पैप्पलादसंहिता/काण्डम् १८

विकिस्रोतः तः
Jump to navigation Jump to search

अथ महत् काण्डनाम अष्टादशकाण्ड:
18.1
सत्येनोत्तभिता भूमि: सूर्येणोत्तभिता द्यौः ।
ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः । । १ ।। तु. शौनकीय अथर्ववेद १४.१
सोमेनादित्या बलिन: सोमेन पृथिवी मही ।
अथो नक्षत्राणामेषामुपस्थे सोम आहित: ।२।
सोमं मन्यते पपिवान् यत् संपिंषन्त्योषधिम् ।
सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ।। ३ ।।
आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षित: ।
ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ।।४।।
चित्तिरावत् उपबर्हणं चक्षुरावदभ्यञ्जनम् ।
द्यौर्भूमि: कोश आसीद्यदयात् सूर्या पतिम् ।। 1५ ।।
रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
सूर्याया भद्रमिद् वासो गाथयैति परिष्कृता ।। ६ । ।
स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।
सूर्याया अश्विना वराग्निरासीत् पुरोगवः ।।७।।
सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
सूर्या यत् पत्ये शंसन्तीं मनसा सविताददात् ।।८।।
मनो अस्या अन आसीद् द्यौरासीदुत च्छदिः ।
शुक्रावनड्वाहावास्तां यदयात् सूर्या पतिम् ।। ९ ।।
ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् ।
श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचर: ।। १० । ।

18.2
शुची ते चक्रे यात्या व्यानो अक्ष आहत: ।
अनो मनस्मयं सूर्यारोहत् प्रयती पतिम् ।।१।।
सूर्याया वहतुः प्रागात् सविता यमवासृजत् ।
मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ।।२।।
यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
क्वैकं चक्रं वामासीत् क्व देष्ट्राय तस्थथुः ।। ३ ।।
यदयातं शुभस्पती वरेयं सूर्यामुप ।
विश्वे देवा अनु तद् वामजानन्
पुत्रः पितराववृणीत पूषा ।। ४ ।।
द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
अथैकं चक्रं यद् गुहा तदद्धातय इद् विदुः ।। ५ ।।
प्र त्वा मुञ्चामि वरुणस्य पाशाद् येन त्वाबध्नात् सविता सुशेवाः ।
ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहपत्न्यै वधु।।६।।
अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।
उर्वारुकमिव बन्धनादितो मुञ्चन्तु मामुतः ।। ७ । ।
प्रेतो मुञ्चन्तु मामुत: सुबद्धाममुतस्करत्।
यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ।।८ ।।
भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ।।९।।
इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।
एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि । १o ।

18.3
इहैव स्तं मा वि यौष्टं दीर्घमायुर्व्यश्नुतम् ।
क्रीड़न्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ।१।
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अध्वरम् ।
विश्वान्यन्यो भुवना विचष्टे ऋतूँरन्यो विदधज्जायते नवः । ।२ ।।
नवोनवो भवति जायमानोह्नां केतुरुषसामेत्यग्रम् ।
भागं देवेभ्यो वि दधात्यायन् प्र चन्द्रमास्तिरते दीर्घमायुः ।। ३ ।।
परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु।
कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ।।४।।
नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
एधन्ते अस्या ज्ञातय: पतिर्बन्धेषु बध्यते । । ५ ।।
अश्लीला तनूर्भवति रुशती पापयामुया ।
पतिर्यद् वध्वो वाससः स्वमङ्गमभ्यूर्णुते ।।६।।
आशसनं विशसनमथो अधिविकर्तनम् ।
सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुन्धति ।।७।।
तृष्टमेतत् कटुकमपाष्ठवद् विषवन्नैतदत्तवे ।
सूर्यां यो ब्रह्मा वेद स इद् वाधूयमर्हति ।।८ ।।
स वै तत् स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।
प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ।।९।।
युवं भगं सं भरतः समृद्धमृतं वदन्तावृतोद्येन ।
ब्रह्मणस्पते पतिमस्यै रोचयामुं चारु संभलो वदतु वाचमेताम्।। १० ।।

18.4
इहेदसाथ न परो गमाथेमं गाव: प्रजया वर्धयाथ । तु. शौनक संहिता १४.१.३२
शुभं यतीरुस्त्रिया: सोमवर्चसो विश्वे देवा:क्रन्निह वो मनांसि।१।
इमं गावः प्रजया सं विशध्वमयं देवानां न मिनाति भागम् ।
अस्मै वः पूषा मरुतश्च सर्वे अस्मै व धाता सविता सुवाति । ।२ । ।
अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् ।
सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा नः ।।३ । ।
येन महानघ्न्या जघनमश्विना येन वा सुरा ।
येनाक्षा अभ्यषिञ्चन्त तेनेमां वर्चसावतम् ।।४।।
यद् वर्चो अक्षेषु सुरायां च यदाहितम् ।
यद् गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ।।५।।
यो अनिध्मो दीदायाप्स्वन्तर्यं विप्रास ईडते अध्वरेषु ।
अपां नपान् मधुमतीरपो दा याभिरिंद्रो वावृधे वीर्यावान् ।।६।।
इदमहं रुशन्तं ग्राभं तनूदूषिमपि नुदामि ।
य: शिवो भद्रो रोचनस्तमुदचामि ।।७ । ।
आस्यै हरन्तु स्रपनीर्ब्राह्मणा अवीरघ्नीरुदजन्त्वाप: ।
अर्यम्णो अग्निं पर्येतु क्षिप्रं प्रतीक्षन्ते श्वशुरा देवरश्च ।।८ ।।
शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।
शं त आप: शतपवित्रा भवन्तु शं पत्या तन्वं सं स्पृशस्व।।९।।
यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।
एवा त्वं साम्राज्ञेधि पत्युरस्तं परेत्य ।। १० ।।

 18.5
सम्राज्ञेधि श्वशुरेषु सम्राज्ञुत श्वश्रुवाम् ।
ननान्दु: सम्राज्ञेधि सम्राज्ञुत देवृषु ।।१।।
या अकृन्तन्वयन् याश्च तत्निरे या देवीरन्ताँ अभितोददन्त।
तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ।।२।।
जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसिर्ति दीध्युर्नर:।
वामं पितृभ्यो य इदं समरिरे मय: पतिभ्यो जनये परिष्वजे।३।
ध्रुवं स्योनं प्रजायै ते धारयाम्यश्मानं देव्याः पृथिव्या उपस्थे ।
तमा रोहानुमाद्या सुवीरा दीर्घं त आयुः सविता कृणोतु ।। ४ ।।
देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।
अग्निः सुभगां जातवेदा: पत्ये पत्नीं जरदष्टिं कृणोतु ।। ५ ।।
गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथास: ।
भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ।।६।।
येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।
तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह ।। ।।७ । ।
धाता ते हस्तमग्रहीत् सविता हस्तमग्रहीत् ।
भगस्ते हस्तमग्रहीदर्यमा हस्तमग्रहीत् ।
पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ।। ८ । ।
ममेयमस्तु पोष्या मह्यं त्वादाद् बृहस्पतिः ।
मया पत्या प्रजावति सं जीव शरदः शतम् ।।९।।
त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पते: प्रशिषा कवीनाम् ।
तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ।। १० ।।

18.6
गृहास्त्वा प्रोर्गुवन्त वर्चसा भगेन
ज्योतिष्मतीदं प्रति मुञ्चस्व वपुः ।
उषा इव सूर्यस्य संदृशि । १ ।।
इन्द्राग्नी द्यावापृथिवी ह पूषा मित्रावरुणा भगो अश्विनोभा ।
बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारीं प्रजया वर्धयन्तु ।। २ ।।
बृहस्पतिः प्रथमः सूर्याया: शीर्षे केशाङ् अकल्पयत् ।
तेनेमामश्विना नारीं पत्या सं शोभयामसि । ३ ।।
इदं तदूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम ।
तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमं विद्वान् वि चचर्त पाशम् ।।४।।
अहं वि ष्यामि मयि रूपमस्या वेददित् पश्यन् मनस: कुलायम् ।
नस्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशम् ।। ५ ।।
इमं वि ष्यामि वरुणस्य पाशं येन त्वाबध्नात् सविता सुशेवाः ।
ऊरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ।। ६ ।।
उद्यच्छध्वमप रक्षो हनाथेमां नारीं सुकृते दधात ।
धाता विपश्चित् पतिमस्यै विवेद भगो राजा पुर एतु प्रजानम्। ७ ।।
भगस्ततक्ष चतुर: पदो भगस्ततक्ष चत्वार्युष्पलानि ।
त्वष्टा पिपेश मध्यतो वध्रान् सा नो अस्तु सुमङ्गली ।। ८ ।।
येनाज्येन हविषा प्रजायै च वरेण्यम् । ।
पशुभ्य: चक्षुषे च कंसमग्निं समिधीमहि । ९ । ।
सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ।। १० ।।
मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि ।
शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ।। ११ ।।
ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वत: ।
अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज । १२ ।
(इति महत् काण्डनाम अष्टादशकाण्डे प्रथमो अनुवाकः)

18.7
तुभ्यमग्रे पर्यवहन् सूर्या वहतुना सह ।
स न: पतिभ्य जायां दा अग्ने प्रजया सह । १ । । तु. शौनकीयसंहिता १४.२.१
पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ।। २ ।।
सोमस्य जाया प्रथमं गन्धर्वस्तेपर: पति: !
तृतीयो अग्निष्टे पतिस्तुरीयो मनुष्यजाः ।। ३ । ।
सोम ददद् गन्धर्वाय गन्धर्वो दददग्नये ।
रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ।। ४ ।।
आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अंरसत ।
अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्या अशीमहि।। ५ ।।
सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।
सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं प्रथिष्टामप दुर्मतिं हतम्।। ६ ।।
अप रक्षांस्यप दुर्मतिं हतं शुभस्पती वहतोर्यातो अस्मात् ।
पुरोगवी जनयन् रक्षांस्यग्ने क्षेत्र वि पूर्वो वि मृधो नुदस्व।।७।।
या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।
ते त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः । ८ ।
एमं पन्थामगन्म सुगं स्वस्तिवाहनम् ।
यत्र वीरो न रिष्यत्यन्येषां विन्दते वसु। ९ । (पा. रीष्यत्यन्येषां)
इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।
ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येष्वध्या तस्थुः ।
स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम्।। १० ।।
18.8
ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्तु जनाङ् अनु ।
पुनस्तान यज्ञिया देवा नयन्तु यत आगता: ।। १ ।।
मा विदन् पर्यायिणो या आसीदन्ति दंपती ।
सुगेन दुर्गमतीतामप द्रान्त्वरातयः ।। २ 1 ।।
सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।
पर्याणद्धं विश्वरूपं यदस्मिन् स्योनं पतिभ्यः सविता कृणोतु तत् ।।३।।
शिवा नारीयमस्तमागन्निमं धाता लोकमस्यै विवेद ।
तामर्यमा भगो अश्विनोभाः प्रजापतिः प्रजया वर्धयन्तु । ४ ।।
आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम्।
सा वः प्रजां जनयद् वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ।। ५ ।।
प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वती ।
दुर्वेवेन्द्र प्र जायतां भगस्य सुमतावसत् । ६ ।
उद् वाम् ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चन्तु ।
मा दुस्कृतौ व्येनसावध्न्यावशूनमारताम् । ७ ।।
अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेषु ।
प्रजावती वीरसूर्देवृकामेममग्निं गार्हपत्यं सपर्य । ८ ।
अदेवृघ्न्यपतिघ्नीहैधि स्योना पशुभ्य: सुमना: सुवीरा: ।
वीरसुर्देवृकामा स्योना सं त्वयैधिषीमहि सुमनस्यमाना ।। ९ ।।
उत्तिष्ठेत: किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद् गृहात्।
शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत माति रंस्था: ।। १० ।।

18.9
यदा गार्हपत्यमसपर्यैत् पूर्वमग्निं वधूरियम् ।
अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ।। १ । ।
शर्म वर्मैतदा हरास्यै नार्या उपस्तरे ।
सिनीवाली प्र जायतां भगस्य सुमतावसत् । २ ।।
उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।
तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु । ३ ।।
यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।
तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् । ४ ।।
आ रोह चर्मोप सीदाग्निमेष देवो हन्तु रक्षांसि सर्वा ।
सुमङ्गल्युप सीदेममग्निं सपत्नी प्रति भूषेह देवान् । ५ ।
प्र जायन्तां मातुरस्या उपस्थान् नानारूपा: पशवो जायमानाः ।
इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवतु ते पुत्र एषः ।।६ ।।
सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।
स्योना श्वश्र्वैः प्र गृहान् विशेमान् प्रजावती जरदष्टिर्यथास: ।। ७ ।।
सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
सौभाग्यमस्यै दत्त्वा दौर्भाग्येन परेतना । ८ ।
या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।
वचों हास्यै सं दत्ताथास्त विपरेतन । ९ ।
ऋक्मप्रस्तरणं वह्यं विश्वारूपाणि बिभ्रतम् ।
आरोहत् सूर्या सावित्री बृहते सौभगाय कम् ।। १० ।।

