प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः १२

विकिस्रोतः तः
← प्रथमपरिच्छेदः, अध्यायः ११ प्रकाशसंहिता
अध्यायः १२
[[लेखकः :|]]
प्रथमपरिच्छेदः, अध्यायः १३ →

श्रीभगवानुवाच


त्रिविक्रमनखोद्भिन्नाजाण्डखर्पररन्ध्रतः ।
अन्तः प्रविषटबाह्याम्बु वैकुण्ठशिखरात्ततः(दधः) ।। १२.१ ।।
पतत्कमणडुले धाता दधारेश पदाम्बुजे ।
प्रक्षाल्यतच्छेषजलाद्गङागानामनदी व्यधाथ् ।। १२.२ ।।

अरनाम्नीण्यनाम्नी सा भूदुर्गाभागयोर्द्वयोः ।
पृथक्सप्तावर्णगा परिघा रूपिणी मता ।। १२.३ ।।

नन्दिनी सत्यलोके सा नलिनी च तपोमये ।
जनोलोके मालिनीति महर्लोके तु भोगिनी ।। १२.४ ।।

स्वर्धुनी सा स्वर्गलोके वियद्गङ्गा ध्रुवालये ।
मदापगा सान्तरिक्षे मेरोर्ब्रह्मसदोर्ध्वतः ।। १२.५ ।।

निपतन्ती च पूर्वादि चतुर्दिक्षु क्रमेण सा ।
सीताचा(?अ)लकालकनन्दा च चक्षुर्भद्राह्वया शुभा ।। १२.६ ।।

सीताख्यातिरवोद्वेगात्सर्वत्रेलावृताद्बहिः ।
निपात्यमाना हरिणा पूर्वमब्धिङ्गमिष्यति ।। १२.७ ।।

सैवदक्षिणभागस्था कालेन महता किल ।
सगरात्मजशुद्ध्यर्थं भगीरथसमर्चिता ।। १२.८ ।।

भागीरथीति गदिता सर्वलोकैकपाविनी ।
जह्नुना राजःऋषिणा पीतात्यक्ता च वाक्यतः ।। १२.९ ।।

सा जाह्नवी मेरुनगस्योत्तराधःस्थलस्थितात् ।
मार्गादतलपूर्वेषु सप्तलोकेषु संस्थिता ।। १२.१० ।।

सैव त्रिपथगा देवी भाति नारायणाश्रया ।
सैषा रम्यक(?त)पूर्वेषु हरिवर्षादिषु त्रिषु ।। १२.११ ।।

भद्राश्वकेतुमाले तु चरन्ती सागरप्रिया ।
भारतेस्मिन्महावर्षे नद्यः सन्ति सहस्रशः ।। १२.१२ ।।

श्रीरङ्गो वेङ्कटेशाख्यो तोताद्रिः पुष्कराह्वयः ।
श्रीमष्णनैमिषारण्ये गण्डकी बदरीस्थलं ।। १२.१३ ।।

अष्टावेते स्वयंव्यक्ताः भारते सर्वसिद्धिदाः ।
स्वामिपुष्करणीपूर्वाः पुष्करिण्यः सहस्रशः ।। १२.१४ ।।

मनवः पितरः सिद्धाः सर्वसाधनतत्पराः ।
सुरासुरा भारतेस्मिन्स्वसाधनपरायणाः ।। १२.१५ ।।

अत्र सत्कर्मणा स्वर्गं निरयं पापकर्मणा ।
मिथ्था ज्ञानेन च तमो ज्ञानेनैव पदं हरेः ।। १२.१६ ।।

प्राप्नोति पुरुषो ह्यत्र पदस्थास्तत्वदेवताः ।
केचित्सर्वावतारेषु भूमौ भूत्वा भवन्त्यलं ।। १२.१७ ।।

सर्वेसुराः पदस्थाश्च रामकृष्णावतारयोः ।
जाता भूमावुपास्येशं पुनर्मूलस्वरूपकैः ।। १२.१८ ।।

