पैप्पलादसंहिता/काण्डम् २०

विकिस्रोतः तः


अथ एकर्चोनाम विंशतिकाण्ड:
20.1
धीती वा ये अनयन् वाचो अग्रं मनसा वा येवदन्नृतानि । तु. शौ.सं. ७.१
तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ।१ ।।
स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत् स भुवत् पुनर्मघः ।
स द्यामौर्णोदन्तरिक्षं स स्वर्विश्वा भुवो अभवत् स आभवत् ।।२ । ।
अथर्वाणं पितरं विश्वदेवं मातुर्गर्भं पितरसुं युवानम् ।
य इं चिकेता अमृतस्य धामन् नित्यस्य रायः परिधीँरपश्यत् ।। ३ ।।
शिवास्त एका अशिवास्त एकाः सर्वा बिभर्ष्यहृणीयमानः ।
गुहा वाच निहितास्तिस्र एता एकेदिदं वि बभूवानु सर्वे ।। ४ ।। बभु
बभु अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्र: ।
विश्वे देवा अदिति: पञ्च जना अदितिर्जातमदितिर्जनित्वम् ।।५ ।।
दितेः पुत्राणामदितेरकार्षं महाशर्मणां महतामनर्मणाम् ।
तेषां हि धाम गभिषक् समुद्रियं नैषां ये अपस: परो अस्ति किं चन ।।६।।
वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।
यस्यामिदं विश्वं भुवनमाविवेश सा नो देवी सुहवा शर्म यच्छतु।।७।।
महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हुवेम ।
तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ।। ८ ।।
सुत्रामाणं पृथिवी द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् । सूत्रा
दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ।।९।।
एकया च दशभिश्चा सुहुते द्वाभ्यामिष्टये विंशत्या च ।
तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वायविह ता वि मुञ्च।।१० ।।
20.2
अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । तु. शौ.सं. ७.३
स प्रत्युदैद्धरुणे मध्वो अग्रं स्वा यत् तनू तन्वामैरयन्त । १ ।
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवा: ।। २ ।।
यज्ञो बभूव स आ बभूव स पृथिव्या अधिपतिर्बभूव ।
स प्रत्य यज्ञे स उ वावृधे पुनः सो अस्मासु द्रविणमा दधातु।।३। ।
देवा यद् देवान् हविषायजन्तामर्त्त्यान् मनसामर्त्त्येन ।
ब्रवाम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ।।४।।
मुग्धा देवा उत शुनायजन्तोत गोरङ्गैर्बहुधायजन्त । र्वहु
य इमं यज्ञं मनसान्वविन्दत् प्र णो वोचस्तमिहेह ब्रवाम ।।५।।
यत् पुरुषेण हविषा देवा यज्ञमतन्वत ।
क्वस्वीत्तदद्य नो श्रेयान् यद् वि हव्येनेजिरे ।।६।
इन्द्रः सुत्रामा स्ववाङ् अवोभिः सुमृडीको भवतु विश्व वेदाः ।
बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ।।७।।
स सुत्रामा स्ववाङ् इन्द्रो अस्मदाराच्चिद् द्वेषः सनुतर्युयोतु ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।।८ । ।
यस्ते पृथु स्तनइत्नुर्य ऋष्वो यो दैवः केतुर्विश्वमाभूषतीदम् ।
मृडया नो विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ।।९।।
यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदक्ष: ।
येन विश्वा वनसि वार्याणि सरस्वति तमिह धातवे कः ।। १० । ।
20.3
इदं ते हव्यं घृतवत् सरस्वतीदं पितॄणां हविरास्यं यत् । तु. शौ.सं. ७.६८
इमानि त उदिता शंतमानि तेभिर्वयं मघवानः स्याम ।। १ । ।
प्रपथे पथामजनिष्ट पूषा प्रपथे दिव: प्रपथे पृथिव्या: ।
उभे अभि प्रियतमे सधस्थे आा च परा च चरति प्रजानन् ।।२ ।।
पूषेमा आशा अनु वेद सर्वाः सो अस्माङ् अभयतमेन नेषत् ।
स्वस्तिदा आघृणिः सर्ववीरोप्रयुच्छन् पुर एतु प्रजानन् ।। ३ । ।
पूषा गा अन्ये तु न: पूषा रक्षत्वर्वत: । ।
पूषावाजां स नो तु नः ।।४।।
पूषन् तव व्रते वयं न रिष्येम कदा चन । ब्रते
स्तोतारस्त इह स्मसि ।। ५ ।।
शुक्रं ते अन्यद्यजतं ते अन्यद् विषुरूपे अहनी द्यौरिवासि ।
विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ।६।
धाता दधातु दाशुषे प्राञ्चं जीवातुमक्षिताम् ।
वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ।।७ ।।
धाता विश्वानि दाशुषे दधातु प्रजाकामाय दाशुषे दुरोणे। ।
तस्य प्रजा अमृताः सं व्ययन्तु विश्वे देवासो अदितिः सजोषाः ।।८ ।।
धाताराति: सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।
त्वष्टा पूषा प्रजया सं रराणा यजमानाय द्रविणं दधातु ।। ९ ।।
धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान ।
सं दाशुषे वहतु भूरिपुष्टा तस्मै देवाय हविषा विधेम ।।१०।।
20.4
सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै ! १ तु. शौ.सं. ७.१४
अथास्मभ्यं सवितर्वार्याणि दिवे दिवे आ सुवा भूरि पश्वः ।।१ । ।
भद्रादधि श्रेयः प्रेहि बृहस्पति: पुरएता ते अस्तु ।
अथेममस्या वर आ पृथिव्या आरे शत्रुं कृणुहि सर्ववीरम् ।।२।।
दमूना देवः सविता वरेण्यो दधद् रत्नं दक्षं पितृभ्य आयूंषि ।
पिबात् सोमं ममददेनमिष्टे परिज्मा चित् रमते अस्य धर्मणि ।३।
तां सवितु: सत्यसवस्य चित्रां वयं देवस्य प्रसवे मनामहे ।
यामस्य कण्वो अदुहत् प्रपीनां सहस्रधारां महिषो भगाय ।।४।।
को नो अस्या द्रुहोवद्यवत्या उन्नेष्यति क्षत्रियो वस्य इच्छन् ।
क पूर्तिकामः क उ यज्ञकामः को देवेषु वनुते दीर्घमायुः ।।५ ।।
कः पृश्निं धेनुं वरुणेन दत्तामथर्वणे सुदुघां नित्यवत्साम् । ।
तां बृहस्पतिना सख्यं दुहानो यथावशं तन्वं कल्पयाति ।।६।।
न घ्रंस्तताप न हिमो जघान प्र सरस्तते पृथिवी जीरदानुः ।
आपश्चिदस्मै सदमित् क्षरन्ति यत्र सोमः सदमित् तत्र भद्रम्।।७ । ।
यस्या उपस्थ उर्वन्तरिक्षं सा न: शर्म बहुलं नि यच्छात् ।। ८ ।।
अन्वद्य नो अनुमतिर्यज्ञं देवेषु यच्छताम् ।
अग्निश्च हव्यवाहनो भवतां दाशुषे मयः ।। ९ ।।
अन्विदनुमते त्वं मंससे शं च नस्कृधि ।
इषं तोकाय नो दधत् प्र ण आयुंषि तारिषन् ।। १० ।।
20.5
अनु मन्यतामनुमन्यमानः प्रजावती समक्षीयमाणम् । तु. शौ.सं. ७.२०.३
तस्या वयं हेडसि मापि भूम सा नो देवी सुहवा शर्म यच्छतु ।१।
अनुमते अनुमन्यस्वतानो या ते वयं चकृमा या तनूभिः । तनु
या ते केषु तनूषु या प्रजायां या गोष्वोषधीष्वप्स्वन्त: ।२।
आ नो देव्यनुमतिर्जगम्यात् सुक्षेत्रता वीरताया सुजाता ।
भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवजुष्टा । ।३ । ।
अनुमतिर्विश्वमिदं जजान यदेजति चरति यच्च तिष्ठति ।
तस्यास्ते देवि सुमतौ स्याम अनुमते अनु हि मंससे न:।।४।।
यत् ते नाम सुहवं सुप्रणीते अनुमते अनुमतं सुदानु ।
तेन त्वं सुमतिं देव्यस्मा इषं पिन्व विश्ववारं सुवीरम् ।।५।।
प्रजाभ्यस्त्वा प्रजास्त्वानुप्राणन्तु प्रजा: त्वं अनु प्राणिहि ।
शुक्र ते शुक्रेण चन्द्रं चन्द्रेणामृतममृतेन प्रीणामि ।।६।।
तपसस्तनूरसि प्रजापतेर्वर्णः । स्तनु
परमेण पशुना क्रीयसे ।।७।।
अभि त्यं देवं सवितारमोण्यो: कविक्रतुम् ।
अर्चामि सत्यसवं रत्नधामभि: प्रियं मतिम् ।।८ ।।
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि।
हिरण्यपाणिरमिमीत सुक्रतुः कृपात् स्वः।।९।।
अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि।
ब्रध्न: समीचीरुषस: समीरयात् ।।१०।।
20.6
अरेपस: सचेतस: स्वसरे मन्युमत्तमा: ।। १ ।।
समेत विश्व ओजसा पतिं दिवो य एको विभूरतिथिर्जनानाम्।
स पूर्व्यो नूतनमाविवासत् तं वर्त्मनिरनु वावृत एकमित् पुरु: ।२।
कुहूं देवीममृतां विदानापसमस्मिन् यज्ञे सुहवा जोहवीमि । तु. शौ.सं. ७.४७.२
यो नो ददाति श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम।।३।।
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविष: शृणोतु ।
सं दाशुषे किरतु भूरिपुष्टा रायस्पोषं चिकितुषे दधातु।४।।
सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् । । ५ । । जानि
मित्रो व: सर्वा: सं सृजान् मयि संज्ञानमस्तु व: ।। ६ । ।
(इत्येकर्चोनाम विंशतिकाण्डे प्रथमो ऽनुवाकः)
20.7
यन्नो अग्निरखनद्यन्न इन्द्रो विश्वे यद् देवा मरुतः स्वर्का । तु. शौ.सं. ७.२४.१
तदस्मभ्यं सविता सत्यधर्मा सरस्वत्यनुमतिर्नियच्छात् । । १ । ।
यूयं नो देवा उभयाय वेधसे शर्म नो यच्छत् द्विपदे चतुष्पदे।
अदत् पिबदूर्जयमानमाशितं तदस्मभ्यं शं योररपो दधात । । २ । ।
बृहस्पते सवितर्बोधयैनं संशितं चित् सन्तरं सं शिशाधि ।
वर्धयैनं महते सौभगाय विश्व एनमनु मदन्ति देवा: ।। ३ ।।
अमुत्रभूयादधि यद् यमस्य बृहस्पतिरभिशस्त्या अमुञ्चत् । मूत्र तु. शौ.सं. ७.५३.१
प्रति मृत्युमौहतामश्विना ते देवानामग्ने भिषजा शचीभिः ।।४।।
इन्द्रावरुणा सुतपाविमं सुतं मद्यं सोमं पिबतं धृतव्रतौ । पिव
युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ।।५।।
इन्द्रावरुणा मधुमत्तमस्य वृष्ण: सोमस्य वृषणा वृषेथाम् । ।
इदं वामस्मे परिषिक्तमन्ध आसद्यास्मिन् बर्हिषि मादयेथाम् ।।६।। वर्हि
उरु विष्णो वि क्रमस्वोरु क्षयाय नष्कृधि ।
घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर । । ७ । ।
दिवो विष्ण उत वा पृथिव्या उरोर्वा विष्णो महो ऽन्तरिक्षात् ।
उभा हि हस्तौ मधुना पृणस्वाप्रयच्छ दक्षिणादोत सव्यात् ।। ८ ।।
विष्णोर्नु कं प्र वोचं वीर्याणि य: पार्थिवानि विममे रजांसि ।
यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगाय: ।। ९ ।।
प्र तद् विष्णुः स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा । । १० ।।
20.8
अग्नाविष्णू महि धाम प्रियं वां पाथो घृतस्य गुह्यानि नाम ! तु. शौ.सं. ७.२९
दमेदमे सप्त रत्ना दधानो उप वां जिह्वा घृतमा चरण्यात् । १ । ।
अग्नाविष्णू महि तद् वां महित्वं वीथो घृतस्य गुह्या जुषाणा ।
दमेदमे सुष्टुत्या वावृधाना प्रति वां जिह्वा घृतमुच्चरण्यात् ।२।
उन्नम्भय पृथिवीं भिन्द्धीदं दिव्यं नभ: ।
उद्नो दिव्यस्य नो धातरीशानो वि ष्या बिलम् । ३ ।। विल
अपक्रामन् पौरुषेयाद् गृणानो दैव्यं सह: ।
प्रणीतीरभ्या वर्तस्व देवो देवानां सख्या जुषाणः ।।४।।
पितोरहं पितुपतिं तदीडे धाता विधर्त्ता भुवनेष्वेषु ।
नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि । ५ ।
अयं पितोः पितुवाङ् अभृतस्वरिदं शृणोतु यदहं ब्रवीमि |
नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि । ६ ।
आत्रैवैनं निर्ऋत आरभस्वात्रैवैनं निर्ऋते प्रक्षिणीह्यात्रैवैनं सर्वं वि वृश्च ।
नेमेन मह्यं मधुमाङ् इहैधि नेमेनामुष्मै विषुवाङ् वैधि । ७ ।।
यत्वा पितरुप ब्रुवे तन्नो आशृण्वस्मिन्निहवे हव्यो यथास: ।
अमुं देवै निर्ऋतिः संविदानामुं सिञ्चन्तु वरुणस्य पाशात् ।।८ । ।
यदस्मृति चकृमा किं चिदग्ने उपारिम चरणैर्जातवेद: !