18.10
आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।
इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरः ।। १ ।।
देवा अग्रे न्यपद्यन्त पत्नी: समस्पृशन्त तन्वस्तनूभि: ।
सूर्यव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवाति। २ ।।
उदीर्ष्वात: पतिवती ह्येषा विश्वावसुं मनसा गीर्भिरीडे ।
जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि। ३ ।।
या अप्सरसः सधमादं मदन्त्यन्तरा हविर्धानं सूर्यं च ।
तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ।। ४ ।।
नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्म: ।
विश्वावसो नो ब्रह्मणा ते कृणोम्यभि जाया अप्सरस: परेहि। ५ ।
राया वयं सुमनस: स्यामोदितो गन्धर्वमावीवृताम ।
अगन्स देव: परमं सधस्थमगन्म वयं प्रतिरन्त आयुः ।। ६ 1 ।।
सं पितरावृत्विये सृजेथां पिता माता च रेतसो भवाथ: ।
मर्यों योषामधिरोहयैनां प्रजां कृण्वाथामिह मोदमानौ । ७ ।।
आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।
अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे। ८।
तान् पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
या न ऊरू उशती विश्रयाति यस्यामुशन्त: प्रहरेम शेपः ।।९।।
आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।
प्रजां कृण्वाथामिह पुष्यतं रयिं दीर्घं वामायुः सविता कृणोतु ।। १० ।।

18.11
यं नो ददुर्ब्रह्मभागं वधूयोर्वासो वध्वश्च वस्त्रम् ।
युवं ब्रह्मणेनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ।। १ ।।
देवैर्दत्तं मनुना साकमेतद् वाधूयं वध्वो वासो अस्याः ।
यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्प्यानि हन्ति । २ ।।
स्योनाद्योनेरधि बुध्यमानौ हसामुदौ महसा मोदमानौ ।
सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभाती: ।। ३ ।।
नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभाति: ।
आण्डात् पतत्रीवामुक्षि विश्वस्मादेनसस्परि । ४ ।।
शुंभनी द्यावापृथिवी अन्तिशुम्ने महिव्रते ।
आपः सप्त स्रवन्तीस्ता नो मुञ्चन्त्वंहसः ।। ५ । ।
सुर्यायै देवेभ्यो मित्राय वरुणाय च ।
ये भूतस्य प्रचेतसस्तेभ्योहमकरं नम: 1 ।। ६ । ।
य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
संधाता संधि मघवा पुरूवसुर्निष्कर्ता विहृतं पुन: ।। ७ । ।
अपास्मत् तम उछतु नीलं पिशङ्गमुत लोहितं यत् । ।
निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सृजामि । ८ ।
यावती: कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशात् ।
व्यृद्धयो या असमृद्धयश्चास्मिन् ता स्थाणौ प्रति मुञ्चामि सर्वाः ।।९ ।।
ये अन्ता यावती: सिचो ओतवो ये च तन्तव: ।
वासो यत् पत्नीभिरुतं तन्मा स्योनमुप स्पृशात् ।। १० ।।

१८ - १ २ 18.12
उशतीः कन्यला इमा: पितृलोकात् पतिं यतीः ।
अव दीक्षामसृजत स्वाहा । १ । ।
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
वर्चो गोषु प्रविष्टं यत् तेनेमां सं सृजामसि । २ ।।
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
तेजो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि । ३ ।।
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
पयो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि । ४ ।।
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
यशो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि । ५ ।
बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
भगो गोषु प्रविष्टं यत् तेनेमा सं सृजामसि । ६ ।
यदसौ दुहिता तव विकेश्यरुदद्बहु रोदेन कृण्वत्यघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ।। ७ ।।
यदमी केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ।। ८ ।।
यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ।। ९ ।।
यदमू दंपती उभौ विवाहे अघमारुतो रोदेन कृण्वन्तावघम् ।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ।। १० ।।

18.13
यत्ते प्रजायां पशुषु यद् वा गृहेषु निष्ठितमघकृद्भिरघं कृतम्।
अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ।। १ ।।
इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।
दीर्घायुरस्तु मे पतिरेधन्तां पितरो मम । २ ।।
इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।
प्रजावन्तौ स्वस्तकौ दीर्घमायुर्व्यश्नुताम् ।। ३ ।।
यदासन्द्यामुपधाने यद् वोपवासने कृतम् ।
विवाहे कृत्यां यां चक्रुरास्नाने तां निदध्मसि । ४ । ।
यद् दुष्कृतं यच्छमलं विवाहे वहतौ च यत् ।
तत् संभलस्य कम्बले मृज्महे दुरितं वयम् । ५ ।
सम्भले मलं सादयित्वा कम्बले दुरितं वयम् ।
अभूम यज्ञिया: शुद्धाः प्र ण आयुंषि तारिषत् ।। ६ ।।
या मे प्रियतमा तनू: सा मे बिभाय वाससः ।
तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम । ७ ।।
कृत्रिमः कङ्कतः शतदन् य एष: ।
अपास्या: केश्यं मलमप शीर्षण्यं लिखात् । ८ ।
अङ्गादङ्गाद् यूयमस्या अप यक्ष्मं नि धत्तन ।
तन्मा प्रापत् पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।
अपो मा प्रापन्मलमेतदग्ने यमं मा प्रापत् पितॄंश्च सर्वान् ।।९।।
सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।
सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ।।१०।।

18.14
अमोहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् ।
मनोहमस्मि वाक्त्वं ताविह सं भवाव प्रजामा जनयावहै।१।
जनियन्ति नो अग्रव: पुत्रियन्ति सुदानव: ।
अरिष्टास: सचेमहि बृहते वाजसातये । २ ।।
ये पितरो वधूदर्शा इमं वहतुमागमन् ।
ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु । । ३ । ।
येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।
तां वहन्त्वगतस्याभि पन्थां विराडियं सुप्रजा अत्यजैषीत्।।४।।
प्र बुध्यस्व सुबुधा बुध्यमाना दोघर्षायुत्वाय शतशारदाय ।
गृहान् प्रेहि सुमनस्यमाना दीर्घं त आयुः सविता कृणोतु ।।५।।
वि ते मुञ्चामि रशनां वि रश्मीन् वि योक्त्राणि परिचर्तनानि च।
अरिष्टास्मिन् ज्योतिषि शिवा गृहपतौ भव ।। ६ । ।
स्योना भव श्वसुरेभ्य: स्योना पत्ये गृहेभ्य: !
स्योनास्यै सर्वस्यै दृशे स्योना पुष्टायैषां भव ।। ७ ।।
(इति महत् कायडनाम अष्टादशकाण्डे द्वितीयो अनुवाक:)

18.15
उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सुनृतावत् । तु. शौनकीय संहिता १३.१.१
यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं पिपर्तु ।१।
उद् वाज आ गन् यो अप्सन्तर्विश आ रोह त्वद्योनयो याः ।
सोमं दधानोप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह । २ ।।
यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।
आ वो रोहितः शृणवत् सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः।। ३ ।।
रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।
ताभिः संरब्धो अन्वविन्दत् षडुर्वी गातुं प्रपश्यन्निह राष्ट्रमाहाः ।।४ ।।
आ। ते राष्ट्रमिह रोहितोहार्मृधो व्यास्थदभयं ते अभूत् ।
तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ।।५ ।।
रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।
तत्र शिश्रियेज एकपादोदृंहद् द्यावापृथिवी बलेन । ६ ।
रोहितो द्यावापृथिवी अदृंहत् तेन स्वस्तभितं तेन नाकः ।
तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दम् । ७ ।।
वि रोहितो अमृशद विश्वरूपं समाकृण्वान: प्ररुहो रुहश्च ।
दिवं रुढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ।।८।।
यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।
तासां ब्रह्मणा पयसा वावृधानो विशि राष्ट्रे जागृहि रोहितस्य । ९ ।
यास्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।
तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ।१० ।।

18.16
ऊर्ध्वो रोहितो अधिनाके अस्थाद् विश्वारूपाणि जयनन् युवा कवि:।
तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि। ।१ ।।
सहस्रशृङ्गो वृषभो जातवेदा घृताहुत: सोमपृष्ठ: सुवीर: ।
मा मा हासीन्नाथितो नेत्वा जहानि गोपोषं च मे वीरपोषं च धेहि।२।
रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि।
रोहितं देवा यन्ति सुमनस्यमाना: स मा रोहैः सामित्यै रोहयाति । ।३ ।।
रोहितो यज्ञं व्यदधाद् विश्वकर्मणे तस्मात् तेजांस्युप मेमान्यागुः ।
वोचेयं ते नाभिं भुवनस्याधि मज्मनि । ४ ।। (पा. मज्मानि)
आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुद् वर्चसा विश्ववेदः ।
आ त्वारुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहित रेतसा सह।।५ ।।
अयं वस्ते गर्भं पृथिव्यां दिवं वस्तेयमन्तरिक्षम् ।
अयं ब्रध्नस्य विष्टप: स्वलौंकान् समानशे । ६ ।
वाचस्पते पृथिवी नः स्योना योनिस्तल्पा सुशेवा ।
इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निर्वर्चसा दधातु।। ७ ।।
वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणा परि ये बभूवुः ।
इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित वर्चसा दधातु ।।८ ।।
वाचस्पते सौमनसं मनश्च गोष्ठे नो गा रमय योनिषु प्रजाम् ।
इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहं वर्चसा दधामि ।। ९ ।।
परि त्वा धात् सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।
सर्वा अरातीरपक्रामन्नेहीदं राष्ट्रं कृणुहि सूनृतावत् । १० ।

१८ - १७ 18.17
यं त्वा पृषती रथे प्रष्टिर्वहति रोहित । शुभा यासि रिणन्नप: ।
तेनेमं ब्रह्मणस्पते रोहं रोहयोत्तमम् ।। १ ।।
अनुव्रता रोहिणी रोहितस्य सूरि: सुवर्णा बृहती सुवर्चा: ।
त्वया वाजान् विश्वरूपां जयेम तया विश्वा: पृतना अभि ष्याम ।२।
इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति।
तां गन्धर्वा: कश्यपा उन्नयन्ति तां रक्षन्ति कवयो ऽप्रमादम् ।। ३ ।।
सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृता: सुखं रथम् ।
घृतपावा रोहितो भ्राजमानो दिवं देव: पृषतीमा विवेश 1।। ४ ।।
यो रोहितो वृषभस्तिग्मशृङ्ग: पर्यग्निं परि सूर्यं बभूव ।
यो विष्टभ्नाति पृथिवीं दिवं च तस्माद् देवा अधि सृष्टीः सृजन्ते ।।५।।
रोहितो दिवमारुहन् महत: पर्यर्णवात् । सर्वा रुरोह रोहितो रुह:।। ६ । ।
वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।
इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ।।७।।
समिद्धो अग्निः समिधानो घृतोवृद्धो घृताहुतः ।
अभिषाड् विश्वाषाडग्नि: सपत्नान् हन्तु ये मम । ८ । ।
हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति ।
अग्ने सपत्नमधरं पादयास्मद् व्यथया सजातमुत्पिपानं बृहस्पते ।
इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ।। १० ।।(पा. पद्यन्तामप्रतिमन्युयमानाः)

18.18
अवाचीनानव जहीन्द्र वज्रेण बाहुमान् ।
अधा सपत्नान मामकानग्नेस्तेजोभिरादधे । १ ।।
उद्यस्त्वं देव सूर्य सपत्नान् मे धरां कृणु ।
अवैनानश्मना जहि ते यन्त्वधमं तमः । २ ।।
वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् ।
घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्तु ।। ३ ।।
दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।
प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृशस्व ।। ४ ।।
ये देवा राष्ट्रभृतो अभितो यन्ति सूर्यम् ।
तेभिष्टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमान: ।।५ ।।
उत् त्वा यज्ञा ब्रह्मपूता वहन्त्वध्वगतो हरयस्त्वा वहन्तु ।
तिरः समुद्रमति रोचसेर्णवम् ।। ६ ।।
रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संजिति संधनाजिति ।
सहस्त्रं यस्य द्रविणानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि । ७ ।।
यशा यासि प्रदिशो अनु यशाः पशूनामुत चर्षणीनाम् ।
यशाः पृथिव्या अदित्या उपस्थेहमस्मि सवितेव चारु: ।। ८ ।।
अमुत्र सन्निह वेत्थेतः संस्तानि पश्यति ।
इत: पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम । ९ ।
देवो देवान् मर्चयत्यन्तश्चरत्यर्णवे ।
समानमग्निमिन्धते तं विदुः कवयः परे ।। १०

18.19
अव: परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।
सा कद्रीची कं स्विदर्धं परागात् क्व स्वित्सूते नहि यूथे अस्मिन् ।।१ ।।
एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।
सहस्राक्षरा भुवनस्य पङक्तिस्तस्याः समुद्रा अधि वि क्षरन्ति । २ ।।
आरोहन् द्याममृतः प्राव मे वचः उत् त्वा यज्ञा ब्रह्मपूता वहन्ति ।
घृतं पिबन्तं हरयस्त्वा वहन्ति । ३ ।।
वेद तत् ते अमर्त्य यत् त आक्रमणं दिवि ।
यत् ते सधस्थ परमे व्योमन्। ४ ।।
सूर्यो द्यां सूर्यः पृथिवीं सूर्य आपोऽति पश्यति ।
सूर्य भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ।। ५ ।।
उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।
तत्रैतावग्नि आधत्त हिमं घ्रंसं च रोहितः । ६ ।
हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।
वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विद: ।। ७ ।।
स्वर्विदो रोहितस्य ब्रह्मणाग्नि: समाहितः ।
तस्माद् घ्रंसस्तस्माद्धिमस्तस्माद् यज्ञो अजायत ।। ८ ।।
ब्रह्मणाग्नि: संविदानो ब्रह्मवृद्धो ब्रह्माहुत: ।
ब्रहोद्धावग्नी ईजाते रोहितस्य स्वर्विद: ।। २ ।।
अप्स्वन्य: समाहित: सत्ये अन्यः समाहित: ।
ब्रहोद्धावग्नी ईजाते रोहितस्य स्वर्विद: ।। १० ।
यं वातोः परि शुम्भति यमिन्द्रो ब्रह्मणस्पति: ।
ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः । । ११ 1 ।।