एकी भवन्त्यपि सुराः भाविनः प्रायशोत्र तु ।
स्वसाधनैकनिरताः देवदासादयोपि च ।। १२.१९ ।।

सांशाः निरंशाश्च तथा स्वस्वसाधनतत्पराः ।
विधयश्च निषेधाद्याः अत्रत्यानां भवन्ति हि ।। १२.२० ।।

लक्षयोजनविस्तीर्णलवणाम्बुधिवेष्टितः ।
द्वीपोयं जम्ब्वाख्यो हि मेरुस्तस्यैव मध्यमः ।। १२.२१ ।।

सुमेरोपरितश्चेलावृतं तद्गवनं शुभं ।
सुकुमाराभिधं रुद्रशापात्तत्रगतः पुमान् ।। १२.२२ ।।

नारीभवति पार्वत्यारन्तुकामस्तथाकरोत् ।
एतस्माद्विगुणः प्लक्षस्त्विक्षूदाम्बुधिवेष्ठितः ।। १२.२३ ।।

स्थूलाश्च पर्वताः सन्ति तत्र श्रीहरिसंमिताः ।
तास्ते क्षीराब्धिमारभ्य इक्षुसागरसंस्पृशाः ।। १२.२४ ।।

भारताद्यष्टवर्षेषु षड्द्वीपा अपरा अपि ।
मध्यस्तत्काम्यपुण्यानां भोगार्थं हरिनिर्मिताः ।। १२.२५ ।।

पापादत्र जनीनैव पुण्यादेव हि काम्यतः ।
न तत्र चायुर्नयमो यावत्पुण्यन्तु जीवनं ।। १२.२६ ।।

नरानार्यः सुन्दराङ्गाः सन्ति भोगोचितार्थदाः ।
वृक्षाश्च पुण्यरत्नानि गृहाश्च स्वर्णभूमयः ।। १२.२७ ।।

विनैव कालमरणं तत्र दुःखादिकं न हि ।
इच्छामात्रेण सर्वाथसिद्धिस्तत्रेशनिर्मितः ।। १२.२८ ।।

सूर्यात्मकं हरिं तत्र पूजयन्ति विचक्षणाः ।
ततो हि द्विगुणोद्वीपः शाल्मलः सर्ववर्तुलः ।। १२.२९ ।।

योजनानां चतुर्लक्षं मध्वब्धि समवेष्टितः ।
जाम्बवं पुष्करं त्यक्त्वा मध्यद्वीपेषु पञ्चसु ।। १२.३० ।।

सर्वेषु सप्तनद्यः स्युः पर्वताः सप्तकीर्तिताः ।
सप्तद्वीपगता नद्यः दद्बाह्याम्बुधिगामिनः ।। १२.३१ ।।

भोगोपयुक्ता निखिलाः पदार्थजनसङ्कुलाः ।
तत्रत्याः पर्वताः पूर्वोत्तरसागरसंस्पृशः ।। १२.३२ ।।

तैर्विभक्ताःसप्तवर्षास्तत्तन्मनुसुत्राश्रयाः ।
चन्द्रान्तर्यामिणं विष्णुं शाल्मलस्था भजन्ति हि ।। १२.३३ ।।

क्रौञ्चद्वीपस्तद्विगुणोद्व्यष्टलक्षार्णवे न तु ।
पव्यम्बुना वेष्टितोलं सूर्यकान्तादि सन्मणिः ।। १२.३४ ।।

वरुणान्तर्गतं विष्णुं भजन्ति हि ततोत्र हि ।
ततो हि द्विगुणाः शाकद्वीपः क्षीराब्धिवेष्ठितः ।। १२.३५ ।।

द्वात्रिंशल्लक्षविस्तारः समीरोपासकोदितः ।
शाकद्वीपस्य मध्येतु अनन्तरूपी हरिस्वयं ।। १२.३६ ।।

