प्रज्ञापारमितापिण्डार्थः

विकिस्रोतः तः
प्रज्ञापारमितापिण्डार्थः
[[लेखकः :|]]


आचार्यदिग्नागविरचितः

प्रज्ञापारमितापिण्डार्थः

। नमः प्रज्ञापारमितायै ॥

प्रज्ञापरमिता ज्ञानमद्वयं सा तथागतः ।
साध्या तादर्थ्ययोगेन ताच्छब्द्यं ग्रन्थमार्गयोः ॥ १ ॥
आश्रयश्चाधिकारश्च कर्म भावनया सह ।
प्रभेदो लिङ्गमापच्च सानुशंसमुदाहृतम् ॥ २ ॥
श्रद्वावतां प्रवृत्यङ्गं शास्ता पर्षच्च साक्षिणी ।
देशकालौ च निर्दिष्टौ स्वप्रामाण्यप्रसिद्धये ॥ ३ ॥
सङ्गीतिकर्ता लोके हि देशकालोपलक्षितम् ।
ससाक्षिकं वदन् वक्ता प्रामाण्यमधिगच्छति ॥ ४ ॥
सर्वं चैतन्निपातात्मश्रवणादेः प्रकीर्तनम् ।
प्रासङ्गिकं तु एवार्था मुख्या द्वात्रिंशदेव हि ॥ ५ ॥
प्रभेदः षोडशाकारः शून्यताया यथाक्रमम् ।
निर्दिष्टोऽष्टासहस्त्रया स विज्ञेयोऽन्यापदेशतः ॥ ६ ॥
इत्थमष्टसहस्रीयमन्यूनार्थैर्यथोदितैः ।
ग्रन्थसङ्क्षेप इष्टोऽत्र त एवार्था यथोदिताः ॥ ७ ॥
बोधिसत्त्वं न पश्यामीत्युक्तवांस्तत्त्वतो मुनिः ।
भोक्ताध्यात्मिकवस्तूनां कथिता तेन शून्यता ॥ ८ ॥
रूपं रूपस्वभावेन शून्यमित्युक्तितः पुनः ।
बाह्यान्यायतनानीह भोज्यानि प्रतिषिद्धवान् ॥ ९ ॥
रूपाद्यभावे तद्देहप्रतिष्ठालक्षणक्षतिः ।
गतार्था येन तद्दृष्टं तदाध्यात्मिकमित्यसत् ॥ १० ॥
आध्यात्मिकानां शून्यत्वे प्रकृतेरपि शून्यता ।
विज्ञानरूपं गोत्रं हि कृपाप्रज्ञात्मकं मतम् ॥ ११ ॥
नोत्पन्नो न निरुद्धो वा सत्त्व इत्यादिना स्फुटम् ।
सत्त्वसंसारयोः कामं दर्शिता तेन शून्यता ॥ १२ ॥
बुद्धधर्मांस्तथा बोधिसत्त्वधर्मान्न पश्यति ।
इत्यादिना विनिर्दिष्टा शून्या दशबलादयः ॥ १३ ॥
प्रति प्रति यतो धर्माः कल्पिता इति कीर्तितम् ।
ततो न परमार्थोऽस्ति धर्माणामिति चोक्तवान् ॥ १४ ॥
आत्मादिदृष्टेरुच्छेदं महत्या प्रकरोति यत् ।
ततः पुद्गलनैरात्म्यं भगवान् सर्वथा जगौ ॥ १५ ॥
सर्वधर्मा अनुत्पन्ना इति कीर्तयता तथा ।
कथितं धर्मनैरात्म्यं सर्वथा तत्त्ववेदिना ॥ १६ ॥
सावद्यनिरवद्यानामवृद्धिपरिहाणितः ।
संस्कृतासंस्कृतानां च कुशलानां निराकृतिः ॥ १७ ॥
कुशलानां च शून्यत्वे तद्गता अक्षता तथा ।
कल्पितैवेति भेदानां शून्यतायाः स सङ्ग्रहः ॥ १८ ॥