18.20
वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।
घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद् वर्षेणाज्येन रोहितः ।।१ ।।
वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत ।
तत्रैतान् पर्वताङ् अग्निर्गीर्भिरूर्द्ध्वार्ङ् अकल्पयत् ।। २ ।।
गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत् । ।
त्वदिदं सर्वं जायतां यद् भूतं यच्च भाव्यम् ।। ३ । ।
सः यज्ञः प्रथमो भूतो भव्यो अजायत ।।
तस्माद्ध यज्ञेदं सर्वं यत् किं चेदं विरोचते रोहितेन ऋषिणाभृतम् । ४ ।।
उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।
रश्मिभिर्दिशो आभाति सर्वाः । ६ ।
यत् प्राङ् प्रत्यङ् स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।
तदादित्य महि तत् ते महि श्रवो यदेको विश्वं परि भूम जायसे । ७ ।।
विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरित: सप्त बह्वी: ।
स्रुताद् यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्येम परियान्तमाजिम्।।८ ।।
मा त्वा दभन् परियान्तमाजिं सुगेन दुर्गमति याहि शीभम् ।
दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ।।९ ।।
स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्य: ।
यं ते वहन्ति हरितो वहिष्ठास्तमारोह सुखमा स्वश्यम्।१०।।

18.21
सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।
यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः।। 1१ ।।
सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।
अमोची शुक्रो रजसः परस्ताद् विधूय देवस्तमो दिवमारुहत् ।।२।।
उत् केतुना बृहता देव आगन्नपावृक्तमोभि ज्योतिरश्रैत् ।
दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ।। ३ ।। पा. भूवनानि
उद्यन् रश्मीना तनूषे प्रजाः सर्वा वि पुष्यसि ।
उभा समुद्रैः क्रतुना वि भाति सर्वांल्लोकान् परिभूर्भ्राजमानः।।४ ।।
पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अर्णवम् । पा. शिशु
विश्वान्यन्यो भुवना भिवस्ते हैरण्यैरन्य हरितो वहन्ति।५।। पा. विचष्टे
दिवि त्वात्रिरधारयत् सूर्या मासाय कर्तवे ।
स एष: सुघृतस्तपन् विश्वा भूतावचाकशत् ।। ६ ।। पा. बिश्वा
उभावन्तौ समर्षति वत्स: संमातराविव ।
नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ।। ७ ।।
यत् समुद्रमनु श्रितं तत् सिषासति सूर्यः ।
अध्वास्य विततो महान् पूर्वश्चापरश्च यः । ८ ।
तं समाप्नोति जूतिभिः स्तस्मानाप चिकित्सति ।
तेनामृतस्य भक्षं देवानां नाव रुन्धते ।। ९ ।।
उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
दृशे विश्वाय सूर्यम् ।। १० ।।

18.22
अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
सूराय विश्व चक्षसे । १ ।।
अदृश्रन्नस्य केतवो वि रश्मयो जनाँङ अनु ।
भ्राजन्तो अग्नयो यथा । २ ।।
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्यः ।
विश्वमा भासि रोचनः । ३ ।।
प्रत्यङ् देवानां विशः प्रत्यङडुदेषि मानुषी ।
प्रत्यङ् विश्वं स्वर्दृशे । ४ ।।
येना पावक चक्षषा भुरणयन्तं जनाँङ् अनु ।
त्वं वरुण पश्यसि । ५ । ।
वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभि: ।
पश्यन् यन्मानि सूर्य । ६ ।
सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
शोचिष्केशं विचक्षणम् । ७ ।।
अभि वत्सं न धेनव: ।। २ ।।
ता अर्षन्तु शुभ्रियः पृञ्चन्तीर्वर्चसा प्रिय: ।
जात जात्रीर्यथा हृदा । १० ।

१८ - २ ३ 18.23
वज्रायेवसाध्य यः कीर्तिं श्रेयमाणमावहान् ।
मह्यमायुर्घृतं पय: ।। १ ।।
रोहितो दिवमाक्रमान्त्तपसा तपस्वी ।
स योनिमैति स उ जायते पुन: स देवानामधिपतिर्बभूव।२।
यो विश्वचर्षणिरुत विश्वतोमुखो विश्वतस्पाणिरुत विश्वतस्पृथ:।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एक:।।३।।
एकपाद् द्विपदो भूयो वि चक्रमे द्विपात् त्रिपादमभ्येति पश्चात् ।
द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं मां समासते ।।४।।
अतन्द्रो यास्यन् हरितो यदास्थाद् दिवि रूपं कृणुते रोचमान:।
केतुमाङ् उद्यन्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ।। ५ ।।
बण्महाड् असि सूर्य बडादित्य महाङ् असि । पा. वण्महाङ्
महांस्ते महतो महिम्ना त्वमादित्य महाङ् असि ।। ६ ।।
रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्त: ।
उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्वित् ।।७ ।।
अर्वाङ् परस्तात् वियतो व्यध्व आशुर्विपश्चित् पतयन् पतङ्ग: ।
विष्णुर्विचित्त: शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत् ।।८ ।।
तिग्मो विभ्राजन् तन्वं शिशानोरंगमासः प्रवतो रराणः ।
ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात् प्रदिशः कल्पमानः ।। ९ ।।
चित्रश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।
अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि। १० ।

18.24
चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन्।
दिवाकरो अति द्युम्नैस्तमांसि विश्वातारीद् दुरितानि शुक्रः ।। १ ।।
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्राङ् द्यावापृथिवी अन्तरिक्षं महित्वा सूर्य आत्मा जगतस्तस्थुषश्च ।।२ ।।
उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।
पश्येम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रि:।। ३ ।।
दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीत: ।
स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ।। ४ ।।
आहोरात्राणि विदधत् कृण्वानः पार्थिवं रज : | पा. आहोरात्राणि
नवं नवं सखीभवं कृणुषे देवसूर्य । ५ ।
सहस्राह्वयं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
स विश्वान् देवानुरस्युपदद्य संपश्यन् याति भुवनानि विश्वा । ६ ।
रोहितो कालो अभवद् रोहितो अग्रे प्रजापतिः ।
रोहितो यज्ञानां मुखं रोहितो ज्योतिरुच्यते । ७ ।।
रोहितो भूतो अभवद् रोहितो भव्यमाभरत् ।
रोहितो यज्ञानां मुखं रोहितः स्वराभरत् ।। ८ ।।
रोहितः लोको अभवद् रोहितोत्यतपद् दिवम् ।
रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत् । २ ।।
सर्वा दिश: सं चरति रोहितो अधिपतिर्दिव: ॥
दिवं समुद्रमाद् भूमिं सर्वांल्लोकान् वि रक्षतु । १० ।

18.25
बिभर्त्यंशुं प्रति मुञ्जते स्रजो मुहूर्ते रश्मीनंशुं बृहन्तम् । पा. विभर्त्यंशुं, स्त्रजो
दिवाकरः पश्यति यत् परात् परं प्राह्नं प्रवृष्मणाद् विश्वमाप्राङ् हिरण्ययो हरित केतुरुद्यन् । १ । ।
आरोहन् शुक्रो बृहतीरतन्द्रो मर्त्यः कृणुते वीर्याणि !
दिव्यः सुपर्णो महिषो वातरंहा यत् सर्वांल्लोकाङ् अभियद् विभाति । २ ।।
अभ्यन्यदेति पर्यन्यदस्यतेहोरात्राभ्यां महिष: कल्पमान: ।
सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाथकामाः ।। ३ ।।
पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि सर्वं बभूव ।
विश्वं संपश्यन् सुविदत्रो यजत्रः शिवायानस्तन्वा शर्म यच्छात्।।४।।
पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम्।
अहोरात्राभ्यां सह संविदान उषा न आयु: प्रतरादाविष्टम् ।।५।।
अबोध्याग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ।। ६ ।।
कुमारं माता युवतिर्गर्भमन्तर्गुहा बिभर्त्ति न ददाति पित्रे ।
अनीकमस्य न मिनज्जनासः पुर: पश्यन्ति निहितमरतौ ।। ७ । ।
तमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान । पा. विभर्षि, महीषी
पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यमसूत माता ।। ८ ।। पूर्विर्हि
यस्य तिस्रो वित्ति न एकधा सतो यस्मै बलिं देवजना हरन्ति ।
तस्यासौ द्यौः पृथिव्यन्तरिक्षं गुहातिष्ठन्ति वसुना समक्ता ।।९।।
नव दिवो देवजनेन गुप्ता नवान्तरिक्षाणि नव भूमय इमाः ।
यस्मिन्निदं सर्वमोतं प्रोतं यस्मादन्यन् न परं किं चनास्ति ।। १० ।।

18.26
न तस्मात् पूर्वं न परं न्वस्ति न भूतं नोत भव्यं यदासीत्।
सहस्रपादेकमूर्धा द्वैयात्मा स एवेदमावरीवर्ति भूतम्।।१।।
एकैकं ये अपतं सुपतं सुपर्णाः सोमं दिप्सन्तो ह्यानिवाढाः।
कस्तेषां वेद पितरं मातरं च को निदानं क आत्मानमेषाम् । २ ।।
योभिर्वात् इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ।। ३ ।।
इमामेषां पृथिवीं वस्त एको अन्तरिक्षं पर्येको बभूव ।
दिवमेषां ददते यो विधर्ता: सर्वा दिशो रक्षत्येक एषाम् । ४ ।।
(इति महत् काण्डनाम अष्टादशकाण्डे चतुर्थोऽनुवाकः)

18.27
व्रात्यो वा इदमग्र आसीदीयमान एव स प्रजापतिं समैरयत् । तु. शौनकीय संहिता १५.१.१
स प्रजापतिरात्मनः सुपर्णमपश्यत् ।। १ ।।
तदेकमभवत् तल्ललाममभवत् तन्महदभवत् तज्ज्येष्ठमभवत् ।
तद् सत्यमभवत् तद् ब्रह्माभवत् तेन प्राजायत ।। २ ।।
सोवर्धत स महानभवत् स महादेवोभवत् स ईषानोभवत् स देवानामीशां गच्छेत् स देवानामेकव्रात्योभवत्। ३ ।। ।
स धनुरादत्त तदिन्द्रधनुरभवत् ।
नीलमस्योदर लोहितमस्य पृष्ठम् । ४ ।।
नीलेनाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं
विध्यतीति ब्रह्मवादिनो वदन्ति । ५ ।

18.28
स प्राचीं दिशमनु व्यचलत् । १ ।।
तं बृहच्च रथन्तरं च विश्वे च देवा आदित्याश्चानु व्यचलन् ।। २ ।।
बृहतश्च वै स रथन्तरस्य च विश्वेषां च देवानामादित्यानां च प्रियं धाम भवति य एवं वेद । ३ ।। वृहतश्च
बृहते च वै स रथन्तराय विश्वेभ्यश्च देवेभ्य आदित्येभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । तस्य प्राच्यां दिशि ।। ४ ।। वृहते
श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणि: ।। ५ । । पुंश्चलो
भूतं च भव्यं च परिष्कन्दौ मनो विपथम् मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुर:सरावैनं कीर्तिर्गच्छत्यैनं यशः गच्छति यः एवं वेद ।। ६ ।। विपथवाहौ, पूरःसरा
स दक्षिणां दिशमनु व्यचलत् ।
तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानु व्यचलन् । ७ ।
यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ।
यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
तस्य दक्षिणायां दिशि । ८ ।
उषा: पुंश्चली मन्त्रो मागधो विज्ञानं वासोहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणि: ।। ९ । पूंश्चली
अहश्च रात्री च परिष्कन्दौ मनो विपथम् ।
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथीः रेष्मा प्रतोदः कीर्तिश्च यशश्च पुर:सरावैनं कीर्तिर्गच्छत्यैनं यश गच्छति य एवं वेद । । १० । । विपथबाहौ
स प्रतीची दिशमनु व्यचलत् ।
तं वैरूपं च वैराजं च वरुणश्च राजा पश्चानु व्यचलन् ।।११।।
वैरूपस्य च वै स वैराजस्य च वरुणस्य चापं च राज्ञः प्रियं धाम भवति य एवं वेद ।
वैरूपाय च वै स वैराजाय च वरुणाय च राज्ञेभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
तस्य प्रतीच्यां दिशि ।। १२ ।।
इरा पुंश्चली हसो मागधो विज्ञानं वासोहरुष्णीषं रात्री केषा हरितौ प्रवर्तौ कल्मलिर्मणि: ।
पौर्णमासी चामावास्या च परिष्कन्दौ मनो विपथम् ।
मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथीः रेष्मा प्रतोद:
कीर्तिश्च यशश्च पुर:सरावैनं कीर्तिर्गच्छत्यैनं यशो गच्छति य एवं वेद । १३ ।
स उदीची दिशमनु व्यचलत् ।
तं श्यैतं च नौधसं च सोमश्च राजा सप्तर्षयश्चानु व्यचलन् ।
श्यैतस्य च वै स नौधसस्य च सोमस्य राज्ञ: सप्तर्षीणां च प्रियं धाम भवति य एवं वेद । १४ ।
श्यैताय च वै स नौधसाय च सोमाय च राज्ञे सप्तर्षिभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।
तस्योदीच्यां दिशि ।।१५।।
विद्युत् पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । स्तनइत्नुर्मागधो
श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथम् ।
मातरिश्वा च पवमानश्च विपथवाहौ वात: सारथी रेष्मा प्रतोद: कीर्तिश्च यशश्च पुर:सरावैनं कीर्तिर्गच्छत्यैनं यशो गछति य एवं वेद । १६ । विपथबाहौ

