प्रतापरूद्रीयम्

विकिस्रोतः तः
Jump to navigation Jump to search
प्रतापरूद्रीयम्
विद्यानाथः


श्रीमद्विद्यानाथप्रणीतम् प्रतापरुद्रीयम् श्रीमत्कुमारस्वामिकृतरत्नापणसहितम्

अथ नायकप्रकरणम् ।[सम्पाद्यताम्]


विद्याकैरवकौमुदीं श्रुतिशिरः सीमन्तमुक्तामणिं दारान् पद्मभुवस्त्रिलोकजननीं वन्दे गिरां देवताम् ।
यत्पादाब्जनमस्क्रियाः सुकृतिनां सारस्वतप्रक्रियाबीजन्यासभुवो भवन्ति कवितानाट्यैकजीवातवः ॥ १,१ ॥

पूर्वेभ्यो भामहादिभ्यः सादरं विहताञ्जलिः ।
वक्ष्ये सम्यगलङ्कारशास्त्रसर्वस्वसंग्रहम् ॥ १,२ ॥

चिरेण चरितार्थोऽभूत्काव्यालङ्कारसंग्रहः ।
प्रतापरुद्रदेवस्य कीर्तिर्येन प्रकाश्यते ॥ १,३ ॥

रसप्रधानाः शब्दार्था गुणालङ्कारवृत्तयः ।
रीतयश्चेयती शास्त्रप्रमेयं काव्यपद्धतिः ॥ १.४ ॥

यद्यप्यसौ प्रबन्धेषु प्राचां साधु निरूपिता ।
तथाप्यस्याः समं नेतुर्नोदाहरणमादृतम् ॥ १.५ ॥

पुण्यश्लोकस्य चरितमुदाहरणमर्हति ।
न कश्चित्तादृशः पूर्वैः प्रबन्धाभरणीकृतः ॥ १.६ ॥

प्रबन्धानां प्रबन्धॄणामपि कीर्त्तिप्रतिष्ठयोः ।
मूलं विषयभूतस्य नेतुर्गुणनिरूपणम् ॥ १.७ ॥

यथा रामगुणवर्णनं रामायणवल्मीकजन्मनोर्महाप्रतिष्ठाकरणं, तथा महापुरुषवर्णनेन हि श्रेयस्करी प्रबन्धस्थितिः ।
यथा वेदशास्त्रपुराणादेर्हितप्राप्तिः अहितनिवृत्तिश्च, तथा सदाश्रयात्काव्यादपि ।
इयान् विशेषःकाव्यात्कर्तव्यताधीः सरसा, अन्यत्र न तथा ।
तथा हि

यद्वेदात्प्रभुसंमितादधिगतं शब्दप्रधानाच्चिरं यच्चार्थप्रवणात्पुराणवचनादिष्टं सुहृत्संमितात् ।
कान्तासंमितया यया सरसतामापाद्य काव्यश्रिया कर्तव्ये कुतुकी बुधो विरचितस्तस्यै स्पृहां कुर्महे ॥ १.८ ॥

ततः काव्यं दृष्टादृष्टफलजनकतया बहूपयुक्तम् ।
तच्चोक्तं काव्यप्रकाशे

"काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे" ॥
इति ।

प्रसिद्धं चैतन्महाप्रबन्धेषु

"परिवड्ढै विण्णाणं संभाविज्जै जसो विडप्पंदि गुणा ।
सुत्रै सुपुरुसचरिअं किं तज्जेण ण हरंति कव्वाठ्ठावा" ॥

(परिवर्धते विज्ञानं संभाव्यते यशोऽर्ज्यन्ते गुणाः ।
श्रूयते सुपुरुषचरितं किं तद्येन न हरन्ति काव्यालापाः) ॥

यत्र पुनरुत्तमपुरषचरितं न निबध्यते, तत्काव्यं परित्याज्यमेव ।
तन्मूला चेयं

स्मृतिः"काव्यालापांश्च वर्जयेत्ऽ इति ।
न केवलं काव्यस्यायं पन्थाः ।
किन्तु शास्तरजातस्यापि सदाश्रयत्वेन महान् लोकादरः ।
तथा वैशेषिकादेरीश्वरप्रतिष्ठापकतया जगत्पूज्यता ।
तथा महाभारतादीनामपि महापुरुषवर्णनपरतयैव विश्वातिशायित्वम् ।

किं बहुना? वेदान्ता अपि ब्रह्मप्रतिपादकतया परमुत्कृष्यन्ते ।
ऽअथातो धर्मजिज्ञासाऽ इत्युपक्रममाणेन सूत्रकृता महर्षिणापि पुरुषाश्रितस्य गुणश्रेष्ठस्य धर्मस्य जिज्ञासाद्वारेण महापुरुषगुणवर्णनमेव शास्त्रस्य प्राण इत्युररीकृतम् ।
तत्तन्न्यायनिरूपणपरस्यापि प्रबन्धराशेर्महापुरुषगुणवर्णनं हेम्नः परमामोदः ।
अतश्च,

प्रतापरुद्रदेवस्य गुणानाश्रित्य निर्मितः ।
अलङ्कारप्रबन्धोऽयं सन्तः कर्णोत्सवोऽस्तु वः ॥ १.९ ॥

काकतीयनरेन्द्रस्य यशो भूषयितुं कृता ।
विद्यानाथकृतिश्चेयं स्वयं तेन विभूष्यते ॥ १.१० ॥

तदुक्तं दण्डिना

"आदिराजयशोबिम्बमादर्शं प्राप्य वाङ्मयम् ।
तेषामसंनिधानेऽपि न स्वयं पश्य नश्यति" ॥
इति ।

सूक्तैव प्रतिपाद्यमहिम्ना प्रबन्धमहत्ता ।

तदुक्तं प्राचा भामहेन
"उपश्लोक्यस्य माहात्म्यादुज्ज्वलाः काव्यसंपदः" ।
इति ।

प्रतिपादितंऽचोद्भटेनऽ

"गुणालङ्कारचारुत्वयुक्तमप्यधिकोज्ज्वलम् ।
काव्यमाश्रयसंपत्त्या मेरुणेवामरद्रुमः" ॥
इति ।

रुद्रभट्टेनापि कथितम्"उदारचरितनिबन्धना प्रबन्धप्रतिष्ठाऽ इति ।
प्रपञ्चितं च साहित्यमीमांसायाम्"नायकगुणग्रथिताः सूक्तिस्रजः सुकृतिनामाकल्पमाकल्पन्तिऽ इति ।
निरूपितं चऽभोजराजेनऽ

"कवेरल्पापि वाग्वृत्तिर्विद्वत्कर्णावतंसति ।
नायको यदि वर्ण्येत लोकोत्तरगुणोत्तरः" ॥
इति ।

॥ महाकुलीनत्वादिनायकगुणाः ॥

अत्रैते नायकगुणाः ।

महाकुलीनतौज्ज्वल्यं महाभाग्यमुदारता ।
तेजस्विता विदग्धत्वं धार्मिकत्वादयो गुणाः ॥ १.११ ॥

पूर्वशास्त्रानुसारेण कतिचित्कथिता इमे ।
प्रतापरुद्रदेवस्य गुणा वाचामगोचराः ॥ १.१२ ॥

अथैतेषां स्वरूपमुदाहरणं च ।
तत्र

[१.१.१ महाकुलीनता]

महाकुलीनता नाम कुले महति संभवः ।

यथा

तादृङ्मध्यमलोकभाग्यविभवादिन्द्रादिबृन्दारकैः क्षोण्यां क्रीडितुमिच्छुभिश्चिरतरं संप्रार्थितः पद्मभूः ।
अत्यर्केन्दुकुलप्रशस्तिमसृजद्यं काकतीयान्वयं तस्मिन् संप्रति वीररुद्रवपुषा जागर्ति लक्ष्मीपतिः ॥ १.१३ ॥

[१.१.२ औज्ज्वल्यम्]

अथौज्ज्वल्यम्

रूपसंपन्नदेहत्वमौज्ज्वल्यं परिकीर्त्यते ॥ १.१४ ॥

यथा

मुरारेर्यः पूर्वं जलनिधिसुतायामुदभवन्महादेवाज्जातः स पुनरवनीभृद्दुहितरि ।
वपुष्मान् कामोऽयं जयति जगतीभाग्यविभवैः प्रतापश्रीरुद्रः स्वयमिति मनीषा मृगादृशाम् ॥ १.१५ ॥

[१.१.३ महाभाग्यम्]

अथ महाभाग्यम्

विश्वंभराधिपत्यं यत्तन्महाभाग्यमुच्यते ।

यथा

सेवानम्रनरेन्द्रमौलिविलसद्रत्नंशुनीराजितं राज्यश्रीप्रथमावतारपदवीमारुह्य सिंहासनम् ।
क्षोणीं रक्षति विक्रमैरनुपमैः प्रत्यर्थिपृथ्वीपतिश्लाघालङ्घनजाङ्घिकैर्गुणनिधिः श्रीवीररुद्रो नृपः ॥ १.१६ ॥

[१.१.४ औदार्यम्]

अथौदार्यम्

यद्विश्राणनताच्छील्यमौदार्यं तन्निगद्यते ॥ १.१७ ॥

यथा

वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपतेर्गुणश्रेणीश्लाघापिहितहरिदीशानयशसः ।
समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ १.१८ ॥

[१.१.५ तेजस्विताः]

अथ तेजस्विता

जगत्प्रकाशकत्वं यत्तेजस्वित्वं तदुच्यते ।

यथा

सदा तेजोभानौ स्फुरति जयिनः काकतिविभोररिक्ष्माभृत्कान्ताचिकुरतिमिराहंकृतिमुषि ।
प्रकाशव्युत्पत्तिर्भवति जरदुद्दामतमसामसूर्यंपश्यानामवधिगिरिपाश्चात्त्यदृषदाम् ॥ १.१९ ॥

[१.१.६ वैदग्ध्यम्]

अथ वैदग्ध्यम्

कृत्यवस्तुषु चातुर्यं वैदग्ध्यं परिकीर्त्यते ॥ १.२० ॥

यथा

चातुर्यं किमु वर्ण्यते गुणनिधेः श्रीवीररुद्रप्रभोर्यत्रान्योन्यविरुद्धयोरपि महद्वाणीश्रियोरार्जवम् ।
किं चाभ्यां सदृशोपचारललितां तत्तादृशैरुत्सवैर्निः सापत्न्यमिमां भुवं स नृपतिर्धत्ते दिशां जित्वरः ॥ १.२१ ॥

[१.१.७ धार्मिकत्वम्]

अथ धार्मिकत्वम्

धर्मैकायत्तचित्तत्वं धार्मिकत्वमुदीर्यते ।

यथा

परिहासेऽप्यनौचित्यं स्वप्नेऽप्यन्यवधूकथाम् ।
शत्रावप्यगुणारोपं काकतीन्द्रो न मृष्यति ॥ १.२२ ॥

आदिग्रहणान्महामहिमत्वपाण्डित्यप्रभृतयः ।
तन्महामहिमत्वं स्याद्या पुनर्देवतात्मता ॥ १.२३ ॥

[१.१.८ महामहीतात्मता]

यथा

कौसल्याऽसीत्प्रथमजननी, देवकी च द्वितीया विष्णोर्माता तदनु महिता मुम्मडाम्बा तृतीया ।
यस्त्रेतायां रघुपतिरभूद्द्वापरे शौरिरासीत्त्रातुं क्षोणीं स जयति कलौ वीररुद्रावतारः ॥ १.२४ ॥

अत्र गरुडध्वजात्मकतया महामहिमतोक्ता ।

[१.१.९ पाण्डित्यम्]

अथ पाण्डित्यम्

सर्वविद्याधिकत्वं यत्पाण्डित्यं तदुदाहृतम् ।

यथा

गोष्ठीभिः परितोषयन् बुधगणान् षड्दर्शनीसीमभिः सत्सारस्वतमार्गदर्शनचणैः सूक्तैः कवीन् प्रीणयन् ।
संगीतोपनिषद्रहस्यपिशुनैरातोद्ययोग्यक्रमैर्धिन्वन् संसदि वैणिकान् विहरते श्रीकाकतीन्द्रो नृपः ॥ १.२५ ॥

अथ नायकगुणनिरूपणानन्तरं नायकस्वरूपं निरूप्यते ।

यशः प्रतापसुभगो धर्मकामार्थतत्परः ।
धुरंधरो गुणाढ्यश्च नायकः परिकीर्त्तितः ॥ १.२६ ॥

यशः प्रतापाभ्यां

[१.२.१ सुभगत्वम्ः]

सुभगत्वं यथा

धर्मालम्बसमुच्छ्रितां त्रिभुवनस्यैकातपत्रश्रियं धत्ते काकतिवीररुद्रनृपतेः स्फारं यशोमण्डलम् ।
छायेवास्य नभः स्थली कुवलयश्यामेयमालोक्यते तन्मन्ये नियतं प्रतापतपनस्तस्योपरि द्योतते ॥ १.२७ ॥

[१.२.२ धर्मकामार्थतत्परत्वम्]

धर्मकामार्थतत्परत्वं यथा

धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ १.२८ ॥

[१.२.३ धरीणका]

धुरीणता यथा

गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैर्लक्ष्मीं प्रीणयतेऽद्य कच्छपपतिर्वक्षः स्थलीदर्शनात् ।
दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया दोष्णा काकतिवीररुद्रनृपतौ विश्वम्भरां बिभ्रति ॥ १.२९ ॥

[१.२.४ गुणाढ्यत्वम्]

गुणाढ्यत्वं यथा

मुखैः सहस्त्रेण फणी वदेच्चेत्करैः सहस्रेण लिखेद्विवस्वान् ।
नेत्रैः सहस्रेण हरिश्च पश्येत्स्थाने गुणान् काकतिवीरभुर्तुः ॥ १.३० ॥

अथ नायकविशेषा निरूप्यन्ते ।
उदात्त उद्धतश्चैव ललितः शान्त इत्यपि ।
धीरपूर्वा इमे पूर्वैश्चत्वारो नायकाः स्मृताः ॥ १.३१ ॥

तत्र सर्वरससाधारणाश्चत्वारो नायकाः धीरोदात्तधीरोद्धतधीरललितधीरशान्ताः ।
एतेषां स्वरूपमुदाहरणं च ।

[१.३.१ धीरोदात्तः]

महासत्त्वोऽतिगम्भीरः कृपावानविकत्थनः ।
प्रतापरुद्रवद धीरो धीरोदात्तः स संमतः ॥ १.३२ ॥


यथा

संदिग्धे कृपया मृदुः क्षणमरीन् हन्तुं धृतासिः पुरः शौर्यश्रीप्रणयप्रशंसिषु नमद्भ्रूर्लज्जते वन्दिषु ।
आकारान् सुखरोषहर्षपिशुनान् वक्त्रे न धत्ते मनाक्त्रैलोक्यातिशयालुकीर्त्तिसुभगः श्रीवीररुद्रो नृपः ॥ १.३३ ॥

दर्पमात्सर्यभूयिष्ठश्चण्डवृत्तिर्विकत्थनः ।
मायावी सुलभक्रोधः स धीरोद्धत उच्यते ॥ १.३४ ॥

[१.३.२ धीरोध्दतः]

यथा

रे रे घूर्जर जर्झरोऽसि समरे लम्पाक किं कम्पसे वङ्ग त्वङ्गसि किं मुधा बलरजः काणोऽसि किं कोङ्कण ।
हूण प्राणपरायणो भव महाराष्ट्रापराष्ट्रोऽस्यमी योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः ॥ १.३५ ॥

अत्र भटानां धीरोद्धतत्वम् ।

[१.३.३ धीरललितः]

ऽसुरवैकभूःऽ इति पाठान्तरम् ।

निश्चिन्तो धीरललितः कलासक्तः ।
सुखी मृदुः ।

इ ।
सुखैकभूः इति पाठान्तरम्]

यथा

शौर्योष्मा निरवग्रहः प्रतिनृपाः सर्वेऽपि नम्रीकृताः पातिव्रत्यमुपैति भूरियमयं नाथः स्वयंभूः शिवः ।
धीरोऽयं युवराज एव वहति श्रीवीररुद्रो धुरं सर्वामित्यनुमोदते प्रतिकलं श्रीकाकतीन्द्रो नृपः ॥ १.३६ ॥

[१.३.४ धीरशान्तः]

धीरः शान्तः प्रसन्नात्मा धीरशान्तो द्विजादिकः ॥ १.३७ ॥

यथा

वीरं रुद्रनृपालरत्नमभितः प्राप्तोदयं मोदते संख्यावदरण एष पूषणमिव प्रत्यग्रमब्जाकरः ।
उन्मीलत्कमलाविहारवसतिर्भूत्वा विकासैर्निजैर्विश्वामोदमुदञ्चयन्नविरतं दोषावसानोत्सुकः ॥ १.३८ ॥

अत्र विप्राणां धीरशान्तत्वम् ।

॥ शृङ्गारनायका निरूप्यन्ते ।

अथ शृङ्गारविषयाश्चत्वारो नायका इमे ।
अनुकूलो दक्षिणश्च धृष्टः शठ इति स्मृताः ॥ १.३९ ॥

एषां स्वरूपमुदाहरणं च ।

[१.४.१ नुकूलः]

एकायत्तोऽनुकूलः स्यात्

एकस्यां नायिकायां विशेषानुरक्तोऽनुकूलो नायकः ।

यथा

किं नामाचरितं तपः सखि ! भुवा यस्याः पतिर्गीयते वीरो रुद्रनृपः क्व तत्सुचरितं तस्य प्रिया स्यां यतः ।
जाने मानिनि मा विषीद पुरतः प्रख्याप्य नाम स्थिरां त्वां रत्नाकरमेखलां त्वयि सदा सक्तं विधास्ये नृपम् ॥ १.४० ॥

अत्र प्रतापरुद्रस्य क्षोण्यां विशेषानुरागो व्यज्यते, येन वध्वा स्थिरा रत्नाकरमेखलेति तन्नामग्रहणेन स्नेहप्रख्यापनं क्रियते ।

[१.४.२ दक्षिणः]

तुल्योऽनेकत्र दक्षिणः ।

अनेकासु नायिकासु अवैषम्येण स्नेहानुवर्ती दक्षिणो नायकः ।

यथा

नर्मोक्त्यैव नियन्त्रिता स्मरकलाकेलीषु काचिन्मया साकूतेन विलोकनेन हृदयं कस्यैचिदाविष्कृतम् ।
कस्याश्चित्प्रहितः प्रसाधननिधिर्दूतीकरेण, क्व वा गन्तास्मीत्यनुचिन्तयैव नृपतेरासीत्प्रभाता निशा ॥ १.४१ ॥

तथा च

वाणीं मुखेन, नेत्राभ्यां श्रियं, दोष्णा च मेदिनीम् ।
मानयंस्तुल्यतां धत्ते तासु रुद्रनरेश्वरः ॥ १.४२ ॥

[१.४.३ धृष्टः]

व्यक्तागा गतभीर्धृष्टः

यथा

राज्यश्रीपरिभोगशंसि भवतः सर्वाङ्गमालोक्यते कस्तत्राविनयोऽस्ति साहसमिदं तन्नाम मय्यर्पितम् ।
जाने त्वां बहुवल्लभं किमपरं वक्तव्यमल्पा वयं तस्यां प्रेम तवाधिकं वसुमती या नाम किं जल्पितैः ॥ १.४३ ॥

[१.४.४ शठः]

गूढविप्रियकृच्छठः ॥ १.४४ ॥

नायिकामात्रविदितविप्रियकारी शठः ।

यथा

दृष्ट्या पश्यसि केवलं न मनसा वाचा प्रियं भाषसे नो भावेन भुजान्तरं प्रकटयस्यग्रे न चाभ्यन्तरम् ।
ज्ञातं काकतिनाथ ! भूस्तव परं प्राणेश्वरी ध्यायतो मादृक्षेषु विडम्बनैव ॑ तदलं व्यर्थैर्बहिस्संभ्रमैः ॥ १.४५ ॥

अत्र तत्तन्नायकविषयतया काकतीश्वराणामुदाहरणेन वीररुद्रस्यैव वर्णनम् ।
एषां नायिकानुकूलने पीठमर्दविटचेटविदूषकनामानः सहायाः ।
तेषां स्वरूपं निरूप्यते ।

किंचिदूनः पीठमर्द एकविद्यो विटः स्मृतः ।
संधानकुशलश्चेटो हास्यप्रायो विदूषकः ॥ १.४६ ॥

स्पष्टमेषामुदाहरणम् ।

अथाष्टविधाः शृङ्गारनायिकाः ।

स्वाधीनपतिका चैव तथा वासकसज्जिका ।
विरहोत्कण्ठिता चैव विप्रलब्धा च खण्डिता ॥ १.४७ ॥

कलहान्तरिता चैव तथा प्रोषितभर्तृका ।
तथाभिसारिका चेति क्रमाल्लक्षणमुच्यते ॥ १.४८ ॥

प्रियोपलालिता नित्यं स्वाधीनपतिका मता ।

[१.५.१ स्वधीनपतिका]

यथा

प्रियां सर्वंसहां तैस्तैर्विशेषैरुपलालयन् ।
प्रतापरुद्रनृपतिः प्रतिक्षणमवेक्षते ॥ १.४९ ॥

प्रियागमनवेलायां मण्डयन्ती मुहुर्मुहुः ।
केलीगृहं तथात्मानं सा स्याद्वासकसज्जिका ॥ १.५० ॥

[१.५.२ वासकासज्निका]

यथा

स्वतेजसा परिष्कृत्य प्रधानागारमुत्कया ।
श्रियाभिषेकवेलायां वीररुद्रः प्रतीक्षितः ॥ १.५१ ॥

चिरयत्यधिकं कान्ते विरहोत्कण्ठितोन्मनाः ॥ १.५२ ॥

[१.५.३ विरहोत्कण्ठिता]

यथा

न शङ्कान्या तादृग्गुणपरिमले रुद्रनृपतौ कया वा गोष्ठ्यासौ चिरयति सखीभिर्न सुलभः ।
समानेतुं कान्तं व्रज मदन बद्धोऽञ्जलिरयं यतो विष्वद्रीचः किरति किरणांस्त्वत्प्रियसखः ॥ १.५३ ॥

क्वचित्संकेतमावेद्य दयितेनाथ वञ्चिता ।
स्मरार्ता विप्रलब्धेति कलाविद्भिः प्रकीर्त्यते ॥ १.५४ ॥

[१.५.४ विप्रलब्धा]

यथा

गच्छाग्रे सखि ! का प्रियागमकथा प्राप्तो निशीथः परं संकेतालय ! मोक्ष्यसे मम वृथा जातोऽश्रुभिः पङ्किलः ।
यद्वा रुद्रनरेश्वरे प्रियतमे राज्यश्रियो वल्लभे भारत्या दयिते भुवः कृतपदाः प्रायो वयं वञ्चिताः ॥ १.५५ ॥

नीत्वान्यत्र निशां प्रातरागते प्राणवल्लभे ।
अन्यासंभोगचिह्नैस्तु कुपिता खण्डिता मता ॥ १.५६ ॥

[१.५.५ खण्डिता]

यथा

रात्रिर्यामत्रयपरिमिता वल्लभास्ते सहस्रं मार्गासक्त्या मम गृहमपि प्रातरेवागतोऽसि ।
किं कर्तव्यं वद नृपतिभिर्वीक्षणीया हि सर्वाः को वा दोषस्तव पुनरहं काममायासयित्री ॥ १.५७ ॥

कोपात्प्रियं पराणुद्य पश्चात्तापसमन्विता ।
कलहान्तरिता नाम सूरिभिः परिकीर्तिता ॥ १.५८ ॥

[१.५.६ कलहान्तरिता]

यथा

तह तह अणुणअन्तो पिओ तुए हिअअ रोसकलुसेण ।
अवहीरिदो ण मुणिअं राएति विओअवेअणं सहसु ॥ १.५९ ॥

(तथा तथा अनुनयन् प्रियस्त्वया हृदय ! रोष कलुषेण ।
अवधीरितो न ज्ञातो राजेति वियोगवेदनां सहस्व) ॥ ॥

देशान्तरगते कान्ते खिन्ना प्रोषितभर्तृका ।

[१.५.७ प्रोषितभर्तृका]

यथा

त्रैलोक्यप्रथमानकीर्त्तिमहसः श्रीवीररुद्रप्रभोः सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः ।
द्वारासक्तदृशो नयन्ति दिवसान् व्युष्टाशया च क्षपास्तद्ध्यानप्रतिबद्धसान्द्रपुलकव्याकीर्णकामेषवः ॥ १.६० ॥

कान्ताभिसरणोद्युक्ता स्मरार्ता साभिसारिका ॥ १.६१ ॥

[१.५.८ अभिसारिका]

यथा

संभ्रमैरलमल्पज्ञे ! प्रेयानस्तु महीपतिः ।
करेणुस्थां न पश्यामि न शृणोम्यभिसारिकाम् ॥ १.६२ ॥

॥ आसां नायिकानुकूलने सहायाः ॥

दूत्यो दासी सखी कारूर्धात्रेयी प्रातिवेशिनी ।
लिङ्गिनी शिल्पिनी स्वा च सहायाः परिकीर्तिताः ॥ १.६३ ॥

एतासां स्वरूपमुदाहरणं च स्पष्टम् ।
कामशास्त्रप्रसिद्धाः पद्मनीचित्रिणीप्रभृतयो जातिविशेषा ज्ञातव्याः ।
संक्षेपेण नायिका त्रिविधामुग्धा मध्या प्रौढा चेति ।

उदयद्यौवना मुग्धा लजाविजितमन्मथा ।
लजामन्मथमध्यस्था मध्यमोदितयौवना ।
स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना ॥ १.६४ ॥

यथाक्रममुदाहरणानि ।
मुग्धा यथा

मुग्धे ! यन्मनसोऽपि गोप्यमखिलं तन्मह्यमावेद्यते किं या काचिदहं तव प्रियसखि प्रच्छाद्य किं ताम्यसि ।
आसक्तिस्तव रुद्रदेवनृपतावाशास्यते किं भवेदित्याल्यां प्रणयैकवाचि सुतनुर्दत्तोत्तरा व्रीडया ॥ १.६५ ॥

मध्या यथा

लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपानेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः ।
सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः कोऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः ॥ १.६६ ॥

प्रौढा यथा

सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् ।
रसप्रादुर्भावाद्युगपदुदयत्सात्त्विकमहो मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ १.६७ ॥

भेदान्तरं यथासंभवमुदाहार्यम् ।

गुणालंकाराणां रसमहति काव्ये विलसितं स्फुरच्छब्दार्थाभ्यां तदपि हृदयानन्दि भवति ।
तयोरप्युन्मेषः स्रवदमृतमाधुर्यसुभगः परं पुण्यश्लोकं चरितमनुबध्नन् विजयते ॥ १.६८ ॥




एष संग्रहश्लोकः ।
उपस्कारहेतूनां गुणालङ्काराणां सदृऽशेङार्ये सति चरितार्थत्वम् ।
यस्यालङ्काराश्रयत्वं तदेव लोकन्यायेनालङ्कार्यम् ।
तेन गुणालङ्काराणां काव्यमेवाश्रयभूतमिति तदेवालङ्कार्यम् ।
रसादेरलङ्कार्यत्वोक्तिः प्राधान्येनात्मन इव हारनूपुराद्यलङ्कार्यत्वम् ।
जीवितभूतत्वाद्रसादेः काव्यात्मता ।
क्वचिद्रसस्य प्राधान्यम् ।
क्वचिदलङअकारस्य प्राधान्यम् ।
क्वचिद्वस्तुनः प्राधान्यं च ।

(उपस्कारहेतूनामित्यादिः अतिश्लाघाकारणमित्यन्तो ग्रन्थो बहुषु कोशेषु न दृश्यते, नापि व्याख्यातः कुमारस्वामिसोमपीथिना) ।

रसप्राधान्यं यथा

ईषदङ्कुरितविभ्रमचारौ देहपल्लवितकान्तिनि तन्व्याः ।
यौवने मुकुलितस्तनमात्रे पुष्पितश्च फलितश्च मनोभूः ॥ १.६९ ॥

एतत्काञ्चिद्बालामालोक्य सस्पृहस्य प्रतापरुद्रस्य वचनम् ।
अत्र शृङ्गाररसो व्यज्यते ॥

अलङ्कारप्राधान्यं यथा

कीर्त्तौ प्रतापरुद्रस्य विहरन्त्यां दिगन्तरे ।
लोकालोकतटाः शश्वद्द्रवच्चन्द्रोपलाङ्किताः ॥ १.७० ॥

अत्र चन्द्रकान्तकुट्टिमानां लोकालोकाचलतटानां रुद्रदेवकीर्त्तौ चन्द्रिकाबुद्ध्या शश्वत्द्रवोऽभूदिति भ्रान्तिमदलङारो व्यज्यते ।
व्यङ्ग्यावस्थायामलङ्कारस्यापि प्राधान्यमस्त्येव ॥

वस्तुप्राधान्यं यथा

अवतरति वीररुद्रे काकतिवंशे त्रिलोकमहनीये ।
त्यक्त्वा दुग्धपयोधिं तल्पफणीशः स्वमन्दिरं प्राप्तः ॥ १.७१ ॥

अत्र तल्पफणीशः दुग्धाब्धिं विहाय स्वगृहं प्राप्तः इत्यनेन क्षीरसमुद्रे हरिर्नास्तीति व्यज्यते ।
अनेन पुरुषोत्तमः प्रतापरुद्ररूपेण काकतीयकुलेऽवततारेति वस्तु व्यज्यते ।
इति त्रिविधं व्यङ्ग्यप्राधान्यम् ॥

काव्यमाश्रित्य गुणालङ्काराणां विलासः ।
तच्च काव्यं शब्दस्फुरणेनार्थस्फुरणेन तदुभयस्फुरणेन च सहृदयहृदयानन्दि भवति ॥

[१.६.१ शब्दस्पुरणम्]

शब्दस्य स्फुरणं नाम प्रौढबन्धस्य डम्बरः ।

यो बन्धाडम्बर आरभट्यां प्रतिपादयिष्यते तच्छब्दस्फुरणम् ।

यथा

क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ १.७२ ॥

[१.६.२ अर्थस्पुरणम्]

अचुम्बितार्थसंपत्तिरर्थस्फुरणमिष्यते ॥ १.७३ ॥

यथा

खग्गे जुज्ज्ञविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं पेक्खंतो जअलच्छिवासकमलं मण्णंति विण्णाणिणो ।
मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो सिठ्ठीए रिपुजीविआइ विहिणो पत्तस्स पीढंबुअम् ॥ १.७४ ॥

(खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं प्रेक्षमाणाः जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः ।
मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः सृष्ट्यै रिपुजीवितानि विधेः प्राप्तस्य पीठाम्बुजम्) ॥ ॥

[१.६.३ उभयस्पुरणम्]

उभयस्फुरणं यथा

उद्यद्बृंहितगर्जितैः करिघटाकादम्बिनीडम्बरैः क्षोणीभृत्कटकोपरोधपटुभिः सद्यः स्फुर(ट?) द्दिक्तटैः ।
प्रावृटसंभ्रमशंसिनो रिपुवधूबाष्पोद्गमैर्दुर्दिनं कुर्वन्तश्चलमर्तिगण्डनृपतेर्जैत्रप्रयाणोद्यमाः ॥ १.७५ ॥

एवंविधशब्दार्थस्फुरणाभ्यां काव्यस्य चारुत्वम् ।
शब्दार्थयोरपि पुण्यश्लोकचरितवर्णनेन सहृदयहृदयानन्दित्वम् ।
अतो नायकस्यैव काव्ये प्राधान्यम् ।

[१.६.४ नायकप्रधान्यम्]

कुलाचारयशः शौर्यश्रुतशीलादिवर्णनम् ।
क्रियते नेतुरेवं यत्तदेव बहुसंमतम् ॥ १.७६ ॥

अथवा प्रतिपक्षस्य वर्णयित्वा गुणान् बहून् ।
तज्जयान्नायकोत्कर्षवर्णनं च मतं क्वचित् ॥ १.७७ ॥

यथाक्रममुदाहरणम्

तत्त्वं यस्स परः पुमानवतरो यस्यान्वये काकतिक्ष्मापानां चरितं च यस्य भुवनक्षेमंकरप्रक्रमम् ।
श्लघा यस्य लघूकृतामरतरुस्वर्धेनुचिन्तामणिः सोऽयं विश्वधुरंधरो विजयते श्रीवीररुद्रो नृपः ॥ १.७८ ॥

यत्तेजः प्रतिपक्षभूपविहरद्गर्वान्धकारातपो यद्दोरर्गलविक्रमस्त्रिजगतीशुद्धान्तदौवारिकः ।
सोऽप्यासीद्युधि सेवणक्षितिपतिः सन्नाहभेरीध्वनिं श्रुत्वा रुद्रनरेश्वरस्य महतो भीतः पलाय्याकुलः ॥ १.७९ ॥

एवंविधवर्णनमुत्पाद्ये नायके न घटते ।
तस्य लोकप्रसिद्ध्यर्थं कुलव्यपदेशादयो बहुधा वर्णयितुमेवोचिताः ।

स्वतः सिद्धे तु नायके द्वैविध्यमपि संभवति ।
तस्य कुलव्यपदेशादीनां लोकप्रसिद्धत्वात्कविभिर्बलवत्प्रतिपक्षविजयवर्णनं युक्तम् ।
एवं स्वतः सिध्दोत्पाद्यत्वभेदेन नायकस्य द्वैविध्यम् ।
तत्र च

[१.६.५ नायकगुणयोर्वर्गीकरणम्]

धीरोद्धते यथा रौद्रो वर्ण्यते बाह्यसंभ्रमः ।
यथा च धीरललिते शृङ्गारो बहुभावकृत् ॥ १.८० ॥

न धीरोदात्तविषये तथा वर्णनमिष्यते ।
कार्यतो रससंपूर्तिस्तस्मिन्नप्युचितक्रमा ॥ १.८१ ॥

हास्यादीनां तथान्येषां रसानामपि कीर्तनम् ।
मन्दोद्यमानुभावं स्याद्धीरोदात्ते तु नेतरि ॥ १.८२ ॥

सर्वनायकातिशायित्वाद्धीरोदात्तस्य तद्विषयत्वं प्रबन्धानामतिश्लाघाकारणम् ॥

इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभृषणेऽलंकारशास्त्रे

नायकप्रकरणं समाप्तम् ॥

इति पदवाक्यप्रमाणपारावारपारीणश्रीमहोपाध्यायकोलचलमल्लिनाथसूरिसूनुना विश्वजनीनविद्यस्य विद्वन्मणेः पेद्दयार्यस्यानुजेन कुमारस्वामिसोमपीथिना विरचिते प्रतापरुद्रीयव्याख्याने रत्नापणाख्याने नायकनिरूपणं नाम प्रथमं प्रकरणम् ॥

_______________________________________________


[इइ.१. अथ काव्यप्रकरणम्]

॥ अथ काव्यस्वरूपनिरूपणम् ॥


[इइ.१ काव्यस्वरूरपम्]


गुणालंकारसहितौ शब्दार्थौ दोषवर्जितौ ।
गद्यपद्योभयमयं काव्यं काव्यविदो विदुः ॥ २.१ ॥


[इइ.२ काव्यसामान्यलक्षणम्]

"अदोषौ सगुणौ सालंकारौ शब्दार्थौ काव्यम्"इति काव्यसामान्यलक्षणम् ।

शब्दार्थौ मूर्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम् ।
हारादिवदलंकारास्तत्र स्युरुपमादयः ॥ २.२ ॥


श्लेषादयो गुणास्तत्र शौर्यादय इव स्थिताः ।
आत्मोत्कर्षावहास्तत्र स्वभावा इव रीतयः ॥ २.३ ॥


शोभामाहार्थिकीं प्राप्ता वृत्तयो वृत्तयो यथा ।
पदानुगुण्यविश्रान्तिः शय्या शय्येव संमता ॥ २.४ ॥


रसास्वादप्रभेदाः स्युः पाकाः पाका इव स्थिताः ।
प्रख्याता लोकवदियं सामग्री काव्यसंपदः ॥ २.५ ॥


[इइ.३ वाचकलक्षकव्यञ्जकरूपेण शब्दत्रैविध्यम्]

वाचकलक्षकव्यञ्जकत्वेन त्रिविधं शब्दजातम् ।
वाच्यलक्ष्यव्यङ्ग्यत्वेनार्थजातमपि त्रिविधम् ।
तात्पर्यार्थोऽपि व्यङ्ग्यार्थ एव, न पृथग्भूतः ।

[इइ.४ वृत्तित्रैविध्यम्]

अभिधालक्षणाव्यञ्जनाख्यास्तिस्रः शब्दवृत्तयः ।

[इइ.५ लक्षणायाश्चातुर्विध्यम्]

गौणवृत्तिरपि लक्षणाप्रभेद एव, संबन्धानुपपत्तिमूलकत्वात् ।
यथाग्निर्माणवक इत्यत्राग्निसादृश्यविशिष्टमाणवकप्रतिपत्तिर्विवक्षिता, तथैव गङ्गायां घोष इत्यत्र गङ्गासंबन्धविशिष्टतीरप्रतिपत्तिर्विवक्षिता ।
गङ्गासंबन्धस्योपलक्षणत्वे घोषगतपवित्रत्वाद्यसिद्धेः ।
अत एव सादृश्यनिबन्धना संबन्धनिबन्धना चेति द्विविधा लक्षणा ।
संबन्धनिबन्धना जहद्वाच्या अजहद्वाच्या चेति द्विविधा ।
सादृश्यनिबन्धना सारोपा साध्यवसाया चेति व्दिविधा ।
एवं लक्षणा चतुर्विधा ।

[इइ.६ काशिक्यादित्तयस्त्वन्या]

कैशिक्यारभटी सात्त्वती भारती चेति रचनाश्रितत्वेन रसावस्थानंसूचकाश्चतस्नो वृत्तयः ।
तथा चोक्तंऽदशरूपकेऽ

"कैशिक्यारभटी चैव सात्त्वती भारती तथा ।
चतस्रो वृत्तयो ज्ञेया रसावस्थानसूचकाः ॥
ऽ इति ।

रचनाया अपि रसव्यञ्जकत्वं प्रसिद्धम् ।
रसाननुगुणवर्णरचनाया दोषत्वमुक्तम् ।
वैदर्भीप्रभृतयो रीतिविशेषा न वृत्तिष्वन्तर्भूताः ।

[इइ.७ अभिधानिरूपणम्]

तत्र संकेतितार्थगोचरः शब्दव्यापारोऽभिधा ।
सा द्विविधारूढिपूर्विका योगपूर्विका चेति ।
रूढिपूर्विका यथा

तपोविशेषैः प्रथितैः प्रजानां शुभैश्चरित्रैर्जगतीमहिष्याः ।
भाग्यैः प्रभूतैर्भुवनस्य चास्य बिभर्ति राज्यं वरवीररुद्रः ॥ २.६ ॥


अत्र सर्वे शब्दा रूढाः ।
योगपूर्विका यथा

राज्ञि रुद्रनराधीशे रञ्जयत्यखिलाः प्रजाः ।
भूरन्वर्था वसुमती रत्नगर्भा स्थिरेति च ॥ २.७ ॥


अत्र वसुमतीरत्नगर्भेत्येवमादयो यौगिकाः ।

[इइ.८ लक्षणनिरूपणम्]

वाच्यार्थानुपपत्त्या तत्संबन्धिन्यारोपितः शब्दव्यापारो लक्षणा ।

[इइ.९ अहल्लक्षणानिरूपणम्]

तत्र जहल्लक्षणा यथा

जेतुः काकतिभूभर्तुराकर्ण्य पटहध्वनिम् ।
सामन्तनगराण्युच्चैराक्रोशन्ति समन्ततः ॥ २.८ ॥


अत्र नगराण्युच्चैराक्रोशन्तीति वाच्यस्यानन्वयः ।
अचेतनानामाक्रोशस्यासंभवात्तत्रत्या जना लक्ष्यन्ते ।

[इइ.१० जहल्लक्षणानिरूपणम्]

अजहल्लक्षणा यथा

पत्युः काकतिनाथस्य पादपीठीमनारतम् ।
स्फुरद्रत्नप्रभाजालैरलंकुर्वन्ति मौलयः ॥ २.९ ॥


अत्रालंकारसिद्ध्यर्थं मौलिभिस्तदाश्रयभूता नृपतयो लक्ष्यन्ते ।

[इइ.११ अरोपलक्षणानिरूपणम्]

सारोपलक्षणा यथा

मन्थानाचलमूलमेचकशिलासंघट्टनश्यामिका
कारं यत्तुहिनद्युतौ स्फुरति तत्सारङ्गमाचक्षते ।
मन्ये नन्विह वीररुद्रनृपतेः कीर्त्तिश्रिया निर्जित
स्तन्मुद्राङ्कवराहमिन्दुरुरसा बिभ्रत्समुज्जृम्भते ॥ २.१० ॥


अत्र चन्द्रकलङ्करूपे कुरङ्गे वराहत्वमारोप्यते ।
विषयविषयिणोरभिहितयोरभेदप्रतिपत्तिरारोपः ।
विषयनिगरणेनाभेदप्रतिपत्तिरध्यवसायः ।


[इइ.१२ साध्यवसानलक्षणानिरूपणम्]

साध्यवसायलक्षणा यथा

काकतीयकुलाम्भोधेः प्रभवत्येष चन्द्रमाः ।
कृतः कुवलयोल्लासो येनोदयमुपेयुषा ॥ २.११ ॥


अत्र प्रतापरुद्रश्चन्द्रतयाध्यवसीयते ।
काकतीयकुलाम्भोधेरित्यत्रारोपः ॥


[इइ.१३ व्यञ्जनावृत्ति]

अथ व्यञ्जनावृत्तिः

अन्वितेषु पदार्थेषु वाक्यार्थोपस्कारार्थमर्थान्तरविषयः शब्दव्यापारो व्यञ्जनावृत्तिः ।

सा त्रिविधा शब्दार्थोभयशक्तिमूलत्वेन ।


[इइ.१४ शब्दशक्तिमूलाव्यञ्जना]

तत्र शब्दशक्तिमूला यथा

वाहिन्यः काकतीन्द्रस्य सर्वतोमुखसंभ्रमाः ।
कुर्वन्त्युद्यत्कबन्धाढ्यं प्रतिपक्षबलार्णवम् ॥ २.१२ ॥


अत्र वाहिनीसर्वतोमुखकबन्धशब्दानामर्थप्रकरणादिना सैन्यसर्वव्यापित्वलूनमस्तकदेहपराणां वाचकत्वे नियन्त्रितेऽपि शब्दशक्तिमूला नदीजलप्रतिपत्तिर्यतो जायते सा व्यञ्जनावृत्तिः ।
प्राकरणिकार्थपर्यवसिताभिधा न शक्नोत्यप्राकरणिकार्थप्रतिपत्तिं कर्तुम् ।
अप्राकरणिकार्थस्यापि वाक्यार्थशोभार्थं वक्तुर्विवक्षितत्वात् ।
अन्यतस्तदप्रतीतेर्व्यञ्जनाख्यं शब्दस्यैव व्यापारान्तरं कल्प्यते ।
नात्र लक्षणावृत्तिः संभवति, वाच्यानुपपत्त्यभावात् ।
नात्र व्यापारद्वयेनार्थप्रतिपादने वाक्यभेदः, प्रयोक्तुर्विवक्षापरतन्त्रत्वाल्लौकिकवाक्यानाम् ॥


[इइ.१५ र्थशवतिमूलाव्यञ्जना]

अर्थशक्तिमूला व्यञ्जनावृत्तिर्यथा

श्रुत्वा काकतिभूभर्तुः क्षोणीपाणिग्रहोत्सवम् ।
अङ्गुष्ठेनालिखन् भूपाः पादपीठीं नताननाः ॥ २.१३ ॥

अत्र भूपा विषण्णा इत्यर्थशक्त्या व्यज्यते ।
न चार्थशक्तिमूले व्यञ्जनेऽनुमानशङ्का ।
व्यङ्ग्यव्यञ्जकयोरविनाभावाभावात् ।
नम्राननत्वादिकार्यस्यानेककारणकत्वात् ।
नियतकारणप्रतीतिर्विवक्षानुगृहीताच्छब्दादेव ।
किंचैकस्मादेव व्यञ्जकात्तत्तद्व्यङ्ग्यार्थप्रतीतिर्वक्तविवक्षानुसारेण भवति, इयमनेकव्यङ्ग्यार्थप्रतीतिरनुमानपरिपाटीविरुद्धा ।
न चाभिधावृत्तिः ।
संकेतितार्थ एव तस्याः परिचय इतीयती गमनिका ।

[इइ.१६ भयशक्तिमूलाव्यञ्जना]

उभयशक्तिमूला यथा

विजितारिपुरो मूर्तौ विलसत्सर्वमड्गलः ।
राजमौलिरसौ भाति रुद्रदेवो जगत्पतिः ॥ २.१४ ॥


अत्र विजितारिपुर इत्यर्थशक्तिमूलत्वं, विलसत्सर्वमङ्गलो राजमौलिरिति शब्दशक्तिमूलत्वमित्युभयशक्तिमूलत्वम् ।
अत्र प्रतापरुद्रशङ्करयोरुपमालंकारध्वनिः ॥


[इइ.१७ ऐशिक्यादिस्वरूपनिरूपणम्]

अथ कैशिक्यादीनां स्वरूपं निरूप्यते ।

अत्यर्थसुकुमारार्थसंदर्भा कैशिकी मता ।
अत्युद्धातार्थसंदर्भा वृत्तिरारभटी स्मृतार् ॥ २.१५ ॥

ईषन्मृद्वर्थसंदर्भा भारती वृत्तिरिष्यतेर् ।
ईषत्प्रौढार्थसंदर्भा सात्त्वती वृत्तिरिष्यते ॥ २.१६ ॥

तत्र

अत्यन्तसुकुमारौ द्वौ शृङ्गारकरुणौ मतौ ।
अत्युद्धतरसौ रौद्रबीभत्सौ परिकीर्त्तितौ ॥ २.१७ ॥

हास्यशान्ताद्भुताः किंचित्सुकुमाराः प्रकीर्त्तितार्ः ।
ईषत्प्रौढौ समाख्यातौ रसौ वीरभयानकौ ॥ २.१८ ॥


यत्र शृङ्गारकरुणावतिकोमलेन संदर्भेण वर्ण्येते तत्र कैशिकी ।
यत्र रौद्रबीभत्सावतिप्रौढेन संदर्भेण प्रतिपाद्येते तत्रारभटी ।
यत्र नातिसुकुमारा हास्यशान्ताद्भुता नातिसुकुमारेण संदर्भेण संग्रथ्यन्ते तत्र भारती ।
यत्र नातिप्रौढौ वीरभयानकौ नातिप्रौढेन संदर्भेण निर्वाह्येते तत्र सात्त्वती ।

[इइ.१८ औशिक्युदाहरणम्]

कैशिकी यथा

जितमदनविलासं काकतीयान्वयेन्दु
नरपतिमनिमेषं द्रष्टुमाशंसिनीनाम् ।
सपदि विरचिताऽसीदङ्गनानामपाङ्गैर्
दिव कुवलयदामश्यामला तोरणश्रीः ॥ २.१९ ॥


[इइ.१९ आरभट्युदाहरणम्]

आरभटी यथा

खड्गाघातनिकृत्तशात्रवशिरोनिष्ठ्यूतरक्तच्छटा
ज्वालैरुद्भटशस्त्रघट्टनभवत्स्फारस्फुलिङ्गोत्करैः ।
स्त्यानासृक्पिशितास्थिखण्डविकटस्थूलोज्ज्वलाङ्गारकै
रुच्चण्डश्चलमर्तिगण्डनृपतेः क्रोधाग्निरायोधने ॥ २.२० ॥


[इइ.२० भारत्युदाहरणम्]

भारती यथा

औन्नत्यं महदन्यदेव, महितः कोऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्व वा कल्पिता ॥ २.२१ ॥


[इइ.२१ सात्त्वत्युदाहरणम्]

सात्त्वती यथा

दूरादाकर्ण्य विश्वप्रसृमरमहसौ वीररुद्रस्य जैत्र
प्रस्थानारम्भभेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशा
स्त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ २.२२ ॥


मध्यमारभटी त्वन्या तथा मध्यमकैशिकी ।
वृत्ती इमे उभे सर्वरससाधारणे मते ॥ २.२३ ॥


अनयोः स्वरूपम्

मृद्वर्थेऽप्यनतिप्रौढबन्धा मध्यमकैशिकी ॥ २.२४ ब् ॥

शृङ्गारकरुणयोरतिसुकुमारयोरल्पप्रौढत्वं न दूष्यते ।
किं त्वतिप्रौढसंदर्भो नेष्यते, प्रतिकूलवर्णरूपदोषापत्तेः ॥


मध्यमारभटी प्रौढेऽप्यर्थे नातिमृदुक्रमा ॥ २.२४ द् ॥


अतिप्रौढयोरपि रौद्रबीभत्सयोरीषन्मृदुबन्धो न दूष्यते ।
अतिमृदुसंदर्भस्तु विरुद्धः ।

[इइ.२२ मध्यमकैशिकी]

मध्यमकैशिकी यथा

आसन्नेऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजेर्
धिक्धिक्साहसमावयोर्विघटनं को वा विधिः काङ्क्षति ।
इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो
बुद्ध्वा मूर्च्छति काकतीयनृपते त्वद्वैरिनारीजनः ॥ २.२५ ॥


[इइ.२३ अध्यमारभटि]

मध्यमारभटी यथा

मांसकीकससंकीर्णाः प्रसरद्रुधिरापगाः ।
वसाकर्दमिता युद्धे भुवोऽन्ध्रसुभटैः कृताः ॥ २.२६ ॥


एवं रसान्तरेष्वप्युदाहरणं द्रष्टव्यम् ॥


वैदर्भ्यादिरीतीनां शब्दगुणाश्रितानामर्थविशेषनिरपेक्षतया केवलसंदर्भसौकुमार्यप्रौढत्वमात्रविषयत्वात्कैशिक्यादिभ्यो भेदः ।
संदर्भस्यातिदुमृत्वमसंयुक्तकोमलवर्णबन्धत्वम् ।
अतिप्रौढत्वं परुषवर्णविकटबन्धत्वम् ।
संयुक्तमृदुवर्णेष्वीषन्मृदुत्वम् ।
अविकटबन्धपरुषवर्णेष्वीषत्प्रौढत्वम् ॥


रीतयः

अथ रीतीनां स्वरूपमुदाहरणं च ।

रीतिर्नाम गुणाश्लिष्टपदसंघटना मता ।

सा त्रिधावैदर्भी, गौडी, पाञ्चाली चेति ।

[इइ.२.१ वैदर्भी]

बन्धपारुष्यरहिता शब्दकाठिन्यवर्जिता ।
नातिदीर्घसमासा च वैदर्भी रीतिरिष्यते ॥ २.२७ ॥


यथा

काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् ।
दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ २.२८ ॥


यथा वा

वितरणगुणलीलातोषिताशेषलोके
विभवति नरनाथे काकतीयान्वयेन्दौ ।
सुरतरुगणनायां कामधेनुप्रसंगे
क्षितिसुरजनतेयं वीतकौतूहलाऽसीत् ॥ २.२९ ॥


[इइ.२.२ औडी]

ओजः कान्तिगुणोपेता गौडीया रीतिरिष्यते ।

यथा

प्रचण्डतरदोर्दण्डखण्डितारातिमण्डलः ।
विभर्त्यर्वीधुरां गुर्वीं प्रभवन्नन्ध्रभूपतिः ॥ २.३० ॥


यथा वा

उद्यद्दोः स्तम्भखड्गत्रुटदरिमुकुटाटोपसंजातराहु
भ्रान्तिभ्रश्यत्पतङ्गाभयकरणचणस्फारनासीररेणुः ।
अन्ध्रक्ष्माभर्तुरासीदधिकरणधरा भिन्नमत्तेभकुम्भ
प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ॥ २.३१ ॥


[इइ.२.३ पाञ्चाली]

पाञ्चालरीतिर्वैदर्भीगौडी इत्युभयात्मिका ॥


यथा

जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षोणीरेणुभरे नभस्यतिभृशं मूविभ्रमं बिभ्रति ।
जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्घिका
गाढं गूडतमा च गौतमनदी पातालगङ्गायते ॥ २.३२ ॥


यथा च

स्थाने तच्चलमर्तिगण्डनृपते त्वत्खङ्गभोगी द्विषत्
प्राणैर्यत्परितोषमेति सततं, किं त्वेतदत्यद्भुतम् ।
पीतेन प्रतिपक्षपार्थिवयशः क्षीरेण गौरत्विषं
यत्संवर्धयति त्रिलोकभरितां त्वत्कीर्त्तिलक्ष्मीसुधाम् ॥ २.३३ ॥


शय्या

अथ शय्या ।

या पदानां परान्योन्यमैत्री शय्येति कथ्यते ।

यथा

दातुः काकतिवंशमण्डनमणेर्निस्सीमविश्राणन
श्लाघालङिघेतकल्पपादपगुणप्रौढेरगाधौजसः ।
बिभ्रच्छारदकौमुदीपरिमलं सामन्तसीमन्तिनी
गण्डाभोगनिरूढपाण्डिमधुरां धत्ते यशः प्रायशः ॥ २.३४ ॥


अत्र पदविनिमयासहिष्णुत्वाद्बन्धस्य पदानुगुण्यरूपा शय्या ॥


पाकाः

अथ द्राक्षादिपाकाः ।

अर्थगम्भीरिमा पाकः स द्विधा हृदयङ्गमः ।
द्राक्षापाको नारिकेलपाकश्च प्रस्फुटान्तरौ ॥ २.३५ ॥


यथाक्रमं स्वरूपमुदाहरणं च ।

[इइ.४.१ द्राक्षापाक]

द्राक्षापाकः स कथितो बहिरन्तः स्फुरद्रसः ।

यथा

स्मरस्मेरान्मन्दस्मितमधुरसौरभ्यसुभगान्
मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् ।
कृतानेकस्कन्धान्मनसिजसहस्राणि सृजतः
कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ २.३६ ॥


[इइ.४.२ आरिकेलपाकः]

सा नारिकेलपाकः स्यादन्तर्गूढरसोदयः ॥


यथा

लीलाविभ्रमपूर्वरङ्गमुदितं तारुण्यमेत्य त्रपा
नेपथ्यान्तरबिम्बितस्मरकलालास्यप्रपञ्चश्रियः ।
सख्यः पश्यत काकतीयनृपतौ भावानुबन्धोज्ज्वलः
कोऽप्यस्यास्तरलभ्रुवो विजयते शृङ्गारनाट्यक्रमः ॥ २.३७ ॥


अत्र न द्रागर्थप्रतीतिः ।
एवं वस्त्वलंकारप्रतीतावपि द्रष्टव्यम् ।
पाकान्तराणि मधुक्षीरादीनि यथासंभवमूह्यानि ॥


काव्यविशेषाः

अथ काव्यविशेषाः ।

व्यङ्ग्यस्य प्राधान्याप्राधान्याभ्यामस्फुटत्वेन च त्रिविधं काव्यम् ।
व्यङ्ग्यस्य प्राधान्ये उत्तमं काव्यं ध्वनिरिति व्यपदिश्यते ।
अप्राधान्ये मध्यमं गुणीभूतव्यङ्ग्यमिति गीयते ।
व्यङ्ग्यस्यास्फुटत्वेऽधमं काव्यं चित्रमिति गीयते ।

[इइ.५.१ ह्वनिः]

ध्वनिर्यथा

स्वामिन् गोत्रमहीधरान् किमधुना नीचैर्विधत्से, कुतो
गाधानम्बुनिधीन् करोषि, कुरुषे किं दिक्पतीनल्पकान् ।
इत्थं पार्श्वचरानुलापमखिलं न्यक्कृत्य धर्मैषिणा
सृष्टः पद्मभुवा गुणैकवसतिः श्रीवीररुद्रो नृपः ॥ २.३८ ॥


अत्र प्रतापरुद्रस्य कुलशैलातिशायि समुन्नतत्वमतिसमुद्रं गाम्भीर्यं लोकपालाधिकमैश्वर्यं च ध्वन्यते ।
तथा कुलशैलपयोनिधिलोकपालनिर्माणसंरम्भातिशायि सर्वविलक्षणं काकतीयनिर्माणवैभवमिति च व्यज्यते ॥


[इइ.५.२ उणीभूतव्यङयम्]

गुणीभूतव्यङ्ग्यं यथा

प्रत्यग्रप्रसरत्प्रतापविभवव्याप्ताखिलाशान्तरे
विश्वत्रातरि वीररुद्रनृपतौ सिंहासनाध्यासिनि ।
आस्थानीं समुपागतैर्नृपवरैस्तास्तास्तथा दर्शिता
श्चेष्टा याभिरमुष्य काकतिविभोर्दृष्टिः कृपार्द्रीकृता ॥ २.३९ ॥


अत्र प्राप्ताभिषेकमहोत्सवस्य प्रतापरुद्रदेवमहाराजस्याग्रे शरणार्थिनां पार्थिवानां तथाविधकार्पण्योक्तिपुनः पुनः प्रणामादिकं व्यङ्ग्यं तास्ताश्चेष्टा दर्शिता इति वाच्यादनतिशायि इति गुणीभूतव्यङ्ग्यता ।

चित्रं त्रिविधम्शब्दचित्रमर्थचित्रमुभयचित्रं चेति ।

[इइ.५.३ शब्दचित्रम्]

तत्र शब्दचित्रं यथा

क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्
गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ २.४० ॥


[इइ.५.४ र्थचित्रम्]

अर्थचित्रं यथा

खग्गे जुज्झविजिम्भिए रिवुमहीणाहंजलिं बिंबिअं
पेक्खन्तो जअळच्छिवासकमलं मण्णंति विण्णाणिणो ।
मण्णे वीरपआवरुद्दविहुणो जण्णेसु घेत्तुं उणो
सिट्ठीए रिवुजीविआइ विहिणो जत्तस्स पीढंबुअम् ॥ २.४१ ॥


(खड्गे युद्धविजृम्भिते रिपुमहीनाथाञ्जलिं बिम्बितं
पश्यन्तो जयलक्ष्मीवासकमलं मन्यन्ते विज्ञानिनः ।
मन्ये वीरप्रतापरुद्रविभोर्जन्येषु ग्रहीतुं पुनः
सृष्ट्यै रिपुजीवितानि विधेर्यातस्य पीठाम्बुजम् ॥)


[इइ.५.५ उभयचित्रम्]

उभयचित्रं यथा

विद्यासमुद्रे भुवनैकभद्रे प्रतापरुद्रे जितवैरिभद्रे ।
रक्षाविनिद्रे धृतशौर्यमुद्रे कान्तेव पृथ्वी रमते गुणार्द्रे ॥ २.४२ ॥


अत्रानुप्रासोपमाभ्यां चित्रता ॥


[इइ.५.६ ध्वनिविशेषाः]

॥ अथ ध्वनिविशेषाः ॥


अथ ध्वनिविशेषा निरूप्यन्ते ।
अत्र ध्वनेर्लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ प्रथमं द्वौ भेदौ ।
अविवक्षितवाच्यस्यार्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्यतया द्विविधस्य वाक्यपदगतत्वेन द्वैविध्ये चातुर्विध्यम् ।
विवक्षितान्यपरवाच्यस्य संलक्ष्यक्रमव्यङ्ग्यासंलक्ष्यक्रमव्यङ्ग्यतया द्वौ भेदौ ।
संलक्ष्यक्रमव्यङ्ग्ये शब्दशक्तिमूले वस्त्वलङकाररूपतया द्वैविध्ये वाक्यपदगतत्वेन चातुर्विध्यम् ।
अर्थशक्तिमूले संलक्ष्यक्रमव्यङ्ग्येऽर्थस्य स्वतः संभवित्वेन कविप्रौढोक्तिसिद्धत्वेन कविनिबद्धोक्तिसिद्धत्वेन च त्रैविध्यम् ।
त्रिविधस्य वस्त्वलंकाररूपतया द्वैविध्ये षड्विधत्वम् ।
षड्विधस्यापि व्यङ्ग्यव्यञ्जकतया द्वैविध्ये द्वादशविधत्वम् ।
द्वादशविधस्यापि प्रबन्धगतत्वेन वाक्यगतत्वेन पदगतत्वेन च त्रैविध्ये षट्त्रिंशत्प्रकारोऽर्थशक्तिमूलोऽनुरणनध्वनिः ।
उभयशक्तिमूलो वाक्यगतत्वेनैकविध एव ।
एवं संलक्ष्यक्रमव्यङ्ग्यध्वनेरेकचत्वारिंशद्भेदाः ।
असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः प्रबन्धवाक्यपदपदैकदेशरचनावर्णगतत्वेन षड्विधः ।
एवं विवक्षितान्यपरवाच्यध्वनेः सप्तचत्वारिंशद्भेदाः ।
अविवक्षितवाच्यभेदैश्चतुर्भिः सह ध्वनेः प्रथमं शुद्धा एकपञ्चाशद्भेदाः ।
तेषां प्रत्येकमेकैकस्यैकैकेन संबन्धे प्रथमभेदस्यैकपञ्चाशद्भेदाः ।
द्वितीयस्य पञ्चाशद्भेदाः ।
तृतीयस्यैकोनपञ्चाशद्भेदाः ।
अनेन क्रमेणोत्तरोत्तरस्यैककैभेदपरित्यागे षड्विंशत्युत्तरशतत्रयाधिकसहस्रसंख्याकाः (१३२६) मिश्रभेदाः ।
अविवक्षितवाच्यस्य विवक्षितान्यपरवाच्यसंबन्धे यो भेदस्तस्मिन्नेवान्तर्भूतो विवक्षितान्यपरवाच्यस्याविवक्षितवाच्यसंबन्धे भेदो न पृथग्भूतः ।
अनेनैव क्रमेण वस्तुध्वनेरलंकारध्वनिसंबन्धभेदोऽप्यलंकारध्वनेर्वस्तुध्वनिसंबन्धान्न पृथग्भूत इति पूर्वपूर्वस्योत्तरोत्तरसंबन्धे एकैकभेदन्यूनता ज्ञेया ।
तस्यापि मिश्रणस्य त्रिरूपेण संकरेणैकरूपया संसृष्ट्या च पुनश्चतुर्धा योजने