दशभिश्चित्तविक्षेपैश्चित्तं विक्षिप्तमन्यतः ।
योग्यं भवति बालानां नाद्वयज्ञानसाधने ॥ १९ ॥
तानपाकर्तुमन्योन्यं विपक्षप्रतिपक्षतः ।
प्रज्ञापारमिताग्रन्थस्ते च सम्पिण्डय दर्शिताः ॥ २० ॥
यदाह बोधिसत्त्वः सन्नित्यभावप्रकल्पना ।
विक्षेपं विक्षिपन् शास्ता सांवृतस्कन्धदर्शनात् ॥ २१ ॥
एतेनाष्टसहस्र्यादावादिवाक्यात्प्रभृत्यपि ।
आ समाप्तेर्निषेद्धव्या विधिनाभावकल्पना ॥ २२ ॥
हेतुवाक्यानि नैतानि कृत्यमात्रं तु सूच्यते ।
ब्रह्मजालादिसूत्रेषु ज्ञेयाः सर्वत्र युक्तयः ॥ २३ ॥
बोधिसत्त्वं न पश्यामि अहमित्यादि विस्तरैः ।
निराकरोति भगवान् भावसङ्कल्पविभ्रमम् ॥ २४ ॥
यन्न पश्यति नामापि गोचरं[न] क्रियां तथा ।
स्कन्धांश्च सर्वतस्तेन बोधिसत्त्वं न पश्यति ॥ २५ ॥
कल्पितस्य निषेधोऽयमिति सङ्ग्रहदर्शनम् ।
सर्वो ज्ञेयतयारूढ आकारः कल्पितो मतौ ॥ २६ ॥
प्रज्ञापारमितायां हि त्रीन् समाश्रित्य देशना ।
कल्पितं परतन्त्रं च परिनिष्पन्नमेव च ॥ २७ ॥
नास्तीत्यादिपदैः सर्वं कल्पितं विनिवार्यते ।
मायोपमादिदृष्टान्तैः परतन्त्रस्य देशना ॥ २८ ॥
चतुर्धा व्यवदानेन परिनिष्पन्नकीर्तनम् ।
प्रज्ञापारमितायां हि नान्या बुद्धस्य देशना ॥ २९ ॥
दशसङ्कल्पविक्षेपविपक्षे देशनाक्रमे ।
त्रयाणामिह बोद्धव्यं समस्तव्यस्तकीर्तनम् ॥ ३० ॥
यथादिवाक्ये निष्पन्नपरतन्त्रपरिकल्पितैः ।
अभावकल्पनारूपविक्षेपविनिवारणम् ॥ ३१ ॥
तेन बुद्धं तथा बोधिं न पश्यामीति वाचकैः ।
आ समाप्तेरिह ज्ञेया कल्पितानां निराकृतिः ॥ ३२ ॥
शून्ये रूपे स्वभावेन समारोपः क्व केन वा ।
इत्यन्येष्वपि वाक्येषु बोद्धव्यं तन्निवारणम् ॥ ३३ ॥
न हि शून्यतया शून्यमिति वाक्यं विनिर्दिशन् ।
अपवादविकल्पानां निरासं सर्वथोक्तवान् ॥ ३४ ॥
मायोपमस्तथा बुद्धः स स्वप्नोपम इत्यपि ।
अयमेव क्रमो ज्ञेयो विज्ञैर्वाक्यान्तरेष्वपि ॥ ३५ ॥
सामानाधिकरण्येन प्रोक्तो मायोपमो जिनः ।
मायोपमादिशब्दैश्च परतन्त्रो निगद्यते ॥ ३६ ॥
पृथग्जनानां यज्ज्ञानं प्रकृतिव्यवदानिकम् ।
उक्तं तद्बुद्धशब्देन बोधिसत्त्वो यथा जिनः ॥ ३७ ॥
निजं स्वरूपं प्रच्छाद्य तदविद्यावशीकृतम् ।
मायावदन्यथा भाति फलं स्वप्नमिवोझति ॥ ३८ ॥
अद्वयस्यान्यथाख्यातौ फले वाप्यपवादिनाम् ।