18.29
स संवत्सरमूर्ध्वोतिष्ठत् तं देवा अब्रुवन् व्रात्य किं नु तिष्ठतीति ।
सो ऽब्रवीदासन्दी मे सं भरन्त्विति । तस्मै आसन्दीं समभरन् । १ ।।
तस्या वसन्तश्च ग्रीष्मश्च पूर्वौ पादावास्तां वर्षाश्च शरच्चापरौ ।
तं बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये । । २ । ।
ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ।
वेद आस्तरणं ब्रह्मोपबर्हणं सामासाद उदगीथोपश्रय: तामासीदत् । ३ ।।
तस्य संकल्पा: प्राहाय्या आसन्देवजना: परिष्कन्दा अप्सरस: पत्नी विश्वानि भूतान्युपसद: ।
ऐनं विश्वानि भूतानि गच्छन्ति प्रियो विश्वेषां भूतानां भवति य एवं वेद । ४ ।।

18.30
तस्मै प्राच्या दिश: ।
वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ ।
वसन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ।। १ ।। बृहच्च
तस्मै दक्षिणाया दिशः ।
ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ।
ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद । २ ।।
तस्मै प्रतीच्या दिशः ।
वार्षिको मासौ गोप्तारावकुर्वन् वैरुपं च वैराजं चानुष्ठातारो ।
वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद । ३ ।।
तस्मा उदीच्या दिश: ।
शारदौ मासौ गोप्तारावकुर्वञ्छ्यैतं च नौधसं चानुष्ठातारौ ।
शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद । ४ ।।
तस्मै धुवाया दिश: ।
हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ ।
हैमनावेनं मासी धुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद । ५ ।
तस्मा ऊर्ध्वाया दिश: ।
शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ।
शैशिरावेनं मासौ ऊर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद । ६ ।

18.31
तस्मै प्राचीनादन्तर्देशाद् भवमिष्वासमनुष्ठातारमकुर्वन् ।
भव एनमिष्वास: प्राचीनादन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ।
नास्य पशून् न समानान् हिनस्ति य एवं वेद।।१।।
तस्मै दक्षिणादन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ।
शर्व एनमिष्वासो दक्षिणादन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ।
नास्य पशून् न समानान् हिनस्ति य एवं वेद ।। २ ।।
तस्मै प्रतीचीनादन्तर्देशादुग्र देवमिष्वासमनुष्ठातारमकुर्वन् ।
उग्रं एनमिष्वासो प्रतीचीनादन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ।
नास्य पशून् न समानान् हिनस्ति य एवं वेद ।। ३ ।।
तस्मा उदीचीनादन्तर्देशात् पशुपतिमिष्वासमनुष्ठातारमकुर्वन् ।
पशुपतिरेनमिष्वास उदीचीनादन्तर्देशादनुष्ठातानु तिष्ठति नैनं शवों न भवो नेशान: ।
नास्य पशून् न समानान् हिनस्ति य एवं वेद ।। ४ ।।
तस्मै ध्रुवाया अन्तर्देशाद्रुद्रं देवमिष्वासमनुष्ठातारमकुर्वन्।
रुद्रं एनं देवमिष्वासो ध्रुवादन्तर्देशादनुष्ठातानु तिष्ठति ।
नैनं शर्वो न भवो नेशानः ।
नास्य पशून् न समानान् हिनस्ति य एवं वेद ।। ५ । ।
तस्मा उर्ध्वाया अन्तर्देशान्महादेवमिष्वासमनुष्ठातारमकुर्वन् ।
महादेव एनमिष्वास ऊर्ध्वाया अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशान: ।
नास्य पशून् न समानान् हिनस्ति य एवं वेद ।। ६ ।।
तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् ।
ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ।
नास्य पशून् न समानान् हिनस्ति य एवं वेद ।। ७ ।।

18.32
स धुवां दिशमनु व्यचलत् । तु. शौनकीय अथर्ववेद १५.६.१
तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वीरुधश्च वानस्पत्याश्चानुव्यचलन् ।
भूमेश्च वै सोग्नेश्चौषधीनां च वनस्पतीनां च वीरुधां च वानस्पत्यानां च प्रियं धाम भवति य एवं वेद ।
भूमये च वै सोग्नये चौषधीभ्यश्च वनस्पतिभ्यश्च वीरुद्भ्यश्व वानस्पत्येभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।। १ । ।
स ऊर्ध्वां दिशमनु व्यचलत् ।
तमृतं च सत्यं च सूर्यश्च चन्द्रमाश्चानु व्यचलन् ।
ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रमसश्च ।
ऋताय च वै स सत्याय च सूर्याय च चन्द्रमसे चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।२।
स बृहती दिशमनु व्यचलत् !
तमृचश्च सामानि च यजूंषि च ब्रह्म चानु व्यचलन् ।
ऋचां च वै सा साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ।
ऋग्भ्यश्च वै स सामभ्यश्च यजुर्भ्यश्च ब्रह्मणे चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । ३ ।।
स उत्तमां दिशमनु व्यचलत् ।
तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ।
इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ।
इतिहासाय च वै पुराणाय च गाथाभ्यश्व नाराशंसीभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । ४ ।।
तं परमां दिशमनु व्यचलत् ।
तमृतवश्चार्तवाश्च लोकाश्ध लौक्याश्चानुव्यचलन् ।
ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च प्रियं धाम भवति य एवं वेद ।
ऋतुभ्यश्च वै स आर्तवेभ्यश्च लोकेभ्यश्च लौकेभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । ५ ।
सो कद्रीचीं दिशमनुव्यचलत्
ततो नावर्त्स्यन्नमन्यत ।
तं विराडनु व्यचलन् ।
सर्वे च देवा: सर्वाश्च देवता: ।
विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां च प्रियं धाम भवति य एवं वेद ।
विराजे च वै स सर्वेभ्यश्च देवेभ्यः सर्वाश्च देवताभ्यो आवृश्चते य एवं विद्वांसं व्रात्यमुपवदति।।६।।
सोनादिष्टां दिशोमनु व्यचलत्।
तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन्।
दक्षिणाग्नेश्च वै स गार्हपत्यस्य चाहवनीयस्य यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ।
दक्षिणाग्नये वै स गार्हपत्याय चाहवनीयाय च यज्ञाय च।
यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । ७ ।।
तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् ।
दितेश्च वै सोदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ।
दितये च वै सोदितये चेडायै चेन्द्राण्यै चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।। ८ ।।
स दिशोनु व्यचलत् ।
तं प्रजापति च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् ।
प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ।
प्रजापतये च वै स परमेष्ठिने च पित्रे च पितामहायचा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति ।। ९ ।।
(इति महत् काण्डनाम अष्टादशाकाण्डे पञ्चमो ऽनुवाकः)

18.33
स महिमा सद्रुर्भूत्वान्तं भूम्या अगच्छत् स समुद्रोभवत ।
तं प्रजापतिश्च परमेष्ठीचापश्च श्रद्धा च वर्षं च भूत्वानुव्यवर्तयन्त ।। १ ।।
तं यज्ञश्च लोकश्चान्नञ्चान्नाद्यं च भूत्वाभिपर्यावर्तन्त । । २ ।।
ऐनमापो गच्छत्यैनं वर्षं गच्छत्यैनं श्रद्धा गच्छत्यैनं
गच्छत्यैनमन्नाद्यं गच्छति य एवं वेद । । ३ ।।

18.34
सोरज्यत तस्माद्रज्यमानाद्राजन्यो अजायत ।
स विशः सबन्धूनन्नमन्नाद्यञ्चाभ्युदतिष्ठत् ।
विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ।
विशाभ्यश्च वै स सबन्धूभ्यश्चान्नाय चान्नाद्याय चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । १ । ।

18.35
स विशोनु व्यचलत् ।
तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ।
सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धामो भवति य एवं वेद ।
सभायै च वै समित्यै च सेनायै च सुरायै चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । १ ।।

18.36
यस्यैवं विद्वान् व्रात्यो राज्ञोतिथिर्गृहमागच्छेत् ।
श्रेयांसमेनमात्मनो मानयेत् तथा राष्ट्राय ना वृश्चते तथा क्षत्राय ना वृश्चते तथा ब्रह्मणे ना वृश्चते । १ ।।
ततो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति।।२।।
ते प्रजापतिरब्रवीत् बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रमिति ।
ततो वै बृहस्पतिमेव ब्रह्म प्रा विशदिन्द्रं क्षत्रम् ।। ३ ।।
इयं वा उ भूमिर्बृहस्पतिरसौ द्यौरिन्द्र: ।
अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ।। ४ ।।
ऐनं क्षत्रं गच्छतीन्द्रियावान् भवति य आदित्यं क्षत्रं दिवमिन्द्रं वेद ।।
ऐनं ब्रह्म गच्छति ब्रह्मवर्चसी भवति ।
योग्निं ब्रह्म बृहस्पतिं भूमिं वेद । ५ ।

18.37
यस्योद्धृतेष्वग्निष्वहुते अग्निहोत्रे एवं विद्वान् व्रात्योऽतिथिर्गृहानागच्छेत् ।
स्वयमेनमभ्युदेत्य ब्रूयाद् व्रात्य क्वाऽवात्सीरिति व्रात्योदकमिति व्रात्य तर्पयन्त्विति । १ ।
यदाह व्रात्य क्वाऽवात्सीरिति पथ एव तेन देवयानानव रुन्द्धे ।
व्रात्योदकमित्यप एव तेनाव रुन्द्धे । २ ।।
यदाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कृणुते ।
पुराग्निहोत्रस्य हवनादुपांशु कृण्वीत । ३ ।।
व्रात्य यथा ते प्रियं तथास्त्विति व्रात्य यथा ते निकामस्तथास्त्विति व्रात्य यथा ते वशस्तथास्त्विति । ४ ।।
यदाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्द्धे प्रिये प्रियस्य भवत्यैनं प्रियं गच्छति य एवं वेद ।। ५ ।।
यदाह व्रात्य ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्द्धे निकामे निकामस्य भवत्यैनं निकामो गच्छति य एवं वेद ।६।
यदाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्द्धे वशी वशिनं भवत्यैनं वशो गच्छति य एवं वेद । ७ ।।

18.38
यस्यधिश्रिते अग्निहोत्र एवं विद्वान् व्रात्योऽतिथिर्गृहमागच्छेत् ।
स्वयमेनमभ्युदेत्य ब्रूयाद् व्रात्याति सृज होष्यामीति । १ ।।
स अति च सृजेज्जुहुयान्न चातिसृजेन्न जुहुयात् ।
यो वा एवं विदुषा व्रात्येनातिसृष्टो जुहोति । २ ।।
प्र देवयानं पन्थां जानाति न पितृयाणमा देवेषु वृश्चते हुतमस्य भवति ।
यो वा एवं विदुषा व्रात्येनातिसृष्टो जुहोति । ३ ।।
न देवयानं पन्थां जानाति न पितृयाणां पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ।।४।।

18.39
यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति ।
ये पृथिव्यां पुण्या लोकास्तानेवैनानव रुन्द्धे । १ ।।
यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति ।
ये अन्तरिक्षे पुण्या लोकास्तानेवैनानव रुन्द्धे । २ ।।
यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति ।
ये दिवि पुण्या लोकास्तानेवैनानव रुन्द्धे । ३ ।।
यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति ।
सर्वानेवनेन पुण्या लोकास्तानेव तेनाव रुन्द्धे । ४ । ।
यस्यैवं विद्वान् व्रात्योपरिमिता रात्रिरतिथिर्गृहे वसति ।
य एवापरिमिता: एवैनेन पुण्या लोकान् तेनाव रुन्द्धे । ५ ।

18.40
यस्याव्रात्यो व्रात्यब्रुवो नाम बिभ्रती गृहानतिथिरागच्छेत् ।
कर्षेदेनं न चैनं कर्षेत्। १ ।।
एतस्यै देवताया उदकं याचामीत्यस्मा उदकं याचेत् ।
एतां देवतां परिवेवेष्मीत्येनं परि वेविष्यात् । २ ।।
एतस्यामेवास्य तद् देवतायां हुतमिष्टं भवति य एवं वेद ।। ३ ।।

