्वामभागस्तु सप्तकः । हुत्वैवं पूर्वसंप्रोक्तैरुपस्थापकमन्त्रकैः ॥ ११९ ।। अर्चयित्वा दण्डदीर्घं प्रणमेद्धव्यवाहनम् । सकर्षस्वर्णयुक्ताङ्गां शोणां दद्यात्सतर्णकाम् ॥ १२० ॥ प्रपञ्चसारे दक्षिणां सप्तकर्षी तु दद्यान्मारणकर्मणि । अंशुकं रुचकं धान्यं दत्त्वा संप्रीणयेद्गुरुम् ॥ १२१ ॥ एवं कृतेन मन्त्रीष्टं लभते होमकर्मणा । अथ वा मारणाकाङ्क्षी साध्यवामाङ्घिपांसुभिः ।।१३२॥ सनिम्बतिलसिद्धार्थव्रणकृत्तैलसंयुतैः । हिङ्गुत्रिकटुकोपेतैर्महिषीमूत्रपेषितैः ॥ १२३ ।। वराहपारावतयोः पुरीषेण समन्वितैः । एतैश्च संमिश्नयतु लोणं पूर्वोक्तसंख्यकम् ।। १२४ ॥ पूर्ववत्पुत्तलीं तेन लोणचूर्णेन कारयेत् । प्राणान्प्रतिष्ठापयेच्च तत्र पूर्वोक्तिसंख्यकम् ॥ १२५ ॥ पूर्वोक्ताभिः पुत्तलीभिः कुण्डे दक्षिणदिङ्मुखे । दुर्गां वा भद्रकालीं वा प्रतिपद्य यथेरिताम् ॥ १२६ ।। उपस्थिते त्वर्धरात्रे सव्यपाणिस्थशस्त्रकः । वामपादं समारभ्य जुहुयात्पूर्वसंख्यथा ॥ १२७ ।। समापयेद्दक्षपादं विकारेणायसो वशी । विसप्ताहप्रयोगेण मारयेद्रिपुमात्मनः ॥ १२८ ॥ त्रिंशः पटलः । तस्यां रात्र्यामुपोष्याथ परेऽहनि च साधकः । प्राणायामादिभिरपि गायत्रिजपहोमकैः ।। १२९ ॥ विमुक्तपापो भूत्वा तु स पुनर्विरेत्सुखम् । यां कल्पवन्त्यपामार्गराजीघृतहवींषि च ।। १३० ।। पृथगष्टोत्तरशतावृत्त्या हुवा बलिं हरेत् । यो मे पुरस्तादित्यादिदशमन्त्रैर्बलिं हरेत् ॥ १३१ ।। इति लवणमनोविधानमेवं प्रणिगदितं विधिवत्प्रयोगभिन्नम् । विधिममुमथ साधु संप्रयुञ्ज्या. द्व्रजति फलं निजवाञ्छितं चिराय ।। १३२ ॥ अथ वा लवणैः परागभूतै- र्मधुराक्तैः पुनरष्टमीनिशाधम् । जुहुयात्तु चतुर्दशीनिशान्तं कुडुबोन्मानितमेभिरेव मन्त्रैः ।। १३३ ।। नारीनरान्वा नगरं नृपाम्वा प्रामं जनान्वा मनसोऽनुकूलान् । प्रपञ्चसारे वशीकरोत्येव हुतक्रियेयं चिराय नैवात्र विचारणीयम् ।। १३४ ।। वस्तुनोत्तेन क्रियतां साङ्गोपाङ्गेन पुतली । तस्यां तु साध्यलिङ्गायां प्राणाद्यर्पणमाचरेत् ॥ १३५ ॥ निक्षिप्य हृदये किंचित्कीटान्तां संस्पृशन्पुनः । प्राणार्पणेन यत्कार्यं क्षिप्रं कुर्याद्विचक्षणः ।। १३६ ॥ अथास्य हृदये स्मृत्वा वर्तुलं वायुमण्डलम् । कृष्णषड्विन्दुग वायुं वायुगर्भं विचिन्तयेत् ।। १३७ ॥ तन्न भूतास्तु तन्मात्राशब्दाद्यं श्रवणादिकम् । धातून्मनश्च बुद्धिं च संक्षिपेदप्यहंक्रियाम् ॥ १३८ ।। तत्सर्वं तेन चण्डेन समीरेण समीरितम् । अवामनासारन्ध्रेण स्वसमीपमुपानयेत् ॥ १३९ ।। प्रवेशयेच्च पुत्तल्यां पुनस्तेनैव बर्ह्मना । प्राणप्रतिष्ठामन्त्रेण लब्धप्राणादिकां तथा ॥ १४० ।। याद्यष्टकान्भ्रमरवद्धृदयाम्बुजस्थां तत्केसरार्पितपरागपरिष्कृताङ्गान् । त्रिंशः पटलः । संचिन्त्य साध्यहृदयेऽपि तथैव भूयः साध्याम्बुजस्थानलिपिस्वकीयैः ।। १४१ ।। हृत्पद्ममध्यस्थिततन्तुजालै. रेकैकमेकोत्पतितै: क्रमेण । निश्वासमात्रेण सुखं प्रविष्टा- स्तत्प्राणमार्गेण हरेद्द्विरेफान् ।। १४२ ॥ बायव्याग्नेयैन्द्रवारीपमहेश- क्रव्यात्सोमप्रेप्तनाथाश्रितेषु । किञ्जल्केषु प्राणभूतद्विरेफां- स्तत्संबन्धांस्तन्तुभिर्विन्दुभूतैः ।। १४३ ।। अवामनासामार्गेणैवाकृष्याकृष्य पुत्तलीम् । प्रवेशयेत्सुधी: प्राणान्प्राणाद्यर्पणयोगतः ।। १४४ ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे त्रिंशः पटलः॥ एकत्रिंशः पटलः॥ प्राणप्रतिष्ठानमनोविधानं प्रवक्ष्यते संप्रति सर्वसिद्धयै । यस्मादृऽमी कथिता: प्रयोगा: व्यर्थी भवेयुर्गतजीवकल्पाः ॥ १ ॥ प्रोक्त्वा पूर्वममुध्यशब्दमथ च प्राणा इह प्राणका- स्तद्वजीव इह स्थितेति च तथा सर्वेन्द्रियाणीति च । भूयो वाङ्मनसावुदीर्य तदनु प्राणा इहायान्त्विति स्वाहान्तं प्रजपेन्मनुं निशितधी: प्राणान्प्रतिष्ठापयेत् ।। सृष्टिः सा जगतामनादिनिधना विश्वस्य चेष्टाकरी प्राणाख्या प्रकृतिः क्रियामयवपुर्देवी परा देवता । तद्वद्वाङ्मनसी दृशं श्रुतिमथो घ्राणं च सप्राणकं सैवेहागतयामयुक्सुखचिरं तिष्ठन्तु ठद्वन्द्वकम् । मन्त्रस्यास्य विधिर्हरिश्च हर इत्येते मुनित्वे स्थिता श्छन्दस्त्वृग्यजुषी च सामकमथर्वेतीह च्छन्दांसि च ॥ एकत्रिंशः पटलः । प्रत्येक कादिवर्गैः प्रतिगर्तालिपिकैर्विन्दुयुक्तैर्धराद्यैः शब्दाद्यैः श्रोत्रमुख्यैर्वदनकरमुखैस्तक्रियाभिः क्रमेण । बुद्धथाद्यैश्चात्मनेऽन्तैरुपरि च विलसज्जातिभिः षड्भिरेवं कुर्वांदङ्गानि सभ्यग्वरविशदमतिर्विश्वरूपत्वसिद्ध्यै ॥३॥ नाभेर्देशादापदं पाशवीजं हृद्देशादा नाभिदेशं च शक्तिम् । आहृदेशं मस्तकादङ्कुशाख्यं न्यस्त्वा यादीन्धातुभिर्न्यस्य सप्त ।। ४ ॥ प्राणे जीवे चैव हंसश्च यार्णन्यस्येन्मूलं व्यापकं मस्तकादिम् । एवं न्यस्य प्राणशक्तिस्वरूपं विद्यां ध्यायेदात्मरूपां च देवीम् ।। ५ ।। रक्ताम्बोधिस्थपोतोल्लसदसणसरोजाधिरूढा कराब्जैः पाशं कोदण्डमिक्षुद्भवमथ गुणमप्यकुशं पञ्चवाणान् । बिभ्राणा स्रक्कपालं निणयनलसिता पीनवक्षोरुहाढ्या देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः स्वरूपा ।। 1. जन्तुषु न्यस्त 2. बिभ्रत् प्रपञ्चसारे ध्यात्वा देवीं प्रजपेदेवं लक्षं मनुं समाहितधीः । आज्येनान्ते जुहुयाचरणा वा तद्दशांशत्तो मन्त्री ।। ७ ।। शाक्ते पीठे देवीं षट्कोणस्थैः प्रजेशहरिरुद्रैः । वाणीलक्ष्मीगिरिजासहितैरङ्गैश्च मातृलोकेशैः ॥ ८ ॥ प्रयजेश्चतुर्भिरेवं परिवारैर्नित्यमेव निशितमनाः । एवं संसिद्धमनुर्वश्याद्यान्यारभेत कर्माणि ॥ ९॥ पाशाङ्कुशान्तरितशक्तिमनो: परस्ता- दुञ्चार्य यादिवसुवर्णगणं सहंसम् । पश्चादमुष्यपदमुञ्चरतु प्रयोग- मन्त्रोऽयमित्थमुदितो अहसंख्यया वा ॥ १०॥ मृता वैवस्वता चैव जीवहा प्राणहा तथा । आकृष्या प्रथना चैव उन्मादा विष्फुलिङ्गिनी। क्षेत्रज्ञा प्रतिहारी च प्राणमूर्त्यं सयादिका: ॥ ११ ॥ बद्ध्वा साध्या पाशबीजेन शक्त्या गृह्णन्नाकृष्याङ्कुशेनाथ यादीन् । एकत्रिंशः पटलः । दूतीश्चोक्त्वा साध्यनाम्नाथ धातू. नेवं मन्त्रो यावदात्मा सवीर्यः ।। १२ ।। सुप्ताशेषजने निशीथसमये साध्ये स्वपित्यादरा- दारुह्य स्ववशं विधाय हृदये साध्याकृतेः कीलकम् । बद्ध्वा तं च निपीडमेव सहसा कालस्य यष्ट्या शिर- स्वाधातात्क्षुभिताखिलेन्द्रियगणं साध्यं स्मरेत्साधकः ।। वायव्याग्नेयैन्द्रवारीण्महेश- क्रव्यात्सोमप्रेतराण्मध्यकेषु । स्थानेष्वेतेऽवष्ट यादीन्सहंसा- न्भृङ्गान्ध्यायेद्वीजबिन्दुप्रबद्धान् ॥ १४ ॥ स्वीये चैवं संस्मरेद्धृत्सरोजे भृङ्गीरूपानिर्गतान्श्वासमार्गैः । साध्याब्जस्थांश्चञ्चरीकान्गृहीत्वा स्वीयं स्थानं पूर्ववत्संप्रविष्टान् ॥ १५॥ बीजानि रक्तानि तु वश्यकर्म ण्यम्भोधराभान्यभिचारकाले । प्रपञ्चसारे धूम्राणि विद्वेषविधौ समोहे पीतानि संस्तम्भविधौ स्मरेच्च ॥ १६ ॥ अथ वा साध्यप्राणा- मण्डूकाकारधारिणो ध्यायेत् । स्वीयान्भुजगाकारा- नभिचारादौ नृशंसकर्मविधौ ॥ १७ ॥ प्राणप्रतिष्ठाकर्मैवं विधायैकादशापरम् । पुत्तल्यादौ खचित्ते वा तांस्तु संस्तम्भयेद्भुवा ॥ १८ ॥ आकृष्टानां लाध्यदेहादसूनां पुत्तल्यादावप्ययं स्यात्प्रकारः । किं तु स्वीये हृत्सरोजे प्रवेशो वश्याकृष्टयोरेव नात्राभिचारे ॥ १९ ॥ पाशाद्यत्रिकयुक्तमूलहृदयभ्रूमध्यसूत्राथिता साग्निः साध्यललाटरन्ध्रवगतोऽप्यामूलमाजग्मुषि । योन्यां त्वामहृदजमेवमनिशं भ्राम्यत्यसौ चिन्त्य तं शक्तिर्जन्मशतान्यपीह वशयेत्साध्यं समाकर्षयेत् ॥२०॥ 1. पतितामामूलमाजग्मुषि एकत्रिंशः पटलः । 'प्राणप्रतिष्ठाविधिरेवमुक्तः साङ्गः सयोगो विनियोगयुक्तः । अस्मिन्प्रवीणो गिरिकाननादी- न्प्रचालयेत्प्राणवतो विधाय ॥२१ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द - भगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ प्रपञ्चसारे एकत्रिंशः पटलः ॥
