सामग्री पर जाएँ

प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः ९

विकिस्रोतः तः
← प्रथमपरिच्छेदः, अध्यायः ८ प्रकाशसंहिता
अध्यायः ९
[[लेखकः :|]]
प्रथमपरिच्छेदः, अध्यायः १० →

श्रीभगवानुवाच


भूम्यावरणमध्ये तु ब्रह्माण्डोत्पादनोचितं ।
योजनानां पञ्चविंशत्कोटिद्विगुणसंमितं ।। ९.१ ।।

देशमुर्वरितं चक्रे भगवान्देशकालवित् ।
असंसृष्टानि तत्वानि ब्रह्माण्डोर्ध्वगतानि च ।। ९.२ ।।

अण्डं तदन्तर्निखिलं संसृष्टं परिकीर्तितं ।
विज्ञाननामको विष्णुः अहङ्कारस्य रक्षकः ।। ९.३ ।।

मनो हृषीकामात्रासु तत्तन्नामा रमापतिः ।
आकाशवायुतेजस्तु प्राणनामाखिलेश्वरः ।। ९.४ ।।

अन्ननामा पृथिव्यां सः जलावरणगोपि च ।
विशेषपृथिवी चाण्डद्विगुणावृत्तिरूपिका ।। ९.५ ।।

अबग्नीरनभोहङ्कृन्महत्तत्व गुणा इमे ।
सत्वाद्यावृत्तयोण्डोर्ध्वं स्थिताः क्ष्मावरणाः क्रमाथ् ।। ९.६ ।।

दशोत्तराः प्रविज्ञेया तमसो द्विगुणं रजः ।
रजसो द्विगुणं सत्वं ततो न प्राकृतं क्वचिथ् ।। ९.७ ।।

पश्चादूर्ध्वप्रदेशे तु अनिरुद्धात्मको हरिः ।
तस्माद्धशाधिकतनुः सोप्यावरणरूपकः ।। ९.८ ।।

ततो दशाधिकौ प्रद्युम्नसङ्कर्षणनामकौ ।
वासुदेवस्तदूर्ध्वस्थस्तद्धशांशाधिको मतः ।। ९.९ ।।

ततोप्यनन्तगुणिकानन्तानन्त प्रदेशके ।
लक्ष्मीनारायणौ व्याप्तौ मर्यादा न तयोः क्वचिथ् ।। ९.१० ।।

श्रीर्देशकालतोनन्तागुणानन्ता न हि क्वचित् ।
अनिरुद्धात्प्रथमतो ऋजुभिस्त्वपरोक्षिभिः ।। ९.११ ।।

सह पूर्वोक्तकालेन जातौ द्वौ भार्ययायुतौ ।
त्रिरूपकौ ब्रह्मवायू त्रिगुणावृत्तिगौ क्रमथ् ।। ९.१२ ।।

तेषां सत्वाद्या वृत्तयः स्थूलदेहाः प्रकीर्तिताः ।
ततोनिरूद्धसूक्ष्मदेहाज्जातौ विधीरणौ ।। ९.१३ ।।

स ऋजूकौ चतुर्वारं महत्तत्वगतौ मतौ ।
तेषां महत्तत्वमेव स्थूलदेहं वदन्ति हि ।। ९.१४ ।।

तत स्त्रिरूपौ स ऋजू तौ द्वौ शान्तीशजौ क्रमात् ।
त्रिविधाहङ्कृतिगतौ स भार्यौ स ऋजू उभौ ।। ९.१५ ।।

एकविंशद्वारजातौ मनस्तत्वादितत्वगौ ।
अपरोक्षिणां ऋजूनां च शतस्याण्डाद्बहिर्जनिः ।। ९.१६ ।।

एवं रुद्रादि तत्वेशाः स्वसंख्या नियमोचिताः ।
अण्डाद्बहिः सृष्टियोग्याः दृष्टेशाः नेतरे क्वचिथ् ।। ९.१७ ।।

एवं त्रिरूपतो जाताः प्राक्शान्तीशेन कालतः ।
सूक्ष्मेण ऋजुजन्मानन्तरं शेषादयस्त्रयः ।। ९.१८ ।।