18.41
यत् प्राचीं दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलन् मनोन्नादं कृत्वा ।
मनसान्नादेनान्नमत्ति य एवं वेद । १ ।।
यद् दक्षिणां दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा ।
मन्युनान्नादेनान्नमत्ति य एवं वेद।।२।।
यत् प्रतीचीं दिशमनु व्यचलद् वरुणो राजा भूत्वानु व्यचलदपोन्नादीः कृत्वा।
अद्धिरन्नादीभिरन्नमत्ति य एवं वेद । ३ ।।
यदुदीचीं दिशमनु व्यचलत् सोमो राजा भूत्वानु व्यचलत् सप्तर्षिभिर्हुत
आहुतिमन्नादीं कृत्वा ।
आहुत्यान्नाद्यान्नमत्ति य एवं वेद । ४ ।।
यद् ध्रुवां दिशमनु व्यचलद् विष्णुर्भूत्वानुव्यचलद् विराजमन्नादीं कृत्वा ।
विराजान्नाद्यान्नमत्ति य एवं वेद । ५ ।
यदूर्ध्वां दिशमनु व्यचलद् बृहस्पतिर्भूत्वानु व्यचलद् वषट्कारमन्नादं कृत्वा ।
वषट्कारेणान्नादेनान्नमत्ति य एवं वेद । ६ ।
यत् पशूननु व्यचलद् रुद्रो भूत्वानु व्यचलदोषधीभिरन्नादी: कृत्वा ।
ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद । ७ ।।
यद् देवाननु व्यचलदीशानो भूत्वानु व्यचलद् बलमन्नाद कृत्वा ।
बलेनान्नादेनान्नमत्ति य एवं वेद ।८ ।
यन् मनुष्याननु व्यचलदग्निर्भूत्वानु व्यचलत् स्वाहाकारमन्नादं कृत्वा ।
स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद । ९ ।
यत् पितॄननु व्यचलद् यमो राजा भूत्वानुव्यचलत् स्वधाकारमन्नादं कृत्वा ।
स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद । १० ।
यत् प्रजा अनु व्यचलत् प्रजापतिर्भूत्वानु व्यचलत् प्राणमन्नादं कृत्वा ।
प्राणेनान्नादेनान्नमत्ति य एवं वेद ।। ११ ।।
यदन्तर्देशाननु व्यचलद् वायुर्भूत्वानुव्यचलत् वातमन्नादं कृत्वा ।
वातेनान्नादेनान्नमत्ति य एवं वेद । १२ ।
यद् दिशोनु व्यचलत् परमेष्ठी भूत्वानु व्यचलद् ब्रह्मान्नादं कृत्वा ।
ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ।। १३ ।।श्री।।विष्णुरिति।।

18.42
तस्य सप्त प्राणा: सप्तऽपाना: सप्त व्याना: ॥
यो ऽस्य प्रथम: प्राण उर्द्ध्वो नाम सोयमग्निः । । १ । ।
यो ऽस्य द्वितीय: प्राण: प्रौढो नामा सोसावादित्य: ।
यो ऽस्य तृतीय: प्राणो ऽभ्यूढो नामासौ स चन्द्रमाः ।।२ ।।
यो ऽस्य चतुर्थ: प्राणो विभूर्नाम सोयं पवमान: ।
यो ऽस्य पञ्चमः प्राणोपरिमितो नाम त इमे पशव: ।। ३ ।।
यो ऽस्य षष्ठ: प्राण: प्रियो नाम ता इमा: प्रजाः ।
यो ऽस्य सप्तम: प्राणो योनिर्नाम ता इमा आप: ।। ४ ।।

18.43
यो ऽस्य प्रथमो ऽपानः । सा पौर्णमासी । १ ।।
यो ऽस्य द्वितीयो ऽपानः । सा अष्टका । २ ।।
यो ऽस्य तृतीयो ऽपानः । सामावास्या । ३ ।।
यो ऽस्य चतुर्थो ऽपानः । सा श्रद्धा । ४ ।।
यो ऽस्य पञ्चमो ऽपान: । सा दीक्षा । ५ ।
यो ऽस्य षष्ठो ऽपान: । स यज्ञ: ।। ६ ।।
यो ऽस्य सप्तमो ऽपानः । स वषट्कार: ! ।। ७ ।।
यो ऽस्य प्रथमो व्यान: । सेयं भूमिः । । ८ ।।
यो ऽस्य द्वितीयो व्यान: । तदन्तरिक्षम् । ९ ।
यो ऽस्य तृतीयो व्यान: । सा द्यौ: ।। १० ।
यो ऽस्य चतुर्थो व्यान: । तानि नक्षत्राणि ।। ११ । ।
यो ऽस्य पञ्चमो व्यान: । त ऋतवः । । १२ ।।
यो ऽस्य षष्ठो व्यान: । त आर्तवा । । १ ३ । ।
यो ऽस्य सप्तमो व्यान: । स संवत्सर: ।। १४ ।
समानमर्थं परि यन्ति देवा इति संवत्सरं वा एतदृतवोनुपरियन्ति तदमावास्यां च अभिसंविशन्ति।१४।।
तदेकं रूपममृतत्वमेषामित्याहुतिरेव ।
रूपं रूपं तपसा वर्धमाना इत्यहोरात्र एव । १५ ।
यो ऽस्य दक्षिण कर्ण: सो ऽयमग्निर्यः सव्य: सो ऽयं पवमान: ।। १६ ।।
यदस्य दक्षिणमक्ष्यसावादित्यो यत् सव्यं तदसौ स चन्द्रमा: ।। १७ ।।
दितिश्चादितिश्च शीर्षकपाले संवत्सर: शिरो ऽहोरात्रे नासिके ।
रात्र्या प्राङ अह्ना प्रत्यङ् नमो व्रात्याय ।। १८ ।।
(इति महत् काण्डनाम अष्टादशकाण्डे षष्ठो अनुवाको)

18.44
अतिसृष्टो अपां वृषभो अतिसृष्टा अग्नयो दिव्या: ।
रुजं परिरुजं मृणं प्रमृणं म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषि:। १ । ।
इदं तानति सूजामि तां माभ्यवनिक्षि ।
तैस्तमभ्यति सृजामि यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ।। २ ।।
अपामग्रमसि समुद्रं त्वाभ्यवसृजामि ।
यो अप्स्वग्नयो ऽति तां सृजामि म्रोकं खनिं तनूदूषिम् । ३ । ।
यो व आपो ऽग्निराविवेश स एष यद् वो घोरं तदेतत् ।
इन्द्रस्यैन्द्र्येणाभि षिञ्जेत् अरिप्रा आपो अप रिप्रमस्मत् ।
प्रैनो वहतु प्र दुष्ष्वप्न्यम् ।। ४ ।।
शिवेन मा चक्षुषा पश्यताप: शिवया तन्वोप स्पृशत त्वचं मे ।
शिवानग्नीनप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ।।५ । ।

18.45
निर्दुरर्मण्य ऊर्जा मधुमती वाङ् मधुमती स्थ ।
मधुमतीं वाचमुदेयं वाचोहं मा यवम् ।। १ । ।
अदब्धो मे गोपा अदब्धो गोपीथ: ।
सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम्।।२।।
उपश्रुतिश्च मानुश्रुतिश्च मा हाशिष्टां सौपर्णं चक्षुरजस्रं ज्योति: ।
ऋषीणां प्रस्तरोसि नमो दैवाय प्रस्तराय ।
मूर्धाहं रयीणां मूर्धा समानानां भूयासम्। ३ ।।

18.46
रुजश्च मा वेनश्च मा हासिष्टामुर्वश्च मा चमसश्च
मा हासिष्टां विमोकश्च मार्द्रपविश्च मा हाशिष्टामार्द्रदानुश्च
मा मातरिश्वा च मा हासिष्टां मूर्धा च मा विधर्मा च
मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टां
मृधश्च मा वैमृधश्च मा हासिष्टाम् ।। १ ।।
बृहस्पतिर्म आत्मा नृमणा नाम ।
हृदयाजरसं मा मा हासीरसंतापं मे हृदयमस्तु । २ ।।
उर्वी गव्यूति: समुद्रो अस्मि विधर्मणा ।
नाभिरहं रयीणां नाभि: समानानां भूयासम्। ३ ।।
18.47
स्वासदसि सूषा अमृतो मर्त्येष्वा ।
मा मां प्राणोवहाय परा गान्मा मां अपानोवहाय परा गात्।।१।।
सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्य: सरस्वती पार्थिवेभ्य: ।
प्राणापानौ मा मा हासिष्टं मा जने प्र मेषि ।
स्वस्त्यद्योषसो दोषसश्च सर्व आप: सर्वगणी अशीय ।२।

18.48
सु भूरसि रश्मिरस्यायुर्द्धास्यायुर्मयि धेहि ।
सु भूरसि रश्मिरसि वर्चोधा असि वर्चो मयि धेहि ।। १ ।।
सु भूरसि रश्मिरसि तेजोधासि तेजो मयि धेहि ।
सूर्यो मे वर्चोधा वर्चा दधात्विन्द्रियमसीन्द्रियं मयि धेहि ।
वर्चोसि वर्चो मयि धेहि ।। २ ।।
शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु । ३ ।।
(इति महत् काण्डनामअष्टादाकाण्डे सप्तमो अनुवाक:)

18.49
विद्म ते स्वप्न जनित्रं पाप्मन: पुत्रोसि यमस्य करणः । तु. शौनकीय अथर्ववेदः १६.५.१
स नः स्वप्न सुष्वप्न्यात् पाहि ।। १ ।।
विद्म ते स्वप्न जनित्रं ग्राह्या: पुत्रोसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि । २ । `
विद्म ते स्वप्न जनित्रं निर्ऋत्याः पुत्रोसि यमस्य करण: ।
स नः स्वप्न सुष्वप्न्यात् पाहि ।। ३ ।।
विद्म ते स्वप्न जनित्रं अभूत्या: पुत्रोसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ।। ४ ।।
विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोसि यमस्य करण: ।
स नः स्वप्न सुष्वप्न्यात् पाहि ।। ५ ।
विद्म ते स्वप्न जनित्रं पराभूत्या: पुत्रोसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ।। ६ ।।
विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोसि यमस्य करणः ।
स नः स्वप्न सुष्वप्न्यात् पाहि ।। ७ ।।

18.50
अजैष्माद्यासनामाद्याभूमानागसो वयम् ।
उषो यस्माद् दुष्वप्न्यादभैष्माप तदुच्छतु ।। १ ।।
द्विषते तत् परा वह शपते तत् परा वह ।
यं द्विष्मो यच्च नो द्वेष्टि तस्मा एनद् गमयामः ।। २ ।।
उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना । ।
उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिरुषस्पतिना संविदानः ।। ३ । ।
ते ऽमुष्मै परा वहन्त्वरायान् दुर्णाम्न: सदान्वारक्षांसि ।
कुम्भीका दूषीका: पीयकान् । ४ ।।
जाग्रद् दुष्वप्न्यं स्वप्न्येदुष्वप्न्यम् ।
अनागमिष्यतो वरानवित्तेः संकल्पानमुच्या द्रुहः पाशान्।।५ ।।
तदमुष्माग्ने परा वहन्तु देवा: वाध्रिर्यथासद् विथुरो न साधुः ।
तदस्मै गमयाम इति । ६ ।

18.51
एवानेवाव सा गरत् !
असौ मां द्वेष्टि स आत्मानं द्वेष्टु यो ऽस्मान् द्वेष्टि तमात्मा द्वेष्टु । ।१ ।।
निर्द्विषन्तं दिवो निष्पृथिव्या निरन्तरिक्षात् भजाम। सुयामंश्चाक्षुष।। २ ।।
इदमहममुमामुष्यायणेमुष्या: पुत्रे दुष्वप्न्यादव दये ।
यददोअदो अभ्यगच्छन् यद् दोषा यत्पूर्वाङ् रात्रिम् ।
यद् दिवा यन्नक्तं यज्जाग्रतो यत् स्वपन्तः ।। ३ ।।
यदहरह: दुष्वप्न्यमभिगच्छामि तस्मादेनमव दये ।
तं जहि तेन मन्दस्व तस्य पृष्ठीरपि शुणीहि तं प्राणो जहातु ।
स वि प्राणो अस्तु स प्र मीयतां सततो मा जीवीत् ।। ४ ।। जीवित्

18.52
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्। । तु. शौनकीय संहिता १६.८.१
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स ग्राह्या: पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमन्तमो गमयामि । । १ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स निर्ऋत्या: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
सोभूत्या: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। ३ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स निर्भूत्या: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। ४ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स पराभूत्याः पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। ५ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स देवयामीनां पाशानमा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। ६ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स ऋषीणां पाशान्मा मोचि । ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। ७ ।।
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स आर्षेयाणां पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। ८ । ।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
सो ऽङ्गिरसां पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। ९ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स आङ्गिरसानां पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १० । ।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माक ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स अथर्वणां पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। ११ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स आथर्वणानां पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १२ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स ऋतूनां पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १३ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स आर्तवानां पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १४ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्। ।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स ओषधीनां पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १५ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम्।।
स वीरुधां पाशान्मा मोचि । तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १६ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम्।
स वनस्पतीनां पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १७ । ।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामीमुमामुष्यायणममुष्या: पुत्रम् । ।
स वानस्पत्यानां पाशान्मा मोचि !
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १८ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स इदावत्सरस्य पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। १९ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स परिवत्सरस्य पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २० ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।
स संवत्सरस्य पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २१ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
सोऽहोरात्रयो: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २२ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।
सोह्नोः संयतोः पाशान्मा मोचि।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २३ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोऽस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रम् ।
स इन्द्राग्न्योः पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २४ ॥
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स बृहस्पते: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २५ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स प्रजापते: पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २६ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्॥
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स परमेष्ठिन: पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २७ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्या: पुत्रम् ।
स राज्ञो वरुणस्य पाशान्मा मोचि ।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २८ ।।
जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोस्माकं ब्रह्मास्माकं
स्वरस्माकं यज्ञोस्माकं पशवोस्माकं वीरा अस्माकं प्रजा अस्माकम्।
तस्मान्निर्भजामोमुमामुष्यायणममुष्याः पुत्रम् ।
स मृत्यो: पड्बीशात् पाशान्मा मोचि ।।
तस्येदं प्राणमायुर्नि वेष्टयामीदमेनमधमं तमो गमयामि ।। २९ ।।