चतुरुत्तरशतत्रयाधिकपञ्चसहस्राणि (५३०४) भेदाः ।

शुद्धाश्चन्द्रशरा मिश्रा ऋतुनेत्रानलेन्दवः ।
संसृष्टिसंकरायातास्त्वब्धिखाग्निशराभिधाः ॥ २.४३ ॥


तत्र

शुद्धानामेकपञ्चाशद्भेदानां नामधेयनि कथ्यन्ते ।
पदगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ २.४३*१ ॥


वाक्यगतार्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः ॥ २.४३*२ ॥


पदगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ २.४३*३ ॥


वाक्यगतात्यन्ततिरस्कृताविवक्षितवाच्यध्वनिः ॥ २.४३*४ ॥


पदगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ २.४३*५ ॥


पदगतशब्दशक्तिमूलसंलक्ष्यक्रमालङ्कारध्वनिः ॥ २.४३*६ ॥


वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमवस्तुध्वनिः ॥ २.४३*७ ॥


वाक्यगतशब्दशक्तिमूलसंलक्ष्यक्रमालंकारध्वनिः ॥ २.४३*८ ॥


पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*९ ॥


पदगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*१० ॥


पदगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*११ ॥


पदगतस्वतः सिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ २.४३*१२ ॥


वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*१३ ॥


वाक्यगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*१४ ॥


वाक्यगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*१५ ॥


वाक्यगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*१६ ॥


प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*१७ ॥


प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*१८ ॥


प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*१९ ॥


प्रबन्धगतस्वतः सिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*२० ॥


पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*२१ ॥


पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*२२ ॥


पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*२३ ॥


पदगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*२४ ॥


वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*२५ ॥


वाक्यगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*२६ ॥


वाक्यगतकविप्रौढोत्किसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*२७ ॥


वाक्यगतक्रविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*२८॥



प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*२९ ॥


प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*३०॥



प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालंकारध्वनिः ॥ २.४३*३१ ॥


प्रबन्धगतकविप्रौढोक्तिसिद्धार्थशक्तिमूलोऽलंकारेण वस्तुध्वनिः ॥ २.४३*३२॥



पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*३३ ॥


पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*३४ ॥


पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलंकारेणालङ्कारध्वनिः ॥ २.४३*३५ ॥


पदगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ २.४३*३६ ॥


वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*३७ ॥


वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालंकारध्वनिः ॥ २.४३*३८ ॥


वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण अलंकारध्वनिः ॥ २.४३*३९॥



वाक्यगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ २.४३*४० ॥


प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिः ॥ २.४३*४१॥



प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलो वस्तुनालङ्कारध्वनिः ॥ २.४३*४२॥



प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेणालङ्कारध्वमिः ॥ २.४३*४३ ॥


प्रबन्धगतकविनिबद्धोक्तिसिद्धार्थशक्तिमूलोऽलङ्कारेण वस्तुध्वनिः ॥ २.४३*४४ ॥


प्रबन्धगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४५ ॥


वाक्यगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४६ ॥


पदगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४७ ॥


पदैकदेशगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४८ ॥


रचनागतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*४९ ॥


वर्णगतासंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ॥ २.४३*५० ॥


वाक्यगतोभयशक्तिमूलो रसादिध्वनिः ॥ २.४३*५१ ॥


तत्र दिङ्मात्रमुदाह्रियते ।

[इइ.५.७ र्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिः]

अर्थान्तरसंक्रमिताविवक्षितवाच्यध्वनिर्यथा

मूर्धानो यूयमास्माकाः किमित्यौन्नत्यमिच्छथ ।
इति प्रतापरुद्रस्य प्रणताः प्रतिपार्थिवाः ॥ २.४४ ॥

अत्र आस्माका इति सर्वदैन्यभूमयो वयमीदृशानामस्माकं संबन्धिनो यूयमित्यर्थान्तरसंक्रमिताविवक्षितवाच्यता ।

[इइ.५.८ त्यन्ततिरस्कृतवात्यध्वनिः]

अत्यन्ततिरस्कृतवाच्यो ध्वनिर्यथा

विशदिमविलिप्तवियतो धवलिमपरिपूरिताखिलाशान्ताः ।
विहरन्ति यशः पूरा गौराः श्रीकाकतीन्द्रस्य ॥ २.४५ ॥


अत्र विशदिमविलिप्तवियत इत्यत्यन्ततिरस्कृतवाच्यत्वम् ।
अनेनैव क्रमेण वाक्यगतत्वेनाप्युदाहार्यम् ।

[इइ.५.९ अस्तुनावस्तुध्वनिः]

अथार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा

अब्दानृतून् विना मासान् शुक्लपक्षान् विना तिथीन् ।
रात्रीर्विनापि काङ्क्षन्ति काकतीयरिपुस्त्रियः ॥ २.४६ ॥


अत्र ऋतुप्रभृतीनां कामोद्दीपकत्वात्तदभावो रिपुस्त्रीभिराकाङ्क्ष्यत इति प्रतीयते ।
तेन तासां प्रियवियोगरूपं वस्तु व्यज्यते ।
अनेन प्रतापरुद्रस्य सर्वे शत्रवो निहता इति वाच्यादतिशयः ।
तथा प्रियविरहविधुराः शत्रुस्त्रियः कतिपयवत्सरान् जीविताशया प्रथममृतूनामभावं वाञ्छन्ति ।
अनन्तरं तानपि गमयितुमशक्ताः कतिपयमासेषु प्राणान् धारयितुमुद्युक्ता ज्योत्स्नावतां पक्षाणां विनाशं वाञ्छन्ति ।
अनन्तरं मासनप्यपनेतुमपारयन्त्यः कतिपयतिथिषु जीविताशया रात्रीणामसृष्टिमभिलषन्तीति बहुवस्तु वस्तुना व्यज्यते ।

[इइ.५.१० अस्तुनालङकारध्वनिः]

वस्तुनालङकारध्वनिर्यथा

दृष्ट्वा काकतिवीररुद्रनृपतेः कीर्त्तिं जगद्व्यापिनीं वस्तुं वाञ्छति शम्भुरत्र शयितुं लक्ष्मीपतिः काङ्क्षति ।
स्नातुं धावति दिव्यतापसगणः संवर्धितुं वार्धयश्चेष्टन्ते सविलासमभ्रमुरपि स्प्रष्टुं शनैरीहते ॥ २.४७ ॥


अत्र हरस्य कैलासभ्रान्तिः हरेः क्षीरार्णवभ्रान्तिरित्यादिः भ्रान्तिमदलङ्कारो ब्यज्यते ॥
अलङ्कारेण वस्तुध्वनिर्यथा

[इइ.५.११ लङ्कारेणवस्तुध्वनिः]

प्रतापरुद्रस्य रणे कृपाणः सद्यः समुद्यद्रुधिरारुणश्रीः ।
आलम्बते रोषकषायितस्य कालीकटाक्षस्य विजृम्भितानि ॥ २.४८ ॥


अत्रालम्बत इति निदर्शनालङ्कारेण सकलरिपुक्षयः क्षणात्कृत इति वस्तु व्यज्यते ॥


[इइ.५.१२ लङ्कारेणालङ्कारध्वनिः]

अलङ्कारेणालङ्कारध्वनिर्यथा

काकतीयविभोः कीर्त्तिपुण्डरीके विजृम्भिते ।
धत्ते मधुकरक्रीडां तमालश्यामलं नभः ॥ २.४९ ॥


अत्र कीर्त्तिपुण्डरीके नभो भ्रमरक्रीडां धत्त इति निदर्शनालंकारेणाश्रयाश्रयिणोरनानुगुण्यरूपोऽधिकालंकारो व्यज्यते ।
आश्रयस्य कीर्त्तिपुण्डरीकस्य वैपुल्यं अमरसादृश्यप्रतिपादनेनाल्पत्वं च नभसः प्रतीयते ।
एषु स्वतः सिद्धार्थशक्तिमूलत्वम् ।

अथ कविप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुध्वनिर्यथा

श्रावं श्रावं खुरलिविहरत्कार्त्तिकेयेषुजातच्
छिद्रच्छद्मश्रवणपदवीचारिणीं चारणौधैः ।
शश्वद्गीतां भुवनमहितां काकतीन्द्रस्य कीर्त्तिं
कौञ्चक्ष्माभृद्भवति महतो विस्मयान्निश्चलाङ्गः ॥ २.५० ॥


अत्र प्रतापरुद्रस्य कीर्त्तिः स्थावराणायपि विस्मयकारिणीति वस्तु व्यज्यते ॥


[इइ.५.१३ अस्तुनालङ्कारध्वनिः]

वस्तुनालंकारध्वनिर्यथा

वीररुद्रभटान् दृष्ट्वा जयलक्ष्मीवृतान् रणे ।
कर्षन्त्यरिवधूकेशान् कानने कण्टकिद्रुमाः ॥ २.५१ ॥


अत्र जयलक्ष्मीसमालिङ्गितान् वीररुद्रभटान् दृष्ट्वा समदना इव कण्टकिद्रुमाः शत्रुवधूकेशान् कर्षन्तीवेत्युत्प्रेक्षा व्यज्यते ।

[इइ.५.१४ लङकारेणवस्तुध्वनिः.

अलङ्कारेण वस्तुध्वनिर्यथा

ओसरै सहीहि समं लज्जा वहुआए सिढिलमाणाए ।
अप्पग्गहणभयेण व्व सविहगए मणोहरे दैए ॥ २.५२ ॥

(अपसरति सखीभिः समं लज्जा वध्वाः शिथिलमानायाः ।
आत्मग्रहणभयेनेव सविधगते मनोहरे दयिते) ॥


अत्रोत्प्रेक्षयाऽलिङ्गनरूपं वस्तु व्यज्यते ॥


[इइ.५.१५ लङ्कारेणालङारध्वनिः]

अलंकारेणालङ्कारध्वनिर्यथा

अभयं याचमानानां काकतीयेन्द्रविद्विषाम् ।
रक्षां नाङ्गीकरोतीव वनं शाखाग्रकम्पनैः ॥ २.५३ ॥


अत्र नाङ्गीकरोतीवेत्युत्प्रेक्षया प्रतापरुद्रशत्रूणां रक्षणं कर्तुं वनमपि बिभेतीवेत्युत्प्रेक्षा व्यज्यते ।

कविनिबद्धवक्तृप्रौढोक्तिसिद्धार्थशक्तिमूलो वस्तुना वस्तुध्वनिर्यथा

अजह तह व होदु अज्जा णरणाह करेहि रक्खणं ससिणो ।
जं ताए कडखुक्का आणत्ता तं मसीकादुम् ॥ २.५४ ॥


(अयथा तथा वा भवत्वार्या नरनाथ कुरु रक्षणं शशिनः ।
यत्तया कटाक्षोल्का आज्ञप्ता तं मषीकर्तुम्) ॥


अत्र विरहातुरा आर्या चन्द्रिकामसहमाना रोषोज्ज्वलितया कटाक्षोल्कया चन्द्रं मषीकरोति स रक्षणीय इत्यनेन वस्तुना इतः परं सा जीवितं धारयितुमशक्ता, अधुनैव त्वया समागन्तव्यमिति वस्तु व्यज्यते ॥


[इइ.५.१६ अस्तुवालङ्कारध्वनिः]

वस्तुनालङ्कारध्वनिर्यथा

कस्त्वं शुभ्राखिलाङ्गश्चरसि, ननु यशो वीररुद्रस्य वर्त्ते कोऽयं ते दिव्यदेहः स्फुरति परिसरे, मत्सुहृत्तत्प्रतापः ।
प्रच्छाद्यालं स्फुरद्भिः कुमुदसरसिजैः ख्यापितं वः स्वरूपं सोमाकारै स्वागतं वामवधिगिरिरहं कल्पितो निस्तमस्कः ॥ २.५५ ॥


अत्र प्रतापरुद्रयशः प्रतापयोः सोमार्कसादृश्यप्रतीतेरुपमा व्यज्यते ।

[इइ.५.१७ लङ्कारेणालङ्कारध्वनिः]

अलङ्कारेणालङ्कारध्वनिर्यथा

उवह हळा वहुआए तह आरूढो वि णिभ्भरो माणो ।
णिवैसमाअमलंभमसंजाअभओ व्व ओसरै ॥ २.५६ ॥


(पश्यत हला वध्वास्तथा रूढोऽपि निर्भरो मानः ।
नृपतिसमागमसंभ्रमसंजातभय इवापसरति) ॥


अत्रोत्प्रेक्षया प्रियप्रार्थनां विनैव मानिनीमनः प्रसन्नमिति विभावनालंकारो व्यज्यते ॥


[इइ.५.१८ लङारेणवस्तुध्वनिः]

अलङ्कारेण वस्तुध्वनिर्यथा

अप्राप्य सेवावसरं नाथ कान्तावृतस्य ते ।
त्वत्कीर्त्तिं सेवमानेव श्यामा सर्वाङ्गपाण्डुरा ॥ २.५७ ॥


अत्र सेवमानेवेत्युत्प्रेक्षया सर्वथा स्वीकार्यत्वादिरूपं वस्तु व्यज्यते ॥


एवं प्रबन्धादिगतत्वेन यथासंभवमुदाहरणानि द्रष्टव्यानि ॑ विस्तरभयादिह नोक्तानि ॥


अथ शब्दशक्तिमूलध्वनिः ।
स च वस्त्वलंकारगतत्वेन द्विविधः ।

तथा चोक्तम्

"अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ।
प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा ॥
ऽ इति ।

[इइ.५.१९ अलङ्कारध्वनिः]

तत्रालंङ्कारध्वनिर्यथा

एसो सच्चं राओ सामा खु तुमं समाअमो दोण्णम् ।
किं उण ण पदोसकहा दीसः एदं खु अच्चरिअम् ॥ २.५८ ॥


(एष सत्यं राजा श्यामा खलु त्वं समागमो द्वयोः ।
किं पुनर्न प्रदोषकथा दृश्यते एतत्खल्वाश्चर्यम्) ॥


अत्र प्रकरणेन कान्तानृपवाचकाभ्यां श्यामाराजशब्दाभ्यां निशाचन्द्रप्रतीतेरुपमा व्यज्यते ॥


[इइ.५.२० अस्तुध्वनिः]

वस्तुध्वनिर्यथा

कान्तारवाससंतप्ताः संशृणुध्वं हितादितः ।
कुरुध्वमधुना राजपादसेवां नरेश्वराः ॥ २.५९ ॥


अत्र राजपादसेवामिति शब्दशक्त्या प्रकृतस्य प्रतापरुद्रस्य प्रतीतिः प्रकरणाज्जायते ।
अनेन प्रतापरुद्रस्य सेवा कर्तव्या किमरण्यवासेन संतप्ता इति वस्तु व्यज्यते ॥



[इइ.५.२१ भयशक्तिमूलध्वनिः]

उभयशक्तिमूलध्वनिर्यथा


जिष्णुरेष भुजस्तम्भजृम्भमाणाद्भुतायुधः ।
मुञ्चन्तु क्ष्माभृतः सर्वे निजपक्षविजृम्भितम् ॥ २.६० ॥


अत्र क्ष्माभृतो निजपक्षविजृम्भितं मुञ्चन्तु, जिष्णुरेष इत्यत्र शब्दशक्तिमूलता ।
भुजस्तम्भजम्भमाणाद्भुतायुध इत्यत्रार्थशक्तिमूलता ॥


असंलक्ष्यक्रमव्यङ्ग्यो रसादिध्वनिः ।
तथा चोक्तं शृङ्गारतिलके

"रसभावतदाभासभावशान्त्यादिरक्रमः ।
भिन्नो रसाद्यलंकारादलंकार्यतया स्थितः ॥
ऽ इति ।

रसभावोदाहरणं तत्स्वरूपनिरूपणप्रपञ्चे रसप्रकरणे भविष्यति ॥


गुणीभूतव्यङ्ग्यमष्टविधं निरूप्यते ।
गुणीभूतव्यङ्ग्यं मध्यमं काव्यमष्टविधम् ।

तथा चोक्तं काव्यप्रकाशे

"अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् ।
संदिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥
ऽ इति ।

[इइ.५.२२ अगूढम्]

कामिनीकुचकलशवद्गूढस्यैव चमत्कारकारित्वादगूढव्यङ्ग्यं मध्यमं काव्यम् ।
यथा

औन्नत्यं यदि वर्ण्यते शिखरिणः क्रध्यन्ति नीचैः कृता गाम्भीर्यं यदि कीर्त्त्यते जलधयः क्षुभ्यन्ति गाधीकृताः ।
तत्त्वां वर्णयितुं बिभेमि यदि वा जातोऽस्म्यगस्त्यः स्थितस्त्वत्पार्श्वे गुणरत्नरोहणगिरे श्रीवीररुद्रप्रभो ॥ २.६१ ॥


अत्र "यदि वा जातोऽस्म्यगस्त्यः स्थितःऽ इत्यनेन जलनिधिपर्वतेभ्यो न बिभेमीति व्यङ्ग्यमगूढम् ॥


[इइ.५.२३ अपरस्याङ्गम्]

अपरस्याङ्गं, यत्र रसादे रसादिरङ्गं तदपि गुणीभूतव्यङ्ग्यमेव ।

यथा

वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भवत्स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् ।
संजातप्रलयं च काकतिमहीनाथ ! स्मरोद्वेजिता भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥ २.६२ ॥


अत्र शृङ्गारस्य भयरसाङ्गत्वम् ।

[इइ.५.२४ वाच्यसिध्यङ्गम्]

वाच्यसिद्ध्यङ्गं यथा

करालः काकतीन्द्रस्य करवालनवाम्बुदः ।
धारया शमयत्युग्रं प्रतापज्वलनं द्विषाम् ॥ २.६३ ॥


अत्र जलधारा व्यङ्ग्या ।
सा च करवालनवाम्बुद इत्यस्य वाच्यभूतस्य रूपकस्य सिद्धिकृदिति गुणीभूतव्यङ्ग्यम् ॥


[इइ.५.२५ अस्फुठम्]

अस्फुटं यथा
वीररुद्रकृपाणस्य महिमा कोऽप्यनङ्कुशः ।
प्रसूते कीर्त्तिगङ्गां यः पीत्वा द्विषदसृङ्नदीम् ॥ २.६४ ॥


अत्र कृपाणस्य जह्नोराधिक्यप्रतिपादनाद्व्यतिरेकः परमस्फुटः प्रतीयते ॥


[इइ.५.२६ संदिग्धप्राधान्यम्]

संदिग्धप्रधान्यं यथा

काकतिक्ष्मापतेर्दृष्टिरनुरागतरङ्गिता ।
लग्ना कल्हारमालेव वध्वास्तुङ्गे कुचद्वये ॥ २.६५ ॥


अत्रालिङ्गनेच्छायां वाक्यविश्रान्तिरथवा स्तनमण्डलालोक एवेति संदेहः ॥


[इइ.५.२७ तुल्यप्राधान्यम्]

तुल्यप्राधान्यं यथा

नृपाः प्रतापरुद्रस्य निषेवध्वं पदाम्बुजे ।
अन्यथास्य मनस्तादृक्प्रसादं कलुषायते ॥ २.६६ ॥


अत्र प्रतापरुद्रस्य पादसेवा यदि त्यज्यते तदानीं नगरेषु वासो दुर्लभ इति व्यङ्ग्यार्थस्य वाच्यस्य च समं प्राधान्यम् ॥


[इइ.५.२८ अनुसंधानम्]

असुन्दरं यथा

एअसिलामहिलाणं सोऊण णरेंददस्सणामोअम् ।
गुरुअणणिअंतिआए वहुआए सामलं वअणम् ॥ २.६७ ॥


(एकशिलामहिलानां श्रुत्वा नरेन्द्रदर्शनामोदम् ।
गुरुजननियन्त्रिताया वध्वाः श्यामलं वदनम्) ॥


अत्र नरेन्द्रदर्शननिमित्तं हर्षमुत्पश्यन्त्या वध्वा मुखं श्यामलमिति वाच्यस्यैव चारुत्वम् ।
गुरुजननियन्त्रिताहं नरेन्द्रं द्रष्टुं न गतवत्यस्मि इति व्यङ्ग्यार्थस्याचारुत्वम् ॥


[इइ.५.२८ कावाक्षिप्तम्]

यत्र काक्वार्ऽथान्तरमाक्षिप्यते, तदपि गुणीभूतव्यङ्ग्यमेव ।

यथा

पिअसहि कहेहि अहिआ खोणी लच्छी सरस्सई मज्झा ।
जां बहु मण्णै सोअं णरणाहो गुणविसेसण्णो ॥ २.६८ ॥

(प्रियसखि कथयाधिका क्षोणी लक्ष्मीः सरस्वती मत्तः ।
यां बहु मन्यते सोऽयं नरनाथो गुणविशेषज्ञः) ॥


अत्र क्षोणी मदधिकेति काकुकल्पनयाधिका न भवतीति वस्तु व्यज्यते ॥


चित्रं तु काव्यं शब्दार्थालङ्कारचित्रतया बहुविधम् ।
तत्प्रपञ्चोऽप्यलङ्कारप्रकरणे व्यक्तीभविष्यति ॥


इइ.६ ॥
महाकाव्योपकाव्यादिप्रबन्धनिरूपणम् ॥


अथ महाकाव्यादयः प्रबन्धा निरूप्यन्ते ।

नगरार्णवशैलर्तुचन्द्रार्कोदयवर्णनम् ।
उद्यानसलिलक्रीडामधुपानरतोत्सवाः ॥ २.६९ ॥


विप्रलम्भो विवाहश्च कुमारोदयवर्णनम् ।
मन्त्रदूतप्रयाणाजिनायकाभ्युदया अपि ॥ २.७० ॥

एतानि यत्र वर्ण्यन्ते तन्महाकाव्यमुच्यते ।
एषामष्टादशानां यैः कौश्चिदूनमपीष्यते ॥ २.७१ ॥

तत्त्रिविधम् ।

गद्यमयं पद्यमयमुभयमयं चेति ॥ २.७२ ब् ॥

अपादः पदसंघातो गद्यं ॑ पद्यं चतुष्पदम् ।

गद्यकाव्यं कादम्बर्यादि ।
पद्यकाव्यं रघुवंशादि ।

असर्गबन्धमपि यदुपकाव्यमुदीर्यते ॥ २.७२ द् ॥


असर्गबन्धं सूर्यशतकादि ।

गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ।
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकम् ॥ २.७३ ॥


वर्ण्यते यत्र काव्यज्ञैरसावाख्यायिका मता ।
यत्र वक्त्रापरवक्त्रनामानौ वृत्तविशेषौ वर्ण्येते सोच्छ्रवासपरिच्छिन्नाऽख्यायिका हर्षचरितादि ।

(कोशान्तरे वाक्यमिदं नोपलभ्यते । )

इइ.७ क्षुद्रप्रबन्धनिरूपणम् ॥


अथ क्षुद्राः प्रबन्धा निरूप्यन्ते ।

[इइ.७.१ उदाहरणम्]

येन केनापि तालेन गद्यपद्यसमन्वितम् ॥ २.७४ ॥


जयत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।
तदुदाहरणं नाम विभक्त्यष्टकसंयुतम् ॥ २.७५ ॥


यत्रादौ जयत्युपक्रमं मालिन्यादिवृत्तं रम्यं पद्यं निबध्यते, अनन्तरम् "अपि चऽ इत्युपक्रमाण्यष्टवाक्यानि सप्रासानि सतालानि प्रतिविभक्ति निबध्यन्ते, अनन्तरं विभक्त्याभासाः, ततुदाहरणम् ।

[इइ.७.२ चक्रवालकम्]

संबोधनविभक्त्या यत्प्रचुरं पद्यपूर्वकम् ।
विमुक्तपुनराकृष्टशब्दं स्याच्चक्रवालकम् ॥ २.७६ ॥


आद्यन्तपद्यसंयुक्ता संस्कृतप्राकृतात्मिका ।
अष्टभिर्वा चतुर्भिर्वा वाक्यैः स्कन्धसमन्विता ॥ २.७७ ॥


[इइ.७.३ भोगावली]

प्रतिस्कन्धं भिन्नवाक्यरीतिर्देवनृपोचिता ।
सर्वतो देवशब्दादिरेषा भोगावली मता ॥ २.७८ ॥


[इइ.७.४ बिरुदावलि]

वर्ण्यमानाङ्कबिरुदवर्णनप्रचुरोज्ज्वला ।
वाक्याडम्बरसंयुक्ता सा मता बिरुदावली ॥ २.७९ ॥


[इइ.७.५ तरावलि]

ताराणां संख्यया पद्यैर्युक्ता तारावली मता ।

एवं कविप्रौढोक्तिसिद्धाः क्षुद्राः प्रबन्धा यथासंभवमूह्याः ।
अथैतेषामुदाहरणानि विस्तरभयादिह नोक्तानि ॥


इति श्रीविद्यानाथविरचिते प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे काव्यप्रकरणं समाप्तम् ॥

_______________________________________________


॥ अथ नाटकप्रकरणम् ॥

॥ अथ नाट्यप्रधानाः प्रबन्धा निरूप्यन्ते ॥


[इइइ.१.१ नाट्यस्वरूपम्]


तत्र नाट्यस्वरूपं निरूप्यते ।

चतुर्विधैरभिनयैः सात्त्विकाङ्गिकपूर्वकैः ।
धीरोदात्ताद्यवस्थानुकृतिर्नाट्यं रसाश्रयम् ॥ ३.०.१ ॥


भावाश्रयं तु नृत्त्यं स्यान्नृत्तं ताललयान्वितम् ।

एषा दशरूपकोक्ता प्रक्रिया ।
नृत्त्यनृतूयोर्नाटकाद्यङ्गत्वादिह स्वरूपनिरूपणं कृतम् ।

तथोक्तंऽदशरूपकेऽ

"मधुरोद्धतभेदेन तद्द्वयं द्विविधं पुनः ।
लास्यताण्डवरूपेण नाटकाद्युपकारकम् ॥
ऽ इति ।

तेन नाट्येन दश रूपकाणि भवन्ति ।

[इइइ.१.२ दशविधरूपकनिर्देशाः]

नाटकं सप्रकरणं भाणः प्रहसनं डिमः ।
व्यायोगसमवाकारौ वीथ्यङ्केहामृगा दश ॥ ३.०.२ ॥

नाट्याश्रयत्वेनाभेद इति शङ्का न युज्यते ।
वस्तुनेतृरसास्तेषां रूपकाणां हि भेदकाः ॥ ३.०.३ ॥


वस्तु त्रिविधम्प्रख्यातम्, उत्पाद्यम्, मिश्रं चेति ।
तथोक्तंऽदशरूपकेऽ

"प्रख्यातोत्पाद्यमिश्रत्वभेदात्तत्त्रिविधं मतम्ऽ इति ।

[इइइ.१.३ दशविधरूपरकांणां इतिवृत्तादयः]

इतिहासनिबन्धनं प्रख्यातम्, कविकल्पितमुत्पाद्यम्, संकरायत्तं मिश्रं चेति एवमादिवस्तुभेदान्नायकभेदात्रूपकाणां परस्परं भेदः ।
तथा हिनाटके प्रख्यातमितिवृत्तम्, धीरोदात्तो नायकः, शृङ्गारवीररसयोरन्यतरस्य प्राधान्यम्, अन्येषां रसानामङ्गत्वेनानुप्रवेशः ।
प्रकरणे उत्पाद्यमितिवृत्तम्, धीरशान्तो नायकः, शृङ्गाररसस्यैव प्राधान्यम् ।
भाणे उत्पाद्यमितिवृत्तम्, धूर्तविटो नायकः, शृङ्गारवीरयोः सूचनामात्रसारता ।
प्रहसने कल्प्यमितिवृत्तम्, पाषण्डप्रभृतयो नायकाः, हास्यरसः प्रधानम् ।
डिमे प्रख्यातमितिवृत्तम्, देवगन्धर्वपिशाचादयो धीरोद्धता नायकास्ते षोडश, रौद्ररसः प्रधानम्, वीरशृङ्गारयोरनुप्रवेशः ।
व्यायोगे प्रख्यातमितिवृत्तम्, धीरोद्धतो नायकः, वीररसः प्रधानम् ।
समवकारे देवासुरादयो द्वादश नायकाः, वीररसः प्रधानम्, कल्पितमितिवृत्तं प्रसिद्धं वा ।
वीथ्यां कल्पितमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्य सूचनामात्रसारता ।
अङ्के प्रख्यातमितिवृत्तम्, प्राकृतजनो नायकः, करुणरसः प्रधानम्, ईहामृगे मिश्रमितिवृत्तम्, धीरोद्धतो नायकः, शृङ्गाररसस्याभासत्वम् ।

[इइइ.१.४ द.रू. सामग्री]

अथ तेषां सामग्री निरूप्यते ।
तत्र पञ्च सन्धयः ।
तथा चोक्तं दशरूपके

"मुखं प्रतिमुखं गर्भः सावमर्शोपसंहृतिःऽ इति ।

[इइइ.१.५. सन्धिपञ्चकविवेचनम्]

संधिर्नामैकेन प्रयोजनेनान्वितानां कथानामवान्तरप्रयोजनसंबन्धः ।
तत्रारम्भबीजसंबन्धो मुखसंधिः ।
प्रयत्नबिन्दुसंबन्धः प्रतिमुखसंन्धिः ।
प्राप्त्याशापताकयोः संबन्धो गर्भसंधिः ।
नियताप्तिप्रकर्योः संबन्धो विमर्शसंधिः ।
फलागमकार्ययोः संबन्धो निर्वहणसंधिः ।
तथा चोक्तं दशरूपके

"बीजबिन्दुपताकाख्यप्रकरीकार्यलक्षणाः ।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ॥
अर्थप्रकृतयः पञ्च पञ्चावस्थासमन्विताः ।
यथासंख्येन जायन्ते मुखाद्याः पञ्च संधयः ॥
ऽ इति ।

अथारम्भादीनां लक्षणं निरूप्यते

औत्सुक्यमात्रमारम्भः फललाभाय भूयसे ।
प्रयत्नस्तु फलप्राप्तौ व्यापारोऽतित्वरान्वितः ॥ ३.०.४ ॥

उपायापायङ्काभ्यां प्राप्त्याशा कार्यसंभवः ।
अपायाभावतः कार्यनिश्चयो नियताप्तिका ॥ ३.०.५ ॥

समग्रफलसंपत्तिः फलागम उदाहृतः ।

अथ बीजादिपञ्चकं निरूप्यते

स्तोकोद्दिष्टः कार्यहेतुर्बींजं विस्तार्यनेकधा ॥ ३.०.६ ॥


अवान्तरार्थविच्छेदे बिन्दुरच्छेदकारणम् ।
प्रतिपाद्यकथाङ्गं स्यात्पताका व्यापिनी कथा ॥ ३.०.७ ॥


अव्यापिनी प्रकरिका कार्यं निर्वाहकृत्फले ॥ ३.०.८ ब् ॥

[इइइ.२ मुखसन्धिः]

अथ मुखं निरूप्यते

मुखं बीजसमुत्पत्तिर्नानार्थरससंभवा ॥ ३.०.८ द् ॥


अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ॥ ३.०.९ ब् ॥

बीजारम्भानुगुण्येन मुखसन्धेरङ्गानि प्रयोक्तव्यानि ।

उपक्षेपः परिकरः परिन्यासो विलोभनम् ॥ ३.०.९ द् ॥

युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।
उद्भेदभेदकरणान्यन्वर्थानि यथाक्रमम् ॥ ३.०.१० ॥


यथाक्रममेषां स्वरूपं निरूप्यते

बीजन्यास उपक्षेपः ।
बीजस्य बहूकरणं परिकरः ।
बीजनिष्पत्तिः परिन्यासः ।
बीजगुणवर्णनं विलोभनम् ।
बीजानुकूलसंघटनप्रयोजनविचारो युक्तिः ।
बीजसुखागमः प्राप्तिः ।
बीजसंनिधानं समाधानम् ।
बीजसुखदुः खहेतुर्विधानम् ।
बीजविषयाश्चर्यावेशः परिभावना ।
गूढबीजप्रकाशनमुद्भेदः ।
बीजानुगुणप्रोत्साहनं भेदः ।
बीजानुगुणप्रस्तुतकार्यारम्भः करणम् ।
एतानि द्वादश मुखसन्धेरङ्गानि ।
एतेषां मध्ये उपक्षेपपरिकरपरिन्यासयुक्त्युद्भेदसमाधानानामावश्यकत्वम् ।

[इइइ.३ प्रतिमुखसन्धिः]

अथ प्रतिमुखसन्धिः

लक्ष्यालक्ष्यस्य बीजस्य व्यक्तिः प्रतिमुखं मतम् ।
बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश ॥ ३.०.११ ॥


बिन्दुप्रयत्नानुगुण्येन प्रतिमुखसन्धेरङ्गानि प्रयोक्तव्यानि ।

विलासः परिसर्पश्च विधूतं शमनर्मणी ।
नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम् ॥ ३.०.१२ ॥


वज्रं पुष्पमुपन्यासो वर्णसंहार इत्यपि ॥ ३.०.१३ ब् ॥

एषां स्वरूपं निरूप्यते

संभोगविषयमनोरथो विलासः ।
दृष्टनष्टपदार्थानुसरणं परिसर्पः ।
अनिष्टवस्तुविक्षेपो विधूतम् ।
अरत्युपशमनं शमः ।
परिहासवचनं नर्म ।
अनुरागोद्धाटनोत्था प्रीतिर्नर्मद्युतिः ।
उत्तरोत्तरवाक्यैरनुरागबीजप्रकाशनं प्रगमनम् ।
छद्मना हितागमननिरोधनं निरोधः ।
इष्टजनानुनयः पर्युपासनम् ।
प्रमुखनिष्ठुरवचनं वज्रम् ।
अनुरागप्रकाशनविशिष्टवचनं पुष्पम् ।
अनुरागहेतुवाक्यरचनोपन्यासः ।
चतुर्वर्णनिर्वर्णतं वर्णसंहारः ।
एतेषां मध्ये परिसर्पप्रगमनवज्रोपन्यासपुष्पाणां प्राधान्यम् ।

[इइइ.४ गर्भसन्धिः]

अथ गर्भसंधिः

गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ॥ ३.०.१३ द् ॥


अस्याप्त्याशापताकानुगुण्येनाङ्गोपकल्पनम् ॥ ३.०.१४ ब् ॥

पताकाप्राप्त्याशानुगुण्येन गर्भसन्धेरङ्गानि प्रयोक्तव्यानि ।

अभूताहरणं मार्गो रूपोदाहरणक्रमाः ॥ ३.०.१४ द् ॥


संग्रहश्चानुमानं च तोटकाधिबधे तथा ।
उद्वेगसंभ्रमाक्षेपा द्वादशाङ्गान्यनुक्रमात् ॥ ३.०.१५ ॥


एषां स्वरूपं निरूप्यते

प्रस्तुतोपयोगिच्छद्माचरणमभूताहरणम् ।
तत्त्वार्थानुकीर्तनं मार्गः ।
वितर्कप्रतिपादनावाक्यं रूपम् ।
प्रस्तुतोत्कर्षाभिधानमुदाहृतिः ।
संचिन्तितार्थप्राप्तिः क्रमः ॥
प्रस्तुतोपयोगिसामदानवचनं संग्रहः ।
(प्रस्तुतोपयोगिसमाधानवाक्यमिति पाठान्तरम् ॥)॥
लिङ्गादभ्यूहनमनुमानम् ।
रोषसंभ्रमवचनं तोटकम् ।
इष्टजनातिसंधानमधिबलम् ।
अपकारिजनाद्भयमुद्वेगः ।
शङ्कात्रासौ च संभ्रमः ।
इष्टार्थोपायानुसरणमाक्षेपः ।
एतेषां मध्येऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् ।

[इइइ.५ विमर्शसन्धिः]

अथ विमर्शसंधिः

गर्भसंधौ प्रसिद्धस्य बीजार्थस्यावमर्शनम् ।
हेतुना येन केनापि विमर्शः संधिरिष्यते ॥ ३.०.१६ ॥


नियताप्तिप्रकर्युक्तेरङ्गान्यत्र त्रयोदश ॥ ३.०.१७ ब् ॥

नियताप्तिप्रकर्यानुगुण्येन विमर्शसंधेरङ्गानि प्रयोक्तव्यानि ।

तत्रापवादः संफेटो विद्रवद्रवशक्तयः ॥ ३.०.१७ द् ॥


द्युतिः प्रसङ्गश्चलनं व्यवसायो निरोधनम् ।
प्ररोचनं विचलनमादानं तु त्रयोदश ॥ ३.०.१८ ॥


एतेषां स्वरूपं निरूप्यते

दोषप्रख्यापनमपवादः ।
रोषसंभाषणं संफेटः ।
वधबन्धादिकं विद्रवः ।
गुरुतिरस्कृतिर्द्रवः ।
विरोधशमनं शक्तिः ।
तर्जनोद्वेजने द्युतिः ।
गुरुकीर्तनं प्रसङ्गः ।
उपमानं चलनम् ।
स्वशक्तिप्रशंसनं व्यवसायः ।
क्रोधसंरब्धानामन्योन्यविक्षेपो निरोधनम् ।
सिद्धवद्भाविश्रेयः कथनं प्ररोचनम् ।
स्वगुणाऽविष्करणं विचलनम् ।
कार्यसंग्रह आदानम् ।
एतेषां मध्ये अपवादशक्तिव्यवसायप्ररोचनादानानां प्राधान्यम् ॥


[इइइ.६ इर्वहरणसन्धिः]

अथ निर्वहणसंधिः

बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।
ऐकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत् ॥ ३.०.१९ ॥


फलाप्तिकार्यानुगुण्यादङ्गान्यस्य चतुर्दश ॥ ३.०.२० ब् ॥

फलाप्तिकार्यानुगुण्येन निर्वहणसंधेरङ्गानि चतुर्दश प्रतिपादनीयानि ।

संधिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ॥ ३.०.२० द् ॥


प्रसादानन्दसमयाः कृत्याभाषोपगूहनम् ।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ॥ ३.०.२१ ॥


एतेषां स्वरूपं निरूप्यते

बीजोपशमनं संधिः ।
कार्यमार्गणं विरोधः ।
कार्योपक्षेपणं ग्रथनम् ।
बीजानुगुणकार्यप्रख्यापनं निर्णयः ।
मिथो जल्पनं परिभाषा ।
पर्युपासनं प्रसादः ।
वाञ्छितार्थप्राप्तिरानन्दः ।
दुः खप्रशमनं समयः ।
लब्धस्थिरीकरणं

कृतिः ।
प्राप्तकार्यानुमोदनमाभाषणम् ।
अद्भुतार्थप्राप्तिः उपगूहनम् ।
इष्टकार्यदर्शनं पूर्वभावः ।
कार्यार्थोपसंहृतिः संहारः ।
शुभशंसनं प्रशस्तिः ।

एवं चतुः षष्ट्यङ्गसमन्विताः पञ्च सन्धयः प्रतिपादिताः ।
[इइइ.६.१ अन्धिनांप्रयोजनानि]एतेषां षट्प्रयोजनानि संभवन्तिविवक्षितार्थप्रतिपादनं, गोप्यार्थगोपनं, प्रकाश्यार्थप्रकाशनं, अभिनयरागसमृद्धिः, चमत्कारित्वम्, इतिवृत्तविस्तरश्चेति ।
तत्रेतिवृत्तं सूच्यमसूच्यं चेति द्विविधम् ।
असूच्यमपि द्विविधंदृश्यं श्राव्यं च ।
तत्र सूच्यस्य सूचनाक्रमः पञ्चविधः ।
तथोक्तंऽदशरूपकेऽ

"विष्कम्भचूलिकाङ्कास्यप्रवेशाङ्कावतारणैःऽइति ।

एतेषां स्वरूपं निरूप्यते

[इइइ.६.२ इष्कम्भिका]

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
संक्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ॥ ३.०.२२ ॥


स द्विविधःशुद्धः संकीर्णश्चेति ।
केवलसंस्कृतप्रायः शुद्धः ।
संस्कृतप्राकृतमिश्रितः संकीर्णः ।

[इइइ.६.३ ऊलिका]

अथ चूलिका

अन्तर्यवनिकासंस्थैश्चूलिकार्ऽथस्य सूचना ॥ ३.०.२३ ब् ॥

यत्र नेपथ्यगतैः पात्रैरर्थः सूच्यते सा चूलिका ।

[इइइ.६.४ ङ्कास्यम्]

अथाङ्कास्यम्

अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचना ॥ ३.०.२३ द् ॥


यत्र पूर्वाङ्कान्तपात्रैरुत्तराङ्कार्थः सूच्यते तदङ्कास्यम् ।

[इइइ.६.५ रवेशकः]

अथ प्रवेशकः

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः ।
प्रवेशकस्तु नाद्येऽङ्के नीचपात्रप्रयोजितः ॥ ३.०.२४ ॥


नीचपात्रप्रयुक्तः प्रवेशकः आद्येऽङ्के न प्रयोक्तव्यः ।

[इइइ.६.६ ङ्कावतारः]

अथाङ्कावतारः

यत्र स्यादुत्तराङ्कार्थः पूर्वाङ्कार्थानुसंगतः ॥ ३.०.२५ ब् ॥

असूचिताङ्कपात्रं तदङ्कावतरणं मतम् ॥

एभिः सूच्यं सूचयित्वा दृश्यमङ्कैः प्रदर्शयेत् ॥ ३.०.२५ द् ॥


[इइइ.६.७ ङ्कास्वरूपम्]

तत्राङ्कस्वरूपं निरूप्यते

प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः ।
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ॥ ३.०.२६ ॥


इइइ.७.अथामुखं निरूप्यते

सूत्रधारो नटीं ब्रूते मारिषं वा विदूषकम् ।
स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥ ३.०.२७ ॥


प्रस्तावना वा तत्र स्यात्कथोद्घातः प्रवर्तकम् ।
प्रयोगातिशयश्चेति त्रीण्यङ्गान्यामुखस्य तु ॥ ३.०.२८ ॥


एषामङ्गानां स्वरूपं निरूप्यते

स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ।
गृहीत्वा प्रविशेत्पात्रं कथोद्धातो द्विधैव सः ॥ ३.०.२९ ॥


प्रस्तूयमानकालस्य गुणवर्णनया स्वतः ।
प्रविशेत्सूचितं पात्रं यत्र तत्स्यात्प्रवर्तकम् ॥ ३.०.३० ॥


एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः ।
पात्रप्रवेशो यत्रायं प्रयोगातिशयो मतः ॥ ३.०.३१ ॥


इइइ.८

वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्र स्वभावतः ।
उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ॥ ३.०.३२ ॥


वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृदवानि त्रयोदश ॥ ३.०.३३ ॥


एषां स्वरूपं निरूप्यते

गूढार्थपदपर्यायमालारूपेण प्रश्नोत्तरमालारूपेण चोद्धात्यकं द्विविधम् ।
अवलगितमपि द्विविधम् ।

यत्रैकत्र समावेशात्कार्यमन्यत्र सिद्ध्यति ।
वस्तुनोऽन्यत्र वा यत्स्यात्द्विधावलगितं मतम् ॥ ३.०.३४ ॥


अन्यकार्यच्छद्मना अन्यकार्यकरणम्, अन्यकार्यप्रसङ्गात्प्रकृतकार्यसिद्धिश्च ।
असद्भूतं मिथः ।
स्तोत्रं प्रपञ्चः ।
त्रिगतं द्विविधंपूर्वरङ्गाङ्गं प्रस्तावनाङ्गं चेति ।
पूर्वरङ्गे नटादिसंलापः, अत्र तु साम्यादनेकार्थयोजनं त्रिगतम् ।
प्रियसदृशैर्वाक्यैरप्रियैर्विलोभनं छलम् ।
साकाङ्क्षस्यापि वाक्यस्य निवर्तनमुक्तिप्रत्युक्तिः वाक्केलिर्द्विविधा ।
स्पर्धयान्योन्यवाक्याधिक्यमधिबलम् ।
सहसोदितं प्रस्तुतविरोधि गण्डम् ।
रसवशादुक्तान्यथाव्याख्यानमवस्यन्दितम् ।
सोपहासनिगूढार्थप्रहेलिका नालिका ।
असंबन्धकथाप्रायः प्रलोपोऽसत्प्रलापः ।
अन्यार्थं हास्यलोभकरं वचनं व्याहारः ।
दोषाणां गुणत्वप्रतिपादनं मृदवम् ।
एतेषां मध्ये यथासंभवं कानिचित्प्रस्तावनायां प्रयोक्तव्यानि ।

इइइ.९ थ दशरूपकाणां स्वरूपं निरूप्यते ।
तत्र

[इइइ.९ आटकलक्षणम्]

साङ्गैर्मुखप्रतिमुखगर्भमर्शोपसंहृतैः ।
पूर्णं प्रकृतिरन्येषामाधिकारिकवृत्तवत् ॥ ३.०.३५ ॥


वीरशृङ्गारयोरेकः प्रधानं यत्र वर्ण्यते ।
प्रख्यातनायकोपेतं नाटकं तदुदाहृतम् ॥ ३.०.३६ ॥


[इइइ.९.१ आन्दीस्वरूपम्]

तत्र नान्दीस्वरूपं निरूप्यते

अर्थतः शब्दतो वापि मनाक्काव्यार्थसूचनम् ॥ ३.०.३७ ब् ॥

यत्राष्टभिर्द्वादशभिरष्टादशभिरेव वा ॥

द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता ॥ ३.०.३७ द् ॥


नाटकादिरूपकाणामादौ विहितं पद्यं नान्दीत्युच्यते ।
वेणीसंहारेऽष्टपदा नान्दी ।
अनर्घराघवे द्वादशपदा ।
बालरामायणे द्वाविंशतिपदा ।
कैश्चित्नान्द्यां पदनियमो नाभ्युपगतः ।

नान्द्यनन्तरं प्रविष्टेन सूत्रधारेण रङ्गप्रसाधनपुरः सरं भारतीवृत्त्याश्रयणेन श्लोकैः काव्यार्थः सूचनीयः ।
तथोक्तंऽदशरूपकेऽ

"रङ्गं प्रसाध्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।
ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ॥
ऽ इति ।

एषा प्रक्रिया नाटकस्यैव मुख्या ।

[इइइ.९.२ रकतणम्]

अथ प्रकरणम्

उत्पाद्येनेतिवृत्तेन धीरशान्तप्रधानकम् ।
शेषं नाटकतुल्याङ्गं भवेत्प्रकरणं हि तत् ॥ ३.०.३८ ॥


[इइइ.९.३ हाणः]

अथ भाणः

भारतीवृत्तिभूयिष्ठं शौर्यसौभाग्यसंस्तवैः ।
सूच्येते वीरशृङ्गारौ विटेन निपुणोक्तिना ॥ ३.०.३९ ॥

कल्पितेनेतिवृत्तेन धूर्तचारित्रवर्णनम् ।
एकोऽङ्को मुखनिर्वाहौ यत्र भाणः स संमतः ॥ ३.०.४० ॥


[इइइ.९.४ रहसनम्]

अथ प्रहसनम्

यत्र सन्ध्यङ्गवृत्त्यङ्गवर्णनं भाणवन्मतम् ।
हास्यो रसः प्रधानं स्याद्भवेत्प्रहसनं हि तत् ॥ ३.०.४१ ॥


तच्च त्रिविधम्शुद्धं वैकृतं संकीर्णं चेति ।
तत्र शुद्धम्

पाषण्डविप्रप्रभृतिचेटीचेटसमाकुलम् ।
वेषभाषादिसहितं शुद्धं हास्यवचोऽन्वितम् ॥ ३.०.४२ ॥


अथ वैकृतम्

कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः ।
प्रहासाभिनयप्रायं वैकृतं तत्प्रकीर्त्यते ॥ ३.०.४३ ॥


अथ संकीर्णम्

यद्वीथ्यङ्गैः समाकीर्णं संकीर्णं धूर्तसंकुलम् ॥ ३.०.४४ ॥


[इइइ.९.५डिमः]

अथ डिमः

यत्र वस्तु प्रसिद्धं स्याद्वृत्तयः वैशिकीं विना ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ॥ ३.०.४५ ॥


भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
हास्यशृङ्गाररहिता रसा रौद्रप्रधानकाः ॥ ३.०.४६ ॥


चत्वारोऽङ्काः संधयश्च चत्वारो मर्शवर्जिताः ।

मायेन्द्रजालसंग्रामसूर्यचन्द्रग्रहादयः ॥
शेषं नाटकवत्सर्वं स डिमः परिकीर्त्यते ॥ ३.०.४७ ॥


[इइइ.९.६ यायोगः]

अथ व्यायोगः

यत्र ख्यातेतिवृत्तं स्यादुद्धतो नायको मतः ।

गर्भावमर्शराहित्यं डिमवद्रसपोषणम् ।
एकवासरकार्यं च स व्यायोगो महारणः ॥ ३.०.४८ ॥


[इइइ.९.७ अमवकारः]

अथ समवकारः

यत्रामुखं नाटकवत्संधयो मर्शवर्जिताः ।
नेतारो द्वादश पृथक्फला देवासुरादयः ॥ ३.०.४९ ॥


वीरप्रधानाश्च रसास्त्रयोऽङ्कास्तेषु च क्रमात् ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥ ३.०.५० ॥


पुररोधरणाग्न्यादिनिमित्ता विद्रवास्त्रयः ।
धर्मार्थकामानुगुणास्तिस्रः शृङ्गाररीतयः ॥ ३.०.५१ ॥


प्रथमेऽङ्के निबद्धव्या कथा यामत्रयावधिः ।
यामावधिर्द्वितीयेऽङ्के तृतीयेऽङ्केऽर्धयामिका ॥ ३.०.५२ ॥


असौ समवकारः स्याद्वीथ्यङ्गैः कैश्चिदन्वितः ॥ ३.०.५३ ब् ॥


[इइइ.९.८ ईथी]

अथ वीथी

यत्र भाणवदङ्गानां कॢप्तिर्वृत्तिस्तु कैशिकी ॥ ३.०.५३ द् ॥


शृङ्गारः परिपूर्णत्वात्सूचनीयोऽतिभूयसा ।
उद्धात्यकादीन्यङ्गानि सा वीथी वीथिवन्मता ॥ ३.०.५४ ॥


[इइइ.९.९ ङ्कः]

अथाङ्कः

यत्रेतिवृत्तं प्रख्यातं प्रधानं करुणो रसः ।

स्त्रीणां विलासो वाग्युद्धं नेतारः प्राकृता नराः ॥
भाणवत्संधिवृत्त्यादि स उत्सृष्टोऽङ्कसंज्ञकः ॥ ३.०.५५ ॥


[इइइ.९.१०ईहामृगः]

अथेहामृगः

मिश्रमीहामृगे वृत्तं चतुरङ्कं त्रिसन्धिकम् ।
मर्त्यदिव्यौ च नियमान्नायकप्रतिनायकौ ॥ ३.०.५६ ॥


धीरोद्धतौ स्त्रियं दिव्यां हर्तुकामौ च कामुकौ ।
अवधं युद्धमन्योन्यमाभासरसयोस्तयोः ॥ ३.०.५७ ॥

___


एष प्रक्रिया दशरूपकोक्तरीत्यनुसारेण ।

[इइइ.१० आटकोदाहरणम्]

नाटकोदाहरणप्रारम्भः ।

तत्र साङ्गं नाटकमुदाह्रियते ।

भद्रां कौतुकवेदिमागतवतोरन्योन्यमासेदुषोः
शैलैर्मेरुहिमाचलप्रभृतिर्भिर्देवैर्हरीन्द्रादिभिः ।
व्याप्तां पार्श्वयुगे पुरोऽम्बुजभुवा पश्चाच्च मेनादिभिः
साध्वीभिः शिवयोरपाङ्गसरणिर्वैवाहिकी पातु वः ॥ ३.१.१ ॥


एषा द्वाविंशतिपदा नान्दी ।
अस्यां विवाहप्रवृत्तयोः शिवयोः वर्णनया सकलनरेन्द्रपरिकरस्य प्रतापरुद्रस्य काकतीयराज्यलक्ष्मीप्राप्तिर्नाटकप्रयोजनरूपा किंचिदर्थशक्त्या सूच्यते ।

देयात्सिद्धिं महालक्ष्मीर्जगद्रक्षाधुरंधरा ।
विष्णुवक्षः स्फुरन्मालाविहितालयतोरणा ॥ ३.१.२ ॥


एषा च नान्दी प्रतापरुद्रराज्यलक्ष्मीमङ्गलविधिलक्षणा ।

नान्द्यन्ते सूत्रधारः (समन्तादवलोक्य सहर्षम्)

कथमासूत्रित एव समन्ततो रङ्गमङ्गलविधिः !

तथाहि

आविष्कुर्वन्ति मुरजाः सर्वतः शब्दमाधुरीम् ।
सङ्गीतोपनिषद्विद्यां वीणाः प्रस्तावयन्त्यमूः ॥ ३.१.३ ॥


एतद्रङ्गप्रसाधनम् ।

(सप्रहर्षम्)

भूभृत्सुतामहादेवौ पितरौ यस्य विश्रुतौ ।
नरनागाकृतिः श्रीमान् स देवः श्रेयसेऽस्तु वः ॥ ३.१.४ ॥


(ऊर्ध्वमवलोक्य)चिरादनुकूलेन कालेनापगतदुर्दिनानि दिङ्मुखानि ।

यतः

विहरद्राजहंसश्रीर्विलसन्मित्रमण्डलः ।
प्रसाधयति सन्मार्गं प्रसन्नः शरदागमः ॥ ३.१.५ ॥


काव्यार्थसूचकाभ्यां श्लोकाभ्यामृतुसमाश्रणेन संस्कृतप्रायनराश्रितवाग्व्यवहाररूपा भारती वृत्तिः कथिता ।

(सविनयमुपसृत्य सभाभिमुखमञ्जलिं बद्ध्वा)

भो भो मध्यमभुवनभागधेयविवर्तस्यैकशिलानगरपुण्यराशेः काकतीयकुलदेवतायाः स्वयम्भूदेवस्य सततमहोत्सवमासेदिवांसो विद्धांसः ! कलार्णवनाट्यवेदाचार्यस्य पुत्रमभिनयदर्पणं मामभिमतरूपकप्रयोगानुज्ञया परमनुगृह्णीत ।
(आकाशे कर्णं दत्त्वा) किं ब्रूथ ?

"यस्मिञ्जगन्मङ्गलमस्ति वस्तु यस्मै स्वयंभूः स्पृहयत्यजस्रम् ।
तच्छ्रोत्रयोर्लोचनयोः पथां नः शृङ्गाटकं नाटकमाविरस्तु ॥ ३.१.६ ॥
ऽ इति ।

(सहर्षम्) अस्मन्मनोरथसंवाद्येव परिषदादेशः ।
यत्प्रतापरुद्रचरितानुबन्धः प्रबन्धः सामाजिकानां मनसि वर्तते ।
अहो सर्वं सुघटितमनुविधात्रा विधात्रा ! यतः

सभा स्वयंभूपरमेश्वरस्य प्रतापरुद्रस्य गुणा महार्घाः ।
अहं च नाट्यश्रुतिपारदृश्वा सुधामुचस्तस्य कवेश्च वाचः ॥ ३.१.७ ॥


एषा प्रशंसयाभिमुखीकरणरूपा भारतीवृत्तेरङ्गं प्ररोचना ।

(सविमर्शम्) कथमस्मत्प्रेयसी संगीतशारिका चिरयति ?
(प्रविश्य) नटी(पुरोऽवलोक्य सस्पृहम्)

किं भारईए सुव्वै मंजीररवो सहाए विहरंतीए ।
अह संगीअसुइ व्वा विण्णादं णट्टप्पमुहतूरणिणाओ ॥ ३.१.८ ॥


( ।किं भारत्याः श्रूयते मञ्जीररवः सभायां विहरन्त्याः ।
अथ संगीतश्रुतिर्वा विज्ञातं नाट्यप्रमुखतूर्यनिनादः ॥)॥


(अपसृत्य)अअज्ज इअम्हि ।
आणवेदु को णिओओ अणुट्ठीअदु त्ति ।

(अआर्य इयमस्मि ।
आज्ञापयतु को नियोगोऽनुष्ठीयतामिति । )

सूत्रधारःार्ये,

यद्गेहे कलकण्ठनादमधुरं गास्यामि गीतिं ध्रुवां
लास्यं चारुभिरङ्गहारललितैराविष्करिष्यामि यत् ।
रम्यं यत्किल रङ्गमङ्गलविधिं संपादयिष्याम्यहं
प्रागित्युक्तवती तदद्य निपुणे निर्व्यूढमेवं त्वया ॥ ३.१.९ ॥


एतत्प्रियसदृशैरप्रियैर्वाक्यैरुपालम्भनाच्छलम् ।

नटी(सभयम्)अअणट्टसामग्गिं सज्जीकादुं विलंबिअम् ।
सज्जीकिआ क्खु एसा ।
केण उण रुव्वएण पओओ उअक्कमीअदु ।

(अअनाट्यसामग्रीं सज्जीकर्तुं विलम्बितम् ।
सज्जीकृता खल्वेषा ।
केन पुना रूपकेण प्रयोग उपक्रम्यताम् । )

सूत्रधारःनन्विदमेव रूपयतु ।
(इति पत्रिकां ददाति । )

नटी(गृहीत्वा संस्कृतमाश्रित्य वाच्यति । )

तेजः पर्यायहरयोः किं किं संबोधनं मतम् ।
किमाशीर्वादविषयो विद्यानाथकृतिश्च का ॥ ३.१.१० ॥


समन्दस्मितं)अणिगूढत्थं खु एदं छेआणं वअणं पडिभादि ।
कीरिसं उत्तरं ? णिरूवेदु अज्जो ।

(अनिगूढार्थं खल्वेतच्छेकानां वचनं प्रतिभाति ।
कीदृशमुत्तरम् ? निरूपयत्वार्यः । )

सूत्रधारःयि सुव्यक्तमेतत् ।
प्रतापरुद्रकल्याणमिति प्रतीयत एव

एषा निगूढार्था नालिका ।

नटी ।
कहं कहाणाअअणआमहेआणुबंधमणोहरं क्खु नाडअम् ।

पआवोववदंकिअं तस्स रण्णो णाम कहं जाअं ति पुच्छीअदि ।

( ।कथं कथानायकनामधेयानुबन्धमनोहरं खलु नाटकम् ।
प्रतापोपपदाङ्कितं तस्य राज्ञो नाम कथं जातमिति पृच्छ्यते । )

सूत्रधारःप्रिये श्रूयताम् ।

तं सुजातं समुद्वीक्ष्य क्षोण्यां रविमिवोदितम् ।
प्रतापरुद्र इत्याख्यामकरोत्काकतीश्वरः ॥ ३.१.११ ॥


अन्यच्च

विष्णोर्विश्वैकवीरस्य काकतीयकुले स्थितम् ।
अवतारममुं ज्ञात्वा वीररुद्रं प्रचक्षते ॥ ३.१.१२ ॥


नटीअलोआणं कण्णजुअलस्य भाअहेएण एदं णामजुअलं सुणीअदि ।
चिरस्स णट्टविज्जणुवट्टणं फलिअं, जेण लोअमंगलं काकैमरिंदचरिअं अभिणिज्जै ।

(अलोकानां कर्णयुगलस्य भागधेयेन एतन्नामयुगलं श्रूयते ।
चिरस्य नाट्यविद्यानुवर्तनं फलितं, येन लोकमङ्गलं काकतिनरेन्द्रचरितमभिनीयते ॥)॥


एतन्नाट्यप्रसङ्गेन प्रकृतकार्यावलगनादवलगितं द्वितीयम् ।

सूत्रधारःहो प्रज्ञासंवादोऽयमायुष्मत्याः, यदियं कवीनां प्रश्नोत्तरमालिका ।
यथा किल

किं लोकश्रवसोर्भाग्यं मङ्गलश्रवणं मुहुः ।
किं मङ्गलं प्रतापाङ्करुद्रस्य चरिताद्भुतम् ॥ ३.१.१३ ॥


एतत्प्रश्नो त्तरमालारूपमुद्धात्यकम् ।

नटी ।
अय्यपरिअणेण सव्वं संपद्दीअदि ।

( ।
आर्यपरिजनेन सर्वं संपाद्यते । )

सूत्रधारःार्ये,

त्वया दारैरुदारश्रीर्नाट्यसंपदियं मम ।
प्रबन्धलक्ष्मी रीत्येव विदर्भफणितिस्पृशा ॥ ३.१.१४ ॥


एष मिथः स्तोत्ररूपः प्रपञ्चः ।

नटी ॥
एआरिसगुणमहग्घपआवरुद्दचरिअं अहिकरिअंतो तस्स कैणो संपुण्णो सरस्सईपसादो ।

( ॥ एतादृशगुणमहार्घप्रतापरुद्रचरितमधिकुर्वतः तस्य कवेः संपूर्णः सरस्वतीप्रसादः । )

सूत्रधारःार्ये, एवमेव ।
नन्वेषा कविभारत्योर्वाक्केलिः ।
यथा

किल

मातर्भारति ! वत्स ! किं ? तव कृपां याचेऽद्य किं प्रस्तुतं ?
जिह्वा काकतिवीररुद्रनृपतेः स्तोत्राय संनह्यति ।
ज्ञातं ते विहरन्तु वाग्लहरयः संध्यानटद्धूर्जटि
त्वङ्गन्मौलितरङ्गिणीकलकलारम्भप्रियंभावुकाः ॥ ३.१.१५ ॥


एषान्योन्यसंलापरूपा वाक्केलिः ।

नटी ।
अम्हाणं ईरिमणरिंदचरिआणुऊलो णट्टाडंबरो होइ ण वे त्ति सज्झसेण वेवै मे हिअअम् ।

( ।
अस्माकमीदृशनरेन्द्रचरितानुकूलो नाट्याडम्बरो भवति न वेति साध्वसेन वेपते मे हृदयम् । )

सूत्रधारः(किंचित्सासूयं) आः किमुच्यते ! निरवद्या ननु मन्नाट्यविद्यासामग्री ।
कीदृशी पुनस्तव गीतिर्योग्यतया भविष्यति ?