षण्णीलाद्याः कालयोगात्सापर्ण्याद्याः क्रमेण तु ।
अजेशाजेरशेष्यैस्तु अजेराभ्यां स्त्रिभिः स्त्रिभिः ।। ९.१९ ।।

रूपैरहङ्कारतत्वात्मकस्थूलशरीरिणः ।
बभूवुरितरेषां तु पदयोग्यापरोक्षिणः ।। ९.२० ।।

ते तथैव महत्तत्वाद्येकविंशति तत्वके ।
तावद्रूपैःसूक्ष्मतत्वाजातौ प्रागनिरूद्धतः ।। ९.२१ ।।

मन आदीनि तत्वानि स्थूलदेहानि भेजिरे ।
इन्द्रादि पुष्करान्ताश्च सूक्ष्मतत्वानिरुद्धजाः ।। ९.२२ ।।

एकविंशद्वारतस्ते आसन्चित्तादि तत्वगाः (आस श्रितादित तत्वगाः) ।
तानि स्थूलादि तत्वानि(देहानि) तेषां आसन्क्रमेण हि ।। ९.२३ ।।

प्राक्शान्तीशोत्थितेन्द्राद्याः मनस्थूलशरीरिणः ।
द्वित्र्यब्दिपञ्चषड्वारं जाताः श्रोत्रादितत्वगाः ।। ९.२४ ।।

सप्ताषटनवदिग्रुद्रवारजाताः क्रमेण तु ।
इन्द्रादयः पुष्करान्ताः वागादि स्थूलदेहकाः ।। ९.२५ ।।

ततश्च पञ्चवारोत्थाः प्राक्शान्तीशेन कालयोगतः ।
शब्दादि स्थूलदेहेताः ततो जातास्तु द्वादिगाः ।। ९.२६ ।।

अत्रोक्तानां सुराणान्तु यादृशस्थूलदेहतः ।
भावीनां च पदस्थानां तद्वशे स्थितिरिष्यते ।। ९.२७ ।।

अनिरुद्धः सूक्ष्मकर्ता प्रागेषामुचितस्थलं ।
प्राप्यैव सृष्टिमकरोद्धेशकालार्थतत्वविथ् ।। ९.२८ ।।

सर्वतत्वस्थितानान्तु ऋजूनां सूक्ष्मदेहगाः ।
सत्वाणवो दशगुणाधिका यान्ति च सर्वशः ।। ९.२९ ।।

रजस्तमोणवः पादमात्रतो यान्ति चोन्नतिं ।
बहुवारजातरुद्रेन्द्रादि सूक्ष्मशरीरगाः ।। ९.३० ।।

सत्वाणवःसमाश्चोपाश्चोपचितास्तथा ।
रजस्तमोणवो रुद्रशक्रादिसुरसूक्ष्मगाः ।। ९.३१ ।।

द्वित्र्यब्धिपञ्चषट्सप्ताष्ट धर्मशिवार्ककैः ।
भागतोविंशदन्तैर्वृद्धिं यास्यन्ति वै क्रमाथ् ।। ९.३२ ।।

तेनैव तत्कारणेन पूर्वपूर्वोक्त कारणैः ।
उत्तरोत्तररूपेषु बुद्धिमान्द्यादि चेष्यते ।। ९.३३ ।।

महदादिषु चाण्डोर्ध्वं दैत्यावेशादि नेष्यते ।
यथा सूक्ष्मशरीरेषु अभिवृद्धं रजस्तमः ।। ९.३४ ।।

भवत्तेषां तथा प्रोक्तं स्थूलदेहेष्वपि स्फुटं ।
रजस्तमोणवो व्यक्तिं यास्यन्त्येव ततः क्रमाथ् ।। ९.३५ ।।

तत्वानि पूर्वरूपाणि सन्त्यनन्तानि तानि तु ।
ऋजवः सर्वतत्वेषु प्रतिभातपरावराः ।। ९.३६ ।।

सभार्या नीचोच्चसर्वतत्वेषु संस्थिताः ।
रजस्तमोणूपचयाधिक्याद्बुद्धिविपर्ययं ।। ९.३७ ।।