18.53
जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अराती: स्वरभ्यावर्त्ते।
सूर्यस्यावृतमन्वावर्त्ते दक्षिणामन्वावृतम् ।। १ ।।
तदग्निराह तदु सोम आहः पूषा मा धात् सुकृतस्य लोके । ।
अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषामागन्म ।
वस्योभूयाय वसुमान् यज्ञो वसु वंशिषीय वसुमान् भूयासम्।। १२ । ।
(ड़ति महत् काण्डनाम अष्टादशकाण्डे अष्टमो अनुवाक:)

18.54
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम् ।
विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजित संधनाजितम ।
ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ।। १ । । इड्यं
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम् ।
विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजितं संधनाजितम ।
ईडयं नाम ह्व इन्द्रं देवानां प्रियो भूयासम्। २ ।।
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।
विश्वजितं स्वर्जितमभिजितं वसुजितं गोजितं संजितं संधनाजितम ।
ईड्यं नाम ह्व इन्द्रं प्रजानां प्रियो भूयासम्।। ३।।
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।
विश्वजितं स्वर्जितमभिजित वसुजितं गोजित संजितं संधनाजितम ।
ईड्यं नाम ह्व इन्द्रं पशूनां प्रिय भूयासम् ।। ४
विषासहिं सहमानं सासहानं सहीयांसं सहमानं सहोजितम ।
विश्वजितं स्वर्जितमभिजित वसुजितं गोजित संजितं संधनाजितम ।
ईड्यं नाम ह्व इन्द्रं समानानां प्रियं भूयासम् । ५ ।

18.55
उदिद्युदिहि सूर्य वर्चसा माभ्युदिहि ।
द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद् विष्णो बहुधा वीर्याणि।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।१।
अदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।
यांश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेत् विष्णो बहुधा वीर्याणि।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।२।
मा त्वा दभन् सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र ।
हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम
तवेद् विष्णो बहुधा वीर्याणि।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन्।।३।।
त्वं न इन्द्र महते सौभगायादब्धेभि: परि पाह्यक्तुभिस्तवेद् विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।।४।।
त्वं न इन्द्रोतिभिः शिवाभि: शन्तमो भव ।
आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन्।।५।।
त्वमिन्द्रासि विश्वजित् सर्ववित् पुरुहूतस्त्वमिन्द्रेमं सुहवं स्तोममेरयस्व।
शिवाभिस्तनूभिरभि नः सजस्व तवेद् विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपैः स्वधायां नो धेहि परमे व्योमन्।। ६ ।।
अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।
अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षञ्छर्म यच्छ तवेद विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।७।
या त इन्द्र तनूरप्स्वन्तर्यान्तरग्नौ या पृथिव्यां या त इन्द्र पवमाने स्वर्विदि।
ययेन्द्र तन्वा ऽन्तरिक्षं समापिथ तया त इन्द्र तन्वा सं शिसाधि तवेद् विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।८ । ।
त्वामिन्द्र ब्रह्मणा वर्धयन्त: सत्त्रं नि षेदुर्ऋषयो नाधमानास्तवेद् विष्णो बहुधा वीर्याणि ।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।९।
ऋतस्य पन्थामन्वेषि विद्यांस्तमिमा विश्वा भुवनानु तिष्ठसि तवेद् विष्णो बहुधा वीर्याणि ।
त्वं नः पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।१०।।

18.56
सप्तभि पराङ् तपस्येकयार्वाङ् अशस्तिमेषि सुदिने वाधमानः।
त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं
तवेद् विष्णो बहुधा वीर्याणि।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।१।
त्वमिन्द्रस्त्वं महेन्द्रस्त्वं विष्णुस्त्वं प्रजापति: ।
तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद् विष्णो बहुधा वीर्याणि।
त्वं नः पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन्।।२।।
असति सत् प्रतिष्ठितं सति भूतं प्रतिष्ठितम्।
भूतं ह भव्य आहितं भव्यं भूते समाहितं तवेद् विष्णो बहुधा वीर्याणि।
त्वं न: पृणीहि पशुभिर्विश्वरूपै: स्वधायां नो धेहि परमे व्योमन् ।।३।।
शुक्रो असि भ्राजो असि।
स यथा त्वं भ्राजता भ्राजोस्येवाहं भ्राजता भ्राज्यासम्। ४ ।।
रुचिरोसि रोचो असि।
स यथा त्वं रुच्या रोचोस्येवाहं प्रजया
पशुभिर्ब्राह्मणवर्चसेन रुचिषीय । ५ ।
उद्यते नम उदायते नम उदिताय नमः ।
विराजे नम: स्वराजे नम: सम्राजे नम: ।। ६ ।
अस्तंयते नमोस्तमेष्यते नमोस्तमिताय नम: ॥
विराजे नम: स्वराजे नम: सम्राजे नम: ।। ७ ।।
आदित्या नावमारुक्ष: शतारित्रां स्वस्तये ।
अहर्नो अत्यपीपरो रात्रिं सत्राति पारय । ८ । ।
सूर्य नावमारुक्ष: शतारित्रां स्वस्तये ।
रात्रिं नो अत्यपीपरोह: सत्राति पारय । ९ ।
प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
जरदष्टि: कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ।। १० ।।
ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्त उत भव्येन चाहम् ।
मा मा प्रापन्निषवो दैव्या या मा मानुषीरवसृष्टा वधाय । ११ ।
परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
मा मा प्रापत् पाप्मा मोत मृत्युरन्तर्दधेहं सलिलेन वाचः ।। १२ ।।
अग्निर्मा गोपाः परि पातु विश्वतो व्युच्छन्तीरुषसः पर्वता ध्रुवा: ।
उद्यन् सूर्यो नुदतां मृत्युपाशान् सहस्रं प्राणा मयि ते रमन्ताम् ।। १३ ।।
(इति महत् काण्डनाम अष्टादशाकाण्डे नवमो ऽनुवाकः)
। महत्काण्डे द्वितीयखण्ड: समाप्त: ।

अथ महत् काण्डे मङ्गला खण्डम्

18.57
ओ चित् सखायं सख्या ववृत्यां तिर: पुरू चिदर्णवं जगन्वान् । तु. शौनकीय संहिता १८.१.१
पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दध्यान: ।। १ ।।
न ते सखा सख्यं वष्टयेतत् सलक्ष्मा यद् विषुरूपा भवाति ।।
महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन्। २ ।।
उशन्ति घा ते अमृतास एतदेकस्य चित् त्यजसं मर्त्यस्य ।
नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ।। ३ ।।
न यत् पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।
गन्धर्वो अप्स्वप्या च योषा सा नो नाभि: परमं जामि तन्नौ । ४ ।।
गर्भे नू नौ जनिता दंपती कर्देवस्त्वष्टा सविता विश्वरूपः ।
नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ।। ५ ।।
को अद्य युङक्ते धुरि गा ऋतस्य शिमीवतो भामिनो दूर्हृणायून् ।
आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत् स जीवात् ।। ६ ।।
को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।
बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नृन् ।।७ ।।
यमस्य मा यम्यं काम आगन् त्समाने योनौ सहशेय्याय ।
जायेव पत्ये तन्वं रिरिच्यां वि चिद् वृहेव रथ्वेव चक्रा।।८।।
न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति । ईह
अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्वेव चक्रा । ९ ।
रात्रीभिरस्मा अहभिर्दशस्येत् सूर्यस्य चक्षुर्मुहरुन्मिमीयात् ।
दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ।। १० ।।

18.58
आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि । तु. शौनकीय अथर्ववेद १८.१.११
उप बर्बहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्। १ ।।
किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निऋतिर्निगच्छा ।
काममूता बह्वेतद् रपामि तन्वा मे तन्वं सं पिपृग्धि । २ ।।
न वा उ ते तन्वा तनूं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।
अन्येन मत् प्रमुद: कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्। ३ ।।
न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।
असंयदेतमनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय । ४ ।।
बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ।।५।।
तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ।
अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् ।। 1६ ।।
त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।
वाता आपो ओषधयस्तान्येकस्मिन् भुवनार्पितानि ।।७।।
वृषा वृष्णे दुदुहे दोहसा दिव: पयांसि यह्वो अदितेरदाभ्य:।
विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियान् ऋतून् ।। ८ ।।
रपद् गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मन: ।
इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठ: प्रथमो वि वोचति । ९ ।
सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।
यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ।। १o 1 ।।

18.59
अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषिर: श्येनो अध्वरे ।
यदी विशी वृणते दस्ममार्या अग्निं होतारमध धीरजायत ।१।
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वर: ।
विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवाङ् उपयाहि भूरिभि:।।२।।
उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ।।३।।
यस्ते अग्ने सुमतिं मर्तो अख्यत् सहसः सूनो ऽति स प्र श्रुण्वे ।
इषं दधानो वहमानो अश्वैरा स द्युमाङ् अमवान् भूषति द्यून् ।।४।। द्युन्
श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा प्रथममृतस्य द्रवित्नुम् ।
आ नो वह रोदसी वेदपुत्रे माकिर्देवानामप भूरिह स्या: ।।५।।
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
रत्ना च यद् विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ।।६।।
प्रत्यग्निरुषसामग्रमख्यत् प्रत्यहानि प्रथमो जातवेदा: ।
प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ।।७।।
अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदा: ।
अनु सूर्यस्य पुरुधा च रश्मीननु द्यावापृथिवी आ ततान ।।८ ।।
द्यावा ह क्षामा प्रथमे ऋतेनाभि ऽश्रावे भवत: सत्यवाचा ।
देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ् स्वमसुं यन् ।। ९ ।।
देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
धूमकेतु: समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ।।१०।।

18.60
अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे । शृणतं
अहा यद् देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ।।१।।
स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत् ते यजुर्गुदुहे यदेनी दिव्यं घृतं वा: ।। २ ।।
किं स्विनो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति।३।।
दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद् विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् । ४ ।।
यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ।। ५ ।।
यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
मित्रो नो अत्रादितिरनागान् सविता देवो वरुणाय वोचत् ।।६।।
सखाय आ शिषामहे ब्रहोन्द्राय वज्रिणे ।
स्तुष ऊ षु नृतमाय धृष्णवे । । ७ ।।
शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
मधैर्मघोनो अति शूर दाशसि । ८ ।
स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।
मित्रो नो अत्र वरुणो युज्यमानो अग्निर्वने न व्यसृष्ट शोकम्।। ९ ।।
स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।
मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत् ते नि वपन्तु सेन्यम्।। १० ।।

18.61
सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्। १ ।।
सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणा: ।
आसद्यास्मिन् बर्हिषि मादयध्वं अनमीवा इष आ धेह्यस्मे ।। २ ।।
सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।
सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि । ३ ।।
उदीरतामवर उत् परास उन्मध्यमा: पितर: सोम्यासः ।
असुं य ईयुरवृका ऋतज्ञास्ते नोवन्तु पितरो हवेषु । ४ ।।
अहं पितॄन् सुविदत्राङ् अवित्सि नपातं च विक्रमणं च विष्णो: ।
बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठा: ।। ५ ।।
इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये ऽपरासः परे ईयुः ।
ये पार्थिवे रजस्या निषता ये वा नूनं सुवृजनासु दिक्षु ।।६।।
मातली कवैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।
यांश्च देवा वावृधुर्ये च देवान् त्स्वाहान्वे स्वधयान्वे मदन्ति । ७ ।।
स्वादुष्किलायं मधुमाङ् उतायं तीव्र: किलायं रसवाङ् उतायम् ।
उतो न्वस्य पपिवाङ्समिन्द्रं न कश्चन सहत आहवेषु ।। ८ ।।
परेयिवासं प्रवतो महीरिनु बहुभ्यः पन्थामनुपस्पशानम् ।
वैवस्वतं सङ्गमनं जनानां यमं राजानं हविषा दुवस्य । । ९ ।।
यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ । गव्युति
यत्रा नः पूर्वे पितरः परेयुरेना यज्ञाना: पथ्या अनु स्वा: ।। १० ।। पुर्वे

१८ - ६२ 18.62
बर्हिषद: पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेनाधा न: शं योररपो दधात् ।। १ ।।
आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे ।
मा हिंशिष्ट पितरः केन चिन्नो यद् व आगः पुरुषता कराम।। २ ।।
त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति ।
यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश । ३ ।।
प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा ते पूर्वे पितरः परेता: ।
उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम्।। ४ । ।
अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् । ।
अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै । ५ ।
उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि । नीधी
अशन्नुशत आ वह पितॄन् हविषे अत्तवे । ६ ।
द्युमन्तस्त्वा निधीमहि द्युमन्तः समिधीमहि । नीधीमहि
द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे । ७ ।।
(इति महत् काण्डनाम अष्टादशकाण्डे दशमो अनुवाक:)

18.63
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यास: । तु. शौनक संहिता १८.१.५८
तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम। १ ।।
अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।
विवस्वन्तं हुवे य: पिता ते अस्मिन् यज्ञे बर्हिष्या निषद्यः ।।२ ।।
इमं यम: प्रस्तरमा हि सीदाङ्गिरोभिः पितृभि: संविदानः ।
आ त्वा मन्त्रा: कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व।। ३ ।।
यमाय सोमं सुनुत यमाय जुहुता हवि: ।
यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृत: ।। ४ ।।
यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
स नो जीवेष्वा यमेद् दीर्घमायुष्प्रजीवसे । ५ ।
यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन ।
इदं नमो ऋषिभ्यः पूर्वजेभ्य: पूर्वेभ्यः पथिकृद्भ्य: ।। ६ ।।
त्रिकटुकेभि: पतति षडुर्वीरेकमिद् बृहत् ।
त्रिष्टुब् गायत्री छन्दांसि सर्वा ता यम आर्पिता । ७ ।।
मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
यदा शृतं कृणवो जातवेदो ऽथेमेनं प्र हिणुतात् पितृभ्यः ।। ८ ।।
शृतं यदा करसि जातवेदो ऽथेमेनं परि दत्तात् पितृभ्य: ।
यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवति । ९ ।
सूर्यं चक्षुर्गच्छतु वातमात्मना दिवं च गच्छ पृथिवीं च धर्मणा ।
आपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठाः शरीरैः ।। १० ।।