नटीअसंगीदसारस्स महण्णवो उव्वेल्लिज्जदि ।
अवहाणजाणपत्तं आरूहदु अज्जो ।

(असंगीतसारस्य महार्णव उद्वेल्यते ।
अवधानयानपात्रमारोहत्वार्यः । )

एतदन्योन्यवाक्याधिक्यादधिबलम् ।

सूत्रधारःचिरमवहित एवास्मि ।
नन्वियमुपक्रम्यते ध्रुवा

नटकृतध्रुवागानप्रतिज्ञावचनं संभ्रमोदितमिति गण्डम् ।

नटी(सस्मितं) ।
कहं अज्जो धुवं गाऐ !

( । कथमार्यो ध्रुवां गायति !)

सूत्रधारःयि कथमर्धोक्त एव त्वरा, "नाट्यविद्याऽ इति शेषं न जिघ्रति ।

एतदुक्तस्यान्यथायोजनरूपमवस्यन्दितम् ।

आर्ये, नूनं ध्रुवागानोत्सुकं तव चेतः, तदारभ्यतां गीतिः ।

नटी(तथा करोति । )


लच्छी सरई अ इमा धवलिअभुवणंतरा विराअंती ।
विलसंतकुवलअसिरी राअस्स पसाहणं कुणै ॥ ३.१.१६ ॥


(लक्ष्मीः सरसी चेयं धवलितभुवनान्तरा विराजन्ती ।
विलसत्कुवलयश्री राज्ञः प्रसाधनं कुरुते ॥)॥


सूत्रधारः(आकर्ण्य सरसावेशं)

गाढालिङ्गनसंमर्दप्रत्यक्षरगलत्सुधाम् ।
ध्रुवां करोमि सर्वाङ्गे श्रोत्रैकामृतवर्षिणीम् ॥ ३.१.१७ ॥


एष रसवशादसंगतार्थव्याहाररूपोऽसत्प्रलापः ।

नटी(सोपहासं)असुउमारा क्खु एसा अय्यस्स णिद्दआलिङ्गणवेल्लणं ण सहै ।

(असुकुमारा खल्वेषार्ऽऽयस्य निर्दयालिङ्गनक्षेपणं न सहते । )

एष हास्यलोभकरो व्याहारः ।

सूत्रधारः(सव्रीडं)

रसास्वादेन तरला ये माद्यन्ति विपश्चितः ।
त एव भावुक्ता लोके भवन्ति हृदयालवः ॥ ३.१.१८ ॥


एतद्दोषस्य गुणत्वारोपान्मृदवम् ।

नटी ॥
अय्यो अणंतरकरणिज्जं णिरूवेदु ।

( ॥ आर्यः अनन्तरकरणीयं निरूपयतु । )

सूत्रधारःनन्वयमिदानीं सभापतिर्देवः स्वयंभूरुपश्लोक्यते ।

सर्वाङ्गविलस्तसर्वमङ्गलालंकृताकृतेः ।
रुद्रस्य महिमा भाति विश्वानुग्रहकारिणः ॥ ३.१.१९ ॥


नेपथ्ये ।
भोः ! सत्यं सत्यम् ।
सर्वाङ्गविलसत्सर्वमङ्गलालंकृताकृतिरेवायं रुद्र इति ।

सूत्रधारः(सहर्षं) कथमुपक्रान्तमेवास्मद्वाक्यानुगुण्येन प्रस्तुतस्यानुगुणं कुशलैः कुशीलवैः, यतः काकतीश्वरगुणवर्णनायोद्यतयोर्वैतालिकयोर्वचनमिवोपक्षिप्यते ।

अयं कथोद्धातः ।
इदमेव गुणवर्णनात्प्रवर्तकं च ।

(पुरोऽवलोक्य) कथमेतौ वैतालिकावित एवाभिवर्तेते ।

एषोऽयमित्युपक्षेपात्प्रयोगातिशयः प्रस्तावनाङ्गम् ।

तदेहि ।
आवामप्यनन्तरकरणीयाय सज्जीभवावः ।
(इति निष्क्रान्तौ । )

इति समग्राङ्गा प्रस्तावना ।

(ततः प्रविशतः काम्पिल्यकलूतकौ वैतालिकौ । )

प्रथमः(सहर्षं)

योऽयं जातस्त्रिलोकीप्रथितसुचरिते काकतीयान्ववाये
यस्मै श्रेयांस्यजस्रं वितरति भगवान् देवदेवः स्वयंभूः ।
यस्याज्ञा सर्वपृथ्वीपतिमणिमुकुटश्रेणिकेलीवयस्या
सोऽयं भूपालमौलिर्जयति गुणमहान् रुद्रदेवो नरेन्द्रः ॥ ३.१.२० ॥


स्वयंभूदेवश्रेयोवितरणरूपबीजन्यासादुपक्षेपोऽङ्गम् ।

द्वितीयःसखे ! किमुच्यते,

यो रुद्रो रजताचले स्थितिमगादर्धाङ्गनारिः पुरा
सोऽयं संप्रति काकतीश्वरकुले सर्वाङ्गनारी स्थितः ।
स्थाने यद्विषमावलोकनकलामात्रेण भस्मीकृता
न्यासन् वैरिपुराणि चित्रमधुना खड्गे विषं धार्यते ॥ ३.१.२१ ॥


प्रथमःसखे साधु समर्थितम् ।
अन्यथा कथमस्मै महाराजाय स्वप्ने कुलगुरुसदृशः स्वयंभूदेवस्तादृशीं श्रेयः संग्रहकारिकामुपदिष्टवान् ।

स्वयंभूदेवप्रसादरूपस्य बीजस्य बहूकरणात्परिकरः ।

द्वितीयः(सविमर्शाश्चर्यं) कथमवगतं राजरहस्यं वयस्येन ?

प्रथमःसखे, कस्य वा न विदितमिदम् ।
यत्सर्वस्मिन्नपि निजनगरे महोत्सवमादिशता रुद्रनरेश्वरेण कुलदेवतायाः स्वप्नोपदिष्टाः प्रसादविशेषाः प्रख्याप्यन्त एव ।

कुलदेवताप्रसादरूपस्य बीजस्य प्रख्यापनेन परिनिष्पत्तेः परिन्यासः ।

द्वितीयःहो निरन्तरप्रसादोन्मुखता देवस्य ।
यथा काकतीयप्रसवेषु श्रेयांस्युत्तरोत्तरमनुबध्यन्ते ।

एतत्बीजस्य श्रेयोऽनुबन्धरूपगुणख्यापनाद्विलोभनम् ।

तदस्मिन्नेव महीयसि महे महीमण्डलाखण्डलं चलमर्तिगण्डमुपश्लोकयितुमावयोरयमेवावसरः ।
तदेहि राजकुलं प्रविशावः ।

प्रथमःवयस्य, सांप्रतं पुरोधः प्रमुखानमात्यवृद्धानपि पुरस्कृत्य कल्याणस्वप्नक्रमं मीमांसमानो नृपतिरभ्यन्तरास्थानीमधितिष्ठति ।
तदावामपि तावदितो गत्वा यथावसरं प्रतीक्षावहे ।

(इति परिक्रम्य निष्क्रान्तौ । )

अयं शुद्धविष्कम्भः

अङ्कारम्भः ॥


(ततः प्रविशति यथानिर्दिष्टवेषो राजा चामरग्राहिणी च । )

राजा(सहर्षातिशयं) अहो प्रसादातिशयः परमेश्वरस्य !

सोमार्काभिजनं तमद्य जयति श्रीकाकतीयान्वयः
पातिव्रत्यमुपैति सांप्रतममीष्वस्मासु विश्वंभरा ।
अस्माभिर्निजदोः प्रसूतिमधुना धन्यामजो मन्यते
यत्कर्तव्यमुपादिशत्कुलपतिर्देवः स्वयंभूः स्वयम् ॥ ३.१.२२ ॥


पुरोधसःमहाराज, भवादृशा एव परमार्हन्ति तादृशमहिम्नो देवस्य हितोपदेशान् ।
अथवा किमत्राभिनवम् ।
पुत्राणां हितोपदेशाधिकारः पितुरेव ।
यदित्थं कथयन्ति तद्विदः ।

सैवोमा चेति निर्दिष्टा सोमा चेति प्रथामगात् ।
तव माता शिवा साक्षाद्देवो गणपतिः पिता ॥ ३.१.२३ ॥


मन्त्रिणःेवमेवैतत् ।
अन्यथा कथमीश्वरप्रसादादृते निरङ्कुशं स्त्रीव्यक्तिविशेषस्य लोकाधिपत्यम् ।
एवं मानुषशंभुना गणपतिमहाराजेनाभ्यन्तरस्यानुभवमहिम्नः सदृशमत्र पुत्र इति व्यवहारः कृतः ।
तदनुगुणा च रुद्र इत्याख्या ।

पुरोधसः(सकौतुकं) कीदृशी देवस्य स्वप्नोपदेशपरिपाटी ?

राजा(सादारं) इदं निवेद्यते ।

कदाचित्कल्याणे रजनीसमये स्मेरवदनं
पुरः प्रादुर्भूतं सयुवतिवपुः साक्षनिटिलम् ।
स्रवन्तीचन्द्राभ्यां महितमुकुटं प्रेक्ष्य किमपि
स्वयंभूदेवोऽसावयमिति हठोत्थानमभजम् ॥ ३.१.२४ ॥


अनन्तरं स्वप्न एव

वपुषा तं नमस्कृत्य स्तुवन् सूनृतया गिरा ।
स्वामिने काकतीयानां रत्नासनमुपाहरम् ॥ ३.१.२५ ॥


चामरग्राहिणी ।
अहो देवस्स अणुसंधाणं जं सिविणे वि कुलसामिणो समाराहणम् ।

( । अहो देवस्यानुसंधानं यत्स्वप्नेऽपि कुलस्वामिनः समाराधनम् । )

पुरोधसःकिमुच्यते ।
आविष्टभक्तयः खलु स्वयंभूदेवे काकतीयनरदेवाः ।
ततः ।

राजा

शय्याशिरः स्थानकृतस्य पूर्णकुम्भस्य तोयैः परिकल्प्य पाद्यम् ।
अतीन्दुसारैर्मणिभिः किलाहमपूजयं दैवतमस्मदीयम् ॥ ३.१.२६ ॥


अथ च

विभुः स्वयंभूरवदच्छुचिस्मितां गिरं स्ववामार्धवधूपलालिताम् ।
स्पृशन् करेणाभयदानशालिना कृताञ्जलिं मां विनयानताननम् ॥ ३.१.२७ ॥


यत्किल

उन्मस्तकैर्मध्यमलोकभाग्यैस्तपोविशेषैरनघैः पृथिव्याः ।
सम्यक्फलैः सच्चरितैः प्रजानां प्रतापरुद्रोऽयमिहावतीर्णः ॥ ३.१.२८ ॥


वत्स काकतीयकुलप्रदीप !

स्वीकृते पुत्रभावेन दौहित्रे प्राङ्ममाज्ञया ।
अस्मिन्निधेहि धौरेये गुर्वीमुर्वीधुरामिति ॥ ३.१.२९ ॥


पुरोधसः(सप्रमोदं) महाराज, काकतीयकुलयोगक्षेमविधानदक्षिणेन दाक्षायणीपतिना साक्षादेवमादिष्टम् ।
तवाप्ययमेव मनोरथः ।
प्रियंकरश्चायं महोत्सवः प्रजानाम् ।
तदारोहतु प्रागतिसृष्टयौवराज्यस्य प्रतापरुद्रस्य भुजशिखरं सागरमेखला ।
ततस्ततः ।

इयं प्रयोजननिर्धारणरूपा युक्तिः ।

राजातद्वचनमाकर्णयन्ती निर्भरहर्षविकस्वरलोचना मेदिन्यपि देवस्य पार्श्वे दृष्टा ।

चामरग्राहिणी ।
महाराअस्स हिअअं अणुवट्टमाणाए वसुंधराए उइदो ख्खु हरिसाविभ्भावो ।

एषा स्वयंभूदेवस्य वचनाकर्णनेन मेदिन्याः सुखागमेन प्राप्तिः ।

( । महाराजस्य हृदयमनुवर्तमानाया वसुंधराया उचितः खलु हर्षाविर्भावः । )

राजाकाकतीयकुलश्रेयसां देव एव प्रमाणमिति तस्याज्ञा मया शिरसि धृता ।
देवोऽपि सप्रसादातिशयमवलोक्यान्तर्हितोऽभूत् ।

इदं मेदिनीप्राप्तिहेतोर्बीजस्य स्वयंभूदेवोपदेशस्याङ्गीकरणात्समाधानम् ।

मन्त्रिणःविश्वप्रियंकरः स्वप्नप्रत्ययः ।
किंतु काकतीयनरेन्द्रवृद्धोचितमाचारमनुवर्तमानस्य देवस्य नगरनिवासवैमुख्यं तथा कुलधुरंधरस्य वीररुद्रस्य विश्वरक्षाक्षमे बाहुपरिघे राज्यधुराविश्रान्तिरिति च

विषादहर्षयोः सीमानं स्पृशत्यस्माकं मनः ।

एतत्सुखदुः खहेतुभूतं विधानम् ।

चामरग्राहिणी ।
अच्चरिअं अच्चरिअम् ।
कुलामच्चमुहेणेव्व पव्वईवल्लहेण एव्वमुवदिट्ठम् ।

( ।
आश्चर्यमाश्चर्यम् ।
कुलामात्यमुखेनेव पार्वतीवल्लभेनैवमुपदिष्टम् । )

इयं बीजविषयाऽश्चर्यरूपा परिभावना ।

राजा(सहर्षातिशयम्, अमात्यान् प्रति) अयं काकतीयकुलश्रेयः

कल्पलताप्ररोहः स्वयंभूदेवानुग्रहः सर्वेषामपि श्रवणमहोत्सवः क्रियताम् ।

एष बीजप्रकाशनादुद्भेदः ।

मन्त्रिणःयदाज्ञापयति काकतीयपरमेश्वरः ।

राजाकिमिदानीं कर्तव्यम् ?

पुरोधसःमहाराज ! किमन्यत्? सज्जीक्रियतां प्रतापरुद्रदेवस्य राज्याभिषेकसंभारः ।

एष बीजानुगुणप्रोत्साहनरूपो भेदः ।

मन्त्रिणःदिग्विजययात्रावशीकृतानां सर्वपार्थिवानां वर्गेणानीतैः सकलतीर्थसलिलैः प्रकाशितं स्वयंभूदेवप्रसादं महाभिषेकमनुभवतु राजपुत्रः ।

पुरोधसःुचितमनुमन्त्रितं मन्त्रिभिः ।

राजातर्हि जैत्रयात्रासाधनानि सज्जीक्रियन्तां षड्विधानि बलानि ।

अहमपि सज्जो भवामि ।

एष आरम्भः ।
इदं बीजानुगुणारम्भरूपं करणम् ।
एवमारम्भबीजसम्बन्धरूपः साङ्गो मुखसन्धिः ।

(नेपथ्ये) वैतालिकौसुखाय माध्यन्दिनी संध्या भवतु देवस्य ।

यदिदानीम्

लोकालोकगिरीन्द्रकन्दरतमः संदोहदर्पापहं
त्वत्तेजः पटलं कियन्ति भुवनान्याक्रम्य संक्रीडते ।
इत्यालोकनकौतुकीव शिथिलस्वीयाधिकारश्रमो
भास्वानेष समग्रदीप्तिरधुना व्योमाग्रमारोहति ॥ ३.१.३० ॥


अपि च

उद्गायन्ति शरन्निशाकरकरस्तोमत्विषस्त्वद्गुणान्
क्रीडन्त्यो मलयाद्रिचन्दनलताकुञ्जे भुजङ्गाङ्गनाः ।
पीत्वा तत्तदुदीर्णवर्णगलितां प्रत्यग्रधारां सुधां
वाताहारतया प्रभूतमयशः प्रक्षालयन्त्यो निजम् ॥ ३.१.३१ ॥


इदानीं खलु

आघ्राय किरणान् भानोर्यजुरामोदमेदुरान् ।
यतन्ते कृतिनः सर्वे कर्तुं माध्याह्निकीं क्रियाम् ॥ ३.१.३२ ॥


राजा(आकर्ण्य, सर्वान् प्रति) साधयत यूयमभिमताचरणाय ।
अहमपि तावदभ्यन्तरं प्रविशामि ।

(इति यथोचितमुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे)

इति नाटकप्रकरणे कल्याणस्वप्नो नाम प्रथमोङ्कः ॥


____________________________________________________


(अथ द्वितीयोऽङ्कः)

नेपथ्ये) ।
इदो इदो अज्जो ।

( ।
इत इत आर्यः । )

(ततः प्रविशति वृद्धकञ्चुकी)

कञ्चुकी(सहर्षं) चिराय यौवनमतिशयानया चरितार्थया जरयानया संचरे ।
यया दीर्घायुषा

प्रतापरुद्रमहाभिषेकमनुभवितास्मि ।

एष मध्याह्नवर्णनया विच्छिन्नस्य प्रकृतार्थस्य पुनरवमर्शाद्बिन्दुः ।

अपि च

पदे पदे स्खलन्तं मां वाचा गत्याथ चेष्टया ।
अवलोक्य हसन्नास्ते स्वामी रुद्रनरेश्वरः ॥ ३.२.१ ॥


(सविमर्शाश्चर्यम्)

काकतीयनरेन्द्रस्य राज्यश्रीर्मूलवेश्मनः ।
युवराजगृहानद्य गवाक्षैः स्वैरमीक्षते ॥ ३.२.२ ॥


एष राज्यलक्ष्म्याः प्रतापरुद्रगताभिलापाद्विलासः ।

(पुरोऽवलोक्य)

कथमयं राजपुत्रपरिचारको दारकः ससंभ्रमं मामभिवर्तते ।

(प्रविश्य) दारकः ।
अय्य पणमामि ।

( ।
आर्थ प्रणमामि । )

कञ्चुकीभद्र कल्याणास्पदं भूयाः ।
किमनुमतं राजपुत्रस्य दिग्विजयप्रस्थानं रुद्रनरेश्वरेण ।

दारकःकहं कहं वि अणुभदम् ।

(अकथं कथमपि अनुमतम् । )

कञ्चुकीस्वनामानुगुणमिदं राजपुत्रस्य यत्सज्जीकृतसाधनं महाराजं सपादोपग्रहं निवार्य स्वयमेव जैत्रयात्रायामुत्तिष्ठते ।

दारकःअअय्य अणणुहूदजुझ्झपरिस्समो जुवराओ ।
दुक्खरो खु दिअंतजओ कहं भविस्सै ।

(अअआर्य, अननुभूतयुद्धपरिश्रमो युवराजः ।
दुष्करः खुलु दिगन्तजयः कथं भविष्यति । )

कञ्चुकीभद्र, निरङ्कुशाः स्वयंभूदेवप्रवृत्तयः ।
विष्णोरवतारः खल्वयं वीररुद्रोऽपि अचिन्त्यमहिमा ।

एष दृष्टनष्टबीजानुसरणरूपः परिसर्पः ।

अत्र स्वप्नवृत्तान्तख्यापनाल्लक्ष्यस्य दिग्विजययात्रोद्यमेनालक्ष्यस्य बीजस्योत्पादनादुद्भेद इति प्रतिमुखसंधिरयम् ।

दारकः ।
एव्वं एदम् ।
अमाणुसो खु सो पहावो ।

( ।
एवमेतत् ।
अमानुषः खलु स प्रभावः । )

कञ्चुकीकुत्रेदानीं राजपुत्रः ?

दारकःकाअईअकुलदुग्गादेवीसमाराहणेण विअअपत्थाणमंगलं काऊण तत्थ हणुमदअलपेरंतबहिरुज्जाणे णिवेसिअखंधावारो अमच्चपरिवुदो जुवराओ चिट्ठई ।
ता अणुजाणीहि मम तत्थ पत्थाणम् ।

(अकाकतीयकुलदुर्गादेवीसमाराधनेन विजयप्रस्थानमङ्गलं कृत्वा तत्र हनुमदचलपर्यन्तबहिरुद्याने निवेशितस्कन्धावारः अमात्यपरिवृतो युवराजस्तिष्ठति ।
तदनुजानीहि मम तत्र प्रस्थानम् । )

कञ्चुकीभद्र ! साधय ।
अहमपि राजकुलं प्रविशामि ।

(इति यथोचितं परिक्रम्य निष्क्रान्तौ । )

इयं चूलिका ।

(ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणः परिजनश्च । )

प्रतापरुद्रः

किं राज्येन शमोन्मुखं रचयता तातं कुलालम्बनं
किं चास्मिन् समुदाहरन्ति महतो दोषान् बहून् सूरयः ।
धर्माध्वा च खिलीकृतोऽयमधुना कः संचरेदस्खलंस्
तन्नेष्टं किल यौवराज्यमपि मे बाल्योत्सवे क्रीडतः ॥ ३.२.३ ॥


तद्वयं महाराजभुजपरिघमसृणितेषु दिगन्तेषु विजययात्राविनोदेन विहरामहे ।

एतद्राज्येऽनिच्छाभिधानाद्विधूतम् ।

मन्त्रिणःराजपुत्र ! सर्वपथीनया काकतीयान्वयभाग्यसंपदा त्वां धुरंधुरं लब्ध्वा नरेन्द्रश्चिरमासक्तां धुरं शिथिलयितुमध्यवस्यति ।
आचारश्चायं काकतीश्वराणां यद्धौरेये पुत्रे शमोन्मुखत्वम् ।
कुलस्वामिना स्वयंभुवाप्येवमेवानुशिष्टम् ।
अनतिक्रमणीया राजपुत्रेण गुर्वोर्गरीयसी खल्वाज्ञा ।
कलिकालदोषशिथिलधर्मप्रतिष्ठां निर्वोढुं वोढुं च महतीं महीधुरमवतीर्णस्य काकतीयविष्णोस्तव न सांप्रतं प्रत्याख्यातुम् ।

प्रतापरुद्रः(सानुरोधं)

स्वयंभूस्तात इत्येतावीश्वरौ दिव्यमानुषौ ।
तयोरन्यतरो राजा युवराजोऽस्मि सर्वथा ॥ ३.२.४ ॥


मन्त्रिणःराजपुत्र ! साधारणोऽयं विनयः काकतीश्वराणां स्वयंभुवि महाराजे च ।

एष प्रकृतविषयारत्युपशमाच्छमः ।

परिजनः ।
काअईअकुलट्ठविरो तत्तभवंतो सअंभूदेवो धुरं धारेदु ।

राऔत्तो उण रज्जसिरिअं अंके आरोवेदु ।

(काकतीयकुलस्थविरस्तत्रभवान् स्वयंभूदेवो धुरं धारयतु ।
राजपुत्रः पुना राज्यश्रियमङ्के आरोपयतु । )

(प्रतापरुद्रः समन्दस्मितं परिजनमवलोकयति । )

एतत्परिहासवचोरूपं नर्म ।

परिजनःचिरेण चरिअत्था मेइणी संवुत्ता ।

(अचिरेण चरितार्था मेदिनी संवृत्ता ।

गोत्रगिरिशिखरनिष्ठुरविकटशिलावसतिबर्बराङ्ग्याः ।

क्षोण्या भवतु वासो बाहौ प्रतापरुद्रस्य ॥)॥


गोत्तगिरिसिहराणिठ्ठुरविअडसिलावसैबब्बरंगीए ।
खोणीए होदु वासो बाहुम्मि पआवरुद्दस्स ॥ ३.२.५ ॥


अजह हरिचंदस्स भुए जह रहुणाहस्स बाहुफलअम्मि ।
काऐलच्छीपैणो बाहुम्मि तहा मही रमदु ॥ ३.२.६ ॥


(अयथा हरिश्चन्द्रस्य भुजे यथा रघुनाथस्य बाहुफलके ।

काकतिलक्ष्मीपतेर्बाहौ तथा मही रमताम् ॥)॥


(प्रतापरुद्रः सबाहुस्फुरणमधोमुखस्तिष्ठति । )

एषा परिजनवचनोत्था प्रीतिर्नर्मद्युतिः ।

मन्त्रिणःराजपुत्र ! काकतीयपुरुषोत्तमस्य तव पाणिग्रहणाय स्पृहयन्ती राज्यलक्ष्मीर्विलम्बं न सहते ।

परिजनः ।

विज्जावहूणं अहिअं दठ्ठूण पैम्मि पणअविस्संभम् ।
खोणी लच्छी अ कहं विलंबिअं सहौ जुवराए ॥ ३.२.७ ॥



(विद्यावधूनामधिकं दृष्ट्रवा पत्यौ प्रणयविस्रम्भम् ।
क्षोणी लक्ष्मीश्च कथं विलम्बितं सहतां युवराजे) ॥ ॥


मन्त्रिणःित्थमेव ।

स्वतेजसा परिष्कृत्य प्रधानागारमुत्सुका ।
प्रतीक्षतेऽद्य राज्यश्रीर्युवराजसमागमम् ॥ ३.२.८ ॥


एष मन्त्रिणां परिजनस्य च वाक्यैर्बीजानुरागप्रकाशनात्प्रगमः ।

परिदृ ॥
कहं अंदरिओ खु एसो महूसओ दिसाविजअजत्ताए ।

( ॥
कथमन्तरितः खल्वेष महोत्सवो दिग्विजययात्रया । )

एतद्दिगन्तयात्रया प्रकृतकार्यविलम्बनान्निरोधः ।

मन्त्रिणः(सावज्ञं) कथं चिरयन्त्यन्ध्रचमूपतयः ।
अथवा किं तैः ॑ वयमपि न केवलं मन्त्रशस्त्राः, किंतु बहुशः समरापदानाराधितस्वामिन एव ।

एतन्निष्ठुरवचनरूपं वज्रम् ।

(प्रविश्य) दौवारिकः ।
जेदु जेदु जुअरोओ ।
एदे खु चमूपैणो पडिहारभूमिभाअम्मि सज्जीकिअचौरंगबला वट्टन्ति ।

( ।
जयतु जयतु युवराजः ।
एते खलु चमूपतयः प्रतीहारभूमिभागे सज्जीकृतचतुरङ्गबला वर्तन्ते । )

मन्त्रिणःचिरं भोः प्रवेशय ।

दौवारिकःतथा ।

(इति निष्क्रम्य सेनाधिपतिभिः सह पुनः प्रविष्टः । )

सेनापतयः(यथोचितं प्रणम्य) स्वामिन् काकतीयकुलतिलक ! सर्वतोमुखाटोपा वाहिन्यः शौर्योदन्वन्तं भवन्तमनुप्राप्ता एव ।
तदनुगृहयालुना कटाक्षेण निरीक्ष्यन्ताम् ।

एतदनुनयवचनरूपं पर्युपासनम् ।

मन्त्रिणःराजपुत्र ! तर्हि समारुह्यतां प्रतिपक्षनिवारणो वारणः ।
आलोक्यन्तां निरन्तरपरिपन्थिप्रमाथिन्यो वरूथिन्यः ।
प्रस्तूयतां सेनापुरःसराक्रान्तसकलसामन्तविजयस्थानं प्रस्थानम् ।

प्रतापरुद्रःयथाभिरुचितममात्येभ्यः ।

(इति गन्धगजाधिरोहणं नाटयति । )

मन्त्रिणः

करोदग्रेण महसा विष्वगाक्रमितुं दिशः ।
आरोहति गजं वीररुद्रो भास्वानिवोदयम् ॥ ३.२.९ ॥


एतत्प्रकृतानुगुण्येन विशेषबन्धवचनं पुष्पम् ।

(सर्वे युवराजहस्तिनं पुरस्कृत्य ससंबाधं किंचित्परिक्रामन्ति । )

सेनापतयः(सोत्साहप्रणामं) स्वामिन्नितो दीयतां दृष्टिः ।

धावत्पादातपादाहतिदलितमहीरन्ध्रनीरन्ध्रनिर्यद्
धूलीजालाम्बुदान्तर्विलसदसिलताविद्युदुद्दामदीप्ताः ।
उद्यन्निस्साणराणस्तनितपटपटद्दिक्तटाः प्रारभन्ते
प्रावृट्लक्ष्मीं ध्वजिन्यः करिकरटतटस्यन्दिदानाम्बुधाराः ॥ ३.२.१० ॥


(अन्यतो निरूप्य)

बले चलति संभ्रमप्रतिभये विजेतुं दिशः
पुरन्दरहरिज्जयव्यवसिताः सहायोद्धताः ।
चलन्ति चिरमत्सराः शिखरिणो यथा दन्तिनो
भरावनमदुन्नमद्भुजगराजफक्कत्फणाः ॥ ३.२.११ ॥


परिजनः(विलोक्य साश्चर्यं) ।
महंतो खु एसो तिलिङ्गसुभडाणं उस्साहो ।

( ।
महान् खल्वेष त्रिलिङ्गसुभटानामुत्साहः । )

(संस्कृतमाश्रित्य)

उद्यत्तोमरडामराः प्रतिपदप्रोत्क्षिप्तकौक्षेयकाः
स्वैरोद्गीर्णभुसुण्ढयः पटुतराकृष्टध्वनत्कार्मुकाः ।
भ्राम्यद्भीमगदाः समग्रविहरत्प्रासाः स्फुरत्पट्टसाः
खेलन्त्यन्ध्रचमूभटाः सवपुषो रौद्रप्रकारा इव ॥ ३.२.१२ ॥


मन्त्रिणःहो तुरङ्गतरङ्गास्त्रिलिङ्गाधिपतेः ।

उत्क्षिप्योत्क्षिप्य पादौ रवितुरगशिरस्ताडनायेव पूर्वौ
पाश्चात्त्याभ्यां पदाभ्यामपि धरणिमवष्टभ्य संरब्धनुन्नाम् ।
वालैर्व्याधूयमानैः प्रतिनृपतिहयोत्साहमुन्मार्जयन्तः
क्रामन्त्यश्वाः सहेलक्रमणपरिणमत्पञ्चधाराप्रपञ्चाः ॥ ३.२.१३ ॥


(विलोक्य) अहो विदलितपरबलमनोरथानां रथानां सभ्रंमः ।

तथा हि

रथाः सरभसं भ्रमन्निबिडहेमनेमिक्षत
क्षमातलसमुच्चलद्बहुलधूलिजालाम्बुदैः ।
तिरोहितमसूयया सपदि भानवीयं रथं
विधाय मुखरीभवन्त्यनिभृताक्षधूर्निस्वनाः ॥ ३.२.१४ ॥


प्रतापरुद्रः(सर्वतोऽवलोक्य सप्रमोदं) कथं समग्रसाधनानि सैन्यानि ।

बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुलाः ।
संक्रीडत्स्यन्दनाः क्ष्वेडसुभटाः सैन्यसंपदः ॥ ३.२.१५ ॥


मन्त्रिणःयुवराजालोकनादुद्वेलः सैन्यसागरो वर्तते ।

अभ्यापतन्तीरभितो महीभृद्वाहिनीर्बहूः ।
काकतीयबलाम्भोधिरेष स्वैरं ग्रसिष्यते ॥ ३.२.१६ ॥


सेनापतयःयदादिशन्त्यमात्याः ।
(इति सप्रणामं) विजययात्राकुतूहलिन्यो ध्वजिन्यः सांप्रतं युवराजस्याज्ञां प्रतिपालयन्ति ।

(प्रतापरुद्रः सप्रसादममात्यानालोकयति । )

मन्त्रिणः(सोत्साहं) प्रतिष्ठन्तां प्राचीं प्रति सैन्यानि ।

सेनापतयःयथाऽदिशन्त्यमात्याः ।

(इति प्रस्थाननाटितकेन समन्तादवलोक्य सहर्षातिशयम्)

पवनेनानुकूलेन प्रसारितपटाञ्चलाः ।
उद्युञ्जन्त इवाक्रष्टुं ध्वजाः सौत्रामणीं दिशम् ॥ ३.२.१७ ॥


(सर्वे शकुनमभिनन्दन्ति । )

एष प्रस्थानानुगुणशकुनगुणकथनादुपन्यासः ।

प्रतापरुद्रः(पुरोऽवलोक्य) कथं कराभ्यामुत्क्षिप्तसाक्षतकनकपात्रः समागत एव विप्रवरः ।

विप्रः(सविनयमग्रतः स्थित्वा प्राध्वं दक्षिणभुजमुद्यम्य) विजयतां विजयतां वीररुद्रः ।
राजपुत्र ! स्वयंभूदेवमहोत्सवाद्यनन्तरं महीसुरवराशीर्वादवासिताः काकतीयमहाराजेन प्रेषिताः खल्विमे मङ्गलाक्षताः ।

प्रतापदृ(सप्रणामादरं गृहीत्वा तान्निजोत्तमाङ्गे गजमूर्धनि च निधाय)

अमूलात्फलिता प्रसत्तिलतिका पत्युः स्वयंभूप्रभोर्
आज्ञा क्षत्रियमौलिमण्डनमणेस्तातस्य सानुग्रहा ।
विप्राशीर्वचनानि मन्त्रसुरभीण्याकाङ्क्षितान्यन्वहं
पौराणां च जयोत्तराणि तदमूरीषज्जयाः स्युर्दिशः ॥ ३.२.१८ ॥


एष ब्राह्मणक्षत्रियादिवर्णकीर्तनाद्वर्णसंहारः ।

मन्त्रिणःराजपुत्र ! स्वभावनिरर्गलस्य तव भुजार्गलयोरोजायितस्य कियती भूतलविजयविडम्बना ।

परिजनः ।
विअअलच्छीपाणिग्गहणसमअदिण्णा विअ मङ्गलख्खदा जुवराअस्स सीसे दीसंदि ।

( । विजयलक्ष्मीपाणिग्रहणसमयदत्ता इव मङ्गलाक्षता युवराजस्य शीर्षे दृश्यन्ते । )

विप्रःराजपुत्र ! तत्तद्दिग्विजययात्रावार्ताहारिणः पुरुषा नातिचिरादेव प्रेषणीया इति महाराजस्याज्ञा ।

प्रतापरुद्रःशिरसि कृतस्तातस्य नियोगः ।
(अमात्यान् प्रति) कतिचन यूयं काकतीश्वरसेवार्थं निवर्तध्वम् ।
कतिपये विजययात्रापराः प्रवर्तध्वम् ।

अमात्याः(सप्रणामं) यदाज्ञापयति युवराजः ।

विप्रःस्वस्ति विजयाय शिवाः पन्थानः सन्तु राजपुत्राय ।

प्रतापरुद्रः(सप्रश्रयं) भगवन्ननुजानीहि ।
वयमितः प्रतिष्ठामहे ।

(इति यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । )
॥ इति विजययात्राविलासो नाम द्वितीयोऽङ्कः ॥


_______

(अथ तृतीयोऽङ्कः)

(ततः प्रविशतो लेखहस्तौ जाङ्घिकौ । )

एतत्पूर्वाङ्कान्तपात्रेण विप्रेण निर्दिष्टयोः पात्रयोरुत्तराङ्के प्रवेशादङ्कास्यम् ।

प्रथमः(सानुसंधानाश्चर्यं) अहो प्रतापरुद्रस्य महिमानुभावः, यस्य विजययात्रासंभ्रमेणैव व्याकुलीकृतानि द्वयेषामपि भूभृतां कटकानि ।

द्वितीयःवयस्य, किमुच्यते
काकतीयप्रदीपोऽयमंशश्चातुर्भुजः स्वयम् ।
यद्वज्रकवचायन्ते प्रसादाश्च स्वयंभुवः ॥ ३.३.१ ॥


एष स्वयंभूदेवप्रसादरूपस्य बीजस्यान्वेषणाद्गर्भसन्धिः ।

प्रथमः(अध्वक्लममभिनीय पुरोऽवलोक्य) प्राप्तेयमन्ध्रनगरी ।
(किंचित्प्रवेशनाटितकेन समन्ततो निरूप्य) अहो ! निरतिशयमौदार्यं रुद्रनरेश्वरस्य ।
यदेते वैतालिकाः सर्वातो भोगावलीप्रमुखांश्चाटुप्रबन्धानुच्चैः पठन्तः स्वभावरमणीयाः प्रतिरवेण पाठयन्ति च ककुभः ।

द्वितीयः(सम्यङ्निर्वण्य सप्रत्यभिज्ञाऽश्चर्यमपवार्य) सखे ! पश्य पश्य ।

सम्यङ्मागधवेषधारणतिरोभूता अपि क्षमाभुजः
सूच्यन्ते प्रभुतारहस्यपिशुनैराविष्कृतैलक्षणैः ।
हस्ताग्रैर्ध्वजचक्रलाञ्छिनतलैर्वक्षः स्थलैर्विस्तृतैर्
आकाररैमनुष्यमात्रसुलभैर्वृत्तैरनीचैरपि ॥ ३.३.२ ॥


प्रथमःनूनमेते प्रतापरुद्रसमरपराङ्मुखा वक्षः स्थलविरचितवराहलक्ष्माणः प्राणत्राणार्थमनया रीत्या काकतीयमहाराजं प्रसादयितुमध्यवस्यन्तीति तर्कयामि ।

एतत्प्रस्तुतोपयोगिप्रतिराजच्छद्माचरणादभूताहरणम् ।
जाङ्घिकेन पुनस्तैस्तैर्लक्षणैर्नरेश्वराभ्यूहनादनुमानं च ।

द्वितीयःहो ! विजययात्राश्रवणकुतूहलिता पौराणाम्, यदावामनुसरन्ति पुनः पुनः प्रश्रमालया ।
तत्सखे ! प्रकाश्यतां प्रतापरुद्रस्य भुजयोर्विजयोदाहरणम् ।

प्रथमः(किंचिदुच्चैः) भो भोः ! श्रूयतां काकतीयकुलश्लाघाकामधेनुः प्रियोदन्तः ।

जेत्रा काकतिवीररुद्रविभुना सर्वा दिशो निर्जिताः
क्ष्मापालाः करदीकृताः कृतमिदं निर्वीरमुर्वीतलम् ।
यस्योद्यद्भुजवैभवं सरभसारोहद्द्विषत्कामिनी
मञ्जीरध्वनिपूर्णकन्दरमुखैर्व्याकुर्वते पर्वताः ॥ ३.३.३ ॥


एष तत्त्वानुकीर्तनरूपो मार्गः ।

द्वितीयःसखे ! नूनमेषु दिवसेषु काकतीयमहाराजो निरन्तरं पुरस्कृतपुरोधः प्रवरामात्यवृद्धो युवराजविजयमाशंसमानो गमयति वासराणि ।

प्रथमःुचितमनुचिन्तितं वयस्येन ।

द्वितीयः(पुरोऽवलोक्य सहर्षं) कथमस्मदीयं वचनमाकर्ण्य नूनं महाराजाय निवेदयितुममात्यपुत्रः सहर्षसंभ्रमं राजकुलाभ्यन्तरं प्रविशति ।
तदावामपि प्रतीहारभूमिमध्यास्य काकतीश्वरावसरं प्रतिपालयिष्यावः ।
(इति

परिक्रामतः । )

एतद्वितर्कप्रतिपादनाद्रूपम् ।

(ततः प्रविशत्यमात्यपुत्रः । )

अमात्यपुत्रः(सप्रमोदं) अहो मम धन्यता, यदीदृशानां महोत्सवानां निवेदयितास्मि संवृत्तः ।
यन्मया विज्ञापितैः श्रवणप्रियंकरणैर्वार्तामृतैः स्वप्नसाक्षात्कृतादपि स्वयंभूदेवप्रसादात्प्रमोदयिष्यते काकतीयवृषा ।

एषोत्कर्षवचनरूपोदाहृतिः ।

(पुरोऽवलोक्य) कथमयं महाराजः पुरोहितैरमात्यैरन्येन परिजनेन च परिवृतो महास्थानमण्टपमधितिष्ठति ।
तदहमुपसर्पामि ।
(इति परिक्रामति । )

(ततः प्रविशति यथानिर्दिष्टो राजा, मन्त्रिणश्च पुरोधसश्च । )

राजा(सविमर्शाश्चर्यममात्यान् प्रति)अहो शैशवेऽप्युचितकारित्वं वत्सस्य वीररुद्रस्य ।
यदस्मदनुरोधार्थमिमानमात्यान्निवर्त्य स्वयमेव जिगीषुः प्रस्थितः ।

मन्त्रिणः(सबहुमानं) महाराज ! भवता खलु पितृमान् कुमारः ।

पुरोधसःविजयप्रस्थानात्प्रभृति नक्तंदिवमुन्मिषन्ति कल्याणानि ।
तद्विजिता एव दिशो राजपुत्रेण ।

राजाभवतामाशिष एव काकतीयकुलश्रेयांसि स्वयं प्रदुहते ।

परिजनः ।
काअईअकुलस्स किं णु ण संपुण्णं पुण्णेण, जस्सिं अवैण्णो भुवणेक्कभद्दो पआवरुद्दो ।

(काकतीयकुलस्य किं नु संपूर्णं पुण्येन, यस्मिन्नवतीर्णो भुवनैकभद्रः प्रतापरुद्रः । )

राजा(सौत्सुक्यं) कथं चिरयति वत्सस्य विजययात्राश्रवणमहोत्सवः ?

अमात्यपुत्रः(सविनयसंभ्रममुपसृत्य सप्रणामं देव मध्यमलोकपाल ! युवराजप्रष्रेतौ विजयवार्ताहारिणौ प्रघाणप्राङ्गणमधिवसतः ।

एष संचिन्त्यमानार्थप्राप्तिरूपः क्रमः ।

(सर्वे सहर्षातिशयं निरूपयन्ति । )

मन्त्रिणःभद्र ! शीघ्रं प्रवेशय ।

अमात्यपुत्रःयदादिशन्ति महामन्त्रिणः ।

(इति निष्क्रम्य सह ताभ्यां पुनः प्रविष्टः । )

पुरुषौ(प्रणमन्तावुपसृत्य) देव ! विश्वैकविजयिना पुत्रेण वर्धसे ।
बाढमप्रमेयमहिमा प्रतापरुद्रभुजस्थेमा, यच्छैशवेऽप्यतिशयिततरुणकाकतीयपराक्रमस्तस्य विक्रमः ।

राजा(सहर्षातिशयममात्यानवलोक्य) मनोरथाभ्यामिव चिन्तितोपगताभ्यां महार्घं पारितोषिकं प्रतिपाद्यताम् ।

द्विगुणीकृतहर्षयोरनयोर्मुखाद्वत्सस्य विजयलक्ष्मीपरिग्रहवृत्तान्तश्रवणमहोत्सवेन चरितार्थयामः श्रोत्रवृत्तिम् ।

मन्त्रिणःयदाज्ञापयति देवः ।
(इति भौरिकमुखात्तथा कुर्वन्ति)

एष सामदानाचरणरूपः संग्रहः ।

(पुरुषौ सप्रणामं गृहीत्वा मूर्ध्नि निधाय महाराजप्रसादमभिनन्दतः । )

मन्त्रिणःभद्रावित एत्य युवराजविजयविहृतयः पराक्रमपल्लविता महाराजसदसः कर्णपूरीक्रियन्ताम् ।

पुरुषौसावधानमवधारयतु महाराजः ।

प्रथमःदेव ! देवस्य प्रसादेन वाजिनीराजनासमिध्यमानस्य वीतिहोत्रस्य विजयप्रदानेन द्विगुणितोदग्रप्रतापे प्रतापरुद्रे प्रतिष्ठामाने,

यात्रारम्भमहेष्वहंप्रथमिकानिर्यच्चमूडम्बर
क्षुण्णक्षोणितलोत्थितेऽतिबहुले पांसौ वियद्व्यापिनि ।
जेतव्याः सकला दिशः स्वविभुतामन्तः पिधायाधिक
त्रासात्क्वापि पलायिता इव दृशां नैवाभवन् गोचराः ॥ ३.३.४ ॥


अनन्तरं च

उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो
नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः ।
इत्याटोपपटीयसीषु परितो धाटीषु भारानम
च्छेषाशेषफणासु विस्मितमथ त्रस्तं दिगीशैरपि ॥ ३.३.५ ॥


पुरोधसःहो निरङ्कुशमोजायितमन्ध्रचमूपतीनाम् ।

द्वितीयःथ युवराजाज्ञया प्रथमं माघवनीं दिशं प्रचलितानि सैन्यानि ।

रथेनाभिमुख्यातं वीररुद्रो विलोक्य माम् ।
मृष्यते नायमित्यर्कः सैन्यरेणौ तिरोहितः ॥ ३.३.६ ॥


मन्त्रिणःततस्ततः ।

द्वितीयःनन्तरं सेनाग्रगैरेव पौरस्त्यान् क्षुद्रक्षत्रियान्निर्जित्य सर्वपथीनेनाटोपेन पटीयसि तस्मिन्महति बले प्रचलति,

युद्धाय समनह्यन्त कलिङ्गाः स्फुटपौरुषाः ।
माद्यद्द्विपघटोद्दामसंभ्रमाडम्बरोद्धताः ॥ ३.३.७ ॥


तैः सार्धमन्ध्रचमूपतीनां पराक्रमधने महत्यायोधने,

पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां
मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः सृष्टदंष्ट्रः ।
बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः
संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खङ्गः ॥ ३.३.८ ॥


पुरोधसःमानुषवेषतिरोहितेनापि काकतीयविष्णुना किंचिदाविष्कृतो निजप्रभावः ।

मन्त्रिणः(सहर्षातिशयाद्भुतं) अहो पराक्रमातिभूमिः प्रतापरुद्रस्य ।

परिजनः ।
सरिसं खु एदं, जं महाराअरुद्दणरेसरणंदणेण कादव्वं, जं काऐकुलप्पसवाणं खमं, जं कुलदेवदाए सअंभूदेवस्स प्पसत्तिविसेसाणं जुत्तं, तं खु किअं जुवराएण ।

( ।
सदृशं खल्वेतत्यन्महाराजरुद्रनरेश्वरनन्दनेन कर्तव्यं, यत्काकतिकुलप्रसवानां क्षमं, यत्कुलदेवतायाः स्वयंभूदेवस्य प्रसत्तिविशेषाणां युक्तं, तत्खलु कृतं युवराजेन । )

राजा(सप्रमोदगद्गदं) ततस्ततः ।

प्रथमःनन्तरम्

छिन्नोद्यद्वैरिवीरप्रतिभयमुकुटाटोपसंजातराहु
भ्रान्तिभ्रश्यत्पतङ्गाभयकरपृतनारेणुबद्धान्धकारा ।
आसीत्संग्रामवेला विहरदसिलतोद्भिन्नमत्तेभकुम्भ
प्रोद्यन्मुक्तौघतारानिकरपरिवृतस्वर्वधूवक्त्रचन्द्रा ॥ ३.३.९ ॥


अनन्तरं युवराजाज्ञया

वृत्रारातिदिगन्तरालविजयप्रख्यातविक्रान्तयः
पारेपूर्वपयोधि कल्पितजयस्तम्भाः स्फुरत्तेजसः ।
वेलाकाननवासिगीतविभवं देवस्य दोर्विक्रमं
शृण्वन्तो मुहुरन्ध्रसैन्यपतयः प्राप्ता दिशं दक्षिणाम् ॥ ३.३.१० ॥


तत्र च

मुनौ लोपामुद्रासुहृदि निकटस्थेऽपि महता
भवन्त्येता नद्यः कलुषपयसः सैन्यरजसा ।
इतीव व्योमाग्रे कलयपवनान्दोलितशिखाः
पताकाः सोत्प्रासाः प्रतिपदमनृत्यन्नतितराम् ॥ ३.३.११ ॥


अनन्तरं पाण्ड्यप्रमुखान् दाक्षिणात्यान् क्षितीश्वरान् शरणमुपगतान् काकतीयवीररुद्रः स्वचमूपतिनिर्विशेषं संभाव्य तैः सह प्रतीचीं दिशं प्रचलितः ।

मन्त्रिणःसाधु साधु समाचरितमात्मनीनं पाण्ड्यैर्यत्पूर्वमेव देवस्य चरणमूलं प्राप्ताः ।
ततस्ततः ।

द्वितीयःतत्र च

पाश्चात्त्यानां ध्वजेषु स्थितमधिकभरस्रस्तदण्डेषु गृध्र
व्रातैर्यच्चण्डतुण्डाहतिविहतपटेष्वाहतक्षिप्तपक्षैः ।
अस्त्रं गारुत्मतं तत्समजनि विजयप्रार्थिनामन्ध्रसैन्य
प्रष्ठानां जन्यमन्यन्निजनिबिडभुजादण्डकण्डूविडम्बः ॥ ३.३.१२ ॥


अनन्तरं

जित्वा प्रतीचीमथ वीररुद्रः प्रत्यर्थिनारीनयनाम्बुपूर्णाम् ।
रेवां समुत्तीर्य गजानुबद्धसेतुं विजेतुं गतवानुदीचीम् ॥ ३.३.१३ ॥


तत्राङ्गवङ्गकलिङ्गमालवप्रभृतयः सर्वे भूपाला मिलित्वा युद्धाय बद्धादराः पुरतः प्रादुरभवन् ।

मन्त्रिणःहो परमनात्मवेदितोदीच्यानां यत्प्रतापरुद्रस्यापि परिपन्थिनो भवन्ति ।

राजाततस्ततः ।

प्रथमःनन्तरं सममनीकिनीभिरापतन्तीभिः राजकानि विलोक्य सगर्वमेवमुक्तं सेनापतिभिः

रे रे घूर्जर जर्जरोऽसि समरे लम्पाक ! किं कम्पसे
वङ्ग ! त्वङ्गसि किं मुधा बलरजः काणोऽसि किं कोङ्कण ! ।
प्राणत्राणपरायणो भव महाराष्ट्रापराष्ट्रोऽस्यमी
योद्धारो वयमित्यरीनभिभवन्त्यन्ध्रक्षमाभृद्भटाः ॥ ३.३.१४ ॥

(।’वयमन्ध्रनाथसुभटाः प्रत्यर्थिदावानलाःऽ इति पाठान्तरम् ॥)॥
एतद्रोषसंरब्धवचनरूपं तोटकम् ।
परिजनः ॥
साहु साहु चमूवरिणं वअणम् ।
एव्वं फणिआ उण कीरिसं उवक्कंदं तेहिम् ।
(॥साधु साधु चमूपतीनां वचनम् ।
एतत्भणित्त्वा पुनः कीदृशमुपक्रान्तं तैः ।)

प्रथमः
किं कथ्यते ? सैनिकानां निरुपमः पराक्रमः ।

यस्तत्राभवदाहवस्तमखिलं जानाति भागीरथी
यात्याक्षीत्सुरभूयकारणनिजाहंकारमुच्छृङ्खलम् ।
आराद्वीक्ष्य समग्रमन्ध्रसुभटप्रोद्घूर्णखड्रगावली
धारातीर्थमुपेत्य दिव्यनगरीमारोहतो भूपतीन् ॥ ३.३.१५ ॥

अनन्तरं तत्र तत्र प्रलीनात्मनः प्रतिपक्षमूलानन्वेष्टुकामास्त्रिलिङ्गसैनिकास्तत्तद्देशवेषभाषादिकमाविष्कुर्वाणाः सर्वतः पर्यटन्ति स्म ।
जीवग्राहं गृहीत्वा समानयन्ति स्म युवराजान्तिकम् ।
मन्त्रिणःसाधीयान् खलु सैनिकानामुद्यमः ।
एतत्प्रकृतोपयोगित्वेन वञ्चनादधिबलम् ।
राजाततस्ततः ।
द्वितीयःनन्तरं नरपतयो निजपरिजनेष्वप्यकृतविश्वासाः प्रतापरुद्रस्य पादमूलमेव शरणमुपगताः ।
परिजनः ।
अहो णरवरिणं जुज्झकाअरत्तणम् ।

( । अहो नरपतीनां युद्धकातरत्वम् । )

एष भयप्रतिपादनादुद्वेगः ।
प्रथमःकिमुच्यते कातर्यमिति ।

अङ्गाः संगरभीरवः समभवंश्चोलाः पलायाकुलाः
काश्मीराः स्मरणीयविक्रमकथा हूणा निरीणश्रियः ।
लम्पाका भयकम्पमानवपुषो वङ्गा निरङ्गीकृता
नेपालाः परिपालनव्यसनिनः सुह्माश्च नीरंहसः ॥ ३.३.१६ ॥

(अ’प्रलापाकुलाःऽ इति पाठान्तरम् ॥)

अपि च

काम्भोजाः क्षतकुम्भिनीपरिचयाः प्राप्तव्रणाः सेवणाः
गौडाः पीडितविग्रहाः श्रितकुलग्रावाङ्कणाः कोङ्कणाः ।
लाटाः पाटितमूर्तयः परिलस(गल) द्भीविह्वलाः सिंहलाः
कर्णाटाः परिपूर्णवेपथुभृतस्तन्द्रालवो मालवाः ॥ ३.३.१७ ॥

किं च

भोजा व्यर्थभुजायुधाः क्षतनिजस्त्रीकेलयः केरलाः
पाण्ड्याः खण्डितविक्रमाः प्रकटितह्रीजर्जरा घूर्जराः ।
पाञ्चालाः प्रणतिप्रपञ्चितभियश्चाटूत्कटाः कीकटाः
काम्पिल्याः श्रितपल्लयः कृतयशोभङ्गाः कलिङ्गा अपि ॥ ३.३.१८ ॥
(सर्वे हर्षातिशयं नाटयन्ति ।)
परिजनः(साश्चर्यं) ।
अहो वीररुद्दस्स ऐसैदतिहुवणाइ जुज्झावदाणाइ ।
(। अहो वीररुद्रस्यातिशयितत्रिभुवनानि युद्धापदानानि ।)

राजा(सहर्षं) महतीं प्रतिष्ठामारोपितं खलु काकतीयकुलं विश्वैकविजयिना वत्सेन ।
पुरोधसःामूलचूडं फलिताः प्रसत्तयः काकतीयान्वयदेवतानाम् ।
राजाततस्ततः ।
प्रथमःनन्तरं सकलदिग्विजयसमुत्तेजितेजोविलासः सर्वनरेश्वराणां तानि तान्युपायनानि स्वीकृत्य समग्रसैन्यैः सपक्षैर्महीभृद्गणैराश्रितेन महता बलार्णवेन न्यवर्तत विश्वैकवीरो वीररुद्रः ।

मन्त्रिणः(सहर्षं) कुत्रेदानीं राजपुत्रः ? द्वितीयःसाम्प्रतं किंकुर्वाणराजलोकः सर्वानपि सेनापतीन्नगरं प्रस्थाप्य कतिपयमौलपरिवृतः काकतीयवीरः स्वैरं गोदावरीपरिसरारण्येषु मृगयाकुतूहली विहरते ।
मन्त्रिणः(सविमर्शं) महाराज ! नूनं त्वय्येव शासति वसुमतीं यौवराज्यमेव बहुमन्यते राजपुत्रः ।
एषा प्राप्त्याशा ।
दिग्विजयाकृष्टनरेश्वरवृत्तान्तस्य व्यापित्वात्पताका निरूपिता ।
राजातदचिरमेव युष्माभिरानेतव्यो वत्सः, अनुनेतव्यश्चराज्याभिषेकाय ।
मन्त्रिणःयदाज्ञापयति देवः ।
(इति निष्क्रान्ताः । ) नेपथ्ये(ससंभ्रमं) भो भो नागरिकाः ! सत्वरमपसरत दूरम् ।

यदिदानीम्

आलानं तरसा निपाट्य निगलान्युच्छिद्य धूताङ्कुशो
वेगोत्पातितधूर्गतः कटतटीनिर्यन्मदाम्बुस्रुतिः ।
भ्रश्यत्पण्यपथं चलद्गजहयं बिभ्यज्जनौघं पुरं
विष्वग्व्याकुलयत्यमन्दरभसः स्वैरं करिग्रामणीः ॥ ३.३.१९ ॥

एष शङ्कात्रासरूपः संभ्रमः ।
राजा(आकर्ण्य सस्मितं) कथं व्याकुलयति कटकं करीन्द्रः ।
पुरुषःमहाराज ! नूनमिदानीं नगरं प्रविशतां नरेश्वरोपायनानां द्विपानां गन्धानिलाय संक्रु ध्यन्निरर्गलो जातः प्रधानहस्ती ।
पुरोधसः

पित्रा स्वयंभूपतिनोपदिष्टं प्रतापरुद्रस्य महाभिषेकम् ।
निर्विघ्नमापादयितुं गजास्यः करेणुराजाकृतिरभ्युपैति ॥ ३.३.२० ॥

एष गर्भबीजोद्भेदनादाक्षेपः ।
राजा(सहर्षं) तर्हि वयमपि प्रमदवनद्वारप्रासादमारुह्य गजेन्द्रमवलोकयिष्यामः ।
(इयुत्थाय परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥

इति वीररुद्रविजयो नाम तृतीयोऽङ्कः ॥




॥ अथ चतुर्थोऽङ्कः ॥

(ततः प्रविशति धात्री चेटी च । ) धात्री(सरोषं) ।

हंजे एआरिससहस्सकज्जपज्जाउले राऔलमहूसवे वि सअला वि रअणी केण सम तुए णीदार् ।
इरिसमहग्घाइ भूसणाइ कुदो चोरिआइ ।
कहं ण विण्णादं तुए दासीएउत्तीएसअला दिसो जेऊण चौरंतसामंतपरिवारो पआवरुद्दो णअरं पविठ्ठो ।
कुंलदेवदाए पसत्तीए महाराअस्स अण्णाए पुरोहिदाणं अणुरोहेण अमच्चाणं अणुवट्टणेण पआणं भाअहेएए खोणीए तवोविसेसेण अंहारिसस्स परिअणस्स सुकअपरिपाएण अब्भुपगअमहारज्जाहिसेओ जुवराओ संजाओ ।
एव्वं वि एआइणिं मं महूसवाउलिअं मोत्तूण कहिं ठिदा ।

( ।हञ्जे एतादृशसहस्रकार्यपर्याकुले राजकुलमहोत्सवेऽपि सकलापि रजनी केन समं त्वया नीतार्? इदृशमहार्घाणि भूषणानि कुतश्चोरितानि ? कथं न विज्ञातं त्वया दास्याः पुत्र्यासकला दिशो जित्वा चतुरन्तसामन्तपरिवारः प्रतापरुद्रो नगरं प्रविष्टः ।
कुलदेवतायाः प्रसत्त्या महाराजस्याज्ञया पुरोहितानामनुरोधेनामात्यानामनुवर्तनेन प्रजानां भागधेयेन क्षोण्यास्तपोविशेषेणास्मादृशस्य परिजनस्य सुकृतपरिपाकेणाभ्युपगतमहाराज्याभिषेको युवराजः संजातः ।
एवमप्येकाकिनीं मां महोत्सवाकुलितां मुक्त्वा कुत्र स्थिता ?) अनेन रोषवशान्नियताप्तिप्रदर्शनमुखेन बीजस्यावमर्शाद्विमर्शसन्धिः ।
चेटीगतदोषप्रख्यापनादपवादोऽङ्गम् ।
चेटी ॥
सामिणि ! अवराहं सहस्स ।

(इति पादयोः पतति । )
( ॥ स्वामिनि ! अपराधं सहस्व ।)
धात्री(सभ्रूभङ्गं) अ दासीएउत्ति, पटंचलेण सप्पदंसणं पडिमज्जेसि जं पणामेणरिरिसापराहं सिढिलेसि ।
(अ दास्याः पुत्रि ! पटाञ्चलेन सर्पदंशनं परिमर्जयसियत्प्रणामेनेदृशापराधं शिथिलयसि ।
एष रोषसंभाषणरूपः संफेटः ।
चेटीर् ।
इरिससहावा एव्व तुमम् ।
ता णिक्कारणकोविणिं होदिं अमुवट्टिउं अहं ण पज्जत्तार् ।
( । इदृशस्वभावैव त्वम् ।
तत्निष्कारणकोपिनीं भवतीमनुवर्तितुमहं न पर्याप्ता ।)

धात्री(सरोषशिरः कम्पं) ॥
वक्कसीलदुल्ललिए ! लूणकण्णासिअं तुमं बन्धिऊण काराघरभाअणं करेमि ।
( ॥ वक्रशीलदुर्ललिते ! लूनकर्णनासिक त्त्वां बद्ध्रवा कारागृहभाजनं करोमि ॥)॥
(इति बाहुबन्धनं नाट्यति । ) एष बन्धनरूपो विद्रवः ।
चेटी(सभयकम्पं) अ सामिणि ! रक्खोहि रक्खेहि असरणं णिरवराह इमं जणम् ।
तुह अत्तिआए हिडिंबस्समं गच्छतीए अहं बलक्कारेण णीदा ।
तद्ध पडिऊलं देव्वं पसादअंतीए विलंबिदम् ।
किं करेमि ।
(अ स्वामिनि ! रक्ष रक्ष अशरणं निरपराधमिमं जनम् ।
तवात्तिकया हिडिम्बाश्रमं गच्छन्त्याहं बलात्कारेण नीता ।
तत्र प्रतिकूलं दैवं प्रसादयन्त्या विलम्बितम् ।
किं करोमि ?)

