प्रज्ञापारमिताहृदय

विकिस्रोतः तः
Jump to navigation Jump to search
प्रज्ञापारमिताहृदय
[[लेखकः :|]]


संक्षिप्तमातृका

आर्यावलोकितेश्वरो बोधिसत्त्वो गंभीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यवलोकयति स्म ।

पंचस्कन्धाः । तांश्च स्वभावशून्यान्पश्यति स्म ।

इह शारिपुत्र रूपं शून्यता शून्यतैव रूपं रूपान्न पृथक्शून्यता शून्यताया न पृथग्रूपं

यद्रूपं सा शून्यता या शून्यता तद्रूपं । एवमेव वेदनासंज्ञासंस्कारविज्ञानानि ।

इह शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला न विमला नोना न परिपूर्णाः ।

तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न संज्ञा न संस्कारा न विज्ञानानि ।

न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसी । न रूपशब्दगंधरसस्प्रष्टव्यधर्माः । न चक्षुर्धातुर्यावन्न

मनोविज्ञानधातुः । न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न

जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिः ॥

तस्मादप्राप्तित्वाद्बोधिसत्त्वाणां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः ।

चित्तावरणनास्तित्वादत्रस्तो विपार्यासातिक्रान्तो निष्ठनिर्वाणः ॥ त्र्यध्वव्यवस्थिताः सर्वबुद्धाः

प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्सम्बोधिमभिसंबुद्धाः ॥

तस्माज्ज्ञातव्यं प्रज्ञापारमिता महामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो

ऽसमसममन्त्रः सर्वदुःखप्रशमनः । सत्यममिथ्यत्वात् । प्रज्ञपारमितायामुक्तो मन्त्रः । तद्यथा

गते गते पारगते पारसंगते बोधि स्वाहा ॥



विस्तरमातृका

एवं मया श्रुतम्। एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वसंघेन। तेन खलु समयेन भगवान् गम्भीरावसंबोधं नाम समाधिं समापन्नः। तेन च समयेन आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणः एवं व्यवलोकयति स्म। पञ्च स्कन्धांस्तांश्च स्वभावशून्यं व्यवलोकयति॥

अथायुष्मान् शारिपुत्रो बुद्धानुभावेन आर्यावलोकितेश्वरं बोधिसत्त्वमेतदवोचत्- यः कश्चित् कुलपुत्रो [वा कुलदुहिता वा अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, कथं शिक्षितव्यः ? एवमुक्ते आर्यावलोकितेश्वरो बोधिसत्त्वो महासत्त्वः आयुष्मन्तं शारिपुत्रमेतदवोचत्- यः कश्चिच्छारिपुत्र कुलपुत्रो व कुलदुहिता वा [अस्यां] गम्भीरायां प्रज्ञापारमितायां चर्यां चर्तुकामः, तेनैवं व्यवलोकितव्यम्-पञ्च स्कन्धांस्तांश्च स्वभावशून्यान् समनुपश्यति स्म। रूपं शून्यता, शून्यतैव रूपम्। रूपान्न पृथक् शून्यता, शून्यताया न पृथग् रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम्। एवं वेदनासंज्ञासंस्कारविज्ञानानि च शून्यता। एवं शारिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमला विमला अनूना असंपूर्णाः। तस्मात्तर्हि शारिपुत्र शून्यतायां न रूपम्, न वेदना, स संज्ञा, न संस्काराः, न विज्ञानम्, न चक्षुर्न श्रोत्रं न घ्राणं न जिह्वा न कायो न मनो न रूपं न शब्दो न गन्धो न रसो न स्प्रष्टव्यं न धर्मः। न चक्षुर्धातुर्यावन्न मनोधातुर्न धर्मधातुर्न मनोविज्ञानधातुः। न विद्या नाविद्या न क्षयो यावन्न जरामरणं न जरामरणक्षयः, न दुःखसमुदयनिरोधमार्गा न ज्ञानं न प्राप्तिर्नाप्राप्तिः। तस्माच्छारिपुत्र अप्राप्तित्वेन बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरति चित्तावरणः। चित्तावरणनास्तित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः। त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः। तस्माद् ज्ञातव्यः प्रज्ञापारमितामहामन्त्रः अनुत्तरमन्त्रः असमसममन्त्रः सर्वदुःखप्रशमनमन्त्रः सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तो मन्त्रः। तद्यथा- गते गते पारगते पारसंगते बोधि स्वाहा। एवं शारिपुत्र गम्भीरायां प्रज्ञापारमितायां चर्यायां शिक्षितव्यं बोधिसत्त्वेन॥


अथ खलु भगवान् तस्मात्समाधेर्व्युत्थाय आर्यावलोकितेश्वरस्य बोधिसत्त्वस्य साधुकारमदात्- साधु साधु कुलपुत्र। एवमेतत् कुलपुत्र, एवमेतद् गम्भीरायां प्रज्ञापारमितायां चर्यं चर्तव्यं यथा त्वया निर्दिष्टम्। अनुमोद्यते तथागतैरर्हद्भिः॥

इदमवोचद्भगवान्। आनन्दमना आयुष्मान् शारिपुत्रः आर्यावलोकितेश्वरश्च बोधिसत्त्वः सा च सर्वावती परिषत् सदेवमानुषासुरगन्धर्वश्च लोको भगवतो भाषितमभ्यनन्दन्॥


PD-icon.svg This work published before January 1, 1923 is in the public domain worldwide because the author died at least 100 years ago.
"https://sa.wikisource.org/w/index.php?title=प्रज्ञापारमिताहृदय&oldid=34857" इत्यस्माद् पुनः प्राप्तिः