नैव यास्यन्ति ते सर्वे हरेः प्रियतमाःसदा ।
ब्रह्मासरस्वतीविष्णोः सर्वाङ्गैः सम्भवन्ति हि ।। ९.३८ ।।

वामनाड्युत्थितौ शेषविपौ विष्णोः शिवस्तथा ।
नीलाद्यावारुणी पूर्वाः इन्द्रकामौ मनोभवौ ।। ९.३९ ।।

सभार्यौ च गुरुर्बुद्धेः मनुराद्योह्युपस्थतः ।
दक्षोङ्गुष्टात्कामपुत्रः मनवः कामपूर्वकाः ।। ९.४० ।।

मरुतः श्वासतः सूर्यः चक्षुषः चन्द्रमा श्रुतेः ।
धर्मो हृदः सभार्यश्च वरुणो रसनोत्थितः ।। ९.४१ ।।

भृगुस्त्वचोग्निर्मुखतः जातान्मेढ्रान्मनुर्गतेः ।
विश्वामित्रमरीच्याद्याः मित्रोपानाच्चनैरुतः ।। ९.४२ ।।

स्कन्दाद्भवगणपतिः शम्भुजयन्तौ नाभिपादयोः ।
नासत्यौ नासिकाभ्यन्तु विश्वक्सेनो मुखादभूथ् ।। ९.४३ ।।

पद्भ्यान्तु ऋभवः(रुतवः)(रुभवः) कण्ठाद्धिग्देवास्तु कर्मजाः ।
रुद्राः कपोलाल्ललाटाच्च वसवत्स्विच्छया विभोः ।। ९.४४ ।।

आदित्यास्तु प्रकाशोत्था दन्तपङ्क्तिस्थिता अपि ।
सनकाद्या मनोजाता जयाद्यानाभि पार्श्वतः ।। ९.४५ ।।

गङ्गादि नद्यो नाडिभ्यः पादाङ्गुष्टादिभिः प्रभोः ।
अनुक्ततात्विकाःसर्वे कटाक्षोत्था बुधामताः ।। ९.४६ ।।

शनिः शरीरतः पुष्कराद्या कर्मेन्द्रियोद्भवाः ।
अनुक्तदेवताभार्याः भर्तृभिः सहसम्भवाः ।। ९.४७ ।।

एते ह्यशेषतत्वेषु तत्वस्थित हरीरयोः ।
प्रोक्त्यैरङ्गैः क्रमाज्जातः वसन्ति ह्यभिमानिनः ।। ९.४८ ।।

सृष्टावेवं बहिश्चाण्डान्मुक्तावेवं हरेर्वशः ।
जातौ जातौ हि यस्तस्मात्कामस्तुद्गतिःसुतः ।। ९.४९ ।।

चण्डो जयाद्या द्वारस्थाः शशाङ्को धनपस्तथा ।
गन्धर्वपतयःसर्वे जातिष्वपि च तात्विकाः ।। ९.५० ।।

पुष्करोच्चा बुधोच्चास्तु अनुक्तास्ते प्रकीर्तिताः ।
एवं शेषस्य भागोत्था(मार्गोत्थ) बहिरण्डात्समस्तशः ।। ९.५१ ।।

नवकोट्यो हि देवानां सत्वतत्वाभिमानिनः ।
अजो विपस्ततो नीलाद्विषट्कविपवल्लभा ।। ९.५२ ।।

तत इन्द्रःशशी तस्मात्प्राणाद्या मारुतोखिलाः ।
इन्द्राद्दक्षस्ततो देवर्षयो वै नारदादयः ।। ९.५३ ।।

इन्द्राद्गुरुस्ततो सूर्यः जयौ विघ्नप्रभुस्ततः ।
अभवंश्च स्मृतासूर्यादग्निरग्नेस्तु रुद्रकाः ।। ९.५४ ।।

आदित्यावसवो विश्वाप्याश्वनौ रक्षसाधिपः ।
पर्जन्य बुधशन्याद्याः पुष्करान्ताः समुत्थिताः ।। ९.५५ ।।

वसन्ति सर्वतत्वेषु गरुत्मान्मार्गदेवताः ।
उत्तमानां च गुरवः नीचा उत्तमसेवकाः ।। ९.५६ ।।

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे नवमोऽध्यायः