धात्री(सरोषहुङ्कारं)
अअ एआरिसं राऔलमहूसवं उज्झिअ हिडिंबालअगंडसेलेसु किं त्ति मत्तअं ताडिस्सै मंदभाइणी ?
(अअ एतादृशं राजकुलमहोत्सवमुज्झित्वा हिडिम्बालयगण्डशैलेषु किमिति मस्तकं ताडयिष्यति मन्दभागिनी । )

एष गुरुतिरस्कृतिरूपो द्रवः ।
चेटीदृ सामिणि ! सहेहि विलंबिअम् ।
तुए कादव्वं मंगलोवआरं सिग्घं णिव्वट्टेमि ।
(इति वपुषा प्रणमति । ) (दृ स्वामिनि ! सहस्व विलम्बितम् ।
त्वया कर्तव्यं मङ्गलोपचारं शीघ्रं निर्वर्तयामि । ) धात्री(सप्रसादं) ।
हंजे ! उठ्ठेहि उट्ठेहि ।
( । सखि ! उत्तिष्ठ उत्तिष्ठ । )
एषा विरोधशमनरूपा शक्तिः ।
चेटी(सहर्षमुत्थाय हस्तावलम्बं दत्त्वा) अ इदो इदो तत्तहोदी ।
(अ इत इतस्तत्रभवती । )
धात्री(किंचित्परिक्रम्य पुरोऽवलोक्य च) अअ कहं एसो पडिहारप्पवरो ससंभमं णिग्गओ ।
ता पच्चासण्णो विअ महाहिसेअसमओ ।
तेण राऔत्तस्स मंगलणीराअणदीवरिंछ्छोलिं णिव्वट्टेदुं अब्भंतरं पविसह्म ।

(अअ कथमेष प्रतीहारप्रवरः ससंभ्रमं निर्गतः ।
तत्प्रत्यासन्न इव महाभिषेकसमयः ।
तेन राजपुत्रस्य मङ्गलनीराजनदीपरिञ्छोलिं निर्वर्तयितुमभ्यन्तरं प्रविशावः । ) (इति निष्क्रान्ते । ) प्रवेशकः ।
(ततः प्रविशति प्रतीहारः
 । ) प्रतीहारः(साटोपं परिक्रम्य द्वारि नरपतिकुलकलकलमसहमानः सावमानं कनकवेत्रलतामुद्यम्य) रे रे नरेश्वराः !

दन्तिव्यूहमुपायतीकृतममुं कुर्वन्तु पुर्या बहिर्
यस्योद्यद्घनबृंहितैर्न घटिकाघण्टाध्वनिः श्रूयते ।
दूरे चास्तु रथाश्वमेतदखिलं यस्यातिसंदर्दतो
निष्क्रामत्प्रविशच्च नागरकुलं न स्वैरमाचेष्टते ॥ ३.४.१ ॥

एषा तर्जनोद्वेजनरूपा द्युतिः ।
(किंचिदुच्चैः) भो भो कुलामात्यवृद्धाः प्रधानाधिकारिणः परिजनाः पौराश्च संशृणुध्वम् ।
एषा रुद्रदेवस्याज्ञा ।
यथा किल

पूर्वैः काकतिवंशजैर्नृपतिभिः सम्यग्धृता या चिरं
यस्या मानुषशम्भुना गणपतिक्षोणीभुजाभूत्प्रथा ।
येयं मद्भुजया कुलाद्रिवसतिं विस्मारिता मेदिनी
सेयं संप्रति वीररुद्रभुजयोर्यातु प्रतिष्ठां स्थिराम् ॥ ३.४.२ ॥

एषा स्ववंशजानां कीर्तनाद्गुरुकीर्तनरूपः प्रसङ्गः ।
(पुनः साटोपं परिक्रम्य) अधिकृताः किमिदानीमारभध्वे ।
किमुपक्रान्तः स्वयंभूदेवसमाराधनविधिः ।
कच्चिद्दत्ताः पुरदेवताभ्यो बलयः ? किमभ्यर्चिताः सर्वे वर्णवृद्धाः ? कच्चित्प्रसाधिता महाभिषेकवेदिः ? किं सज्जीकृतानि कनककलशेषु पुण्यतीर्थसलिलानि ? कच्चिदभ्यर्णमुपनीतान्युत्तमोपकरणानि ? किं मङ्गलमुहूर्ते कृतावधानना ज्योतिर्विदः ? कच्चिदलंकृतास्त्रिलिङ्गनगरीमृगीदृशश्च ? यदिदानीं वसुमतीपाणिग्रहणोचितमङ्गलाचारवेषः प्रतापरुद्रः काकतीयमाराज्यलक्ष्मीमहान्तः पुरे वर्तते ।
तत्त्वरध्वम् ।
(अन्यतो गत्वा सभ्रूक्षेपमवलोक्य) कथं राजानो न विरमन्ति ।
(किंचिदुपसृत्य) भो भो भूपालाः ! यथावकाशमाध्वम् ।
सज्जीकुरुध्वमुपायनजातम् ।
न वृया संमर्दं सहते मम वेत्रयष्टिः ।
एतदवमानरूपं छलनम् ।
(समन्तादवलोक्य सगर्वा तिशयं) अहो ! तृणीकृतजगतां क्षितिभृतामुद्वेलं संमर्दं निवारयतो मम प्रभावः ।
अथवा काकतीयदौवारिकाणां लिखितपठितमेव राजनिवारणम् ।
एष स्वशक्त्याविष्करणरूपो व्यवसायः ।
(प्रविश्य पटाक्षेपेण दौवारिकः । ) दौवारिकः(साक्षेपं) रे केन खल्वसमयविदा भूपतयो निवारिताः ? महोत्सवदिदृक्षवः सर्वे प्रविशन्तु ।
प्रथमः(सरोषं) रे काकतीयकुलवृध्दप्रतीहारं मामसमयवेदिनमुदाहरसि ।
द्वितीयःभवतु यो वा को वा भवान् ।
प्रवेष्टव्या नरपतय इति महाराजस्याज्ञा ।
एतत्प्रतीहारयोरन्योन्यरोषसंरब्धवचनरूपं विरोधनम् ।
प्रथमःकिमनेन समं शुष्ककलहेन ।
यावत्प्रधानागारद्वारवेदिकामध्यमध्यासीनं पुरोहितपुरस्कृतं युवराजमेवोपसर्पामि ।
(इति परिक्रामति । ) द्वितीयःहमपि यथानिर्दिष्टमनुतिष्ठामि ।
(इति परिक्रामति । ) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रः पुरोधसो मन्त्रिणश्च । ) पुरोधसःकाकतीयकुलतिलक ! युवराजेन भवता लीलयैव दिशो दश विजिता इत्यमी सम्यगद्य सत्याशिषो वयम् ।
किं च

अद्यान्वयः काकतिभूपतीनां प्राप्तस्त्रिलोकीप्रथितां प्रतिष्ठाम् ।
राजन्वती भूरियमद्य जाता वीतोपसर्गाः सकलाः प्रजाश्च ॥ ३.४.३ ॥

एषा सिद्धवद्भाविश्रेयः कथनात्प्ररोचना ।
मन्त्रिणः

सूर्यसोमान्वयामात्यमहत्ताद्याधरीकृता ।
अस्माभिरधिकुर्वाणैः काकतीयकुलस्थितिम् ॥ ३.४.४ ॥


एतत्प्रकृतानुगुणप्रशंसनाद्विचलनम् ।
पुरोधसःराजपुत्र ! सज्जीकृतेयं महाभिषेकसामग्री ।
काकतीयनरेश्वरक्रमाधिष्ठिंत भद्रासनं भवदधिरोहणं प्रतीक्षते ।
तत्परिपालय स्वयंभूदेवानुगृहीतां महाराजस्याज्ञाम् ।
एतत्कार्यसंग्रहरूपमादानम् ।
प्रतापरुद्रःतर्हि कुलदेवतां स्वयंभूदेवं नमस्कृत्य, गुर्वाज्ञां वोढुमिच्छामि ।
पुरोधसःसदृशोऽयमाचारः काकतीयकुलप्रदीपस्य भवतः ।
किं तु प्रत्यासीदति महाभिषेकसमयः ।
तदचिरेणैव विहितकर्तव्येन राजपुत्रेणागन्तव्यम् ।
वयमितः करणीयशेषं प्रति (परि) पालयामः ।
प्रतापरुद्रःयदादिशन्ति काकतीयान्वयप्रत्याययितारः ।
(इत्युत्थाय यथोचितं परिक्रम्य निष्क्रान्ताः सर्वे । ) ॥ इति त्वरितमहोत्सवो नाम चतुर्थोऽङ्कः ॥)॥

॥ अथ पञ्चमोऽङ्कः ॥
(ततः प्रविशन्ति ज्योतिर्विदः । ) ज्योतिर्विदः(ससंभ्रमं परिक्रम्य) भो भोः ! त्वरध्वम् ।
कुत्र पुरोधसः ।
कुत्र वा मन्त्रियाः ? समानीयतां स्वयंभूदेवसमाराधनासक्तचिततया विलम्बमानो राजपुत्रः ।
येन प्रत्यासन्नतरो वर्तते महाभिषेकमुहूर्तः ।
एतदुत्तराङ्कस्य पूर्वाङ्कार्थानुसंगत्वादङ्कावतरणम् ।
(सविमर्शाश्चर्यं) अहो विश्वातिशायिनी काकतीयकुलप्रतिष्ठा ।
यतः

आदेष्टा कुलदेवता स भगवान् यस्य स्वयंभूः
शिवो यं सज्ज कुरुते पराक्रमजितः क्षोणीपतीनां गणः ।
यस्मै च स्पृहयत्यशेषजगती तं वीररुद्राकृतेर्
विष्णोर्वीक्ष्य महाभिषेवनविधिं नन्दन्ति सर्वे जनाः ॥ ३.५.१ ॥

एष स्वयंभूदेवोपदेशनरेश्वरविजयप्रमुखमुखसंध्यादिबीजनानार्थानां महाप्रयोजनीभूतमहाभिषेकार्थतया योजनान्निर्वहणसंधिः ।
(सोल्लासं) नूनमिदानीं

स्वप्नेऽप्यासूत्रितामाज्ञां पालयन्तं कुलोद्वहम् ।
न मान्त्यन्तर्मुदः शंभोर्विभोरप्यभिनन्दतः ॥ ३.५.२ ॥

एष मुखसंधौ प्रसिद्धस्य स्वप्नोपदेशरूपस्य बीजस्योपगमात्संधिः ।
(किंचिदुच्चैः)

कल्याणी सकलापि भूतसरणिः क्षेमप्रदा देवताः
श्रेयः प्रस्रवनिर्भरा द्विजनुषामाशीर्गिरो जाग्रति ।
आरूढा पदमुन्नतं ग्रहगणाः श्रेयान्मुहूर्तः शुभैः
नक्षत्राणि शिवंकराणि शुभदाश्चान्ये निमित्तोदयाः ॥ ३.५.३ ॥

तद्वयमेव राजपुत्रानयनाय प्रयतिष्यामहे ।
एष प्रकृतकार्यमार्गणाद्विरोधः ।
(सत्वरं परिक्रम्य पुरोऽवलोक्य च सहर्षसंभ्रम्) नन्वागत एव प्रतापरुद्रः !

विप्रैर्मङ्गलसूक्तिपाठमुखरैरालोकशब्दोद्यतैर्
भूपालैः करसंभृतोपकरणैराप्तैरमात्यात्मजैः ।
श्लाघ्यैर्वन्दिजनैर्दिगन्तविजयश्लाघासमुद्घोषणैः
स्त्रीवर्गैश्च यथोचितं परिवृतो नीराजनोद्योगिभिः ॥ ३.५.४ ॥

तद्वयं चास्थानीमेव गत्वा समुचितमाचरिष्यामः ।
(इति परिक्रामन्ति .) (ततः प्रविशति यथानिर्दिष्टः प्रतापरुद्रो मन्त्रिणश्च । ) मन्त्रिणः(सविनयमग्रतो भूत्वा) काकतीयकुलतिलक ! इत इतः ।
इदं राज्यलक्ष्मीशुद्धान्तप्रधानागारं प्रविशतु स्वामी ।
न विलम्बार्हाः कुलदेवताया मनोरथाः ।
एतत्पट्टबन्धरूपकार्यस्योपक्षेपणाद्ग्रथनम् ।
ज्योतिर्विदः(किंचिदुच्चैः) भोः भोः कुलामात्याः !

संनह्यध्वमुपाहरध्वमुचितद्रव्याण्युपाध्वं सुरान्
संप्राप्तः सुमुहूर्त एष विजयी कल्याणसंपत्खनिः ।
यस्मिन् प्राप्य महाभिषेकविभवं क्षोणीं प्रलीनाखिल
क्ष्मापालां चिरमन्वशाद्गणपतिर्भूभृत्कुलग्रामणीः ॥ ३.५.५ ॥

एष ज्योतिर्विद्भिरनुभूतार्थख्यापनान्निर्णयः ।
परिजनः(श्रुत्वा) ।

पच्चासण्णे वि मुहूते किं विलंबिअदि महामच्चेहिम् ।
( । प्रत्यासन्नेऽपि मुहूर्ते किं विलम्ब्यते महामात्यैः । )

मन्त्रिणः(उपसृत्य) नाथ ! किं विस्मृता गुर्वाज्ञा ।
नायमवसरो नरेश्वरविज्ञापनाकर्णनस्य ।
महास्थान्यामेवानुगृह्यन्ताममी ।
प्रतापरुद्रःशिरसि धृतैव खलु तातस्याज्ञा ।
किं तु नोपदिश्यते पुनरनन्तरकरणीयम् ।
एतत्प्रकृतानुगुण्येनान्योन्यपरिभाषणात्परिभाषणम् ।
पुरोधसः(सविनयसंभ्रममुपसृत्य) स्वीकृतमहाभिषेकोचितवेषः कनकवेदिकामारोहतु प्रतापरुद्रः ।
नृपाःदेव ! महाराजपर्यायेण भवद्भुजशिखरमारोहतु मेदिनी ।
प्रतापरुद्रःतथा भवतु ।
(इति वेदिकामारोहति । ) नृपाः(सप्रणामं मङ्गलवेदिकां परिवार्य) विजयतां विजयतां काकतीयकुलस्वामी ।
एष नरेश्वरपर्युपासनात्प्रसादः ।
परिजयः(विलोक्य सामोदकौतुकम्) अ पुव्वपव्वअकणअसाणुं सहस्सरस्सी विअ सुमेरुकणअतडं महेन्द्रो विअ पख्खिवक्कवट्टिणं चक्कधरो विअ कणअवेदिं आरूढो पआवरुद्दो ।
(अ पूर्वपर्वतकनकसानुं सहस्ररशिम रेव, सुमेरुकनकतटं महेन्द्र इव, पक्षिचक्रवर्तिनं चक्रधर इव, कनकवेदिमारूढः प्रतापरुद्रः । ) मन्त्रिणःकाकतीश्वर ! समारुह्यतामिदं भद्रासनम् ।
अमी पुरोधसो महाभिषेकाय तीर्थसलिलपूर्णान् कनककलशान् धारयन्ति ।
प्रतापरुद्रःतथा भवतु ।
(इति स्वयंभूदेवं काकतीयकुलवृद्धांश्च प्रणमन् सिंहासने समुपविशति । ) पुरोधसः(त्रयीसमभिमन्त्रणसुरभीकृतसलिलान् कनककलशानमात्यहस्तेषु विधाय सादरम् )

प्रतापरुद्रनृपते ! काकतीयकुलोचितैः ।
प्रजानुरञ्जनैः क्षोणीं पालयाचन्द्रतारकम् ॥ ३.५.६ ॥

(इत्याशीर्वादसाधुवादायमानं पाणिग्रहणकौतुकत्वरमाणराज्यलक्ष्मीमञ्जीरशिञ्जितानुमोदितं स्वयंभूदेवप्रमोदाट्टहासोपबृंहितं काकतीयकुलश्रेयः प्रस्तावनाडिण्डिमं चिरावलम्बितधरणीभारखिन्नानां फणिपतिप्रभृतीनां प्रहर्षक्ष्वेडाविडम्बितं धर्मप्रतिष्ठामङ्गलकाहलीकोलाहलमनोहरं महाभिषेकमुहूर्तप्रशंसिनं कनकजयघण्टिकानिनादमनुसंदधानाः सत्वरं प्रतापरुद्रमभिषिञ्चन्ति । ) एष वाञ्छितार्थप्राप्तिरानन्दः ।
एकतो वैतालिकाः(सहर्षातिशयमुच्चैः)

हे लोकाः ! पिबत श्रवः प्रसृतिभिः कल्याणवार्तामृतं
जातः काकतिवीररुद्रनृपते राज्याभिषेकोत्सवः ।
अद्यारभ्य कलिः कृतः कृतयुगं राजन्वती मेदिनी
देवाः पूर्णहविर्भुजस्तदधुना यूयं कृतार्थीकृताः ॥ ३.५.७ ॥

अन्यतो वैतालिकाः

आरूढे वरवीररुद्रनृपतौ सिंहासनं शासितुं
तस्याज्ञा क्षितिपालमौलिवलभीः स्वच्छन्दमारोहति ।
लोकांस्त्रीनधिरोहतो निरवधी कीर्त्तिप्रितापौ हठाद्
आरोहन्ति च विन्ध्यभूधरतटान् प्रत्यर्थिनः पार्थिवाः ॥ ३.५.८ ॥

दक्षिणतो वैतालिकाः

गायन्तीरनुमोदते निजवधूः शेषः शिरः कम्पनैर्
लक्ष्मीं प्रीणयतेऽद्य कच्छपपतिर्वक्षस्स्थलीदर्शनात् ।
दिङ्नागाश्च करेणुकाशुचमपाकुर्वन्त्यनुव्रज्यया
दोष्णा काकतिवीररुद्रनृपतौ विश्वंभरां बिभ्रति ॥ ३.५.९ ॥

उत्तरतो वैतालिकाः
प्रस्थेभ्यः कुलभूभृतामपि हरिद्दन्तावलानां महा
कुम्भेभ्योऽपि फणाभृतामधिपतेर्मूर्ध्नां सहस्रादपि ।
कूर्मेन्द्रस्य च कर्परादपि जगद्विख्यातसारोन्नतौ
बाहौ संप्रति वीररुद्रनृपतेः प्राप्तप्रतिष्ठा मही ॥ ३.५.१० ॥

एष सर्वदुः खशमनात्समयः ।
मन्त्रिणःहो ! प्रभावः काकतीयान्वयस्य ।
यदिदानीं

प्रतापरुद्रस्य महाभिषेकपयः कणा ये निपतन्ति राज्ञाम् ।
प्रणामनम्रेषु शिरस्सु तेषां तैः कल्पितः स्वस्वपदाभिषेकः ॥ ३.५.११ ॥

पुरोधसःकाकतीयकुलोत्तंस ! राज्यलक्ष्मीसंवरणस्रगियमुत्तंसीक्रियताम् ।
(इति पट्टबन्धमाचरन्ति । ) सर्वे(सप्रमोदातिशयं) प्रियं नः प्रियं नः ।
एषा प्रकृतकार्यस्थिरीकरणात्कृतिः ।
मन्त्रिणः(सर्वतोऽवलोक्य) कस्कोऽत्र भोः ! आनीयतां छत्रं चामरयुगलं च ।
(प्रविश्य प्रधानप्रतीहारः) प्रतीहारःयदाज्ञापयन्ति महामात्याः ।
(इति परिक्रम्य तान्युपानयति । ) (प्रान्तवर्तिनो नरपतयोऽभ्युपेत्य तानि सादरं गृहीत्वा यथोचितमाचरन्ति । ) पुरोधसः(सहर्षातिशयं)

श्रूयन्ते बहवो महानृपतयः किं तैरनीदृक्क्रमैर्
ईदृग्विश्वजनीनशौर्यगरिमा जागर्ति कः क्ष्मातले ।
बाल्यक्रीडितदिग्जयस्त्रिभुवनक्षेमंकरप्रक्रियः
किंकुर्वाणसमस्तभूपतिगणः श्रीवीररुद्रो यथा ॥ ३.५.१२ ॥

एतदखिलातिशायित्वकथनमुखेन प्रकृतकार्यानुमोदनादाभाषणम् ।

तदिदानीं खलु

यत्काकतीयनृपराज्यविलासचिह्नं यच्छायया वसुमती विजहाति तापम् ।
छत्रेण तेन कृतलक्ष्मणि वीररुद्रे मुक्तातपत्रविभवाः सुहृदो द्विषश्च ॥ ३.५.१३ ॥

एष राज्यप्राप्तिहेतुभूतच्छत्रारोपणरूपकार्यदर्शनात्पूर्वभावः ।
मन्त्रिणः(सविनयमुपसृत्य) नाथ ! काकतीयलक्ष्मीपते ! सनाथाः सर्वाः प्रकृतयः सुराजानं त्वां दिदृक्षन्ते ।
तत्सांप्रतं महास्थानीं प्रसाधयतु देवः ।
पुरोधसःाचारोऽयं काकतीश्वराणां यन्महाभिषेकानन्तरं प्रजानां योगक्षेमपरीक्षणम् ।
राजायदाज्ञापयन्ति धर्मविदः ।
(इत्युत्तिष्ठति । ) काकतीयकुलवृद्धाः (ससंभ्रममुच्चैः)

प्रक्रान्तमुर्वीश्चरमौलिरत्नैः कुर्वन्ति नीराजनमम्बुजाक्ष्यः ।
प्रतापरुद्रस्य लसत्प्रतापप्रदीपनीराजितदिङ्मुखस्य ॥ ३.५.१४ ॥

नृपतयः(शिरस्यञ्जलिं बद्ध्वा) अहो ! चरितार्था सांप्रतमास्माकी चक्षुष्मत्ता, यया खल्वीदृगनुभूयते ।
यतः

नीराजयन्त्यन्ध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥ ३.५.१५ ॥

(सर्वे जयशब्दं कुर्वन्ति । ) मन्त्रिणःमहाराज ! काकतीश्वर ! सज्जीकृतं सिंहासनं सर्वतः परिष्कृतमिदं महास्थानमण्टपं सनाथीक्रियताम् ।
प्रतीहारः(ससंभ्रमं पुरो भूत्वा) देव ! इत इतः ।
(राजा सगौरवं परिक्रम्य महास्थान्यां सिंहासनमारोहति । ) (सर्वे प्रणम्य यथार्हमुपविशन्ति । ) प्रतीहारः(समयोचितं परिक्रम्य वन्दमानान्मूर्धाभिषिक्तान् साभिमानं कनकवेत्रलतया निर्दिशन्)

कालिङ्गात्र निषीद, कोङ्कणपते ! दूरे भवाङ्गेश्वर !
प्रान्तं संश्रय, मालवेन्द्र, शनकैः स्वोपायनं प्रापय ।
पाण्ड्याग्रे भव, सेवणक्षितिपते ! पश्चाद्भवाद्यैव वः
स्वामी काकतिवीररुद्रनृपतिः सर्वान् क्रमादीक्षते ॥ ३.५.१६ ॥

(नृपतयः प्रणम्य यथार्हमुपविशन्ति । ) पुरोधसःस्वस्ति काकतीयकुलावतीर्णाय कुपर्णकेतनाय महामहिम्ने अद्य सुप्रजसा काकतीयान्वयेन सनाथानि त्रीण्यपि जगन्ति ।

शासितर्यविनीतानां नरेन्द्र ! त्वयि शासति ।
मध्यस्थतास्य लोकस्य चिरेणान्वर्थतां गता ॥ ३.५.१७ ॥

राजा(सविनयं) स्वयम्भूछ देववरानुकूलानां भवदाशीर्वादानां फलमिदं यत्काकतीयक्षात्रं वर्धते ।
मन्त्रिणःराजन् ! प्रतापरुद्र !

सर्वेषां काकतीयानां भागधेयविभूतयः ।
एवंरूपा विवर्तन्ते यत्कुलप्रभवो भवान् ॥ ३.५.१८ ॥


(। ’यत्कुलालम्बनं भवान्ऽ इति पाठान्तरम् । ) पुरोधसःन केवलं काकतीयानामेष पुण्यपरिपाकः, अपि तु सर्वासामपि प्रजानाम् ।
(प्रविश्य प्रतीहारः) प्रतिहारःदेव ! सर्वाः प्रकृतयो वर्णवृद्धान् पुरस्कृत्य प्रतीहारमध्यासते ।
मन्त्रिणःशीघ्रं प्रवेश्यन्ताम् ।
प्रतीहारःयदाज्ञापयन्त्यमात्याः ।
(इति निष्क्रम्य ताभिः सह पुनः प्रविशति । ) (ततः प्रविशन्ति वर्णवृद्धाः । ) वर्णवृद्धाः(सहर्षं राजानमवलोक्य)

वरः प्रतापरुद्रोऽयं वधूरेषा वसुंधरा ।
तयोर्घटयिता देवः स्वयंभूः सदृशः क्रमः ॥ ३.५.१९ ॥

एतत्स्वयंभूदेवस्य स्वयं संधातृत्वादद्भुतप्राप्तेरुपगूहनम् ।
(सविनयमुपसृत्य) स्वामिन् विश्वंभरावल्लभ प्रतापरुद्र !

सर्वाशीः फलविश्रमैकवसतेः किं वा तवाशास्महे
यद्वा विश्वविभौ स्वयंभुवि शिवे नस्तन्वतामाशिषः ।
किं चित्रं स विभुर्भवानपि समो गौरीश्रियोर्वल्लभा
वाचन्द्रार्कमिमां क्षमां कृतयशोरक्षौ युवां रक्षतम् ॥ ३.५.२० ॥

मन्त्रिणःस्वामिन्नेते स्वायंभुवाः सुधियः ।
(राजा सादरं प्रणमति । ) अन्ये(सहर्षातिशयमग्रतः स्थित्वा) महाराज काकतीश्वर !

यस्त्वद्गोत्रमहत्तरस्य जगतां त्रातुः स्वयंभूविभोस्तत्तादृक्चरिताद्भुतैर्महिमभिः स्वीयैर्द्वितीयोऽभवत् ।
देवोऽसौ गणपेश्वरः प्रतिकलं स्फारप्रसादोन्मुखो
नुप्तुस्ते कुलमण्डनस्य महतीं पुष्णातु राज्यश्रियम् ॥ ३.५.२१ ॥

पुरोधसःराजन्नेते गाणपेतश्वराः सूरयः ।
(राजा सादरं नमस्करोति । ) अपरे(सप्रश्रयप्रमोदं)
स्वामिंस्त्रिलिङ्गदेशपरमेश्वर !

यैर्देशस्त्रिभिरेष याति महतीं ख्यातिं त्रिलिङ्गाख्यया
येषां काकतिराजकीर्त्तिविभवैः कैलासशैलाः कृताः ।
ते देवाः प्रसरत्प्रसादमधुराः श्रीशैलकालेश्वर
द्राक्षारामनिवासिनः प्रतिदिनं त्वच्छ्रेयसे जाग्रतु ॥ ३.५.२२ ॥

पुरोधसः(सोल्लासं) राजन्नेकशिलानगरवासिनो महाद्विजास्त्वेते ।
(राजा यथोचितं वन्दते । ) मन्त्रिणःसाधीयानाशीर्वादक्रमः ।
(इति यथोचितं सर्वानुपवेशयन्ति । ) पुरोधसः(सोल्लासं) राजन्नेकशिलानगरीवल्लभ !

साहस्रांशवमैन्दवं च महती ये द्वे कुले निर्मिते
ते जाते लघुनी गुणैर्विजयिनि श्रीकाकतीयान्वये ।
भूपालेषु भवत्प्रतापयशसोः पूर्णार्कचन्द्रश्रियोः
प्राप्यानुग्रहमूर्जितेषु पुनरप्येते लभेते स्थितिम् ॥ ३.५.२३ ॥

(राजा सर्वान् पश्यति ।
पुरोधसो यथार्हं सर्वानुपवेशयन्ति । ) प्रकृतयःविजयतां विजयतां प्रतापरुद्रमहाराजः ।

भूपाः सन्तु चिराय संशृणुमहे भास्वत्कुलालंकृती
रामोऽयं न जगाम लोचनपथं तेनैव खिन्ना वयम् ।
अद्य त्वां वरवीररुद्रनृपते ! तस्यावतारान्तरं
वीक्ष्यैवं चरितार्थतां सुमहतीमह्नाय गाहामहे ॥ ३.५.२४ ॥

मन्त्रिणःस्वामिन् सांप्रतं यथार्हमर्हणया माननीयाः पौराणां श्रेणयः ।
राजा(सानन्दौदार्यं)

जागर्तु राजशब्दोऽयं ममैवाज्ञाफलैकभूः ।
राज्योपभोगविभवः सर्वसाधारणो हि नः ॥ ३.५.२५ ॥

सर्वे(सप्रमोदं) सदृशोऽयं प्रसादः काकतीयकुलतिलकस्य भवतः ।
राजाप्रसीदतु भगवान् स्वयंभूदेवः ।
(इति पुरोहितावर्जितकनककलशससिलधारापुरः सरं सकलभोगसमग्रान् सप्रश्रयादरं विप्रसात्करोति ।
अन्येषामपि नगरवासिनां यथाप्रधानं संभावनामाचरति । ) नृपतयः(सामात्यानुरोधमुत्थाय महार्घाणि गजतुरगरथाभरणविशेषरूपाण्युपायनानि यथावकाशमुपनीय विरचिताञ्जलयः) स्वामिन् काकतीयमहाराज !

त्रायस्वेत्यनुवाद एव भुवनत्राणैकबद्धव्रते
त्वद्भृत्या इति सिद्धसादनमिदं विश्वैकनाथे त्वयि ।
त्वद्गर्भे वसतिं गताः स्म इति च स्पष्टार्थमंशे हरेः
कुक्षिस्थाखिलविष्टपस्य सदृशं किं वात्र विज्ञाप्यते ॥ ३.५.२६ ॥

(राजा सप्रसादममात्यानवलोकयति । ) मन्त्रिणःस्वामिन्नेते सोमार्कवंश्या नरपतयो महतीमर्हणामर्हन्ति ।
तेन स्वेषु स्वेषु पदेषु प्रतिष्ठापनीयाः प्रस्थापनीयाश्च ।
राजातथा ।
(इति नरपतीन् यथोचितं संभाव्य प्रस्थानमादिशति । ) (राजानः सहर्षातिशयं प्रणम्य काकतीश्वरकृपावलोकननिर्वर्तितप्रयाणमङ्गला दिगन्तविहारणोद्यतया तदाज्ञया कृतसाहाय्या निष्क्रान्ताः । ) प्रकृतयःचिरमनुवर्तितव्या काकतीयनरेश्वरपरिपालनपरिपाटी महारोजेन ।
(इति निष्क्रान्ताः । ) पुरोधसः(साश्चर्यप्रत्यभिज्ञानं)

चिह्नान्यस्य पदाब्जयोः पिशुनयन्त्युर्वीश्वरोपास्यतां
पाणी सूचयतः सचापकुलिशावुद्वाहलीलां भुवः ।
नेत्रे शारदपुण्डरीकरुचिनी लीलावतारं हरेर्
आख्यातस्तदितीह सिद्धवचनं प्रत्यक्षमीक्षामहे ॥ ३.५.२७ ॥

राजा(सविनयव्रीडं) किमसाध्यं स्वयंभूदेवमूर्त्यन्तराणां भूदेवतानां भवतामनुग्रहस्य ।
पुरोधसः(सादरं) महाराज ! काकतीश्वरकुलवासनावासितया भवदुपासनया परं प्रसेदिवान् परः सहस्रप्रसादोन्मुखः स्वयंभूनाथः किं ते भूयः प्रियमुपकरोतु ।
एषा वाक्यार्थसमाप्तिरूपा संहृतिः ।
राजा(सप्रणामादरं) काकतीयराज्यधुरायामवहितमेव स्वयंभूदेवेन॑ तथापीदमस्तु ।

भूरस्तु संपन्नसमस्तसस्या भूदेवताः पूर्णमनोरथाश्च ।
भूपाश्च धर्मप्रवणैकचित्ताः सर्वे जनाः सन्तु निरामयाश्च ॥ ३.५.२८ ॥

एषां शुभाशंसनरूपा प्रशस्तिः ।
(इति निष्क्रान्ताः सर्वे । ) इति प्रतापरुद्रराज्याभिषेको नाम पञ्चमोऽङ्कः ॥
एवं साङ्गं नाटकमुदाहृतम् ।


इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे नाटकप्रकरणं समाप्तम्

_______________________________________________


॥ अथ रसप्रकरणम् ॥

इव्.१.अथ सर्वेषां प्रबन्धानां जीवितभूतस्य रसस्य स्वरूपं निरूप्यते ।

[इव्.१.१ असस्वरूपम्]

विभावानुभावसात्त्विकव्यभिचारिसामग्रीसमुल्लासितः स्थायी भावो रसः ।

तथा चोक्तंऽदशरूपकेऽ

"विभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः" ॥
इति ।

भावस्य स्थायित्वं नाम सजातीयविजातीयानभिभूततया यावदनुभवमवस्थानम् ।

तथा चोक्तंऽदशरूपकेऽ

"सजातीयैर्विजातीयैरतिरस्कृतमूर्तिमान् ।
यावद्रसं वर्तमानः स्थायी भाव उदाहृतः" ॥

[इव्.१.२ असविशेषः]

अथ रसविशेषाः

शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।
बीभत्साद्भुतशान्ताश्च रसाः पूर्वैरुदाहृताः ॥

[इव्.१.३ थायीभावः]

एषां स्थायिभावाः

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावा नव क्रमात् ॥ ४.१ ॥

[इव्.१.४ इभावः]

अथ विभावः

विभावः कथ्यते तत्र रसोत्पादनकारणम् ।
आलम्बनोद्दीपनात्मा स द्विधा परिकीर्त्यते ॥ ४.२ ॥

रससमवायिकारणमालम्बनविभावः । इतरत्कारणजातमुद्दीपनविभावः ।

स चतुर्विधः । तथा चोक्तं शृङ्गारतिलके

"आलम्बनगुणश्चैव तच्चेष्टा तदलंकृतिः ।
तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनक्रमः ॥

आलम्बनगुणो रूपयौवनादिरुदाहृतः ।
तच्चेष्टा यौवनोद्भूतहावभावादिका मताः ॥

नूपुराङ्गदहारादि तदलङ्करणं मतम् ।
मलयानिलचन्द्राद्यास्तटस्थाः परिकीर्तिताः ॥


[इव्.१.५ नुभावः]

अथानुभावः

कार्यभूतोऽनुभावः स्यात्कटाक्षादिः शरीरजः ॥ ४.३ ॥

[इव्.१.६ आत्त्विकभावाः]

अथ सात्त्विकभावाः

परगतसुखादिभावनाभावितान्तः करणत्वं सत्त्वम् । ततो भवाः सात्त्विकाः ।

स्तम्भः प्रलयरोमाञ्चौ स्वेदो वैवर्ण्यवेपथू ।
अश्रु वैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्तिताः ॥ ४.४ ॥

अथ व्यभिचारिभावाः

निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः ।
आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ ४.५ ॥

व्रीडा चपलता हर्ष आवेगो जडता तथा ।
गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ ४.६ ॥

सुप्तिर्विबोधोऽमर्षश्चाप्यवहित्थमथोग्रता ।
मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ ४.७ ॥

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः ।
त्रयस्त्रिंशदमी भावा रसस्य सहकारिणः ॥ ४.८ ॥

तथा चोक्तं काव्यप्रकाशे

"कारणान्यथ कार्याणि सहकारीणि यानि च ।
रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ।
विभावाश्चानुभावाश्च कथ्यन्ते व्यभिचारिणः" ॥
इति।

लोके कार्यकारणसहकारिशब्दवाच्या नायिकानायककटाक्षभ्रूविक्षेपनिर्वेदादयः, काव्यनाट्ययोस्तु विभावानुभावव्यभिचारिशब्दव्यपदेश्या भवन्ति । शृङ्गारवीररौद्राद्भुतानां लोकोत्तरनायकाश्रयत्वेन परिपोषातिशयः । अत एव शृङ्गारस्य म्लेच्छादिविषयत्वे त्वाभासत्वम् । तथा चोक्तम्

"एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा ।
योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः" ॥
इति।

व्यभिचारिभावानामुदयेन, प्रशाम्यदवस्थया, परस्परविरुद्धरसाश्रितयोर्भावयोः स्पर्धया संबन्धेन अन्योन्योपमर्दकतया बहूनां समावेशेन च चातुर्विध्यम् । तथा चोक्तं दशरूपके

"भावस्य शान्तिरुदयः संधिः शबलता तथाऽ ।
इति ।

॥ रत्यादिस्थायिभावलक्षणोदाहरणानि ॥


अथ यथाक्रमं स्थायिभावानां स्वरूपमुदाहरणं च ।

[इव्.१.८ अतिः]

तत्र संभोगविषय इच्छाविशेषो रतिः ।

यथा

शृङ्गारैकरसः स्मरोऽस्तु जगदानन्दैकनिष्यन्दभू
रिन्दुस्तिष्ठतु विभ्रमैकवसतिर्जागर्तु पुष्पाकरः ।
सन्त्वन्येऽपि गुणप्रिसादितदृशः किं तैरशेषोन्नतो
जातः काकतिवल्लभो मम पतिः कामस्य कामोत्सवः ॥ ४.९ ॥

[इव्.१.९ आसः]

विकृतिदर्शनादिजन्यो मनोविकारो हासः ।

यथा

बिभ्राणान् कबरीर्धृताञ्जनदृशः कृत्वा कुचौ कृत्रिमौ
स्त्रीवेषान्निशि काकतीन्द्रनगरे प्रच्छन्नरूपान्नृपान् ।
दृष्ट्वा क्षौममपास्य वक्षसि कुचावाकृष्य नीवीस्पृशो
ही ही कष्टमिति त्यजन्ति विपणिश्रेणीषु धूर्ता विटाः ॥ ४.१० ॥

[इव्.१.१०शोकः]

इष्टजनवियोगादिनाऽत्मनि दुः खातिभूमिः शोकः ।

यथा

धातर्निष्करुणोऽसि शिक्षयसि किं वन्यां शरीरस्थितिं
तत्तादृग्विभवा गृहाः क्व नु गताः स्थानं मरुः कल्पितम् ।
हा नाथाः पतिताः प्रतापनृपतेः क्रोधार्चिषीति द्विषद्
योषाणां तदनूपमश्रुभिरहो जातं स्थलं मारवम् ॥ ४.११ ॥

[इव्.१.११ रोधः]

शत्रुकृतापचारेण मनः प्रज्वलनं क्रोधः ।

यथा

रे रे सेवण ! कस्तवायमनिदंपूर्वोऽद्य गर्वो महान्
उत्तीर्णा किल येन गौतमनदी प्राप्तोऽसि मृत्योर्मुखम् ।
एषा काकतिवीररुद्र इति किं नाश्रावि सप्ताक्षरी
प्रक्षुभ्यत्प्रतिपक्षपार्थिवमहाभूतग्रहोच्चाटनी ॥ ४.१२ ॥

[इव्.१.१२ त्साहः]

लोकोत्तरेषु कार्येषु स्थेयान् प्रयत्न उत्साहः ।

यथा

क्षुब्धेष्वब्धिषु संभ्रमात्त्रिभुवनग्रासेच्छया सर्वतः
संनद्धेष्वपि पर्वतेषु परितो गण्डोपलान् वर्षितुम् ।
शक्ता एव वयं निवारणविधौ क्षुद्रक्षमाभृज्जये
श्लाघा नः कियतीति काकतिविभोर्गर्जन्ति सैन्ये भटाः ॥ ४.१३ ॥

[इव्.१.१३ हयम्]

रौद्रसंदर्शनादिभिरनर्थाशङ्कनं भयम् ।


यथा

दूरादाकर्ण्य विश्वप्रसृमरमहसो वीररुद्रस्य जैत्र
प्रस्थानारनमेरीनिनदमरिनृपाः पूर्णकर्णज्वरार्ताः ।
आरुह्याद्रीन् विशन्तो गहनमतिमहत्कण्टकाकृष्टकेशास्
त्रायध्वं मुञ्चतेति प्रतिनृपतिधिया पादपान् प्रार्थयन्ते ॥ ४.१४ ॥

[इव्.१.१४ उगिप्सा]

अर्थानां दोषसंदर्शनादिभिर्गर्हणा जुगुप्सा ।

यथा

विष्वङ्मस्तिष्कपङ्के महति निपतितोच्छूनमातङ्गदेह
श्रेणीलब्धप्रचाराः प्रवहदुरुवसामज्जरक्तप्रवाहाः ।
राशीभूतास्थिकूटस्थपुटितनिकटा निस्सरद्विस्रगन्धाः
कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतां वीररुद्रेण सृष्टाः ॥ ४.१५ ॥

[इव्.१५ इस्मयः]

अपूर्वार्थसंदर्शनाच्चित्तविस्तारो विस्मयः ।

यथा

औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता ॥ ४.१६ ॥

[इव्.१६.शमः]

शमो वैराग्यादिना निर्विकारचित्तत्वम् ।

यथा

किं लब्धं चतुराननेन महतीमायुष्प्रथां गच्छता
लब्ध्वा संपदमप्यनन्यसुगमामिन्द्रेण किं वा कृतम् ।
इत्यस्तान्तरुपप्लवाः सुकृतिनो नो जानते बाह्यम्
अप्यद्योपप्लवमन्ध्रनाथतिलके विश्वंभरां बिभ्रति ॥ ४.१७ ॥

अथ शृङ्गारस्यालम्बनविभावो यथा

लावण्यैकखनिर्विधातृरचनाशिल्पप्रतिज्ञावधिः
शृङ्गारप्रतिभूर्विलासविपणिः कन्दर्पघण्टापथः ।
नारीणांमधिदेवता च तरुणी सेयं किमन्यैर्गुणैर्
अस्या मन्मथमन्मथः प्रियतमः श्रीवीररुद्रो नृपः ॥ ४.१८ ॥

उद्दीपनविभावो यथा

उरोमात्रोत्सेधं भवदपि विलासैरभिनवै
मृगाक्ष्यास्तरुण्यं त्रिभुवनमिदं व्याकुलयति ।
स्तनाभोगस्फीतं यदि किल भवेत्का खलु कथा
भवित्री किं वान्यद्विजितमखिलं पुष्पधनुषा ॥ ४.१९ ॥

अनुभावो यथा

स्मरस्मेरान्मन्दस्मितमधुरसौरभ्यसुभगान्
मनाग्व्रीडाजाड्यान् प्रणयरसकल्लोलभरितान् ।
कृतानेकस्कन्धान्मनसिजसहस्राणि सृजतः
कटाक्षान् वामाक्षी किरति परितो रुद्रनृपतिम् ॥ ४.२० ॥

॥ सात्त्विकानां स्वरूपोदाहरणानि ॥




[इव्.२]अथ सात्त्विकानां स्वरूपमुदाहरणं च ।

[इव्.२.१ तम्भः]

स्तम्भः स्यान्निष्क्रियाङ्गत्वं रागभीत्यादिसंभवम् ।

यथा

काऐपुरेत्थिआओ पेख्खंतीओ णरेंदकंदप्पम् ।
मअणसरुक्किणणाओ विअ ट्ठिआ णिच्चळंगीओ ॥ ४.२१ ॥

(काकतिपुरस्त्रियः पश्यन्त्यो नरेन्द्रकन्दर्पम् ।
मदनशरोत्कीर्णा इव स्थिता निश्चलाङ्ग्यः ॥)

[इव्.२.२ रलयः]

प्रलयः सुखदुःखाद्यैर्गाढमिन्द्रियमूर्च्छनम् ॥ ४.२२ ॥

यथा

जिअमअणरूवसारो सहि एसो वीररुद्दणिवचंदो ।
जं दठ्ठूण णिमज्जै मुच्छाए इंदिअग्गामो ॥ ४.२३ ॥

(जितमदनरूपसारः सखि एष वीररुद्रनृपचन्द्रः ।
यं दृष्ट्वा निमज्जति मूर्च्छायामिन्द्रियग्रामः ॥)

[इव्.२.३ ओमाञ्चः वेपथुश्च]

सुखाद्यतिशयाञ्जाता रोमाञ्चो रोमविक्रिया ।
रागरोषभयादिभ्यो वेपथुर्गात्रकम्पनम् ॥ ४.२४ ॥

द्वयोरुदाहरणं यथा

अदैआलिङ्गणणिभ्भकंपा अ वहू विओअजिण्णंगी ।
उग्गिरै अंतरट्ठिदमअणसरे पुलअचम्मेण ॥ ४.२५ ॥

(अदयितालिङ्गननिर्भरकम्पा च वधूर्वियोगजीर्णाङ्गी ।
उद्गिरत्यन्तरस्थितमदनशरान् पुलकच्छद्मना ॥)


[इव्.२.४ वेदः]

वपुर्जलोद्गमः स्वेदो रतिधर्मश्रमादिभिः ।

यथा

शृण्वती प्रियसंदेशं प्रेयसः काकतीशितुः ।
स्मरराज्याभिषिक्तेव स्विन्नाङ्गी वामलोचना ॥ ४.२६ ॥

[इव्.२.५ इवर्णाता]

विषादमदरोषादेर्वर्णान्यत्वं विवर्णता ॥ ४.२७ ॥

यथा

णरणाह चंदधवले तुज्झ गुणे साहु सह्मरंतीए ।
अंगाइ पांडुराइं एह्णिं जाआइ सामाए ॥ ४.२८ ॥

(नरनाथ चन्द्रधवलान् तव गुणान् साधु संस्मरन्त्याः ।
अङ्गानि पाण्डुराणि इदानीं जातानि श्यामायाः ॥)

[इव्.२.६ शृः]

अश्रु नेत्रोद्भवं वारि दुः खरोषप्रहर्षजम् ।

यथा

वीररुद्रनृपाद्भीतं पाण्ड्यं मग्नं पयोनिधौ ।
अन्वेष्टुमिव तद्योषिदश्रुधाराऽपगायते ॥ ४.२९ ॥

[इव्.२.७ एश्वर्यम्]

मतं गद्गदभाषित्वं वैस्वर्यं प्रमदादिजम् ॥ ४.३० ॥

यथा

अविअणम्मि पिएण समं खामक्खामक्खरं भणंतीए ।
एक्को मुणै अणंगो अत्थं बहुआए भणिआणम् ॥ ४.३१ ॥

(अविजने प्रियेण समं क्षामक्षामाक्षरं भणन्त्याः ।

एको जानात्यनङ्गोऽर्थं वध्वा भणितानाम् ॥)



इव्.३.॥ व्यभिचारिभावानां स्वरूपोदाहरणे ॥

अथ व्यभिचारिणां निर्वेदादीनां स्वरूपमुदाहरणं च ।

[इव्.३.१ इवेदः]

दुः खेर्ष्यातत्त्वबोधादेर्निर्वेदो निष्फलत्वधीः ।
तत्र चिन्ताश्रुनिः श्वासदीनताः संभवन्ति च ॥ ४.३२ ॥

यथा

सहि कप्पूरेण किअं किं कत्थूरीए मलअजो ठाउ ।
गुणसिसिरं जससुरहिं आणेहिअपआवरुद्दं अ ॥ ४.३३ ॥

(सखि कर्पूरेण कृतं किं कस्तूर्या मलयजस्तिष्ठतु ।
गुणशिशिरं यशः सुरभिमानय प्रतापरुद्रं च ॥)


(अ ठपआवरुद्दणिवचंदंऽप्रतापरुद्रनृपचन्द्रमिति पाठान्तरम् ।)

[इव्.३.२ लानिः]

ग्लानिर्बलस्यापचयो वैवर्ण्यारतिकारणम् ।

यथा

अअतेळॢओक्कं वहै मही तं धरै भुओ पआवरुद्दस्स ।
तं हिअएण धरंती साहसिई दुब्बलंगि म्हि ॥ ४.३४ ॥

(अअत्रैलोक्यं वहति मही तां धरति भुजः प्रतापरुद्रस्य ।

तं हृदयेन धरन्ती साहसिकी दुर्बलाङ्ग्यस्मि ॥)

[इव्.३.३शङका]

अथ शङ्का ।

अनिष्टाभ्यागमोत्प्रेक्षा शङ्का रोषादिकारणम् ॥ ४.३५ ॥

यथा

ण मुणदु अण्णो त्ति मए हिअए परिचओ पिअस्स किदो ।
किं पअढ म्हि जणाणं सव्वंगीणेहिं पुलएहिम् ॥ ४.३६ ॥

(न जानात्वन्य इति मया हृदये परिचयः प्रियस्य कृतः ।
किं प्रकटास्मि जनानां सर्वाङ्गीणैः पुलकैः ॥)

[इव्.३.४ सुया]

अथासूया ।
परोत्कर्षासहिष्णुत्वमसूया परिकीर्तिता ।

यथा

अअहिआईए गुणेहिं रूवेण अ मज्झ किं मही अहिआ ।
जं तं पआवरुद्दो बहुमण्णै भाअहेअं तम् ॥ ४.३७ ॥

(अअभिजात्य गुणै रूपेण च मत्तः किं मही अधिका ?।
यत्तां प्रतापरुद्रो बहुमन्यते भागधेयं तत् ॥)

[इव्.३.५ अदः]

अथ मदः ।

मदिरादिकृतो मोहहर्षव्यतिकरो मदः ॥ ४.३८ ॥

यथा


अअभणै अ असंगअत्थं हसै अमंदं अ राअभरिअच्छी ।
पिअचिंतामैराए परवसा उवै सामंगी ॥ ४.३९ ॥

(अअभणति चासंगतार्थं हसत्यमन्दं च रागभरिताक्षी ।
प्रियचिन्तामदिरया परवशा पश्यत श्यामाङ्गी ॥)


[इव्.३.६श्रमः]

अथ श्रमः ।

श्रमः खेदोऽध्वरत्यादेर्जातः स्वेदातिभूमिकृत् ।

यथा

आअच्छै एव्व पिए कीस करेंती गआगआआसम् ।
तम्मसि सेदजलेहिं सुंदरि लुलिअंगराआसि ॥ ४.४० ॥

(आगच्छत्येव प्रिये कस्मात्कुर्वती गतागतायासम् ।
ताम्यसि स्वेदजलैः सुन्दरि लुलिताङ्गरागासि ॥)

[इव्.३.७आलस्यम्]

अथालस्यम् ।

मन्दोद्यमत्वमालस्यं कर्तव्येषु प्रकीर्त्यते ॥ ४.४१ ॥

यथा

आस्तां मृगाक्ष्या गृहकृत्यवार्ता स्वाङ्गोपचारेष्वपि यत्नमान्द्यम् ।
कर्तव्यमग्रे दयितस्य यत्स्यान्नूनं बलात्कारयति स्मरस्तत् ॥ ४.४२ ॥

[इव्.३.८ ऐन्यम्]

अथ दैन्यम् ।

सत्त्वत्यागादनौद्धत्यं दैन्यं कार्पण्यसंभवम् ।

यथा

आणेदुं णरणाहं गदो क्खु सहीजणो विलंबेइ ।
मम्मह णमामि चंदं सिक्खअ चिरेह ईसि त्ति ॥ ४.४३ ॥

(आनेतुं नरनाथं गतः खलु सखीजनो विलम्बते ।
मन्मथ नमामि चन्द्रं शिक्षय चिरय ईषदिति ॥)

[इव्.३.९ इन्ता]

अथ चिन्ता ।

इष्टानभिगमात्ध्यानं चिन्ता शून्यत्वतापकृत् ॥ ४.४४ ॥

यथा

असण्णिहिअं वि गुरुअणं ण अ पेख्खै पुच्छिआ वि णआळवै ।
एसा वि मग्गै गैं हिअअस्स पिआणुबंधस्स ॥ ४.४५ ॥

(असंनिहितमपि गुरुजनं न च प्रेक्षते पृष्टापि नालपति ।
एषापि मार्गते गतिं हृदयस्य प्रियानुबन्धस्य ॥)

[इव्.३.१० ओहः]

अथ मोहः ।

मोहस्तु मूर्च्छनं भीतिदुः खावेशानुचिन्तनैः ।

यथा

कथमपि गमयित्वा वासरं दीर्घदीर्घं
विरचितनववेषा प्रेषयित्वाथ दूतीः ।
चिरयति हृदयेशे प्रांशुभिश्चन्द्रपादैर्
अभिहतसकलाङ्गी मूर्च्छिता कोमलाङ्गी ॥ ४.४६ ॥

[इव्.३.११ मृतिः]

अथ स्मृतिः ।

पूर्वानुभूतविषयं ज्ञानं स्मृतिरुदाहृता ॥ ४.४७ ॥

यथा

प्रतापरुद्रस्य भुजे वसन्त्या क्षोण्यातपः कीदृशमार्जितं स्यात् ।
स्पृष्टं सकृद्येन मदीयमङ्गं प्राप्नोति विष्वक्सुखवज्रलेपम् ॥ ४.४८ ॥

[इव्.४.१२ हृतिः]

अथ धृतिः ।

धृतिश्चित्तस्य नैस्स्पृह्यं ज्ञानाभीष्टागमादिभिः ।

यथा

वीररुद्रनृपतौ हृदय ! त्वद्वल्लभे त्रिभुवनैकधुरीणे ।
साधु साधु कृतकृत्यमसि त्वं मन्यसे जगदशेषमसारम् ॥ ४.४९ ॥

[इव्.४.१३ रीङा]

अथ व्रीडा ।

चेतः संकोचनं व्रीडानङ्गरागस्तवादिभिः ॥ ४.५० ॥

यथा

तथा समालोकनकौतुकानां मनोरथैरन्ध्रपुराङ्गनानाम् ।
विलोकिते रुद्रनृपे भवन्ति पर्यस्तपक्ष्माणि विलोचनानि ॥ ४.५१ ॥

[इव्.४.१४ अपलता]

अथ चपलता ।

चापलं त्वनवस्थानं रागद्वेषादिसंभवम् ।

यथा

दृष्ट्वा रुद्रनरेन्द्रं तरलतराक्षी विलासमृदुहासा ।
कलयति मौक्तिमहारं स्पृशति च कर्णोत्पलं बाला ॥ ४.५२ ॥


[इव्.४.१५ अर्षः]

अथ हर्षः ।

प्रसत्तिरुत्सवादिभ्यो हर्षः स्वेदाश्रुकम्पकृत् ॥ ४.५३ ॥

यथा

यत्पूर्वं सरसीषु पद्ममुकुलव्याजात्तपः संचितं
वक्षोजौ युवयोस्तदद्य फलितं जातौ कृतार्थौ युवाम् ।
दत्ता काकतिवल्लभेन भवतोरेषा स्ववक्षः स्थली
कस्तूरीद्विगुणभवत्परिमला कल्हारमाला यतः ॥ ४.५४ ॥

[इव्.४.१६आवेगः]

अथावेगः ।

इष्टानिष्टागमाञ्जात आवेगश्चित्तसंभ्रमः ।

यथा

निस्साणध्वनिमाकलय्य सहसा हेलाविहारोद्यतं
द्रष्टुं काकतिवीररुद्रनृपतिं प्रत्यग्रकौतूहलाः ।
अर्धालम्बितमण्डनाः प्रतिपदं व्यत्यस्तभूषा जवाद्
आरोहन्ति सुवर्णसौधवलभीशृङ्गाणि पौरस्त्रियः ॥ ४.५५ ॥

[इव्.४.१७ अडता]

अथ जडता ।

जाड्यमप्रतिपत्तिः स्यादिष्टानिष्टागमोद्भवा ॥ ४.५६ ॥

यथा

समायाते नाथे प्रमहसि गृहान् रुद्रनृपतौ
वपुः सौन्दर्यश्रीविजितमदनोदारयशसि ।
वधूरन्तस्तोषव्यतिकरवशान्नोपचरितुं
पुरस्तादालीनां न चलति तथा नो विरमति ॥ ४.५७ ॥

[इव्.४.१८ अर्वः]

अथ गर्वः ।

अन्यधिक्करणादात्मोत्कर्षो गर्वो बलादिजः ।

यथा

को वा शस्त्रग्रहणसमयो मादृशामीदृशानां
कीदृग्वैरं प्रतिधरणिभृत्खेटकीटेष्वमीषु ।
इत्यावेशप्रतिभयभुजाटोपदुर्वारगर्वाः
संक्रीडन्ते रणभुवि भटाः काकतीन्द्रस्य जेतुः ॥ ४.५८ ॥

[इव्.४.१९.विषादः]

अथ विषादः ।

विषादश्चेतसो भङ्ग उपायापायचिन्तनैः ॥ ४.५९ ॥

यथा

पेसेमि मण त्ति मुहा तं मं मोक्खूण वल्लहे लग्गम् ।
मं उज्झिअ णो गच्छै मअणो सहि किं णु कादव्वम् ॥ ४.६० ॥

(प्रेषयामि मन इति मुधा तन्मां मुक्त्वा वल्लभे लग्नम् ।
मामुज्झित्वा नो गच्छति मदनः सखि किं नु कर्तव्यम् ॥)

[इव्.४.२० उत्सुक्यम्]

अथौत्सुक्यम् ।

कालाक्षमत्वमौत्सुक्यं मनस्तापत्वरादिकृत् ।

यथा

अअंधवुरभामिणिजणो अंगाइ पसाहिऊण तुवरंतो ।
रुद्दणरेंदागमणे विलंबिअं सहै किच्छेण ॥ ४.६१ ॥

(अअन्ध्रपुरभामिनीजनोऽङ्गानि प्रसाध्य त्वरमाणः ।
रुद्रनरेन्द्रागमने विलम्बितं सहते कृच्छ्रेण ॥)