- P 11. 12 द्वात्रिंशः पटलः ॥
अथ यन्त्रविरचनाभि- र्मन्त्रविशेषान्बहुप्रकारयुतान् । कथयिष्ये मन्त्रविदा- मैहिकपारत्रिकाप्तये सुधियाम् ॥ १॥ त्रिगुणितसंज्ञे माया- लंकृतकोणे तयाभिवीते च । या या विशेषक्लृप्ति- स्तां तामपि संग्रहेण समभिदधे ॥ २ ॥ कोणोल्लसितसुधाक्षर- गलदमृतस्फुरितवह्निपरिवीतान् । बिन्दोर्मध्यगबीज- स्थितान्सुधाधारया परिस्रुतया ।। ३ ।। द्वात्रिंशः पटलः । पूर्णसुषुम्नारन्ध्रां साध्यतनुं संस्मरन्शिरसि बध्यात् । तेनारोगी पुरुषः प्रज्ञावान्दीर्घमायुराप्नोति ॥ ४ ॥ शीतांशुमण्डलस्थं कूर्मचतुर्थात्तकोणलसितमिदम् । शीतप्रलिप्तजप्तं कधृतं च शिरोरुजावरार्तिहरम् ।। ५ ।। तद्यन्त्रयुगं बिलिखे. दुभिविलिखितसाध्यसाधकाख्ययुतम् । साध्यमधस्तात्कृत्वा बद्ध्वात्र स्वपतु साधको चित्यम् ॥ ६ ॥ विधिनानेन तु सम्य- क्स्राध्योऽस्य वशे भवेदयत्नेन । तत्तु खनित्वागारे तत्रान्नं सिद्धमत्तु वश्यकरम् ॥ ७ ॥ प्रपञ्चसारे साध्याख्यां शक्तिवहह्नौ नरहरिमपि रन्ध्रत्रये च त्रिशक्तौ कर्मालिख्याथ लोष्टे सतत्तगमपि संस्थाप्य जप्त्वा स्वशक्तया । आगारे स्थापयित्वा नरमुदकनिधेश्चित्रपत्रे लिखित्वा दीपाग्नौ तापयित्वा स्रियममलधियः सम्यगाकर्षयेयुः॥८॥ त्रिगुणितविहिता विधयः षङ्गुणिते च प्रयोजनीया: स्युः । रक्षाकर्मणि विहितं तत्प्राय: प्रचुरमन्त्रयुक्ततया ।। ९ ।। पाशाष्टाक्षरवीतशक्ति दहनप्रोल्लासिसाध्याह्वयं शक्तिश्रीस्मरसंवृतं कुयुगरन्ध्राबद्धचिन्तामणि । इत्थं षड्गुणितं विलिख्य जपितं मन्त्री दधानोऽसकृ- द्राज्ञां वामहशां प्रियो भवति संग्रामे पुरे वा चिरम् ।। चिन्तारत्नाश्रिताश्रित्रियुगमथ नृसिंहावृतान्तःस्थबीजं प्रादुःसाध्याभिधानं बहिरपि लिपिभिः प्रानुलोमानुवीतम् । क्ष्माबिम्बद्वन्द्वरन्ध्रप्रचलितचतुरर्णं ग्रहोन्मादभूत- व्याधिघ्नं यन्त्रमस्मिन्कृतकलशविधिर्गर्भरक्षाधिकारी॥ द्वात्रिंशः पटलः । द्वादशगुणिते शूले नृसिंहवीजं नरेन्द्रपुरवीतम् । पीतालिप्तं पुरलधु- धूपितमन्तःप्रबद्धकर्मयुतम् ॥ १२ ॥ चतसृषु दिक्षु निखन्या- त्सीमायां द्वारतोरणाधो वा । देशाभिगुप्तिरेषा गुप्ततमा सूरिभिः पुरा प्रोक्ता ॥ १३ ॥ अलदलनिशाकुशीतै- र्मसृणे पट्टे विलिख्य यन्त्रमिदम् । धेरस्थापनकर्म प्रतिजप्तं प्राङ्गणे खनेन्मन्त्री ।। १४ ।। तन्त्र विशन्ति न चोरा प्रहकृत्या स्यान्निकेतरक्षा च | अश्माभिपातवारण- मभिवृद्धिं संपदां करोत्यचिरात् ।। १५ ।। 1. सेर 2. प्रहकृत्याद्या निकेत प्रपञ्चसारे तद्धटार्गलाख्यं यन्त्रं नीले विलिख्य पट्टवरे । मेचकसाध्यप्रतिकृति- हृदये गुलिकां विधाय निक्षिप्य ॥ १६ ॥ त्रिमधुरपूर्णे पात्रे विन्यस्याभ्यर्च्य गन्धपुष्पाद्यैः । बलिमपि विकिरेद्रात्रिषु सप्ताहादानयेद्वधूमिष्टाम् ॥ १७ ॥ तामेवाथ प्रतिकृति- मग्नौ किंचित्प्रतापयेत्प्रजपन् । शक्तिं पाशाङ्कुशमनु- साध्याह्वयदर्भितां समाहितधीः ॥ १८ ॥ विधिनामुना त्रिरात्रा- द्गर्वितधियमपि सुराङ्गनां मन्त्री । आकर्षेन्निजवाञ्छा- प्रदायिनीं मदनबाणविह्वलिताम् ।। १९ ॥ 