प्रतिसराकल्पधारणी

विकिस्रोतः तः
प्रतिसराकल्पधारणी
[[लेखकः :|]]


अथ विद्याधरकल्पं प्रवक्ष्ये सत्त्वानुकम्पया ।
नमो बुद्धाय नमो धर्माय नमः संघाय ।

नमो भगवते शाक्यमुनये महाकारुणिकाय तथागतायार्हते सम्यक्संबुद्धाय । नमः समन्तेभ्यः सम्यक्संबुद्धेभ्यः । ओं गिरि गिरि गिरिणि गिरिणि गिरिवति गुणवति आकाशवति आकाशविशुद्धे सर्वपापविगते आकाशे गगनतले आकाशविचारिणि मणिधरि वज्रिणि ज्वलितशिखरे मणिमुक्ताखचितमौलिधरे सुकेशे सुवेषे सुवक्त्रे सुनेत्रे सुवर्णगौरे अतीते अनुत्पन्ने अनागते प्रत्युत्पन्ने नमः सर्वबुद्धानां ज्वलितौ जसां बुद्धे सुबुद्धे भगवति सुरक्षणि अक्षय सुक्षय सूक्ष्मे सुप्रभे सुदमे सुदान्ते सुव्रते वरदे प्रवरे भगवति भद्रवति सुभद्रवति भद्रे सुभद्रे विमले जयभद्रे चण्डि प्रचण्डि चण्डे वज्रचण्डे महाचण्डे गौरि गन्धारि चण्डालि मातङ्गि वच्चसि सुमति पुक्कसि सुमुखि शबरि शावरि शंकरि द्रमण्डि द्रामण्डि रौद्रिणि सर्वार्थसाधनि परमार्थसाधनि हन हन सर्वशत्रून् दह दह सर्वदुष्टान् प्रेतपिशाचडाकिनीमनुष्यामनुष्याणां (१४१) पच हृदयं विध्वंसय जीवितं सर्वदुष्टग्रहाणां नाशय नशय सर्वपापानि मे भगवति । रक्ष रक्ष मम सर्वसत्त्वानाञ्च सर्वत्र सर्वदा सर्वभयोपद्रवेभ्यः । सर्वदुष्टानां बन्धनं कुरु कुरु । सर्वकिल्विषनाशनि मार्तण्डे मृत्युदण्डे मृत्युदण्डनिवारिणि मानन्दे मानिनि महामानिनि मानधारिणि चले विचले विमले विटि विटि तटि तिटि निटि निटि तुट्टे धोरिणि धरिणि निमिणि विरिणि वीर्यणि प्रचले प्रवरसमरे चण्डालि मातङ्गि रुन्धसि करसि शरसि वर्चसि सुमति पुक्कसि शबरि शबरि शंकरि मनि द्रविडि डाविडि हननि दहनि पचनि पाचनि मर्द्दनि सरलि सरले सरलम्भे हीनमध्योत्कृष्टविदारिणि महिरि महिरि महामहिलि निगडे निगडभंजे मर्ते मर्ते मत्ति मत्तिनि दांते चक्रे चक्रवाकिनि ज्वले ज्वले ज्वलिनि शबरि शाबरि सर्वव्याधिहरिणि मुनि मुनि चुण्डि चुण्डि चुण्डिनि चुण्डिनि महाचुण्डिनि निमि निमि निमिंधरि त्रैलोक्यवर्धनि त्रिलोकजननि त्रिलोकालोककरि त्रैधातुकव्यवलोकनि वज्रपरशुपाशमुषलखड्गचक्रत्रिशूलचिन्तामणिमकुटमहाविद्याधारिणि रक्ष रक्ष मां सर्वसत्त्वांश्च सर्वस्थानगत सर्वदुष्टभयेभ्यः सर्वमनुष्यामनुष्यभयेभ्यः सर्वव्याधिभ्यः । वज्रे वज्रे वज्रवति वज्रधरे वज्रपाणिधरे हिरि हिरि मिलि मिलि किलि किलि चिलि चिलि शिलि शिलि चल चल वल वल वरदे (१४२) वरदांकुशे सर्वत्र जयलब्धे स्वाहा । सर्वपापविदारिणि स्वाहा । सर्वव्याधिहरिणि स्वाहा । गर्भसंभरणि स्वाहा । सर्वत्र भयहरणि स्वाहा । स्वस्ति भवतु मम सर्वसत्त्वानाञ्च स्वाहा । ओं भुवः स्वाहा । स्वस्ति स्वाहा । शान्ति स्वाहा । पुष्टि स्वाहा । बलवर्द्धनि स्वाहा । ओं जयतु जयवति जयकमले विमले स्वाहा । विपुले स्वाहा । सर्वतथागतमूर्ते स्वाहा । ओं भूरि महाशान्ते स्वाहा । ओं भुः भूरि भूरि वज्रवति सर्वतथागतहृदयपूरणि आयुःसन्धारणि बले बलवति । ओं जयविजये हूं हूं फट् । ओं मणिधरि वज्रिणि हूं हूं फट्फट्स्वाहा ॥ ओं मणिवज्रे हृदयवज्रे मारसैन्यविद्रावणि हन हन सर्वशत्रून् वज्रगर्भे त्रासय त्रासय सर्वमारभवनानि हूं हूं फट्फट्संभर संभर स्वाहा । बुद्धमैत्री सर्वतथागतवज्रकल्पाधिष्ठिते सर्वकर्मावरणान्यपनये स्वाहा ।

॥ आर्यप्रतिसराकल्पधारणी समाप्ता ॥

"https://sa.wikisource.org/w/index.php?title=प्रतिसराकल्पधारणी&oldid=370622" इत्यस्माद् प्रतिप्राप्तम्