[इव्.४.२१ इद्रा]

अथ निद्रा ।

निद्रा चित्तनिमीलनम् ।

यथा

सिविणे दिट्ठं दैअं वहुआ आलिङ्गिदुं किदोज्जोआ ।
उवह दरमीलिअच्छी गअणम्मि करे पसारेइ ॥ ४.६२ ॥

(।स्वप्ने दृष्टं दयितं वधूरालिङ्गितुं कृतोद्योगा ।
पश्यत दरमीलिताक्षी गगने करौ प्रसारयति ॥)

[इव्.४.२२ पस्मारः]

अथापस्मारः ।

आवेशो मोहदुः खाद्यैरपस्मारोऽङ्गतापकृत् ॥ ४.६३ ॥

यथा

दृष्ट्वा स्वप्ने कुपितवदनं काकतीयक्षितीन्द्रं
हा हा रक्षेत्यसकलगिरः संभ्रमोत्थानभाजः ।
धावन्त्यन्तर्वर्णभुवि लुठन्त्याह्वयन्त्यात्मबन्धून्
आराद्भूतानपि रिपुगणा व्यस्तनामग्रहेण ॥ ४.६४ ॥

[इव्.४.२३ आमृतिः]

अथ सुप्तिः ।

सुप्तिर्निद्रासमुद्रेकः ।

यथा

विश्वैकरक्षाजुषि काकतीन्द्रे निश्चिन्ततां प्राप्तवतो मुरारेः ।
तत्कीर्त्तिचन्द्रातपवर्धितोऽपि दुग्धाम्बुधिर्नैव भिनत्ति निद्राम् ॥ ४.६५ ॥

[इव्.४.२४ इबोधः]

अथ विबोधः ।

विबोधश्चेतनावाप्तिर्जृम्भाक्षिपरिमार्गकृत् ।

यथा

प्रतापरुद्रे नृपमौलिरत्ने विश्वंभरां रक्षति शिक्षितारौ ।
विजृम्भमाणाः परितः प्रजानां भाग्यश्रियस्तत्क्षणमुन्मिषन्ति ॥ ४.६६ ॥

[इव्.इव्.४.२५ नर्षः]

अथामर्षः ।

अमर्षः सापराधेषु चेतः प्रज्वलनं मतम् ॥ ४.६७ ॥

यथा

अरे ! भूपाश्चापान्नमयत शिरांस्युन्नमयत
प्रवृत्ताः स्वस्त्रीणामहमहमिका वीरवरणे ।
त्वरन्ते नः खङ्गाः प्रविदलनकेल्यामिति भटा
रणाग्रे गर्जन्ति प्रकटितरुषो रुद्रनृपतेः ॥ ४.६८ ॥

[इव्.४.२६ विहित्या]

अथावहित्था ।

हर्षाद्याकारसंगुप्तिरवहित्थेति कथ्यते ।

यथा

गोट्ठीए महिलाणं सोऊण पआवरुद्दचरिआइ ।
आलिहै ओणअमुही मुद्धा चलणेण महिपट्ठम् ॥ ४.६९ ॥

(गोष्ठ्यां महिलानां श्रुत्वा प्रतापरुद्रचरितानि ।
आलिखत्यवनतमुखी मुग्धा चरणेन महीपृष्टम् ॥)

[इव्.४.२७ ग्रता]

अथोग्रता ।

दृष्टेऽपराधे चण्डत्वमुग्रता तर्जनादिकृत् ॥ ४.७० ॥

यथा

प्रियमानीय मानिन्या विरहार्तिर्निवार्यताम् ।
यदेतस्याः कटाक्षोल्कापातैरिन्दुर्मषीकृतः ॥ ४.७१ ॥

[इव्.४.२८ अतिः]

अथ मतिः ।

तत्त्वमार्गानुसंधानादर्थनिर्धारणं मतिः ।

यथा

को संसओ महिअलं चंदो एव्व वीररुद्दणरणाहो ।
जस्स (खु) करप्पस्सादो अंगाइ मिअंकरअणंति ॥ ४.७२ ॥

(कः संशयो महीतले चन्द्र एव वीररुद्रनरनाथः ।
यस्य (खलु) करस्पर्शादङ्गानि मृगाङ्करत्नन्ति ॥)

[इव्.४.२९ याधिः]

अथ व्याधिः ।

मनस्तापाद्यभिभवाज्ज्वरादिर्व्याधिरिष्यते ॥ ४.७३ ॥

यथा

प्रतापरुद्रस्य दिशां जिगीषोः प्रत्यर्थिनारीजनदेहजन्मा ।
स्मरज्वरोष्मा हिमवत्प्रदेशान् स्मर्तव्यनीहारकथान् करोति ॥ ४.७४ ॥

[इव्.४.३० न्मादः]

अथोन्मादः ।

उन्मादस्तुल्यवर्तित्वं चेतनाचेतनेष्वपि ।

यथा

प्रतापरुद्रस्य जयप्रयाणभेरीध्वनौ मूर्च्छति दिङ्मुखेषु ।
त्रासाकुला भ्रान्तिमुपेत्य वृक्षान् पृच्छन्ति मार्गं रिपुभूमिपालाः ॥ ४.७५ ॥

[इव्.४.३१ अरणम्]

अथ मरणम् ।

मरणं मरणार्थस्तु प्रयत्नः परिकीर्तितः ॥ ४.७६ ॥

यथा

पिअविरहं असहंती वहुआ णिअजीविअं उवेक्खंती ।
सेव्वै जोह्णं दख्खिणपवणस्स तणुं समप्पेइ ॥ ४.७७ ॥

(।प्रियविरहमसहमाना वधूर्निजजीवितमुपेक्षमाणा ।
सेवते ज्योत्स्नां दक्षिणपवनस्य तनुं समर्पयति ॥)

साक्षान्मरणस्यामङ्गलत्वान्नोदाहरणत्वमुचितम् ।

[इव्.४.३२ रासः]

अथ त्रासः ।

आकस्मिकभयाच्चित्तक्षोभस्त्रासः प्रकीर्त्यते ।

यथा

अपणअकुविआ चिरेण वि वहुआ सोऊण घणघणत्थणिअम् ।
दैअं सरहसवलिआ आलिङ्गै वेवमाणंगी ॥ ४.७८ ॥

(अप्रणयकुपिता चिरेणापि वधूः श्रुत्वा घनघनस्तनितम् ।
दयितं सरभसवलिता आलिङ्गति वेपमानाङ्गी ॥)

[इव्.४.३३ इतर्कः]

अथ वितर्कः ।

संदेहात्कल्पनाऽनन्त्यं वितर्कः परिकीर्तितः ॥ ४.७९ ॥

यथा


गुणैस्तत्रासक्तं मम हृदयमन्यन्न गणितं
सखीभिर्नालोचि क्षितिपतिरसौ दुर्लभ इति ।
उपायः को वा स्यात्तदभिगमने मुह्यति मनः
कियान् कोऽयं कीदृक्कियदवधिरन्तर्व्यतिकरः ॥ ४.८० ॥

तत्र सात्त्विकानां व्यभिचारिणां चानेकरससाधारणत्वान्न विशेषमपेक्ष्योदाहरणं कृतम् । तथा हि शृह्गारे सर्वेषामनुप्रवेशः संभवति । हास्ये ग्लानिश्रमचपलत्वहर्षावहित्थानां संभवः । करुणे मदधृतिव्रीडाहर्षगर्वौत्सुक्योग्रताभिर्विनान्ये संभवन्ति । रौद्रे ग्लानिशङ्काऽलस्यदैन्यचिन्ताव्रीडावेगजडताविषादसुप्तिनिद्रापस्मारावहित्थाव्याध्युन्मादशमत्रासाः न संभवन्ति । वीरे रौद्रान्निर्वेदोऽधिकः । भयानकेऽसूयामदधृतिव्रीडाहर्षगर्वनिद्रासुप्त्यमर्षावहित्थोग्रतामतिभिर्विनान्ये संभवन्ति । बीभत्सेऽद्भुते च चिन्तात्रासादयो यथासंभवमूह्याः । शान्ते निर्वेदधृती संभवतः ।

शृङ्गारचेष्टाः

इव्.५ थ शृङ्गारचेष्टा निरूप्यन्ते ।

भावो हावश्च हेला च माधुर्यं धैर्यमित्यपि ।
लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् ॥ ४.८१ ॥

मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा ।
कुतूहलं च चकितं विहृतं हास इत्यपि ॥ ४.८२ ॥

एवं शृङ्गारचेष्टाः स्युरष्टादशविधा मताः ।

तत्रासां स्वरूपमुदाहरणं च ।

[इव्.५.१ हावःग]

भावः ।

रसाभिज्ञानयोग्यत्वं भाव इत्यभिधीयते ॥ ४.८३ ॥

यथा

रुद्दणरेंदस्य गुणे गाऐ बालत्तणम्मि विस्सद्धम् ।
लज्जै दरपुलैओ जुवैजणो जोव्वणे गाउम् ॥ ४.८४ ॥

(।रुद्रनरेन्द्रस्य गुणान् गायति बालत्वे विस्रब्धम् ।
लज्जते दरपुलकितो युवतिजनो यौवने गातुम् ॥)

[इव्.५.२ आवः]

अथ हावः ।

ईषद्दृष्टविकारः स्याद्भावो हावः प्रकीर्त्यते ।

यथा

अत्रैवेषत्पुलकित इति ।

[इव्.५.३ एला]

अथ हेला ।

सुव्यक्तविक्रियो भावो हेलेति प्रतिपाद्यते ॥ ४.८५ ॥

यथा

मा होदु कस्स वि फ्फुडं इअ मुद्धे कुणसि वल्लहं हिअए ।
घोसिज्जै तुह भाओ सव्वंगीणेहि पुलएहिम् ॥ ४.८६ ॥

(मा भवतु कस्यापि स्फुटमिति मुग्धे करोषि वल्लभं हृदये ।
घोष्यते तव भावः सर्वाङ्गीणैः पुलकैः ॥)

[इव्.५.४ आधुर्यम्]

अथ माधुर्यम् ।

अभूषणेऽपि रम्यत्वं माधुर्यमिति कथ्यते ।

यथा

जितत्रैलोक्यलावण्या प्रकृत्या हरिणेक्षणा ।
किं तु भूषयितुं धत्ते भूषणानीति मे मतिः ॥ ४.८७ ॥

[इव्.५.५ हैर्यम्]

अथ धैर्यम् ।

शीलाद्यलङ्घनं नाम धैर्यमित्यभिधीयते ॥ ४.८८ ॥

यथा

अकुलवहुआणं ण जुज्जै मज्जाआलंघणं खु विसमे वि ।
रुद्दणरिंदगुणा उण हिअअहरा किं णु कादव्वम् ॥ ४.८९ ॥

(अकुलवधूनां न युज्यते मर्यादालङ्घनं खलु विषमेऽपि ।
रुद्रनरेन्द्रगुणाः पुनर्हृदयहराः किं नु कर्तव्यम् ॥)

[इव्.५.६ ईला]

अथ लीला ।

प्रियानुकरणं लीला वाग्भिर्गत्याथ चेष्टितैः ।

यथा

अअपेछ्छह सहिओ एसा लच्छी रण्णो पआवरुद्दस्स ।
चरिआइ अणुकुणंती रण्णीसु पैव्वआ जाआ ॥ ४.९० ॥

(अअप्रेक्षध्वं सख्य एषा लक्ष्मी राज्ञः प्रतापरुद्रस्य ।
चरितान्यनुकुर्वती राज्ञीषु पतिव्रता जाता ॥)

[इव्.५.७ इलासः]

अथ विलासः ।

तात्कालिको विकारः स्याद्विलासो दयितेक्षणे ॥ ४.९१ ॥

यथा

सहेलं पश्यन्त्याः प्रकृतिसुभगं रुद्रनृपतिं
तदात्वप्रत्युद्यद्विविधललिताटोपमधुरम् ।
रसप्रादुर्भावाद्युगपदुदयत्सात्त्विकमहो
मृगाक्ष्यास्तारुण्ये कुसुमशरशिल्पं विजयते ॥ ४.९२ ॥

[इव्.५.८ इच्छित्तिः]

अथ विच्छित्तिः ।

विच्छित्तिरतिरम्यत्वं स्वल्पैरपि विभूषणैः ।

यथा

कस्स किए केण किअं काऐपुरैत्थिआण सुंदेरम् ।
साहारणभूसाए जं सहि तेळॢओक्करमणिज्जम् ॥ ४.९३ ॥

(कस्य कृते केन कृतं काकतिपुरस्त्रीणां सौन्दर्यम् ।
साधारणभूषया यत्सखि त्रैलोक्यरमणीयम् ॥)

[इव्.५.९ इभ्रमः]

अथ विभ्रमः ।

विभ्रमस्त्वरया काले भूषास्थानविपर्ययः ॥ ४.९४ ॥

यथा

असोऊण सहिमुहादो दिअहो विरतो त्ति संभमेण वहू ।
हत्थेसु णोउराइं चरणेसु अ कुणै वलआइम् ॥ ४.९५ ॥

(अश्रुत्वा सखीमुखाद्दिवसो विरत इति संभ्रमेण वधूः ।
हस्तयोर्नूपुरे चरणयोश्च करोति वलयानि ॥)

[इव्.५.१० इलकिञचितम्]

अथ किलकिञ्चितम् ।

रोषाश्रुहर्षभीत्यादेः संकरः किलकिञ्चितम् ।

यथा

गेह्णै काऐणाहे विअणंमि पडंचलं मिअछ्छीए ।
वेवै तणू वि णच्चै भिउडी अवि गग्गआ वाआ ॥ ४.९६ ॥

(गृह्णति काकतिनाथे विजने पटाञ्चलं मृगाक्ष्याः ।
वेपते तनुरपि नृत्यति भ्रुकुट्यपि गद्गदा वाचः ॥)

[इव्.५.११ ओट्टायितम्]

अथ मोट्टायितम् ।

मोट्टायितं स्यादिष्टस्य कथादौ भावसूचनम् ॥ ४.९७ ॥

यथा

अमहुराइ रुद्दणरवैचरिआइ वहूए णं सुणंतीए ।
तणुगोवणएण पअडो जह भाओ ण तह पुलएहिम् ॥ ४.९८ ॥

(अमधुराणि रुद्रनरपतिचरितानि वध्वा ननु शृण्वत्याः ।
तनुगोपनेन प्रकटो यथा भावो न तथा पुलकैः ॥)

[इव्.५.१२ उटट्टमितम्]

अथ कुट्टमितम् ।

संमर्देऽपि सुखाधिक्यं रतौ कुट्टमितं मतम् ।

यथा

निर्मर्यादमनोभवोत्सवकथाविस्रम्भकर्णेजपै
रङ्गेर्विस्मितमानसां प्रियसखीमालोक्य जातत्रपा ।
वैयात्यं निजमात्मवल्लभकृतां रागान्धतां जानती
सद्यो नम्रमुखेन्दुरिन्दुवदना क्षोणीं लिखन्ती स्थिता ॥ ४.९९ ॥

[इव्.५.१३ इब्बोकः]

अथ बिब्बोकः ।

मनाक्प्रियकथालापे बिब्बोकोऽनादरक्रिया ॥ ४.१०० ॥

यथा

लक्ष्मीः सद्मनि निर्भरं विहरतां, क्षोणी भुजालम्बन
क्रीडां नैव जहातु, किं च सततं वाणी मुखे तिष्ठतु ।
ज्ञातं रुद्रनरेश्वरस्य बहुभिर्विज्ञातपूर्वैः प्रिय
व्याहारैः कृतमेव दूति ! मदनश्चापाय संनह्यतु ॥ ४.१०१ ॥

[इव्.५.१४ अलितम्]

अथ ललितम् ।

सुकुमारोऽङ्गविन्यासो ललितं परिकीर्त्यते ।

यथा

पदन्यासक्रीडारणितमणिमञ्जीररशनं
सहेलं व्यावल्गत्करवलयनिक्वाणसुभगम् ।
स्मितज्योत्स्नावीचीतरलवचनं रुद्रनृपतेः
पुरन्ध्रीणामासीदनुरहससेवाविलसितम् ॥ ४.१०२ ॥

[इव्.५.१५ उतूहलम्]

अथ कुतूहलम् ।

कुतूहलं रम्यदृष्टौ चापलं परिकीर्त्यते ॥ ४.१०३ ॥

यथा

वीररुद्रमधिरूढसिन्धुरं द्रष्टुमन्ध्रनगरीपुरन्ध्रयः ।
कुर्वते रचितसंक्रमत्वरास्तुङ्गसद्मशिखराधिरोहणम् ॥ ४.१०४ ॥

[इव्.५.१६ अकितम्]

अथ चकितम् ।

चकितं भयसंभ्रमः ।

यथा

अविज्ञातायातं स्वमकथितमाल्यापि हसितुं
हठादुत्पश्यन्त्याश्चकितचकितोदञ्चितदृशः ।
विलासानुद्वेलानुदितमदनान् वीक्ष्य सुतनोस्
तथैव प्रत्येतुं पुनरवनिपालः स्पृहयति ॥ ४.१०५ ॥

[इव्.५.१७ इहृतम्]

अथ विहृतम् ।

विहृतं प्राप्तकालस्य वाक्यस्याकथनं ह्रिया ।

यथा

प्रतापरुद्रस्य भुजान्तरस्थां कल्हारमालाममुना स्पृशेति ।
स्तनद्वये पत्रलिपिं लिखन्तीं सखीं वधूः पश्यति साभिमानम् ॥ ४.१०६ ॥

[इव्.५.१८ असितम्]

अथ हसितम् ।

आकस्मिकं तु हसितं यौवनादिविकारजम् ॥ ४.१०७ ॥

जह जह हसै मिअच्छी जोव्वणलच्छीए सिख्खिआ महुरम् ।
तह तह कुसुमेसुसरा विअसंति पिअस्स आसा अ ॥ ४.१०८ ॥

(यथा यथा हसति मृगाक्षी यौवनलक्ष्म्या शिक्षिता मधुरम् ।
तथा तथा कुसुमेषुशरा विकसन्ति प्रियस्य आशा च ॥)

मन्मथावस्थाः

इव्.६.॥ अथ मन्मथावस्था द्वादश निरूप्यन्ते ॥

अथ शृङ्गारस्याङ्कुरितत्वपल्लवितत्वकुसुमितत्वफलीतत्वहेतवो द्वादशावस्था निरूप्यन् ते ।

चक्षुः प्रीतिर्मनः सङ्गः संकल्पोऽथ प्रलापिता ।
जागरः कार्श्यमरतिर्लज्जात्यागोऽथ संज्वरः ॥ ४.१०९ ॥

उन्मादो मूर्च्छनं चैव मरणं चरमं विदुः ।
अवस्था द्वादश मताः कामशास्त्रानुसारतः ॥ ४.११० ॥

केचित्तु दशावस्था इति कथयन्ति ।

आसां स्वरूपमुदाहरणं च ।

[इव्.६.१ अक्षुः प्रीतिः]

आदराद्दर्शनं चक्षुः प्रीतिरित्यभिधीयते ।

यथा

सहि एसो रुद्दणिओ णअणाण अतक्किओस्सओ जाओ ।
मअणो व मुत्तिमंतो चंदो विअ मुक्कलञ्छणो पुण्णो ॥ ४.१११ ॥

(सखि ! एष रुद्रनृपो नयनयोरतर्कितोत्सवो जातः ।
मदन इव मूर्तिमान् चन्द्र इव मुक्तलाञ्छनः पूर्णः ॥)

[इव्.६.२ अनः सङः]


अथ मनः सङ्गः ।

मनः सङ्गः प्रियतमे नित्यं चित्तस्य विश्रमः ॥ ४.११२ ॥

यथा

सह मह मणो विलग्गै रुद्दणरेन्दम्मि कीस कुविआओ ।
तेणाहं वि विमुक्का सहिओ तुह्मेसु का वत्ता ॥ ४.११३ ॥

(सदा मम मनो विलगति रुद्रनरेन्द्रे कस्मात्कुपिताः ।
तेनाहमपि विमुक्ता सख्यो युष्मासु का वार्ता ॥)

[इव्.६.३ अंकल्पः]

अथ संकल्पः ।

संकल्पो नाथविषयो मनोरथ उदाहृतः ।

यथा

अदरहसिअगब्भिणाइं सिणेहसिणिद्धाइ राअभरिआइ ।
रुद्दणिवविलोइआइं काहे णु मम्मि णिवदंति ॥ ४.११४ ॥

(अदरहसितगर्भितानि स्नेहस्निग्धानि रागभरितानि ।
रुद्रनृपविलोकितानि कदा नु मयि निपतन्ति ॥)

[इव्.६.४ रलापः]

अथ प्रलापः ।

प्रालपः प्रियसंश्लिष्टगुणालाप उदाहृतः ॥ ४.११५ ॥

यथा

तह णिउणो तह महुरो तह सुहओ तह अ सोम्मसब्भाओ ।
एक्को रुद्दणिवो विअ इदि गोट्ठी पोढमहिलाणम् ॥ ४.११६ ॥

(तथा निपुणस्तथा मधुरस्तथा सुभगस्तथा च सौम्यस्वभावः ।
एको रुद्रनृप एवेति गोष्ठी प्रौढमहिलानाम् ॥)

[इव्.६.५ आगरः]

अथ जागरः ।

जागरस्तु विनिद्रत्वम् ।

यथा

अगमिअं कह कह वि दिणं चंदादवदूसहा णिसा दीहा ।
मअणो वि पुंखिअसरो णिद्दा वि णिवो वि णोवेइ ॥ ४.११७ ॥

(अगमितं कथं कथमपि दिनं चन्द्रातपदुः सहा निशा दीर्घा ।
मदनोऽपि पुङ्खितशरो निद्रापि नृपोऽपि नोपैति ॥)

[इव्.६.६ आर्श्यम्]

अथ कार्श्यम् ।


कार्श्यमङ्गस्य तानवम् ।

यथा

चन्द्रास्ये ! कथमङ्गुलीयकमिदं केयूरितं ते सखि !
प्रेम्णां प्रेयसि वैभवैः स खलु को भूमेः सपत्नी यतः ।
ज्ञातं मानिनि ! काकतीयनृपतौ सक्ताऽलि ! सत्यं शुभे !
श्यामाङ्गीं स खलु स्थिरां रमयते त्वां तां च शैलस्तनीम् ॥ ४.११८ ॥

[इव्.६.७ रतिः]

अथारतिः ।

अन्यत्राप्रीतिररतिः ।

यथा

दूसेइ चंदसिट्टिं णिंदै मलआणिलस्स माहप्पम् ।
ऊसवपरंमुही सा सुहअ ! तुमं किं णु मंतेसि ॥ ४.११९ ॥

(दूषयति चन्द्रसृष्टिं निन्दति मलयानिलस्य माहात्म्यम् ।
उत्सवपराङ्मुखी सा सुभग ! त्वं किं नु मन्त्रयसे ।)

[इव्.६.८ अज्जात्यागः]

अथ लज्जात्यागः ।

यथा

अलंघिअमहिलासमअं तह भणिअं मअणदुव्विणीदाए ।
जह सोऊण गुरुअणो ओसरै विलज्जिओ दूरम् ॥ ४.१२० ॥

(अलङ्घितमहिलासमयं तथा भणितं मदनदुर्विनीतया ।
यथा श्रुत्वा गुरुजनोऽपसरति विलज्जितो दूरम् ॥)

[इव्.६.९ वरः]

अथ ज्वरः ।

तापाधिक्यं ज्वरो मतः ॥ ४.१२१ ॥

यथा

अमोहसिसिरोवआरा वहुआ विरहज्जरेण गुरुएण ।
दाणिं रुद्दणरेसर ! कांखै तुह दंसणामिअअम् ॥ ४.१२२ ॥

(अमोघशिशिरोपचारा वधूर्विरहज्वरेण गुरुणा ।
इदानीं रुद्रनरेश्वर ! काङ्भति तव दर्शनामृतम् ॥)

उन्मादमरणयोः प्रागेवोदाहरणं दर्शितम् ।

[इव्.६.१० ऊर्च्छा]

अथ मूर्च्छा ।

मूर्च्छा त्वभ्यन्तरेऽवृत्तिर्बाह्येन्द्रियनिमीलनात् ।

यथा


अअचिंतंतीए णरेन्दं दट्ठुं हिअअठ्ठिदं मिअच्छीए ।
करणाइ बाहिराइं विसंति अब्भंतरं वि सुण्णाए ॥ ४.१२३ ॥

(अअचिन्तयन्त्या नरेन्द्रं द्रष्टुं हृदयस्थितं मृगाक्ष्याः ।
करणानि बाह्यानि विशन्ति अभ्यन्तरमपि शून्यायाः ॥)

अथ शृङ्गारः । स द्विविधः । संभोगो विप्रलम्भश्चेति । "संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोःऽ इतिऽशृङ्गारतिलकेऽ । संभोगस्य परस्परावलोकनसंभाषणाऽलिङ्गनचुम्बनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता ।

यथा

रहः प्रत्यासन्ने हृदयदयिते रुद्रनृपतौ
निवृत्ता मानाज्ञा विरलमपि लज्जाविलसितम् ।
किमन्यत्ते गोप्यं बहिरबहिरानन्दमसृणः
स्मरावेशः कोऽपि प्रियसखि ! नृपेणैकयति माम् ॥ ४.१२४ ॥

विप्रलम्भः पुनरभिलाषेर्ष्याविरहप्रवासहेतुकत्वेन चतुर्विधः ।
[इव्.६.११ अंभोगशृङ्गारः]

अभिलाषो नाम संभोगात्प्रागनुरागः ।

यथा

अन्योन्यभाषणमनङ्गविलासगोष्ठी
शय्या च सार्धमपदानि मनोरथानाम् ।
प्रेमानुविद्धमुदयद्बहुलानुरागं
लभ्यते रुद्रनृपतेरवलोकितं वा ॥ ४.१२५ ॥

[इव्.६.१२ईर्ष्याशृङ्गारः]

ईर्ष्या नाम नायकस्यान्यासक्तभावात्चित्तविक्रिया ।

[इव्.६.१३ इप्रलम्भशृङ्गारः]

तया विप्रलम्भो यथा

लक्ष्मीरस्य विलोचनाब्जवसतिः सोर्ष्या त्वदालोकने
वक्त्रस्था च सस्स्वती न सहते साकं त्वया भाषणम् ।
लीलाकर्षणविघ्नकृत्त्वयि मही बाहुस्थिता काकति
क्षोणीन्द्रे न हि कैतवानि सुभगे मानेन किं ताम्यसि ॥ ४.१२६ ॥

[इव्.६.१४ इरहविप्रलम्भशृङ्गारः]

विरहो नाम लब्धसंयोगयोर्नायकयोः केनचित्कारणेन पुनः समागमकालातिक्षेपः ।

यथा

अङ्गेषु जीर्णेषु विभूषणानां व्यत्यासमार्गोऽपि मुहूर्तशोभी ।
सख्यस्तदास्तां परिकर्मरीतिरानीयतां रुद्रनृपः किमन्यत् ॥ ४.१२७ ॥

[इव्.६.१५ रवासविप्रलम्भः]

यूनोर्देशान्तरवृत्तित्वं प्रवासः ।

तेन विप्रलम्भो यथा

सेव्योऽस्तु रुद्रनृपतिर्निखिलैर्नृपालै
रभ्युत्सवेषु सुलभा न हि वल्लभा नः ।
इत्थं कलिङ्गसुदृशां विरहार्तितापा
दङ्गानि यान्ति तनुतां दिवसा युगन्ति ॥ ४.१२८ ॥

[इव्.६.१६ असाभासः]

रसाभासो यथा

प्रासादगर्भवलभीषु कपोतपाल्यां
पारावतीं रमणचुम्बितचञ्चुकोटिम् ।
आविर्भवत्सुरतकूजितरक्तकण्ठी
मालोक्य काकतिविभुः स्मितमातनोति ॥ ४.१२९ ॥

[इव्.६.१७ हावोदयः]

भावोदयो यथा

मुग्धे ! कस्तव वर्तते हृदि मनोजन्मैव नान्यः शपे
सख्येतस्य किमत्र कार्यमपरं किं जन्मसद्मादरात् ।
कोऽन्यस्तत्प्रतिबिम्ब एव निपुणे ! जानासि कामाधिकः
प्रेयान् रुद्रनृपस्तवेति कथिता नम्राननाभूद्वधूः ॥ ४.१३० ॥

अत्र लज्जाया उदयः ।

[इव्.६.१८ हावशमः]

भावशमो यथा

लक्ष्मीस्त्वं पुरुषोत्तमस्तव पतिः श्रीवीररुद्रो नृपः
सृष्ट्यामम्बुजविष्टरस्य सदृशोर्योगश्चि रात्संभृतः ।
तस्मात्कृत्रिममप्यसाम्प्रतिमिदं वां वैमनस्यं मना
गित्यालिं प्रणतां विलोक्य विकसद्वक्त्राम्बुजा मानिनी ॥ ४.१३१ ॥

अत्र कोपस्य प्रशमः ।

[इव्.६.१९ हावसन्धिः]

भावसन्धिर्यथा

प्रतापरुद्रस्य दिगन्तजैत्रयात्राप्रभूतैः पटहप्रणादैः ।
प्रियानुलापैश्च तथा भटानां रौमाञ्चवर्मावृतमङ्गमासीत् ॥ ४.१३२ ॥

अत्र वीरशृङ्गारकृतयोर्हर्षयोः सन्धिः ।

[इव्.६.२० हावशबलता]

भावशबलता यथा

निन्दन्त्वद्य कुलस्त्रियः प्रियतमो लभ्यः सुखं केन वा
भाग्येनानुमतं न किं गुरुजनैः का वा सखी प्रेष्यते ।
किं लोकस्य भवेत्प्रसिद्धमचिरात्स्वच्छन्दमङ्कं कदा
रोक्ष्यामि स्थिरता कदा हृदि भवेद्यातव्य एव प्रियः ॥ ४.१३३ ॥

अत्रौत्सुक्यादीनां शबलता ।

अथ रससंकरस्योदाहरणम् ।

[इव्.६.२१श्रुङ्गारकरुणयोः सङ्करः]

तत्र शृङ्गारकरुणयोः संकरो यथा

आसन्नेऽपि महोत्सवे कथमितस्त्यक्त्वा प्रवासं व्रजे
र्धिगू धिक्साहसमावयोर्विघटनं को वा विधिः काङ्क्षति ।
इत्थं स्वप्ननिवारितप्रियतमप्रस्थानबुद्धिस्ततो
बुद्ध्वा मूर्च्छति काकतीयनृपते ! त्वद्वैरिनारीजनः ॥ ४.१३४ ॥

अथ रौद्रबीभत्सयोः संकरो यथा

[इव्.६.२२ औद्रबीभत्सयोः सङ्करः]

पीत्वा मांसोपदंशं द्विरदगलगलद्रक्तमैरेयधारां
मत्तो मस्तिष्कलग्नैर्दलितनृपवपुः कीकसैः स्पष्टदंष्ट्रः ।
बिभ्रद्रौद्रान्त्रमालां जनितजनभयो भैरवाकारघोरः
संग्रामोर्व्याः कलिङ्गैर्बलिविधिमकरोद्वीररुद्रस्य खड्गः ॥ ४.१३५ ॥

एवमन्यदपि यथासंभवमुदाहार्यम् ।

अत्र रसो नायकाश्रय एव । यदिपरं निपुणनटचेष्टया तथाविधकाव्यश्रवणबलेन च सामाजिकैः साक्षाद्भाव्यते, तदा परगतस्यापि रसस्य सम्यग्भावनया परत्र निरतिशयानन्दजननमविरुद्धम् । अथवा मालत्यादिशब्देभ्यो योषिन्मात्रप्रतीतौ (रावणादिशब्देभ्यः शत्रुमात्रप्रतीतौ च) स्मृत्यारूढेन तत्तद्योषिद्विशेषेण अनुकार्येण सामाजिकाश्रयत्वमपि न विरुद्धम् । नटस्यानुकरणमात्रपरतया नैव रसाश्रययोग्यता । तस्य भावुकत्वाभ्युपगमेऽपि सामाजिकत्वमेव । अनुभावादीनां प्रकाशनं तु शिक्षाभ्यासपाटवेनैव घटते । रसादीनां परस्परविरोधेऽपि कविप्रौढोक्तिसमाश्रयणेनैकत्र समावेशो न विरुद्धः । विरोधक्रमःऽशृङ्गारतिलकेऽ कथितः

"शृङ्गारबीभत्सरसौ तथा वीरभयानकौ ।
रौद्राद्भुतौ तथा हास्यकरुणौ वैरिणौ मिथः" ॥
इति।

रसाद्रसोत्पत्तिरपि मता । तथा चोक्तंऽशृङ्गारतिलकेऽ

"हास्यो भवति शृङ्गारात्करुणो रौद्रकर्मणः ।
अद्भुतश्च तथा वीराद्बीभत्साच्च भयानकः" ॥

व्यभिचारिभावानां तत्तद्रसानुगुण्यमेवं प्रतिपादितंऽशृङ्गारतिलकेऽ । तथा हि

"शङ्कासूया भयं ग्लानिर्व्याधिश्चिन्ता स्मृतिर्धृतिः ।
औत्सुक्यविस्मयावेगा व्रीडोन्मादौ मदस्तथा ॥

विषादो जडता निद्रावहित्थं चापलं मृतिः ।
इति भावाः प्रयोक्तव्याः शृङ्गारे व्यभिचारिणः ॥

श्रमश्चपलता निद्रा स्पप्नो ग्लानिस्तथैव च ।
शङ्कासूयावहित्थं च हास्ये भावा भवन्त्यमी ॥

संत्रासो मरणं दैन्यं ग्लानिश्चैव भयानके ।
अपस्मारो विषादश्च भयं वेगो मृतिर्मदः ॥

उन्मादश्चेति विज्ञेया भावा बीभत्ससंभवाः ।
आवेगो जडता मोहो हर्षणं विस्मयः स्मृतिः ॥

इति भावा निबद्धव्या रसज्ञैरद्भुते रसे ।
दैन्यं चिन्ता तथा ग्लानिर्निर्वेदो जडता स्मृतिः ॥

व्याधिश्च करुणे वाच्या भावा भावविशारदैः ।
हर्षोऽसूया तथा गर्व उत्साहो मद एव च ॥

चापल्यमुग्रता चैव रौद्रे भावाः प्रकीर्तिताः ।
अमर्षः प्रतिबोधश्च वितर्कोऽथ मतिर्धृतिः ॥

क्रोधोऽसूयाथ संमोह आवेगश्चोपहर्षणम् ।
गर्वो मदस्तथोग्रत्वं भावा वीरे भवन्त्यमी" ॥
इति।

"रसः सर्वोऽपि संपूर्णस्तिरोधत्ते रसान्तरम् ॥ः
इति भारतीयोक्तप्रक्रीयया यद्यप्येक एव रसः, तथापि महाकविप्रसिद्ध्या रससङकरः स्वीक्रियते ।

तत्र रसादेरप्राधान्ये रसवदाद्यलंकारा भवन्ति । अन्याङ्गत्वेन रसनिबन्धने रसवदलंकारः । भावनिबन्धने प्रेयोऽलंकारः । रसाभासभावाभासनिबन्धने ऊर्जस्विदलंकारः । भावशान्तिनिबन्धने समाहितालंकारः । तथा भावोदयादयोऽपि ।

एतदलङ्कारसर्वस्वे प्रपञ्चेनोक्तम्
"रसभावतदाभासतत्प्रशमननिबन्धने रसवत्प्रेयऊर्जस्विसमाहितानि । भावोदयभावसन्धिभावशबलताश्च पृथगलंकाराःऽइति । एतेषामुदाहरणमलंकरणे भविष्यति ।

गुणालंकारश्रीकृतपरिकरो भावविभवः
स्फुरत्प्रादुर्भावः क्रमगलितवेद्यान्तरमतिः ।
सुखं वा दुः खं वा निबिडयतु यूनोः सहृदये
त्वमन्दानन्दात्मा परिणमति पूर्णो रसभरः ॥ ४.१३६ ॥

रसो वाक्यार्थः सन् विलसति पदार्थाः पुनरमी
विभावाद्या यस्मिन् किल दधति विश्रान्तिमुचिताम् ।
अतो भावा एव क्रमसमुदितान्योन्यविभवा
रसीभावं बिभ्रत्यथ च पटतां तन्तव इव ॥ ४.१३७ ॥

भावे स्थायिनि वर्धमानविभवे रत्यादिके सिन्धुवत्
कल्लोला इव संभवन्ति विलयं चायान्ति भावा मुहुः ।
निर्वेदाद्युपभोगभावितनिजास्वादातिरेको रसो
लोके स्यादनुकार्य एव कथितो नाट्ये तु सामाजिके ॥ ४.१३८ ॥


इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे रसप्रकरणं समाप्तम् ।

_______________________________________________


व्.१

॥ अथ दोषप्रकरणम् ॥


अथ काव्यजीवितभूतरसनिरूपणानन्तरं तदुपस्कारहेतूनां गुणानां सम्यग्विवेकाय दोषा निरूप्यन्ते ।

[व्.१.१ ओषसामान्यलक्षणम्]

तत्र दोषसामान्यलक्षणम्

दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः ।

शब्दार्थमयत्वात्काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्दगतत्वेनार्थगतत्वेन च द्वैविध्यम् ।
शब्दगतानामपि पदवाक्यगतत्वेन च द्वैविध्यम् ।
इपदगतदोषः]

तत्र पदगतदोषाः कथ्यन्ते ।

अप्रयुक्तमपुष्टार्थमसमर्थं निरर्थकम् ।
नेयार्थं च्युतसंस्कारं संदिग्धं चाप्रयोजकम् ॥ ५.१ ॥

क्लिष्टं गूढार्थकं ग्राम्यमन्यार्थं चाप्रतीतिकम् ।

अविमृष्टविधेयांशं विरुद्धमतिकृत्तथा ।
अश्लीलं परुषं चेति दोषाः सप्तदश स्मृताः ॥ ५.२ ॥


एषां स्वरूपं निरूप्यते ।

यदप्रयुक्तं कविभिरप्रयुक्तं तदुच्यते ।
प्रकृतानुपयुक्तार्थमपुष्टार्थं तदुच्यते ॥ ५.३ ॥

योगमात्रप्रसिद्धं यदसमर्थं तदुच्यते ।
पादपूरणमात्रं यत्तन्निरर्थकमुच्यते ॥ ५.४ ॥

स्वसंकेतप्रसिद्धार्थं नेयार्थं परिकीर्त्यते ।
शब्दशास्त्रविरुद्धं यत्च्युतसंस्कारमुच्यते ॥ ५.५ ॥

संदिग्धं तन्मतं यत्स्यात्संदिग्धार्थप्रतीतिकृत् ।
तदप्रयोजकं यत्स्यादविशेषविधायकम् ॥ ५.६ ॥

क्लिष्टं तदर्थावगतिर्दूरदूरा यतो भवेत् ।
प्रयुक्तमप्रसिद्धार्थे गूढार्थं परिकीर्त्यते ॥ ५.७ ॥

पामरव्यवहारैकप्रसिध्दं ग्राम्यमुच्यते ।
यद्रूढिप्रच्युतं नाम तदन्यार्थमुदाहृतम् ॥ ५.८ ॥

शास्त्रमात्रप्रसिद्धं यदप्रतीतिकमुच्यते ।
अविमृष्टविधेयांशं गुणीभूतविधेयकम् ॥ ५.९ ॥


विपरीतार्थधीर्यस्माद्विरुद्धमतिकृन्मतम् ।
अश्लीलं यदमाङ्गल्यजुगुप्साव्रीडधीकरम् ॥ ५.१० ॥


परुषं नाम तद्यत्स्याद्विहितं परुषाक्षरैः ॥


अत्र वनवृत्तीनां शत्रुस्त्रीणां वचनेषु दोषा उदाह्रियन्ते ।

[व्.२.१ प्रयुक्तम्]

अप्रयुक्तं यथा

विमुखा दैवताः सर्वे ते नो दुश्च्यवनादयः ।
अरण्यगृहमेधिन्यो यैर्वयं हन्त कल्पिताः ॥ ५.११ ॥


अत्र दैवता इति पुंलिङ्गप्रयोगः दोषः ॑ दुश्चयवन इति च इन्द्रपरत्वेन कविभिर्न प्रयुक्तः ।

[व्.२.२ पुष्टार्थम्]

अपुष्टार्थं यथा

व्यर्थाष्टार्धार्धबाहूनाममीषामीदृशां दशाम् ।
कथं सहामहे धिग्धिक्कठिनं हन्त जीवितम् ॥ ५.१२ ॥


अत्र व्यर्थबाहुद्वयानामिति विवक्षितेऽष्टार्धार्धबाहूनामित्यनुपयुक्तम् ।
एतदेवाविमृष्टविधेयांशस्योदाहरणम् ।
बाहुद्वयस्य वैयर्थ्ये विधेये तस्योपसर्जनत्वं प्रतीयते ।

[व्.२.३ समर्थम्]

असमर्थं यथा

विहाय वसुधामेनां चतुरम्बुधरावृताम् ।
क नु गन्तव्यमस्माकमरण्येऽप्यसुखा स्थितिः ॥ ५.१३ ॥


अत्र जलधिपरत्वेनाम्बुधरपदमसमर्थम् ।

[व्.२.३ नर्थकनेयार्थच्चतसंस्कारसंदिग्धानि]

अनर्थकनेयार्थच्युतसंस्कारसंदिग्धानि यथा

विहाय च गृहांस्तान् वै व्यत्यस्तनववृत्तयः ।
कदा भविष्यते वासः कटकेषु महीभृतान् ॥ ५.१४ ॥


अत्र वै इति निरर्थकम् ।
व्यत्यस्तनवशब्देन वनप्रतीतिः स्वसंकेतमात्रायतेति नेयार्थकम् ।
भविष्यते इति भवतेरात्मनेपदित्वं शब्दशास्त्रविरुद्धमिति च्युतसंस्कारम् ।
महीभृतां कटकेषु वास इत्यनेन राज्ञां नगरेषु वासः ? उत पर्वतानां नितम्बेषु ? इति संदेहात्संदिग्धम् ।

[व्.२.४ प्रयोजकक्लिष्टे]

अप्रयोजकक्लिष्टे यथा

हन्त वर्तामहे वज्रघट्टनात्प्राक्चलात्मसु ।
नभस्वदशनारातिध्वजाग्रजविरोधिषु ॥ ५.१५ ॥


अत्र नभस्वदशनाः सर्पाः, तेषामरातिर्गरुडः, स एव ध्वजो यस्येति विष्णुः, तस्याग्रज इन्द्रस्तस्य विरोधिषु पर्वतेषु इत्यर्थप्रतीतेरतिदूरत्वात्क्लिष्टम् ।
पर्वतेषु वर्तनं दुः खावहमिति प्रकृते वज्रघट्टनात्प्राक्चलात्मस्विति पर्वतविशेषणस्यानुपयुक्तत्वादप्रयोजकम् ।

[व्.२.५ ऊडार्थान्यार्थग्राम्यर्थानि]

गूढार्थग्राम्यार्थान्यार्थानि यथा

शोणिताब्जदृशः कामं श्यामगल्लकटिस्थलाः ।
विदग्धहृदयाः शोकवह्निना राजकन्यकाः ॥ ५.१६ ॥


अत्र शोणितशब्दस्य रुधिरे प्रसिद्धस्य पाटलवर्णपरत्वेन प्रयोगाद्गूढार्थम् ।
गल्लकटिशब्दौ कपोलजघनपरत्वेन ग्राम्यप्रयुक्तौ ।
विदग्धहृदया इति विशेषणं दग्धहृदयस्यावाचकत्वादन्यार्थम् ।

[व्.२.६ प्रतीतिकरम्]

अप्रतीतिकं यथा

मनूपदेशाः क्व गताः कुलाचार्यैरुदीरिताः ॥ ५.१७ ॥


अत्र मनुशबदो मन्त्रपरत्वेन मन्त्रशास्त्रमात्रप्रसिद्ध इत्यप्रतीतिकम् ।

[व्.२.७ इरुध्दमतिकृत्]

विरुद्धमतिकृद्यथा

अम्बिकारमणस्याङ्घ्रिसेवा व्यर्था कथं भवेत् ।
राज्ञामकार्यमित्राणां विनाशं समुपेयुषाम् ॥ ५.१८ ॥


अत्राम्बिकारमणशब्दान्मातृसंभोगकारिणः प्रतीतिः ।
अकार्यमित्रशब्दादकार्येषु मित्राणीति प्रतीतिः ।
वियोगदुः खपरतया प्रयुक्ताद्विनाशशब्दान्नशप्रतीतिरिति विरुद्धमतिकृत् ।

[व्.२.८ रिविधाश्लीलम्]

अमङ्गलव्रीडाजुगुप्साप्रतीतिकरं त्रिविधमश्लीलं यथा

अभिप्रेतपदावासः कदा नः संभविष्यति ।
नीचं साधनमेतेषां परोत्सर्गैकजीविनाम् ॥ ५.१९ ॥


अत्राभिप्रेतपदावासशब्दात्प्रेतलोकपदावासप्रतीतेरमङ्गलत्वम् ।
नीचं साधनमित्यनेन तुच्छमोहनप्रतीतेर्व्रीडाकरत्वम् ।
परोत्सर्गौकजीविनामित्यत्रोत्सर्गशब्दादधोवायुप्रतीतेर्जुगुप्साकरत्वम् ।

[व्.२.९ उरुषम्]

परुषं यथा

कुतः कान्तारवृत्तीनां कार्तार्थ्यार्थित्वमस्ति नः ।
अत्र कार्तार्थ्यार्थित्वमिति परुषवर्णारब्धत्वम् ।

व्.३

॥ अथ वाक्यदोषाः ॥


शब्दहीनं क्रमभ्रष्टं विसंधि पुनरुक्तिमत् ।
व्याकीर्णं वाक्यसंकीर्णमपूर्णं वाक्यगर्भितम् ॥ ५.२० ॥

द्वे भिन्नलिङ्गवचने द्वे च न्यूनाधिकोपमे ।
भग्नच्छन्दो यतिभ्रष्टमशरीरमरीतिकम् ॥ ५.२१ ॥

विसर्गलुप्तमस्थानसमासं वाच्यवर्जितम् ।
समाप्तपुनरात्तं च तथा संबन्धवर्जितम् ॥ ५.२२ ॥

पतत्प्रकर्षमधिकपदं प्रक्रमभङ्गवत् ।
चतुर्विंशतिरुच्यन्ते दोषा वाक्यसमाश्रिताः ॥ ५.२३ ॥


एषां स्वरूपमुदाहरणं च ।

[व्.३.१शब्दहीनम्]

शब्दशास्त्रहतं वाक्यं शब्दहीनं प्रकीर्त्यते ।

यथा शत्रुवाक्येषु

न संशृणुमहे हन्त हितमाप्तैर्निमन्त्रितम् ।
येन काकतिभूभर्तुः सेवां हित्वा हता वयम् ॥ ५.२४ ॥


अत्र हितं न संशृणुमहे इति पदद्वयप्रयोगे दोषाविष्काराद्वाक्यमेव दुष्टमिति न पददोषशङ्का ।
संपूर्वस्य शृणोतेरात्मनेपदित्वे कर्मणोऽनुपादाननियमात् ।
अथ क्रमभ्रष्टम् ।

क्रमभ्रष्टं भवेदार्थः शाब्दो वा यत्र न क्रमः ॥ ५.२५ ॥


[व्.३.२ रमभ्रष्टम्]

यथा

प्रभवे काकतीन्द्राय तुरगान् करिणोऽथवा ।
उपायनमकुर्वाणा वयं दैवेन वञ्चिताः ॥ ५.२६ ॥

अत्र करिणो यद्वा तुरगानिति वक्तव्ये व्युत्क्रमेणोक्तम्, तुरगापेक्षया करिणामुत्कृष्टत्वात् ।
अथवा करिण इत्यर्थक्रमभङ्गः ।
शब्दक्रमभङ्गो यथा

का नाम गणनास्मासु काकतीयस्य भूपतेः ।
यशः प्रतापयोर्मग्नौ सूर्याचन्द्रमसावपि ॥ ५.२७ ॥

अत्र यशः प्रतापयोश्चन्द्रसूर्यौ मग्नाविति शब्दक्रमे उचिते तथा नोक्तम् ।
यशः प्रतापयोः सूर्याचन्द्रमसौ मग्नाविति समुदायद्वयान्वये यथायोग्यमर्थान्वये सिद्धे नार्थक्रमविरोधः ।
अपि तु शब्दप्रयोग एव क्रमभङ्गः ।

[व्.३.३ इसन्धि]

अथ विसन्धि ।

विसंहितो विरूपो वा यस्य संधिर्विसंधि तत् ।

यथा

शौर्याणि ईदृशान्यासन् पृथ्वैश्वर्यं क्व वा गतम् ।

अत्र शौर्याणि ईदृशानीति विसन्धि ।
पृथ्वैश्वर्यमिति संधिवैरूप्यम् ।
अथ पुनरुक्तिमत् ।

शब्दार्थपौनरुक्त्ये तु तद्वाक्यं पुनरुक्तिमत् ॥ ५.२८ ॥


[व्.३.४ उनरुक्तिम्]

यथा

जीर्णकाननसंकीर्णे विन्ध्ये काननवृत्तयः ॥ ५.२९ ॥


अत्र काननसंकीर्णे काननवृत्तय इति पुनरुक्तिमत् ।

[व्.३.५ याकीर्णम्]

अथ व्याकीर्णम् ।

व्याकीर्णं तद्विभक्तीनां व्याकीर्णे च मिथोऽन्वये ।

यथा

सुखार्थिनो महीपाला वर्तध्वं काकतीशितुः ।
आज्ञामुरसि बिभ्राणाः शिरसि क्रोडमुद्रिकाम् ॥ ५.३० ॥


अत्र क्रोडमुद्रिकामुरसि शिरस्याज्ञां बिभ्राणा इति संबन्धः ।

[व्.३.६ आक्यसंकीर्णम्]

अथ वाक्यसंकीर्णम् ।

वाक्यान्तरपदैः कीर्णं वाक्यसंकीर्णमुच्यते ॥ ५.३१ ॥


यथा

मानेन महतास्माभिर्वने वक्त्रे न तिष्ठताम् ।
विन्धयस्य जीवितं तन्नो जातमद्य तृणं कृतम् ॥ ५.३२ ॥


अत्र महता मानेन अस्माभिर्यत्तृणं वक्त्रे न कृतं तदद्य विन्ध्यस्य वने तिष्ठतां नो जीवितं जातमिति वाक्यद्वयपदानामन्योन्यसंकीर्णता ।

[व्.३.७ पूर्णम्]

अथापूर्णम्

अपूर्णं तद्भवेद्यत्र न संपूर्णः क्रियान्वयः ।

यथा

शैलेष्वस्माकमावासो वन्यैः सोच्छ्वसिता वयम् ।
मृगैर्बन्धुमतश्चास्मान् पश्यन् धाता प्रमोदताम् ॥ ५.३३ ॥


अत्र शैलवासान् वन्यवृत्तीन्मृगबान्धवान् पश्यन्निति विवक्षितसंबन्धौ न संपूर्णः ।

[व्.३.८ आक्यगर्भतम्]

अथ वाक्यगर्भितम् ।

तद्वाक्यगर्भि तं यस्य मध्ये वाक्यान्तरं भवेत् ॥ ५.३४ ॥


यथा

ज्ञात्वाप्यन्ध्रपुरीन्द्रस्य क्रोधाग्निमतिदुः सहम् ।
यद्वा न लङ्घ्यते दैवं तस्मिन्निपतिता वयम् ॥ ५.३५ ॥


अत्रातिदुः सहं क्रोधाग्निं ज्ञात्वापि तस्मिन्निपतिता वयमिति वाक्यमध्ये यद्वा न लङ्घ्यते दैवमिति वाक्यान्तरमनुप्रविष्टमिति वाक्यगर्भितत्वम् ।

[व्.३.९ हिन्नलिङ्गवचने]

अथ भिन्नलिङ्गवचने ।

यत्रोपमा भवेद्भिन्नवचना भिन्नलिङ्गका ।
तद्भिन्नवचनं भिन्नलिङ्गं चाहुर्मनीषिणः ॥ ५.३६ ॥


द्वयोरुदाहरणं यथा

समुद्रा इव गम्भीरं मनो यादवभूभुजः ।
गिरिणेवान्ध्रनृपतिध्वजिन्या कलुषीकृतम् ॥ ५.३७ ॥


अत्र समुद्रा इव गम्भीरमिति भिन्नवचनम् ।
गिरिणेव ध्वजिन्येति भिन्नलिङ्गम् ।
अथाधिकन्यूनोपमे ।

[व्.३.१० धिकन्यूनोपमे]

यत्रोपमानमधिकं न्यूनं वा स्याद्विशेषणैः ।
तत्राधिकोपमं पूर्वं न्यूनोपममतः परम् ॥ ५.३८ ॥


द्वयोः यथाक्रममुदाहरणम् ।

क्षामक्षाममुखाः कान्ताः कानने मालवेशितुः ।
ग्रीष्मे नद्य इव ग्लानपद्मोत्पलबिसाविलाः ॥ ५.३९ ॥


अत्र क्षामक्षाममुखानां कान्तानामुपमानभूतासु नदीषु म्लानपद्मत्वमात्रं वक्तव्यम् ।
म्लानोत्पलबिसाविला इत्यधिकम् ।
न्यूनोपमं यथा

हाराङ्गरागसुभगा नगरेषु यथा वयम् ।
तथैव निर्झराकीर्णा विभान्ति धरणीभृतः ॥ ५.४० ॥

अत्र हारस्थाने निर्झरा उक्ताः ।
अङ्गरागस्थाने किमपि नोक्तमिति न्यूनोपमत्वम् ।

[व्.३.११ हग्नछन्दोकयतिभ्रष्टे]

अथ भग्नच्छन्दोयतिभ्रष्टे ।

छन्दोभग्नं वचो यत्र तद्भग्नच्छन्द उच्यते ।
यत्र स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यते ॥ ५.४१ ॥


यथा

विन्ध्यारण्यकृतकुटुम्बरक्षणस्य किं भद्रं भवति जनस्य मादृशस्य ॥ ५.४२ ॥


अत्र विन्ध्यारण्येति तृतीयवर्णे यतिभङ्गः ।
पादान्तवर्णस्य गुरुत्वाभावाच्छन्दोभङ्गः ।

[व्.३.१२ शरीररम्]

अथाशरीरम् ।

क्रियापदेन रहितमशरीरं प्रकीर्त्यते ।

यथा

हन्त निष्करुणो धाता क्रीडतो मणिकुट्टिमे ।
कानने कण्टकाकीर्णे स्थितान् पाण्ड्यशिशूनिमान् ॥ ५.४३ ॥


अत्र क्रियापदं न विहितम् ।
एतदेवानन्वयाख्यं दूषणम् ।

[व्.३.१३ रीतिकम्]

अथारीतिकम् ।

रसाननुगुणा रीतिर्यत्रारीति तदुच्यते ॥ ५.४४ ॥


यथा

अखर्वगर्वदुर्वारदोरर्गलनिरर्गलाः ।
हा बन्धुवर्गाः सर्वेऽपि कृतान्तातिथयः कृताः ॥ ५.४५ ॥


अत्र करुणेऽनुचितो वर्णाडम्बरः ।
अथ विसर्गलुप्तम् ।

ओत्वं लोपो विसर्गस्यासकृल्लुप्तविसर्गकम् ।

[व्.३.१४ इसर्गलुणतम्]

यत्र विसर्गो बहुधौत्वं लोपं वा प्राप्नोति तद्विसर्गलुप्तम् ।

यथा

व्यर्थो मनोरथो यातो जातो वासो ध्रुवो मरौ ।
म्लाना दीना हता जीर्णा वनान्तेष्वीदृशा वयम् ॥ ५.४६ ॥


[व्.३.१५ स्थानसमारस्यम्]

अथास्थानसमासम् ।

अपदस्थसमासं तत्समासो यत्र नोचितः ॥ ५.४७ ॥


यथा

कुतो वैमुख्यमस्मासु ब्रह्मणः परुषात्मनः ।
इत्युदग्रतरभ्राम्यद्भृकुटीकुटिलाननाः ॥ ५.४८ ॥


अत्र वेधसे क्रुध्यतां नृपाणामुक्तौ न समासः ।
किं तु कविवचने समास इत्यपदस्थसमासः ।

[व्.३.१६ आच्चवर्जितम्]

अथ वाच्यवर्जितम् ।

नोक्तं स्याद्यत्र वक्तव्यं तदाहुर्वाच्यवर्जितम् ।

यथा

दुर्दशां प्रतिपन्नानामस्माकं जीवितं मतम् ॥ ५.४९ ॥


अत्र दुर्दशां प्रतिपन्नानामपीत्यपिशब्दो वक्तव्यो नोक्तः ।

[व्.३.१७ अमाप्तपुनरान्तकं,पतत्प्रकर्षं च]

अथ समाप्तपुनरात्तकं पतत्प्रकर्षं च ।

समाप्य पुनरादाने समाप्तपुनरात्तकम् ।
पतत्प्रकर्षं तत्प्राहुः प्रकर्षो यत्र विश्लथः ॥ ५.५० ॥


द्वयोरुदाहरणं यथा

धावन्मृगेषु संभ्राम्यत्करिषूद्यत्तरक्षुषु ।
विन्ध्यारण्येषु तिष्ठामः क्षुभ्यद्भल्लूकपङ्क्तिषु ॥ ५.५१ ॥


अत्र विन्ध्यारण्येषु तिष्ठामः इति समाप्य क्षुभ्यद्भल्लूकपङ्क्तिष्विति पुनरादानात्समाप्तपुनरात्तकम् ।
अथ भ्राम्यत्करिषूद्यत्तरक्षुषु धावन्मृगेष्विति वक्तव्ये न तथोक्तमिति पतत्प्रकर्षता ।

[व्.३.१७ अंबन्धवर्जितम्]

अथ संबन्धवर्जितम् ।

संबन्धवर्जितं तत्स्याद्यत्रेष्टेनान्वयो हतः ।

यथा

भद्रासनानि दृषदः छत्राणि च महीरुहः ।
दुर्दशाराज्यमूर्धाभिषिक्ताः पुनरहो वयम् ॥ ५.५२ ॥


अत्र राज्ये भद्रासनानि दृषद इत्यादिसंबन्धो नोक्तः ।

[व्.३.१८ धिकपदम्]

अथाधिकपदम् ।

यत्राधिकपदोक्तिः स्यात्तत्राधिकपदं मतम् ॥ ५.५३ ॥


यथा

विमुक्ता वल्लभैरेता वनान्ते घूर्जरस्त्रियः ।
सुधांशुमण्डलाकाररूपक्रमविपाण्डुराः ॥ ५.५४ ॥


अत्र सुघांशुमण्डलाकार इत्येतावता परिपूर्णे मण्डलाकारविपाण्डुरत्वे रूपक्रम इत्यधिकम् ।

[व्.३.१९ हग्नप्रक्रमम्]

अथ भग्नप्रक्रमम् ।

प्रक्रान्तनियमत्यागे भग्नक्रममिहोच्यते ॥ ५.५५ ॥


यथा

गुहा गृहाणि शबरा बान्धवा विन्ध्यभूः पुरी ।
सरितो दीर्घिकाः कष्टमाक्रीडाः काननानि नः ॥ ५.५६ ॥


अत्र बहुवचनतया प्रथमं प्रकम्य विन्ध्यमूः पुरीत्येकवचनोक्तेः प्रक्रमभ्रष्टम् ।

व्.४ ॥
अथार्थदोषाः ॥


अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
भिन्नं चैवातिमात्रं च परुषं विरसं तथा ॥ ५.५७ ॥

हीनाधिकोपमे स्यातामसदृक्षोपमं तथा ।
अप्रसिद्धोपमं हेतुशून्यं च निरलंकृति ॥ ५.५८ ॥

अश्लीलं च विरुद्धं च तथा सहचरच्युतम् ।
एवमष्टादश प्रोक्ता दोषा अर्थसमाश्रयाः ॥ ५.५९ ॥


एषां स्वरूपमुदाहरणं च ।

[व्.४.१ पार्थम्]

समुदायार्थशून्यं यदपार्थं तत्प्रकीर्त्यते ।

यथा

कुतः शुष्यदपा नद्यः का वार्ता चोलमण्डले ।
फणाः सहस्रं शेषस्य भारः कति कुलाचलाः ॥ ५.६० ॥


अत्र न कश्चिद्वाक्यार्थः प्रतीयते ।

[व्.४.२ यर्थम्]

अथ व्यर्थम् ।

यत्प्रयोजनशून्यं स्यात्तद्व्यर्थं परिकीर्त्यते ॥ ५.६१ ॥


यथा

निर्मलं कुलमुद्वेलं शौर्यं वः प्रथितं यशः ।
किमित्यन्ध्रपतेः पादपीठं पाण्ड्यैर्न सेव्यते ॥ ५.६२ ॥


अत्र निर्मलं कुलमित्यादिप्रशंसा सेवा कर्तव्येत्युपदेशे नोपयुज्यते ।

[व्.४.३ कार्थम्]

अथैकार्थम् ।

उक्ताभिन्नार्थकं यत्स्यादेकार्थं तन्निगद्यते ।

यथा

विशीर्णं शतधा चेतो मूर्च्छितान् वीक्ष्य बालकान् ।
शिशून्निश्चेतनान् दृष्ट्वा खण्डितं शतशो मनः ॥ ५.६३ ॥


अत्र पूर्वोत्तरार्धयोरभिन्नार्थत्वम् ।

[व्.४.४ असंशयम्]

अथ ससंशयम् ।

वाक्यार्थसंशयो यत्र तत्ससंशयमिष्यते ॥ ५.६४ ॥


यथा

करिकुम्भौ स्तनावद्य जयतां क्षामतां गतौ ।
लता वपुः श्रियः स्त्रीणां हसन्तु म्लानतां गताः ॥ ५.६५ ॥


अत्र करिकुम्भयोः स्तनयोश्च लतानां वपुः श्रियां च कर्तृकर्मत्वसंशयः ।

[व्.४.५ पक्मम्]

अथापक्रमम् ।

यत्र पूर्वापरीभावविहतिस्तदपक्रमम् ।

यथा

हन्त व्यादाय वक्त्राणि निद्रान्त्यन्तर्वणं स्त्रियः ।
तृणैस्तत्पतितैरस्मान् शिक्षयन्त्यस्तथाक्रमम् ॥ ५.६६ ॥


अत्र निद्रोत्तरकालीनमुख्यादानस्य पूर्वकालत्वमुक्तमित्यपक्रमत्वम् ।

[व्.४.६ हिन्नम्]

अथ भिन्नम् ।

संबन्धवर्जितं यत्स्यात्तद्भिन्नं परिकीर्त्यते ॥ ५.६७ ॥


यथा

नूनं फालेषु लाटानां न धात्रा लिखिता लिपिः ।
यदस्माकं कुटुम्बानि विषीदन्ति मरुस्थले ॥ ५.६८ ॥


अत्र मरुस्थलनिवासविषादस्य फालस्थलगतलिप्यभावस्य च न संबन्धः ।

[व्.४.७ तिमात्रम्]

अथातिमात्रम् ।

यत्सर्वलोकातीतं तदतिमात्रं प्रकीर्त्यते ।

यथा

मा भूदेकार्णवं विश्वमिति संकोचिताश्रुभिः ।
अरण्ये लाटनारीभिरसंख्या निम्नगाः कृताः ॥ ५.६९ ॥


अत्राश्रुभिर्जगदेकार्णवमित्ययुक्तिः ।
[व्.४.८ उरुषम्]

अथ परुषम् ।

अतिक्रूरार्थसहितं परुषं परिकीर्त्यते ॥ ५.७० ॥


यथा

दावानलेन्धनं सद्यः क्रियन्तामर्भका इमे ॥ ५.७१ ॥


अत्र पलानि याचमानान् शिशूनुद्दिश्यातिपरुषोक्तिः ।

[व्.४.९ इरसम्]

अथ विरसम् ।

अप्रस्तुतरसं यत्तद्विरसं परिकीर्त्यते ।

यथा

चन्द्राननाः कटाक्षैर्नः पश्यतामृतवर्षिभिः ।
शोचित्वालमिति क्लिष्टाः किरातैश्चोलसुभ्रुवः ॥ ५.७२ ॥


अत्र पुरुषवियोगखिन्नानां स्त्रीणां वनचरैः संभोगप्रार्थनं विरसम् ।

[व्.४.१० इनोपमम्]

अथ हीनोपमम् ।

हीनं यत्रोपमानं स्यात्तद्धि हीनोपमं मतम् ॥ ५.७३ ॥


यथा

शुनकैरिव सारङ्गा भवद्भिर्निहता द्विषः ।
क्व गतं पौरुषं तद्वः काननैकनिवासिनाम् ॥ ५.७४ ॥


अत्र शुनकैरिव भवद्भिरिति हीनोपमम् ।

[व्.४.११ धिकोपमम्]

अथाधिकोपमम् ।

यत्रोपमानमधिकं तद्भवेदधिकोपमम् ।

यथा

अमी पारेसरस्तीरं बका निश्चलमूर्तयः ।
महर्षय इवास्माभिरद्य सोपद्रवाः कृताः ॥ ५.७५ ॥


अत्र बका महर्षय इवेत्यधिकोपमम् ।

[व्.४.१२ सदृशोपमम्]

अथासदृशोपमम् ।

यदतुल्योपमानं तद्भवेदसदृशोपमम् ॥ ५.७६ ॥


यथा

एष विन्ध्याचलः सान्द्रकुञ्जोच्चलितनिर्झरः ।
फालेक्षणस्फुरद्वह्निशिखाटोप इवेश्वरः ॥ ५.७७ ॥


अत्र कुञ्जोच्चलितनिर्झरस्य विन्ध्याचलस्य फालेक्षणस्पुरद्वह्नेरीश्वरस्य च मिथो न सादृश्यम् ।

[व्.४.१३ प्रसिध्दोपमम्]

अथाप्रसिद्धोपमम् ।

अप्रसिद्धोपमानं यदप्रसिद्धोपमं मतम् ।

यथा

बाष्पाम्बुक्लिन्ननेत्राणि मुखान्यङ्गमृगीदृशाम् ।
हिमदूषितपत्राणि कुमुदानीव निर्मुदाम् ॥ ५.७८ ॥


अत्र मुखानां कुमुदान्युपमानतया कविलोके न प्रसिद्धानि ।

[व्.४.१४ एतुषून्यम्]

अथ हेतुशून्यम् ।

हेतोर्विनार्थकथनं हेतुशून्यं प्रचक्षते ॥ ५.७९ ॥


यथा

मुधानुधावनं जातं मार्गेऽस्मिन्मौक्तिकाङ्किते ।
अन्वेष्टुमन्यतो यामि पदवीयं न सुभ्रुवः ॥ ५.८० ॥


अत्र सुभ्रुवः पदवीयं न भवतीति हेतुर्नोक्तः ।

[व्.४.१५ इरलंकृति]

अथ निरलंकृति ।

अलंकारेण रहितं निरलंकारमुच्यते ।

यथा

आघ्राय सुरभेर्योनिमुन्मुखैदीर्घमेहनैः ।
महोक्षेर्लम्बमानाण्डैर्विष्वग्व्याकुलितं वनम् ॥ ५.८१ ॥


[व्.४.१६ श्लीलम्]

अत्र न कश्चिदलंकारः ।
श्लाध्यविशेषणाभावात्न स्वाभावोक्तिः ।
अथाश्लीलम् ।

अश्लीलार्थस्य कथनमश्लीलं परिकीर्त्यते ॥ ५.८२ ॥


अस्यापि पूर्वमेवोदाहरणम् ।

[व्.४.१७ इरुध्दम्]

अथ विरुद्धम् ।

विरुद्धं देशकालादिविरुद्धं बहुधोच्यते ।

यथा

दिश्युत्तरस्यां नेदीयानुद्वेलो लवणार्णवः ।
मरुदेशेऽपि गङ्गा नः पिपासां शामयिष्यति ॥ ५.८३ ॥


अत्र दिश्युत्तरस्यां लवणार्णव इति दिग्विरोधः ।
मरौ गङ्गेति देशविरोधः ।

अरण्यमहिषोदग्रविषाणोदरजन्मनाम् ।

महत्यर्घेऽपि मुक्तानां स्त्रियो मुक्ताविभूषणाः ॥ ५.८४ ॥


अत्र महिषविषाणेभ्यो मुक्तानां जन्मेति लोकविरोधः ।
एवं विरुद्धान्तरमप्युदाहार्यम् ।

[व्.४.१८ अहचरभ्रष्चम्]

अथ सहचरभ्रष्टम् ।

मतं सहचरभ्रष्टमतुल्यानां निबन्धने ॥ ५.८५ ॥


यथा

शान्त्या श्रुतं ह्रिया नारी मन्मथेन रतोत्सवः ।
श्रुतेन धिषणा वन्यवृत्त्या जीवन्ति शात्रवाः ॥ ५.८६ ॥


अत्र श्रुतधिषणाभ्यां नारीरतोत्सवयोरपकृष्टत्वात्सहचरभ्रष्टम् ।
एवं दोषान्तराणि यथासंभवमूह्यानि ।
रसभावादीनां स्वशब्दवाच्यता दुष्टैव ॥


इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे

दोषप्रकरणं समाप्तम् ।

_______________________________________________


वि.