अर्धलक्षस्थलतनुः सप्तलक्षोन्नतः प्रभुः ।
मेरुलोकालोकनगाभिमुखानन्तलसन्मुखः ।। १२.३७ ।।

चक्रप्राकाररूपात्मा तद्वीपे परितः सदा ।
लक्षोन्नतस्थेषु जगच्चक्षुःसूर्यश्चरत्यसौ ।। १२.३८ ।।

मेरुं प्रदक्षिणी कुर्वन्रूक्षचक्रोनुवेगतः ।
दिनेदिनेत्वेकवारं सहस्रांशुः प्रकाशकृथ् ।। १२.३९ ।।

सूर्यस्याक्षोत्तराग्रन्तु तैलयन्त्रमिवोलितः ।
लुप्तमन्यच्चक्रयुतं मानसोत्तरपर्वते ।। १२.४० ।।

परिभ्रमन्ति तन्मध्येऽनसि भूमेः समोन्नते ।
चत्वारिंशद्योजनोर्ध्वप्रदेशस्प्रशिमध्यतः ।। १२.४१ ।।

तावत्परिमितान्यक्षसम्बन्धो तावदन्तराः ।
स्तम्भाः षष्ठिसहस्राश्च चत्वारः सन्ति सदृढाः ।। १२.४२ ।।

शतयोजनका स्थूला दीप्यध्वज्रमयाः शुभाः ।
तदूर्ध्वमण्टपे पादलक्षोच्चमणि दीपिते ।। १२.४३ ।।

योजनायुत देदीप्यमण्डले भानुराजतिः(रूर्जितः) ।
अहःकरः सर्व सत्साधनकृत्फलदोर्यमा ।। १२.४४ ।।

मेरोः पूर्वस्थितो भारतस्थानामुदयङ्करः ।
मेरोर्दक्षिणगोमध्य(ध्यं)दिनकृत्सप्तसन्धयः ।। १२.४५ ।।

मेरोः पश्चिमगो भारतत्स्थानामस्तमानकृत् ।
मेरोरुत्तरगश्चार्धरात्रिकृद्भारते नॄणां ।। १२.४६ ।।

एवमेव चतुर्दिक्षुविद्यमानजनस्य तु ।
प्रातर्मध्यन्दिननिशीथार्धरात्रप्रवर्तकः ।। १२.४७ ।।

नारायण विशेषावेशैधितात्मगतिः स्वयं ।
एकमेव पृथङ्नामभेदेन श्रीहरीच्छया ।। १२.४८ ।।

सप्तद्वीपेषु योभानुवरिपोहस्तबाधिपः ।
सव्येन भ्रमतां भानां त्रिलक्षोन्नतवर्तिनां ।। १२.४९ ।।

तिर्यगूर्ध्वं च षट्पञ्चाशल्लक्षाधिककोटितः ।
दीर्घाभिश्च शलाकाभिः निर्मिते रूक्षचक्रके ।। १२.५० ।।

शतयोजनविस्तीर्णं शलाकाग्रेषु भान्त्यलं ।
वसन्ति तन्मार्गगताः सञ्चरन्ति नवग्रहाः ।। १२.५१ ।।

ते शलाका वज्रमयाः अष्टोत्तरशतात्मकैः ।
छिद्रैश्च कलितापाशैः ध्रवाधीनैश्च वारुणैः ।। १२.५२ ।।

सम्बन्धाग्राभिरंशेन क्ळ्प्यैकैकेनभाश्रयाः ।
चतुश्चिद्रयुताः सर्वशलाकास्तेषु वारुणाः ।। १२.५३ ।।

पाशाश्चान्तः प्रविष्टाश्च भूमेर्लक्षोन्नतान्तरे ।
स्थितस्य सूर्यरथाग्रेताः अक्षकोट्यस्तथाग्रतः ।। १२.५४ ।।