तस्मात् पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्मात् ।।९।।
अग्ने ऽध्यक्षो न एहि पाहि नो दुरितात् पाहि दुष्वप्न्यात् ।
आशन्या अजन्याद्यक्ष्मान्न: पाहि । । १ o । ।
20.9
त्विषिरसि त्विषिवन्तो भूयास्म ।
चक्षुष्मन्तो गोमन्त: प्रजावन्तो वर्चस्विन: ।। ! १ । ।
---सिञ्चन्नतः क्षीरं भरतो दधि।
इदं तद् विश्वरूपा व: पयोहरामि वीरुधा ! ! २ ।।
यदघ्न ओषधीभ्योऽदभ्यः संभरथा मधु ।
इदं तद विश्वरूपा व: क्षीरं हराम्योषधी । ३ ।।
यो अभ्यु बभ्रुणायसि स्वपन्तमिच्छ पुरुषं शयानमकस्यलम् ।
अयस्मयेन वर्मणाऽश्ममयेन वर्मणा पर्यस्मान् वरुणो दधत् ।। ४ ।।
ये नो गृहे ब्रह्मणा मन्यमाना घोरां वाचं मिथुया नो ब्रुवन्ति ।
ये नो रुचो बलिरुचो भवन्तु दुर्योणमस्मत् परिते हरन्तु । ५ ।
अयमग्नि: सत्पतिर्वृद्धवृष्णो रथीव पक्तीनजयत् पुरोहित: ।
नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यव: ।। ६ ।।
अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
स जास्पत्यं सुयममा कृष्णुष्व शत्रूयतामभि तिष्ठा महांसि । ७ ।।
जुष्टो दमुना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।
विश्वा ह्यग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि । ८ ।
अग्ने सपत्नान् प्र णुदस्व जातान् प्रत्यजातान् जातवेदो नुदस्व ।
अधि नो बूहि सुमनस्यमानः शर्म नो यच्छ त्रिवरूथमुद्भित् | ९ । रुथ
प्रान्यान् सपत्नान् सहसा सहस्व प्रत्यजातान् जातवेदो श्रृणीहि ।
इदं राष्ट्रं पिपृहि सौभगायानु त्वा देवा वसवो ददन्ताम् ।। १० ।
20.10
यो नो मित्रावरुणा अभिदासात् सपत्नो वोत् पिपानो बृहस्पते ।
सर्वं तमग्ने अधरं पारयास्मद् यथेन्द्राहमुत्तमश्चेतयानि । १ ।।
अहमेषामुत्तमश्चेतयानि मम वशमुपतिष्ठन्तु सर्वे ।
आजुह्वानो घृतपृष्ठ: सुवर्चा वसोर्मध्ये दीदिहि जातवेद: ।। २ ।।
अमुमग्ने अधरं पारयास्मज्जामय उत् पिपानं सपत्नम् ।
ये नो धूर्वानधरे ते भवन्तु विश्वा द्वेषांस्यभितो नु वृङ्धि । ३ ।।
मूर्धानं दिवो अरतिं पृथिव्या विशस्त्वा सर्वा बलिहृता उपासताम्।
तासामुग्रो मध्यमेष्ठेयमस्या स्वे क्षेत्रे सवितेव वि राज: ।। ४ ।।
आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टिपतिं रयीणाम् ।
रायस्पोषं श्रवस्युं वसानमिह हुवेम सदनं रयीणाम् । ५ । ।
यस्य व्रते पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आप: ।
यस्य व्रते पुष्टिपतिर्निविष्टस्तं सरस्वन्तमवसे हुवेम । ६ ।
ये ते सरस्वन्न् ऊर्मयो मधुमन्तो घृतश्चुत: ।
तेभिर्नो विता भव: । । ७ । ।
दिव्यं समुद्रं पायसं बृहन्तमपां गर्भं वृषभमोषधीनाम् । वृह
अभीपतो रय्या तर्पयन्तं सरस्वतं रयिष्ठां सादयेह । ८ । रयी
इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत विश्वरूपः ।
इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते स्वधिता गृणन्तु।।९।।
श्येन: सुपर्णो दिव्यो नृचक्षा: सहस्रपाच्छतयोनिर्वयोधा: ।
स नो नि यच्छाद् वसुयत् पराभृतमस्माकमस्तु पितृषु स्वधावत् ।। १० ।।
२ ० - १ १ 20.11
अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्श: । तु. शौ.सं. ७.४१
तरन् विश्वा अवरा रजांसीन्द्रेण सख्या शिव आ जगाम । १ ।।
आगन् देव: सविता सर्वादाया ऊरु ज्योतिरविदामा नवोभि: । ,
महीं नाव मदितेरारुहेमं यत्र सोमं सदमित् तत्र भद्रम् । २ ।।
उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ।। ३ ।।
पतिर्दिवः पतिरग्निः पृथिव्याः पतिर्विश्वस्य भुवनस्य राजति ।
पतिर्विश्वा ओषधीराविवेश पत्नीवानग्निरिह याहि सोमम्। ४ ।।
सं क्रामतं मा जिहीतं शरीरं प्राणापानौ सयुजेह स्ताम् ।
सप्तऋषिभ्य: परि दद्म एतं त एनं स्वस्ति जरसे नयन्तु । ५ ।
यत् त आयुरतिहितं पराचैरपान: प्राणो य उ वाते परेत: ।
अग्निष्टदाहार्निर्ऋतेरुपस्थात् तदात्मनि पुनरा वेशयामि । ६ ।
मा त्वा प्राणो हासीद् यस्तया प्रविष्टो मा त्वापानोवहाय परा गात् ।
संरभ्य जीव: शरदः सुवर्चा अग्निष्टे गोपा अधिपा वशिष्ठ: ।। ७ । ।
राकामहं सुहवां सुष्टुती हुवे शृणोतु न: सुभगा बोधतु त्मना ।
सीव्यत्वप: सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम्।।८।।
यास्ते राके सुमतय: सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा । ९ ।।
या राका या सिनीवाली या गुङ्गूर्या सरस्वती ।
इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये । १० ।
या सुबाहुः स्वङ्गुरि: सुषुमा बहुसूवरी । सुषू
तस्यै विशपत्न्यै हविः सिनीवाल्यै जुहोतनः ।। ११ ।।
सिनीवालि पृथुष्ठके या देवानामसि स्वसा ।
जुषस्व हव्यमाहुतं प्रजां देवि दिदिडिढ़ न:।। १२ ।
या विश्वत इन्द्रमसि प्रतीची सहस्रस्तुतामभियन्तु देवी । .
विष्णोस्पत्नि तुभ्यं राका हवीषिं पतिं देवी राधसा चोदयस्व ।।१३ ।।
(ड्रत्येकर्चोनाम विशांतिकाण्डे द्वितीयो ऽनुवाक: )
20.12
उपह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । तु. शौ.सं. ७.७३
श्रेष्ठं सवं सविता साविषन्नो ऽभीद्धो घर्मस्तदु षु प्र वोचम् ।। १ ।। भिद्धो धर्म
हिङकृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय । २ ।।
गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङ् अकृणोन् मातवा उ ।
सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ।। ३ । । धर्म
सूयवसाद् भगवती हि भूया अथो वयं भगवन्त: स्याम ।
अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती । ४ ।।
संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यन् नमस्यम्।
रिरिक्वांसस्तन्वा सुम्नमायुः सखेत्सख्युर्निमिषि रक्षमाणाः।।५।।
समिद्धो अग्निरश्विना तप्तो वां घर्म आगतम् ।
दुह्यन्ते नूनं वृषणेह धेनवो दस्रा वदन्ति कारव: ।। ६ ।।
समिद्धो अग्निरश्विना रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु ।
वयं हि वां पुरुदमासी अश्विना हवामहे सधमादेषु कारव:।।७।।
यदुस्त्रियास्वाहुतं घृत पयो ऽयं सो अश्विना वां भाग आ गतम् ।
माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं रोचने दिव: ।। ८ । ।
तप्तो वां घर्मो नक्षन्तु स्वहोता प्र वामध्वर्युश्चरति पयस्वान् !
मधोदुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियाया: ।।९।।
उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियाया: ।
वि नाकमख्यत् सविता वरेण्यो ऽनु द्यावापृथिवी सुप्रणीति: ।। १० ।
20.13
स्वाहाकृत: शुचिर्देवेषु घर्मो यो अश्विनोश्चमसो देवपानः ।
तम् उ विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति । १ । ।
सुगा वो देवा: सदना कृणोमि य आचष्टेदं सवनं जुषाणा: ।
वहमाना भरमाणा अभ्रा अस्तं घर्मं तमुदातिष्ठतानु । २ ।।
शिवा न: शंतमा भव सुमृडीका सरस्वति ।
मा ते युयोम संदृश: ।। ३ । ।
उपैनं देवो अग्रभीच्चमसेन बृहस्पति: ।
यजमानाय सुन्वते इन्द्र गीर्भिर्न आ भर । ४ ।।
सं मा सिञ्चन्तु मरुत: सं पूषा सं बृहस्पति: ।
सं मायमग्नि: सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ! ।। ५ । ।
इडा इवास्माङ् अनु वस्तां व्रतेन यस्या: पदे पुनते देवयन्त: ।
घृतपदी शक्वरी: सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी । । ६ ।।
द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा: ।। ७ ।। तु. शौ.सं. १८.४.२८
यस्ते द्रप्सः स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।
अध्वर्योर्वा परि वा य: पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् ।।८ ।।
यस्ते द्रप्स: पतितो ऽवश्च य: पर: स्रुचा ।
अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ।। ९ । ।
यस्ते द्रप्सः पतित: पृथिव्यां धानासोमः परीवापः करम्भः ।
अयं देवो बृहस्पति: सं तं सिञ्चतु वर्चसे ।। १० । ।
20.14
पवस्वतीरोषधय: पयस्वन् मामकं वच: ।।
अथो पयस्वतां पय आ हरामि सहस्रश: ।। १ ।।
अयमग्निर्वरेण्य आयुष्टे विश्वतो दधत् ।
पुनस्त्वा प्राणायति परा यक्ष्मं सुवामि ते । २ ।।
जनाद् विश्वजनीनां विशामुरुक्षितीनाम् ।
दूरात्त्वामन्ये आभृतमीर्ष्याया नाम भेषजम् । ३ ।।
दूरादेतत् संभवन्ति इर्ष्याया नाम भेषजम् । ।
तत् संवेगस्य भेषजं तदस्ना सं गृभायिकम् । ४ ।।
अग्नेरिव दहतो दावस्य दहतो यथा ।
एतामेतस्येर्षां हृद उद्गाग्निमिव वारये । ५ ।
अपमार्ज्यपनयन् मन्यन्ते हृदयादधि ।
अमुष्मिन्नीर्ष्यामादध्म स्ततो एनां नि दध्मसि ।। ६ ।।
तिरश्चिराजेरसितात् पृदाकोरधि संभृतम् ।
तत् कंङ्कपर्वणो विषमियं वीरुददूदुषत् । ७ ।। दूदुर्षत्
इयं वीरुन् मधुजाता मधुश्चुन्मधुला मधूः ।
सा वीह्रुतस्य भेषज्यथो मशकजम्भनी । ८ ।
यतो दष्टं यत: पीतं ततस्त्वा निर्नयामसि ।
अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ।। ९ ।।
अयं यो विख्यो विकटो विपरुर्व्यङ्गमुखान्वेषां वृजिना कृणोषि।
तानि त्वं देव सवितरिषीकामिव सं नम: ।। १० ।
20.15
यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम्। तु. शौ.सं. ६.७१
यदेव किं च प्रतिजग्रहाहमग्निष्टद्विश्वादगदं कृणोतु । १ ।।
यदाशसा मे चरतो जनाङ् अनु याचमानस्य वदतो विचुक्षुभे ।
यन् मे तन्वो मनसो विरिष्ट सरस्वती तदा पृणातु घृतेन ।२।
यदारिम प्रतिगृह्णन्त्व एन: शिसासन्तो बलिमग्ने चरन्त: ।
त्वन्नस्तस्मादेनसो मुमुग्धि वैश्वानर: प्रति हव्या गृभाय । ३ । ।
चक्षुषः पाशान् मनसश्च पाशा दीक्षाया: पाशादुत शक्वरीणाम् !
तस्मान् मुमुग्धि विश्वावसो त्वं नो दातॄणां दानं भुनजामहे वयम्।। ४ । । भुनजा
अदुर्मे विश्वे देवा ऽदात्सवितेदम् ।
अदान् मे ब्रह्मणस्पति: प्रियो मित्रो अदादिदम् । ५ ।
इन्द्रेण मेदिना युजा ऽपवाथे पृतन्यत: ।
अधरे सन्तु शत्रव: ।। ६ ।। ।
अग्निरिन्द्रश्च यद्युवं हतो वृत्राण्यप्रति ।
उग्रा हि वृत्र हन्तुमा । ७ ।।
अग्निमिन्द्रं च यद् वयं पुरोधायै हवामहे ।
तौ नो मृडातीदृशे। ८ ।
याभ्यां स्वरजयनग्रे या वा तस्थतुर्भुवना जुषाणः ।
प्रचर्षणी वृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेहम् । ९ ।
ययोरोजसा स्तभिता रजांसि यो वीर्यैर्वीरतमा शचीभिः ।
यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूति: ।। १० । ।
20.16
ययोरप्षु न महिमा नदीषु प्ररिरिचे प्रति विरोचनायाम् ।
ययोरस्त्यनुमतिर्भूयिष्टं विष्णुमगन् वरुणं पूर्वहूति: ।। १ । । र्भुयिष्टं
ययोरिदं प्रदिशि यद् विरोचते प्र चानति वि च चष्टे शचीभिः । सचीभिः
सह ऋतस्य धर्मणा युवाना विष्णुमगन् वरुणं पूर्वहूति: ।। २ }}
उभा जिग्यथुर्न परा जयेते न परा जिग्ये कतरश्चनैव वाम्।
इन्द्रश्च विषयो यदपस्पृधेथां त्रेधा सहस्रं वि तदीरयेथाम् । ३ ।।
यदशुद्धं यदनृतं यच्चरामि पापया ।
आपो मा तस्मादेनसो दुरितात् पान्तु विश्वत: ।। ४ ।।
दुष्वप्न्यं दुर्जीवितं रक्षो अभ्वमराय्य: ।
दुर्वाच: सर्वं दुर्भूतं तदितो नाशयामसि ।। ५ ।। दुर्भू
यदवामृक्षत् कृष्णशकुनिर्मुखेन निर्ऋते तव ।
अग्निष्टत्सर्वं शुन्धतु हव्यवाट् घृतसूदन: ।। ६ । ।
यदस्मान् कृष्णशकुनिर्निष्पतित आनशे !