18.64
अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ।। १ ।। तु. शौनक संहिता १८.२.८
यास्ते शोचयो रंहयो जातवेदस्तन्वः क्रूराः पर्यङ्खयाते । क्रुराः
अजं यन्तमनु तास्ते समृण्वतामथेतराभि: शिवतमाभिः शृतं कृधि ।।२ ।।
अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः ।
आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ।। ३ ।।
अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
अधा पितॄन् त्सुविदत्राङ् उपेहि यमेन ये सधमादं मदन्ति । ४ ।।
यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा ।
ताभ्यामेनं परि धेहि राजन् स्वस्ति चास्मा अनमीवं च धेहि।। ५ ।।
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाङ् अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् । ६ ।
सोम एकेभ्यः पवते घृतमेक उपासते ।
येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ।। ७ ।।
ये च पूर्वे ऋतसाता ऋतजाता ऋतायव: ।
पितॄन् तपस्वतो यम तपोजाङ् अपि गच्छतात् । । ८ ।।
तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
तयो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् । ९ ।
सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
ऋषीन् तपस्वतो यम तपोजाङ् अपि गच्छतात् । । १० ।।

18.65
ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः ।
ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् । १ ।। तु. शौनक संहिता १८.२.१७
सोनास्मै पृथिवी भवानृक्षरा निवेशनी ।
यच्छास्मै शर्म सप्रथा: ।। २ ।।
असंबाधे पृथिव्या उरी लोके नि धीयते ।
स्वधा याश्चक्रुषे जीवन् तास्ते सन्तु मधुश्चुत: ।। ३ ।।
ह्वयामि ते मनसा मन इमान् गुहान् उप जुजुषाण एहि ।
सं गच्छस्व पितृभिर्यच्च दत्तं स्योनास्त्वा
वाता उप वान्तु शग्मा: ।। ४ ।।
आ त्वा वहन्तु मरुत उदवाहा उदप्लुतः ।
अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ।। ५ ।।
उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।
स्वान् गच्छतु ते मनो अधा पितॄन् उप द्रवः ।। ६ ।।
मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।
मा ते हास्त तन्वः कि चनेह । ७ ।
मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।
लोकं पितृषु वित्त्वैधस्व यमराजसु । ८ ।
यत् ते अङ्ग विनिहतं पराचैरपान: प्राणो य उ ते परेत: ।
तत् ते संगत्य पितर: सनीडा घासे घासमा सादयन्तु । ९ ।
अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादित: ।
मृत्युर्यमस्यासीद् दूत: प्रचेता असून् पितृभ्यो गमयां चकर्थ।। १० ।।

18.66
ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।
परापुरो निपुरो ये हरन्ति तानस्माद्यज्ञात् प्र धमन्तु देवा: ।। १ ।।
सं विशन्त्चिह पितर: स्वा नः स्योनं कृण्वन्त प्रतिरन्त आयुः ।
तेभ्य: शकेम हविषा नक्षमाणा ज्योग् जीवन्तः शरदः पुरुचीः ।।२ ।।
यां ते धेनुं निपृणामि यं वा ते क्षीर ओदनं ।
तेना जनस्यासो भर्ता योत्रासदजीवन: ।। ३ ।।
अश्वावतीं प्र तर या शुशेवा ऋक्षाकं वा प्रतरं नवीय: ।
यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद् विदत भागधेयम् ।।४।।
यमः परस्तादवरो विवस्वान् ततः परं नाति पश्याम्यन्यत् । परोस्तादवरो
यमे अध्वरो अधि मे निविष्टो भुवो विवस्वानन्वाततान । ५ ।
अपागूहन्नमृतां मर्त्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।
उताश्विनावभरद् यत् तदासीदजहादु द्वा मिथुना सरण्यू:।। ६ । उतास्विना
ये निखाता ये परोप्ता ये दग्धा ये चोद्धिता: ।
सर्वांस्तानग्न आ वह पितॄन् हविषे अत्तवे । ७ ।।
ये चेह पितरो ये च नेह याङ्श्च विद्म याङ् उ च न प्रविद्म ।
त्वं वेत्थ यदि ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषन्ताम् ।। ८ ।।
शं तप माति तपो अग्ने मा तन्वं तप: ।
वनेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः । । ९ ।।
ददाम्यस्मा अवसानमेतद् य एष आगन् मम चेदभूदिह ।
यमचिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह । १० ।

18.67
प्रेमां मात्रां मिमीमहे यथा परं न मासातै ।
शते शरत्सु नो पुरा । १ ।।
उदिमां मात्रां मिमीमहे यथा परं न मासातै ।
शते शरत्सु नो पुरा । २ ।।
अपेमां मात्रां मिमीमहे यथा परं न मासातै ।
शते शरत्सु नो पुरा । ३ ।।
वीमां मात्रां मिमीमहे यथा परं न मासातै ।
शते शरत्सु नो पुरा । ४ ।।
निरिमां मात्रां मिमीमहे यथा परं न मासातै । शते शरत्सु नो पुरा । ५ ।
अमासि मात्राङ् स्वरगामायुष्मान् भूयासम् ।
यथापरं न मासातै शते शरत्सु नो पुरा । ८ ।
प्राणो अपानो उत वा व्यान आयुश्चक्षुर्दृशये सूर्याय ।
अपरिपरेण पथा यमराज्ञ: पितॄन् गच्छ । ९ ।
ये नः पितुः पितर ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
य आक्षियन्ति पृथिवीमुत द्यां तेभ्यो पितृभ्यो नमसा विधेम ।। १० ।।
ये अग्रव: शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्त: ।
ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ।। ११ ।।
उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।
तृतीया ह प्रद्यौरिति यस्यां पितर आसते । १२ । ।
इदमिद् वा उ तमं दिवि पश्यति सूर्यम् ।
माता पुत्र यथा सिचाभ्येनं भूम ऊर्णुहि । १३ ।

18.68
इदमिद् वा उ नापरं जरस्यत उतापरम् ।
जाया पतिमिव वाससाभ्येनं भूम ऊर्गुहि ।। १ ।। तु. शौनक संहिता १८.२.५०
अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।
जीवेषु भद्रं तन्मयि स्वधा पितृषु सा तव ।। २ ।।
अग्नीषोमा पथिकृता स्योनं देवभ्यो रत्नं दधथुर्वि लोकम् ।
उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतु ।। ३ ।।
पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः ।
स त्वैतेभ्य: परि ददत् पितृभ्यो अग्निर्देवेभ्यः सुविदत्रियेभ्यः ।।४ ।।
आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ।। ५ ।।
इदं त्वा वासः प्रथमं न आगन्नपैतदूह यदिहाबिभः पुराः।
इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा तत्र गच्छतु।।६।।
इमौ जुनज्मि ते वह्नी असुनीताय नेतवे। असूनीताय
ताभ्यां यमस्य सादनं समितिं चोप गच्छतात्। ७ ।।
अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोणुष्व पीवसा मेदसा च ।
नेत् त्वा धृष्णुर्हरसा जर्हृषाणो दधृग् विधक्षन् परीङ्खयातै ।। ८ ।।
धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।
अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम । ९ ।
दण्डं हस्तादाददानो मृतस्य सह श्रोत्रेण वर्चसा बलेन ।
समागृभाय वसु भूरि पुष्टमर्वाङ् त्वमेह्यभि जीवलोकम् । १० ।
इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।
धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ।। ११ ।।
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ।। १२ ।।
(ड्रति महत् काण्डनाम अष्टादशकाण्डे एकादशो अनुवाक:)

18.69
अपश्यं युवतिं नीयमानां जीवां मृतेभ्य: परिणीयमानाम् ।
अन्धेन यत् तमसा प्रावृतासीत् प्राक्तो अपाचीमनयं तदेनाम् ।। १ ।।
प्रजानत्यघ्न्ये जीवलोकं भरन्ति देवानां पन्थामनुसंचरन्ती ।
एष ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ।। २ ।।
उप द्यामुप वेतसमवत्तरो नदीनाम् ।
अग्ने पित्तमपामसि । ३ ।।
यं त्वमग्ने समदहस्तमु निर्वापया पुन: ।
क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा । ४ । ।
इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे । ५ ।
उतिष्ठ प्रेहि प्र द्रवौक: कृणुष्व सलिले सधस्थे ।
तत्र त्वं पितृभि: संविदान: सं सोमेन मदस्व सं स्वधाभि:।। ६ ।
प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम्।
मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ । ७ ।।
वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।
चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धयन्तु ।। ८ । ।
वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।
रयिं मे विश्वे नि यच्छन्तु देवा: शुद्धा आपः पवनैर्मा पुनन्तु । । ९ ।।
मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।
वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ।। १० ।।

18.70
यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य । १ ।।
परा यात पितर आ च यातायं वो यज्ञो मधुना समक्त: ।
दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च न: सर्ववीरं दधात ।। २ । ।
कण्व कक्षीवान् पुरुमीढो अगस्त्य श्यावाश्वः सोभर्यर्चनानाः ।
विश्वामित्रोयं यमदग्निर्वसिष्ठऽवन्तु नः कश्यपो वामदेवः ।। ३ ।।
विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतमो वामदेव ।
शर्दिर्नो अत्रिरग्रभीन्नमोभिः सुसंशास: पितरो मृडता नः । । ४ ।।
कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।
आप्यायमाना: प्रजया धनेन शुद्धा भवन्त: शुचय: पावका: ।। ५ । ।
यद् वो मुद्रं पितर: सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।
ते अर्वाण: कवय आ शृणोत सुविदत्रा विदथे हूयमानाः ।। ६ ।।
ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । ।
दक्षिणावन्त: सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ।।७।। वर्हिषि
अधा यथा न: पितर: परास: प्रत्नासो अग्ने ऋतमाशशाणा: ।
शुचिदयन् दीधितिमुक्थशास: क्षामा भिन्दन्तो अरुणीरप व्रन् ।।८ ।।
सुकर्माण: सुरुचो देवयन्तो ऽयो न देवा जनिमा धमन्तः । जानिमा
शुचन्तो अग्निं ववृधन्त इन्द्रमुर्वीं गव्यां बर्हिषदं नो अक्रन् ।।९।। वर्हिषदं
आ यूथेव क्षुमति पश्वो अख्यद् देवानां यज्जनिमान्त्युग्रः ।
मर्तानां चिदुर्वशीरकृप्रन् वृधे चिदर्थ उपरस्यायो: ।। १० ।

18.71
अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभाती: ।
विश्वं तद् भद्रं यदवन्ति देवा बृहद् वदेम विदथे सुवीराः ।।१ ।।
इन्द्रो मा मरुत्वान् प्राच्या दिश: पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ।२।
धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्वामिवोपरि।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ।३।
अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ।४।।
आदित्योर्मादित्यै विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवीं द्यामिवोपरि। रुदिच्या
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ । ५ । ।
धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ । ६ ।
प्राच्यां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी दृद्यामिवोपरि।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ।।७।।
दक्षिणायां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ । 1८ ।
प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ।।९।।
उदीच्यां त्वा दिशि पुरा संवृत: स्वधायामादधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ।१०।।

18.72
ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ ।१।
ऊर्ध्वायां त्वा दिशि पुरा संवृत: स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इहा स्थ । २ ।।
ध्रुवोसि धरुणोसि वंसगोसि । धृवोसि बंसगोसि
उदपूरसि घृतपूरसि ऋतपूरसि मधुपूरसि वातपूरसि । ३ ।।

18.73
इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।
प्र वां भरन् मानुषा देवयन्त: ।। १ ।।
आ सीदतां स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे न:।
युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एति पथ्येव सूरे: ।२।
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ।
त्रीणि पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन । न्वेमी
अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनामि । ३ ।।
देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत ।
बृहस्पतिर्यज्ञमकृण्वत ऋषिः प्रियां यमस्तन्वं प्रारिरेच । । ४ ।।
त्वमग्न ईळितो जातवेदो ऽवाड्ढव्याणि सुरभीणि कृत्वा ।
प्रादा: पितृभ्य: स्वधया ते अक्षनद्धि त्वं देव प्रयता हवींषी । ५ । .
आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्त्याय ।
पुत्रेभ्य: पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात । । ६ ।।
अग्निष्वात्ताः पितर एह गच्छत सद:सद सदत सुप्रणीतयः ।
अत्तो हवींषि प्रयतानि बर्हिषि रयिं च न: सर्ववीरं दधात ।। ७ । ।
त आ गमन्तु त इह श्रुवन्त्वधि बुवन्तु तेवन्त्वस्मान् । ८ ।
ये न: पूर्वे पितर: सोम्यासो अनूजहिरे सोमपीथं वसिष्ठा:।
तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ।। ९ ।।
ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः ।
आग्ने याहि सुविदत्रेभिरर्वाङ् सत्यै: कव्यैः पितृभिर्घर्मसद्भिः ।। १० ।।