धुराग्राक्षाग्रयोर्बद्धपाशाग्रेणसमन्विताः ।
पाशाध्रुवस्य नक्षत्रपादैरेवापसव्यतः ।। १२.५५ ।।

संवत्सरेणैकवारं भ्रमन्तं भ्रामयत्यलं ।
ध्रुवस्तस्य हयाःसप्तहरिद्वर्णा महाजवाः ।। १२.५६ ।।

अनुक्तस्तात्विकैस्तुल्यास्तद्यन्ता गरुडाग्रजः ।
सोऽनूरुरुस्त्वरुणःसर्पपाशैस्तान्योजयत्यलं ।। १२.५७ ।।

मानसोत्तरमेरोः तु संस्प्रष्टाक्ष सुमध्यगे ।
अनेहर्म्यकलितवज्रसम्भाव्यग्रमण्टपे ।। १२.५८ ।।

चरतो भास्करस्यास्यत्वाधारः शाकमध्यगः ।
हरिर्मेरोःसार्धसप्तोत्तरसप्ततिलक्षकः ।। १२.५९ ।।

तावत्तदुत्तरगत मानसोत्तरपर्वते ।
योजनानां षष्ठिसहस्रोन्नतं चक्रमूर्जितं ।। १२.६० ।।

मध्यछिद्रान्वितं वज्रमयं भ्रमति विष्णुना ।
द्वादशारं हि षण्णेमि त्रिनाड्यन्तर्बहिस्थले ।। १२.६१ ।।

युगकूबराक्षत्रयस्य रेखासु तिथिवारपाः ।
अपरेषु मासास्तिष्ठन्ति ऋतवस्तस्य नेमिगाः ।। १२.६२ ।।

चतुर्मास्यास्त्रिनेमिस्थाः द्विपरिश्चेदगेयने ।
वत्सरः सर्वचक्रस्थस्त्वेकचक्रोरथस्य तु ।। १२.६३ ।।

स कर्कटादिषु चरनेकोह्ना(ह्नां)क्षयकृद्रविः ।
षट्सुरात्रदीर्घ्यमानः कारयन्दक्षिणायनं ।। १२.६४ ।।

करोति नक्रादिषु षट्सुचरन्रात्रिक्षय(यं)करः ।
अह्नान्यभ्येधयन्नेकश्चोत्तरायणकारकः ।। १२.६५ ।।

विनाडिकानां पञ्चाशन्मासिमास्येधेयेत्यसौ ।
अहान्युत्तराणेन्यत्र रात्रिकालर्धिकृत्तथा ।। १२.६६ ।।

यदा तु मेषतुलयोः चरत्येष समानिशा ।
द्यस्राश्च वृश्चिकाद्येषु पञ्चस्वपि निशार्धिकृथ् ।। १२.६७ ।।

वृषादि पञ्चसु चरन्दिवाकालसमर्धिकृत् ।
त्रिलक्षोन्नतनक्षत्रशलाकाग्राष्टविंशके ।। १२.६८ ।।

उदग्दक्षिणकोणाद्याः कृत्तिकाद्याः समाश्रिताः ।
तिर्यगूर्ध्वं सप्तसप्तशलकाभिर्विनिर्मितं ।। १२.६९ ।।

द्वाभ्यां द्वाभ्यां कोणयोस्तु रेखाभ्यामुपकल्पितं ।
नक्षत्रमण्डलं भूमेरूर्ध्वं लक्षत्रयेण हि ।। १२.७० ।।

एकैकस्यां शलाकायां छिद्राणि च पृथक्पृथक् ।
चत्वारि तानि दंस्रक्षाद्यादिकानि वनानि च ।। १२.७१ ।।

मेषाङ्कानि वृषाङ्कानि नृयुग्मकानि वै नव ।
कर्कसिंहाङ्गकन्यानि तुलका वृश्चिकानि वै ।। १२.७२ ।।

धनुर्नक्षत्रशङ्खानि मीनाङ्कानि च वै नव ।
तेषु तेषु प्रविष्टाश्च पादद्यष्टोत्तरं शतं ।। १२.७३ ।।