1. मोचक. द्वात्रिंशः पटलः । यन्त्रं तदेव लाक्षा- ताम्रावीतं निधाय कलशजले । जस्वा भानुसहस्रक- मभिषिञ्चेद्रजतकाञ्चनाभ्यां च ॥ २० ॥ तद्वविधाय कलशे तद्यन्त्रं धारयेत्पुनर्नित्यम् । वाञ्छितसिद्धिं लभते भक्त्या प्रणमन्ति देवता अपि तम् ।। २१॥ यन्त्रं तदेव विधिव- द्भित्तावालिख्य पूजयेद्दिन्दशः । चोरारिभूतनागा अपि तं देशं न वीक्षितुं शक्ताः ॥ २२ ॥ आलिख्य बीरपट्टे यन्त्रमिदं मस्तकार्पितं कृत्वा । युध्यन्प्रत्यर्थिनमपि हत्वा यात्यत्रणाङ्कितो योद्धा ॥ २३ ॥ 1. कलशं प्रपञ्चसारे मदजलविलिखितमेत- द्यन्त्रं जप्तं च मस्तके न्यस्तम् । करिणीमपि मदयेद्रा- क्चण्डतरे का कथा करेणुवरे ॥ २४ ।। बहुनेति भाषितेन कि- मेभ्यो मुख्यं न किमपि यन्त्रेभ्यः । तस्मादमूनि सद्भि- र्धार्याणि च विश्ववश्यमिच्छद्भिः ।। २५ ।। गजमृगमदकाश्मीरै- र्मन्त्रितमः सुरभिरोचनायुक्तैः । विलिखेदलक्तकरसा- लुलितैर्यन्त्राणि सकलकार्यार्थी ॥ २६ ॥ राज्या पटुसंयुतया सपाशशक्त्यङ्कुशेन मन्त्रेण । स्वाद्वक्तयाभिजुह्व- मिश्युर्वीशांस्तथोर्वशीं वशयेत् ॥ २७ ॥ द्वात्रिंशः पटलः । ४८९. हल्लेस्वाग्निस्थसाध्याह्वयमपि बहिरांक्रोवृतं वह्निगेह. द्वन्द्वाश्रिस्वस्तिकाढ्यं प्रतिलिखतु दले यन्त्रजं नागवल्ल्याः ।। जप्त्वा शक्तिं तु पाशाङ्कुशलिपिसहितां तापयेद्दीपवह्नौ नक्तं भक्त्यानताङ्गी स्मरशरविवशा प्रेमलोलाभियाति ।। शक्तिस्थं निजनाभिवह्निमवनद्वन्द्वोदरे मान्मथं बीजं साध्यविदर्भया परिवृतं शक्या बहिः पार्थिवम् । तत्कोणे स्मरमन्यपुष्टनयनप्रोत्थैः पुनः कर्णिकै- स्ताम्बूलैर्लिखिताभिजप्तमदयेद्योषिन्मनोमोहनम् ॥२९॥ शक्त्यन्त:स्थितसाध्यनाम परितो बीजैश्चतुर्भिः समा- बद्धं शक्तिमनोभवाङ्कुशलिपिप्रोभिः समावेष्टितम् । शाल्युत्थे प्रतिलिख्य पिष्टविकृतै प्राणान्प्रतिष्ठाप्य च निस्वादौ परिभर्ज्य तत्समदतः साध्यो वशे तिष्ठति ।। डान्तं शिखीलवयुतं दहनांशसाध्यं मायांशसाधकमथाभिवृतं कलाभिः । मध्योल्लसहिमुखशूलमिदं तु भर्तु- र्यन्त्राह्वयं नरनताङ्गिवशंकरं स्यात् ।। ३१ ।। 1. कण्टकै .2. स्ताम्बूले प्रपञ्चसारे मृत्काराङ्गुलिकात्तया सकृकलासान्तर्वसायुक्तया साथ्यस्याङ्घ्रिरजोयुजा मृदुमृदा क्लृप्तस्य शक्तिं हृदि । रूपस्याभिविलिख्य तद्विवरके साध्यं तदीरान्प्रति- ष्ठाप्याजल्प्य निखन्य तत्र दिनशो मेहेच्चिरं वश्यकृत् ॥ वामाक्ष्याः प्रतिलिख्य नाम निशया वाभोकदेशे निशा- मध्ये वामकरेण संशितमति: संछादयंस्तन्मनाः । पूर्वं रुद्रपदं ततश्च दयितेयोगीश्वरीबिन्दुम- न्मन्त्रं जप्यति चेदनङ्गविवशां सद्यः प्रियामानयेत् ।। मायाहृदोरथान्ते ब्रह्मश्रीराजितेऽक्षरान्प्रोक्त्वा । राजयुतपूजितेऽर्णा- न्स जये विजये च गौरि गान्धारि॥३४॥ त्रिभुवनवशंकरीति च सर्वलोकान्तिके वशंकरि च । सर्वस्त्रीपुरुषवशं- करि सुदुघे वाक्षरान्प्रवीप्स्य ततः ॥ ३५ ॥ द्वात्रिंशः पटलः । मायाद्विठान्तिको मनु- रेकाधिकषष्टिवर्णकः प्रोक्तः । ऋषिरस्याजोऽतिनिचृ च्छन्दो गौरी च देवता प्रोक्ता ।। ३६ ॥ सचतुर्दशभिर्दशभि- स्तथाष्टभिश्चाष्टभिस्तथा दशभिः । एकादशभिर्मन्त्रा- क्षरैः क्रमादुच्यते षडङ्गविधिः ॥ ३७ ॥ असकलशशिराजन्मौलिराबद्धपाशा- ङ्कुशरुचिरकराब्जा बन्धुजीवारुणाङ्गी । अमरनिकरवन्द्या त्रिक्षणा शोणलेपां- शुककुसुमयुता स्यात्संपदे पार्वती वः ॥ ३८॥ अयुतं प्रजपेज्जुहुया- द्धृताप्लुतैः पायस्रैर्दशांशेन । आराधयेत्तदङ्गै- र्मातृभिराशाधिपैश्च निशितमनाः ॥ ३९ ॥ ४१२ प्रपञ्चसारे तिलतण्डुलकैर्लोणै- स्त्रिमधुरसिक्तैः फलश्च मधुरतरैः । साज्यैररुणकुवलयै- स्त्रिदिनं हवनक्रिया सुवश्यकरी ।। ४० ।। नित्यं चादित्यगतां देवीं प्रतिपद्य तन्मुखो जप्यात् । अष्टोत्तरशतमङ्गा- मादौ भुवनं वशीकरोत्यचिरात् ।। ४१ ।। वर्णादर्वाङ्मन्त्री प्रयोजयेत्साध्यनामकर्मयुतम् । प्रजपेद्वा हवनविधौ वाच्छितसिद्धिप्रदस्तथा मन्त्रः ॥ ४२ ॥ स्रतारराजमुख्यन्ते राजाधिमुखिवर्णकान् । स्रंभाज्य वश्यमुखि च स्वां श्रीमारार्णकान्वदेत् ॥ ४३ ॥ बीप्स्य देविमहादेविपदं देवादिदेवि च । प्रोक्त्वा सर्वजनस्येति मुखं मम वशं वदेत् ।। ४४ ।। द्वात्रिंशः पटलः । कुरु कुर्विति ठद्वन्द्वान्तिकं मन्त्रं समुद्धरेत् । सप्ताधिकैः सदभितथा त्रिंशद्भिरक्षरैः ॥ ४५ ।। दशभिः सप्तभिश्चैव चतुर्भिः करणाक्षरैः । पञ्चभिः सप्तदशभिर्वर्णैङ्गक्रिया मता ॥ ४६ ।। ब्रह्माश्रीमन्त्रसंप्रोक्ता प्रतिपत्तिरमुष्य च । मन्त्रस्य जपक्लृप्तिस्तु तथा होमविधिर्मतः ॥ ४७ ।। मन्त्री सर्वजनस्थाने कुर्यात्साध्याह्वयान्मनोः । प्रजपे हबने वाथ तथा तर्पणकर्मणि ।। ४८ ॥ देवीध्माष्टशतं प्रसूनवदथ त्रिम्बादुयुक्तं हुने- सप्ताहं भसितेन तेन विहितं पुण्ड्रादिकं वश्यकृत् । आज्यैस्तत्कृतद्दोमपातितममाजप्तं घृतं प्राशये- त्साध्यं निष्परिहारकं च तदिदं वश्यं भवेद्देहिनाम् ॥ शक्तिं साध्यर्क्षवृक्षप्रतिकृति हृदि संलिख्य संस्थाप्य जीवं जप्त्वा स्वन्याङ्कणेऽस्मिन्विधिवदनलमाधाय पुष्पैर्जपायाः । देवीमन्त्रेण रात्रौ दशपरशतसंख्यैस्तु काचन्दनाक्तै- र्हुत्वा तां सप्तरात्रं सरिति निखनतादुत्तमं वश्यकर्म ।। प्रपञ्चसारे अन्नं मय्यह्यन्नं मे देह्यन्नाधिपतये ममेत्युक्त्वा ! अन्नं प्रदापयेति च ठद्वयुगान्तोऽन्नदायको मन्त्रः ॥ ५१ ॥ करणेन्द्रियरसधातु- द्वयवर्णैरङ्गमन्त्रपत्रपदैः। व्द्ययुतजपावधिरेष द्विसहस्रहतं च सर्पिरन्नाभ्याम् ॥ ५२ ।। दुग्धाब्धौ रूप्यवप्रावृतकनकमयद्वीपवर्ये सुराढ्ये कल्पद्रुद्यानकाधो मणिमयलसिते वित्तसस्याप्रभागे । आसीने भूश्रियौ वाञ्छितवसुनिचयं मन्त्रिणे संमृजन्त्यौ मन्त्री संचिन्तयानो जपतु दिनमुखे संपदेऽन्नस्य मन्त्रम् ॥ नत्यादिभगवत्यन्ते माहेश्वरिपदं वदेत् । अन्नपूर्णेऽग्निजायान्तो मन्त्रोऽन्नप्रसंज्ञकः ।। ५४ ॥ मायाविहितषडङ्गो दिनमुखजप्यश्च षोडशसहस्रम् । 1. मस्य मन्त्रपदैः द्वात्रिंशः पटलः । प्रोक्ता जपावसाने सघृतैरन्नैर्दशांशको होम: ॥ ५५ ॥ रुद्रताण्डवविलोकन लोलां भद्रवक्त्रनयनां भवकान्ताम् । अन्नदाननिरतां जननीं तां चिन्तयञ्जपतु चित्रदुकूलाम् ॥ ५६ ॥ वैश्रवण: पक्काशः पिङ्गलनिधिपौ तथैव वित्तेशः । सकुबेरस्वाहान्ताः सव्याहृतय: समीरिता मन्त्राः ॥१७॥ वित्तेशस्यान्तराले दशवटसमिधः सर्पिषाक्ता विविक्ता होतव्या द्रव्यसिद्धवै कनकघटकरण्डात्तदोस्तुन्दिलोऽसौ । हेमाभो रत्नदीप्तो दरकमलनिधिद्योतितो हेमपीठे ध्येयो न्यग्रोधमूले हुतभुजि विदुषा वैश्वदेवावसामे ।। मन्त्रैरेतैर्धृतयुत- पायसहोमोऽपि मन्त्रिणां विहितः । 1. हेमाभै रत्नजालैः प्रपञ्चसारे लक्ष्म्यै सघृतैश्च तिलै- र्बिल्वसमिद्धो मतस्तदेव फलम् ॥ ५९ ॥ भयाहारेन्दुयुक्सैव विदण्डाहस्पताक्षराः । बालिस्थयोनिनत्यन्तो वसुवर्णो मनुर्मतः ॥ ६० ॥ वर्णसाहस्रजाप्यश्च ताबच्छतहुतो मतः । होमः सर्पिष्मतान्नेन बीजेनाङ्गक्रिया मता ॥ ६१ ।। रत्नस्वर्णोशुकादीन्निजकरकमलादृक्षिणादाकिरन्तं वासोराशौ निधायापरममरगुरुं पीतवस्त्रादिभूषम् । ध्यायन्नासीनमप्यापणभुवि शतसंख्यं सविंशत्कमेवं भीतायुष्पैर्घृताक्तैर्त्रिदिनमथ हुनेत्स्वर्णवस्त्रादिसिद्ध्यै ॥ वययोरन्तरास्रं मे देहि शुक्राक्षरादृविठः ।। मन्नोऽयुतजप: मर्पिः सहस्रहवनक्रियः ॥ ६३ ॥ शुक्रास्ये शुक्लपुष्पैर्युतभुजि गुणश: सप्तशोऽप्येकविंश- द्वारं होतव्यमेषोऽप्यतिसितकुसुमालेपनो वामदोष्णा । वासोरत्नादिकार्तम्वरमपि सततं साधकाय प्रयच्छ- न्ध्यातो व्याख्यानमुद्राकलितपरकरस्त्वापणालिन्दसंस्थः ॥ 1. वायुः स. द्वात्रिंशः पटलः । राजेरस्थोऽहिपो दण्डी वेदान्तेऽसौ विदण्डकः । सायान्ते नतिरप्यष्टवर्णो वैयासिको मनुः ॥ ६५ ।। मुनिव्रातावीतं मुदितधियमम्भोदरुचिर- द्युत्तिं व्याख्यामुद्राकलनविलसद्दक्षिणकरम् । परं जानौ कृत्वा दृढकलितकक्ष्ये कविवरं समासीनं व्यासं स्मरत निरतं पुण्यचरितम् ।। विकृतिसहस्त्रजपोऽयं दशांशतः पायसाज्यहवनविधिः । निरुपमकविताप्रज्ञा- व्याख्याश्रिसंपदावहो मन्त्रः ॥६७ !! करचरणपार्श्वमूल- द्युलोहरेबिन्दुदुंसरसनार्णाः । अलिकाद्या वर्मास्त्र- द्विठान्तिको मनुरयं ध्रुवादि: स्यात् ।। ६८ ॥ अयुतं प्रजपेच्च षट्सहस्रा- वधि मन्त्रे जुहुयाद्दशांशमानम् ।
- P.11.13 प्रपञ्चसारे
तिलसर्षपतण्डुलैः सशाली- हविराज्यैः सुसमेधिते कृशानौ ॥ ६९ ।। उत्तुङ्गादिः प्रचेता अपि दहनसमीरौ धराव्योमसंज्ञे प्राक्प्रत्यग्दक्षसौम्यास्वध उपरि च दिक्षु प्रबन्धप्रभाः स्युः । तन्मध्यस्थान्विपक्षादिकहरिरुरुदन्तीन्द्रनागान्सचोरा- न्हन्त्येतैर्मन्त्रिमुख्यो मनुविहितबलव्याकुलान्सद्य एव ।। निजरिपुमचलायेस्तै: ससंबाधवीतं मनुविदथ हलोभ्यां रुद्धनिश्वासवेगे । तदुपरिगतबीजैः साधुसंस्यूतवक्रं दहतु सकवचासद्वीन्दुभि: स्वेच्छयैनम् ।। ७१ ॥ योनिर्वियत्सुनेत्रं परमे वर्णांस्तथास्थिगं भेदः । रक्तस्थदृग्द्विठान्त- स्ताराद्योऽयं मनुर्दशार्णयुतः ॥ ७२ ।। अयुतं जपेन्मनुमिमं सहस्रवारं हुनेत्तथाज्येन । 1. बिन्दुभिः द्वात्रिंशः पटलः । ध्यातापि गिरिसुतेयं जगतीं विश्वां वशीकरोत्यनिशम् ।। ७३ ।। अश्वारूढा कराग्रे नवकनकमयीं नेत्रयष्टिं दधाना दक्षेऽन्येनानयन्ती स्फुरिततनुलतापाशबद्धां स्वस्राध्याम् । देवी नित्यप्रसन्नाननशशधरबिम्बा त्रिनेत्राभिरामा दद्यादाधानवद्या प्रवरसुखफलप्राप्तिहृद्यां श्रियं वः ॥ ४ ॥ विछयानुदिनहृद्ययानया होमकर्मवरहेमदायि तत् । कामितां सपदि वामलोचना- मानयेदपि च मारपीडिताम् ।। ७५ ॥ हवनक्रिया सपदि वश्यकरी मधुरावसेकपटुना पटुना। सदृशो न कश्चन जगत्यपरो अनुनाभुनानयनकर्मविधौ ।। ७६ ॥ वाणी स्यात्ताररूपा शिरसि गिरिसुता शक्तिरूपा ललाटे रव्यग्न्यक्ष्णोस्तथामौ विधुरपि वदनावेष्टने टान्तरूपः । प्रपञ्चसारे श्रीर्जिह्वायां स्वरूपा स्वभिमतकरिरूपौ स्वहौ दीर्घयुक्ता- वेवं न्यासे मुखश्रीविभवसुखयश:कान्तिमेधाकरः त्वात् ।। इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ प्रपञ्चसारे द्वात्रिंशः पटलः ॥ त्रयस्त्रिंशः पटलः ॥ अथ संतानसंसिद्धिसमाकुलितचेतसाम् । तदुत्पत्तिकरं यागं प्रवक्ष्ये गृहमेधिनाम् ।। १ ।। न चापुत्रस्य लोकोऽस्ति पितरोऽधः पतन्ति च । तस्मात्तु सकलोपायैयतेतापत्यसिद्धये ॥ २ ॥ देवर्षिपितृपूजासु निरतानामभक्तितः । गुरुमातृपितृश्राद्धवञ्चकानां च नित्यशः ॥ ३ ॥ अर्थिभ्योऽर्थमदातॄणां विद्यमानेऽर्थसंचये । अदत्त्वैवातिथिभ्योऽन्नं भोक्तृणां पापचेतसाम् ॥ ४ ॥ हरिशंकरयोः पादपद्मार्चाविरतात्मनाम् । स्वभार्यानिन्दकानां च लोकवेदविरोधिनाम् ॥ ५ ॥ इत्यादिदोषदुष्टानां पापानां गृहमेधिनाम् । दुष्प्रतिग्रहदोषाद्वा जायते त्वनपत्यता ॥ ६ ॥ 1. गृह्वर्तिनाम्. प्रपञ्चसारे एवमादिकदोषापनोदनी सुतसिद्धिदा । अशेषपापहन्त्री च वक्ष्यते यजनक्रिया ।। ७ ।। पुत्राप्तये गृहस्थो दीक्षाविधिना चतुर्दशीरात्रिम् । सह पत्न्या गमयित्वा कृत्वा पौर्वाह्णिकी: क्रियाः सर्वाः ॥ ८ ॥ संयोज्य किंचन यथाविधि पञ्चगव्यं संकोचकन मनुना प्रतिमथ्य वार्णम् । संमन्त्र्य चाष्टशतकं समवद्यभूत- मन्त्रैः पिबेत्स्वयमसावपि गर्भधात्री ॥ ९ ॥ ततोऽग्निमाधाय चरुं च कृत्वा संकल्प्य तद्दक्षिणमुत्तरं च । भागं क्रमात्पैतृकदैविकं त- त्पिञ्यं तु पूर्वं जुहुयात्क्रमेण ॥ १० ॥ स्मृत्वा निजं पितरमप्यधरा निषण्णं सांनाय्य पिण्डयुगलं घृतसंप्लुतं तत् । त्रयस्त्रिंशः पटलः । हुत्वा सुवेण घृतसंपुटितं तथैव मन्त्री पितामहमथ प्रपितामहं च ।। ११ ॥ व्याहृतीभिरथ पक्वहोमत: सर्वतः प्रतिजुहोतु सर्पिषा। मातृवर्गगुरुतपितृद्वयं पूर्ववत्समवदिष्य साधकः ।। १२ ।। कलायुतैः षोडशमूर्तिमन्त्रै- र्व्यस्तैरथाष्टाक्षरजैश्च वर्णैः । अष्टौ समस्तेन च तेन पञ्चा- क्षरेण चाष्टाक्षरवज्जुहोतु ।। १३ ॥ पक्वाहुतीनामपि वर्णसंख्यं चतुर्गुणं चापि धृताहुतीनाम् । हुत्वावदानद्वितयं च पुंस्त्री- भेदप्रभिन्नं हविषा करोतु ॥ १४ ।। पञ्चाक्षरेण पुरुषात्मकमन्यदन्य- वर्णेन चाष्टशतयुग्ममथ प्रजप्य । प्रपञ्चसारे संयोज्य तद्युगलमप्यभिमन्त्र्य विष्णु- र्योन्यादिकेन मनुना च कपर्दिसंख्यम् ॥ १५ ।। पुरुषः पुरुषात्मकं प्रकृत्या- त्मकमन्याथ समाहितोपयुज्य | अवदानयुगं क्रमान्मनम्वी पुनराचम्य समर्चयेद्धुताशम ।। १६ ॥ गुरवेऽप्यथ दक्षिणां प्रदत्त्वा- नलमुहास्य च भोजयेद्विजातीन् । प्रतिपर्वकमेवमेकवृद्ध्या मतिमान् पकुरकं प्रपूरयीत ॥ १७ ॥ एकहासादन्यमब्दं द्विजाती- न्संभोज्यान्यं पूरयेदेकवृद्ध्या । संपूर्यमाणादेवमेव त्रिकाब्दा- दर्वाक्पुत्रो जायते दैवशक्त्या ॥ १८ ॥ पितृदेवताप्रसादा- न्मेधायुःकान्तिसंयुत्तो विद्वान् । त्रयस्त्रिंशः पटलः । लक्ष्मीतेजोयुक्तो धर्मरुचिर्भवति संतते: कर्ता ।। १९॥ समुनिसुरपितृभ्यो ब्रह्मचर्येण यज्ञै- स्त्रिविधमृणमपत्यैश्चैव संमोचयेद्यः । श्रुतिवचनकृदम्भिन्वापि लोके परस्मि- न्निति स तु गृहमेधी पूज्यते साधुलोकैः ।। वर्णादिको हलोमन्त्र: संकोचाख्यो ध्रुवादिकः । मन्त्रः स्याद्भूतमनवः स्युश्च भूतात्मनात्मभिः ॥ २१॥ अथो हिताय जगतां प्रथितं शितचेतसाम् । अध संक्षिप्य वक्ष्यामि लभ्रणं गुरुशिष्ययोः ।। २२ ॥ स्वच्छ: स्वच्छन्दसहितोऽतुच्छधी: सक्तहृच्छयः । देशकालादिविद्देशे देशे देशिक उच्यते ॥ २३ ॥ अग्रगण्य: समग्रज्ञो निग्रहानुग्रहक्षमः । षड्वर्गविजयव्यग्रोऽनुग्रो विगतविग्रहः ॥ २४ ॥ शुक्लशुक्लांशुकोत्कृष्टकर्मा विक्लवमानसः । वेदवेदाङ्गविद्वादी वेदिताविदितागम: ॥ २५ ॥ 1. वर्गादिको; 2. स्वच्छन्दचरितो प्रपञ्चसारे इष्टदोऽनिष्टसंहर्ता दृष्टादृष्टसुखावहः । रतोऽविरतमर्चासु परं पुरमुरद्विषोः ॥ २६ ॥ शान्तो दान्तः शान्तमना नितान्तं कान्तविग्रहः । स्वदुःखकरणेनापि परं परसुखोद्यतः ॥ २७ ॥ ऊहापोहविदव्यग्रो लोभमोहविर्जितः । अज्ञानुकम्प्यविज्ञातज्ञानो ज्ञातपरेङ्गितः ।। २८ ३॥ निरंशसांशवित्सर्वसंशयच्छिदसंशयः । नयविद्विनयोपेतो विनीतो न चिरात्मवान् ॥ २८ ॥ व्याधिरप्रापितव्याधिः समाधिविधिसंयुतः । श्रुतिधीरोऽतिधीरश्च वीरो वाक्यविशारदः ॥ ३० ॥ वर्गोपेतसमारम्भो गभीरो दम्भवर्जितः । आदर्श इव विद्यानां न तु दर्शनदूषकः ॥ ३१ ॥ असौ मृग्यश्च दृश्यश्च सेव्यश्चाभीष्टमिच्छता । शिष्यस्तदावर्जनकृहेहेन द्रविणेन च ॥ ३२ ॥ तस्य पादारविन्दोत्थरज:पटलरूषणः | स्नानमप्राप्य न प्राप्यं प्रायो बुद्धिमतेप्सितम् ।। ३३ ।। त्रयस्त्रिंशः पटलः । नित्यश: कायवाक्चित्तैस्त्रिव्द्यैकाव्दादिकावधि । परिचर्यापरः शिष्यः स्यात्सुसंयतमानस: !! ३४ ।। तं तथाविधमालक्ष्य सदावितथवादिनम् । मातृत: पितृतः शुद्धं बुद्धिमन्तमलोलुपम् ।। ३५ ।। अस्तेयवृत्तिमास्तिक्ययुक्तं मुक्तिकृतोद्यमम् । अकल्मषं मृषाहीनमहीनद्रव्यमानसम् ।। ३६ ॥ ब्रह्मचर्यपरं नित्यं परिचर्यापरं गुरोः । अल्पाशनिद्रं पूजायामनल्पकृतकल्पनम् ।। ३७ ।। अधीतवेदं स्वाधीनमनाधिं व्याधिवर्जितम् । तरुणं करुणावासं परितोष्करं गुरोः ॥ ३८ ॥ सुवेषमेषणातीतममलं विमलाशयम् । सुप्रसन्नं प्रसन्नाङ्गं सदा संनिहितं गुरोः ॥ ३९ ॥ परोपकारनिरतं विरतं परदूषणे । मातृवद्गुरुपत्नीं च भ्रातृवत्तत्सुतानपि ॥ ४० ॥ स्मरन्तमस्मराबाधं स्मितोपेतमविस्मितम् । परिग्रहे परीक्ष्यैव शिष्यमेवंगुणं गुरुः ॥ ४१ ।। प्रपञ्चसारे अलसं मलसंक्लिन्नं क्लिष्टं क्लिष्टान्ववायजम् । दम्भान्वितमगम्भीरं चण्डं पण्डितमानिनम् ॥ ४२ ॥ रागिणं रोगिणं भोगलालसं बालसंमतम् । रौद्रं दरिद्रं निद्रालुमाद्यूनं क्षुद्रचेष्टितम् ।। ४३ ॥ नृशंसमन्धं बधिरं पङ्गुं व्यङ्गममङ्गलम् । अतिदीर्घमतिहस्वभक्तिस्थूलकृशात्मकम् ।। १४ ।। आदित्सुं कुत्सितं वत्सं बीभत्सं मत्सरात्मकम् । परदारपरं भीरुं दारुणं वैरिणं सत्ताम् ।।४५ ॥ लुब्धं त्वलब्धवैदग्ध्यं स्तब्धं लुब्धकबान्धवम् । सुखिनं मुखरं दुर्गं दुर्मुखं मूकमानसम् ।। ४६ ।। प्रत्यममुग्रं व्यग्रेमप्रगण्यं दुरात्मनाम् । प्रष्टव्यकं तमःस्पृष्टं क्लिष्टामेष्टापहं नृणाम् ॥ १७ ॥ स्वार्थकृत्यं प्रसक्तार्थं निरारम्भणं शठम् । ईदृग्विधं गुरुः शिष्यं न गृह्णीयात्कथंचन ।। ४८ ॥ यदि गृह्णाति तद्दोषः प्रायो गुरुमपि स्पृशेत् । मन्त्रिदोषो यथा राज्ञि पत्यो जायाकृतो यथा ॥ १९ ॥ त्रयस्त्रिंशः पटलः । ५०.९. तथा शिष्यकृतो दोषो गुरुमेति न संशयः । स्नेहाद्वा लोभतो वापि यो न गृह्णाति दीक्षया ॥ ५० ॥ तस्मिन्गुरौ सशिष्ग्रे तु देवताशाप आपत्तेत् । मधुद्विषि महादेवे मातापित्रोर्महीभृति । भक्तिर्या मा पदाम्भोजं कार्या निजगुरौ सदा ।। ५१॥ छायाज्ञापादुकोपानदण्डोश्च शयनासने । यानं मनोगतं चान्यदन्तवासी न लङ्घ्येत् ।। ५२ ।। व्याख्याविवादः स्वातन्त्र्यकामिता काम्यजृम्भिता । निद्राकुतर्कक्रोधांश्च त्यजेद्गुरुगृहे सदा ॥ ५३ ॥ अग्राम्यधर्मं विण्मूत्रसर्गनिष्ठीवनादिकम् । परित्यजेत्परिज्ञाता वमिं च गुरुमन्दिरे ॥ ५४॥ प्राम्वोक्तीरनृतं निन्दामृणं च बसुविक्रयम् । परित्यजेद्गुरौ तस्य सपत्न्यैश्च समागमम् ॥ ५५ ॥ इष्टं बानिष्टमादिष्टं गुरुणा यत्तु गुर्वपि । स्वरया परया कुर्याद्धिया सम्यगजिह्मया ॥ ५६ ॥ 1. कार्य प्रपञ्चसारे कर्मणा मनसा वाचा सदा भक्तियुजा गुरुम् । निार्व्याजं पूजयेच्छिष्यो निजकार्यप्रसिद्धये ॥ ५७ ।। लोकोद्वेगकरी या च या च कर्मनिकृन्तनी । स्थित्युच्छेदकरी या च तां गिरं नैव भाषयेत् ।। ५८ ।। रम्यमप्युज्ज्वलमपि मनसोऽपि समीप्सितम् । लोकविद्वेषणं वेधं न गृह्णियात्कदाचन ॥ ५१ ॥ इत्याचारपर: सम्यगाचार्यं यः समर्चयेत् । कृतकृत्यः स वै शिष्यः परत्रेह च नन्दति ॥ ६॥ देवानृषीनपि पितॄनतिस्थस्तथाग्निं नित्योद्यतेन मनसा दिनशोऽर्चयेद्यः । इष्टानवाप्य सकलानिह भोगजाता- न्प्रेत्य प्रयाति परमं पदमादिपुंसः ।। ६१ ॥
इत्थं मूलप्रकृत्यक्षरविकृतिलिपित्रातजातग्रहीर्क्ष क्षेत्राद्याबद्धभूतेन्द्रियगुणरविचन्द्राग्निसंप्रोतरूपैः । मन्त्रैस्तद्देवताभिर्मुनिभिरपि जपध्यानहोमार्चनाभि- स्तन्त्रेऽस्मिन्यन्त्रभेदैरपि कमलज ते दर्शितोऽयं प्रपञ्चः ॥
यदाश्रया विप्रकृतिप्रभावतो
विभिन्नतारांशसमुत्थितौजसः ।
जगन्ति पुष्णन्ति रवीन्दुवह्नयो
नमोऽन्तु तस्मै परिपूर्णतेजसे ॥ ६३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
प्रपञ्चसारे त्रयस्त्रिंशः पटलः ।।
पपञ्चसारः संपूर्णः ॥