॥ अथ गुणप्रकरणम् ॥


अथ गुणा निरूप्यन्ते ।

श्लेषः प्रसादः समता माधुर्यं सुकुमारता ।
अर्थव्यक्तिरुदारत्वं तथा कान्तिरुदात्तता ॥ ६.१ ॥

ओजः सुशब्दता प्रेयानौर्जित्यमथ विस्तरः ।
समाधिः सौक्ष्म्यगाम्भीर्ये संक्षेपो भाविकं तथा ॥ ६.२ ॥

संमितत्वं तथा प्रौढी रीतिरुक्तिर्गतिस्तथा ।
चतुर्विंशतिरेते स्युर्गुणाः काव्यप्रकाशकाः ॥ ६.३ ॥

[वि.१ उणानामुदेशः]

एषां मध्ये केषांचिद्दोषपरिहारकत्वेन गुणत्वम् । केषांचित्स्वत एवोत्कर्षहेतुत्वाद्गुणत्वम् । तत्र ये स्वत एव चारुत्वातिशयहेतवस्ते परमुत्कृष्टाः । दुष्टत्वपरिहारहेतूनां गुणत्वं न सर्वसंमतम् । ये तु दोषाभावतया गुणत्वमिच्छन्ति तेषामेव सौकुमार्यादयो गुणत्वेन संमताः । श्रुतिकटुरूपदोषनिराकरणाय सौकुमार्यं संमतम् । ग्राम्यदोषनिराकरणाय कान्तिः स्वीकृता । अपुष्टार्थनिराकरणायार्थव्यक्तिर्मता । न्यूनाधिकपदनिराकरणाय संमितत्वं मतम् । अनुचितार्थनिराकरणार्थमुदात्तता स्वीकृता । विसंधिनिराकरणाय और्जित्यं मतम् । पतत्प्रकर्षनिराकरणाय रीतिरिष्टा । क्लिष्टपरिहाराय प्रसादो मतः । अश्लीलपरिहारार्थमुक्तिः स्वीकृता । च्युतसंस्कारपरिहारार्थं सौशब्द्यमिष्टम् । प्रक्रमभङ्गनिराकरणाय समता मता । परुषदोषनिवृत्त्यर्थं प्रेयान्मतः । एवं यथासंभवं केषांचिद्दोषपरिहारकत्वेन गुणत्वम् । एषां गुणानां स्वरूपमुदाहरणं च ।

[वि.२श्लेवः]

मिथः संश्लिष्टपदता श्लेष इत्यभिधीयते ।
बहूनां पदानामेकपदवदवभासमानत्वं श्लिष्टत्वम् ।

यथा

श्रीमत्काकतिवीररुद्रमखिलक्ष्मापालमौलिस्फुर
न्माणिक्यद्युतिरञ्जिताङ्घ्रिमखिलप्रख्यातशौर्योदयम् ।
विश्वत्राणविनिद्रमक्षयगुणज्योत्स्नावितानावृत
व्योमागारमनल्पवैभवममुं स्तोतुं वयं नेश्महे ॥ ६.४ ॥

अत्र पाठसमये पदानामेकवदवभासमानत्वात्श्लेषः ।

[वि.३ रसादः]

अथ प्रसादः ।

प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते ॥ ६.५ ॥

यथा

प्रतापरुद्रदेवोऽयं भाति लक्ष्मीपतिः स्वयम् ।
येनाम्य लोचने फुल्लपुण्डरीकमनोहरे ॥ ६.६ ॥


अत्र झटित्यर्थसमर्पकपदत्वात्प्रसादः ।

[वि.४ अमता]

अथ समता ।

अवैषम्येण भणनं समता सा निगद्यते ।

यथा

वदान्यतरुमञ्जरीसुरभ्यः श्रवः पारणं
गुणा विदधते सतां जगति वीररुद्रप्रभोः ।
सुधामधुरिमाधरीकरणचातुरीचुञ्चवो
वियच्चरतरङ्गिणीविहरदूर्मिमर्मस्पृशः ॥ ६.७ ॥

अत्र पादचतुष्ट्येऽपि तुल्यवद्भणनात्समत्वम् ।

[वि.५ आधुर्यम्]

अथ माधुर्यम् ।

या पृथक्पदता वाक्ये तन्माधुर्यं प्रकीर्त्यते ॥ ६.८ ॥

यथा

यशः श्रियः काकतिभूपतेर्दिशां नितम्बबिम्बेषु दुकूलरीतयः ।
उरोजयोर्मौक्तिकहारविभ्रमाः शिरस्सु जातीकुसुमस्रगुज्ज्वलाः ॥ ६.९ ॥

अत्र वाक्ये पाठसमयेऽपि पृथक्पदत्वप्रतीतेर्माधुर्यम् ।

[वि.६ उकुमारत्वम्]

अथ सुकुमारत्वम् ।

सुकुमाराक्षरप्रायं सौकुमार्यं तदुच्यते ।
सुकुमारत्वं नाम सानुस्वारकोमलवर्णत्वम् ।

यथा

अमन्दानन्दनिष्यन्दसुन्दरीवदनेन्दुभिः ।
नगरे काकतीन्द्रस्य दिवाप्याभाति चन्द्रिका ॥ ६.१० ॥

[वि.७ र्थव्यक्तिः]

अथार्थव्यक्तिः ।

यत्तु संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ॥ ६.११ ॥

यथा

भाग्यं मध्यमलोकनिघ्नमधुना येनास्य संरक्षिता
जातः खेलति वीररुद्रनृपतिर्निः सीमशौर्योदयः ।
यद्वा त्रीण्यपि विष्टपानि दधते धन्यत्वमंशो हरेर्
यत्साक्षादवतीर्य काकतिकुले स्वैरं समुज्जृम्भते ॥ ६.१२ ॥

अत्रार्थप्रतिपादने वाक्यस्य निराकाङ्क्षतया परिपूर्णत्वादर्थव्यक्तिः ।

[वि.८ आन्तिः]

अथ कान्तिः

अत्युज्ज्वलत्वं बन्धस्य काव्ये कान्तिरितीष्यते ।


यथा

जेतुः काकतिवीररुद्रनृपतेर्जैत्रप्रयाणोत्थिते
क्षोणीरेणुभरे नभस्यतिभृशं भूविभ्रमं बिभ्रति ।
जाता मर्त्यनदी विशङ्कटतटीदीर्घा वियद्दीर्धिका
गाढं गूढतमा च गौतमनदी पातालगङ्गायते ॥ ६.१३ ॥

[वि.९ उदार्यम्]

अथौदार्यम् ।

विकटाक्षरबन्धत्वमार्यैरौदार्यमिष्यते ॥ ६.१४ ॥

यथा

जग्ध्वा भूयांसि मांसान्यहमहमिकया बद्धागार्ध्यान् सपीत्या
मस्रस्योच्चैस्तरास्थ्युत्कषणभवकटत्काररौद्राग्रदंष्ट्रान् ।
संबिभ्राणाः क्षपाटान् द्विपगलितवसानिर्झरान्तर्नदीष्णान्
कुर्वन्त्यायोधनोर्व्यो भयमवनिभृतामन्ध्रसैन्येन सृष्टाः ॥ ६.१५ ॥

[वि.१० दात्तता]

अथोदात्तता ।

श्लाघ्यैर्विशेषणैर्योगो यस्तु सा स्यादुदात्तता ।

यथा

बृंहमाणगजाकीर्णा ह्रेषमाणहयाकुला ।
संक्रीडत्स्यन्दना क्ष्वेडभटा रुद्रविभोश्चमूः ॥ ६.१६ ॥

[वि.११ उजः]

अथौजः ।

ओजः समासभूयस्त्वम् ॥ ६.१७ ॥

यथा

उद्दामद्विरदौघदानलहरीसौरभ्यलोभभ्रमद्
भृङ्गश्रेणिनिबद्धझंकृतिकलावाचालितप्राङ्गणाः ।
निः सीमप्रथमानभूमविभवारम्भप्रियंभावुका
मोदन्ते भुवि वीररुद्रनृपतेर्विद्वद्गृहश्रेणयः ॥ ६.१८ ॥

[वि.१२ उशब्दाता]

अथ सुशब्दता ।

सुपां तिङां च व्युत्पत्तिः सौशब्द्यं परिकीर्त्यते ।

यथा

आशामण्डलकूलमुद्वहकथैरब्भ्रङ्कषैर्वैभवै
रक्षन् सुप्रजसः प्रजास्त्रिभुवनक्षेमङ्करप्रक्रियः ।
दुष्टानां भुवि निप्रहन्तुमतुलैराढ्यंभविष्णुर्गुणैर्
भूम्ना संचरतेऽद्य काकतिकुले रुद्रावतारो हरिः ॥ ६.१९ ॥


[वि.१३ रेयः]

अथ प्रेयः ।

प्रेयः प्रियतराख्यानं चाटूक्तौ यद्विधीयते ॥ ६.२० ॥

यथा

दाक्षिण्यं त्वयि, दक्षता त्वयि, दया त्वय्युन्नतत्वं त्वयि
प्रागल्भ्यं त्वयि, पौरुषं त्वयि, कलासंपत्त्वयि, श्रीस्त्वयि ।
औदार्यं त्वयि, धीरता त्वयि, जगद्धौरेयता च त्वयि
श्रीमत्काकतिनाथ ! पालय भुवं वैरिञ्चकल्पान् शतम् ॥ ६.२१ ॥

[वि.१४ उर्जित्यम्]

अथैर्जित्यम् ।

और्जित्वं गाढबन्धत्वम् ।

यथा

क्षोणीरक्षणदक्षिणाः क्षतजगत्क्षोभा दुरीक्षक्रमाः
क्षुद्रक्षत्रियपक्षशिक्षणविधौ प्रोत्क्षिप्तकौक्षेयकाः ।
उद्दामोद्यमनस्य रुद्रनृपतेर्देर्दण्डयोश्चण्डयोर्
गर्जद्दुर्जनगर्वपर्वतभिदादम्भोलयः केलयः ॥ ६.२२ ॥

इक्ष्ज्.१५ अमाधिः]

अथ समाधिः ।

समाधिरन्यधर्माणां यदन्यत्राधिरोपणम् ॥ ६.२३ ॥

यथा

पृच्छन्ती दुग्धसिन्धुं कुशलमनुसरन्त्यादराच्छङ्कराद्रिं
चाटूक्त्या मानयन्ती मुहुरमरनदीं चन्द्रमग्रे हसन्ती ।
वैधात्रीं यानहंसावलिमनुकृपया स्वागतं व्याहरन्ती
लोकेषु त्रिष्वमीषु प्रभवति महती वीररुद्रस्य कीर्त्तिः ॥ ६.२४ ॥

[वि.१६ इस्तरः]

अथ विस्तरः ।

समर्थनप्रपञ्चोक्तिरुक्तस्यार्थस्य विस्तरः ।

यथा

लोकेषु त्रिषु काकतीश्वरगुणान् स्तोतुं मुहुर्वीक्षितुं
श्रोतुं बह्वभिनन्दितुं च फणिनामेकः क्षमो नायकः ।
यद्वक्त्राणि सहस्रमस्य कृतिनो यद्द्वे सहस्रे दृश
स्ता एव श्रुतयः फणा दशशतान्यत्यद्भुतान्दोलने ॥ ६.२५ ॥

[वि.१७ अंमितत्वम्]

अथ संमितत्वम् ।

यावदर्थपदत्वं तु संमितत्वमुदाहृतम् ॥ ६.२६ ॥


यथा

काकतीयनरेन्द्रस्य कीर्त्तिचन्दनचर्चनम् ।
दिगङ्गना वितन्वन्ति वतंसीकृततद्गुणाः ॥ ६.२७ ॥

[वि.१८ आम्भीर्यम्]

अथ गाम्भीर्यम् ।

ध्वनिमत्ता तु गाम्भीर्यम् ।

यथा

विषं कौक्षेयके गङ्गा कीर्त्तौ दिग्वसनं रिपौ ।
इन्दुर्मुखे च रुद्रस्य काकतीयस्य दृश्यते ॥ ६.२८ ॥

अत्र शङ्करस्य कण्ठे विषं, मौलौ गङ्गा, कटिस्थले दिग्वस्त्रं, शिरसि चन्द्र इति ध्वन्यते ।

[वि.१९ अंक्षेपः]

अथ संक्षेपः ।

संक्षिप्तार्थाभिधानं यत्तत्संक्षेपः प्रकीर्त्यते ॥ ६.२९ ॥

यथा

वंशोऽस्ति काकतीयानां तत्रासन् बहवो नृपाः ।
तेषां भाग्यविवर्तोऽयं वीररुद्रो नरेश्वरः ॥ ६.३० ॥

अत्रातिविस्तरकथनयोग्यार्थस्य संक्षेपोक्तेः संक्षेपः ।

[वि.२० औक्ष्म्यम्]

अथ सौक्ष्म्यम् ।

अन्तः संजल्परूपत्वं शब्दानां सौक्ष्म्यमुच्यते ।

यथा

अध्यधः परिसंश्लिष्टाः ष्ठाकृञ्भूधातवः सदा ।
वर्तन्ते काकतीयेन्द्रे कर्तर्यन्यत्र कर्मणि ॥ ६.३१ ॥

अत्राधितिष्ठत्यधः करोति परिभवतीत्यन्तः संजल्परूपत्वात्सौक्ष्म्यं भवति ।

[वि.२१ रौढः]

अथ प्रौढिः ।

प्रौढिरुक्तेः परीपाक इति काव्यविदो विदुः ॥ ६.३२ ॥

यथा

वीप्सा पद्मभवस्य चन्द्रमुकुटस्यावृत्तिराम्रेडितं
दैत्यारेः प्रतिबिम्बनं सुरगिरेरिन्दोः समुत्तेजनम् ।
कर्णादेः पुनरुद्भवः सुरतरोः सर्वस्वमाविष्क्रिया
स्वर्धेनोरिति तर्कयन्ति कवयः श्रीवीररुद्रप्रभुम् ॥ ६.३३ ॥

[वि.२२.उक्तिः]

अथोक्तिः ।

विदग्धभणितिर्या
स्यादुक्तिं तां कवयो विदुः ।

यथा

दिट्ठा कमलासत्ती रण्णो तुह सुहअ चित्तचरिअत्स ।
भासन्तो वि तुमं तं कुवलअलच्छिं पसाहेसि ॥ ६.३४ ॥

(।दृष्टा कमलासक्ती राज्ञस्तव सुभग चित्रचरितस्य ।
भास्वानपि त्वं तां कुवलयलक्ष्मीं प्रसाधयसि ॥)

[वि.२३ ईतिः]

अथ रीतिः ।

यथोपक्रमनिर्वाहो रीतिरित्यभिधीयते ॥ ६.३५ ॥

यथा

षड्गुणान् सेवते राजा षड्रिपूनवमन्यते ।
षड्दर्शनान्युपादत्ते षड्बलानि च वीक्षते ॥ ६.३६ ॥

[वि.२४ हाविकम्]

अथ भाविकम् ।

भवतो वाक्यवृत्तिर्या भाविकं तदुदाहृतम् ॥ ६.३७ ॥

यथा

स्वामिंस्तात कुलोत्तंस वीररुद्र जगत्प्रभो ।
पुत्रिणां धुरमेषोऽहं पुत्रेणारोपितस्त्वया ॥ ६.३८ ॥

अत्र प्रेमरूपभाववशात्स्वमिंस्तातेति वाक्यवृत्तिः ।

[वि.२५ अतिः]

अथ गतिः ।

गतिर्नाम सुरम्यत्वं स्वरारोहावरोहयोः ॥ ६.३९ ॥

यथा

प्रकाश्ये त्रैलोक्ये सततमतुलैः काकतिविभोर्
महोभिर्निः सीमैर्दिनकरकराटोपपटुभिः ।
तमः कृत्स्नं शोकज्वलदनलरोचिः परिचयं
दधत्स्वप्युद्वेलत्यरिनृपमनस्स्वेव सततम् ॥ ६.४० ॥

अत्र पूर्वार्धे दीर्घाक्षरप्रायत्वात्स्वरस्यारोहः । उत्तरार्धेऽवरोहः । एतेषां गुणानामर्थगतत्वमपि केचिदिच्छन्ति । प्राचामाचार्याणां मतेन संघटनाश्रयत्वमेव गुणानाम् । तदुक्तमलंकारसर्वस्वे"संघटनाधर्मत्वेन शब्दार्थधर्मत्वेन च गुणालंकाराणां व्यवस्थानम्ऽ इति । अनयैव भङ्ग्या गुणालंकाराणां निरूपितः स्वरूपभेदः । अन्यथा स्वरूपभेदस्य दुर्निरूपत्वात् । काव्यशोभाकरत्वमेव गुणालंकारस्वरूपत्वम् । तदुक्तं रुद्ऽरभट्टेनऽ

"यो हेतुः काव्यशोभायाः सोऽलंकारः प्रकीर्त्यते ।
गुणोऽपि तादृशो ज्ञेयो दोषः स्यात्तद्विपर्ययः ॥ऽ इति ।

अतो गुणानां संघटनाश्रयत्वमेव युक्तम् ।

इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे

गुणप्रकरणं समाप्तम् ।

_______________________________________________


विइ.


॥ अथ शब्दालंकारप्रकरणम् ॥





अलङ्कारस्वरूपनिरूपणम् ।
अथ गुणनिरूपणानन्तरमलङ्कारा निरूप्यन्ते ।
अलंक्रियतेऽनेनेति चारुत्वहेतुरलंकारः ।
तथा चोक्तंऽकाव्यप्रकाशेऽ

"उपस्कुर्वन्ति तं सन्तं येऽङ्गद्वारेण संश्रिताः ।

हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥
ऽ इति ।

यथा करचरणाद्यवयवगतैर्वलयनू परादिभिस्तत्तदलंकारतया प्रसिद्धैरवयव्येवालंक्रियते तथा शब्दार्थावयवगतैरनुप्रासोपमादिभिस्तत्तदलंकारतया प्रसिद्धैरवयवीभूतं काव्यमुपस्क्रियते ।
आश्रयाश्रयिभावेनालंकार्यालंकारभावो लोकवत्काव्येऽपि संमतः ।
चारुत्वहेतुत्वेऽपि गुणानामलंकाराणां चाश्रयभेदाद्भेदव्यपदेशः ।
संघटनाश्रया गुणाः, शब्दार्थाश्रयास्त्वलंकाराः ।

तत्र प्रथमं शब्दार्थोभयगतत्वेन त्रैविध्यमलंकारवर्गस्य ।
अर्थालंकाराणां चातुर्विध्यम्॑ केचित्प्रतीयमानवस्तवः ॑ केचित्प्रतीयमानौपम्याः केचित्प्रतीयमानरसभावादयः॑ केचिदस्फुटप्रतीयमाना इति ।
समासोक्तिपर्यायोक्त्याऽक्षेपव्याजस्तुत्युपमेयोपमानन्वयातिशयोक्तिपरिकराप्रस्तुतप्रशंसानुक्तनिमित्तविशेषोक्तिषुप्रतीयमानं वस्तु काव्योपस्कारतामुपयाति ।
रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवोत्प्रेक्षास्मरणतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनाश्लेषेष्वौपम्यं गम्यते ।
रसवत्प्रेयऊर्जस्विसमाहितभावोदयभावसंधिभावशबलतासु रसभावादिर्व्यज्यते ।
उपमाविनोक्त्यर्थान्तरन्यासविरोधविभावनोक्तगुणनिमित्तविशेषोक्तिविषसमचित्राधिकान्योन्यकारणमालैकावलीव्याघातमालादीपककाव्यलिङ्गानुमानसारयथासंख्यार्थापत्तिपर्यायपरिवृत्तिपरिसंख्याविकल्पसमुच्चयसमाधिप्रत्यनीकप्रती

पविशेषनिमीलनसामान्यासङ्गतितद्गुणातद्गुणव्याजोक्तिवक्रोक्तिस्वभावोक्तिभाविकोदात्तेषु सहृदयहृदयाह्लादि स्फुटं प्रतीयमानं नास्ति ।

॥ अत्रेत्थमलंकारकक्ष्याविभागः ॥


साधर्म्यं त्रिविधम्भेदप्रधानमभेदप्रधानं भेदाभेदप्रधानं चेति ।
उपमानोपमेययोः स्वतो भिन्नत्वाच्छाब्दमेतन्न वास्तवम् ।
रूपकपरिणामसंदेहभ्रान्तिमदुल्लेखापह्नवानामभेदप्रवानसाधर्म्यनिबन्धनत्वम् ।
दीपकतुल्ययोगितानिदर्शनादृष्टान्तप्रतिवस्तूपमासहोक्तिप्रतीपव्यतिरेकाः भेदप्रधानसाधर्ग्यनिबन्धनाः ।
उपमानन्वयोपमेयोपमास्मरणानां भेदाभेदसाधारणसाधर्म्यमूलता ।
उत्प्रेक्षातिशयोक्ती अध्यवसायमूले ।
विभावनाविशेषोक्तिविषमचित्रासङ्गत्यन्योन्यव्याघातातद्गुणभाविकविशेषाणां विरोधमूलता ।
यथासंख्यपरिसंख्यार्थापत्तिविकल्पसमुच्चयानां वाक्यन्यायमूलता ।
परिवृत्तिप्रत्यनीकतद्गुणसमाधिसमस्वभावोक्त्युदात्तविनोक्तयो लोकव्यवहारमूलाः ।
काव्यलिङ्गानुमानार्थान्तरन्यासानां तर्कन्यायमूलता ।
कारणमालैकावलीमालादीपकसाराः शृङ्ग्लावैचित्र्यमूलाः ।
व्याजोक्तिवक्रोक्तिमीलनान्यपह्नवमूलानि ।
समासोक्तिपरिकरौ विशेषणवैचित्र्यमूलौ ।

॥ अथालंकाराणां परस्परवैलक्षण्य निरूप्यते ॥


आरोपगर्भत्वेऽप्यारोप्यमाणस्य प्रकृतोपयोगानुपयोगाभ्यां परिणामरूपकयोर्भेदः ।
आरोपविषयस्यारोप्यमाणरूपसंभवासंभवाभ्यामुल्लेखरूपकयोर्भेदः ।
आरोपविषयस्य संदेहभ्रान्त्यपह्नवैः सन्देहभ्रान्तिमदपह्नवानां परस्परं भेदः ।
साधर्म्यमूलत्वेऽपि तुल्ययोगितादीपकनिदर्शनाव्यतिरेकदृष्टान्तेभ्यः साधर्म्यस्य वाच्यत्वादुपमानन्वयोपमेयोपमा भिद्यन्ते ।
साधर्म्यस्य वाच्यत्वगम्यत्वाभ्यामुपमेयोपमाप्रतिवस्तूपमयोर्भेदः ।
वस्तुप्रतिवस्तुबिम्बप्रतिबिम्बभावाभ्यां प्रतिवस्तूपमादृष्टान्तयोर्भेदः ।
प्रस्तुताप्रस्तुतानां व्यस्तसमस्तत्वाभ्यां तुल्ययोगितादीपकयोर्भेदः ॥
उपमानस्य प्रसिद्धत्वाप्रसिद्धत्वाभ्यामुपमोत्प्रेक्षयोर्भेदः ।
अर्थसाम्यशब्दसाम्याभ्यामुपमाश्लेषयोर्भेदः ।
उपमानोपमेययोर्भेदाभेदाभ्यामुपमानन्वययोर्भेदः ।
उपमानोपमेयभावस्य पर्याययौगपद्याभ्यामुपमेयोपमानन्वययोर्भेदः ।
अप्रस्तुतस्य वाच्यत्वगम्यत्वाभ्यामप्रस्तुतप्रशंसासमासोक्त्योर्भेदः ।
वाच्यव्यङ्ग्ययोः प्रस्तुतत्वे पर्यायोक्तिः वाच्यस्याप्रस्तुतत्वेऽप्रस्तुतप्रशंसा ।
व्याप्तिपक्षधर्मताद्यभावात्काव्यलिङ्गस्यानुमानाद्भेदः ।
साधारणगुणयोगाद्भेदानुपलब्धौ सामान्यम् ।
उत्कृष्टगुणयोगान्न्यूनगुणतिरोधाने मीलनम् ।
अन्यव्यवच्छेदे तात्पर्याभावादुत्तरालंकारस्य परिसंख्यातो भेदः ।
काकतालीयतया कार्यसाधने कारणान्तरोपनिपाते समाधिः ।
अहमहमिकया कार्यसाधने बहूनां कारणानामुद्यमे द्वितीयः समुच्चयः ।
निह्नवस्य वाच्यत्वगम्यत्वाभ्यामपह्नवव्याजस्तुत्योर्भेदः ।
अन्येषां भेदः स्पष्ट एव ।
यद्यपि व्याजोक्तिमीलसामान्येषु कथंचित्सादृश्यमस्ति ॑ तथाप्यविवक्षितत्वान्न सादृश्यमूलेषु गणना ।

शब्दालंकारा निरूप्यन्ते ।

अथालंकारस्वरूपविभागानन्तरं शब्दार्थयोर्मध्ये शब्दस्यार्थं प्रतीत्यन्तरङ्गत्वात्प्रथमं शब्दालंकारा निरूप्यन्ते ।

[विइ.१ हेकानुप्रासः]

छेकानुप्रासः

भवेदव्यवधानेन द्वयोर्व्यञ्जनयुग्मयोः ।
आवृत्तिर्यत्र स बुधैश्छेकानुप्रास इष्यते ॥ ७.१ ॥


यत्राव्यवहितयोर्व्यञ्जनयुग्मयोर्द्वयोः पौनरुक्त्यं तत्र छेकानुप्रासः ।

यथा

महीमहीनविभवे धत्ते क्षेमंकरे करे ।
राजन्यजन्यविजयी राजा राजद्गुणोदयः ॥ ७.२ ॥


[विइ.२ ऋत्यानुप्रासः]

वृत्त्यनुप्रासः ।

एकद्विप्रभृतीनां तु व्यञ्जनानां यथा भवेत् ।
पुनरुक्तिरसौ नाम वृत्त्यनुप्रास इष्यते ॥ ७.३ ॥


यथा

रे रे क्षुद्रमहीक्षितः ! क्षणमितः श्रीकाकतिक्ष्मापतेर्वीक्षध्वं ध्वजिनीं दुरीक्षसुभटां प्रोत्क्षिप्तकौक्षेयकैः ।
योत्स्यध्वे यदि लभ्यमक्षयपदं कान्तारपक्षो वृथा क्ष्माभृत्कुक्षिचरत्तरक्षुनिकरात्तत्रात्मरक्षा कुतः ॥ ७.४ ॥


[विइ.३ अमकम्]

यमकम् ।

यमकं पौनरुक्त्ये तु स्वरव्यञ्जनयुग्मयोः ॥ ७.५ ॥


छेकानुप्रासे वृत्त्यनुप्रासे च स्वरपौनरुक्त्यमानुषङ्गिकम् ।
यमके तु सस्वरयोः व्यञ्जनयुग्मयोः आवृत्तिः ।
तस्यादिमध्यान्तगतत्वेन बहवो भेदाः ।
अत्र दिङ्मात्रमुदाह्रियते ।

प्रतापः काकतीन्द्रस्य महामहिमतेजसः ।
श्रियं दधाति पद्मेष्टमहामहिमतेजसः ॥ ७.६ ॥


यत्रार्थः प्रमुखे किंचित्भासते पुनरुक्तवत् ।
पुनरुक्तवदाभासोऽलंकारः स सतां मतः ॥ ७.७ ॥


[विइ.४ उनरीक्तवदाभासः]

यत्रार्थः पुनरुक्तवदाभासते, अन्वयवेलायामन्यथा भवति, स पुनरुक्तवदाभासोऽलंकारः ।
अर्थालङ्कारत्वेऽप्यस्य शब्दपौनरुक्त्याश्रितत्वाच्छब्दालंकारप्रस्तावे लक्षणं कृतम् ।
यथा

जिष्णुरिन्द्रः क्षितिभुजां श्रीपतिः पुरुषोत्तमः ।
भास्वान् सूर्यस्फुरत्तेजाः काकतीन्द्रो विराजते ॥ ७.८ ॥


अथोभयपौनरुक्त्यालंकारः कथ्यते ।

[विइ.५ अराटानुप्रासः]

लाटानुप्रासः ।

शब्दार्थयोः पौनरुक्त्यं यत्र तात्पर्यभेदवत् ।
स काव्यतात्पर्यविदां लाटानुप्रास इष्यते ॥ ७.९ ॥


यत्र शब्दार्थयोस्तात्पर्यभेदमात्रं न स्वरूपभेदस्तत्र लाटानुप्रासः ।

यथा

गुणा गुणास्ते गण्यन्ते ये रुद्रनृपमाश्रिताः ।
नीतिर्नीतिरसौ तस्य लक्ष्मीर्लंक्ष्मीश्च कथ्यते ॥ ७.१० ॥


[विइ.६ अद्मबन्धादिः]

चित्रालंकारः पद्मबन्धादिः ।

पद्माद्याकारहेतुत्वे वर्णानां चित्रमुच्यते ।

आदिग्रहणाच्चक्रबन्धादयः ।
तत्राष्टदलपद्मबन्धो यथा

याता यस्यासमग्रानतिमिह कनकास्थानसक्तासनाया
यानासक्तासनस्था सुखयतु कमलाभ्याससुज्ञानमाया ।
या मानज्ञा सुसभ्या क्षितिपतितिलकं ज्ञातिरक्ता सगेया
यागे सक्ता रतिज्ञा सुकृतिषु फलितग्रामसस्यायताया ॥ ७.११ ॥


[विइ.७ अक्रबन्धः]

चक्रबन्धो यथा

लक्ष्मीवीक्षितवैभवस्य जगतां नाथस्य भद्रश्रियो
दिक्ष्वारब्धनिजप्रतापजनितां भाकृद्धुरां यच्छतः ।
नित्यं रुद्रजनाधिपस्य जयिनो भाति प्रिकाशं स्थिरा
राजत्पालनमोदितात्मनि भुजे योग्याश्रितत्वाद्धरा ॥ ७.१२ ॥


अत्र चक्रबन्धे वैजनाथकृतिवीररुद्रयश इति प्रतीयते ।

[विइ.८ आगबन्धः]

नागबन्धो यथा

ओजस्ये रुद्रदेवे विभवति महिमत्याजितान्यप्रतापे
विद्यावर्येऽभिनेतर्युरुहरिचरितं विश्वविस्तारभाजि ।
वैरिव्राता भजन्ते वनमतिमलिनख्यातयो देवविद्धा
वन्यैरध्वन्यवारि क्षतिमति विविधे जन्तुभिः स्थानभाजः ॥ ७.१३ ॥


इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलंकारशास्त्रे

शब्दालंकारप्रकरणं समाप्तम् ।

_______________________________________________



विइइ. ॥ अथ अर्थालंकाराः ॥



तत्र प्रथममनेकालंकारबीजभूतत्वादुपमा निरूप्यते ।

[विइइ.१.उपमाविभागः]

स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः ।
साम्यमन्येन वर्ण्यस्य वाच्यं चेदेकदोपमा ॥ ८.१ ॥

यत्र स्वतः सिद्धेन स्वतो भिन्नेन सहृदयसंमतेनाप्रकृतेन सह प्रकृतस्य धर्मतः सादृश्यमेकदा वाच्यं चेद्भवति तत्रोपमा । स्वतः सिद्धेनेत्यनेनोत्प्रेक्षाव्यावृत्तिः । उत्प्रेक्षायामप्रसिद्धस्याप्युपमानत्वसंभवात् ।

यथा

कीर्त्तिः काकतिवीरुद्रनृपतेः सिंहासनाध्यासिनः
प्राचां भुमीभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः ।
रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता
रैलोक्याट्टहासप्रभवे ककुभां प्रान्तेषु विद्योतते ॥ ८.२ ॥

अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहासप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः । स्वतो भिन्नेनेत्यनेनानन्वयन्यावृत्तिः । अनन्वये एकस्यैवोपमानोपमेयत्वसंभवात् । तथा हि

सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः ।
तथापि वीररुद्रोऽयं वीररुद्र इव स्वयम् ॥ ८.३ ॥

संमतेनेत्यनेन न्यूनोपमादिव्यावृत्तिः । यथा

उदन्वानिव गम्भीरः सुवर्णाद्रिरिवोन्नतः ।
दिङ्महेभ इव क्षोणीधौरेयः काकतीश्वरः ॥ ८.४ ॥

अत्र समुद्रसुवर्णाद्रिदिग्गजानामुपमानत्वं योग्यमित्युपमैवेयम् । धर्मत इत्यनेन श्लेषालंकारवैलक्षण्यम् । श्लेषे शब्दसाम्यमात्रमभ्युपगतं न गुणक्रियासाम्यम् । तथा हि

नीराजयन्त्यध्रपुरीरमण्यः प्रदीपजालैर्वरवीररुद्रम् ।
चन्द्रानना गोत्रपतिं रजन्यस्तारागणैर्मेरुमिव स्फुरद्भिः ॥ ८.५ ॥

अत्र प्रतापरुद्रं पुरस्त्रियो नीराजयन्ति मेरुं रजन्य इवेति नोपमा । गोत्रपतिमिति विशेषणार्थस्य साम्याभावात् ।

गोत्रशब्देन राजपक्षे कुलप्रतीतिः, मेरुपक्षे पर्वप्रतीतिः । तथा चन्द्रानना इति स्त्रीपक्षे चन्द्र इव आननं यासामिति समासः । रात्रिपक्षे चन्द्र एवाननं यासामिति शब्दमात्रसाम्येन नोपमाप्राप्तिः । किं तु श्लेष एव । अन्येन वर्ण्यस्य साम्यमित्यनेन प्रतीपालंकारो व्यावर्त्यते । तथा हि

लोकोऽयमविशेषज्ञः किं कुर्मः कस्य कथ्यते ।
यत्काकतिनरेन्द्रेण सुमेरुरुपमीयते ॥ ८.६ ॥

अत्राप्रकृतस्य मेरोः प्रकृतेन राज्ञा सादृश्यमिति प्रतीपालंकारो नोपमा ।
एकदा साम्यमित्यनेन उपमेयोपमाव्यावृत्तिः । उपमेयोपमायामुपमानोपमेययोरनेकदा साम्यप्रतिपादनम् ।

धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ ८.७ ॥

अत्र धर्मोऽर्थ इव अर्थो धर्म इवेत्यनेकदा इवशब्दद्वयेन धर्मार्थकामानां सादृश्यं प्रतिपाद्यत इत्युपमेयोपमा । वाच्यमित्यनेन प्रतीयमानौपम्यानां रूपकसंदेहभ्रान्तिमदुल्लेखापह्नवतुल्ययोगितादीपकप्रतिवस्तूपमादृष्टान्तसहोक्तिव्यतिरेकनिदर्शनानां वैलक्षण्यम् । तथा हि

प्रतापरुद्रनृपतेर्मण्डलाग्रविधुंतुदः ।
अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ ८.८ ॥

अत्र मण्डलाग्रविधुंतुदयोः सामानाधिकरण्यान्यथानुपपत्त्या सादृश्यं लक्ष्यत इति नोपमा ॑ किं तु रूपकालङ्कारः ।

[विइइ.२ ईपकालरङ्कारः]

किमेष नवमो हरित्पतिरमन्दसंपत्पदं
किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः ।
किमेष हरिरुर्वरोद्धरणचुञ्चुरेकादशश्
चिरादिति वितर्क्यते जगति काकतीन्द्रो जनैः ॥ ८.९ ॥

अत्र काकतीश्वरस्य हरित्पतिप्रभृतीनां च परस्पराभेदप्रतीतेः संदेहनिबन्धनान्यथानुपपत्त्या सादृश्यमाक्षिप्यते॑ ततः संदेहालंकारः ।

काकतीयविभोः कीर्त्तिविभवे व्याप्तरोदसि ।
दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम् ॥ ८.१० ॥

अत्र कीर्त्तिविभवे चन्द्रिकाबुद्धिः चन्द्रिकासादृश्यं विना न संभवतीति सादृश्याक्षेपात्भ्रान्तिमदलङ्कारः ।

[विइइ.३ ह्रान्तिमदलङ्कारः]

लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः
शौर्यातिभूमिखनिरित्यरिवीरवर्गाः ।
विद्याविहारपदवीति च लब्धवर्णाः
श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ ८.११ ॥

अत्र नगर्यां तत्तत्पदार्थतारोपः सादृश्यादृते न संभवतीति सादृश्यकल्पनादुल्लेखालंकारः ।

वीररुद्रस्य भूपालजयहोमं वितन्वतः ।
धूमरजिरियं भाति न चमूरेणुरुत्थिता ॥ ८.१२ ॥

अत्रोत्थितां चमूरेणुमवलोक्य धूमपङ्क्तिरित्यपह्नवेनारोपः सादृश्यमूल एवेति सादृश्याक्षेपादपह्नवः । एवं तुल्ययोगितादिष्वपि सादृश्यस्य गम्यत्वान्नोपमाशङ्का । अतः सर्वेभ्यः सादृश्यमूलेभ्यो विलक्षणेयमुपमा ।

सा प्रथमं द्विधा पूर्णा लुप्ता चेति । उपमानोपमेयसाधारणधर्मसादृश्यप्रतिपादकानां चतुर्णां प्रयोगे पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता । पूर्णा द्विविधाश्रौती आर्थी चेति । साक्षात्सादृश्यप्रतिपादकयथेवादिशब्दानां प्रयोगे श्रौती । धर्मिव्यवधानेन सादृश्यप्रतिपादकानां

सदृशसंकाशनीकाशप्रतीकाशादिशब्दानां प्रयोगे आर्थी । द्वे अपि वाक्यसमासतद्धितगतत्वेन त्रिवेधे । एवं
पूर्णोपमा षट्प्रकारा । लुप्तोपमा एकोनविंशतिभेदा । "तेन तुल्यं क्रिया चेद्वतिःऽ इति सदृशार्थे विहितस्य वतेरुपादाने आर्थी । "तत्र तस्येवऽ इति इवार्थे विहितस्य वतेरुपादाने श्रौती । अत एव सादृश्यार्थे विहितस्य वतेः प्रयोगे धर्मोपादान एवान्वयसौकर्यादनुक्तधर्मा तद्धितगा श्रौती लुप्ता नास्ति । कल्पबादिप्रयोगे त्वार्थ्येव । अथोदाहरणानि । वाक्यगा पूर्णा श्रौती यथा

उद्दामोद्यतविक्रमे कृतयुगे बाहौ ययातेर्यथा
त्रेतायां रघुनायकस्य महितख्यातौ भुजायां यथा ।
दोर्दण्डे च युधिष्ठिरस्य विलसच्छौर्ये यथा द्वापरे
विस्रब्धाद्य कलौ तथैव रमते क्षोण्यन्ध्रभर्तुर्भुजे ॥ ८.१३ ॥

समासगा पूर्णा श्रौती यथा

भास्वानिवोद्यन्नुदयाद्रिलम्बी भद्रासनस्थो वरवीररुद्रः ।
उत्पश्यतामन्ध्रपुरीजनानां नेत्राब्जजाड्यं शमयत्यशेषम् ॥ ८.१४ ॥

अत्र भास्वानिवेति इवेन सह नित्यसमासः । तद्धितगा पूर्णा श्रौती यथा

कूर्मवच्छेषवद्गोत्रगिरिवद्दिङ्महेभवत् ।
भुजे प्रतापरुद्रस्य धुरीणे भाति मेदिनी ॥ ८.१५ ॥

वाक्यगा पूर्णार्ऽऽथी यथा

तैस्तैर्महीपालनसंविधानैस्तैस्तैः प्रजारञ्जनवैभवैश्च ।
विराजते संप्रति काकतीयलक्ष्मीपतिर्दाशरथेः समानः ॥ ८.१६ ॥

समासगा पूर्णार्थी यथा

तादृक्पालनसामर्थ्यसंपदा काकतीश्वरः ।
हरिदीश्वरसंकाशः शास्ति मध्यमविष्टपम् ॥ ८.१७ ॥

तद्धितगा पूर्णार्थी यथा

हेमाचलवदौन्नत्ये गाम्भीर्ये क्षीरसिन्धुवत् ।
प्रतापे भानुवद्भाति वीररुद्रनरेश्वरः ॥ ८.१८ ॥

एषूदाहरणेषूपमेयोपमानसाधारणधर्मसादृश्यप्रतिपादकानि चत्वारि निबद्धानीति पूर्णत्वम् ।

अथ लुप्तोपमाया उदाहरणानि ।

अनुक्तधर्मा वाक्यगा श्रौती लुप्ता यथा

यथा रुचां स्वामिनि चक्रवाक्यो यथा च नीहाररुचौ चकोर्यः ।
यथा प्रसूनस्तबके भ्रमर्यस्तथा प्रजाः काकतिवीररुद्रे ॥ ८.१९ ॥

अनुक्तधर्मा समासगा श्रौती लुप्ता यथा

प्रतापरुद्रदेवस्य पादपीठीमनारतम् ।
आराधयन्ति भूपालाः प्रणता देवतामिव ॥ ८.२० ॥

अनुक्तधर्मा वाक्यगा आर्थी लुप्ता यथा

काकतिक्ष्मापतेर्जैत्रप्रस्थानपटहध्वनिम् ।
तुल्यं दम्भोलिनिर्घोषैः शृण्वन्त्यरिमहीभृतः ॥ ८.२१ ॥

अनुक्तधर्मा समासगा आर्थी लुप्ता यथा

शश्वत्पुरीमेकशिलाभिधानां वस्वोकसारासदृशीमवेक्ष्य ।
नमन्ति भूपा भुवि काकतीयराज्यप्रतिष्ठां बहुमन्यमानाः ॥ ८.२२ ॥


अनुक्तधर्मा तद्धितगा आर्थी लुप्ता यथा

प्रतापरुद्रनृपतेर्जगन्महिततेजसः ।
कन्दर्पकल्पमाकारं पश्यन्त्यन्ध्रपुरन्ध्रयः ॥ ८.२३ ॥

एषूदाहरणेषु धर्मस्यानुपादानम् ।

अनुक्तधर्मेवादिः कर्मक्यचा लुप्ता यथा

दुग्धार्णवीयत्वम्भोधीन् कैलासीयति भूधरान् ।
प्रतापरुद्रदेवस्य यशोवैशद्यवैभवम् ॥ ८.२४ ॥

अनुक्तधर्मेवादिराधारक्यचा लुप्ता यथा

क्रीडाद्रीयति गोत्रशैलशिखरेष्वास्थानसद्मीयति
द्वीपेष्वब्धिषु दीर्घिकीयति हरित्स्वेकान्तगेहीयति ।
उद्यानीयति सीमपर्वततटारण्ये सुपर्वाचले
प्रासादीयति वीररुद्रनृपतेः स्फारः प्रतापोदयः ॥ ८.२५ ॥

अनुक्तधर्मेवादिः कर्मणमुला लुप्ता यथा

पश्यन्त्यात्मजदर्शमिन्दुममरस्रोतस्विनीं सत्सवी
दर्शं क्षीरपयोनिधिं प्रियसुहृद्दर्शं गिरिं राजतम् ।
लीलादर्पणदर्शमन्यदमलं तारादि हारावली
दर्शं खेलति वीररुद्रनृपतेः कीर्त्तिर्जगद्व्यापिनी ॥ ८.२६ ॥

अनुक्तधर्मेवादिः कर्तृणमुला लुप्ता यथा

नृपेषु शिक्षाविधिदण्डचारं कान्तासु पुष्पायुधधन्वचारम् ।
प्रजासु चालम्बनयष्टिचारं चरत्ययं रुद्रनरेन्द्रखड्गः ॥ ८.२७ ॥

अनुक्तधर्मेवादिः क्विपा लुप्ता यथा

सुधाप्रवाहति सतामसतां कालकूटति ।
वीररुद्रनरेन्द्रस्य गुणज्योत्स्नाविजृम्भितम् ॥ ८.२८ ॥

एषूदाहरणेषु द्वयोरनुपादानम् । अम्भोधीन् दुग्धार्णवीयतीत्यत्र कर्मक्यचि दुग्धार्णवानिव करोतीति, गोत्रशिखरेषु क्रीडाद्रीयतीत्याधारक्यचि क्रीडाद्रीष्विव वर्तत इति, चन्द्रमात्मजदर्शं पश्यन्तीति कर्मणमुलि आत्मजमिव पश्यन्तीति, शिक्षाविधिदण्डचारं चरतीति कर्तृणमुलि शिक्षाविधिदण्ड इव चरतीति इवशब्दोऽन्तर्गत इति तस्य लुप्तत्वम् । अनुक्तधर्मीवदिः कर्तृक्यचा लुप्ता यथा

ज्योत्स्नीयन्ति सुधीयन्ति चन्दनीयन्ति सर्वतः ।
प्रतापरुद्रनृपतेः शुभ्राः कीर्त्तेर्महोर्मयः ॥ ८.२९ ॥

अत्र कीर्त्तीनां स्वरूपमुपमेयम् ।

अनुक्तधर्मेवादिः कर्तृक्यङा लुप्ता यथा

शेषायते महीं वोढुं कल्पशाखायतेऽर्थिनाम् ।
प्रतापरुद्रदोर्दण्डः कालदण्डायते द्विषाम् ॥ ८.३० ॥

अनुक्तोपमाना वाक्यगा लुप्ता यथा

वदान्यो नान्योऽस्ति त्रिजगति समो रुद्रनृपतेर्
गुणश्रेणीश्लाघापिहितहरिदीशानयशसः ।
समन्तादुद्भूतैर्द्विरदमदगन्धैः सुरभयः
क्रियन्ते यद्विद्वज्जनमणिगृहप्राङ्गणभुवः ॥ ८.३१ ॥

अनुक्तोपमाना समासगा लुप्ता यथा

वीररुद्रसमो राजा नास्ति नास्त्येव भूतले ।
यस्य धर्मानुबन्धेन कलिः कृतयुगीकृतः ॥ ८.३२ ॥

अनुक्तधर्मोपमाना वाक्यगा लुप्ता यथा

लोके काकतिवीररुद्रनृपतेरुद्दामभूमश्रियः
कीर्त्त्या कार्त्तिककौमुदीधवलया तुल्यं न किंचित्क्वचित् ।
यन्माधुर्यविजृम्भितक्षतविषां ग्रीवां विलोक्याधुना
कण्ठालिङ्गनमीशितुर्वितनुते नीरन्ध्रमद्रेः सुता ॥ ८.३३ ॥

अनुक्तधर्मोपमाना समासगा लुप्ता यथा

प्रतापश्रीतुल्यं क्वचिदपि न भूतं न च भवेत्
न भावि त्रैलोक्ये किमपि जयिनः काकतिविभोः ।
यथा लोकालोकक्षितिधरतटेष्वर्कदृषदः
प्रकाशन्ते नक्तंदिवमुदितरोचिः परिचयाः ॥ ८.३४ ॥

पूर्वोदाहरणद्वये वदान्यो नान्योऽस्तीति राजेति शब्दाभ्यां वितरणशीलत्वं प्रजारञ्जकत्वं च साधर्म्यमुक्तम् । अनन्तरोदाहरणद्वये धर्मस्याप्यनुपादानमिति भेदः । एषु चतुर्षूदाहरणेषु न प्रतीपालंकारशङ्का । उपमानस्याक्षेपाभावात्॑ उपमेयस्याधिक्याविवक्षणाच्च । यत्रोपमेयस्याधिक्यविवक्षयोपमानत्वमुच्यते तत्रैव प्रतीपालंकारः । अनुक्तेवादिः समासगा लुप्ता यथा

असतामुष्णभानूष्णं सतां शीतांशुशीतलम् ।
प्रतापरुद्रदेवस्य चरितं विश्वमङ्गळम् ॥ ८.३५ ॥

अनुक्तधर्मेवाद्युपमाना समासगा लुप्ता यथा

काकतीन्द्रो रणे भाति भीमसेनपराक्रमः ।

किंत्वदुः शासनाः सर्वे यस्य प्रत्यर्थिपार्थिवाः ॥ ८.३६ ॥

अत्र भीमसेनस्य पराक्रम इव पराक्रमो यस्य सः भीमसेनपराक्रम इति धर्मेवाद्युपमालुप्ता । इति लुप्तोपमा दर्शिताः ।

अथ साधारणधर्मोपादाने द्वैविध्यम् । धर्मस्य सकृदुपमानोपमेयगतत्वेन निर्देशः, उभयगतत्वेन पृथगुपादानं च । पृथगुपादानं च वस्तुप्रतिवस्तुभावेन बिम्बप्रतिबिम्बभावेन च द्विविधम् । एकस्यार्थस्य शब्दद्वयेनाभिधानं वस्तुप्रतिवस्तुभावः । द्वयोरर्थयोर्द्विरुपादानं बिम्बप्रतिबिम्बभावः । सकृन्निर्देशो यथा

नृपाः प्रणतमूर्धानः सेवन्ते काकतीश्वरम् ।
असाधूनां विनेतारं गुरुं शिष्या इवाभितः ॥ ८.३७ ॥

अत्र नरेश्वराणां शिष्याणां च प्रणतमूर्धान इति सकृदेव साधर्म्यमुक्तम् । यथा असाधूनां विनेतारमिति राज्ञो गुरोश्च तुल्यधर्मत्वं सकृदेवोक्तम् । वस्तुप्रतिवस्तुभावेन द्विधा निर्देशो यथा

वंशोऽयं काकतीयानां वीररुद्रेण भूषितः ।
अन्ववायः ककुत्स्थानां रामेणेव परिष्कृतः ॥ ८.३८ ॥

अत्र भूषितपरिष्कृतशब्दाभ्यामेकार्थप्रतीतेर्वस्तुप्रतिवस्तुभावः ।
बिम्बप्रतिबिम्बभावो यथा

स्फुरच्छ्रवेतातपत्रश्रीः काकतीयनरेश्वरः ।
हाटकाद्रिरिवाभाति शृङ्गसङ्गीन्दुमण्डलः ॥ ८.३९ ॥

अत्र श्वेतातपत्रचन्द्रमण्डलयोः सादृश्येन काकतीन्द्रसुवर्णाचलयोः सादृश्यमिति बिम्बप्रतिबिम्बभावः ।

अपरमपि द्वैविध्यमस्यालंकारस्यसमस्तवस्तुविषया एकदेशवर्तिनी चेति । यथाक्रमं द्वयोरुदाहरणम्

विभाति भूर्द्यैरिव काकतीन्द्रपुरी विराजत्यमरावतीव ।
पौराः प्रथन्ते त्रिदशा इवर्द्धि धत्ते मरुत्वानिव वीररुद्रः ॥ ८.४० ॥

एषा समस्तवस्तुविषया । एकदेशवर्तिनी यथा

द्विपैश्चरद्भिर्धरणीधरैर्वा तुरङ्गमश्रेणिभिरूर्मिभर्वा ।
नानायुधैर्व्यालजलग्रहैर्वा बलं त्रिलिङ्गाधिपतेर्दुरापम् ॥ ८.४१ ॥

अत्र त्रिलिङ्गाधिपतेर्बलं समुद्र इवेत्यर्थात्प्रतीतेरेकदेशवर्तित्वम् । मालारूपेणाप्ययमलंकारो दृश्यते । यथा

कुन्दति कुमुदति हंसति हारति हरति क्षपाकरति ।
कैलासति च यशः श्रीवैशद्यं वीररुद्रस्य ॥ ८.४२ ॥

अत्रैकस्योपमेयस्यानेकोपमानदर्शनात्मालात्वम् । उपमायां भेदाभेदसाधारणस्य साधर्म्यस्य प्रयोजकत्वम् । एवं भेदान्तरं यथासंभवमुदाहार्यम् ॥

अनन्वयालंकारः ।

एकस्यैवोपमानोपमेयत्वेऽनन्वयो मतः ॥ ८.४३ ॥

यत्र द्वितीयसब्रह्मचारिनिवृत्त्यर्थमेकस्यैवोपमानोपमेयभावो निबध्यते असावनन्वयालंकारः । यथा

सन्तु लोके सुवर्णाद्रिरत्नाकरसुधाकराः ।
तथापि वीररुद्रोऽयं वीररुद्र इव स्वयम् ॥ ८.४४ ॥