पादैर्धुवःससूर्यस्तु अपसव्यक्रमेण वै ।
सर्वनक्षत्रपादेषु क्रमाद्वृद्धौ भविष्यति ।। १२.७४ ।।

ध्रुवान्तर्हरिणा विंशद्घटिकान्तदिनत्रयं ।
एकैक नक्षत्रपादे बद्धो भवति वै क्रमाथ् ।। १२.७५ ।।

सार्धत्रयोदशादिनैरेकनक्षत्रगो रविः ।
मासेन नवपादानि भुञ्जन्द्वादश राशिषु ।। १२.७६ ।।

संवत्सरेण चरति ह्यप्रदक्षिणतो रविः ।
मेषाध्यङ्कितरन्ध्राणि मेषाद्याः राशयस्मृताः ।। १२.७७ ।।

लक्षोन्नतप्रदेशेस्थ ध्रुवपादाग्रगो रविः ।
द्विलक्षोन्नतदेशस्थ ध्रुवपादाग्रतः शशी ।। १२.७८ ।।

चन्द्रसूर्यौ ऋक्षचक्रादधौ देशगतौ मतौ ।
कुजादयश्च पञ्चापि ऋक्षचक्रोर्ध्ववर्तिनः ।। १२.७९ ।।

ध्रुवपाशैः सदाबद्धाः सञ्चरत्यपसव्यतः ।
ज्ञः पञ्चलक्षोन्नतगतः सप्तलक्षोन्नतः कुजः ।। १२.८० ।।

नवलक्षोन्नतः शुक्रः लक्षैकादशको गुरुः ।
त्रयोदशं तु सूर्यस्यमण्डलं परिकीर्तितं ।। १२.८१ ।।

लक्षपञ्चादशादूर्ध्वं शनिमण्डलमस्ति हि ।
षड्विंशति सुलक्षाणां ऊर्ध्वं सप्तर्षिमण्डलं ।। १२.८२ ।।
लक्षैकादशतस्तत्मात्ध्रुवःसंस्थो हरिप्रियः ।
स विष्णोः शिंशुमारस्य महाचक्रपदास्थिताः ।। १२.८३ ।।

ध्रुवादीन्ग्रहान्विष्णुः चक्रे सर्वान्सुवारुणैः ।
पार्शैयोर्जयति श्रीमान्शलाकारन्ध्रसङ्गताः ।। १२.८४ ।।

सर्वेह्येते भानुसमाप्रदेशेषूत्तरोत्तरं ।
चरन्ति ऋक्षपादस्थपाशैरेवतु तन्मितैः ।। १२.८५ ।।

एतेषां राशिसञ्चारैः कालं योजयतीश्वरः ।
चन्द्रोराशिद्वादशकं मासेनैकेन वर्तते ।। १२.८६ ।।

कुजो मासार्धतो राशिं भुक्त्वा राशिं समेष्यति ।
गुरुर्द्वादशभिर्मासैः त्रिंशन्मासैःशनैश्चरः ।। १२.८७ ।।

मासेनैव बुधः शुक्रः प्रतिराशिं भजत्यलं ।
सदा समगती वक्रशून्यौ द्वौ शशिभास्करौ ।। १२.८८ ।।

भानुमण्डलगश्चन्द्रो दर्शेचास्तङ्गतो भवेत् ।
एवं कुजादयः पञ्च अस्तं यास्यन्ति भानुगाः ।। १२.८९ ।।

प्राक्दिश्यस्तङ्गतौ शुक्रगुरू द्वौ पश्चिमोदयौ ।
प्रत्यगस्तङ्गतौ तौ द्वौ तु पूर्वदिश्युदितौ मतौ ।। १२.९० ।।

एवमन्येपि सूर्यस्य नास्तमानं स्वभावतः ।
मेरुछायागतं चास्तङ्गतं सूर्यं वदन्ति हि ।। १२.९१ ।।