अपवादविकल्पानामपवादोऽयमुच्यते ॥ ३९ ॥
न रूपं शून्यता युक्ता परस्परविरोधतः ।
नीरूपा शून्यता नामरूपमाकारसङ्गतम् ॥ ४० ॥
इत्येकत्वविकल्पस्य बाद्धा(ध्या?)नानात्वकल्पनम्(ना?) ।
रुणाद्धि नान्यत्तद्रूपं शून्यतायां कथञ्चन ॥ ४१ ॥
असदेव यतः ख्याति तदविद्याविनिर्मितम् ।
असत्ख्यापनशक्त्यैव साविद्येति निगद्यते ॥ ४२ ॥
इदमेवोच्यते रूपं प्रज्ञापारमितेति च ।
अद्वयं द्वयमेवैतद्विकल्पद्वयबाधनम् ॥ ४३ ॥
युक्तिं चाह विशुद्धत्वात्तथा चानुपलम्भतः ।
भावाभावविरोधाच्च नानात्वमपि पश्यति ॥ ४४ ॥
नाममात्रमिदं रूपं तत्त्वतो ह्यस्वभावकम् ।
तत्स्वभावविकल्पानामवकाशं निरस्यति ॥ ४५ ॥
रूपं रूपस्वभावेन शून्यं यत्प्रथमोदितम् ।
तत्स्वभावसमारोपसङ्कल्पप्रतिषेधनम् ॥ ४६ ॥
नोत्पादं न निरोधं च धर्माणां पश्यतीति यत् ।
भगवानाह, तद्वयस्ता तद्विशेषस्य कल्पना ॥ ४७ ॥
कृत्रिमं नाम वाच्याश्च धर्मास्ते कल्पिता यतः ।
शब्दार्थयोर्न सम्बन्धस्तेन स्वाभाविको मतः ॥ ४८ ॥
बाह्यार्थाभिनिवेशस्तु भ्रान्त्या बालस्य जृम्भते ।
तथैव व्यवहारोऽयं त्वत्रार्थोऽस्ति कश्चन ॥ ४९ ॥
अत्र तेन यथा नाम कल्प्यते न तथास्ति तत् ।
वाच्यं वस्तु ततो निष्ठा यथानामार्थकल्पना ॥ ५० ॥
प्रज्ञापारमिता बुद्धो बोधिसत्त्वोऽपि वा तथा ।
नाममात्रमिति प्राह व्यसन् सत्यार्थकल्पनम् ॥ ५१ ॥
शब्दार्थप्रतिषेधोऽयं न वस्तु विनिवार्यते ।
एवमन्येष्वपि ज्ञेयो वाक्येष्वर्थविनिश्चयः ॥ ५२ ॥
नैवोपलभते सम्यक्सर्वनामानि तत्त्ववित् ।
यथार्थत्वेन तेनेदं न ध्वनेर्विनिवारणम् ॥ ५३ ॥
सुभूतिस्तु द्वयं व्यसन् शब्दं शब्दार्थमेव च ।
बोधिसत्त्वस्य नो नाम पश्यामीति स उक्तवान् ॥ ५४ ॥
प्रज्ञापारमितावाक्यं नास्ति यन्नेयता गतम् ।
ऊह्यास्तु केवलं तेऽर्था[स्तदेवं]सूक्ष्मया धिया ॥ ५५ ॥
प्रक्रान्तार्थतिरस्कारो या चार्थान्तरकल्पना ।
प्रज्ञापारमितायां हि प्रोक्ता सा प्रतिवर्णिका ॥ ५६ ॥
एतावानर्थसङ्क्षेपः प्रज्ञापारमिताश्रयः ।
आवर्त्य(र्त?)ते स एवार्थः पुनरर्थान्तराश्रितः ॥ ५७ ॥
प्रज्ञापारमितां सम्यक्सङ्गृह्याष्टसहस्रिकाम् ।
यत्पुण्यमाप्तं तेनास्तु प्रज्ञापारमितो जनः ॥ ५८ ॥

प्रज्ञापारमितापिण्डार्थसङ्ग्रहः समाप्तः ।

कृतिराचार्यदिग्नागपादानाम् ॥