[विइइ.४ पमेयापमालङ्कारः]

उपमेयोपमालङ्कारः ।

पर्यायेण द्वयोस्तस्मिन्नुपमेयोपमा मता ॥ ८.४५ ॥

तस्मिन्नित्युपमानोपमेयत्वपरामर्शः । यथा

धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव स्थितः ।
कामस्ताविव तौ काम इव रुद्रनरेश्वरे ॥ ८.४६ ॥

[विइइ.५ मरणालङ्कारः]

स्मरणालंकारः ।

सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते ॥ ८.४७ ॥

यत्र सदृशस्य पदार्थस्यानुभवेन सदृशवस्त्वन्तरपरामर्शो जायते तत्र स्मरणालंकारः । यथा

राज्ञा प्रतापरुद्रेण पालितेयं वसुंधरा ।
हरिश्चन्द्रनलादीनां प्राचां स्मरति भूभुजाम् ॥ ८.४८ ॥

अत्र नलनहुषादितुल्यपालनप्रवीणतया प्रतापरुद्रं रक्षितारं
प्राप्तवत्याः मेदिन्याः पूर्वराजस्मरणम् ।

भेदाभेदसाधारणसाधर्म्यनिबन्धनालंकाराः प्रदर्शिताः । संप्रत्यारोपगर्भालंकारप्रस्तावः । तत्रापि प्राधान्यात्प्रथमं रूपकं निरूप्यते ।

[विइइ.६ ऊपकालङ्कारः]

रूपकालङ्कारः ।

आरोपविषयस्य स्यादतिरोहितरूपिणः ।
उपरञ्जकमारोप्यमाणं तद्रूपकं मतम् ॥ ८.४९ ॥

अत्रारोपविषयस्येत्यनेन अध्यवसायगर्भस्य उत्प्रेक्षादेः अनारोपमूलानां चोपमादीनां व्यावृत्तिः । अतिरोहितरूपिण इत्यनेन संदेहभ्रान्तिमदपह्नुतिप्रमुखानां व्यावृत्तिः । संदेहालंकारे विषयस्य संदिह्यमानतया तिरोधानम् । भ्रान्तिमदलंकारे भ्रान्त्या विषयतिरोधानम् । अपह्नुत्यलंकारेऽपह्नवेनारोपविषयतिरोधानम् । उपरञ्जकमित्यनेन परिणामालंकारव्यावृत्तिः । परिणामे आरोप्यमाणस्य प्रकृतोपयोगित्वेनान्वयो न प्रकृतोपरञ्जकत्वेन । अतः सादृश्यमूलेभ्यः सर्वेभ्यो विलक्षणं रूपकम् ।

तस्य प्रथमं त्रैविध्यम्सावयवं, निरवयवं परम्परितं चेति । सावयवं द्विविधम्समस्तवस्तुविषयम्, एकदेशविवर्ति चेति । निरवयवं द्विविधम्केवलं मालारूपं चेति । परम्परितस्यापि श्लिष्टनिबन्धनत्वेनाश्लिष्टनिबन्धनत्वेन च द्वैविध्यम् । तयोरपि प्रत्येकं केवलमालारूपतया चतुर्विध्यम् । एवमष्टविधो रूपकालंकारः । अथोदाहरणानि ।

यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते, तत्समस्तवस्तुविषयं रूपकम् ।

यथा

यात्राप्रावृषि वीररुद्रनृपतेर्निस्साणधाराधरे
वैरिक्ष्मापतिगर्वपर्वतभिदाभीमं मुहुर्गर्जति ।
शत्रुस्त्रीनयनाम्बुवृष्टिरसकृज्जातानया सर्वतो
वर्धन्ते हरिदन्तरेषु जगदानन्दा यशः कन्दलाः ॥ ८.५० ॥

यत्रावयवनिरूपणादवयविनो रूपणं गम्यते, तदेकदेशविवर्ति रूपकम् ।

यथा

प्रसाधिताशावलयान्तरालः शौर्याकरः काकतिवीररुद्रः ।
विकस्वरैर्वासनया त्रिलोकीं गुणप्रसूनैः सुरभीकरोति ॥ ८.५१ ॥

अत्रावयवानां गुणानां प्रसूनस्वरूपणेन नृपतेः कल्पशाखित्वं निरूप्यते । तस्मादेकदेशविवर्तित्वम् । यथा वा

मथिताद्वैरिवारशेर्भुजामन्दरभूभृता ।
जाता प्रतापरुद्रस्य कीर्त्तिर्लोकान् धिनोत्यमून् ॥ ८.५२ ॥

अत्र वैरिजनस्य वाराशित्वरूपणेन भुजस्य मन्दराद्रित्वरूपणेन च जातायाः कीर्त्तिः सुधात्वमर्थादापतति, लोकानाममरत्वं चेत्येकदेशविवर्त्ति रूपकम् ।

यत्रावयविरूपणमात्रे कविसंरम्भविश्रान्तिस्तन्निरवयवं रूपकम् । अवयवरूपणमात्रेऽपि तदेव ।

तत्र केवलं यथा

यात्रारम्भविजृम्भमाणसुभटप्रक्ष्वेडिताम्रेडितैर्
निस्साणध्वनिभिः स्फुटं प्रतिदलद्रोदः कटाहान्तरैः ।
क्षुब्धेष्वब्धिषु कम्पितेषु गिरिषु श्रुत्यैव मुञ्चन्त्यसून्
भीताः काकतिवीररुद्रनृपतेः प्रत्यर्थिनः पार्थिवाः ॥ ८.५३ ॥

अत्र रोदसः कटाहत्वं रूप्यते । मालानिरवयवं यथा

राज्ञां मौलिविभूषणस्रगमला दिक्कुञ्जरश्रोत्रयोः
स्फारं चामरभूषणं धरणिभृच्छृङ्गेषु गङ्गासरित् ।
व्योम्नः क्षौमवितानमुज्ज्वलतरं मुक्ताकलापो भुवः
स्फारः काकतिवीररुद्रयशसां जागर्ति विस्फूर्जितम् ॥ ८.५४ ॥

रूपकहेतुरूपकं परम्परितरूपकम् ।

रूपकद्वयमात्रव्यवस्थितत्वादस्य न समस्तवस्तुविषयेऽन्तर्भावः । श्लिष्टकेवलपरम्परितं यथा

प्रतापरुद्रदेवस्य मण्डलाग्रविधुन्तुदः ।
अखण्डविक्रमोद्दामो ग्रसते राजमण्डलम् ॥ ८.५५ ॥

श्लिष्टमालापरम्परितं यथा

पद्मोल्लाससहस्रभानुरसकृत्सन्मार्गचर्याबुधः
क्ष्माभृत्पक्षभिदाशनिः कुवलयालंकारराकाशशी ।
नित्योद्यत्सुमनोविकाससुरभिः कल्याणसंपत्सुर
क्षोणीभृद्भुवनाश्रयाम्बुधिरयं श्रीवीररुद्रो नृपः ॥ ८.५६ ॥

अश्लिष्टकेवलपरम्परितं यथा

काकतीयस्य दुग्धाब्धेर्यशोलीलामहोर्मयः ।
दिक्कूलमुद्रुजाटोपाः खेलन्त्यब्भ्रंकषोच्छ्रयाः ॥ ८.५७ ॥

अश्लिष्टमालापरम्परितं यथा

दोराशीविषजिह्वया रिपुवनश्रेणीमहावात्यया
शौर्योग्रानलधूम्यया जयरमायोषाविलासभ्रुवा ।
संहृष्यद्धरणीविलासशिखिनीसंवासयष्ट्या जगत्
प्रसादार्गलया कृपाणलतया रुद्रो नृपः क्रीडति ॥ ८.५८ ॥

अश्लिष्टमालापरम्परितं वैधर्म्येणापि संभवति । यथा

त्रासान्धकारमध्याह्नाः कैतवातपरात्रयः ।
जयन्ति वीररुद्रस्य रणप्राङ्गणकेलयः ॥ ८.५९ ॥

एवमष्टविधस्यापि रूपकस्य वाक्यसमासगतत्वेन षोडश रूपकभेदाः संभवन्ति ॥

[विइइ.७ अरिणामालङ्कारः]

परिणामालङ्कारः ।

आरोप्यमाणमारोपविषयात्मतया स्थितम् ।
प्रकृतस्योपयोगित्वे परिणाम उदाहृतः ॥ ८.६० ॥

आरोप्यमाणं प्रकृतोपयोगीत्यनेन सर्वालङ्कारव्यावृत्तिः । तस्य
सामानाधिकरण्यवैयधिकरण्याभ्यां द्वैविध्यम् । सामानाधिकरण्येन परिणामो यथा

शश्वत्प्रसाधनविधानकृताभिलाषा
नम्रैर्भजन्ति मकुटैरवनीपवर्गाः ।
श्रीवीररुद्रनृपतेः ककुभां विजेतु
राज्ञामयीं स्रजममन्दविलासलक्ष्मीम् ॥ ८.६१ ॥

वैयधिकरण्येन परिणामो यथा

किरीटमाणिक्यमयूखजालैर्विधाय पुष्पाञ्जलिमर्चयन्ते ।
फलार्थिनो रुद्रनरेन्द्रपादपीठान्तसीमानमरिक्षितीन्द्राः ॥ ८.६२ ॥

समासोक्तावारोप्यमाणस्य प्रकृतोपयोगित्वेऽप्यवाच्यत्वान्न परिणामेऽन्तर्भावः ।

[विइइ.८ अन्देहालङ्कारः]

संदेहालङ्कारः ।

विषयो विषयी यत्र सादृश्यात्कविसंमतात् ।
संदेहगोचरौ स्यातां संदेहालङ्कृतिश्च सा ॥ ८.६३ ॥

सा त्रिविधा । शुद्धा, निश्चयगर्भा, निश्चयान्ता चेति ।

संदेहमात्रपर्यवसायिनी शुद्धा यथा

किमेष नवमो हरित्पतिरमन्दसंपत्पदं
किमेष दशमः प्रजापतिरपूर्वसर्गक्रमः ।
किमेव हरिरुर्वरोद्धरणचुञ्चुरेकादश
श्चिरादिति विलोक्यते जगति वीररुद्रो जनैः ॥ ८.६४ ॥

निश्चयगर्भो यथा

कालाहिः किमयं मृणालमृदुलं भोगं स धत्ते पुनः
कालभ्रूकुटिरेष किं नु मुख एवोज्जृम्भते सा पुनः ।
कालोग्रानलधूमपद्धतिरसौ किं सा पुनर्धूयते
वातेनेति विकल्प्यते प्रतिभटै रुद्रस्य कौक्षेयकः ॥ ८.६५ ॥

निश्चयपर्यवसाना यथा

किं कल्पद्रुममञ्जरीस्रज इमे किं वा पयोराशयः
स्वर्धेनोरथवा किमुज्ज्वलतराश्चिन्तामणेः स्फूर्तयः ।
किं वा सिद्धरसोर्मयश्चिरमिति व्यामृश्य निश्चिन्वते
सन्तः काकतिवीररुद्रनृपतेः स्मेराः कटाक्षा इति ॥ ८.६६ ॥

[विइइ.९ ह्रान्तिमदलङ्कारः]

भ्रान्तिमदलङ्कारः ।

कविसंमतासादृश्याद्विषये पिहितात्मनि ।
आरोप्यमाणानुभवो यत्र स भ्रान्तिमान्मतः ॥ ८.६७ ॥

यथा

काकतीयविभोः
कीर्त्तिविभवे व्याप्तरोदसि ।

दिवापि चन्द्रिकाबुद्ध्या चकोरा यान्ति निर्वृतिम् ॥ ८.६८ ॥

[विइइ.१० पह्नवालङ्कारः]

अपह्नवालङ्कारः ।

निषिध्य विषयं साम्यादन्यारोपे ह्यपह्नुतिः ॥ ८.६९ ॥

तस्यास्त्रैविध्यमपह्नुत्यारोपः, आरोप्यापह्नवः, छलादिशब्दैरसत्यत्वप्रतिपादनं च । आद्यद्वयस्योदाहरणम्

उद्वेल्लच्चतुरर्णवीकलकलो नायं चमूडम्बरो
नेदं दुन्दुभिगर्जितं त्रिपुरजित्कल्पान्तढक्कारवः ।
इत्थं रुद्रनरेन्द्रधाटिषु महीभारावनम्रीभव
च्छेषाशेषशिरस्सु विस्मितमथ भ्रष्टं दिगीशैरपि ॥ ८.७० ॥

छलादिशब्दैरसत्यत्वप्रतिपादनं यथा

सर्वां काकतिवीररुद्रधरणीनाथच्छलेन क्षितिं
पातुं मध्यमलोकपालपदवीं प्राप्तः स्वयंभूः शिवः ।
नैवं चेद्विषमावलोकनकलामात्रेण भस्मीकृतैर्
जातं वैरिपुरैः कथं कथमवाग्भूतं च भूभृद्गणैः ॥ ८.७१ ॥

अर्थयोगरुचिश्लेषैरुल्लेखनमनेकधा ।
ग्रहीतृभेदादेकस्य स उल्लेखः सतां मतः ॥ ८.७२ ॥

रुच्यर्थयोगाभ्यां यथा

लक्ष्मीनिवासगृहमित्यखिला नरेन्द्राः
शौर्यातिभूमिखनिरित्यरिवीरवर्गाः ।
विद्याविहारपदवीति च लब्धवर्णाः
श्रीकाकतीन्द्रनगरीमनिशं स्तुवन्ति ॥ ८.७३ ॥

श्लेषेण यथा

उग्रः सपत्नेषु, गुणेषु भास्वान्, रामः प्रतीकेषु, रणेषु भीमः ।
लीलासु लक्ष्म्याः पुरुषोत्तमश्चेत्याचक्षते रुद्रनृपं कवीन्द्राः ॥ ८.७४ ॥

[विइइ.११ त्प्रेक्षालङ्कारः]

उत्प्रेक्षालङ्कारः ।

अथाध्यवसायगर्भालंकारद्वयं निरूप्यते । विषयविषयिणोरन्यतरनिगरणेनाभेदप्रतिपत्तिरध्यवसायः । स द्विविधःविषयिनिगरणेन विषयनिगरणेन च ।

यत्रान्यधर्मसंबन्धादन्यत्वेनोपतर्कितम् ।
प्रकृतं हि भवेत्प्राज्ञास्तामुत्प्रेक्षां प्रचक्षते ॥ ८.७५ ॥

यत्राप्रकृतगुणक्रियासंबन्धादप्रकृतत्वेन प्रकृतस्य संभावनमुत्प्रेक्षा । सा द्विविधावाच्या, प्रतीयमाना च ।

संभावनाप्रतिपादकानां "नूनं (ध्रुवं) प्रायऽ इत्येवमादीनां प्रयोगे वाच्या । अप्रयोगे तु प्रतीयमाना । जातिक्रियागुणद्रव्याणां
चतुर्णामध्यवसायविषयत्वेन सा द्विविधा ॑ प्रत्येकं चतुर्विधा । तेषां भावाभावरूपतया द्वैविध्येऽष्टविधा । अध्यवसायस्य गुणनिमित्तत्वेन क्रियानिमित्तत्वेन च द्वैविध्ये प्रत्येकं षोडशप्रकारा । निमित्तस्य वाच्यत्वगम्यत्वाभ्यां द्वैविध्यं वाच्योत्प्रेक्षायामेव । प्रतीयमानोत्प्रेक्षायामिवाद्यनुपादाने निमित्तस्य चाप्रयोगे उत्प्रेक्षाया निरवलम्बनत्वात् । तथा जात्यादीनां स्वरूपेण हेतुरूपेण फलरूपेण चाध्यवसायविषयत्वे बहुविधत्वम् । वाच्योत्प्रेक्षायामपि हेतुफलयोरुत्प्रेक्षाविषयत्वे निमित्तस्योपादानमेव । तथा हियथा साध्येऽनुपात्ते साधनत्वेन निर्देशो नान्वयं पुष्णाति, तथा साधनेऽनुपात्ते साध्यत्वेन निर्देशोऽपि । तयोरन्योन्यापेक्षित्वात् । हेतूत्प्रेक्षायां फलं निमित्तम् । तस्यानुपादाने कं प्रति फलत्वेन संघटते । तथाहि

प्रतापरुद्रनृपतेरपारे कीर्त्तिसागरे ।
मग्ना दुरीशदुष्कीर्त्तिसङ्गादिव जगन्त्रयी ॥ ८.७६ ॥

अत्रोत्प्रेक्षानिमित्तस्य मज्जनस्यानुपादाने सङ्गादिति हेतूत्प्रेक्षा न शोभामावहति । यथा वा

जयश्रीवासपद्मस्य विकासायेव भानुमान् ।
प्रतिबिम्बमिषात्खड्गं प्रविशत्यन्ध्रभूभुजः ॥ ८.७७ ॥

अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमलविकासायेवेति फलोत्प्रेक्षणमसमीचीनम् । अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । अतश्चेत्थं वाच्योत्प्रेक्षाया भेदगणना ।

उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । १ ।

उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा । २ ।

उपात्तक्रियानिमित्तिजातिभावस्वरूपोत्प्रेक्षा । ३ ।

उपात्तक्रियानिमित्तजात्यभावस्वरूपोत्प्रेक्षा । ४ ।

अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा । ५ ।

अनुपात्तनिमित्तिजात्यभावस्वरूपोत्प्रेक्षा । ६ ।

उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा । ७ ।

उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा । ८ ।

उपात्तक्रियानिमित्तजातिभावहेतूत्प्रेक्षा । ९ ।

उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । १० ।

उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा । ११ ।

उपात्तगुणनिमित्तजात्यभावफलोत्प्रेक्षा । १२ ।

उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा । १३ ।

एवं चतुर्दशभेदा जात्युत्प्रेक्षा ।

अनेनैव क्रमेण गुणक्रियाद्रव्योत्प्रेक्षापि परिगणनीया ।

एवं च वाच्योत्प्रेक्षायाः षट्पञ्चाशद्भेदाः ।

प्रतीयमानोत्प्रेक्षायस्त्वष्टाचत्वारिंशद्भेदाः ।

अत्र स्वरूपोत्प्रेक्षायामपि निमित्तोपादाननियमात्निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रियारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते ।

गुणक्रिययोरुत्प्रेक्षाविषयत्वमुत्प्रेक्षानिमित्तत्वं
चाभ्युपगतम् ।

प्राचामलङ्कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक
्षेति गणनामात्रम् ।

चारुत्वातिशयस्तु षट्पञ्चाशतेव भेदानाम् ।

तत्र यथासंभवमुदाहरणानि ।

उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा

कीर्त्तिः काकतिवीररुद्रनृपतेः सिंहासनाध्यासिनः
प्राचां भूमिभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः ।
रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता
त्रैलोक्याट्टहसप्रभेव ककुभां प्रान्तेषु विद्योतते ॥ ८.७८ ॥

अत्र प्रभाशब्दो जातिवचनः । त्रैलोक्याट्टहसप्रभायाः कविप्रौढोक्तिसिद्धत्वान्नोपमाशङ्कावकाशः ।

उपात्तक्रियानिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा

वीरस्य रुद्रनृपतेः प्रियवल्लभस्य
राज्याभिषेकसलिलैः सरसीकृतायाः ।
सद्यः समुच्छ्वसितसान्द्रपरागरेखाः
क्षोण्याः प्रमोदपुलकाङ्कुरमञ्जरीव ॥ ८.७९ ॥

अत्र पुलकाङ्कुरमञ्जरीवेत्युत्प्रेक्षायां सरसीकरणं क्रियारूपं निमित्तम् ।

अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा यथा

प्रतापरुद्रस्य नखेन्दुकान्तिः प्रणामभाजां पदयोर्नृपाणाम् ।
ललाटलग्ना विधिनिर्मिताया वर्णावलेर्वाचनदीपिकेव ॥ ८.८० ॥

अत्र दीपिकेवेति जातिवचनाज्जातिरुत्प्रेक्ष्यते ।

उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा

प्रतापरुद्रस्य गुणामृतोर्मिधौता विराजन्त्यमलीकृताङ्गाः ।
प्रक्षालितात्युद्धतभूमिपालाः खड्गाम्बुभिः स्वच्छतरा भवन्ति ॥ ८.८१ ॥

अनुपात्तनिमित्तजात्यभावस्वरूपोत्प्रेक्षा यथा

दिशां जेतुर्विश्वप्रसृतमहसो रुद्रनृपतेर्
जयप्रस्थानोद्यत्करितुरगसंमर्दजनितम् ।
रजः कृत्वा ग्रस्तप्रतिबलमसूर्यामिव दिवं
प्रतापाख्यानन्यान् दिशि दिशि विधत्ते दिनकरान् ॥ ८.८२ ॥

अत्रासूर्यामिति जात्यभावः । जातिहेतूत्प्रेक्षा यथा

उदाररीत्या भुजया प्रतापरुद्रस्य विश्वैकदुरन्धरस्य ।
विश्वंभरा कोमलशय्ययेव विस्मारिता गोत्रमहीध्रवासम् ॥ ८.८३ ॥

अत्र शय्येवेति जातिहेतुत्वम् । जात्यभावहेतूत्प्रेक्षा यथा

भूमेरकल्पवृक्षत्वादिति धाता विचिन्तयन् ।
सृष्टवान् काकतीशानं निर्व्याजत्यागवैभवम् ॥ ८.८४ ॥


अत्राकल्पवृक्षत्वादिति जात्यभावस्य हेतुत्वम् ।

जातिफलोत्प्रेक्षा यथा
नूनं विश्वंभराधारस्तम्भीभवितुमायतौ ।
वीररुद्रनरेन्द्रस्य भुजावाजानुलम्बिनौ ॥ ८.८५ ॥

अत्र स्तम्भीभवितुमिति जातेः फलत्वम् ।

जात्यभावफलोत्प्रेक्षा यथा

पशूनवध्यानालोक्य शत्रवः काकतीशितुः ।
प्रायेणामानुषत्वाय तृणवृत्तिं समाश्रिताः ॥ ८.८६ ॥

अत्रामानुषत्वायेति जात्यभावस्य फलत्वम् ।

क्रियास्वरूपोत्प्रेक्षा यथा

श्रीकाकतीयनृपतेर्द्विषदङ्गनानां
श्वासोर्मिभिः सपदि मर्मरितान्तरालाः ।
तासां निवासविषये कृतयाचनानां
प्रत्युत्तराणि ददतीव मरौ वनान्ताः ॥ ८.८७ ॥

क्रियास्वरूपाभावोत्प्रेक्षा यथा

विमुखे सति काकतिक्षितीन्द्रे वनसीमापि कठोरकण्टकाग्रा ।
चिकुरेषु विकर्षति प्रतीशानददानेव निजान्तरप्रवेशम् ॥ ८.८८ ॥

अत्राददानेति क्रियास्वरूपाभावः । क्रियाहेतूत्प्रेक्षा यथा

राज्ञां गर्वाङ्कुरोद्भेदाः परिम्लाना दिने दिने ।
काकतीन्द्रप्रतापार्कतीव्रोष्माभिभवादिव ॥ ८.८९ ॥

अत्रभिभवादिवेति क्रियाहेतुत्वम् । (क्रियाहेत्वभावोत्प्रेक्षा यथा

कपोलफलकावस्याः कथं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृशीं क्षामतां गतौ ॥ ८.९० ॥

क्रियाफलोत्प्रेक्षा यथा

दम्भोलिसंरम्भमहाजिगोपः प्रस्थानभेरीनिनदोऽन्ध्रभर्तुः ।
लीनानिवान्वेष्टुमरातिवर्गान् विगाहते शैलगुहान्तराणि ॥ ८.९१ ॥

क्रियाभावफलोत्प्रेक्षा यथा

सीमाद्रिकुञ्जेषु विहारभाजः सिद्धाङ्गना कल्पितचन्द्रिकार्धान् ।
श्रीवीररुद्रस्य यशोविलासान् गायन्त्यसंस्प्रष्टुमिवान्धकारम् ॥ ८.९२ ॥

अत्रासंस्प्रष्टुमिवेति क्रियाभावस्य फलत्वम् ।

गुणस्वरूपोत्प्रेक्षा यथा

चकास्ति काकतीन्द्रस्य कृपालोकनविभ्रमः ।
प्रकृतिष्वपि सर्वासु प्रसाद इव मूर्तिमान् ॥ ८.९३ ॥

गुणाभावस्वरूपोत्प्रेक्षा यथा

प्रतापरुद्रस्य महाभिषेकपयः कणैः शीतलिताखिलाङ्गा ।
प्रशान्तभारार्तफणीन्द्रगाढश्वासानिलोष्मेव विभाति पृथ्वी ॥ ८.९४ ॥


अत्र प्रशान्तोष्मेति गुणाभावः । गुणहेतूत्प्रेक्षा यथा

जयश्रियामाश्रयतामुपेतः (ति) श्रीवीररुद्रस्य रणे कृपाणः ।
जयश्रियं वैरिमहीपतीनां समुत्सुको हर्तुमसूययेव ॥ ८.९५ ॥

अत्रासूययेवेति गुणस्य हेतुत्वम् । गुणाभावहेतूत्प्रेक्षा यथा

जाता वयं संप्रति वीररुद्रनरेन्द्रगम्भीरिमगुल्फदन्घाः ।
इत्यप्रमोदादिव जीवनेषु मालिन्यमम्भोनिधयो भजन्ति ॥ ८.९६ ॥

अत्राप्रमोदादिवेति गुणाभावस्य हेतुत्वम् । गुणफलोत्प्रेक्षा यथा

आशिषां विषधूम्राणां नैर्मल्यार्थमिवोत्सुकाः ।
भुजङ्ग्यः काकतीन्द्रस्य गुणान् गातुं सुधामुचः ॥ ८.९७ ॥

अत्र नैर्मल्यार्थमिति गुणस्य फलत्वम् । गुणाभावफलोत्प्रेक्षा यथा

अरण्यवासार्जितबान्धवासु मृगीष्ववैरार्थमिवाशरण्याः ।
त्रिलिङ्गदेशेश्वरवैरिनार्यः पराङ्मुखा लोचनविभ्रमेषु ॥ ८.९८ ॥

अत्रावैरार्थमिति गुणाभावस्य फलत्वम् । द्रव्यस्वरूपोत्प्रेक्षा यथा

न नित्यमस्मिन् परिपूर्णतेति त्यक्त्वा नभः क्षोणितलावतीर्णः ।
आनन्दयन्निन्दुरिव स्वधाम्ना विभाति लोके नवकाकतीन्द्रः ॥ ८.९९ ॥

द्रव्यस्वरूपाभावोत्प्रेक्षा यथा

अनन्यसाधारणदानशौण्डे सद्यः कृतार्थीभवदर्थिसार्थे ।
श्रीकाकतीन्द्रे भुवि राजमाने द्यौः पारिजातेन विनाकृतेव ॥ ८.१०० ॥

अत्र दिवः पारिजाताभाव उत्प्रेक्ष्यते । द्रव्यहेतूत्प्रेक्षा यथा

प्रतापरुद्रदेवेन क्ष्माभृत्पक्षविजृम्भितम् ।
समुन्मूलितमामूलादपरेणेव वज्रिणा ॥ ८.१०१ ॥

द्रव्यहेत्वभावोत्प्रेक्षा यथा

काकतीयप्रतापोष्मविलीनाङ्गेन मेरुणा ।
असुवर्णाचलेनेव विरिञ्चिर्व्याकुलीकृतः ॥ ८.१०२ ॥

अत्रासुवर्णाचलेनेति हेत्वभावः । द्रव्यफलोत्प्रेक्षा यथा

दुग्घार्णवशतायेव कैलासाचलकोटये ।
नूनं प्रतापरुद्रेण यशो दिक्षु प्रसारितम् ॥ ८.१०३ ॥

अत्र दुग्घार्णवशतायेति द्रव्यस्य फलत्वम् ।

द्रव्याभावफलोत्प्रेक्षा यथा

वीररुद्रनरेन्द्रस्य जयप्रस्थानसंभवम् ।
रजः पिहितदिग्गोलं निराकाशमिव स्थितम् ॥ ८.१०४ ॥

अत्र निराकाशमित्याकाशाभावाय इत्यर्थः । एवं भेदान्तरं यथासंभवमुदाहार्यम् ।

इत्यौपम्यगर्भालंकारविवेचनम् ।


[विइइ.१२ तिशयौक्त्यलङ्कारः]

अतिशयोक्त्यलङ्कारः ।

विषयस्यानुपादानाद्विषय्युपनिबध्यते ।
यत्र सातिशयोक्तिः स्यात्कविप्रौढोक्तिजीविता ॥ ८.१०५ ॥

यत्र कविप्रौढोक्त्या विषयतिरोधानेन विषयी निबध्यते सातिशयोक्तिः । तस्याश्चातुर्विध्यम्भेदेऽभेदः, अभेदे भेदः, संबन्धेऽसंबन्धः, असंबन्धे संबन्धश्चेति । कार्यकारणयोः पौर्वापर्यविपर्ययरूपा त्वनध्यवसायमूलत्वाद्व्यतिरिक्तैव । किं तु प्रौढोक्तिमूलत्वादतिशयोक्तिरिति कथ्यते । तत्र भेदेऽभेदो यथा

स्थाने कल्पतरुर्जातः काकतीयकुलोदधेः ।
लक्ष्मीपतिरसौ चित्रं मर्त्यलोकमहोत्सवः ॥ ८.१०६ ॥

अत्र प्रतापरुद्रकल्पवृक्षयोरभेदाध्यवसायः । अभेदे भेदो यथा

औन्नत्यं महदन्यदेव महितः कोऽप्येष गम्भीरिमा
काप्यन्या सरणिः प्रतापयशसोरन्यैव बाह्वोः प्रथा ।
सर्वं नूतनमेव रुद्रनृपतेर्जाने न तन्निर्मितौ
सामग्री चतुराननेन कियती कीदृक्क्रमा कल्पिता ॥ ८.१०७ ॥

अत्रौन्नत्यादेर्वास्तवाभेदेऽपि भेदः कल्पितः । ततः स्वतः सिद्धकविप्रौढोक्तिसिद्धयोरौन्नत्ययोर्भेदेऽपि अभेदाध्यवसायः ।

संबन्धेऽसंबन्धो यथा

शिला चिन्तारत्नं, तरुरमरशाखी, पशुरसौ
वियद्धेनुः, सर्वं जगदपि तथा दोषविधुरम् ।
न सृष्टिवैधात्रो तदिह चतुरश्रीः कथमियं
स्पृशेद्देवं रुद्रं सकलगुणसाम्राज्यनिलयम् ॥ ८.१०८ ॥

अत्र विधातृसृष्टिसंबन्धेऽप्यसंबन्ध उक्तः । अतीतब्रह्मसृष्टिनेश्वरेणात्राभेदाध्यवसायः । असंबन्धे संबन्धो यथा

ब्रह्मन् ! मेरुगिरौ कृतेऽपि किमिदं नैवंविधास्ते मुदः
स्वामिन् ! सत्यमधिक्रियाद्य फलिता यद्वीररुद्रः कृतः ।
मिथ्या किं नु विकत्थसे त्रिजगतस्त्राणाय मत्प्रार्थितः
शंभुः क्ष्मामवतीर्णवानिति कथा जाता हरिब्रह्मणोः ॥ ८.१०९ ॥

अत्र हरिब्रह्मणोरेवंविधगोष्ट्यसंबन्धेऽपि संबन्ध उक्तः । शंभुना सह काकतीन्द्रस्याभेदाध्यवसायः । कार्यकारणयोः पौर्वापर्यविपर्ययरूपातिशयोक्तिर्यथा

मातः ! कथं काकतिनाथदृष्टेरग्रेसराः कामशराः पतन्ति ।
तद्रूपलावण्यजितः स्मरोऽपि नूनं गतः किंकरताममुष्य ॥ ८.११० ॥

अत्र कार्यभूतस्य स्मरशरपातस्य कारणभूतात्प्रियदृष्टिपातात्पूर्वकालत्वमुक्तम् ।

[विइइ.१३ अहोक्त्यलङ्कारः]

सहोक्त्यलङ्कारः ।

अथोक्तिसाम्यालंकारनिरूपणेऽतिशयोक्तिहेतुका
सहोक्तिर्निरूप्यते ।

सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः ।
कल्पितौपम्यपर्यन्ता सा सहोक्तिरितीष्यते ॥ ८.१११ ॥

यत्र भेदेऽभेदरूपया कार्यकारणपौर्वापर्यविपर्ययरूपया वातिशयोक्त्या एकस्य प्राधान्येनान्वयेऽपरस्य सहार्थेन

संबन्धे उपमानोपमेयभावः कल्प्यते तत्र सहोक्तिः । प्राकरणिकाप्राकरणिकविषयत्वादुपमानोपमेयभावस्य सहार्थसंबन्धेन द्वयोरपि प्रकृतत्वान्न तदात्मता ।

कार्यकारणपौर्वापर्यविपर्ययरूपातिशयोक्तिमूला सहोक्तिर्यथा

अन्ध्रक्षमाभृत्सुभटासिधारा रणेषु नीलोत्पलपत्रभासः ।
पतन्ति कण्ठेष्वरिभूपतीनां साकं सुरस्त्रीजनमुक्तमाल्यैः ॥ ८.११२ ॥

अत्र कृपाणपतनोत्तरकालभाविनो दिव्यमाल्यपतनस्य सहकालत्वमुक्तमिति पौर्वापर्यविपर्ययः । भेदेऽभेदरूपातिशयोक्तिः श्लेषगर्भाभेदाध्यवसायरूपा चारुत्वातिशयहेतुः । तन्मूला यथा

दिने दिने रुद्रनराधिपस्य प्रतापलक्ष्मीरुदयं प्रयाति ।
प्रकाशिताशेषदिगन्तराला विवस्वता सार्धमनिन्द्यभासा ॥ ८.११३ ॥

अत्रोदयं प्रयातीति श्लेषेणोदयपर्वताभ्युदययोरभेदाध्यवसायः ।

[विइइ.१४ इनोक्त्यलङ्कारः]

विनोक्त्यलङ्कारः ।

अथ सहोक्तिप्रतिपक्षरूपा विनोक्तिर्निरूप्यते ।

विना संबन्धि यत्किंचिद्यत्रान्यस्य पराभवेत् ।
अरम्यता रम्यता वा सा विनोक्तिरिति स्मृता ॥ ८.११४ ॥

यत्र कस्यचिदसंनिधानाद्वस्तु रम्यमरम्यं वा भवेत्सा विनोक्तिः । सा द्विविधाअरम्यता, रम्यता चेति । अरम्यता यथा

प्रतापरुद्रदेवस्य गुणवर्णनया विना ।
कीदृशी काव्यरचना संशृणुध्वं कवीश्वराः ॥ ८.११५ ॥

अत्र प्रतापरुद्रगुणवर्णनेन विना काव्यश्रियोऽशोभनत्वमुक्तम् । अनेन काव्यशोभामिच्छद्भिः कविभिः प्रतापरुद्रगुणा वर्णयितव्या इति विधिरेव प्रकाश्यते । रम्यता यथा

कलापूर्णे नित्यं जयति जगतीन्दौ त्रिजगतो
वपुष्मत्यानन्दे विमलविभवे रुद्रनृपतौ ।
विना लक्ष्म प्राप्य प्रतिदिवसपूर्णां निजतनुं
प्रकाशः स्यादिन्दुर्यदि दिवि भवेत्सोऽपि सुभगः ॥ ८.११६ ॥

अत्र प्रतापरुद्रे चन्द्रमसः कलङ्केन विना शोभनत्वमुक्तम् । सकलगुणशालिनः प्रतिपक्षस्य पुरस्तात्तादृशगुणवत्तयैव रम्यता, नान्यथेति ।

[विइइ.१५ अमासोक्त्यलङ्कारः]

समासोक्त्यलङ्कारः ।

विशेषणानां
तौल्येन यत्र प्रस्तुतवर्तिनाम् ।

अप्रस्तुतस्य गम्यत्वं सा समासोक्तिरिष्यते ॥ ८.११७ ॥

यत्र प्रकृतविशेषणसाम्यादप्रस्तुतं गम्यते सा समासोक्तिः । तत्त्रिविधम्श्लिष्टविशेषणसाम्यं, साधारणम्, औपम्यगर्भं चेति ।

श्लिष्टविशेषणसाम्यं यथा

सद्यो विश्लथमेखलां पुलकितामृज्वीं तनुं बिभ्रती
रागादन्ध्रपतेः कृपाणलतिका गृह्णाति कण्ठेष्वरीन् ।
तद्योगादनुरक्तभावविवशाः संमीलिताक्षाश्चिरं
शून्यान्तः करणा भजन्ति खलु ते भावस्थितिं कामपि ॥ ८.११८ ॥

अत्र विश्लथमेखला पुलकितामिति श्लिष्टविशेषणमहिम्ना कृपाणलतिकाया नायिकात्वप्रतीतिः । अनुरक्तभावविवशा इत्यादिविशेषणद्वारा रिपूणां नायकत्वप्रतीतिः । साधारणविशेषणेन यथा

वीतव्रीडमपास्तमानमुदयद्वैस्वर्यमाविर्भवत्
स्वेदं निर्भरगात्रवेपथु मिलन्मूर्च्छं गलद्बाष्पकम् ।
संजातप्रलयं च काकतिममीनाथ ! स्मरोद्वेजिता
भूपाः शैलगुहासु यान्ति विजनं भीत्या समालिङ्गिताः ॥ ८.११९ ॥

अत्र शृङ्गारभयानकसाधारणविशेषबलाद्भीत्या समालिङ्गिता इति नृपाणां नायकत्वप्रतीतिः । औपम्यगर्भविशेषणेन यथा

भृतात्मा गुणरत्नौघैः पूर्णः सौजन्यवारिणा ।
प्रतापरुद्रनृपतिर्धत्ते विश्वंभराश्रियम् ॥ ८.१२० ॥

अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुर्विधः । लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तुव्यवहारसमारोपश्चेति द्विविधः ॑ तथा शास्त्रीयवस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः, लौकिकवस्तुव्यवहारसमारोपश्चेति । एवं चतुर्विधः । यथाक्रममुदाहरणानि ।

सप्ताङ्गस्फुरदुद्दामदानलक्ष्मीविराजितः ।
प्रतापरुद्रो भद्रात्मा तनुते सार्वभौमताम् ॥ ८.१२१ ॥

अत्र लौकिके प्रकृतवस्तुनि लौकिकस्य सार्वभौमनामधेयस्य दिग्गजस्य व्यवहारप्रतीतिः । तथा

गुरुप्रमाणेन निजेन सद्यस्तिरस्कृतोद्यत्प्रतिपक्षहेतौ ।
प्रतापरुद्रस्य समित्युदग्रे खड्गे महत्खण्डनपण्डितत्वम् ॥ ८.१२२ ॥

अत्र लौकिके खड्गे तर्कशास्त्रप्रसिद्धवस्तुव्यवहारसमारोपः ।

तथा

अपूर्वार्थश्लाघागुरुभणितसारस्यपदवी
श्रुतिग्राह्यं तत्त्वं किमपि कलयन्ती प्रतिपदम् ।
प्रबन्धश्रीर्वीरक्षितिभुजि कवीनां विजयते
बुधश्रेणी यस्यां निपुणमधिकर्तुं प्रभवति ॥ ८.१२३ ॥

अत्रालंकारशास्त्रीये वस्तुनि तन्त्रशास्त्रप्रसिद्धवलस्तुव्यवहारसमारोपः ।

तथा

सालंकारा
लसद्वर्णा सगुणा रसनिर्भरा ।

भावानुबन्धिनी भाति भारती काकतीश्वरे ॥ ८.१२४ ॥

अत्रालंकारशास्त्रीये वस्तुनि भारत्याख्ये लौकिकनायिकाव्यवहारसमारोपः । समासोक्तौ विशेषणविशेष्ययोर्द्वयोरुपादानाभावाच्छ्लेषाद्विशेषः ।

[विइइ.१६ अक्रोक्त्यलङ्कारः]
वक्रोक्त्यलङ्कारः ।

अन्येषामप्यलंकाराणामुक्तिसाम्येऽपि श्लेषगर्भत्वविशेषात्वक्रोक्तिरुच्यते

अन्यथोक्तस्य वाक्यस्य काक्वा श्लेषेण वा भवेत् ।
अन्यथा योजनं यत्र सा वक्रोक्तिर्निगद्यते ॥ ८.१२५ ॥

यत्र कयाचिद्विवक्षया प्रयुक्तस्य वाक्यस्य अन्यथा विवक्षया योजना क्रियते सा वक्रोक्तिः । उक्तिवक्रत्वे कथंचित्संभवत्यप्येवंविधलक्षणाभावात्सर्वालंकारेभ्यो भिद्यते । काक्वा यथा

बहुवळॢअहो खु राआ सहि तस्स सिरिंमि णिभ्भरासत्ती ।
णूणा सिरिए वि तुमं अप्पाणं किं णु ळहुवसि ॥ ८.१२६ ॥

(।बहुवल्लभः खलु राजा सखि तस्य श्रियां निर्भरासक्तिः ।
न्यूना श्रियोऽपि त्वमात्मानं किं नु लघयसि ॥)

अत्र त्वमपि श्रियो न्यूनगुणा न भवति । अतस्त्वय्यपि नृपतिरासक्त एव, किमित्यात्मानं लघूकरोषीति काक्वा

प्रतीयते । श्लेषेण यथा

कस्ते सुन्दरि वर्तते हृदि सदा ? किमिन्दुर्न हि
क्षोणीभृत्तिलकः॑ सुमेरुरयि किं ? नो रुद्रदेवो विभुः ।
ईशः किं सखि ! सत्यमात्थ सुभगे ! त्वं गोत्रसारोद्भवे
त्याल्यां खल्वपहासवाचि विरहं किंचिद्वधूर्व्यस्मरत् ॥ ८.१२७ ॥

[विइइ.१७ वभावोक्तिः]

अथ स्वभावोक्तिः ।

स्वभावोक्तिरसौ चारु यथावद्वस्तुवर्णनम् ॥ ८.१२८ ॥

यत्र चारुतया वस्तुनो यथावद्वर्णनं निबध्यते सा स्वभावोक्तिः ।

यथा

मदश्च्युता नर्तितकर्णतालमुद्धूतमूर्ध्ना त्रिपदस्थितेन ।
लोलाग्रहस्तेन गजेन जातो नित्योत्सवः काकतिवीररुद्रः ॥ ८.१२९ ॥

[विइइ.१८ याजोक्त्यलङ्कारः]

व्याजोक्त्यलङ्कारः ।

अथोक्तिसाम्याद्व्याजोक्तिरुच्यते ।

व्याजोक्तिः सा समुद्भूतं वस्तु यत्र निगूह्यते ॥ ८.१३० ॥

यत्र प्रकाशं वस्तु साम्यगर्भत्वेन निगूहनार्हत्वात्केनचित्व्याजेन प्रच्छाद्यते सा व्याजोक्तिः । यथा


क्षोणीपाणिग्रहणसमये संमदाद्रोमहर्षे
सर्वाङ्गीणे नृपतितिलकः काकतीयान्वयेन्दुः ।
धीरोदात्तः शिशिरसलिलैः किं नु राज्याभिषेकः
कर्तव्यः स्यादिति मृदु हसन् वीक्षते मन्त्रिवृद्धान् ॥ ८.१३१ ॥

अत्र क्षोणीपाणिग्रहणजनितं रोमहर्षणं धीरोदात्ततया प्रतापरुद्रदेवेन महाभिषेकसलिलशैत्यव्याजेन प्रच्छादयता मन्त्रिणो वीक्ष्यन्ते ।

[विइइ.१९ ईलनालङ्कारः]

मीलनालङ्कारः ।

व्याजोक्त्युत्तरं किंचित्साम्यान्मीलनमुच्यते ।
मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम् ॥ ८.१३२ ॥

यत्र वस्तुना वस्त्वन्तरं प्रच्छादितं भवति स मीलनालंकारः । स द्विविधःसहजेनागन्तुकतिरोधानम्, आगन्तुकेन सहजतिरोधानं चेति । यथाक्रममुदाहरणे

उग्रैः काकतिवीररुद्रनृपतेर्देर्दण्डविस्फूर्जितैर्
युद्धप्राङ्गणवर्जितेषु पतिषु क्वापि प्रलीनात्मसु ।
विष्वक्तीव्रतरस्मरज्वरजुषामङ्गे द्विषद्योषितां
संक्रान्तोऽपि न लक्ष्यते पथि महानूष्मा चिरं मारवः ॥ ८.१३३ ॥

अत्र सहजेन रिपुकामिनीगतेन स्मरानलोष्मणा मार्गवशादागन्तुको मरूष्मा तिरोधीयते । तथा

प्रतापरुद्रस्य भुजप्रभावादन्तर्भयाद्भूमिभुजामजस्रम् ।
स्वेदाश्रुकम्पाद्युदयेऽप्यनङ्गगोष्ठ्यां स्त्रियः प्रेम्णि न विश्वसन्ति ॥ ८.१३४ ॥

अत्र भयजनितेन कम्पादिनाऽगन्तुकेन सहजस्य प्रेमजनितस्य कम्पादेस्तिरोधानम् ।

[विइइ.२० आमान्यालङ्कारः]

सामान्यालङ्कारः ।

सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता ॥ ८.१३५ ॥

यत्र एवस्य वस्तुनो गुणसाम्येन वत्स्वन्तरैकात्म्यं भवति, स सामान्यालंकारः । यथा

कैलासदुग्धार्णवयानहंसेष्वलक्षितेष्वन्ध्रनरेन्द्रकीर्त्तौ ।
त्रयः पुमांसः प्रथमे स्मयन्ते स्वसेवकान् संभ्रमतो विलोक्य ॥ ८.१३६ ॥

अत्र प्रतापरुद्रकीर्त्त्यां जगत्सु विजृम्भितायां कैलासप्रभृतीनां विमलवस्तूनां तदैकात्म्यम् ।

[विइइ.२१ अद्गुणालङ्कारः]

तद्गुणालङ्कारः ।

इतरगुणसंनिधानातिशयसाम्यात्तद्गुण उच्यते ।
तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः ॥ ८.१३७ ॥

यत्र न्यूनं
स्वगुणं विहाय संनिहितवस्तुनः सकाशादुत्कृष्टगुणः स्वीक्रियते स तद्गुणालङ्कारः । यथा

प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नाविजृम्भितैः ।
नमन्नृपतिमाणिक्यमौलयः शुचयः कृताः ॥ ८.१३८ ॥

अत्र प्रणमतां भूपतीनां पद्मरागमुकुटाः स्वां शोणप्रभां मुक्त्वा काकतिवीररुद्रपदनखज्योत्स्नागतं धवलिमानमुद्वहन्ति स्म ।

[विइइ.२२ तद्गुणालङ्कारः]

अतद्गुणालङ्कारः ।

तत्प्रातिपक्ष्यादतद्गुणो निरूप्यते ।

सति हेतावन्यगुणास्वीकारः स्यादतद्गुणः ॥ ८.१३९ ॥

यत्र संनिधानरूपे हेतौ सत्यप्यन्यगुणस्वीकारो नास्ति असावतद्गुणालंकारः । यथा

ईशानं समया जगत्यटति तल्लीलाट्टहासोज्ज्वले
दैत्यारिं परितस्तदङ्गविलसन्नीलद्युतिद्योतिते ।
ब्रह्माणं निकषा च तत्तनुमिलत्स्वर्णप्रभाभास्वरे
पुष्णन् रुद्रनरेन्द्रकीर्त्तिविभवः स्वामेव शुभ्रां छविम् ॥ ८.१४० ॥

अत्र हरिहरविरिञ्चीनां समीपवर्तिषु जगत्सु तत्तन्नानाप्रभासमग्रेष्वपि निरन्तरं विहरमाणस्य प्रतापरुद्रयशसो निरङ्कुशः स्वकीय एव धवलिं विजृम्भते ।

[विइइ.२३ इरोधालङ्कारः]

विरोधालङ्कारः ।

अतद्गुणे किंचित्प्रक्रान्तत्वाद्विरोधस्य विरोधालंकारो निरूप्यते ।
आभासत्वे विरोधस्य विरोधालंकृतिर्मता ॥ ८.१४१ ॥

यत्र प्रथममाभासतया प्रतीतो विरोधः पर्यवसाने परिह्रियते स विरोधालंकारः । तत्र जातेर्जात्यादिना सह विरोधे चत्वारो भेदाः । क्रियायाः क्रियागुणद्रव्यैः सह विरोधे त्रयो भेदाः । गुणस्य गुणद्रव्याभ्यां विरोधे द्वौ भेदौ । द्रव्यस्य द्रव्येण सह विरोधे एको भेदः । एवं दश विरोधे भेदाः । जातेर्जात्या क्रियया च विरोधो यथा

पद्माकरोऽपि विलसति नितरामजडाशयोऽयमुर्वीशः ।
विमलतरवारिधाराप्यासीद्वैरिक्षितीशतापकरी ॥ ८.१४२ ॥

अत्र पूर्वार्धे जात्योर्विरोधः, कमलाकरोऽप्यजडाशय इति विरोधात् । उत्तरार्धे जातिक्रिययोर्विरोधः, विमलतरवारिधारायाः संतापकरणविरोधात् । अत्र श्लेषमूलो विरोधः ।

जातेर्गुणद्रव्याभ्यां विरोधो यथा

अमदः सार्वभौमोऽपि भास्वानपि कलानिधिः ।
वीररुद्रनरेन्द्रोऽयमद्भुतानां विहारभूः ॥ ८.१४३ ॥

अत्र सार्वभौमोऽप्यमद इति जातिगुणयोर्विरोधः । भास्वानपि कलानिधिरिति जातिद्रव्ययोर्विरोधः । कलानिधेरेकत्वात्द्रव्यत्वम् । अत्रापि श्लेषमूलता । क्रियायाः क्रियया विरोधो यथा

धर्मद्विषामर्थमुषां च भङ्गमुत्पादयन् काकतिवीररुद्रः ।
त्रिवर्गसाधारणगोचरोऽपि करोति कामद्विषि भावमार्द्रम् ॥ ८.१४४ ॥

अत्र त्रिवर्गसाधारणवृत्तेर्धर्मार्थविरोधिषु भङ्गकरणं कामारौ स्नेहकरणं च विरुद्धम् । क्रियाया गुणद्रव्याभ्यां विरोधो यथा

एष जिष्णुविहारोऽपि गोत्रवात्सल्यलालसः ।
करोति कमलोल्लासं राजाप्यन्ध्रनरेश्वरः ॥ ८.१४५ ॥

अत्र जिष्णुविहारस्य गोत्रवात्सल्यमिति क्रियागुणयोर्विरोधः । कमलोल्लासं कुर्वन्नपि राजेति क्रियाद्रव्ययोर्विरोधः । अत्रापि श्लेषमूलतैव । गुणस्य गुणेन विरोधो यथा

रज्जंतो भुवणमिअं राएत्ति जए सलाहणिज्जो सि ।
रुद्दणरिंद ! कहं सा रत्ता वि अ पंडुरा जाआ ॥ ८.१४६ ॥

(रञ्जयन् भुवनमिदं राजेति यथा श्लाघनीयोऽसि ।
रुद्रनरेन्द्र ! कथं सा रक्तापि च पुण्डुरा जाता ॥)

अत्र रक्तत्वपाण्डुरत्वयोर्विहोधः । गुणस्य द्रव्येण विरोधो यथा

ज्वलत्प्रतापरौद्रोऽपि काकतीयनरेश्वरः ।
भूत्वा जैवातृको भाति शश्वद्विश्वप्रियंकरः ॥ ८.१४७ ॥

अत्र प्रतापरौद्रोऽपि जैवातृक इति गुणद्रव्ययोर्विरोधः ।

द्रव्यस्य द्रव्येण विरोधो यथा

विभाति काकतीन्द्रोऽयं रुद्रोऽपि चतुराननः ।
तथा च जिष्णुरित्येष कथ्यते पुरुषोत्तमः ॥ ८.१४८ ॥

एवं दश भेदा दर्शिताः । अयमश्लेषेणापि भवति । यथा

स्वभावशिशिरा दृष्टिरपि काकतिभूभुजः ।
सर्वाङ्गतापिनी जाता प्रतिपक्षमहीभृताम् ॥ ८.१४९ ॥

अत्र स्वभावशिशिरापि तापिनीति विरोधः ।

[विइइ.२४ इशेषालङ्कारः]

विशेषालङ्कारः ।

अथ विरोधगर्भालंकारा निरूप्यन्ते ।

आधाररहिताधेयमेकं चानेकगोचरम् ।
अशक्यवस्तुकरणं विशेषालंकृतिस्त्रिधा ॥ ८.१५० ॥

यत्राधारमन्तरेणाधेयो निबध्यते स एको विशेषः । एकस्यानेकगोचरत्वे द्वितीयो विशेषः । प्रकृतादशक्यवस्त्वन्तरकरणे तृतीयः । यथाक्रममुदाहरणानि

नलनहुषदिलीपधर्मपुत्रप्रभृतिनरेश्वरसंश्रिता यशः श्रीः ।
अनुदिनमधुनाभ्युपेत्य मैत्रीं विलसति काकतिवीररुद्रकीर्त्त्या ॥ ८.१५१ ॥

अत्र प्राचां भूपतीनामाधारभूतानां तिरोधानेऽप्याश्रितायाः कीर्त्तेरवस्थानम् । यथा च

पश्यन्तो भयविह्वलाः प्रतिनृपाः पश्चात्पुरः पार्श्वयोर्
रप्यन्तर्बहिरन्ध्रपार्थिवपतिं प्रोत्क्षिप्तकौक्षेयकम् ।
निः सीनोत्बणधावनव्यतिकरप्रभ्रष्टदोरायुधाः
शैलाच्छेलमटन्ति कम्पविलसद्गाम्भीर्यशौर्यश्रियः ॥ ८.१५२ ॥

अत्र भयभ्रान्तानां शत्रुनृपतीनां प्रतापरुद्रनृपतिरेकोऽप्यनेकत्र प्रतीयते । तथा च

अपारकरुणानिधेः सदसि वीररुद्रप्रभोः
प्रसादमधुरक्रमा लगति यत्र दृष्टिर्जने ।
अतीन्द्रमतिकिंनराधिपमशेषलोकोन्नतं
न किं मिमधितिष्ठति त्रिभुवने स सर्वाधिकः ॥ ८.१५३ ॥

अप्र साधारणो जनः प्रतापरुद्रदृष्टिप्रसादपात्रीकृतः किं किं न लभत इत्यशक्यवस्त्वन्तरकरणम् ।

[विइइ.२५ धिकालङ्कारः]

अधिकालङ्कारः ।

आधाराधेयवैचित्र्यादधिकालंकारो निरूप्यते ।
आधाराधेययोरानुरूप्याभावोऽधिको मतः ॥ ८.१५४ ॥

यत्राश्रयाश्रयिणोरानुरूप्यं नास्ति सोऽधिकालंकारः । स द्विविधः, आश्रयस्याल्पत्वमहत्त्वाभ्याम् ।

स्तोके ब्रह्माण्डरन्ध्रे विपुलतरतया स्वैरसंचारहेला
संकोचादेकराशीभवदतनुरुचौ काकतीन्द्रस्य कीर्त्तौ ।
एतैः प्रालेयपृथ्वीधररजतगिरिस्वर्णदीशीतभानु
क्षीरम्भोराशिमुख्यैः प्रकटितमधुना तद्धनीभावरूपम् ॥ ८.१५५ ॥

अत्राश्रयस्य रोदः कुहरस्याल्पत्वमाश्रितस्य प्रतापरुद्रयशसो वैपुल्यम् । द्वितीयो यथा

क्वापि क्वापि कलिङ्गमालवमहाराष्ट्राङ्गवङ्गादयो
भूपास्तादृशसैन्यवैभवसमाक्रान्ताखिलाशान्तराः ।
लीनाः काकतिवीररुद्रनृपतेर्व्यूहप्रपञ्चश्रिया
निः सीमे बलवारिधौ विदधते पूर्तिं न कोणेऽप्यहो ॥ ८.१५६ ॥

अत्राश्रयस्य प्रतापरुद्रसैन्याम्बुधेर्वैपुल्यम् । आश्रितानामङ्गवङ्गकलिङ्गप्रभृतिराजकानीकिनीनामल्पत्वम् ।

अथ विभावना विशेषोक्तिश्च ।

कारणेन विना कार्यस्योत्पत्तिः स्याद्विभावना ।
तत्सामग्रयामनुत्पत्तिर्विशेषोक्तिर्निगद्यते ॥ ८.१५७ ॥

यत्र प्रसिद्धकारणपरित्यागेन कार्यस्योत्पत्तिर्निगद्यते सा विभावना । यत्र साकल्ये सत्यपि कार्यस्यानुत्पत्तिः सा विशेषोक्तिः ।

यथा

प्रतापरुद्रेण पराजितानां प्रत्यर्थिनां विन्ध्यगुहागतानाम् ।
तमांस्यरात्रीणि समुद्भवन्ति तेजांसि धस्रेष्वपि नोद्भवन्ति ॥ ८.१५८ ॥

अत्र तमः
प्रादुर्भावस्य प्रसिद्धकारणं रात्रिः । तया विनापि तस्योत्पत्तिर्निबद्धा । अप्रसिद्धं कारणं शोकाद्यस्त्येव । तथा अहस्सु रविकिरणेषु सत्स्वपि तेजसोऽनुत्पत्तिरिति अत्र निष्प्रतापत्वादि निमित्तमस्त्येव ।

[विइइ.२६ संगत्यलङ्कारः]

असंगत्यलङ्कारः ।

कार्यकारणविरोधप्रस्तावादसंगतिरुच्यते ।
कार्यकारणयोर्भिन्नदेशत्वे सत्यसंगतिः ॥ ८.१५९ ॥

यत्रैकदेशवर्तिनोरपि कार्यकारणयोर्भिन्नदेशस्थितिर्निबध्यतेऽसावसंगत्यलंकारः । यथा

बिभ्रत्युर्वीधुरां गुर्वी वीररुद्रनरेश्वरे ।
भवन्त्यतितरां शश्वन्नम्राः सामन्तमौलयः ॥ ८.१६० ॥

अत्र राज्ञि भूभारः शत्रुषु नमनमिति ।

[विइइ.२७ इचित्रालङ्कारः]

विचित्रालङ्कारः ।

विरोधप्रस्तावाद्विचित्रं निरूप्यते ।

विचित्रं स्वविरुद्धस्य फलप्राप्त्यर्थमुद्यमः ॥ ८.१६१ ॥
यत्र स्वविरुद्धफलप्राप्त्यर्थमुद्योगः क्रियते स विचित्रालंकारः ।

यथा

प्रतापरुद्रनृपतेरग्रे दूरान्नरेश्वराः ।
अवरोहन्ति हस्तिभ्यस्तानारोढुमनर्गलम् ॥ ८.१६२ ॥

अत्रारोढुमवरोहन्तीति विपरीतफलप्राप्त्यर्थं प्रयत्नः ।

अन्योन्यालंकारः ।

अथान्योन्यं निरूप्यते ।
अस्यापि विरोधमूलता ।

तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत् ॥ ८.१६३ ॥

यत्र परस्परं क्रियाद्वारकमुत्पाद्योत्पादकत्वं तदन्योन्यालंकारः ।

यथा

आरोहता रुद्रनरेश्वरेण विराजते काकतिराजपीठम् ।
आरुह्य तेनोज्ज्वलरत्नभाजा राजापि लक्ष्मीमधिकां बिभर्ति ॥ ८.१६४ ॥

अत्र प्रतापरुद्रभद्रासनयोरन्योन्यालंकार्यत्वम् ।

विषमालंकारः ।

अथ विरोधमूलो विषमालंकारः कथ्यते ।

विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् ।
विरूपघटना चासौ विषमालंकृतिस्त्रिधा ॥ ८.१६५ ॥

यत्र कारणाद्विरुद्धकार्यस्योत्पत्तिस्तदेकं विषमम् । अकार्यभूतस्यानर्थस्योत्पत्तिर्द्वितीयम् । विरूपयोर्वस्तुनोः संघटने तृतीयम् । तत्र प्रथमं यथा

राज्ञः काकतिवीररुद्रनृपतेः खड्गात्तमालप्रभाद्
उद्भूतां शरदिन्दुकान्तिधवलां कीर्त्तिश्रियं पश्यताम् ।
लोकानां मुरवैरिपादकमलाज्जातां वियन्निम्नगां
श्रुत्वा संप्रति विस्मयाद्विरमति प्राप्तानुभावं मनः ॥ ८.१६६ ॥