चन्द्रार्क कव्यस्तमये लौकिके तु शुभं त्यजेत् ।
पूर्वस्यां दिशि शुक्रोस्तङ्गतो मासद्वयोत्थितः ।। १२.९२ ।।

प्रत्यगस्तङ्गतः काव्यः सप्ताहोभिरुदेत्यलं ।
गुरुर्मासेनोभयत्र ह्युदितो भवति ध्रुवं ।। १२.९३ ।।

कुजादीनां वक्रमाद्यास्तम्भ ऋज्वोति शीघ्रतः ।
गतयो विविधाःसन्ति कालस्याशुभसूचकाः ।। १२.९४ ।।

न समा हि गतिस्तेषां क्वचिदेव समागतिः ।
लक्षदीर्घयुगद्वन्द्व पुरस्थां रजयोजिताः ।। १२.९५ ।।

तद्वादशांशधुरगाः सप्ताश्वा भस्करस्य हि ।
मानसोत्तरस्यपरितो नवकोटिसुविस्तरं ।। १२.९६ ।।

सार्धं प्रदक्षिणं कर्तुं योजयन्ति महाजवाः ।
इत्थं नवग्रहैः कालचक्रं परमः पुमान् ।। १२.९७ ।।

सूर्यस्य गत्या मेषादीन्मासान्सौरेण मानतः ।
कल्पयत्यपि चन्द्रस्यगत्या चैत्रादीकान्हरिः ।। १२.९८ ।।

चान्द्रमासान्कल्पयन्ति नक्षत्रं ऋक्षसन्ततेः ।
आवृत्यं चतुरोराप्तिं चारान्मानं बृहस्पतेः ।। १२.९९ ।।

सारस्वतन्तु गान्धर्वाः पक्षाहोरात्रयो मताः ।
सारस्वतन्तु गान्धर्वमानमाहुर्विचक्षणाः ।। १२.१०० ।।

मासेन स्यादहोरात्रं मैत्रं मानं विदुर्बुधाः ।
दैवमानं वत्सराहोरात्रिकालेन तावता ।। १२.१०१ ।।

मनुर्मानं मानवाख्यं ब्राह्ममानमजस्य हि ।
मानाश्च नवमानानां विष्णुरेकः प्रवर्तकः ।। १२.१०२ ।।

द्वात्रिंशल्लक्षविस्तीर्णक्षीराब्धेर्मध्यदेशतः ।
तदर्धविस्तरोच्चक्रमप्राकाररूपकः ।। १२.१०३ ।।

दशलक्षोन्नतो भूमेः श्वेतद्वीपो रमात्मकः ।
वेदावर्णा देशकालौ नित्यव्याप्ता जडामताः ।। १२.१०४ ।।

वाय्वाकाशःसौरदीप्तिरनित्यास्तु जडामताः ।
द्रव्यान्यप्रतिघातानि तेन्योन्यस्याश्रयाणि च ।। १२.१०५ ।।

लक्ष्मीनारायणौ शुद्धचिद्रूपौ व्याप्तविग्रहौ ।
सर्वार्थप्रतिघाता च श्वेतद्वीपादयस्त्रयः ।। १२.१०६ ।।

लोकास्त्वप्रतिघाताश्च स्तम्भाध्यैर्लोकरूपकाः ।
दुर्गाभागस्तदुपरि भूभागस्तु तदूर्ध्वतः ।। १२.१०७ ।।

श्रीभागस्तु ततस्तूर्ध्वं शिखरन्तु तदूर्ध्वगः ।
भागत्रयेपि भूकन्दाः पञ्चलक्षोन्नतायुताः ।। १२.१०८ ।।

त्रिषुभागेष्वपि रमा देशहर्म्यस्वरूपिणी ।
हर्म्यं प्रदेश भूभागाः लक्षयोजनकन्दकाः ।। १२.१०९ ।।