आपो मा तस्मादेनसो दुरितात् पान्तु विश्वत: ।। ७ ।।
अग्निर्मा पातु प्रथमो दुर्णाम्नो निर्ऋत्यां विश्वा दुरितानि मृज्महे ।
विश्वे मा देवा मरुतः पुनन्तु वरुणो राजा सविता पवित्रै: !!८ !।
अन्तरिक्षे पतति यातुधान निबोधित: ।
स्तोकं यमभ्यचुच्युत तम् उ स्योनं कृणोमि ते । । ९ । ।
यद् वा कृष्णो अभ्यरुक्षद् देवेभ्यस्परि निर्हतः ।
शिवं ते तन्वे तत् कृण्मो वि ते पाशांश्चृतामसि । १० ।
20.17
तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके।
यथा कृतद्विष्टेदशत्सर्वस्मै शेप्यावते । १ । ।
तृष्टासि तृष्टिकासि विषा विषातक्यसि ।
परिवृक्ता यथासस्यृषभेण वशेव । २ ।।
आ ते ददे वक्षणाभ्य आ ददे हृदयादधि ।
आ ते मुखस्य यद वर्च आ पुंसो यत्र तृप्ससि । ३ ।।
मयि वर्चो मयि श्रवो मयि द्युम्नं मयि त्विषि: ।
अहं ते वर्च आ ददे ऽहं भूयासमुत्तम: ।। ४ ।।
(इत्येकर्चोनाम विंशतिकाण्डे तृतीयो नुवाकः)
20.18
अभि प्रागात् सहस्राक्षो युक्त्वा शपथो रथम् ।
शप्तारमन्विच्छन् यातु वृक इवाविमतो गृहम् ।। १ ।।
परि णो वृङ्धि शपथ ह्रदमग्निरिवा दहन् ।
शप्तारमत्र त्वं जहि दिव्या वृक्षमिवाशनि: ।। २ ।।
यो नः शपादशपत: शपतो यश्च न: शपात् ।
वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु । ३ ।। तु. शौ.सं. ७.५९
शप्तारं यन्तु शपथा य: सुहार्त्तेन नः सह !
जिह्वा श्लोक्ष्णरय दुर्हार्द: पृष्टीरपि शूणीमसि । ४ ।।
यं द्विष्मो यश्च नो द्वेष्ट्यघायुर्यश्च न: शपात् ।
शुने प्रेष्ट्रमिवा वक्षाम तं प्रत्यस्यामि मृत्यवे । ५ ।
प्रेतो यन्तु व्याध्य: प्राणुध्याः प्रो अशस्तय: ।
अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः । । ६ ।।
प्र पतेत: पापि लक्ष्मि नश्येत: प्रामुत: पत: ।
अयस्मयेनाङ्केन यं द्विष्मस्तस्मिन् त्वा सृजाम: ।। ७ ।।
या त्वा लक्ष्मीः पतयालुरजुष्टा अभि चस्कन्द वन्दनेव वृक्षम् ।
अन्यत्रास्मत् सवितस्तामितो धा हिरण्यहस्तो वसु नो रराण: ।।८ ! !
निररणिं सविता साविषत् पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा ।
निरादित्या अनुमती रराणा प्र ण: सुवात् सविता सौभगाय।९।
एकशतं लक्ष्म्य: साकं मर्त्यस्य जनुषेह जाता: ।
तासां पापिष्ठा निरित: प्र हिण्म: शिवा अस्मभ्यं जातवेदो नि यच्छ । १० । ।
20.19
यत् त आत्मन् तन्वां घोरमस्ति यद् वा केशेषु प्रतिचक्षणे वा।
तत् ते विद्वान् अपबाधे अहं प्र त्वा सुवात् सविता सौभगाय।१। वाधे
निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि ।
यथा नो ऽस्य सीदतो रायस्पोषमिहा सुव । २ ।।
अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्यं सं चरन्ति । चक्षुं
यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायसे अग्रे अह्नाम् ।३। रुपे
इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति । तु. शौ.सं. १९.५
ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ।। ४ ।।
शकुनिर्भूत्चा प्रभवस्ति पिण्पलं पत्या निविष्टा यदि वाघ पत्न्या ।
भीमाघोरा लक्ष्म्यो: सह भव्यास्ता इतो हविषा निर्यजाम। ५ ।
या ते गृहेषू तया धनेषु प्रजा लक्ष्मीर्यदि वा ते बभस्ति ।
तां बृहस्पतिर्हविषा वाधमानो निर्ह्वय प्रदध्मादधिदूरमस्मत् । । ६ । ।
रिश्यपदिं वृषदतीं गोषेधां विधमामुत ।
विलीढयं व्याधिं ब्रह्मणा तां अनीनशम् । ७ ।।
प्रत्योषन्तीमुत्सङ्गिनीमुतचित्रानुतारिणीम् ।
सिंहीं ज्येष्ठलक्ष्मीं व्याघ्रीं नाशयामसि । ८ ।
अनुध्यायिनीं परिचरां विबद्धामुत हिंसतीम् ।
रोदस्य पत्नीं रोदनां प्रपदसामलक्ष्म्य: । ९ ।
वामस्पृहां पितृषदं एषन्तीं तपनीमुत ।
असिद्धन्ती प्रध्वंसिनी मष्ट्रावधां च लक्ष्म्यं ब्रह्मणा तामनीनशम् । १० ।
20.20
असन्मन्त्य्रां वचस्यां संपिबन्तीं शक्वरीम् ।
उत् तदा जनङ्गमां प्रताधमामि लक्ष्म्य: । । १ ।।
या ते घोरा तन्वामाविवेश या ते लक्ष्मी: सर्वाः समक्ताः ।
अग्निष्टे तास्वदत्त सौभगायापः शुन्धन्तु बृहते रणाय।।२।।
अदेवरघ्नीं वरुणापतिघ्नीं बृहस्पते।
इन्द्रपुत्रघ्नीं लक्ष्मीमस्यै ता: सवित: सुव । ३ ।।
या ते लक्ष्मीश्चाक्षुषी यो तदस्तु या हस्तयो: स्तनयोर्योपपक्षयो: ।
श्रोण्योर्भंससि या पदोष्ठे सर्वास्ता अति क्रामन् घोरा:।४।।
ऊरुभ्यां ते अष्ठीवद्भ्यां प्रार्ष्णीभ्यां प्रपदाभ्याम् । उरु तु. शौ.सं. २०.९६.२१
लक्ष्मी: श्रोणीभ्यामङ्गभ्यो या: पापीस्ता अनीनशम् । ५ ।
अपाश्लीलं पृथिवी हन्तु यत् पदोरुप यो हस्तयोर्वरुणो मित्रो अर्यमा । रूप
अपादित्या अनुमती रराणा प्र ण: सुवात सविता सौभगाय।६।
एता एना व्याकर खिले गा अदितीरिव ।
रमन्तां भद्रा लक्ष्म्यो याः पापीस्ता अनीनशम् । ७ ।
सायुषी नाम वा असि सहमाना सहस्वती ।
गृहकपोतिमनुवर्तिनीं कुलायिनीं ता इहा वेशयामसि । ८ । नुब
संचारिण्युभैर्या बभूवान्या अन्यां जिन्वति भद्रपापी: ।
तां लक्ष्मी निहवान यो मे भद्रां सुभद्रामपि सौभगाय । ९ ।
एकशतं लक्ष्म्यास्तासां राज्ञी बभूविथ ।
भद्राभिर्भद्रे संभूय भट्रेणाभि सजस्व न: ।। १० ।
२ o - २ १ 20.21
दिवस्पृथिव्या: पर्यन्तरिक्षाद् वातात् पशुभ्यो अध्योषधीभ्यः। पयर्न्त तु. शौ.सं. १९.३
यतो लक्ष्मी वृजिना: संबभूव सा ब्रह्मणा प्रच्युता दूरमेतु ।१।
वालदुच्छस्य च गन्धेन हिरण्यवर्चसेन च ।
आ तु पुष्करिण्या यो गन्धो भगो मा तेन जिन्वतु । २ । ।
यदिन्द्रो अग्रे असुरान् जघान यतो लक्ष्मीर्न्यदधुर्मर्त्येषु ।
तासां पापिष्ठा निरित: सुवाम: शिवा अस्यै जातवेदो नि यच्छ। ३ ।।
या त्वा लक्ष्मीर्देवरघ्नी या पतिघ्नी गृहेभ्यस्त्चा नुदते या व्याडाः ।
अतस्त्वमेनसो मुच्यमानोत्तरेमा: स्रोत्या: सप्तसाकम् ।। ४ !
निपिशन्तीं नितुदन्तीं संपिबन्तीं न्यक्वरी ।
प्रभङ्गा भ्रूणघ्नीं लक्ष्मीं ब्रह्मणा ता अनीनशम् । ५ ।
उदोजिष्ठां सहस्रां जयन्तीमपराजिताम् ।
लक्ष्मीर्याः पुण्या: कल्याणीस्ता अस्यै सवित: सुव । ६ ।
अलक्ष्मी: समलिप्सत समलिप्सत लक्ष्म्य: ।
अजैषुर्भद्रा लक्ष्मी: परा पापीरजेषत । ७ ।।
लक्ष्मीणां लक्ष्मीतमे लक्ष्मीणामधिपा असि ।
तं चाहं शुद्धो गोप्स्यामि देवजा हि बभूविथ । ८ ।
सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ सचेतसौ ।
येन संगच्छादुप मा स तिष्ठादन्तर्वदामि हृदये जनानाम् || ९ || !
सभा सेना समितिश्वावतां प्रजापतेर्दुहितर: सचेतस: ।
येन वदाम्युप मा स शिक्षादन्तर्वदामि हदये जनानाम् । १० : :
20.22
मां वदन्तु मानु सर्वे वदन्तु मां प्राणन्तु मानु प्राणन्तु भये
मां विशन्तु मानु सर्वे विशन्तु मयि देवा एकव्रता भवन्तु । १ ।।
सूर्यो मा चक्षुष: पातु बृहस्पतिर्वाच: सोमो राजा सभाया: |
इन्द्रो वो दृशे भवामि । २ ।
वेद वै ते सभे नाम सुभद्रासि सरस्वति ।
अथो ये ते सभासदस्ते मे सन्तु सुवाचस: ।। ३ ।।
इमा या ब्रह्मणस्पते विषूचीर्वात ईरते । इर
सध्रीचीरिन्द्र ता: कृत्वा महां शिवतमा: कृधि । ४ ।।
अहमेषां हस्तिरसमहं विज्ञान मा ददे ।
सर्वस्या: अस्या: संमदो ऽहं भूयासमुत्तम: इन्द्रो योगायथामिव । ५ । । उत्तममवोत्तमे कृध्युत्तमा हि बभूविथ ।
यां त्वा भुरण्युरुन्वैच्छन् गन्धर्व शारदः शतम् ।। ६ । ।
अभिभूरहमागममहं भूयासमुत्तम: ।
इदं प्रतिप्रवादिनं द्विषन्तमवधून्वे । ७ ।।
उरुष्टे वस्तिर्भवतु समुद्रस्य बिलं यथा ।
पुरोदकमिव सिच्य तं मूत्रन्ते तन्वस्परि । ८ ।
यथा वातो यथोदकं यथा समुद्र एजति ।
एवा ते गर्भ एजतु निरैतु दशमास्यो बहिर्जरायुणा सह। ९ ।
इदमुच्छ्रेयो ऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् ।
असपत्ना: प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु । । १० ।।
२ ० - २ ३ 20.23
वास्तोष्पत इह नः शर्म यच्छ भद्राच्छ्रेयो अभि नो नेषस्व ।
अरिष्टा वीरा इह मे भवन्तु द्विपाच्चतुष्पान् मय्यस्तु पृष्टम् ! ! १ |
अनमीवो वास्तोष्पते विश्वारूपाण्याविशन् । स्तष्प
सखा सुशेव एधि नः । २ । ।
ऋतेन स्थूणा अघि रोह वंशोग्रो विराजोन्नप वृङ्क्ष्व शत्रून् ।
मा ते रिषन्नुपसत्तारो अत्र विराजां जीवात् शरद: शतानि।।३।।
आरोहतं पक्षावमृतं वसानौ दंपत्यो: कृणुतं दीर्घमायु: ।
तत्र नारी पुत्रिणी जीवपत्नीदं कुलायमुप संविशाति । ४ ।।
अग्निर्मा विश्वाद् दुरितात् पुनातु मातरिश्वा पवमान: पुरस्तात्।
सोमो मा पातु मरुतो बृहस्पतिर्वायुश्च मा पवमान: पुनीतां । । ५ । ।
त्वया सत्यं वि जयन्ते तव सत्यं वि वाचनम् ।
अग्रे वृक्षस्य जायस इमं जनय पौरुषम् । ६ ।
वृक्षस्य शतशाखस्य मा धुन्तस्य निकृन्त नः ।
बिभीतकस्य यत् फलं तेन त्वोन्मादयामसि । ७ ।। विभी
पूर्वे वातात् प्र पततं पूर्वे पततमश्विभ्याम् ।
ईमेन्वर्वणी अहमुह्ने वाग्निमवीवरे । ८ ।
मा यक्ष्ममिह हाशिष्ट मारिष्वन्तो विगातु नः ।
सुभूतमस्मभ्यं धत्त युष्मानन्वेतु किल्बिषम् । । ९ । । किल्वि
इह वर्च इह पय इह चक्षुरुप ह्वये ।
इहेन्द्रियं दधातन । १o ।
20.24
आ हि हरि अवाप्ततामिमं वत्संवनादियम् ।
आपकामं ह्यघ्न्ये वत्सो देवीममारते । १ ।।
ये त्वोप विदुर्विदुन् निजवत् शेप दोहस्व ।
अहं ते वेद: सं मन: संवननस्य वेदते । २ । ।
एष ते अघ्न्ये वत्सस्तं वाञ्छ: ।
तं सत्योक्तिं ब्रूम: ।। ३ ।।
या सरस्वती गोवननी सा वामेनां कसान्येत्य । गोबननी
इमां गां वानयतु स्वाहा । ४ ।।
(ड़्त्येकर्चनाम विंशतिकाण्डे चतुर्थो ऽनुवाक: }
20.25
दूराद् भेषजमाभृतम् बहून्यतियोजना: ।
अपश्यमस्यन्तं रुद्रं अदुष्टं दुष्कृतं करत् ।। १ । । दूष्टं
भिनद्मि ते परावतो वत्सस्य शेप्यामिव ।
वृषेदसो यथा मयि कृष्णो विषाणवाङ् इव । २ ।।
सर्वा गाव: संमनसः सत्सभय: सनाभयः ।
समानं बिभ्रतीर्नावं वत्सान् उज्जिहतामिथ: ।। ३ ।।
इन्द्रस्त्वाग्रे अवानयत् सविता त्वोतो ऽपर: ।
तृतीयमश्विना त्वाघ्न्ये वांञ्छ: ।। ४ ।।
आ ते नयतु सविता सविता नयतु बृहस्पतिः।
पतिर्य: पतिकाम्यस्तमस्मै धेह्योषधे । ५ ।
इन्द्रं वयमनुराधं हवामहे अनु राध्यास्म द्विपदा चतुष्पदा ।
मा नः सेना अररुषीरुप गुर्विषूचीरिन्द्र द्रुहो वि नाशय ।। ६ । ।
भग प्रेहि प्रथमोनु त्वा वयमेमसि ।
इन्द्राग्नी ब्रह्मणास्मान् स्वस्ति नयतां पथा । ७ ।।
अदितिः प्रैतु प्रथमा बृहस्पति: पुरयेता ते अस्तु ।
इन्द्रोभयान् व्यस्यतु शूद्रांश्च न आर्याश्च । । ८ ।।
इमे ये अनसि युक्ता उष्टारा उत्त पील्वा: ।
तेषां समग्रभं पद: समीर्मान् समुसक्थ्य: । ९ ।
विमध्यमा अप्रोषत गर्दभा क्षिपिता इव !