अत्र नीलवर्णात्खड्गादिन्दुघवलस्य यशसः समुत्पत्तिः ।

द्वितीयं यथा

आस्तां जयाशा रिपुभूपतीनां संग्रामसीमाममुपागतानाम् ।
प्रतापरुद्रस्य विलोकनेन भ्रश्यन्ति जीवैः सममायुधानि ॥ ८.१६७ ॥

अत्र समरोद्योगफलस्य न केवलं जयस्यानुत्पत्तिर्यावज्जीवितभ्रंशरूपानर्थोत्पत्तिरपि । तृतीयं यथा

क्व भूपालास्तादृग्विभवमहनीयप्रकृतयः
क्व चेयं कान्तारस्थितिरशिववृत्त्येकनिलया ।
इति प्रेक्षंप्रेक्षं वनभुवि रिपून् रुद्रनृपतेः
प्रतापं श्लाघन्ते शबरपुरवीराः प्रतिदिशम् ॥ ८.१६८ ॥

अत्र महानगरनिवासयोग्यानां राज्ञामशिवानां वनप्रदेशानां विरूपाणां संघटनम् ।

एवं विरोधगर्भालङ्कारा निर्णीताः ।

[विइइ.२८ अमालङ्कारः]

समालङ्कारः ।

अधुना विषमवैधर्म्यात्समालंकारो निरूप्यते ।
सा समालंकृतिर्योगे वस्तुनोरनुरूपयोः ॥ ८.१६९ ॥

यत्रान्योन्यानुरूपपदार्थसंघटना क्रियते स समालङ्कारः । यथा

विज्जाओ सकलाओ लच्छीए समं पआवरुद्दंमि ।
संघटिऊण सुसरिसं होइ कअच्छो सअं बह्मा ॥ ८.१७० ॥

(विद्याः सकला लक्ष्म्या समं प्रतापरुद्रे ।

संघटय्य सुसदृशं भवति कृतार्थः स्वयं ब्रह्मा ॥)

अत्र प्रतापरुद्रे सकलविद्यानां लक्ष्म्याश्च योगः ।

[विइइ.२९ उल्ययोगितालङ्कारः]

तुल्ययोगितालङ्कारः ।

अथ गम्यमानोपम्यालंकारवर्गप्रस्तावः ।

प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः ।
औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥ ८.१७१ ॥

यत्र केवलप्रस्तुतानां केवलाप्रस्तुतानां वा समानधर्मसंबन्धादौपम्यं गम्यते सा तुल्ययोगिता । प्रस्तुतानां यथा

भद्रासनाध्यासिनि रुद्रदेवे तत्कीर्त्तयस्तद्द्विषदङ्गनाश्च ।
अनारतं भ्रान्तिविशेषभाजः प्रतिक्षणं पाण्डुरतां भजन्ते ॥ ८.१७२ ॥

अत्र कीर्त्तीनां द्विषदङ्गनानां च प्राकरणिकत्वम् । पाण्डुरतां भजन्त इति समानधर्मः । अप्राकरणिकानां यथा

कूर्मेन्द्रपन्नगाधीशहरित्करिकुलाद्रयः ।
मिथो निः सारतां प्राप्ताः काकतीन्द्रे महीभृति ॥ ८.१७३ ॥

अत्र कूर्मेन्द्रप्रभृतीनामप्राकरणिकत्वम् । निः सारतां प्राप्ता इति समानधर्मः । अत्र गम्यमानौपम्यं न वास्तवम् ॑ किं तु वैवक्षिकम् ।

[विइइ.३० ईपकालङ्कारः]

दीपकालङ्कारः ।

प्रसुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तन्निगद्यते ॥ ८.१७४ ॥

यत्र प्रस्तुताप्रस्तुतानां समस्तानामेव समानधर्मसंबन्धेनौपम्यं गम्यते तद्दीपकम् । तस्य धर्मस्यादिमध्यान्तगतत्वेन त्रैविध्यम् । आदिदीपकं यथा

भाइ णलेण किअजुअं रहुउलदीवेण सोरिणा तेता ।
दावारो तवजणिणा कलीजुअं वीरुद्देण ॥ ८.१७५ ॥

(भाति नलेन कृतयुगं रघुकुलदीपेन शौरिणा त्रेता ।

द्वापरस्तपोजनिना कलियुगं वीररुद्रेण ॥)

अत्र यथा नलरामधर्मपुत्रैः कृतत्रेताद्वापराः शोभन्ते, तथा वीररुद्रेण कलियुगं शोभत इत्यौपम्यं गम्यते । मध्यदीपकं यथा

भाईरहिए जलणिही राअई जोण्हाए पुण्णिमाचंदो ।
सुत्तीए कमलहवो कित्तीए पआवरुद्दो वि ॥ ८.१७६ ॥

(भागीरथ्या जलनिधी राजते ज्योत्स्नया पूर्णिमाचन्द्रः ॥
श्रुत्या कमलभवः कीर्त्त्या प्रतापरुद्रोऽपि ॥)

अत्र भागीरथ्यादिभिः समुद्रादयो यथा राजन्ते तथा कीर्त्त्या प्रतापरुद्रो राजत इत्यौपम्यं गम्यते । अन्तदीपकं यथा

असुरलोअं सुरणाहो णरलोअं वीररुद्दणरणाहो ।
फणिलोअं फणिणाहो रक्खै णिरुपद्दवोज्जेअम् ॥ ८.१७७ ॥

(असुरलोकं सुरनाथो नरलोकं वीररुद्रनरनाथः ॥

फणिलोकं फणिनाथो रक्षति निरुपद्रवोद्वेगम् ॥)

अत्र यथा सुरलोकफणिलोकौ सुरनाथफणिनाथाभ्यां रक्षितौ, तथा वीररुद्रेण नरलोको रक्षित इत्यौपम्यं गम्यते ।

अथ पदार्थगतालंकारद्वयानन्तरं वाक्यार्थगतमलंकारद्वयं निरूप्यते ।

प्रतीवस्तूपमालङ्कारः ।

यत्र सामान्यनिर्देशः पृथग्वाक्यद्वये यदि ।
गम्यौपम्याश्रिता सा स्यात्प्रतिवस्तूपमा मता ॥ ८.१७८ ॥

यत्र वस्तुप्रतिवस्तुभावेन सामान्यं वाक्यद्वये निर्दिश्यते तेन गम्यौपम्या प्रतिवस्तूपमा । सा साधर्म्यवैधर्म्याभ्यां द्विविधा ।

प्रथमा यथा

मन्थानाचल एवैकः क्षमः सिन्धुविलोडने ।
प्रतापरुद्र एवैकः शक्तः शत्रुविलोडने ॥ ८.१७९ ॥

अत्र यथा समुद्रविलोडने मन्थानाचलः क्षमस्तथा शत्रुविलोडने प्रतापरुद्रः शक्त इत्यौपम्यं गम्यते । द्वितीया यथा

प्रतापरुद्र एवैकः पटीयान् जनरञ्जने ।
चन्द्रादृते क्षमो नान्यश्चकोरपरितोषणे ॥ ८.१८० ॥

अत्र चन्द्रेण यथा चकोरपरितोषणं क्रियते, तथा वीररुद्रेण जनरञ्जनं क्रियत इति वैधर्म्येणौपम्यं गम्यते ।

अथ दृष्टान्तः ।

[विइइ.३१ ऋष्टान्तालरङ्कारः]

दृष्टान्तालङ्कारः ।

यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते ।
सामान्यधर्मो वाक्यज्ञैः स दृष्टान्तो निगद्यते ॥ ८.१८१ ॥

यत्र बिम्बप्रतिबिम्बभावेन सामान्यं वाक्यद्वये निर्दिश्यते, स दृष्टान्तालंकारः । सोऽपि साधर्म्यवैधर्म्याभ्यां द्विविधः । आद्यो यथा

क्षोणीं बिभ्रतु भूभृतः कतिपये कापि प्रतिष्ठा पुनः
स्वर्णाद्रेर्दिगधीशवासनगरीसंदिग्धकुञ्जश्रियः ।
राजानौ जनरञ्जनं विदधतां श्रीवीररुद्रप्रभोः
कोऽप्यन्यो महिमा जगत्त्रयधुराधौरेयदोः शालिनः ॥ ८.१८२ ॥

अत्र प्रतापरुद्रस्य मेरोश्च बिम्बप्रतिबिम्बभावादौपम्यं गम्यते । वैधर्म्येण यथा

काकतीन्द्रकृपादृष्टिमात्राज्जाग्रति संपदः ।
तावदब्जानि निद्रान्ति यावन्नोदेति भानुमान् ॥ ८.१८३ ॥

अत्र यथा भास्वदुदयमात्रेण पद्मानि समुन्मीलन्ति तथा प्रतापरुद्रदयाविलोकनमात्रेण संपदः संभवन्तीति वैधर्म्येण बिम्बप्रतिबिम्बनम् ।

[विइइ.३२ इदर्शनालङ्कारः]

निदर्शनालङ्कारः ।

अथ गम्यमानौपम्यप्रस्तावान्निदर्शनालंकारो निरूप्यते ।

असंभवद्धर्मयोगादुपमानोपमेययोः ।
प्रतिबिम्बक्रिया गम्या यत्र सा स्यान्निदर्शना ॥ ८.१८४ ॥

यत्रोपमानधर्मस्योपमेयगतत्वेन निबद्धस्यान्वयासंभवात्तत्सम्बन्धार्थं बिम्बप्रतिबिम्बकरणमाक्षिप्यते, सैका निदर्शना । तद्विपर्यये द्वितीया निदर्शना । प्रथमा यथा

रिपुतिमिरमुदस्यन् रत्नसिंहासनस्थ
स्त्रिभुवनमहनीयः काकतीयक्षितीशः ।
वहति महितविश्वोल्लासिलीलामभिख्या
मुदयशिखरिचूडाचुम्बिनस्तीव्रभानोः ॥ ८.१८५ ॥

अत्र तीव्रभानोरभिख्यायाः प्रकृतेऽसंभवादभिख्यासदृशीमभिख्यां वहतीति बिम्बप्रतिबिम्बकरणाक्षेपः । उपमेयधर्मस्योपमानेऽसंभवाद्यथा

वीररुद्रनरेन्द्रस्य यशोवैशद्यसंपदः ।
लक्ष्यन्ते क्षीरवाराशिलीलादर्पणमण्डले ॥ ८.१८६ ॥

अत्र यशोवैशद्यस्य दुग्घार्णवादौ असंभवात्सादृश्योपगमेन बिम्बप्रतिबिम्बनं गम्यते । क्वचिन्निषेधवशादाक्षिप्तया प्राप्त्या बिम्बप्रतिबिम्बकरणाक्षेपो यथा

यथा

काकतीन्द्रद्विषत्कान्ता धावन्त्यः प्रतिकाननम् ।
पद्भ्यां मुञ्चन्त्यलाक्षाभ्यां स्थले रक्तोत्पलश्रियम् ॥ ८.१८७ ॥

अत्र मुञ्चन्तीति निषेधात्पूर्वं रक्तोत्पलश्रीप्राप्तिराक्षिप्ता ।

[विइइ.३३ यतिरेकालङ्कारः]

व्यतिरेकालङ्कारः

अथ व्यतिरेकः ।

भेदप्रधानसाधर्म्यमुपमानोपमेययोः ।
आधिक्याल्पत्वकथनाद्व्यतिरेकः स उच्यते ॥ ८.१८८ ॥

यत्रोपमानादुपमेयस्याधिक्येन न्यूनत्वेन वा प्रतिपादनेन भेदप्रधानं साधर्म्यमुपगम्यते स व्यतिरेकालंकारः । यथा

दिनकृति कुमुदैर्धृतो न रागः शशिनि पराञ्चि परं सरोरुहाणि ।
कुवलयकमलादृतप्रकाशः प्रभवति विश्वसुहृत्प्रतापरुद्रः ॥ ८.१८९ ॥

अत्र रविशशिनोरसंभवेन सर्वप्रियंकरत्वेनोपमेयभूतस्य प्रतापरुद्रस्याधिक्यं कुवलयकमलादृतप्रकाश इत्युक्तमिति श्लेषसमुत्थापितो व्यतिरेकः ।

अथ श्लेषालङ्कारो निरूप्यते ।

प्रकृताप्रकृतोभयगतमुक्तं चेच्छब्दमात्रसाधर्म्यम् ।
श्लेषोऽयं श्लिष्टत्वं सर्वत्राद्यद्वये नान्त्ये ॥ ८.१९० ॥

यत्र केवलप्रकृतयोः केवलाप्रकृतयोश्च श्लेषः कथ्यते॑ तत्र प्रकारद्वये विशेषणविशेष्यश्लिष्टता । प्रकृताप्रकृतविषयेऽन्त्यभेदे विशेषणमात्रश्लिष्टता । विशेष्ययोरपि श्लिष्टत्वे शब्दशक्तिमूलध्वनिप्रसङ्गात् । केवलप्रकृतयोः केवलाप्रकृतयोश्चैकशब्दगोचरत्वे तु न ध्वनिशङ्का । अत्रार्थद्वयप्रतिपादनेऽप्रस्तुतत्वेन प्रस्तुतत्वेन वा वैमग्याभावादभिधैव समर्था । प्रस्तुताप्रस्तुतविषये तु अभिधायाः प्रस्तुतैकपरतन्त्रत्वादप्रस्तुतार्थप्रतिपत्तिर्व्यञ्जनव्यापारायत्तैव । तथा चोक्तं काव्यप्रकाशे

"अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते ।

संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ऽ इति ।

तदेवं त्रिधा श्लेषः । तत्र केवलप्राकरणिकयोर्यथा

राज्ञः पूजाविधिं धत्ते सकलोमाधवे तिथिः ।
नीलकण्ठकलापाङ्के स्फुरदब्जमणित्विषि ॥ ८.१९१ ॥

अत्र पूजाविषयतया हरिहरयोः प्राकरणिकत्वम् । अप्राकरणिकयोर्यथा

सदृशः काकतीन्द्रोऽयं महाकुलमहीभृताम् ।
शिरोगृहीतसन्मार्गस्फुरत्कटकसंपदाम् ॥ ८.१९२ ॥

अत्र महाकुलानां हरिश्चन्द्रप्रभृतीनां कुलपर्वतानां चोपमानत्वेनाप्राकरणिकत्वम् । प्राकरणिकाप्राकरणिकयोर्यथा

विजितारिपुरो
मूर्तौ विलसत्सर्वमङ्गलः ।

राजमौलिः प्रतापाङ्करुद्रो रुद्र इव स्थितः ॥ ८.१९३ ॥

अत्र प्रतापरुद्ररुद्रयोः प्राकरणिकाप्राकरणिकत्वम् ।

[विइइ.३४ अरिकरालङ्कारः]

परिकरालङ्कारः ।

विशेषणवैचित्र्यमूलत्वात्परिकर उच्यते ।

यत्राभिप्रायगर्भा स्याद्विशेषणपरम्परा ।
तत्राभिप्रायविदुषामसौ परिकरो मतः ॥ ८.१९४ ॥

यत्र विशेषणानि साभिप्रायाणि निबध्यन्ते स परिकरालंकारः । यथा

राज्ञो यादववंशपार्थिवमणेः प्रख्यातशौर्यश्रियस्
त्वङ्गत्तुङ्गतुरङ्गसैन्यमहतो मानैकवित्तस्य च ।
सद्यो रुद्रनरेन्द्रनायकचमूनाथेन केनाप्यधि
क्षिप्तस्याचरितानि सेवणपतेर्जानाति सा गौतमी ॥ ८.१९५ ॥
अत्र राज्ञ इत्येवमादिविशेषणानि उत्प्रासगर्भाणि ।

[विइइ.३५आक्षेपालङ्कारः]

आक्षेपालङ्कारः ।

अथाक्षेपालंकारः

विशेषबोधायोक्तस्य वक्ष्यमाणस्य वा भवेत् ।
निषेधाभासकथनमाक्षेपः स उदाहृतः ॥ ८.१९६ ॥

यत्र विशेषप्रतिपत्त्यर्थमुक्तवक्ष्यमाणयोः प्राकरणिकयोर्निषेधाभासः कथ्यते, स आक्षेपालंकारः । उक्तविषये वस्तु वा कथनं वा निषिध्यते । वक्ष्यमाणविषये कथनमेव निषिध्यते । तत्रापि सामान्यरूपेण प्रतिज्ञाय विशेषरूपेण निषेधः । अंशोक्तावंशान्तरस्य वा निषेधः । एवं चतुर्विधोऽयमाक्षेपः । क्रमेणैषामुदाहरणानि ।

नरेन्द्रमौले ! न वयं तव संदेशहारिणः ।
जगत्कुटुम्बिनः कश्चिन्न शत्रुरिति कथ्यते ॥ ८.१९७ ॥

अत्र राजसन्धिविग्रहकारिणामुक्तौ न वयं संदेशहारिण इति वस्तुनिषेधः । स चानुपपद्यमानः संधिविग्रहकालोचितकैतववचनपरिहारेण तत्त्ववादित्वे पर्यवसितः, सर्वजगत्पालकस्य तव शत्रुभावेन नालोकनीया राजानः, किं तु भृत्यरूपेण संरक्षणीया इत्येवमादिविशेषमाक्षिपति । कथननिषेधो यथा

वयमशरणा इत्येषोक्तिः कथं घटते जगत्
त्रितयशरणे त्रायस्वास्मानिति स्फुटमज्ञता ।
सकलजनतारक्षादक्षे त्वयि प्रणता इति
त्रिभुवननमस्कार्ये सिद्धं प्रतापमहीपते ॥ ८.१९८ ॥

अत्र वयमशरणा इत्येवमाद्युक्तिकथननिषेधा (दा) भासरूपादवश्यपरिपालनीयत्वादिविशेषः प्रतीयते । वक्ष्यमाणविषये सामान्यं प्रतिज्ञाय कथननिषेधो यथा

विज्ञापयामस्ते किंचित्काकतीयकुलोद्वह ।
विज्ञाप्यते किमथवा सर्वज्ञे रक्षके त्वयि ॥ ८.१९९ ॥

अत्र विज्ञापयाम
इति सामान्यं प्रतिज्ञाय कथननिषेधाभासात्सर्वथा वयं रक्षणीया इति विशेष आक्षिप्यते । अंशोक्तावंशान्तरस्य निषेधो यथा

प्रतापरुद्रः स्वयमिद्धतेजा दैवं च तद्विक्रमदत्तहस्तम् ।
यूयं च तूलोपमसारभाजस्तद्युक्तमेवं यदि वा किमुक्तैः ॥ ८.२०० ॥

अत्र प्रतापरुद्रो महीयान्, यूयमल्पा इत्यंशोक्त्या यदि वा किमुक्तैरित्यंशान्तरनिषेधाभासेन सर्वथा प्रणामैः प्रसादनीयोऽयम्, न तु प्रातिपक्ष्यमवलम्बनीयं युष्माभिरिति शत्रुस्त्रीवचनभङ्ग्या विशेष आक्षिप्यते ।

समानार्थतयानिष्टविध्याभासोऽप्याक्षेप इत्यभ्युपगम्यते ॥ ८.२०१ ॥

यथा च इष्टनिषेधस्यानुपपद्यमानतया आभासत्वं तथा अनिष्टविधेरप्यनुपपद्यमानतया आभासत्वम् । यथा

नाथ ! प्रतापरुद्रस्य सेवां त्यजसि चेत्त्यज ।
अरण्यगृहमेधिन्या रीतिरभ्यस्यते मया ॥ ८.२०२ ॥

अत्रानिष्टभूतं प्रतापरुद्रपादसेवात्यजनं तद्रिपुकामिन्या विधीयते । स विधिरनुपपद्यमान आभासे पर्यवस्यति । अरण्यगृहमेधिन्या रीतिरभ्यस्यत इत्यनेन विध्याभास एव उपबृंहितः ।

[विइइ.३६ याजस्तुत्यलङ्कारः]

व्याजस्तुत्यलङ्कारः ।

अथ गम्यप्रस्तावात्व्याजस्तुतिरुच्यते ।

निन्दया वाच्यया यत्र स्तुतिरेवावगम्यते ।
स्तुत्या वा गम्यते निन्दा व्याजस्तुतिरसौ मता ॥ ८.२०३ ॥

यत्र निन्दाकथनमुखेन स्तुतिर्गम्यतेएका सा । यत्र स्तुतिमुखेन निन्दा गम्यतेसा द्वितीया व्याजस्तुतिः । क्रमेण यथा

काकतीयविभोः कीर्त्त्या किं वाद्य धवलीकृतम् ।
यत्तदीयारिवक्त्रेषु दृश्यते कालिमा महान् ॥ ८.२०४ ॥

स्तुत्या निन्दा यथा

प्रतापरुद्रनृपतेरहो साहसिका द्विषः ।
यद्विशन्त्युदधीन् शैलानारोहन्ति समन्ततः ॥ ८.२०५ ॥

[विइइ.३७ प्रस्तुतप्रशंसालङ्कारः]

अप्रस्तुतप्रशंसालङ्कारः ।

अथ गम्यत्वप्रस्तावादप्रस्तुतप्रशंसोच्यते ।

अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते ।
अप्रस्तुतप्रशंसेयं सारूप्यादिनियन्त्रिता ॥ ८.२०६ ॥

यत्र सारूप्येण सामान्यविशेषभावेन कार्यकारणभावेन चाप्रस्तुतकथनात्प्रस्तुतप्रतीतिस्तत्राप्रस्तुतप्रशंसा । अप्रस्तुतात्प्रस्तुतप्रतीतिरित्यनेन समासोक्तेर्व्यावृत्तिः । न च कार्यात्कारणप्रतीतावनुमानाविर्भावशङ्का ॑ अनुमानालंकारे प्रत्याय्यप्रत्यायकयोर्द्वयोरपि प्राकरणिकत्वाभ्युपगमात् । अनेन पर्यायोक्तस्य व्यावृत्तिरपि । न चायं ध्वनिः । प्रतीयमानस्य वाच्यसिद्ध्यङ्गत्वात् । तत्र सारूप्येण यथा

आशासु प्रशमितवासनोदयेभ्यः किं लब्धं भ्रमरगणैर्जरत्तरुभ्यः ।
पुन्नागो नवनवसौरभप्रसूनैरामोदं दिशति विवासमारभध्वम् ॥ ८.२०७ ॥

अत्र भ्रमरवृत्तान्तेनाप्रस्तुतेन सर्वानसंपूर्णविभवानुर्वीश्वरान् विहाय सकलगुणपरिपूर्णः सर्वजनानन्दी प्रतापरुद्र एक एव सर्वेषां विदुषां सेव्य इति प्रस्तुतं प्रतीयते । सामान्याद्विशेषप्रतीतिर्यथा

यशस्विनी पद्मभवस्य सृष्टिरुत्पादयित्री नृपशेखराणाम् ।
तत्पालनाल्लालनभाग्ययोग्यो जातश्चिरान्मध्यमलोक एषः ॥ ८.२०८ ॥

अत्र प्रतापरुद्रस्य गुणमहत्त्वे प्रस्तुते सामान्यमभिहितम् । विशेषात्सामान्यप्रतिपत्तिर्यथा

दट्ठुमणा वि ण पेक्खै ण भणै वत्तुं सकोदुहलआ वि ।
परिसासआ वि ण प्पसै वणिआए कीरिसी सिट्टी ॥ ८.२०९ ॥

(द्रष्टुमना अपि न पश्यति न भणति वक्तुं सकौतूहलापि ।
स्पर्शाशयापि न स्पृशति वनितायाः कीदृशी सृष्टिः ॥)

अत्र मुग्धानां नवसंगमे महती लज्जेति सामान्ये प्रस्तुते विशेषोऽभिहितः । कार्यात्कारणप्रतीतिर्यथा

गाधा इवार्णवा जाता नीचा इव महाद्रयः ।
महीमवतरत्यस्मिन् काकतीयकुलेश्वरे ॥ ८.२१० ॥

अत्रार्णवादीनां गाधत्वादिभिः कार्यभूतैरप्रस्तुतैः कारणभूतं प्रतापरुद्रगाम्भीर्यादि प्रतीयते । कारणात्कार्यप्रतीतिर्यथा

प्रतापरुद्रनृपतेर्धरित्रीकल्पशाखिनः ।
जाता मयि कृपादृष्टिः किं वा विस्मयसे सखे ॥ ८.२११ ॥

अत्र कथमीदृशमहाविभवभाजनमधुना भवसीति कार्यं पृच्छते सविस्मयाय सुहृदे कारणभूता प्रतापरुद्रकृपादृष्टिरभिहिता ।

वाच्यसंभावसंभवोभयरूपतया यथासंभवं भेदाः स्वयं द्रष्टव्याः ।

[विइइ.३८ अर्यायोक्तालङ्कारः]

पर्यायोक्तालङ्कारः ।

गम्यत्वप्रस्तावात्पर्यायोक्तमुच्यते ।

कारणं गम्यते यत्र प्रस्तुतात्कार्यवर्णनात् ।
प्रस्तुतत्वेन संबद्धं तत्पर्यायोक्तमुच्यते ॥ ८.२१२ ॥

यत्र प्रस्तुतस्यैव कार्यस्य वर्णनात्प्रस्तुतमेव कारणं गम्यते, तत्पर्यायोक्तम् । यथा

प्रतिभूपालशुद्धान्तदीर्घिकास्वाजिधूसरः ।
प्रक्षालयन्ति गात्राणि काकतीयचमूचराः ॥ ८.२१३ ॥

अत्र रिपुनगरीदीर्घिकावारिविहारेण प्रतापरुद्रचमूचरकर्तृकेण कार्यभूतेन समरप्रारम्भ एव स्वपुराणि विहाय पलायिता प्रतिनृपाः इति कारणं प्रतीयते ।

[विइइ.३९ रतिपालङ्कारः]

प्रतीपालङ्कारः


अथ प्रतीपम् ।

आक्षेप उपमानस्य कैमर्थक्येन कथ्यते ।
यद्वोपमेयभावः स्यात्तत्प्रतीपमुदाहृतम् ॥ ८.२१४ ॥

यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः क्रियते, तदेकं प्रतीपम् । यत्रोपमानस्योपमेयत्वं कल्प्यते, तत्द्वितीयम् । आद्यं यथा

कीर्त्तौ प्रतापरुद्रस्य विलसन्त्यां दिगन्तरे ।
किमर्थमुदयत्येष निर्लज्जः शशलाञ्छनः ॥ ८.२१५ ॥

द्वितीयं यथा

काकतीयकुले लक्ष्मीपतिरेष न संशयः ।
अनेन कथमल्पज्ञैः सुमेरुरुपमीयते ॥ ८.२१६ ॥

[विइइ.४० नुमानालङ्कारः]

अनुमानालङ्कारः ।

अथ तर्कन्यायमूलालंकारा निरूप्यन्ते ।
साध्यसाधननिर्देशे त्वनुमानमुदीर्यते ॥ ८.२१७ ॥

रूपकहेतुकत्वेन तर्कानुमानवैलक्षण्यम् । यथा

रजोधूमः सेनाव्यतिकरभवो यत्प्रसरति
स्फुलिङ्गा दृश्यन्ते भटघटितकौक्षेयकभुवः ।
ततो मन्ये यात्राशुचिसमयजो रुद्रनृपतेः
प्रभूतः कोपाग्निर्दहति रिपुभूपालनगरीः ॥ ८.२१८ ॥

काव्यलिङ्गालंकारः ।

अथ काव्यलिङ्गम् ।

हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम् ॥ ८.२१९ ॥

यत्र हेतुर्वाक्यगतत्वेन पदगतत्वेन वा प्रतिपाद्यते तत्काव्यलिङ्गम् ।

यथा

प्रतापरुद्र इत्येषा कापि पञ्चाक्षरी शुभा ।
हृदि यां बिभ्रतो भूपा वशीकुर्वन्ति संपदः ॥ ८.२२० ॥

अत्र वाक्यार्थगतो हेतुः । पदार्थगतो यथा

म्लानापि भूभृतां फाललिपिरुच्छ्वसिता पुनः ।
प्रतापरुद्रदेवाङ्घ्रिनखज्योत्स्नामृतोक्षिता ॥ ८.२२१ ॥

अत्र पूर्वं परिम्लानाया भूपालफाललिपेः पुनरुच्छ्वासे प्रतापरुद्रनरेन्द्रचरणनखचन्द्रिकासेचनं हेतुः । तस्य विशेषणगतत्वात्पदार्थगतत्वोक्तिः ।

अर्थान्तरन्यासालङ्कारः ।

अथार्थान्तरन्यासः ।

कार्यकारणसामान्यविशेषाणां परस्परम् ।
समर्थनं यत्र सोऽर्थान्तरन्यास उदाहृतः ॥ ८.२२२ ॥

यत्र कार्यकारणभावेन, सामान्यविशेषभावेन वा प्रकृतसमर्थनं क्रियते, सोऽर्थान्तरन्यासः । कार्यकारणभावेन यथा

भूपाः ! प्रतापरुद्रस्य नता भवत, नोन्नताः ।
उन्नतान्नमयत्येष नतानुन्नमयत्यपि ॥ ८.२२३ ॥

अत्र फलरूपेणौन्नत्येन नम्रत्वकारणं समर्थितम् ।


सामान्याद्विशेषसमर्थनं यथा

उद्वेजिता रुद्रनरेश्वरस्य रणापदानैः प्रतिपक्षभूपाः ।
बिभ्रत्यमी चित्रमचेतनेभ्यो भीतस्य सर्वं भयकारि नूनम् ॥ ८.२२४ ॥

अत्र भीतस्य सर्वं भयकारीति सामान्यमचेतनेभ्यो रिपुभूपा बिभ्यतीति विशेषं समर्थयति । विशेषात्सामान्यसमर्थनं यथा

दुष्टोऽपि महतां संगाद्भवत्येव हि सज्जनः ।
प्रतापरुद्रमभ्येत्य कलिः कृतयुगायते ॥ ८.२२५ ॥

अत्र प्रतापरुद्रसंगतिमहिम्ना कलिः कृतयुगसदृश इति विशेषेण सामान्यसमर्थनम् । कार्यकारणभावेऽपि कारणात्कार्यसमर्थनं काव्यलिङ्गेऽन्तर्भूतमिति तन्नोक्तम् । अतः प्रकारत्रयमर्थान्तरन्यासस्य ।

[विइइ.४१ अथासंख्यालङ्कारः]

यथासंख्यालङ्कारः ।

तर्कन्यायमूलालंकारानन्तरं वाक्यन्यायमूलालंकारा निरूप्यन्ते ।

उद्दिष्टानां पदार्थानां पूर्वं पश्चाद्यथाक्रमम् ।
अनूद्देशो भवेद्यत्र तद्यथासंख्यमिष्यते ॥ ८.२२६ ॥

यत्र येन क्रमेणोद्दिष्टाः पदार्थास्तेनैव क्रमेणानूद्दिश्यन्ते ॑ तत्र यथासंख्यालंकारः । यथा

गाम्भीर्यमौन्नंत्यमनर्गलत्वं प्रतापरुद्रे समवेक्ष्य धाता ।
अम्भोनिधिष्वद्रिषु दिग्गजेषु सृष्टिं प्रयासैकफलाममंस्त ॥ ८.२२७ ॥

[विइइ.४२ र्थाप्यलङ्कारः]

अर्थापत्त्यलङ्कारः ।

एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् ।
कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥ ८.२२८ ॥

यत्र कस्यचिदर्थस्य निष्पत्तौ तत्समानन्यायात्कैमुत्येनार्थान्तरमापतति सोऽर्थापत्तिरलंकारः । न चात्रानुमानशङ्का, कैमुत्यन्यायसंबन्धरूपत्वात् । यथा

समन्तादुद्वेलैर्वि विधहयधाटीकलकलैर्
जगत्यां क्रामन्नप्यजनि विधुरः सेवणपतिः ।
मनाक्क्रोधोदञ्चद्भ्रुकुटिकुटिले रुद्रनृपतौ
नृपाणामन्येषां विफलितरुषां कैव गणना ॥ ८.२२९ ॥

अपि च

त्रैलोक्यसारोऽपि सुवर्णशैलः प्रतापरुद्रेण नृपेण तुल्यम् ।
तुलां समारोढुमपूर्ण एव महीभृतां का गणनेतरेषाम् ॥ ८.२३० ॥

अत्र प्रतापरुद्रापेक्षया मेरावप्यसारेऽन्येषां महीभृतामर्थादसारत्वं कैमुत्यादापतति ।

परिसंख्यालङ्कारः ।

अथ परिसंख्या ।

एकस्य वस्तुनः प्राप्तावनेकत्रैकदा यदि ।
एकत्र नियमः सा हि परिसंख्या निगद्यते ॥ ८.२३१ ॥


यत्रैक वस्तु युगपदनेकत्र संभाव्यमानमेकत्रैव नियम्यते, सा परिसंख्या सा प्रथमं द्विविधा, प्रश्नपूर्विका, तदन्यथा चेति । तयोर्द्वर्जयोर्वर्जनीयस्य शाब्दत्वार्थत्वाभ्यां द्वैविध्ये चातुर्विध्यम् । तत्र शाब्दवर्जनीया प्रश्नपूर्विका यथा

किं मण्डनं त्रिलोक्याः काकतितिलको न हाटकक्षितिभृत् ।
स्तोतव्यः कः सुधियां रुद्रनरेन्द्रो न मन्दरः क्षितिभृत् ॥ ८.२३२ ॥

आर्थवर्जनीया प्रश्नपूर्विका यथा

किं वा क्षौमवितानं लोकानां ? काकतीयकुलकीर्त्तिः ।
किं सौख्यं वसुमत्या ? रुद्रनरेन्द्रस्य भुजवासः ॥ ८.२३३ ॥

शाब्दवर्जनीया अप्रश्नपूर्विका यथा

रागो धर्मे न विषयसुखे, संगतिः सत्सभायां
न स्त्रीगोष्ठ्यां, व्यसनमनिशं नीतिशास्त्रे न चाक्षे ।
कीर्त्त्यां नित्यार्जनचतुरता नार्थजाते, विनोदो
विद्याभ्यासे न च परिजने रुद्रदेवस्य राज्ञः ॥ ८.२३४ ॥

आर्थवर्जनीया अप्रश्नपूर्विका यथा

भूरेव भुवनं देवः स्वयंभूरेव पार्थिवः ।
प्रतापरुद्र एवैकशिलैव नगरी शुभा ॥ ८.२३५ ॥
क्षोणीं रुद्रनराधीशे रक्षति क्षतविद्विषि ।
बलिसद्मन्यहिभयं त्रिदिवे गोत्रभित्कथा ॥ ८.२३६ ॥

अलङ्कारस्य श्लेषेण चारुत्वातिशयः ।

[विइइ.४२ त्तरालङ्कारः]

उत्तरालङ्कारः ।

उत्तरात्प्रश्न उन्नेयो यत्र प्रश्नोत्तरे तथा ।
बहुधा च निबध्येते तदुत्तरमुदीर्यते ॥ ८.२३७ ॥

यत्रोत्तरान्निबध्यमानात्प्रश्न उन्नीयते तदेकमुत्तरम् । चारुत्वार्थमसकृल्लोकोत्तरं प्रश्नप्रतिपादनपूर्वमुत्तरं द्वितीयमुत्तरम् । क्रमेण यथा

किमद्य व्युत्पत्तिस्तव सुजनलोकव्यवहृतौ
यदद्य ज्ञातव्यं प्रभवति यदा रुद्रनृपतिः ।
तदारभ्योन्मूर्धा जयति विशदो धर्मविभवो
महीदेवाश्चोद्यद्विविधविभवारम्भमुदिताः ॥ ८.२३८ ॥

अत्र प्रतापरुद्रो यदा प्रभवति तदारभ्य पूर्णधर्मप्रतिष्ठा मही । महीदेवा अपि तथाविधसंतोषभाजः । किमधुना पृच्छसीत्युत्तरात्किं प्रतापरुद्रराज्ये धर्मप्रतिपालनमस्ति किं सुखिनो भूसुरा इत्युन्नीयते प्रश्नः । द्वितीयं यथा

किं णु धणं ? कुलविज्जा ॑ को लोहो ? सज्जणेण सहवासो ।
का णअरी ? एअसिला ॑ को राआ ? वीररुद्दणरणाहो ॥ ८.२३९ ॥

(कि नु धनं ? कुलविद्या ॑ को लाभः ? सज्जनेन सहवासः ।

का नगरी ?
एकशिला ॑ को राजा ? वीररुद्रनरनाथः ॥)

[विइइ.४३ इकल्पालङ्कारः]

विकल्पालङ्कारः ।

वाक्यन्यायमूलालङ्कारप्रस्तावाद्विकल्प उच्यते ।
विरोधे तुल्यबलयोर्विकल्पालंकृतिर्मता ॥ ८.२४० ॥

यत्र तुल्यप्रमाणानुशिष्टयोर्विरुद्धयोर्युगपत्प्राप्तौ एकस्यासंभवस्तत्र विकल्पः ।

औपम्यगर्भत्वाच्चारुत्वम् । यथा

भूपालाः क्रियतां मूर्ध्नां धनुषां वा विनम्रता ।
पादच्छायान्ध्रनाथस्य विन्ध्याद्रेर्या निषेव्यताम् ॥ ८.२४१ ॥

अत्र प्रतापरुद्रे प्रभवति राज्ञां संधिविग्रहाभ्यां तुल्यबलप्रमाणाभ्यां शिरोनमनधनुर्नमने युगपदेव प्राप्ते, तयोर्विरुद्धत्वाद्यौगपद्यासंभवे विकल्पः ।

समुच्चयालङ्कारः ।

विकल्पप्रतिपक्षभूतः समुच्चयो निरूप्यते ।
गुणक्रियायौगपद्यं समुच्चय उदाहृतः ॥ ८.२४२ ॥

यत्र गुणानां वैमल्यादीनां क्रियाणां च दर्शनादीनां युगपदवस्थानं तत्र समुच्चयालंकारः । यथा

प्रतापरुद्रनृपतौ भद्रासनमुपेयुषि ।
सतां प्रसन्नं हृदयमसतां कलुषं मनः ॥ ८.२४३ ॥

क्रियासमुच्चयो यथा

पेच्छै इमं णरिन्दो पविसै मअणो अ गलै माणो अ ।
घुण्णै मणो अ सुण्णं किं एदं उवह सहिआओ ॥ ८.२४४ ॥

(प्रेक्षते इमां नरेन्द्रः प्रविशति मदनश्च गलति मानश्च ।
घूर्णते मनश्च शून्यं किमेतत्पश्यत सख्यः ॥)

एते भिन्नविषयत्वे उदाहरणे । एकविषयत्वे यथा

त्रैलोक्यप्रथमानकीर्त्तिमहितश्रीवीररुद्रप्रभोः
सेवार्थं चिरयत्सु काकतिपुरे भूपेषु तद्योषितः ।
द्वारं यान्ति विलोकयन्ति पुरतो निः श्वासमातन्वते
शुष्यन्ति प्रलपन्ति यान्ति तनुतां मुह्यन्ति मूर्च्छन्ति च ॥ ८.२४५ ॥

गुणक्रियासामस्त्येन यथा

देवे काकतिवीररुद्रनृपतौ जैत्रप्रयाणोन्मुखे
माद्यद्दन्ति चलत्पदाति विचलद्वाजि प्रधावद्रथम् ।
विच्छायाननमाकुलाक्षमुदयत्कार्पण्यमाविर्भवत्
कम्पं भ्राम्यति सर्वतः प्रतिवनं प्रत्यर्थिभूभृद्गणः ॥ ८.२४६ ॥

द्वितीयः समुच्चयः ।

खलेकपोतन्यायेन बहूनां कार्यसाधने ।
कारणानां समुद्योगः स द्वितीयः समुच्चयः ॥ ८.२४७ ॥

यत्रैकं कार्यं
साधयितुमहमहमिकया बहूनां कारणानामुद्यमः, सोऽपि समुच्चय एव, युगपदनेकेषामवस्थानात् ।

यथा

शुभ्रं यशः शौर्यमहच्च वृत्तं विद्यानवद्या विमलं कुलं च ।
प्रतापरुद्रस्य नरेश्वरस्य लोकोत्तरां रीतिमुदञ्चयन्ति ॥ ८.२४८ ॥

अत्र यशः प्रभृतीनां लोकोत्तररीतिसंपादने प्रत्येकं हेतुत्वेऽपि युगपत्खलेकपोतन्यायेन संबन्धः ।

समाध्यलङ्कारः ।

अथ समाधिरुच्यते ।

एकस्मिन् कारणे कार्यसाधनेऽन्यत्परापतेत् ।
काकतालीयनयतः स समाधिरुदीर्यते ॥ ८.२४९ ॥

यत्रैकस्मिन् कारणे कार्यसाधनाय प्रवृत्ते काकतालीयतयान्यत्कारणमागत्य तत्कार्यं सुकरं करोति स समाध्यलङ्कारः ।[विइइ.४४ अमाध्यलङ्कारः]यथा

रणाङ्गणे रुद्रनरेन्द्ररोषशमाय राज्ञां विहितस्तुतीनाम् ।
वक्त्रेषु यद्वायुवशात्पतन्ति तृणानि देवस्य स पक्षपातः ॥ ८.२५० ॥

अत्र प्रतापरुद्रनरेन्द्रक्रोधशान्त्यर्थं रणाग्रे प्रक्रान्तस्तुतीनां राज्ञां वक्त्रेषु वायुवशात्काकतालीयतया पतितैस्तृणैः कोपशान्तिलक्षणकार्यस्य सुकरत्वम् ।

[विइइ.४५ हाविलङ्कारः]

भाविकालङ्कारः ।

अथ लोकन्यायमूलालंकारा निरूप्यन्ते ।

अतीतानागते यत्र प्रत्यक्षे इव लक्षिते ।
अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥ ८.२५१ ॥

यत्राद्भुतचरितोपवर्णनाद्भूतभाविनोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न च भूतभाविनोः प्रत्यक्षवदवभासो विरुद्धः । अत्यद्भुतवस्तुवर्णनया भावुकानां हृदि भावनोदयात् । तथा च भावनायाः (पुनः) पुनश्चेतसि निदर्शनात्प्रत्यक्षायमाणत्वं घटत एव । यथा पान्थस्य कामिनीभावनया तस्याः प्रत्यक्षायमाणत्वम् । न चेयं स्वभावोक्तिः ॑ तस्यां वस्तुस्वभावस्य यथावद्वर्णनया प्रत्यक्षायमाणता । इह त्वत्यद्भुतत्वेन । नापि रसवदाद्यलङ्कारः ॑ तत्र विभावाद्यनुसंधानेनैव रसादेर्भाव्यत्वम्, न त्वत्यद्भुतत्वेन । न चेयमुत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेनाध्यवसायाभावात्, न चायं भ्रान्तिमदलङ्कारः, भावनाया अभ्रान्तिरूपत्वात् । अतः सर्वोत्तीर्ण एवायमलङ्कारः । यथा

ध्वजाग्रे काकतीन्द्रस्य भाति क्रोडाकृतिर्हरिः ।
मृद्बिन्दुरिव दंष्ट्राग्रे यस्यालक्ष्यत मेदिनी ॥ ८.२५२ ॥

अत्राष्टादशद्वीपयुक्ताया मेदिन्या दंष्ट्राग्रे मृद्बिन्दुरूपतेति अत्यद्भुतवर्णनया तथाविधभावनायां प्रत्यक्षवत्प्रतीतिसंभवः ।

[विइइ.४६ रत्यनीकालङ्कारः]

प्रत्यनीकालङ्कारः ।

अथ प्रत्यनीकालङ्कारः प्रतिपाद्यते ।

बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे ।
यस्तदीयतिरस्कारः प्रत्यनीकं तदुच्यते ॥ ८.२५३ ॥

यत्र प्रबलस्य प्रतिपक्षस्य प्रतीकारासामर्थ्यात्तदीयतिरस्कारो भवति तत्प्रत्यनीकम् । यथा

काकतीयपतिशौर्यमहोष्मन्यक्कृतस्वमहिमा बडबाग्निः ।
तद्गभीरिमसनाभिमजस्रं बाधते निधिमपां बहिरन्तः ॥ ८.२५४ ॥

अत्र सादृश्यहेतुकं तदीयत्वमित्यलंकारत्वम् ।

[विइइ.४७ यघातालङ्कारः]

व्याघातालङ्कारः ।

अथ व्याघातः ।

येन यत्साधितं वस्तु तेनैव क्रियतेऽन्यथा ।
अन्येन तदलंकारो व्याघाता इति कथ्यते ॥ ८.२५५ ॥

यद्वस्तु येन केनचित्कर्त्रा येन साधनेन साधितं, तद्वस्तु तेनैव साधनेनान्येन कर्त्रा यदन्यथा क्रियते स व्याघातः । यथा

काकतीयाभिजातोऽयं नाभिजाताधिकस्थितिः ।
दोर्भ्यां लब्धोदयान् भूपांस्ताभ्यामनुदयान् सृजन् ॥ ८.२५६ ॥

[विइइ.४८ अर्यायालङ्कारः]

पर्यायालङ्कारः ।

अथ लोकन्यायमूलालङ्कारनिरूपणप्रस्तावात्पर्यायालंकारो निरूप्यते ।

क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि ।
एकस्मिन्नथवानेकं पर्यायालङ्कृतिर्मता ॥ ८.२५७ ॥

यत्र क्रमादेकमाधेयमनेकस्मिन्नाधारे वर्तते स एकः पर्यायः । न चात्र विशेषालंकारः, तत्रैकस्यानेकत्र युगपद्वर्तनम्, अत्र क्रमेण । तथैकस्मिन्नाधारेऽनेकमाधेयं वर्तते स द्वितीयः पर्यायः । न चात्र समुच्चयालंकारः, तत्राप्येकत्रानेकेषां युगपद्वर्तनम्, अत्र क्रमेण । यथा

दंष्ट्रायां कुहनाकिटेर्भगवतो देवस्य शौरेः पुरा
पश्चान्मस्तकमण्डले फणभृतः पाताललोकेशितुः ।
अद्योर्वीपतिशेखरस्य महतः श्रीकाकतीयप्रभोर्
बाहौ सर्वधुरीणसारमहिते बद्धोत्सवा मेदीनी ॥ ८.२५८ ॥

अत्रैकस्या मेदिन्याः क्रमादनेकत्र वर्तनम् । द्वितीयः

येषां मुखे निजवधूसविधे नृपाणां
शौर्योक्तयः समभवन्नभिमानगर्भाः ।
तेषां प्रतापनृपवीक्षणकातराणां
तत्रैव दीनवचनानि समुद्भवन्ति ॥ ८.२५९ ॥

[विइइ.४९ ऊक्ष्मालङ्कारः]


सूक्ष्मालङ्कारः ।

अथ सूक्ष्मालङ्कारो निरूप्यते ।

असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते ॥ ८.२६० ॥

विदग्धमात्रज्ञेयस्यार्थस्य यत्राकारेङ्गिताभ्यां प्रकाशनं स सूक्ष्मालङ्कारः ।

यथा

गुरुअणसविहम्मि वहू दठ्ठूण णरेंदपेसिआं दूइम् ।
सव्वंगेशु सहासं कत्थूरिविलेवणं कुणै ॥ ८.२६१ ॥

(गुरुजनसविधे वधूर्दृष्ट्वा नरेन्द्रप्रेषितां दूतीम् ।
सर्वाङ्गेषु सहासं कस्तूरीविलेपनं करोति ॥)

अत्र कस्तूरीविलेपनेन तिमिरसमयः संकेतकाल इति प्रकाशितम्

[विइइ.५० दात्तालङ्कारः]

उदात्तालंकारः ।

अथोदात्तालंकारः कथ्यते । तस्यापि लोकन्यायमूलतैवानन्तर्यकारणम् ।

तदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते ॥ ८.२६२ ॥

यत्र महासमृद्धिशालिनो वस्तुनो वर्णनं क्रियते, तत्र उदात्तालङ्कारः ।

यथा

रम्यामेकशिलाभिदाननगरीमासेदिवांसो बुधाः
सौवर्णेषु गृहेषु रत्नरचितद्वास्तोरणेषु स्थिताः ।
आरुह्याङ्गणमेदिनीषु कलभान् क्रीडोत्सुकानर्भकान्
मोदन्ते यदवेक्ष्य रुद्रनृपतेस्तत्त्यागलीलायितम् ॥ ८.२६३ ॥

अथ समानन्यायात्परिवृत्तिर्निरूप्यते ।

समन्यूनाधिकानां च यदा विनिमयो भवेत् ।
साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥ ८.२६४ ॥

समन्यूनाधिकानां समाधिकन्यूनैर्विनिमयः परिवृत्तिः । समेन समपरिवृत्तिः, न्यूनेनाधिकपरिवृत्तिः, अधिकेन न्यूनपरिवृत्तिश्चेति । समेन समपरिवृत्तिर्यथा

साधारसमुचो वाचो दत्त्वा काकतिभूभुजे ।
अतो लभन्ते कवयः सहस्रं गन्धसिन्धुरान् ॥ ८.२६५ ॥

अत्र वचसां गन्धसिन्धुराणां च समत्वम् ।

न्यूनेनाधिकपरिवृत्तिर्यथा

उपायनं गजाश्वादि कृत्वा सर्वेऽपि भूभुजः ।
प्रतापरुद्रदेवस्य लभन्ते सुस्थिरां कृपाम् ॥ ८.२६६ ॥

अत्र त्यज्यमानादुपायनादेरादीयमानस्य प्रतापरुद्रकृपाविलसितस्यैवाधिक्यम् । अधिकेन न्यूनपरिवृत्तिर्यथा

प्रतापरुद्रेण रणे जिताः प्रत्यर्थिभूभुजः ।
दत्त्वा भूषां किरातेभ्यो लभन्ते वल्कलादिकम् ॥ ८.२६७ ॥

अत्र
त्यज्यमानादाभरणजातादादीयमानस्य वल्कलादेर्न्यूनत्वम् ।

[विइइ.५१ आरणमालालङ्कारः]

कारणमालालङ्कारः ।

अथ शृङ्खलान्यायमूलालङ्कारा निरूप्यन्ते ।

पूर्वपूर्वं प्रति यदा हेतुः स्यादुत्तरोत्तरम् ।
तदा कारणमालाख्यमलङ्करणमुच्यते ॥ ८.२६८ ॥

यदा पूर्वपूर्वं क्रमेणोत्तरोत्तरं प्रति हेतुतां भजते, स कारणमालाख्योऽलङ्कारः । यथा

विद्यया विनयोत्कर्षो विनयेन गुणार्जनम् ।
गुणैः प्रजानुरागश्च क्रमोऽयं काकतीश्वरे ॥ ८.२६९ ॥

[विइइ.५२ कावल्यलङ्कारः]

एकावल्यलङ्कारः ।

यत्रोत्तरोत्तरेषां स्यात्पूर्वं पूर्वं प्रति क्रमात् ।
विशेषणत्वकथनमसावेकावली मता ॥ ८.२७० ॥

यत्र पूर्वपूर्वं प्रति क्रमेणोत्तरोत्तरं विशेषणत्वं भजते, स एकावल्यलङ्कारः ।

यथा

प्रतापरुद्रनगरी सुजनैरुपशोभिता ।
सुजनाः स्फीतविभवैर्विभवाः स्थैर्यशालिनः ॥ ८.२७१ ॥

एतत्स्थापनेनोदाहरणम् । अपोहनेनापि भवति ॑ यथा

न तद्राज्यं प्रजा यत्र न भवन्त्यूर्जितश्रियः ।
न ताः प्रजाः प्रभुर्यासां न स्वयं काकतीश्वरः ॥ ८.२७२ ॥

[विइइ.५३ आलादीपकालङ्कारः]

मालादीपकालङ्कारः ।

यदा तु पूर्वपूर्वस्य संभवेदुत्तरोत्तरम् ।
प्रत्युत्कर्षावहत्वं तन्मालादीपकमुच्यते ॥ ८.२७३ ॥

यत्र पूर्वपूर्वस्योत्तरोत्तरगुणावहत्वं स मालादीपकालङ्कारः ।

यथा

भाग्यभूमा महीं प्राप्तः काकतीन्द्रभुजं मही ।
भुजः प्रतापमतुलं प्रतापश्च जगत्त्रयम् ॥ ८.२७४ ॥

[विइइ.५४ आरालङ्कारः]

सारालङ्कारः ।

उत्तरोत्तरमुत्कर्षः सारालङ्कार उच्यते ॥ ८.२७५ ॥

यथा

जगत्सु वसुधा भाति तस्यामेकशिलापुरी ।
काकतीयान्वयस्तत्र तस्मिन् रुद्रनरेश्वरः ॥ ८.२७६ ॥

सकलभुवनसारभूतं प्रतापरुद्रं विषयीकुर्वतश्चिरादस्यालङ्कारस्य सार इत्यन्वर्थाभिधानम् ॥


इति श्रीविद्यानाथकृतौ प्रतापरुद्रयशोभूषणेऽलङ्कार

शास्त्रेऽर्थालङ्कारप्रकरणं समाप्तम् ।

_______________________________________________


॥ अथ मिश्रालङ्कारप्रकरणम् ॥

अथ संसृष्टिसंकरौ निरूप्येते ।
यथा लौकिकानामलङ्काराणां हिरण्मयानां मणिमयानां च पृथक्सौन्दर्यहेतूनामन्योन्यसंबन्धेन चारुत्वातिशयो दृश्यते ॑ तथैव काव्यालङ्काराणां रूपकादीनां मिथः संबन्धेन सौन्दर्यातिशयः प्रतीयते । स च संबन्धो द्विविधःसंयोगरूपः, समवायरूपश्चेति । संयोगे (मिश्र) तिलतण्डुलन्यायः । समवाये(मिश्र) क्षीरनीरन्यायः । तिलतण्डुलन्यायेन संबन्धे संसृष्टिः । क्षीरनीरन्यायेन संबन्धे संकरः । अनयोः पृथक्चारुत्वातिशयहेतुत्वादलङ्कारधुरन्धरत्वम् ॑ न तु पूर्वोक्तालङ्कारशेषता ।

संसृष्टिः ।

तत्र प्रथमं संसृष्टिर्निगद्यते ।

तिलतण्डुलसंश्लेषन्यायाद्यत्र परस्परम् ।
संश्लिष्येयुरलङ्काराः सा संसृष्टिर्निगद्यते ॥ ९.१ ॥

यत्र तिलतण्डुलन्यायेन परस्परसंबद्धा रूपकादयो भवन्ति सा संसृष्टिः । सा त्रिविधाशब्दालङ्कारगतत्वेन, अर्थालङ्कारगतत्वेन, उभयालङ्कारगतत्वेन च ।

[इx.१.१शब्दालङ्कारसंसृष्टिः]

शब्दालङ्कारसंसृष्टिर्यथा

शुम्भत्संभ्रमगन्धसिन्धुरधुरानिर्दारितोर्वीतला
स्त्वङ्गत्तुङ्गतुरङ्गमप्रतिभया द्राक्स्यन्दनस्यन्दनाः ।
तीव्रारम्भसमुद्यदुद्भटभटाटोपस्फुरद्दिक्तटा
निः सीमाः प्रसरन्ति रुद्रनृपतेर्जैत्रप्रयाणोद्यमाः ॥ ९.२ ॥

अत्र च्छेकानुप्रासवृत्त्यनुप्रासयोः संसृष्टिः ।


[इx.१.२ र्थालङ्कारसंसृष्टिः]

अर्थालङ्कारसंसृष्टिर्यथा

काकतीन्द्रचमूर्धत्ते महिमानमुदन्वतः ।
ग्रसते या द्विषद्भूपध्वजिनीस्तटिनीरिव ॥ ९.३ ॥

अत्र निदर्शनोपमायोः संसृष्टिः ।

[इx.१.३ भयसंसृष्टिः]

उभयसंसृष्टिर्यथा

प्रतापरुद्रदोर्दण्डो मण्डलाग्रेण मण्डितः ।
दृश्यते समरे वीरैरुत्फणः फणवानिव ॥ ९.४ ॥

अत्र वृत्त्यनुप्रासोपमायोः संसृष्टिः ।

इx.२ अङ्करः ।

अथ सङ्करो निरूप्यते ।

क्षीरनीरनयाद्यत्र संबन्धः स्यात्परस्परम् ।
अलङ्कृतीनामेतासां सङ्करः स उदाहृतः ॥ ९.५ ॥

यत्र क्षीरनीरन्यायेनालङ्काराणां मिथः संबन्धो भवति स सङ्करः । तस्याङ्गाङ्गिभावेन एकवाचकानुप्रवेशेन संदेहेन च त्रैविध्यम् । तत्राङ्गाङ्गिभावसङ्करो यथा

उद्यद्बृंहितगर्जितैर्द्विपघटाकादम्बिनीसंभ्रमैः
क्षोणीभृत्कटकोपरोधपटुभिः प्रावृड्विहारा इव ।
शत्रुस्त्रीबहुलाश्रुवृष्टिशमितक्ष्माचक्रतापोदया
यात्राः काकतिवल्लभस्य जगतामानन्दमातन्वते ॥ ९.६ ॥

अत्र यात्राः प्रावृड्विहारा इवेत्युपमालङ्कारेण द्विपघटाकादम्बिनीत्यत्रोपमा प्रसाध्यत इति सजातीययोरङ्गाङ्गिभावः ॑ कादम्बिनीव द्विपघटेति समासाश्रयणात् । क्षोणीभृत्कटकोपरोधेत्यत्र

श्लेषमूलातिशयोक्तिः । विजातीयसङ्करो यथा

प्रतापरुद्रस्य कृपाणधारा प्रत्यर्थिफालेषु पतत्यमन्दम् ।
प्रक्षालनायेव कृतस्य धात्रा तद्वर्तिनो दुर्लिपिकल्मषस्य ॥ ९.७ ॥

अत्र प्रक्षालनायेवेत्युत्प्रेक्षया दुर्लिपिकल्मषस्येत्यत्र रूपकं प्रसाध्यत इति विजातीययोरङ्गाङ्गिभावः ।

एकवाचकानुप्रविष्टसङ्करो यथा

विजितारिपुरो मूर्तौ विलसत्सर्वमङ्गलः ।
भुवि शंभुरिवाभाति काकतीयनरेश्वरः ॥ ९.८ ॥

अत्र विजितारिपुर इत्यर्थसाम्यादुपमा, विलसत्सर्वमङ्गल इति शब्दसाम्यात्श्लेषश्च शम्भुरिवेत्येकस्मिन्निवशब्देऽनुप्रविष्टौ ।

संदेहसङ्करो यथा

जातः प्रतापरुद्रेन्दुः काकतीयान्वयाम्बुधौ ।
धत्ते जनचकोराणां प्रसादज्योत्स्नयामृतम् ॥ ९.९ ॥

अत्र काकतीयकुलाम्बुधौ इत्यादौ रूपकोपमायोः संदेहसङ्करः । काकतीयान्वय एवाम्बुधिः, काकतीयान्वयोऽम्बुधिरिवेति समासद्वयसंभवात् । न चात्र साधकं बाधकं वा प्रमाणमन्यतरस्यास्तीति संदेह एव पर्यवस्यति । साधकबाधकप्रमाणसंभवे तु संदेहनिवृत्तिः । अत्र साधकं यथा

प्रतापरुद्रनृपतेः पारिजातात्समुद्भवाः ।
वतंसयन्ति दिङ्नार्यो मधुराः कीर्त्तिमञ्जरीः ॥ ९.१० ॥

अत्र कीर्त्तय एव मञ्जर्य इति रूपकालङ्कारे वतंसयन्तीति साधकं प्रमाणम्। (अ) वतंसीकरणेनाभेदप्रतीतिः । बाधकं यथा

काकतीन्द्रस्य निः साणध्वनौ दिक्षु विजृम्भिते ।
व्याकुलकृतसत्त्वोऽभूत्प्रतिपक्षबलार्णवः ॥ ९.११ ॥

अत्र प्रतिपक्षबलार्णव इत्युपमाया व्याकुलीकृतसत्त्व इति बाधकं प्रमाणम् ॑ "उपमितं व्याघ्रादिभिः सामान्याप्रयोगेऽ इत्यनुशासनेन सामान्यप्रयोगस्योपमाबाधकत्वात् । अतः पारिशेष्याद्रूपकालङ्कारः । एवं यथासंभवमन्येषामलङ्काराणां संसृष्टिसङ्करौ बोद्धव्यौ तत्र तत्र प्रबन्धेषु ॥

इति श्रीविद्यानाथमहोपाध्यायकृतौ प्रतापरुद्रयशोभूषणेऽलङ्कार

शास्त्रे मिश्रालङ्कारप्रकरणं समाप्तम् । प्रितापरुद्रीयं

नामालङ्कारशास्त्रं समाप्तम् ॥

"https://sa.wikisource.org/w/index.php?title=प्रतापरूद्रीयम्&oldid=84882" इत्यस्माद् प्रतिप्राप्तम्