उपर्यावर्त्तयो भागस्त्रयो भूकन्दसंमिताः ।
भागत्रयेपि च स्तम्भामणिमद्भूमितलाश्रयाः ।। १२.११० ।।

सार्धद्विलक्षसमिता नानामणिविराजिता ।
श्रीभागमध्यवेदिस्थः लक्ष्मीशोनन्तभानुरुक् ।। १२.१११ ।।

चिन्मात्रानन्तमुक्तेड्यः स्वर्गादुपरि वर्तते ।
स्थानं त्रये त्रिपाद्विष्णोः दिविस्वर्गोन्नतस्थले ।। १२.११२ ।।

श्वेतद्वीपोद्व्यष्टलक्ष दुर्गाभागस्तु तन्मितः ।
भूभागस्तु तदर्धेतः श्रीभागस्तु तदर्धतः ।। १२.११३ ।।

मणिस्वर्णोज्वलत्सत्वप्राकारान्तात्मभागकाः ।
अनेकतोरणाट्टालवेदीचत्वारशोभिताः ।। १२.११४ ।।

मणिमत्ननद्यद्रिसरोवाप्यादिसंकुलाः ।
नानायादोगणोपेतस्वर्णकञ्जाबु भास्वराः ।। १२.११५ ।।

सर्वर्तुकालपुष्पाढ्य पल्लवस्वर्णभूरुहाः ।
हंसकोकिलबर्हादि शुकस्वनसमाकुलाः ।। १२.११६ ।।

अतिसुन्दर सिंहादि नानामृगसमाकुलाः ।
अवर्णनीयरत्नेरु रचितानेकमण्टपाः ।। १२.११७ ।।

नानास्वादुस्वनोपेत नरनारीगणौर्युताः ।
सिद्धचारणगन्धर्वाप्सरो गानमणिताः ।। १२.११८ ।।

नानावाद्यमहावीणाशङ्खदुन्दुभिनिस्वनाः ।
गजाश्वरथपादातिध्वजछत्रादि लाञ्छनाः ।। १२.११९ ।।

सर्वाभरणवस्त्राढ्या विमानावलिसङ्कुलाः ।
नानाक्रीडासाधनेताः नानाः गन्धोपबृंहिताः ।। १२.१२० ।।

अनेकहंसतूले तु मणिशय्या समावृताः ।
भोगस्त्रीभिः समाकीर्णाः मणिव्यजनदर्पणाः ।। १२.१२१ ।।

मणिस्वर्णात्मकानेक भित्तिभाण्डादि साधनैः ।
अनुक्तानन्तसर्वोपस्करणैरुपशोभिताः ।। १२.१२२ ।।

चामरान्दोलिकाडोला पादपीठादि संयुताः ।
तुलसीपुष्पसद्रत्नमुक्तामालोपशोभिताः ।। १२.१२३ ।।

भानुकोटिप्रभादीप्ता पात्रनैवेद्यरूपिणी ।
घृतदध्यम्बुरूपा सा पूर्वोक्तार्थस्वरूपिणी ।। १२.१२४ ।।

दासीदाससमाकीर्णभार्यारूपाखिलेश्वरी ।
दुर्गाभूःश्रीस्वभागेषु अनन्तानन्तरूपिणी ।। १२.१२५ ।।

अनन्तरूपिणं विष्णुं सदाराधयतीश्वरं ।
स्वभावादेव नास्यार्थः प्राप्तव्यः कश्चिदेष्यते ।। १२.१२६ ।।

पूर्णकामो हरिः प्रीत्या तत्पूजां स्वीकरोत्यजः ।
स्थानत्रयेपि सा देवी ह्यनन्तोक्तार्थरूपिणी ।। १२.१२७ ।।

सर्वदेशेषु कालेषु सर्वरूपाश्रिता रमा ।। १२.१२८ ।।

इति श्री प्रकाशसंहितायां प्रथमपरिच्छेदे द्वादशोऽध्यायः