अथासुरस्य मायया न इदं स्थापयामसि ।। १० ।।
20.26
सं मा भगेन द्विगुणेन वर्चसा सं मा पृथिव्या सं मौषधीभि: ।
सं मा पयो मयोभुवो भगेन वर्चसा सिचन्। १ ।।
वर्चो मे मित्रावरुणा वर्चो देवी सरस्वती ।
वर्चो मे अश्विनोभा धत्तां पुष्कर स्रजा । २ ।।
ऋचं साम यजामहे याभ्यां कर्माणि कृण्वते ।
वि ते सदसि राजतो यज्ञं देवेषु यच्छताम् । ३ ।।
अङ्गमङ्गं सं तनोमि चक्षुः प्राणमथोबलम् ।
प्रिया: श्रुतस्य भूयास्मायुष्मन्त: सुमेधस: ।। ४ । ।
एतन् नो देव सवितर्जगर्दात्री च रक्षितम् ।
पूषैनत् पुनराजत्वविलिष्टमविहृतम् । ५ ।
यावन्त्येव पलितानि साकं यज्ञिरे अग्रश: ।
तेभ्य: परि ब्रवीमि त्वा कृष्णा: केशा भवन्तु मे । ६ ।
कृष्णान् केशान् सिनीवाली कृष्णान् केशान् सरस्वती ।
कृष्णान् मे अश्विना केशान् कृणुतं पुष्करस्रजा।।७।।
अदो यदग्ने देवानां पुरस्तादवतिष्ठति।
तन् मे अब्रवीत् त्वष्टा विलिष्टभेषजम्।।८।।
विश्वथाया असि विश्वभेषज्याकृता।
यदामयति निष्कृधि निष्कृतिर्नाम वा असि।।९।।
सं ते चृतामि तगरीं सं योनिं सं गवीन्यौ ।
सं मातरं च पुत्रं च सं गर्भं च जरायुजम् ।। १० । ।
२०-२७ 20.27
तिर्यङ् ते गर्भो भवतु हृदयेष्टं जरायु ते । ।
आा दोषमग्निमारोहाद् गच्छेयमसादनम् ।। १ ।।
वि ते चृतामि तगरीं वि योनिं वि गवीन्यौ । ।
वि मातरं च पुत्रं च वि गर्भं च जरायुजम् । २ ।।
अन्नं ते गर्भो भवत्वनुसोत जरायुजे ।
यथा त्वं पुत्रं विन्दस्व यथा जीवासि भद्रया । ३ ।।
प्रवृष्ठे गर्भ मन्दो यो वियोनि आस्यं सृज ।
निरैतु दशमास्यो गर्भो गविन्योरधि । ४ ।।
विष्कम्भेण वि ष्कम्भाय तौ विश्वञ्चौ व्या कुरु ।
एष वामग्निरन्तरा स विश्वञ्चौ व्यस्यतु । । ५ ।।
विस्कम्भो विष्कभायतु मनश्च हृदयं च वाम् ।
वि वर्तय नि वर्तय शश्वतीभ्य: समाभ्य: ।। ६ । !
समुद्रं त्वा प्र हिणोमि स्वां योनिमपीहि ।
अछिद्रस्तन्वा भूयासं मा परा सेचि मे पय: । ७ ।।
यदत्रापि रसस्य मे परा पपातास्मृतम् ।
तदिहोप ह्वयामहे तन् म आ प्यायतां पुन: । ८ ।
कविरग्ने प्र विलेषु धर्ता केशाङ् अधारयत् ।
इहैव विश्वतोदधत् धाता त्वष्टा त्वचि केशान् अचीक्लृपत्।। 1९ ।।
सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।
मन्त्रे हिरण्यवर्तने प्र ण आयूंषि तारिषन् ।। १० । ।। आयुंषि
20.28
यदप्सुते सरस्वति गोष्वश्वेषु यन् मधु ।
तेन नो वाजिनीवति मुखमङ्धि सरस्वति वर्चसा। १ ।।
यो अद्य देव सूर्य त्वां च मां चान्तरायति ।
तस्मिन् दुष्वप्न्यं सर्वं दुरितानि च मृज्महे ।। २ । ।
यो नोभिच्छायमत्येष्यग्निं तिष्ठत्यन्तरा ।
तस्य वृश्चामि ते मूलं न छायां करवोपरम् । ३ ।।
घ्नन्त्वेनं देवेषवो ब्रह्मणो घ्नन्तु मेन्या: ।
यो ऽस्माकं प्रजापते अग्निं तिष्ठत्यन्तरा । ४ ।।
प्रजापते यो ऽस्माङ् आ वृश्चाग्निं तिष्ठत्यन्तरा ।
तं मृत्यवे प्रयच्छामि स रुद्रस्यास्त्वा गण: । ५ ।
प्र सुवैनान् देव वज्रेभ्यो मृत्युविक्रमतामधि ।
सिनात्वेनान् निर्ऋतिर्मृत्यो: पाशैर्बन्धैरविमोक्यै: ।। ६ ।।
सुमङ्गलेन वचसा केशिन् ग्रामान् न आ वद ।
ब्रह्मणा ब्रह्मणा त्वोलूकाछा वदामसि । ७ । ।
पराङ् एव परावतं पराचीमनु संवतम् ।
यथा यमस्य त्वा गृहेरसं प्रतिचाकशान्
निरस्तं प्रतिचाकशान् । ८ ।
शूनमुलूक नो वद यं द्विष्मस्तमितो नय ।
राज्ञो यमस्य ते गृहे सिकता उर्वि देव्यमाखुस्ते मूषिकेभागः ।। ९ ।।
आा वद बहुलं गोष्ठं धीतवत्समनुष्टुगम् ।
ध्वाङ्क्षाय द्विपदां वद शुने चतुष्पदां वद । १o ।
20.29
पुनर्मे राजा वरुणः पुनरिन्द्र: पुनर्भगः ।
पुनर्मे विश्वे देवा आयुर्जीवातव आदु: ।। १ ।।
उत्तिष्ठात: प्र द्रवार्वाङ् मात्र तिष्ठो ऽभिचाकशत् ।
सपत्न्या वर्च आदायाथास्माभि: सहामसि । २ ।
उत्तिष्ठत निर्द्रवत न व इहास्तु न्यञ्चनम् ।
अमुष्य वित्तमभि व: सुवामि तदनुवपध्वं सुदतीरहिनस्तत् ।३।
यो ऽस्माकं सबन्धवो विष्ठिताः पृथिवीमनु ।
तेषामिन्द्र इव देवानामहं भूयासमुत्तमः । ४ ।।
ये अग्नयः पार्थिवा आहिता: पृथिवीमनु ।
तेषामसि त्वं सङ्गथे स नो जीवातवे कृधि । ५ ।
चित: स्थ परिचित: स्थाग्नय: स्थ निहवा नाम ।
तेनो मा निहवान् वध्यान् तेभ्यो वो नमो नवोहं वमेमि ।
यो ऽस्मां द्वेष्टि यं वयं द्विष्म: सो ऽव वो हवमेतु ।।६।।
इन्द्राग्नि पुनराकूतिं नयत स्थिरवीरावपरावीत गू ।
अस्माकं सर्वा निहवे सन्त्वेषां वयं विद्याम गुह्यं नाम गवाम्।।७।। }
प्रजापतेरनु नि क्रन्दय विश्वे देवाः पदवाया: संत्वासाम् ।
आदित्या अनु संगत्य शूरा इन्द्रज्येष्ठा: पुनरावर्तयन्तु । ८ ।
इन्द्र प्रणेतर्वर्धय मामश्ववान् वहतु मां स्वश्वः ।
ऐन्द्राग्नं वर्म प्रतिमुञ्चमानो यथोभयेभ्यश्चारु समिति मा वदानि ।। ९ । ।
चारुवाक् चारुवदनश्चारु संकाशी नो नृभि: ।
य द्वेष्य: प्रतीकाशो जिगीवाङ् अपराजित: । १० ।
20.30
अपि वृश्च पुराणवद् व्रततेरिव गुष्पितम् । तु. शौ.सं. ७.९
ओजो दासस्य दम्भय । १ ।।
यथेतदस्य संभृतं मधु तदिन्द्रस्य वि भजावहै ।
म्लापयामि भ्रज: शिभ्रं वरुणस्य व्रतेन ते । २ । ।
यथा शेपो अपायस स्त्रीषु चासदनावयाः ।
अवस्थस्य क्नदीवतो भंगुरस्य नितोदिन: ।
यदुत्ततमवतत्तनु यदाततं नि तत्तनु ।। ३ ।।
अमी म्लापयन्ते तन्वं क्लीबं त्वा वीरुधाकरम ।
अन्त: कोश इव कोशेषु स्त्रीष्वप्याकृतश्चन: ।। ४ । ।
आा नो मेदं गृहपतिर्दधात्विन्द्रेण मेदिना ।
आ नो मेदं सरस्वत्या नो वहन्ति सिन्धव : ।। ५ ।
मेदं धाता मेदं पूषा मेदमिन्द्रो दधातु मे ।
मेदं मे अश्विनोभा धत्तां पुष्करस्रजा । ६ ।
ऊरू मेदं य मे बाहू अष्ठीवन्ता उरश्च मे ।
अपां पर्यस्य उदरे मेदमिन्द्रो दधातु मे । ७ ।।
चर्मणीवोपनीतस्य सर्वान् केशान् वृहासि ते ।
अयस्पात्रमिव ते शिरो यथासत्समरं समाम् ।। ८ ।।
(इत्येकर्चनाम विंशतिकाण्डे पञ्चमो अनुवाकः)
20.31
दिवस्तार उदसिश्रसन् सप्त सूर्यस्य रश्मय: ।
धारा: समुद्रिया आपः स्तास्ते शल्यमुच्चिच्युवुः । । १ ।।
ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत् कृतं नः ।
रथैरिव प्र भरे वाजयद्भि: प्रदक्षिणं मरुतां स्तोममृध्याम् ।।२ ।।
सप्त स्रवन्ति शिशवे मरुत्वते पिता पुत्रेभ्यो अप्यवीवृतन्नृतानि ।
उभे पिपृत उभे अस्य राजत उभे यतेते उभे अस्य पुष्यत:।।३।।
वेद स्वस्तिर्द्रुघण: स्वस्ति परशुर्वेदिः परशुर्न: स्वस्ति: ।
हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो हविरिदं जुषध्वम्।।४।।
उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
अगन्म बिभ्रतो नम: ।। ५ ।
इमा यास्ते शतं हिरा: सहस्रं धमनीरुत ।
तासां ते सर्वासां साकमश्मना बिलमप्यधाम् । ६ ।
इदं खनामि भेषजं मां पश्यमभिरोरुदम् ।
येना निचक्र आसुरीन्द्राणी केवलं पतिम् । ७ ।।
अक्षौ मे मधुसंकाशे अनीकर्णौ समञ्जनम् ।
अन्त: कृणुष्व मां हृदि मन इन्नौ सहासती । ८ ।
त्वाष्ट्रेणाहं वचसेर्ष्यां व्यमीमदम् ।
अथो यो मन्युस्ते पते तमु ते शमयामसि । ९ ।
व्रतेन त्वं व्रतपते समक्तो हा विश्वा सुमना दीदिहीह ।
तं त्वा वयं जातवेद: समिद्धं प्रजावन्त उप सदेम सर्वे । १o ।
20.32
प्रजावती: सुयवसे रिशन्तीर्मा वो विद्युतरन् मोतसेना ।
सुगे तीर्थे सुप्रपाणे पिबन्ती: परिवृह्य वधं गोहनं चरन्तीम्। १ ।। पिव
पदज्ञा स्थ रमतय: संहिता विश्वरूपा ।
उप नो देवीर्देवेभिरेत ।
इमं गोष्ठमिदं सदो घृतेना न: समुक्षत । २ ।।
या ग्रैव्या अपचितो अथो या उपपक्ष्या: ।
विजान्मि या अपचित: स्वयं स्रसस्ता इतो नाशयामसि ।३।
सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन । तु. शौ.सं. ७.७७
युष्माकोती रिशादस: ।। ४ ।।
यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
तस्मिन्तान् पाशान् प्रति मुञ्चतां यूयं तपिष्ठेन तपसा हन्तना तम् ।। ५ । ।
संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषेभ्यः ।
ते अस्मत् पाशान् प्रतिमुञ्चन्तु सर्वान् सांतपना मत्सरा मादयिष्णव: ।। ६ ।।
धृषत् पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ।।७ । ।
युनज्मि त्वा ब्रह्मणा दैव्येना ऽस्मै क्षत्राणि धारयन्तमग्ने !
दिदिढ्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु । ८ । ।
वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् ।
इहैव त्वमजस्र एध्यग्ने। ९ ।
प्रजापते नहि त्वदन्यो विश्वा रूपाणि महिना यजान ।
यत्कामास्ते जुहुमोस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ।१० ।।
20.33
यत् ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा ।
सेमं यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ।।१।।
घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वा मनुरद्या समिन्थे।
घृतं ते देवा आप्या वहन्तु घृतं तुभ्यं दुह्रते गावो अग्रे । २ ।।
मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।
मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ।। ३ ।।
ततो धृतव्रतो राजा सर्वा धामानि नो मुञ्च । ४ ।।
धाम्नोधाम्नो राजन्नितो वरुण नो मुञ्च ।
यदापो अघ्न्या इति वरुणेति यदूचिम ।
ततो वरुण नो मुञ्च । ५ । तु. शौ.सं. ७.८३
यो रुद्रो अग्नौ यो ऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।
य इमा विश्वा भुवनानि चाक्लृपे तस्मै रुद्राय नमो अस्त्वद्य।६।
अपेह्यरिरस्यरिर्वा असि ।
विषे विषमपृक्था अहिमेवाभ्यपेहि तं जहि । ७ ।।
पृतनाजितं सहमानमग्निमुग्रं हुवेम परमात् सधस्थात्।
स नः पर्षदति दुर्गाणि विश्वा क्षामद् देवो ऽतिदुरितान्यग्नि: ।। ८ ।।
यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु।
यदश्रवन् पशवं उद्यमानं तद् ब्राह्मणं पुनरस्मानुपैति ।। ।। ९ । ।
20.34
शं मा वातो अभिवातु शं मे तपतु सूर्यः ।
अहानि शं भवन्तु मे शं रात्री प्रति धीयतां
शमुषा मे व्युच्छतु । १ ।।
उतिष्ठत पितरो ये पुरा स्थ यमं राजानमवशानमर्चत: ।
अयं नृणानृते यः श्रेष्ठ आगन्तस्मै लोकं कृणुता यावत्सबन्धु।। २ ।।
यस्येदं शस्यं प्रतिमाकृतं देवैर्दत्तमसूर्यं च संभृतम् ।
त्रि: सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन।३।
अगमन् गाव: सदनमपप्तद् वसतिं वय: ।
आस्थाने पर्वता अस्थु: स्थाम्नि वृक्कावरीरमम् । ४ ।।
आ गावो गोष्ठमगमन्नाग्निधानान्यग्नय: ।
आ वृक्कौ समभित्सातामुत्सक्तभेषजमसि ।। ५ ।।
यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम्।
एवा रोगं चास्रावं च मुञ्जस्तिष्ठत्यन्तरा।।६।।
अस्थादिदं विश्वं भुवनमस्थाद् वातो वनच्यवः।
अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद् रोगो अयं तव।।७।। उर्ध्व
शतं यद् भेषजानि ते सहस्रं संभृतानि च ।
तेषामसि त्वमुत्तमं अनाश्रावमरोगणम् ।
श्रेष्ठमास्राव भेषज वसिष्ठं रोग नाशनम् ।। ८ । ।
यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्नवृणीमहीह !
ध्रुवमयो ध्रुवमुता शमिष्ठ प्रजानन् विद्वान् उप याहि सोमम्।९।
समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन् सं स्वस्त्या ।
सं ब्रह्मणा देवकृतं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ।। १० ।।
20.35
सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन । तु. शौ.सं. ६.५३.३
त्वष्टा सुदत्रो वरिव: कृणोत्वनु नो मार्ष्टु तन्वो विरिष्टम् । १ ।
संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषादश्च देवाः ।
इमं यज्ञमभिविश्वे गृणन्तु स्वाहा देवा अमृता मादयन्ताम् ।।२ । ।
यानावह उशतो देव देवांस्तान् प्रेरय पुनरग्ने स्वे सधस्थे ॥
जक्षिवांस: पपिवांसो मधून्यस्मै धत्त वसवो वसूनि । ३ । ।
अयन्नो यज्ञो अप्येतु देवानुत्तरां वेदिमप्येतु वेदिः। नुतरां
विमुञ्चाम्यृत्विजो दक्षिणाभिर्देवा यज्ञैश्च पुनरुत्तरावत् । । ४ ।।
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ ।
स्वां योनि गच्छ स्वाहा ।।५।।
एष ते यज्ञ यजमानः सहसूक्तो नमोवाकः ।
सुवीरः स्वाहा।। ६ । ।
मनसस्पत इमं देव यज्ञम् ।
स्वाहा वाचि: स्वाहा वाते धा स्वाहा । ७ ।।
स्वाहाहुतेभ्यो वषट् हुतेभ्य: ।
देवा गातुविदो गातुं वित्त्वा गातुमित: स्वाहा । ८ ।
सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुभिः सं मरुद्भि: ।
सं देवेभिर्विश्ववेदेभिरक्तमिन्द्रं गच्छतु यत् स्वाहा ।। ९ ।।
आशासाना सौमनसं प्रजां चक्षुरथो बलम् ।
इन्द्राण्या अनुव्रता सं नह्ये अमृताय कम् ।। १० ।
20.36
इन्द्राणी नारी सुभगा सुपत्न्युदंशेन पतिविद्ये बिभेद ।
त्रिंशद्यस्या जघनं योजनान्युपस्थ इन्द्रं स्थवीरं पिपर्त्तु । १ ।।
सेनासि पृथिवी धनंजया अदितिर्विश्वरूपा सूर्यत्वक् ।
इन्द्राणी प्राषाट् संजयन्ती तस्यै त एना हविषा विधेम । ।२ । ।
अजिरोत्तिष्ठत्युत्थिताग्रे त्वरी प्राषाट् तूर्त्तमुप चरन्तीम् !
प्राषाट कस्त्वियिषोग्रे त्वरिकत्स्वयिष मे स त्वा भद्रे । ३ ।।
पर्यावर्ते दुष्वप्न्यात् पापात् स्वप्नादभूत्याः ।
ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखा: शुचः । ४ ।।
यत् स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते ।
सर्वं तदस्तु नः शिवं नहि तद् दृश्यते दिवा ।। ५ । ।
(इत्येकर्चनाम विंशतिकाण्डे षष्ठो अनुवाकः)
20.37
विश्वं विव्यज्मि पृथिवीव पुष्टमायदायत् प्रतिगृह्णाम्यन्नम् ।
वैश्वानरस्य महतो महिम्ना स्योनमस्मभ्यं मधुमत् कृणोतु । ।१ । !
त्रिशृङ्गमसि दुरभिधर्षमिन्द्राय ध्रियसे ।
पूषा ते प्राषिता ! । २ ।।
पाहि नो अग्ने तन्वं पाहि गाः पाहि यत् तनू कृतम् । ..
अहुतादावमर्त्यौ तावस्मिन् पातु अंहसः ।। ३ । ।
यौ देवानामहुतादावमर्त्यौ स्वर्भानुश्च स्वर्ज्योतिश्च ।
तयोस्त्वास्येन प्राश्नाम्यग्नेष्ट्वा वैश्वानरस्य त्चास्येन प्राश्नामि ।। ४ ।।
दक्षश्च त्वा मानस: प्राश्नीतां स्वर्भानुश्च मारुत: ।
सा पृणन् पूर्त्वा वि राधिमो वयं प्रजया धनेन । ५ ।
अनाधृष्यस्य ते पितोरनाधृष्य: शवसः ।
सर्ववीरा: सर्वात्मानो भक्षं क्रियास्म । ६ ।
कामो मे राज्ञः प्र विवेश त्वां तमहं निरुह्यये पुन: ।
गृहेषु गोषु मे मनो अक्षोरस्तु मे भगो जिह्वायामस्तु मे रसो बाह्वोरस्तु मे बलमूर्वोरस्तु मे जव: ।। ७ ।। वाह्वो
दिवो ऽसि निर्मथितं पृथिव्या अध्युद्भृतम् ।
समुद्रादुच्यसे जातमक्ष्यामय भेषजमस्याथर्वणम् । ८ ।
पूषा पुरस्तादावर्तय चतस्रो भूम्यादिश: ।
सगलिग पूषलिग पुनर्न नष्टमायति जीवेन भुनजामहै।९।
यदाभरच्छृजदग्नि: तेजने नष्टवेदनम् ।
खर्गलेव पुनर्दहं पुनरस्माश्विना नष्टमाजतम् । १० ।
20.38
यद्यस्यप्रियजा यदि वान्यत आभृतः ।
विसल्पकस्य भेषजीर्देवीराप इमामवन् । १ ।।
वयस्य पूतिकस्य दृशाम्वस्योत शर्मुत: ।
तेषां समग्रभं शुष्ममाशूनान् धावतामिव ।। २ । ।
यस्तनुः पृथुर्वीणा वधू इव प्र सर्पति ।
मयूरः किल ते विषं कृक वा कृश्च जक्षतु । ३ ।।
उदीचीन: प्र तनोति नितत्नीर्भूम्यामधिम् । र्भुम्या
ओज्मानं पश्य वीरुधो मिथुना समवीवनत् । ४ ।।
नि त्वा तनन्नितत्निना परि त्वा गां सहीयसा ।
सेनादभिद्रवीयसी सुपर्णान्नि गरीयसी । ५ ।
यदत्रापि मधोरहं निरिष्टं विषमश्नुतम् ।
अग्निश्च तत् सविता च पुनर्मे जठरे धत्ताम् ।। ६ ।।
अग्ने रुद्रस्य जायासि दुहितासि प्रजापतेः ।
उच्चै: श्लोको दानपत्नी हवीश्रव उप त्वा ह्वयस्व उप त्वा मा हयस्व । ७ ।
नरिष्टा नाम वा असि ।
यासौ हरिणो वृक: उलादधि प्र स्कन्दति ।
एवा नि स्कन्दति पित्र्यात् भगं जयन्ती धनं जयन्ती ।। ८ ।।
रिज्यश्वा मह्यमब्रवीत् गन्धर्वस्यानुशासनम् ।
एतत्ते पतिवेदनम् ।। ९ । ।
पाटा भिनत्ति कुम्भीं पाटा कुम्भी गो दहनीम ।
पाटा सर्वस्य पात्रस्य वधूं कृणोतु विश्वत: ।। १० ।
20.39
अपेहि तक्मन्चर परो अन्यमस्मदिच्छ पुरुषं किं च दैवम् ।
वेद ते तक्मन् पितरं वेद मातरम् ।। १ ।।
शमीवान् यशसामेति शमीवानभिशोकः ।
अभिशोकोहार्षणी हर्षणी जांजभि: ।। २ ।।
यः पशूनां मार्जनीयो यं त्वमंशेन भेजिषे ।
अभि हि तक्मन् न गर्दभं न मामभ्येतुमर्हति । ३ ।।
विस्निस नाम ते माता किकसा नाम ते पिता ।
शमिदा नाम ते स्वसा ।
गिरिं गच्छ गिरिजा असि गिरी ते माहिषो गृह: ।। ४ ।।
दासी चक्रमा स्थापनास्ना ते निष्क्रन्दयिष्यति ।
आा वातो वात्वनघः सर्वस्य दूतो अभिशस्ति या: ।। ५ ।।
जलासमित् प्र सिञ्चतु तद्विषस्यापसिञ्चतु ।
यामस्यति पृश्निबाहुरिष्टं हरिद्रुपर्ण्यम् ।। ६ ।।
तामस्य निष्खिदामसि यथा जीवासि भद्रया |
अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च । ७ ।।
उत् कुलमुद्वहो भुवोदुह्यत् प्रतिधावतात् ।। २
एतं दन्तं निर्ऋत्या घोरमाहुर्यस्त आसन्नवरूढ एष: ।। ८ । । न्नवरुढ
तं दुर्हार्दे प्रहिणोमि घोरं मा नो हिंसीज्ज्यायसो मा कनीयसः । हींसी
शिव: शग्म भवतु दन्त एष मा नो हिंसीज्ज्यायसो मा कनीयसः ।।९।।
हींसी अघमारमघशंसं निर्ऋथं तं ते दन्तं सचतां घोर एषः । । १० ।।
20.40
अघमारमघशंसं निर्ऋथं दुहार्दे दन्तं प्रहिणोमि घोरम् ।
सो अस्यात्तु द्विपदश्चतुष्पदः शिवो अस्मभ्यं सुमना अत्स्वेषः । ।१ । ।
शिवं ते दन्तं हविषा कृणोमि शिवो मह्यं कुर्वते दन्तो अस्तु ।
शिवानि ते त्रीणि त्रिकद्रुकाणि सन्तु शिवो मह्यं नभसीरोदसीस्ताम् । २ ।।त्रिणि
पुरुरूपा पृथुपेषा अरंकृद्वहतोरसि ।
प्रतिष्ठासि चतुष्पदां यस्त एष पञ्चमः पादस्तं तेन प्रतिगृह्णामि । ।३ । ।
स सर्परी रमतिं वाधमाना बृहन् मीमाय यमदग्नि दत्ता ।
आ सूर्य दुहिता ततान श्रवो देष्वमृतमदुर्यम् । ४ ।।
स सर्परीरभरत् भूयमेभ्यो ऽधिश्रव: पाञ्चजन्याषु कृष्टिषु ।
सा पक्षीया न भूमायुर्दधाना यां मे पुलस्ति यमदग्नयो ददु:।।५।।
अघ्न्ये ये दूरमुत्क्रन्दन्निपदचतुरो जहि ।
अथा गो दुह: शीर्षणि शपां उरसि वा दय । ६ ।
शृङ्गाभ्यामुपस्रष्टारं पदावर्तय गो दुहम् ।
अथो ये अन्ये तिष्ठन्ति तान् विशूचो विनाशय । ७ ।।
यथानर्त्ता सक्षिकाजिं कुल्पं मभिनृत्यति ।
एवा त्वमघ्न्ये पद: सर्वान् साकमुदर्दय । ८ ।
उदुक्षीरमुत्तभितं स्यन्दन्तामस्य धेनव: ।
असृक्तस्य गावो दुहां यो अस्मान्नापचायति ।। ९ । ।
ऋक्षीकाया यथा मनो व्याघ्रस्य यथा मन: ॥
एवा तस्य गवां मनो अस्मान्नापचायति । १० ।
20.41
उत्तमो अस्योषधीनां वीरुधां बलवतम: । तु. शौ.सं. ६.१५
स स्यन्दन त्वमोषधे सर्वा स्यन्दन गा इमा: ।। १ ।।
अरन्तुरथन्तुम् ।
वनेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद् वर: । २ ।
अकृदश्वो अकृत् खरो अकृदश्वतरो हरिः ।
एवासि बाह्लिके तव भसन्नदत्याशिता । ३ । बाल्हि
यथा नदति गर्दभो एवानदति ते भसत् ।
व्रीहेर्यवस्य माषस्येतत् पश्याभि दर्शनम् ।। ४ ।।
उद्भरे द्यावापृथिवी उदाप उदग्निमुदिन्द्रमुत्सूर्यमुद्रात्रीमुदह:।।५।।
नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे ।
मेक्ष्वाम्यूर्ध्वस्तिष्ठन् मा मा हिंसीत्षुरीश्वरा: ।। ६ । । हींसि
यन् मेस्त्वा यदप्सरसः पयो देवीरहृषत् ।
तदिहोपह्वयामहे चक्षुषे च बलाय च देवानां देवहूत्या मयि त्वा देवता: पुन: ।। ७ ।
यास्य दोषा रसस्य मे त्वं देवी तत् अर्पिथ ।
नाराशंसेन स्तोमेनाहं त्वत् पुनराददे युष्मदप्सरसस्परि ।। ८ । ।
यन् मे तन्वो रसं वयमुदप्सरसस्परि ।
नाराशंसेन स्तोमेन प्रजामाप्यायामहे । ९ ।
यन् मे पयो विषिषिचे जाग्रतः स्वपतश्चयत् ।
पुनस्तदद्य मे देवा आसिञ्चतु तनू अधि ।। १० ।।
20.42
यदद्य दुग्धं पृथवीमसक्तं यदोषधीरप्यसरद्यदाप: ।
वत्से पयो गवि पयो यदस्मा अस्मत् सृजतां पय:।।१।।
परापतन्त्वाशवोऽश्वा अथो धुरं यथा ।
एवा मूत्र प्रभिद्यस्व वि वस्तेरा सं सृज । २ ।।
विषितं ते वस्थिबिलं समुद्रस्योदधेरिव । ।
प्रते भिनद्मि मेहनं वर्त्तं वेशन्त्या इव । ३ ।।
अस्य पारे समुद्रस्य शुक्रं ज्योतिरमर्त्यम् ।
तं न: पात्त्वं हसस्तन्नः पातु विश्वत: ।
आ नो मेधा सुमतिर्विश्वरूपा हिरण्यवर्णा जगती जगम्यात्।। ४ ।।
सा नो अग्ने मेधा जुषतामिह प्रचेता: ।
निष्क्रामत्वृषिर्यो अत्र प्रविष्टो वयांश्च सयुजा या विहस्त: ।। ५ ।
सप्तऋषीणांस्यूमरश्म पथैतु अश्वान् मृगान् पुनरप्येतु कृष्ण: ।
सप्तऋषीन् गच्छस्यूमरश्म ये मृगान् कृष्ण: सृजतां वाजो अश्वम्।। ६ । ।
ईडे अस्मान् सुप्रजस: सुवीरान् सह यज्ञेन पयसा सजाते ।
नमोऽस्त्वृषये स्यूमरश्मये नम: कृष्णायोत यो वाजी अस्य । ७ ।। स्युम
नमो देवायार्वतेषु जिष्णवे यं नो वाजी प्रतिरात्यायु: !
अतियन्त्यहान्यति रात्रि रत्युषस: ।। ८ । ।
आपो अन्तर्ध्वावरीस्ताभिरन्तर्दधे त्वा ।
यथा नैवाघ्न्येमासि बह्वीः शुष्यन्त्वोषधीः ।। ९ । । वह्वीः
एवा प्रशुष्यमामनु यच्च पश्यामि यच्च न ।
पाटा बिभर्त्यङ्कुशं हिरण्यवन्तमङ्किनम्। विभर्त्य
तेनाहं मन्वेषां स्त्रीयं आ लुन्यामि ममेदसून् ।। १० ।।
(इत्येकर्चनाम विंशतिकाण्डे सप्तमो अनुवाकः)
20.43
इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहं ।
सर्वमायुर्जीव्यासम् ।। १ ।।
अनाभूरस्मि नहि भवे तन्त्यां बद्धो दिवा विश्रित: ।
आहात्वा निर्ऋतये । २ ।।
रन्तिरसि रमतिरसि ।
सं श्रुतेन राधिषीय मा श्रुतेन वि राधिषि । ३ । । धिषि
दर्शो ऽसि दर्शतो ऽसि विश्वतः संदृष्ट: ।
सोमो ऽसि रुद्रो ऽसि । ४ ।।
तं त्वा यं देवा अंशुमाप्यायन्ति तं त्वा यमादित्या अंशुमाप्यायन्ति ।
तं त्वा यमक्षितमक्षित ये पिबन्ति
स नः सोमः प्रतिरद् दीर्घमायुः ।। ५ । ।
अन्येषां प्राणेना प्यायस्व मास्माकं प्राणेन ।
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्य प्राणेना प्यायस्व।।६।।
चिदसि समुद योनिः श्वेन ऋतावान्।
सोमपीथोप न एह्यर्वाङ् रायस्पोषेण प्रजया धनेन।।७।।
स्वरव स्थ नमो वो महतामूर्जायै। मुर्जा
पर्णामावगाम्।।८।।
प्रजापतिः परमेष्ठी नारदो नाम वा असि।
बृहस्पतिः प्रजापतिर्नारदो ब्रह्मचारिणः।।९।।
अपश्चाद् दग्धान्नस्य भूयासम् ।
अन्नादायान्नपतये ये रुद्राय नमो अग्नये । १० । ।
या ते वसोवात इषुः सा त एषा ।
तया नो मृड ।। १ १ । ।
20.44
अग्निस्तक्मानमपबाधतामितो वरुणो ग्रावा मरुतः पूतदक्षा: । वाध तु. शौ.सं. ५.२२
बर्हिषदः समिधः शोशुचानास्तक्मनः शोमां अभिनिर्नुदन्तु ।। १ ।। वर्हि
यो अद्य बभृणायसि स्वपन्तमिष्वारुषं शयानमकोविदम् ।
स नः सहस्रवीर्यानुष्ठीत: शिवो भव । । २ । ।
देवोयातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ।। ३ । ।
अनुयातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । । ४ । ।
ब्रह्मयातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पद यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ।। ५ । ।
मनुष्ययातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म: ।। ६ । ।
परेतयातुरसि मृडो ऽसि ।
मृडास्माकं द्विपदे चतुष्पदे मा तस्य मामृडो द्विपदे चतुष्पदे यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।। ७ ।।
अवभरणो नामसि देवत्राणो अक्षमाप: ।
यीस्मां द्वेष्टि यं द्विष्मस्तत आसन्नपि दध्म: । । ८ । ।
यददोस्नाना आसुरो दीक्षितो चरत् ।
तस्य यन् मलमवाश्रवत्स हि नासीतावदनुष्ट्या त्वा विद्मा रसं वृश्चिक ते विषम् । ९ ।
केतुलुङ्गा नाम ते माता कर्कट: पिता ।
तात् सत्यमरसमभग ते विषम् । १० ।
ते उभे अरसे । ११ ।
20.45
विश्व वित्तं नष्टमनु पश्यसि।
अदो मे नष्टं तन् मे पुनर्धेहि।।१।।
विश्वकर्मन् तत् त्वमुपगच्छसि ।
विश्वव्यचस्तत्वय्यद्धाहितम् । । २ । ।
अदो मे नष्टं तन्मे पुनर्धेहि ।
परि पूषा पुरस्ताद्धस्तं दधातु दक्षिणम् ।
पुनर्नो नष्टमाजति जीवेन भुनजामहै। ३ ।।
इन्द्रस्त्वाभ्यैत् सर्पतु त्वाग्रेष्ठा: दधात् ।
तदास्रावस्य भेषजं तदु रोगमनीनशत् ।। ४ ।।
विष्णोर्मनसा पूतो स्थ देवो वा सवितोत् पुनातु ।
विष्णोर्मनसा पूतमसि देवस्त्वा सवितोत् पुनातु ।
अच्छिद्रेण पवित्रेण सहस्रधारेण सुप्लवा । ५ ।
हृदा पूतं मनसा जातवेदो विश्वानि देवो वयुनानि विद्वान् ।
सप्तास्यानि तव यान्यग्ने तेभ्यो जुहोमि जुषस्व हव्यम्।।६ ।।
अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अधिराज एषः ।
तस्मै जुहोमि हविषा घृतेन मा देवानां योयुवद् भागधेयम्।।७।।
यस्ते केशाङ् अवाचीनान् क्रिमिर्बृहति मूर्धत: ।
प्राणं तस्योप दाशया वीरुध: खनति भेषजी । ८ ।
वेद वै ते भगन्नाम भूरिर्नामासि रयिर्नाम ।
तं त्वा भग प्र विशामि स मा भग प्र विश । २ । ।
तस्मिन् सहस्र काण्डे नि मृजे भग त्वयि ।। १० । ।
20.46
आ मा गच्छन्तु ब्रह्मचारिणो स्वाहा । १ ।। चारी
चराणि स्वाहा । २ । ।
वि राजानि स्वाहा । ३ ।।
असानि भद्रेभ्य: श्रेयान् स्वाहा । ४ ।।
यशस्विजनुतामनुचराणि स्वाहा । ५ ।
देवानां मा मनुष्याणां पशूनां ब्रह्मचारिणाम् । चारी
प्रियं प्रजापते कृणु स्वाहा । ६ ।
हा अम्वपनेचरी । ७ ।।
अयं मे हस्तो अक्षितो रुदति तमु मे अगदं कृधि । ८ ।
त्वं क्षितस्य भेषज्युभयो रक्षितस्य च ।
उदेलडी । ९ ।
असुरसि स्वाहा ।
क्रतुरसि स्वाहा । १० ।
20.47
पुरुषो ऽसि स्वाहा । १ ।।
विजातिरो ऽसि स्वाहा । २ ।।
प्रजापतिरसि स्वाहा । । ३ ।
स्वजातिर्नामासि स्वाहा । ४ । ।
स्वजातिरसि स्वाहा । ५ ।
वेद वै ते नारद नाम वाग्नामासि
तस्य ते यशो भक्षीय । ६ ।
वेद वै ते सनात् कुमारनाम चक्षुर्नामासि तस्य ते मधु भक्षीय । ७ ।।
20.48
स्नुषासौ सेनास्या: सेनाया इहास्याः स्वसुरो यमस्या: स्वसुरः ।
सा यथा स्नुषा स्वसुरा दधस्पद्यते अधरा पद्यते नीचि पद्यते।।१।।
एवासौ सेनास्याः सेनाया अधस्पद्यतामधरपद्यतां नीचि पद्यताम् ।
सेहाग्निभ्यां हतवीरां हतपूरुषां पराजितां प्रशुभै तु परमां परावतम्।।२।।
तमिन्द्राग्नि हतवीरां हतपूरुषां परजितां प्रणुत्तां यतीमनु वाक्शीताम्।
पराजित एत्वसावमुष्यायणो अमुष्याः पुत्र: ।। ३ ।।
अस्नाव्यक्त एतु ।
अघं हिरण्येत्वसावामुष्यायणो अमुष्या: पुत्र: ।। ४ ।।
अघप्रतीको ऽघेनैनं विध्याम: ।
अभूया एनं पाशेसि त्वा दुष्वप्नेन संसृज्य मृत्योर्व्यात्त आसन्नपि दधामि । ५ ।
२ ० – ४९ 20.49
सृजाम्याप उशतीरुषेमा: सं रराणा: पयसा सं बभूवुः ।
दत्तो अस्मभ्यं द्रविणेह भद्रा अपां प्रति प्रतिगृह्णात्वेनाः।। १ ।।
उत्स्रयस्व बहुर्भवस्वेन महसा यव । वहु
पृणीहि सर्वा पात्राणि मा त्वा दिव्याशनिर्वधात् । २ ।।
आशृण्वन्तं यवं देवं यत्र त्वाच्छावदामसि ।
तदुत्स्रयस्व द्यौरिव समुद्रेवैध्यक्षित: ।। ३ ।।
अक्षितास्त उपसदो अक्षिता: सन्तुराशयः ।
प्रणतो अक्षिता: सं त्वत्तार: सं त्वक्षिता: । । ४ । ।
सकृद्ध द्यौरजायत सकृद् भूमिरजायत ।
सकृद: पृश्न्या दुग्धं तदन्यो नानु जायते
मा त्वानुजनि कश्च न । ५ ।
इष्वग्रमिषु या वनं मणिं कृण्वेषु मङ्गलम् ।
समा शरव्याभ्य: पातु दिवा नक्तं च जीवसे । ६ ।
प्रतिष्ठितोसि ब्रह्मणा जम्भयामसि त्वा वयम् ।
अपामार्गेण विद्वला इदं त्वाप मृज्महे युवन्तं क्षिवन्तं त्वं जहि ।। ७ ।।
शीर्णं तं एतन् न क्षुतं तत् एतत् संयुतं दुक्षुतं तुभ्यमस्तु ।
रुद्राशनिष्टे जघनेन ग्रीवा इन्द्र इव वृत्रं वज्रेण हन्तु ।। ८ ।।
अनुहवं परिहवं परिवाद परिक्षवम् ।
सव्ये मे रिक्तकुम्भान् परा तान् सवित: सुव । ९ ।
अपपापं परिक्षवं पुण्य भक्षीमहि क्षवम् । ।
शिवा ते पाप नासिकां पण्डकश्चाभि मेहताम् ।। १० ।
20.50
अभि त्वा पञ्च शाखेन हस्तेनाधां सहीयसा ।
यथा न विद्विषावहै न विभवाव कदा चन । १ ।।
चक्रवाकं संवननमश्वस्य स्वं करम्।
अमु स्वं कृणोतु मे यमहं कामये प्रियम् । २ ।।
यत् कक्षीवान् संवननं च्यवनश्चक्र आसुरः ।
तद् वां कृणोमि दंपती संप्रियौ भवतं युवं ।। ३ ।।
यथा संयुक्तौ पक्षिणौ संप्रियौ चरतौ मृगौ।
एवा संयुक्तौ ब्रह्मणा संप्रियौ भवतं युवं। ४ । ।
प्रेहि प्र हर पादावा गृहेभ्यः स्वस्तये ।
कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद ।। ५ ।।
भद्रं वद दक्षिणतो भद्रमुत्तरतो वद ।।
भद्रं पुरस्तान् नो वद भद्रं पश्चात् कपिञ्जल ।।। ।। ६ ।। ।
शुनं वद दक्षिणतः शुनमुत्तरतो वद ।।
शुनं पुरस्तान् नो वद शुनं पश्चात् कपिञ्जल ।। ७ ।।
यौवनानि महयसि जिग्युषामिव दुन्दुभि: ।
कपिञ्जल प्रदक्षिणं शतपत्राभि नो वद । । ८ ।।
(इत्येकर्चनाम विंशतिकाण्डे अष्टमो अनुवाकः)
20.51
उत्तभ्नामि गवां क्षीरमुद्रथं रथवाहनम् ।
उत्तभ्नाम्यस्माकं वीरा मयि गावश्च गोपतौ । १ ।।
उत्तभ्नातु सविता देवो अग्निरुन्मित्रावरुणावश्विनोभा ।
सर्वान् सपत्नानवधीर्युगेन विशां पतिरुपसृतैध्यत्र । २ ।।
त्वं हि रुद्र वशिनी निर्नेषे त्वं देवेषूत मानुषेषु ।
यदीशानो नयसि यच्च हिंस्यस्माकमस्तु पितृषु स्वधावत् ।। ३ ।।
वायवा रुन्धि नो मृगानस्मभ्यं मृगयद्भ्यः।।
स नो नेदिष्टमा कृधि वातो हि रशनाकृत:।। ४ ।।
उदसूर्य उदयत् कृत स्थामगच्छतु ते पुनः ।
यतो नि लयते यत् कृतं तत् प्रस्तम्भमाजतु।
मेमं पृथु प्रवर्तने जघनं स्त्वम्भनं कर । ५ ।
याः पार्श्वे संतनोति हृदयं जिह्वया सह ।
तां त्वं देवी पृथिवी हिक्कामरसां कृधि । ६ ।
अनुसृप्तां गहनेषु धूक्ष्णां पापीं शिमिद्वतीम् । ।
तामेतां दस्यूनां दासीं प्र दहातश्चुकाकणि।७।
प्र पपात: सुकटनाळि सुषे: कुषीतकी यथा ।