18.74
ये सत्यास्यो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः ।
अग्ने याहि सहस्रं देववन्दैः परै: पूर्वैः पितृभिर्घर्मसद्भि: ।। १ । ।
उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदा पृथिवी दक्षिणावत एषा त्वा पातु निर्ऋतेरुपस्थात् ।। २ ।।
उच्छवञ्चस्व पृथिवी मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना ।
माता पुत्रं यथा सिचा ऽभ्येनं भूम ऊर्णुहि । ३ ।।
उच्छवञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ।। ४ । ।
उत् ते स्तभ्नाति पृथिवीं त्वत् परीमं लोगं निदधन्मो अहं रिषम्।
एतां स्थूणां पितरो धारयन्त्यत्रा यमः सादना ते कृणोतु । । ५ ।।
अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।
तस्मिन् कृणोतु सुकृतस्य भक्षं तस्मिन्निन्दुः पवते विश्वदानीम्।। ६ ।।
अमुमग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।
एष यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ते ।। ७ ।।
यत् ते कृष्ण: शकुन आतुतोद पिपील: सर्प उत वा श्वापद: ।
अग्निष्टद् विश्वादापृणातु विद्वान् सोमश्च यो ब्राह्मणाङ् आविवेश।८।।
पयस्वतीरोषधय: पयस्वन्मामकं पय: ।
अथो पयस्वदित् पयस्तेन मा सह जिन्वथ । ९ ।
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु ।
अनश्रवो अनमीवा: सुरत्ना आ रोहन्तु जनयो योनिमग्रे ।। १० ।।

18.75
सं गच्छस्व पितृभि: संविदानेष्टापूर्तेन परमे व्योमन् ।
हित्वावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ।। १ ।।
ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिव: स्वधया मादयन्ते ।
तेभ्य: स्वराडसुनितिमेतां यथावशं तन्व: कल्पयाति । २ ।।
आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।
शरीरमस्य सं दहाथैनं थेहि सुकृतामु लोके । ३ ।।
पुनर्देहि वनस्पते य एष निहितस्त्वयि ।
यथा यमस्य सादन आसातै विदथा वदन्। ४ ।।
शं ते निहारो भवतु शं ते प्रुष्वाव शीयताम् ।
शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
मण्डूक्याप्सु शं भुव इमं स्वग्निं शमय । ५ ।
विवस्वान् नो अभयं कृणोतु परैतु मृत्युरमृतं न ऐतु ।
इहेमे वीरा बहवो भवन्त्वश्वन् गोमन्मय्यस्तु पुष्टम् । ६ ।
विवस्वान् नो अमृतत्वे दधातु यः सुत्रामा जीरदानुः सुदानुः । जिर
इमान् रक्षः पुरूषाना जरिम्णो मो ष्वेषामसवो यमं गुः ।। ७ ।।
यो दध्रे अन्तरिक्षे न मह्ना पितृणां कवि: प्रमतिर्मतीनाम् ।
तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ।। ८ ।।
आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।
सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम्।।९।।
प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।
दिवश्चिदन्ताङ् उपमुदानडपामुपस्थे महिषो ववर्ध । १० ।
नाके सुपर्णमुप यत् पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् । । १ १ ।।
इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत वाजिनि जीवा ज्योतिरशीमहि ।।१२।।
ये ते पूर्व परागता अपरे पितरश्व ये ।
तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ।। १३ ।।
(ढ्रति महत्कण्डनाम अष्टादशाकाण्डे एकादशोऽनुवाकः)

18.76
आ रोहत जनित्रीं जातवेदसः पितृयाणैः सं वो आ रोहयामि ।
अवाड्ढव्येषितो हव्यवाह ईजानं युक्ता: सुकृतां धत्त लोके ।१।
देवा यज्ञमृतव: कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञ आयुधानि ।
तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्ग यन्ति लोकम् ।। २ ।।
ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति ।
बुध्नस्य विष्टप्यधिविक्रयस्व यत्रादित्या अमृत भक्षयन्ति । ।३ । ।
त्रय: सुपर्णा उपरस्या सखाय नाकस्य पृष्ठे अधि विष्टपि श्रिता: ।
स्वर्गा लोका अमृतेन विष्टा कामंकामं यजमानाय दुह्राम् ।। ४ । ।
जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।
प्रतिष्ठां लोकानां घृतपृष्ठाः प्र पीनां स्वधामूर्ज यजमानाय दुह्राम्।।५ ।।
ध्रुव आ रोह पृथिवीं विश्ववेदसमन्तरिक्षमुपभृदा क्रमस्व।
जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीना: सर्वा धुक्ष्वा अहृणीयमानः । ६ ।
तीर्थैस्तरन्ति प्रवतो महीरनु यज्ञकृत: सुकृतो येन यन्ति ।
अत्राभजं यजमानाय लोकं दिशो भूतानि यदकल्पयन्त । ७ ।।
अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्नि: ।
महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्ग सर्व उप याहि शग्मः ।।८ ।।
पूर्वो अग्निष्टवा तपतु शं पुरस्ताच्छं पश्चात् तपतु गार्हपत्यः ।
दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद् दिशोदिशो अग्ने परि पाहि घोरात्। ९ ।
यूयमग्ने शंतमाभिस्तनूभिरीजानं अभि लोकं स्वर्गम् ।
अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवै: सधमार्द मदन्ति । १० ।

18.77
शमग्ने पश्चात् तप शं पुरस्ताच्छमधरात् तप शं जातवेद: ।
एकस्त्रेधा विहितो जातवेद: सम्यगेनं धेहि सुकृतामु लोके ।१।
शमग्नय: समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदस: ।
शूतं कृण्वन्त इह माव चिक्षिपन् । २ ।।
यज्ञ एति विततः कल्पमान ईजानो ऽभि लोकं स्वर्गम् ।
तमग्नय: सर्वहुतं जुषन्तां तमस्मिंदेवा जानतां भागधेयम् । ३ ।।
ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद् दिवमुत्पतिष्यन् । ।
तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृतो देवयानः।।४।।
अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु ।
हुतोयं संस्थितो यज्ञ एतु यत्र पूर्वमयनं हुतानाम् । । ५ ।। पुर्व
अपूपवान् क्षीरवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ । ६।
अपूपवान् दधिवांश्चारुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ । ७ ।।
अपूपवान् द्रप्सवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ।८।।
अपूपवान् घृतवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ।।९।।
अपूपवान् मांसवांश्चरुरेह सीदतु त्रिभूवन् पृथिवी द्यमिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ।।१०।।

18.78
अपूपवान् मधुमांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ।१।
अपूपवानन्नवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ।२।
अपूपवान् रसवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ।३।
अपूपवानपवांश्चरुरेह सीदतु त्रिभूवन् पृथिवीं द्यामिवोपरि ।
लोककृत: पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ।४।।
अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।
ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ।। ५ ।।
यास्ते धाना अनुकिरामि तिलमिश्रा: स्वधावती: ।
तास्ते सन्तुद्भ्वी: प्रभ्वीस्तास्ते राजानु मन्यतां यमो ।
अक्षितिं भूयसीम् ।।६।।
द्रप्सश्चस्कन्द प्रथमामनु द्यामिमं च योनिमनु यश्च पूर्वः ।
ऋतस्य योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्रा: ।। ७ । ।
शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् ।
ये पृणन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम । ८ ।
उत्सं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये ।
ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसी: परमे व्योमन्। ९ ।

18.79
एतत् ते देव: सविता वासो ददाति भर्तवे ।
तत् त्वं यमस्य राज्ये वसानस्तार्प्यं चर । १ ।।
धाना धेनुरभवद् वत्सो अस्यास्तिलोभवत् ।
तां त्वं यमस्य राज्ये अक्षितामुप जीवति । २ ।।
एतास्ते असौ धानाः कामदुघा भवन्तु ।
एनीः श्येनीर्विरूपा स्वरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ।। ३ ।।
एनीर्धाना हरिणी: श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते ।
तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्ती । ४ । । मसै
वैश्वानरे हविरिदं जुहोम्येतं साहस्रं शतधारमुत्सम् ।
स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ।।५।।
सहस्रधारं उत्सं शतधारमक्षितं व्यच्यमानं सलिलस्य पृष्ठे । ।
ऊर्ज दुहाना अनपस्फुरन्तमुपासतां सुकृतां यत्र लोकः । ६ ।
इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत ।
मर्त्योऽयममृतत्वमेति तस्मै लोकं कृणुत यावत्सबन्धु ॥७॥
इहैवैधि धनसनिरिहचित्त इहक्रतुः ।
इहैधि वीर्यवत्तरो वयोधा अपराहतः ८॥
पुत्रान् पौत्रानभितर्पयन्तीरापो मधुमतीरिमाः ।
स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु । ९ ।
आपो अग्निं प्र हिणुतेम यज्ञं पितरो नो जुषन्ताम् ।
आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यच्छान् ।।१०।।

18.80
समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।
स वेद निहितान् निधीन पितॄन् परावतो गतान् । १ ।।
यं ते मन्थं यां कलम्भं यमोदनं यन्मासं निपृणामि ते ।
ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुत: ।। २ ।।
सरस्वतीं यां सुकृतो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
सहस्रा यौ मैनानत्रपरादा दीर्घमेषामायुष्कृणु विश्वरूपे । ३ ।।
इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः ।
पुरोगवा ये अभिशाचो अस्य ते त्वा वहन्तु सुकृतामु लोकम।।४।।
पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः ।
परापरैता वसुविद् वो अस्त्वधा मृतै: पितर: सं भवाथ ।। ५ ।।
एयमगन् दक्षिणा भद्रतो नो अनेन दत्ता सुदुघा वयोधाः ।
यौवने जीवाङ् अपि पृञ्चती जरा पितृभ्य उपसंपराणयात् ।। ६ ।।
आ प्र च्यवेथामपि तन्मृजेथां यद् वामभिभा अत्रोचुः ।
अर्वाञ्चावेतमघ्न्यौ तद् वशीयो पात्रे पितृष्विहभोजनौ मम । ७ ।।
इदं पितृभ्य: प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि ।
तदा रोह पुरुषो मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम्।।८ ।।
एदं बर्हिरसदो मेध्योभूः प्रति त्वा जानन्तु पितरः परेतम् ।
यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि । ९ ।
पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् ।
आयुर्जीवेभ्यो विदधद् दीर्घायुत्वाय शतशारदाय ।। १० ।।

18.81
ऊर्जो भागो य इदं जजानाश्मान्नानामधिपतिर्बभूव ।
तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ।। १ ।।
यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।
एवा वपामि हर्म्यं यथा मे भूरयोसत । २ ।।
इदं हिरण्यं बिभृहि यत् ते पिताबिभ: पुरा ।
स्वर्गं यत: पितुर्हस्तं निर्मृडढि दक्षिणम् ।। ३ ।।
ये च जीवा ये च मृता ये जाता ये च यज्ञिया ।
तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ।। ४ ।।
वृषा मतीनां पवते विचक्षण: सूरो अह्नां प्रतरीतोषसां दिवः ।
प्राणः सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्दिमाविशन्मनीषया।। ५ ।।
त्वेषस्ते धूम ऊर्णोति दिवि षंच्छुक आततः ।
सूरो न हि द्युता त्वां कृपा पावक रोचसे । ६ । ।
प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिर: ।
मर्य इव योषा: समर्षसे सोम: कलशे शतयामना पथा । ७ ।।
आ यात पितर: सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।
प्रजामस्मभ्यं दधत रयिं च दीर्घायुत्वाय शतशारदाय ।। ८ । ।
परा यात पितर: सोम्यासो गम्भीरै: पथिभि: पितृयाणैः ।
अधा मासि पुनरा यात नो गृहान् हविरत्नूं सुप्रजस: सुवीराः ।। १९ ।।
अक्षन्नमीमदन्ताव प्रियान् अधूषतः ।
अस्तोषत स्वभानवः परेतु पितरो गृहान् ।। १० ।।

18.82
यद् वो अग्निरजहादेकमङ्ग पितृलोकं गमयं जातवेदाः ।
तद् व एतत् पुनरा वेशयामि साङ्गाः सर्गे पितरो मादयध्वम्।। १ ।।
असौ हा इह ते मन: ।
ककुत्सलमिव जामयो अभ्येनं भूम ऊर्णुहि।।२।। उर्णु
रमध्वं मा बिभीतन अस्मिन् गोष्ठे करीषिणः। विभी
ऊर्जं दधाना सुकृतः शुचिव्रता गृहाजीवन्त उप वः सदेम।।३।।
ऊर्जं मे देवा अदधुरूर्जं मनुष्या उत।
ऊर्जं पितृभ्योहार्षमूर्जस्वन्तो गृहान् मम।।४।।स्व
पयो मे देवा अदधु: पयो मनुष्या उत।
पयः पितृभ्य आहार्षं पयस्वन्तो गृहान् मम ।। ५ । ।
उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
अधादित्य व्रते वयं तवानागसो अदितये स्याम । ६ । ।
ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशान् वितता महान्त: ।
तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ।।७।।
प्रास्मत् पाशान् वरुण मुञ्च सर्वान् यै: समामे बध्यते यैर्व्यामे ।
अथ जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणा: ।। ८ ।।
अव ते हेळ इमहे नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
यदस्मद् वरुण प्रचेता राजन्नेनांसि शिश्रथ: कृतानि । ९ ।
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
वित्त मे अस्य रोदसी । १० ।
(इति महत् काण्डनामअष्टादशकाण्डे द्वादशो अनुवाक:)
षडविंशति कण्डिका मङ्गला इति ख्याता
हृत्यथर्ववेदे पैप्पलादशाखासंहितायां महत् काण्डनाम
अष्टादशकाण्ड: समाप्त: