प्रकाशसंहिता/द्वितीयपरिच्छेदः/अध्यायः ६

विकिस्रोतः तः
← द्वितीयपरिच्छेदः, अध्यायः ५ प्रकाशसंहिता
अध्यायः ६
[[लेखकः :|]]

श्रीभगवानुवाच


अतलाद्या सप्तलोकाः बिले स्वर्गाः प्रकीर्तिताः ।
मेरोरधस्तात्ते सर्वे प्रायशो ज्ञानि सङ्कुलाः ।। ६.१ ।।

एषामुपरि भूलोकः सर्वलोकतमो मतः ।
तस्मिन्हि भारते वर्षे बर्हिष्मत्ताख्यपत्तने ।। ६.२ ।।

शतरूपापतिः पूर्वं मनुः स्वायंभुवोऽभवत् ।
देवदासानेककोटिसेविताङ्घ्रिसरोरुहः ।। ६.३ ।।

शशास मेदिनीं एतां प्रजाड्योरसवत्सदा ।
देवहूतिस्तु तत्पुत्री क्वचिद्धर्म्यगता भवथ् ।। ६.४ ।।

तां दृष्ट्वा संगनोभूमौ गन्धर्वाधीश्वरोऽपतत्(भवत्) ।
रूपयौवनसम्पन्नां तामारोप्य रथे स्वयं ।। ६.५ ।।

भार्यया सह तत्रागात्सरस्वत्यां तटं प्रति ।
तत्र बिन्दुसरस्तीरे तपतः कर्दमस्यतां ।। ६.६ ।।

पुण्याश्रमं प्रदत्वात्तु मनुः कृछ्रात्स्वकं पुरं ।
गते राजनि सा देवी वस्त्राभरणसञ्चयं ।। ६.७ ।।

नद्यां प्रास्य विरक्तस्य चीर्णवेणाजिनाम्बरा ।
व्रतक्षामापर्यचरत्पतिं भक्त्या जटाधरा ।। ६.८ ।।

इत्थं तया सेविताङ्घ्री राजपुत्रीमभाषत ।
हितं वदेति सा देवी(वव्रे) तं तु योगप्रभावतः ।। ६.९ ।।

संयोजनायामुमुद्यद्रविरक्त(त्न)प्रभान्वितं ।
सर्वोपस्करणोपेतं पक्षिवृक्षजला(समा)कुलं ।। ६.१० ।।

सौवर्णं कालगमतं सुगन्धि सुमनोहरं ।
स्वयं तदाहृदे स्नात्वा बभौ सर्वमनोहरः ।। ६.११ ।।

सापि श्रीरिव सौन्दर्यवस्त्राभरणभूषणैः ।
तुष्ट्वा स सतया सार्धं रेमेब्दशतकं ऋषिः ।। ६.१२ ।।

मेर्वादिषु चरन्दिव्यविमानस्थः समुक्तवत् ।
सुशब्दस्पर्शसुरसरूपगन्धमनोहरः ।। ६.१३ ।।

निन्ये कालं क्षणमिव कुसुमाकरवायुभिः ।
इत्येनं(रत्येत)बिन्दुसरसस्तीर आसन्नवाङ्गनाः ।। ६.१४ ।।

तत्पुत्रिकानां नामानि श्रुणु मे वदतः सदा ।
कलानसूया श्रद्धा च हविर्भूश्च गतिः क्रिया ।। ६.१५ ।।

अरुन्धती च चित्तिश्च ख्यातिः कर्दमपुत्रिकाः ।
कलां मरीचये प्रादादनुसूयामथा त्रयी ।। ६.१६ ।।

श्रद्धामङ्गिरसे प्रादात्पुलस्त्याय हविर्भुवम्(भुवि) ।
पुलहाय गतिं प्रादात्क्रतवे सक्रियां सुतां ।। ६.१७ ।।

अरुन्धतीं वसिष्ठाय चित्तिं च भृगवेर्पयत् ।
अथर्वणाय च ख्यातिं दत्वा हृष्टो बभूव ह ।। ६.१८ ।।

ततः शताब्दं चिक्रीड्य ततोस्यां कपिलं व्यधात् ।
स कर्दम तपोयोगात्साक्षान्नारायणो भवथ् ।। ६.१९ ।।

त्यक्त्वा विमानं भार्यां च कर्दमस्तपसे ययौ ।
औत्पत्तिब्रह्मचारी तु तस्मिन्बिन्दुसरस्तटे ।। ६.२० ।।

स्वमात्रे कपिलस्तत्वमुक्त्वामुक्तिं ददौ मुनिः ।
तत्तत्वं कपिलोपाख्यं कर्मग्रन्थिनिकृन्तनं ।। ६.२१ ।।

मरीचेः कश्यपो जज्ञे इह वैवस्वतान्तरे ।
पुनर्जातस्य दक्षस्य त्रयोदशसुतासु सः ।। ६.२२ ।।

कश्यपाय प्रदत्तासु दित्यादित्यादिकासु च ।
पूर्वोक्तास्तनया आसन्पूर्वमन्वन्तरेषु सः ।। ६.२३ ।।

कश्यपो नाम भेदेषु मरीचेस्तनयो भवत् ।
अन्यस्यामपि भार्यायां दक्षजाः षष्ठिकन्यकाः ।। ६.२४ ।।

प्रतिमन्वन्तेरेष्वासुः कश्यपाय त्रयोदश ।
दत्तास्यासुर्नामभेदेन ता जाताः सुरासुराः ।। ६.२५ ।।

पूर्वोक्ता नामभेदेन स्वस्वव्यापारसाधकाः ।
अस्मिन्कश्यपनामासीद्भार्यापुत्रादयोधुना ।। ६.२६ ।।

प्रोक्तव्यापारनामानः पूर्ववद्भावि कालके ।
स तात्विक ऋषिप्रोक्तपुष्कराच्च शतावराः ।। ६.२७ ।।

अजास्य दक्षतनयाः पूर्वमन्वन्तरेषु च ।
सप्तविंशति संख्याकाः इन्दोर्भार्या बभूविरे ।। ६.२८ ।।

अश्विन्याद्यास्तारकास्ते कालचक्रप्रवर्तकाः ।
सरोहिण्यां पक्षपातादन्यासु विपरीतदृक् ।। ६.२९ ।।

दक्षशापादसन्तानाः सर्वमन्वन्तरेष्वपि ।
भूताङ्गिरकृशाश्वेभ्यो द्वे द्वे दत्ते च भानुजाः ।। ६.३० ।।

भानुनां नक्षत्राणां मनुजः--------- ।
दत्ताश्चतश्रो दक्षाय दशधर्माय तासु वै ।। ६.३१ ।।

बभूवुस्तनयाः प्रायो ज्ञानभक्त्यादिमानिनः ।
अत्रिनेत्रोद्भवश्चन्द्रः सर्वमन्वन्तरेष्वपि ।। ६.३२ ।।

वृक्षाणामौषधीनां च नक्षत्राणां च वल्लभः ।
निशाकरो हिमकरस्तपहृत्सुखदःसदा(कृत्सदा) ।। ६.३३ ।।
(निराशकरो ?)

अमृतांशोसदन्नेशो ह्यब्दिजः श्रीसहोदरः ।
एधमान कलानाथः शशाङ्को लोकबान्धवः ।। ६.३४ ।।

अनसूयासुतावत्रे दत्तदूर्वाससावुभौ ।
योगप्रवर्तको योगाद्ब्रह्मण्यौ ब्रह्मचारिणौ ।। ६.३५ ।।

दत्तो नारायणःसाक्षात्दूर्वासाः शङ्करांशकः ।
संचण्डकोपः पृथया पूजितो मनुमादिशथ् ।। ६.३६ ।।

तेनैव कर्णधर्मादीन्त्रीनसूत सुपूजिता ।
सोम्बरीषादल्पशिष्टद्वादश्यां भोजनेर्थितः ।। ६.३७ ।।

ओमित्युक्त्वा तु कालिन्द्यां मग्नो नागाच्चिरं नृपः ।
विप्राज्ञयाम्भसा चक्रे पारणं साधनेच्छया ।। ६.३८ ।।

तज्ञात्वाथादिशत्कृत्यं राज्ञे सोप्यस्मरधरिं ।
पूर्वमाप्तं हरेश्चक्रं कृत्यां हत्वा विभीषयथ् ।। ६.३९ ।।

स ऋषिः सर्वलोकेशैः विष्णुना च निराकृतः ।
अम्बरीशं प्राप्य तेन मोचितो भोजितोभ्यगाथ् ।। ६.४० ।।

स दूर्वासाः रामकृष्णौ प्राप्य कृष्णामयाचत ।
सद्योन्नं दीयतामह्यं इति तैस्तुष्ट आव्रजथ् ।। ६.४१ ।।

श्रद्धयामङ्गिराः प्राप गुरुमग्निमुचथ्यकं ।
संवर्तकाग्नितनयाः प्रागुक्ताश्च गुरोरभूथ् ।। ६.४२ ।।

भूमावुचथ्यभार्यायां अन्तर्वर्तिरिरंसतः ।
गर्भस्थदीर्घतपसः पादाच्छन्नेभगे भुवि ।। ६.४३ ।।

पतिताद्रेतसो जातो मुनिः परमधार्मिकः ।
भरद्वाजो मरुद्भिः स पालितोभूत्पुरा किल ।। ६.४४ ।।

वैवस्वतेन्तरे चन्द्रवंशे भरतनामके ।
निःसन्ताने सति तदा मरुतस्तस्य तं ददुः ।। ६.४५ ।।

स उदूसत्प्रचुतुत्वन्तुमुत्थाप्य च विसृज्यतान् ।
पुनस्तपोचरद्धीर्घकालं भरतवंशजे ।। ६.४६ ।।

शन्तनौ श्याशितजगद्गङ्गायां चरतस्तपः ।
भरद्वाजस्कन्नमूर्वशी दर्शनादनु ।। ६.४७ ।।

रेतो दधार द्रोणी(णे) सः तस्माद्रोणो भवद्गुरुः ।
तस्मात्कृपी शङ्करांशमश्वत्थामा समाप हि ।। ६.४८ ।।

बृहस्पतेस्तु ताराभ्यां कच आसीत्सुतः पुरा ।
वैवस्वतेन्तरे सोभूच्छुक्रशिष्यः तपोनिधिः ।। ६.४९ ।।

निषिद्धा तेन सा विद्या नस्यात्त इति शासयत् ।
कामातुरापतिर्मास्तु तानि वेत्य(त्थ ?) शपन्मुनिः ।। ६.५० ।।

मृतसञ्जीविनीमाप तेनयातास्ततः क्वचित् ।
देवयानीं गुरुसुतां वने तद्योगमैच्छत ।। ६.५१ ।।

सह विध्य(द्य ?)स्तु शिष्येतो भर्तातेस्तु द्विजेतरः ।
इत्याहातो कविप्रोक्तशिष्येष्वप्यधिकं भवेथ् ।। ६.५२ ।।

देवया(धा)नी हृदे पुत्र्याराज्ञावेदषयघर्षणः । ।
निक्षिप्ता शुक्रशिष्यस्य तयाम्बुक्रीडनेतरा ।। ६.५३ ।।

स्ववस्त्रधारणादात्मक्षिप्तया दुःखिताभवत् ।
ह्रदेऽव सद्देवयानी राजकन्याहृताम्बरा ।। ६.५४ ।।

गतायां राजनन्दिन्यां पुरतः समुपागतः ।
ययातिश्चन्द्रवंशोत्थो मृगयार्थं तदाचरथ् ।। ६.५५ ।।

तां विवस्त्रां समुधृत्य स्वोत्तरीयं ददौ नृपः ।
तं धृत्वा सा गृहं प्रापराजागात्स्वपुरं तदा ।। ६.५६ ।।

तदर्थं कुपितं शुक्रं राजानत्वा प्रसाद्य च ।
गुरोः सुतायै स्वसुतां दासीत्वेऽकल्पयन्नृपः ।। ६.५७ ।।

शुक्रो ययाति नृपतेः कन्यां स्वां प्रददौ मुदा ।
दास्या शर्मिष्टया युक्तां दासी राज्ञे भवेत्सती ।। ६.५८ ।।

यदुःसुतो देवयान्यां तद्वंशः कृतवीर्यजः ।
अर्जुनो यो दशग्रीवं निगृह्य पुनराप तथ् ।। ६.५९ ।।

हृतो दत्तावितोबाहुसहस्रयुगपि स्फुटं ।
तद्वंशजाप्सरसुताद्वसुदेवादभूधरिः ।। ६.६० ।।

इति श्री प्रकाशसंहितायां द्वितीयपरिच्छेदे षष्ठोऽध्यायः