स्रक्वे ते प्रियं धक्ष्यामि सा नशिष्यसि पृत्थगि ।।८।।
यदास्याः स्रक्वे दहेद्यदा मूर्धानमग्निना ।
अथैषा दस्यूनां दासी पुत्थगि नि लयिष्यते ।।९।।
अहरहर्बलिमित् ते हरन्तो ऽश्वायेव तिष्ठते घासमग्ने ।
रायस्पोषेण समिषा मदन्तोग्ने मा ते प्रतिवेशा रिषाम। १o । ।
20.52
रात्रीं रात्रीमप्रयातं भरन्तो ऽश्वायेव तिष्ठते घासमस्मै ।
रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम।।१।।
अग्न आयूंषि पवस्वा सुवोर्जमिषं च न: ।
आरे बाधस्व दुच्छुनाम । २ । ।
त्रीण्यायूंषि तव जातवेदस्तिस्रो व्युष्टीरुषसस्ते अग्ने ।
तिस्रोस्ते तन्वो देवशंसितास्ताभिर्नः पाहि सदमप्रमादम् ।। ३ ।।
पाहि नो अग्न एकया पाहि न उत द्वितीयया ।
पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो । ४ ।। उर्जां
समीची मघायनी पातामायुष्मत्या ऋचो मा छैत्सि ।
तनूपा: साम्नो वसुविदं लोकमनुचराणि । ५ ।
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुन: ।। ६ ।
भगेह्यर्वाङ् उपमामिह त्वं मदो नामासि मयि मादयामुम् ।
सुरा त एकमभवज्जनित्रमग्नेरधिजातो ऽसि ब्रह्मणाः तेजसा च ।। ७ ।।
सहानया प्रविशेह अन्तरामाम् प्रविशेह ।
विशन्त्येहि प्रविशन्त्येह्या मा विश प्र मा विशो उप त्वाह्य उप मा ह्वयस्व ।
नरिष्ठा नाम वा असि । ८ ।
यथापः प्रवता यन्ति यथा मासा अहर्ज्जरम् ।
एवा मा ब्रह्मचारिणो धातरायन्तु सर्वदा । ९ ।
आ गन्ता मा रिषण्यत प्रस्तोतारो माप स्थात समन्यवः ।
दृढासो अमयिष्णवो मावपिष्यवः ।। १० । ।
20.53
धाता ते हस्तमग्रहीत् सविता ते हस्तमग्रहीत् । ..
मित्रस्त्वमसि धर्णणाग्निराचार्यस्तव ।। १ ।।
अग्ने ब्रह्मचार्यसि मम ब्रह्मचार्यसि ।
प्रजापतिष्टवा गोपायतु देवाय त्वा सवित्रे परि ददामि स्वस्ति चरतादिहासौ । २ ।।
विश्वमसि विश्वपते सर्वमसि सर्वपते ।
तं त्वासौ देवाय त्वा सवित्रे परि ददामि स्वस्ति चरतान्मयि । ३ ।।
समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरतामिहास्तु ।
विश्वा द्वेषांसि दुरिता हित्वायं त्वनु व्रता सवितुर्दैव्यस्य ।।॥४ ।।
आ नो हस्तौ अकृतागाः स्वर्गः पुनरैतु तन्वा सम्विदानः ।
प्राणेन तेजसा हरसा बलेन मित्रो अस्मान्वरुण भयतस्पातु ।।५।।
यत् काम कामयमाना इदं कृण्मसि ते हविः ।
तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ।। ६ ।।
यद्वर्चो द्यावापृथिव्योरथो यदाञ्जनं त्वयि ।
तेन सुचक्षार्वर्चस्यहं भूयासमाञ्जन ।। ७ । ।
यदसृक् श्लिष्टं यद् दिवा स्वप्न यानुश्लिष्टं।
आश्लिष्टावच्छेदनमस्यभिदृष्ट वीर्यम्।।८।।
अववारिव वारिवा अव वर्षं गिरेरिव।
अव ज्यामिव वारिवा अव वर्षं गिरेरिव।
अवज्यामिव धन्वनो हृदि श्लिष्टं छिनद्मि ते।।९।।
यत् ते हृदि श्लिष्टं यच्चाश्लिष्टं पुरीरति ।
मध्ये सृष्ठीनां यच्छ्लिष्ट तत् पार्ष्णावछिनद्मि ते । १० ।
20.54
यत् ते श्लिष्टं क्लोम कर्णेषु यच्च शिश्नेषु नाभ्यां । सिस्नेसु
इन्द्रस्तदब्रवीद् भिषक् पार्ष्णिराश्लिष्टावत् छेदनीम् ।। १ ।।
एषां वै दुष्टं हनामि पार्ष्णिराश्लिष्टावत् छेदनीम् ।
इदमहममुष्मिन्नामुष्यायणे ऽमुष्याः पुत्रस्याश्लिष्टं प्र छिनद्मि।।२ ।।
विपश्चित् पुच्छमाभरत् तद्विष्णुः पुनराभरत् ।
तदग्निना मनसा संविदान पुमांसमस्यै पुत्र देहि स्वाहा । ३ ।।
विपश्चित् पुच्छमाभरत् यर्ज्जरहस्ताचित्या ।
यथास्या: पुत्रो जायतां अभिभूर्णो विपश्चिता । ४ ।।
अपेहीतो विपश्चित् त्वं पुमानयं जनिष्यते ।
पुमान् पुंसो अधि संभूतः स पुमानेव जायताम् । । ५ ।।
भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् ।
ऐंग्रा दुष्वप्न्यं सुव यद् भद्रं तन्न आ सुव । । ६ ।।
अक्षिवेपं दुष्वप्न्यमार्तिं पुरुषरेषिणीम् ।
तदस्मदश्विना युवमप्रिये प्रति मुञ्चतम् ।। ७ । ।
यत् पार्श्वादुरसो मे अङ्गादङ्गादुपवेपते ।
अश्विना पुष्करस्रजा तस्मान् नः पातमंहसः ।। ८ ।।
यदीदमृतकाम्याघंरिप्रमुपेयिम ।
अन्ध: श्रोता इव ह्रीयतां मा नोन्वांगादघं यत: ।। १ ।।
अरिप्रा आपो अपरिप्रमस्मत् ।
योस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्मिन् दुष्वप्न्य मा सृजामि । १० ।
20.55
अदर्शि गातुवित्तमो यस्मिन् व्रतान्यादधुः ।
उपो षु जातमार्यस्य वर्धनं सोमं गच्छन्तु नो गिर: ।। १ । ।
प्र दैवोदासो अग्निर्देवाङ् अच्छा न मज्मना ।
अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि। २ ।।
यस्माद्रेजन्तु कृष्टयश्चर्कृत्यानि कृण्वतः ।
सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्दुवस्य च । । ३ । ।
आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
भवा वाजस्य संगथे । ४ । ।
आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः । ।
भवा नः सुम्नयुः सखा वृधे ।। ५ । ।
सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः ।
आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ।।६।। ।
विद्म त्वा वयं सोमं राजानं ये त्वा न विदुः ।
तेषां चक्षुषा श्रोत्रेण प्राणेन प्रजया पशुभिर्गृहैर्धनेना प्यायस्व।।७।।
आपीलो अस्मान् आ प्यायच्चक्षुषा श्रोत्रेण प्राणेन
प्रजया पशुभिर्गृहैर्धनेना प्यायस्व।। ८ । ।
यद् वेद राजा वरुणो वेद देवो बृहस्पतिः ।
इन्द्रो यद् वृत्रहा वेद तत् सत्यं चित्तमर्हणम् ।। ९ ।।
सर्वेण नीलशिखण्डेन भवेन मरुतां पित्रा।
विरूपाक्षेण बभ्रूणा वाचं वदिष्यतो हतम्।।१०।।
२०.५६ 20.56
एतद् वदन्यत्र जिघांसति यदन्यत्र विवीषत।
तद् वश्चित्तममूमुहं तद् वश्चित्तमनीनशम् ।। १ ।।
अस्ति वै पथां निष्कुटं नदीनां च निरङ्कुशम् ।
तद् वश्चित्तममूमुहं तद् वश्चित्तमनीनशम् ।। २ ।।
यानि व: सप्तचेतांस्यष्टौ यानि मनांसि च । ।
तद् वश्चित्तममूमुहं तद् वश्चित्तमनीनशम् ।। ३ । ।
इन्द्रण मेदिना युजाग्निना जातवेदसा।
तेन वः चित्तममूमुहं तेन वः चित्तमनीनशम् ।। ४ ।।
प्रतीचीनान् वो अभ्यधामश्वमिवाश्वाभिधान्या ।
कृण्वे वो मामके वशे पदोरुपानहौ यथा । ५ ।
देवानां समिदसि देवानां यातुरसि ।
यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व । ६ ।
रोचे मा प्रकाशे मा कृष्ण्वाविदन् मा गमयः ।
अनु मा बुध्यन्ताम् । ७ ।।
वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।
अपध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ।।८ ।।
अप्सुजातस्य महतस्पर्यश्मनः ।
स्वयं जातस्य शोचिषो ऽद्भिः पर्वतानां शये । ९ ।
उतोदिनीं समिद्वतीं दुर्गा योनिर्व्यद्वला ।
मृगाङ् अनु प्र पातय मरीचीरनु नाशय ! ।। १० ।।
अश्वस्याश्वः संपतिता पर्णे ते वसतिष्कृता । तिस्कृता
असृक् पतत्रिणामसि जहि वामून् प्र बाधसः । । ११ । ।
असूक्तो अधि जातोसि पर्णे ते सदनं कृतम् ।
आाण्डं पतत्रिणामसि जहि वामून् प्र बाधसः ।। १२ ।।
यथा गर्दभो विवर्धनाद्वधूयुर्व्यपलायते ।
एवासौ पलायताममुष्मादध्या नयत् ।। १३ ।।
20.57
सनिरसि सनितासि सनेयम् ।। १ ।।
कृतिरसि कर्तासि क्रियासम्। २ ।।
वित्तिरसि वेत्तासि विदेयम् ।। २ । ।
भूतिरसि भवितासि भूयासम्। ४ ।।
भूरसि सुभूरसि सुभूर्नामासि ।। ५ । ।
प्रजापतेर्मध्यमः श्रेष्ठो रश्मिरसि ।
भूतये त्वा वित्तये त्वा पशूनां त्वा वित्तय आ दधामि ।। ६ । ।
अग्निर्वह्निर्वह्निरग्निः।।७।।
इन्द्रारोद्धा प्रजापतिः प्रजाता।
बृहस्पतेस्त्वा मुखेन याचामि । ८ ।
प्रजापतेष्ट्वा मुखेन याचामि ।
सूर्यस्य त्वा चक्षुषा प्रतीक्षे अदब्धेन त्वा चक्षुषावेक्षये ।। ९ ।। व्धेन
अयुतोहमयुतोमात्मा अयुतं मे चक्षुरयुतं मे श्रोत्रमयुतो मे प्राणो अयुतो मे ऽपानो अयुतोहं सर्व: ।। १० ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आरभे ।
अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन । ११ ।
इन्द्रस्य त्वा जठरे सादयामि वरुणोस्योदरे ।। १२ ।।
यो ऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्ट: ।। १ ३ ।।
तस्मिन्नेष सुहूतमस्तु प्राशित्रं तन् मा मा हिंसीत् परमे व्योमन्। १४ । ।
(ह्रत्येकर्चनाम विंशतिकण्डे नवमो ऽनुवाकः)
20.58
वेद वै ते तक्मन् नाम विश्वसो नाम वा असि ।
असमक्तो नाम ते पिताहर्षी नाम तक्मन् ते माता समिद्धा नाम ते स्वसा । १ ।।
गिरिं गच्छेत: सप्तमुखे । २ ।।
असुरास्त्वोदवभरन् समुद्रादधिमायया ।
तदास्रावस्य भेषजं तदु रोगमनीनशत् । ३ । ।
रोगस्थानमसृक्स्थानमथो अस्रावभेषजम् ।
बभ्रोरश्वस्य वारेणापि नह्यामि ता अहम् । ४ ।।
यन् मे दण्डो वा पाति दीक्षया तपसा सह ।
तमहं पुनरा ददे पुनरिन्द्रः पुनर्भगः ।
पुनमें ब्रह्मणस्पति ब्रह्म जीवित वा अदात् । ५ ।
उत्थादुलूकापतनुत्तान पादमर्भकः ।
स मे ध्रियमाणमा वहद् वि द्वेषः परा वहत् ।। ६ । ।
यथा वाण: सुसंशितः परापतत्याशुमत् ।
एवामूत्रस्य ते धारा परा पतति केतुमत्। ७ ।।
यथा मधु मधुकृतः संभरन्ति मधावधी ।
एवा मे मधुमद् वचो देवेषु पुरुषेषु च । ८ ।
दीर्घायुत्वाय तपसे मह्या अरिष्टतातये । ।
सुपर्णो मह्यमब्रवीदेतत् समक्त भेषजमेतत् पुलित भेषजम्।।९।।
अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
शुचिः पावक ईड्यः ।। १० ।।
२०-५९ 20.59
पेशिर्माता: पेशि: पिता पैशय: पैश्याहतः । ।
अद्धा कृतस्य ब्रह्मणा वृश्चिकस्यारसं विषम् ।। १ ।।
निर्ह्वयामि पर्णसादां निरुप्सच्छादुते विषम् ।
भूमिस्त उच्यते माता तस्मै ते नम उत्सृजत् । २ ।।
किमुदन्त आमयति किमभूदुपवेशनम् ।
आपो निरस्यता क्रिमिमगदे कृणुता हनू । ३ ।।
यत्र भूम्या अनामृतं दिवि चन्द्रमसि श्रितम् ।
विद्वाङ् अहं तत्र मन्ये माहं प्रौत्रमघं निगाम् । ४ ।।
यत् ते सुसीमे हदयंमदो वैतत् प्रजापतौ ।
वेदाम तस्य ते वयं माह पौत्रमघं निगाम । ५ ।
यत् सुपर्णाया हृदयं पृथिव्यामधिनिष्ठितम् ।
वेदाहं तस्यास्ते तन्वां मम माहं पौत्रमघं निगाम् । ६ ।
तद् अग्नेर्हृदयमसि विद्युद्द्युत्या तथा वेद ।
वेदाम तस्य ते वयं माहं पौत्रमघं निगाम् ।। ७ ।।
प्रजायै मे प्रजापतिरिन्द्राग्नी शर्म यच्छतम् ।
यथाहं ज्योग् जीवो ऽसानि प्रजानामधिपा वशी । ८ ।
यां प्रजामविदामज्यात्मनः परि निर्मिताम् ।
आयुष्मतीं तनुकृतां तामग्ने जरसे नय । ९ ।
इन्द्र इव सासहानरग्निरिव ज्योतिषावहम् ।
सूर्य इव विश्वत: प्रत्यङ् समुद्र इव जुष्टरः ।। १० । ।
20.60
ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् । तु. शौ.सं. ७.५
एतन् मा तस्मान् मा हिंसीद् वेदः पृष्टः शचीपते ।। १ ।।
उद्भर द्यावापृथिवी सहौषधीभिः ।
गृह्णामि प्रजां निरप: सृजामि । २ । ।
मा न आपो मेधां मा ब्रह्म प्र मथिष्टन ।।
सुष्यदा यूयं स्यन्दध्वमुपहूतो ऽहं सुमेधा वर्चस्वी । । ३ ।।
मा नो मेधां मा नो दीक्षां मा नो हिंसिष्ट यत् तप: ।
शिवा नः सर्वमायुषे आपो भवन्तु मातर: ।। ४ ।।
इह प्रजा विश्वरूपा रमन्तामस्मिन् गोष्ठे विश्वभृतो जनित्रीः ।
अग्निं कुलायमुप संविशन्तिर्जानन्तु न: पयसा घृतेन।।५ ।।
रन्तय स्थ रमतय स्थ मयिश्रिता स्थ मयि श्रयध्वम् ।
मनोतानामा स्थ ग्राम्या अप्सरसो वेदवित्तमाः मा विशत्।। ६ ।।
सर्वनीलशिखण्ड वीर कर्मणिकर्मणि ।
इमामस्य प्राशं जहि येनेदं विभजामहे । ७ ।।
तृतीयकं वितृतीयं सदंदिं तक्मानमुत राजयक्ष्मम् ।
यथा शक्र उन् मुमोच तृतीयकमेवाहं तदुन्मुञ्चामि । । ८ ।।
तृतीयकं त्वामस्यामोषध्यां बध्नामि ।
आध्वस्तपक्षिणे बृहते यथाहमकरं नमः । ९ ।
तृतीयकं त्वामस्यामोषध्यां बध्नामि ।
इन्द्राय तिवषीमते यथाहमकरं नम: ।। १० ।
२o – ६१ 20.61
व्याघ्रायोभयादते यथाहमकरं नमः । ।
नमस्ते पथ्ये रेवति स्वस्तिमा परां णय स्वस्ति पुनरानय । १ ।।
अथो स्वस्ति निष्कृधि जीवा ज्योतिरशीमहि ।
आ मनं यजामहे सत्यं प्राशं पुरोहितम् । २ ।।
तं देवं प्रथमं यजेद् व्योम्ना मनसं करत् । ३ ।।
आमनस्क देवकारो रुवत्कदेवक ।
अर्वाचावस्तरं कृधि यमहं कामये प्रियम् । ४ ।।
अयं नो अग्निरध्यक्षो ऽयं नो वसुवित्तम: ।
अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ।। ५ ।।
अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे ।
इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः ।। ६ ।।
शुद्धवाता कृष्णफला कब्रू बलासभेषजी ।
शुक्ति वल्गस्य नाशनी देवीर्ददातु भेषजम् । ७ ।।
अश्वत्थो देव सदनास्तृतीयस्यामितो दिवि ।।
तत्र लोहित वृक्षोजातः शिश्रु: क्षिप्त भेषजः ।। ८ । ।
न तत्र भवो हन्ति न शर्व इषुमस्यति । ईषु
यत्र त्वं देवतम्वुरो पर्वतेषु वि रोहति । ९ ।
कृष्यामन्यो वि रोहति गिरेरन्यो ऽधिपक्षसि ।
त्रातारौ सश्वदामिमावा गन्तां शिश्रुतुम्वुरु । १० ।
20.62
यावत् पर्णं यावत् फलं यावन्तो अध्यरुक्षराः ।
तावन्तः शुष्मास्तुम्वुरोस्तदु ते विषदूषणीः । । १ । ।
रुद्र जलासभेषजे ऽमुं रोगमशीशमो जिज्वलन्निति । २ ।।
आस्थाद्योरस्थात् पृथिव्यस्थादिदमुर्वमन्तरिक्षम् । -
ऋषभस्येव कनिष्क्रदतो हृदयं शमयामि ते । ३ ।। रुष
सं मा सिञ्चन्तु मरुतः सं मा सौ रोहिणीदिवः ।
सं मायमग्नि: सिञ्चन्तु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे । ४ ।।
नक्तं हरि मृगयेते दिवा सुपर्णा रोहितौ ।
भवाय च शर्वाय चोभाभ्यामकरं नम: ।। ५ ।
नमो भवाय नमः शर्वाय नमः कुमारसत्रवे ।
नमो नीलशिखण्डाय नम: सभाप्रपादिने । ६ । खिश
यस्य हरी अश्वतरौ गर्दभावभितः सरौ ।
तस्मै नीलशिखण्डाय नम: सभाप्रपादिने । ७ ।। खिश
असावेति शिशुमारो असावेति पुलिकया।
कुमारसत्रोवराहोदकं परिवाचनम्।।८।।
यथेदमभ्रमर्भकं पर्जन्यादपसीयते।
एवा मे अश्विना मुखादभिल्यमपसीयताम्।।९।।
अभील नश्येतः परस्तृचं मे माभिर्मिम्लपः।
अगस्त्यस्य ब्रह्मणाभीलीन् नाशयामसि।।१०।।
20.63
सेसिचामुपत्वचां नाशया पुरुरूपादभील्यं मुखात ।
यन् मे ऽकृतादभिप्रियादारुरोहमलं मुखम् ।। १ ।।
अपां वात इव शीफालं सूर्यस्तदपलुंपतु ।
अप मे ऽभीलि पतत् त्वां वात हृदं यथा । २ ।।
आ मा सुपर्णं गच्छन्तु सुभागमस्तु मे मुखम्।
यथा सूर्यस्यो पादये हिरण्यं प्रतिरोचते । ३ ।।
एवा मे मश्विना मुखं सुपर्ण प्रतिरोचताम् ।
प्रयद्गावो नभ्यूर्णयस्त्वेषावयांस्यक्रमन् । ४ ।।
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
इन्द्रेण प्रेषित उलूक सं पचामि ते । ५ ।
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
सोमेन प्रेषित उलूक सं पचामि ते । ६ ।
घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।
सूर्यण प्रेषित उलूक सं पचामि ते । ७ ।।
घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।
बृहस्पतिना प्रेषित उलूक सं पचामि ते । ८ ।
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
प्रजापतिना प्रेषित उलूक सं पचामि ते । ९ ।
20.64
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
ग्राह्या दूतो ऽस्युलूक सं पचामि ते । १ ।।
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम ।
निऋत्या दूतो ऽस्युलूक सं पचामि ते । २ ।।
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
वरुणस्य दूतो ऽस्युलूक सं पचामि ते । ३ ।।
घ्नन्तु कृष्णामुप त्वचं सुभागमस्तु मे मुखम् ।
मृत्योर्दूतो ऽस्युलूक सं पचामि ते । ४ ।।
घ्नन्तु कृष्णामुपत्वचं सुभागमस्तु मे मुखम् ।
यमस्य दूतो ऽस्युलूक सं पचामि ते । ५ ।
राजा त्वा वरुणो अखनदत्तां सोमेन बभ्रुणा ।
तां त्वा विद्म प्रपातिकां प्रामुष्य हृदयं तव । ६ ।
नि शोचयैनं प्रपतैनं समेनं तक्मना सृज ।
यथास्य दह्यमानस्याग्निः पर्वाण्यन्वयत् हृदयं परिवर्जयाक्षी कामेन शोचया मूर्तं मामपश्यत । ७ ।।
अयमित्वाग्निरानयत् वातस्त्वा त उद्यमात् ।
यं त्वमेनं निर्वर्त्तया असौ हा इह ते मनः ।। ८ 1।।
अग्निष्ट्वा तपतु सूर्यस्त्वा तपतु वातस्त्वा युङ्क्तां मरुतश्च युञ्जताम् ।
अर्वाङ् एहि समश्नुव आ नो मरिचिभिः । ९ ।
वृहामि ते लोमान्यङ्गेभ्य: पचामि मांसं ज्वलयाम्यस्थि।
इह ते रमतां मनो मयि ते रमतां मन: ।। १० ।
20.65
अयं पिण्ड: कर्करः पिण्ड: स्मरः पाञ्चालः संतपनः करंकरः ।
अमुष्य हृदयं तपो यमहं कामये प्रियम् ।। १ ।।
यथायमग्निस्तपति यथा तपति सूर्यः ।
एवा ते तप्यतां मनो हृदयमङ्गमङ्गं परुष्परुर्मां
कामेन नरमासा अत्र । २ । ।
यथा तपन्ति परशुं यथा वासि नि खादिरम् ।
यथा सूर्य उद्यन् सर्वं संतपन्ति । ३ ।।
एवा ते तप्यतां मनो हृदयमङ्गमङ्ग परुष्परुर्मां कामेन नरमासा अत्र । ४ । ।
स त्वा द्यौश्च पृथिवी च तपतां मां कामेन नरमासा अत्र । ५ ।
स्मरहै स्मरतादमुमङ्गज्वरेणो छोचनीनाम् ।
तक्मनैनं संसृज विश्वशारदेन मम। कामेन । ६ ।
अष्टाशीति सहस्राण्येत्यवादीद् वचो मम ।
इहारेहमवादिषुमत्रारे प्रायस्वस्तम् । ७ ।।
यं सुमित्रः सुमित्रायै चक्रेवासास्मरम् ।
यथा सा तस्य कामेन न सुष्वाप कदा चन । ८ ।
एवासौ मम कामेन माव स्वप्सीत् कदा चन ।
पर्यग्निरापस्तपति परिद्यामेति सूर्यः । । ९ ।।
परि वामिन्द्रो वृत्रहा मह्यं तपतु सर्वतः ।
यथा वातो न्यावाति यथा तपति सूर्यः । १o ।
एवा त्वमिन्द्र वृत्रहनमुं मह्यमिहानय।
शालाला त्वं संवननं वनाद् वननमा भृतम् ।। १ १ ।।
येन पयो गन्धर्वो अप्सरसां समवानयत् ।
तेनाहममुं मयि वा नयाम्यामृत्योरा परावत: ।। १२ ।
(ड्रत्येकर्चनाम विंशतिकाण्डे दशमो ऽनुवाकः )
इत्यथर्ववेदे पैप्पलादसंहितायां एकर्चोनाम विंशतिकाण्डः समाप्तः