सामग्री पर जाएँ

पैप्पलादसंहिता/काण्डम् १७

विकिस्रोतः तः

अथ एकानृचनाम सप्तदशकाण्डः

17.1
सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञ: पृथिवीं धारयन्तु ।
सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु । । १ ।।
असंबाधं मध्यतो मानवेषु यस्या उद्वत: प्रवत: समं बहु ।
नानावीर्या ओषधीर्या बिभर्त्ति पृथिवी नः प्रथतां राध्यतां नः ।।२ ।।
यस्यां समुद्र उत सिन्धुरापो यस्यां देवा अमृतमन्वविन्दन् ।
या बिभर्ति बहुधा प्राणदेजत् सा नो भूमिर्गोष्वप्यन्ने कृणोतु ।। ३ ।।
यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरानभ्यवर्त्तयन् ।
यस्यामिदं जिन्वति विश्वमेजत् सा नो भूमिः पूर्वपेये दधातु ।।४।।
यस्याश्चतस्र: प्रदिश: पृथिव्या यस्यामन्नं कृष्टय: संबभूवुः ।
गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु । । ५ ।।
विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ।६।
यस्यामाप: परिचरा: समानीरहोरात्रे अप्रमादं क्षरन्ति ।
सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षन्तु वर्चसा ।।७ ।।
यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
सा नो मधु प्रियं दुहामथो उक्षन्तु वर्चसा ।।८ । ।
यार्णवेधि सलिलमग्र आसीद्यां मायाभिरन्वचरन् मनीषिण: ।
यस्या हृदयं परमे व्योमन्सत्येनावृतममृतं पृथिव्या: ।
सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ।।९ ।।
यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।
इन्द्रो यां चक्र आत्मने अनमित्राञ्छचीपतिः ।
सा नो भूमिर्वि सृजतां माता पुत्राय न: पय: ।। १० ।।
17.2
गिरयस्ते पर्वता हिमवन्तोरण्यं ते पृथिवि स्योनमस्तु न: ।
बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।
अजितोहतोक्षतो ऽध्यष्ठां पृथिवीमहम् ।।१।।
यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्यस्तन्व: संबभूवुः । वभूबुः
तासु नो धेह्यभि नः पवस्व माता भूमि: पुत्रो अहं पृथिव्या: ।
पर्यन्यः पिता स उ न: पिपर्त्तु ।।२ ।।
यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माण: ।
यस्यां मीयन्ते स्वरव: पृथिव्यामूर्ध्वा: शुक्रा आहुत्या: पुरस्तात् ।
सा नो भूमिर्वर्धयद् वर्धमाना ।। ३ ।।
यो नो द्वेषत् पृथिवि य: पृतन्याद् यो ऽभिमन्यातै मनसा वधेन ।
तं नो भूमे रन्धय पूर्वकृत्वरि । । ४ ।।
त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदश्चतुष्पद: ।
त्वयी मे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन् सूर्यो रश्मिभिरातनोति ।।५।।
ता नः प्रजा: सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ।
विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
शिवां स्योनामनु चरेम विश्वहा ।।६।।
महत् सधस्थं महति बभूविथ महान् वेग एजथुर्वेपथुष्टे । ।
महांस्त्वेन्द्रो रक्षति वीर्येण सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि ।।७ ।।
अग्निर्भूम्यामग्निरोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।
अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नय: ! ।।८ । ।
17.3
अग्निर्दिव आ तपत्यग्नेर्देवस्योर्व अन्तरिक्षम् ।
अग्निं मर्त्यास इन्धते हव्यवाहं घृतप्रियम् ।।१।।
अग्निवासा: पृथिव्यसितञ्जूस्त्विषीमन्तं संशितं मा कृणोतु ।
भूम्यां देवेभ्यो जुह्वति यज्ञं हव्यमरंकृतम् । ।२ ।।
भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
सा नो भूमि: प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ।। ३ । ।
यस्ते गन्ध: पृथिवी संबभूव यं बिभ्रत्योषधयो यमापः ।
यं गन्धर्वाप्सरसश्च भेजिरे यस्तेगामश्वमर्हति ।
तेनास्मान् सुरभिन् कृणु मा नो द्विक्षत कश्चन ।। ४ । ।
यस्ते गन्धः पुष्करमाविवेश यं संजभू: सूर्याया विवाहे ।
अमर्त्याः पृथिवी गन्धमग्रे ।
तेनास्मान् सुरभिन् कृणु मा नो द्विक्षत कश्चन ।।५ । ।
यस्ते भूमे पुरुषेषु स्त्रीषु पुंसु भगो रुचिर्यो वधूषु वधूयुषु ।
यो गोष्वश्वेषु यो मृगेषूत हस्तिषु ।
कन्यायां वर्चो यद् भूमे तेनास्माङ् अधि सं सृज मा नो द्विक्षत कश्चन ।।६।।
शिला भूमिरश्मा पांसुर्या भूमि: संधृता धृता ।
यस्यां वृक्षा वानस्पत्या धुवास्तिष्ठन्ति विश्वहा ।
भूमिं हिरण्यवक्षसं घृतामच्छावदामसि ।।७ । ।
उदीराणा उतासीनास्तिष्ठन्त: प्रक्रामन्त: ।
पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ।।८ । ।
विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।
ऊर्जं पुष्टिं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदामि भूमे।।९।।
शुद्धा म आपस्तन्वे: क्षरन्ति यो मे सेदुरप्रिये तं नि दध्म: ।
पवित्रेण पृथिवि मोत् पुनामि ।।१०।।
निधीन् बिभ्रती बहुधा गुहा वसु मणिx हिरण्यं पृथिवी ददातु न:।
वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ।। ११ ।।
17.4
यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्या पश्चात् ।
स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाण:।।१।।
मा मा पश्चान्मा पुरस्तान्नुदिष्ठा स्वस्ति भूमे मे कृणु ।
वरीयो यावया वधं मा विदन् परिपन्थिनः।।२।।
यावत् तेभि विपश्यामि भूमे सूर्यण मेदिना ।
तावन्मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ।।३।
यत्ते भूमे विखनाम्योषं तदपि रोहतु ।
मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम ।।४।। शौअ १२.१.३५
यच्छयानः पर्यावर्ते दक्षिणं सव्यमभि भूमे पार्श्वम् ।
उत्तानास्त्वा प्रतीचीं पृष्ट्या यदधिशेमहे ।
मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ।।५।।
ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्त: ।
ऋतवस्ते विहिता हायना अहोरात्रे पृथिवी नो दुहाताम् ।।६।।
याप सर्पन्नुदमाना विमृग्वरी यस्यामासन्नग्नयो अप्स्वन्त: ।।७ ।
परा दस्यून् ददती देवपीयूनिन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दधे वृषभाय वृष्णे ।
सा नो भूमिरा दिशतु यद्धनं कामयामहे ।।८।।
भगो अनुप्रयुङक्तामिन्द्रो यातु पुरोगवः ।
यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।।९।।
ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विद: ।
युज्यन्ते यस्यामृत्विज: सोममिन्द्राय पातवे ।
सा नो भूमिर्दक्षिणायां सुशेवा यज्ञे दधातु सुमनस्यमाना।। १० ।।
यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
सप्त सत्त्रेण वेधसो यज्ञेन तपसा सह ।।११।।
सा न: पशून् विश्वरूपां दधातु दीर्घमायुः सविता कृणोतु ।
यस्यामन्नं व्रीहियवौ यत्रेमा: पञ्च कृष्टयः ।
भूम्यै पर्जन्यपत्न्यै नमोस्तु वर्षमेदसे ।। १२ । ।
17.5
यस्यां गायन्ति नृत्यन्ति जना मर्त्या व्यैलवा: ।
युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभि: ।
सा नो भूमिः प्र णुदतां सपत्नान् यो नो द्वेष्टयधरं तं कृणोतु।१ ।।
यस्यां पुरो देवकृता: क्षेत्रे यस्यां विकुर्वते ।
प्रजापति: पृथिवीं विश्वगर्भामाशामाशा रण्यां न: कृणोतु ।२।
जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
सहस्रं धारा द्रविणस्य नो दुहां ध्रुवेव धेनुरनपस्फुरन्ती । ।३ । ।
यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो मलो गुहा शये ।
क्रिमिर्जिन्वत् पृथिवि प्रावृषि यदेजति तन्नः सर्पन्मोप सृपद् यच्छिवं तेन नो मृड ।। ४ । ।
ये ते पन्थानो बहवो जनायना रथस्य अंतर्मानसश्व यातवे ।
यच्छिवं तेन नो मृड ।।५।।
मल्वं बिभ्रती गुरुभृद् भद्रपापस्य निधनं तितिक्षुः ।
सूकरेण पृथिवी संविदाना वराहाय वि जिहीते मृगाय ।।६।।
ये त आरण्या: पशवो मृगा वने हिता:
सिंहा व्याघ्रा: पुरुषादश्चरन्ति । ।
उलं वृकं पृथिवि दुच्छुनामित ऋक्षीकां रक्षो अप बाधयास्मत् ।।७ ।।
ये गन्धर्वा अप्सरसो ये चाराया: किमीदिन: ।
पिशाचान् सर्वा रक्षांसि तानस्मद् भूमे यावय ।८।।
यां द्विपाद: पक्षिण: संपतन्ति हंसाः सुपर्णा: शकुना वयांसि ।
यस्यां वात ईयते मातरिश्वा रजांसि कृण्वं श्चयावयंश्च वृक्षान्।।९।।
वातस्य प्रवामुपवामनु वात्यर्चि: यस्यां कृष्णमरुणं च संभृते अहोरात्रे विहिते भूम्यामधि ।
वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ।। १० ।।
17.6
द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।
अग्निः सूर्य आपो मेधां विश्वेदेवाश्च सं ददुः । ।१ ।।
अहमस्ति सहमान उत्तरो नाम भूम्याम् ।
अभीषाडस्मि विश्वाषाडाशामाशां विषासहि: ।२।
यददो देवी प्रथमानाः पुरस्ताद्देवैः सृष्टा व्यसर्पो महित्वम् ।
आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ।। ३ ।।
ये ग्रामा यान्यरण्यानि याः सभा अधि भूम्याम् ।
तेष्वहं देवि पृथिव्युद्वासं मधुमद् वचः ।।४।।
यद् वदामि मधुमत् तद् वदामि यदीक्षे तद् वनन्तु मा ।
त्विषीमानस्मि जूतिमानवान्यान् हन्मि दोधतः ।। !५ ।।
अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत:
मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम।।६।।
शन्तिवा सुरभिः स्योना कीलालोघ्नी पयस्वती ।
भूमिर्नो अधि ब्रवीतु पृथिवी पयसा सह ।।७।।
भूमे मातर्नि धेहि मां भद्रया सुप्रतिष्ठितम् ।
संविदाना दिवा त्वं श्रियां मा धेहि भूत्याम् ।।८।।
यामन्वैच्छद्धविषा विश्वकर्मा यस्यामासन्नग्नयो ऽप्स्वन्त: ।
भुजिष्यं पात्रं निहितं गुहासीदाविर्भोगैरभवन्मातृमद्भ्य:।।९।।
त्वमस्यावपनी जनानामदिति: कामदुघा विश्वरूपा । दुधा
यत्त ऊनं तत्त आ पूरयाति प्रजापति: प्रजाभि: संविदान:।।१०।।
(इति एकानृचनाम सप्तदशकाण्डे प्रथमो ऽनुवाकः)
17.7
कस्मिन्नङ्गे तपो अस्याधि तिष्ठति कस्मिन्नङ्ग ऋतमस्याध्याहितम् ।
क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्नङ्गे. सत्यमस्य प्रतिष्ठितम् ।। १ ।।
क्व ब्रह्म क्व तिष्ठन्त्यापः कस्मिन्नङ्गे दिशो अस्य प्रतिष्ठिता: ।
कतमदङ्गमनु संचरेते अहोरात्रे संविदाने समानम् ।।२।।
कस्मिन्नङ्गे तिष्ठति भूमिरस्य कस्मिन्नङ्गे तिष्ठत्यन्तरिक्षम् ।
कस्मिन्नङ्गे तिष्ठत्याहिता द्यौ: कस्मिन्नङ्गे तिष्ठन्त्युत्तरं दिवः । । ३ ।।
कस्मादङ्गाद् दीप्यते ऽग्निरस्य कस्मादङ्गात् पवते मातरिश्वा ।
कस्मादङ्गाद् दि मिमीतेधि चन्द्रमा स्कम्भस्य महद् वि मिमानो अङ्गम्।।४।।
क्व प्रेप्सन्दीप्यत ऊर्द्ध्वो अग्नि: क्व प्रेप्सन् पवते मातरिश्वा ।
यत्र प्रेप्सन्तीरभियन्त्यावृत: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ।।७ । ।
क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवत: संविदाने ।
यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव स: ।।८ ।।
क्वार्धमामा: क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।
यत्र यन्त्यृतवो यत्रार्तवा: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ।। ९ । ।
यस्मिन् स्तब्ध्वा प्रजापतिर्लौकान् सर्वाङ् अधारयत् ।
स्कम्भं तं ब्रूहि कतम: स्विदेव सः । १o ।
यत् परमं यच्च मध्यमं प्रजापति: ससृजे विश्वरूपम् ।
कियता स्कम्भः प्र विवेश तत्र यन्न प्राविशत् कियत्तद् बभूव ।। ११ ।।
कियता स्कम्भ: प्र विवेश भूतं कियद् भविष्यदन्वाशयेस्य ।
एकं यदङ्गमकृणोत् सहस्रधा कियता स्कम्भ: प्र विवेश तत्र।१२।।
17.8
यत्र लोकांश्च कोशांश्च ब्रह्म यत्र जना विदु: ।
असच्च यत्र सच्चान्त:
स्कम्भं तं ब्रूहि कतम: स्विदेव स: ।। १ । ।
यत्र तपः पराक्रम्य ऋतं धारयत्युत्तरम् ।
व्रतं च यत्र श्रद्धा च ब्रह्मापः समाहिता:
स्कम्भं तं ब्रूहि कतमः स्विदेव सः ।।२।।
यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्नध्याहिता।
यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः
स्कम्भं तं बूहि कतम: स्विदेव स: ।३।
यस्य त्रयस्त्रिंशद् देवा अङ्गे सर्वे समाहिताः
स्कम्भं तं बूहि कतम: स्विदेव स: ।।४।।
यत्र ऋषयो भूतकृत ऋच: साम यजुर्मही ।
एकर्षिर्यस्मिन्नार्पितः
स्कम्भं तं ब्रूहि कतम: स्विदेव स: ।।५।।
यस्य चतस्र: प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।
यज्ञो यस्मिन् पराक्रान्त: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ।।६।।
यत्रामृतं च मृत्युश्च पुरुषश्च समाहिता: ।
समुद्रो यस्य नाड्य: स्कम्भं तं ब्रूहि कतम: स्विदेव स: ।।७।।
ये पुरुषे ब्रह्म विदु: ते स्कम्भमनुसंविदुः ।
यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।
ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ।।८ ।।
यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोभवन् ।
अङ्गानि यस्य यातवः स्कम्भ तं ब्रूहि कतम: स्विदेव सः ।।९।।
यस्य ब्रह्म मुखमाहुर्जिह्वा मधुकशामुत ।
विराजं यस्योध आहु स्कम्भं तं ब्रूहि कतमः स्विदेव सः ।। १० ।।
17.9
यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।
छन्दांसि यस्य लोमानि
स्कम्भं तं ब्रूहि कतम: स्विदेव स: ।१।
असच्छाखां प्रतिष्ठन्तीं परममिव जना विदु: ।
उतो सन्मन्यन्तेवरे यस्य शाखामुपासते ।२।
यत्रादित्याश्च रुद्राश्च वसवश्च समाहिता: ।
स्कम्भं तं ब्रूहि कतम: स्विदेव स: ।३।
यस्य त्रयस्त्रिंशद् देवा निधिं रक्षन्ति सर्वदा ।
निधिं तमद्य को वेद यं देवा अभिरक्षथ ।४।।
यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।
यो वै तद्ब्रह्मणो वेद तं वै ब्रह्मविदो विदुः ।।५।।
बृहन्तो नाम ते देवा असतस्परि यज्ञिरे ।
एकं तदङ्गं स्कम्भस्यासदाहु: परो जना: ।।६।।
यत्र स्कम्भ: प्रजनयन् पुराणं व्यवर्तयत् ।
एकं तदङ्ग स्कम्भस्य पुराणमनुसंविदुः ।।७ ।।
यस्य त्रयस्त्रिंशद् देवा अङ्गे गात्राणि भेजिरे ।
तान् वै त्रयस्त्रिंशद्देवानेके ब्रह्म विदो विदुः ।।८।।
हिरण्यगर्भं परममनत्युद्यं जना विदु: ।
स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ।। ९ । ।
स्कम्भे लोकाः स्कम्भे तप: स्कम्भेध्यृतमाहितम् ।
स्कम्भं त्वा विद्म प्रत्यक्षमिन्द्रे सर्वं समाहितम्। १० ।
17.10
इन्द्रे लोका इन्द्रे तप इन्द्रेध्यृतमाहितम् ।
इन्द्र त्वा विद्म प्रत्यक्षं स्कम्भे सर्वं समाहितम् ।।१।।
नाम नाम्ना जोहवीमि पुरा सूर्यात् पुरोषस: ।
यदजः प्रथमं संबभूव स ह तत् स्वराज्यं जगाम यस्मान्न: परमस्ति भूतम् । ।२ ।
यस्य भूमि: प्रमान्तरिक्षमुतोदरम् ।
दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नम: ।३।
यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्नव: ।
अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नम: ।।४।।
यस्य वातः प्राणापानौ चक्षुरङ्गिरसोभवन् ।
दिशो ययश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नम: ।। ५ ।
य: श्रमात्तपसो जातो लोकान् सर्वान् समानसे ।
सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नम: ।।६।।
स्कम्भो दाधार पृथिवीं द्यामुतामूं
स्कम्भो दाधारोर्वन्तरिक्षम ।
स्कम्भो दाधार प्रदिश: षडुर्वी:
स्कम्भ इदं विश्वं भुवनमा विवेश ।।७।।
कथं वातो नेलयति कथं न रमते मन: ।
किमाप: सत्यं प्रेप्सन्ती: प्र चक्रमिति सर्वदा ।। ८ ।।
महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।
तस्मिञ्छ्रयन्ते य उ के च देवा वृक्षस्य
स्कन्ध: परित इव शाखा: ।।९।।
यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।
यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेमितं
स्कम्भं तं ब्रूहि कतमः स्विदेव सः । । १० ।।
17.11
अप तस्य तमो हतं व्यावृत्तः स पाप्मना ।
सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ।। १ ।।
यो वेतसं हिरणययं तिष्ठन्तं सलिले वेद ।
स वै गुह्य: प्रजापतिः । ।२ । ।
न प्रजापतिमत्येति नात्येति परमेष्ठिनम् ।
उतोत तत्र नो ब्रूत यज्ज्येष्ठं परो अत्ययत् ।।३।।
अस्ति वै तत् परो भूमेरस्मि वै तत् परो दिव: ।
लोका वै तस्मिन् संप्रोताः यस्मिन्होताः प्रजा इमाः ।।४।।
(इति एकानृचनाम सप्तदशकाण्डे द्वितीयो ऽनुवाकः.}
१७-१२ 17.12
अन्त: पात्रे रेरिहतीं दु:शे दुर्निहितैषिणीम् ।
दुरण्डे अभिचंक्रमेवक्म के वस्तवासिनीम् ।।१।।
सर्वासां भण्वाव: साकं नामधेयानि विद्मसि ।
यानि जातानि वर्तति नश्यतेत: सदान्वा: ।। २ । ।
कर्णादृश द्रथामहमुलुकीं केशिनीं क्रकूम् ।
खडुरिमबर्हिष्यं नाशयाम: सदान्वा: ।।३। श्रि ।
पण्डुगिरां फालजतीमसौसूक्ता निगारिणीम् ।
आमाताः सर्वा वो ब्रूमो नश्यतेतः सदान्वाः।।४।।
याः शयानं जम्भयन्त नक्तमिच्छन्त्यातुरम्।
अथोदनस्य सुप्तस्य सुखहस्ता नि प्र लियन्ते।
तत् सदुदकमनोहिताः ता इतो नाशयामसि।।५।।
आपतन्नीर्वक्षणाना वस्तगन्धाः सदान्वाः।
भण्वासि न हतोश्छामि तीक्ष्ण शृङ्ग इवर्षभः । । ६ ।।
सदान्वाः सादान्वेया स्त्रीपुंसान् उभयान् सह ।
सहे सहस्वान् सासह विमृधो हन्मि रक्षसः ।।७ ।।
चतुर्दंष्ट्रान् कुम्भमुस्कान् दीर्घकेशाङ् असृङ्मुखान् ।
अलाबुगन्धीनुन्दुरान्दुर्न्नाम्नो नाशयामसि ।।८ । ।
स्तम्भे जाता अधिपालेरोदाकाङ् रुदन्तीं त्वत् ।
दुर्णाम्नी: सर्वाः सन्तोका नाशयाम: सदान्वा: ।।९।।
यासां जातानि क्रोशन्ति हृश्छं तत् वने ज्वलत् उपवृक्षेषु शेरते।
दुर्णाम्नीः सर्वा: सन्तोका नाशयाम: सदान्वा: ।। १० । ।
या वाताभ्र उत्पतन्ति ते च त्वा वर्षेण विद्युताः शाला इच्छन्ति सत्वरम् ।
दुर्णाम्नीः सर्वाः सन्तोका नाशयाम: सदान्वा: ।।११ ।।
17.13
या धान्यात् संभवन्ति क्षेत्रादृप्ताव्यर्पितात् ।
कृतादभि प्राहार्या नश्यतेत: सदान्वा: ।। १ ।।
याः पुरुषाः पापगन्धाः सदारुक्षा विसृक्पदी।
ता वज्रेण समर्पयन् तिरोजेतः शचीपतेः।।२।।
उत्तिष्ठतः निर्द्रवत न वेहास्ति न्यञ्चनम्।
इन्ट्रो व: सर्वासां साकं गर्भानाण्डानि भेत्स्यति । ३ ।
इन्द्र जहि स्थूरशङ्कं मृणीहि दुर्णिशीं कुहम् ।
अरायां शकधूम्यं नाशायामः सदान्वा: ।।४।।
किमा सुताध्वग्निह्वयमजमायुं च निघ्नती: ।
विटिटिङ्गाः प्रतोदिनीर्नाशयाम: सदान्वा: ।।५।।
यस्यां सुतं रन्धयद्ध्वेयुं यं भण्वाः सदान्वा: ।
त्रिष्ठं कृणुतांण्डरं यदारसेन तृप्यतामसुरामवमेहथ ।। ६ । ।
तस्याः पीत्वावमन्यते ऽथो शीर्षक्त्याशये ।
ता एतान्न दूषणीं नाशयाम: सदान्वा: ।।७।।
अपारोगाञ्छकधूमान् वृक्षाणां यान्ति सत्वरम् ।
अथो दुर्हार्दसो गृहं प्र मृणन्त्वराया: ।।८ । ।
तासामेकात्मवृका शकावङ्का वने क्रुकुहि शनीका कनिक्रदा ।
सर्वासां भण्वाव: साकं नामधेयानि विद्मसि ।
यानि जातानि दस्युभ्यो नश्यतेत: सदान्वा: ।।९।।
सहस्वती प्र हरामीमां लां विषासहिम् ।
सदान्वाघ्नीमोषधीं जैत्रायाच्छावदामसि ।।१०।।
17.14
दुश्शङ्काशे भीमचक्षोनग्ने भण्वे सदान्वे ।
ध्राजि त्विषिं शुचिमग्निमरायि किमिहेक्षसे ।
धूममाभि प्र गाह्यनिस्तूषामि सदान्वे ।१।
कङ्कैकाः पृषदेकाः किमुच्छ्रयन्त्यभिश्रिया ।
चरन्ति नक्तं दुर्णाम्नो रायी सूतकीष्यस्ता इतो नाशयामसि । ।२ । ।
अपक्रातामभिश्रयामानृत्यन्ती कुतूहलम् ।
कुशूलियं रसभञ्जनीङ्खलाज्जातास्त्रिवूक्यस्ता इतो नाशयामसि । ३ । ।
या विकेशीरुन्मदित्योरना घोरचक्षव: ।
शीर्षाण्यान्यान्यासां वितावन्तीरिवासते ।
सदान्वा ब्रह्मणस्पते पदो भ्रूणान्यर्पय ।४।।
यासां गन्धो नानारूप: पर्यैति पुरुषं पति ।
ता अग्नि: सहतामितो जातवेदा: सदान्वा: ता इतो नाशयामसि ।।५।।
या: पुरुषं दाह्यमानं शून्यमग्नौ जिघत्सन्ति ।
भण्वानिष्कुष्ठनामांसि मुष्टाग्रेण सदान्वाः ता इतो नाशयामसि ।।६।।
या दुचिता आ वपने शुष्कं खदन्ति वष्मुषाम् ।
वडवा गर्दभीरिव नाशयाम: सदान्वा: ।।७।।
गर्भानेक: प्रतिमृशन् या अदन्ति सदान्वाः ।
उचितस्तन्वो स्त्रीया गायो आ रोहिणीरिव ता इतो नाशयामसि ।।८ । ।
या: पित्र्यात्संभवन्तीन्द्रजा न: सदान्वा: ।
अपमृत्युमिवाभृतं पुनस्ता प्रति दध्मसि । । ९ ।।
आमादिनी: क्रूरादिनीरनग्निगन्ध्यादिनी: । ।
अमुं परेभ्यो हुतं शवमत्त सदान्वाः । -
शव: केवल आचार: किमुशालास्युच्छ्रित: ! ॥ १ o ।
17.15
या: कुमारीर्यास्थवीरा युवतीर्या: सदान्वा:।
सर्वा यन्तु कुरूटिनी: कुलिना धेनु सर्पत्वरायी रषिभा हिताः । १ ।
ताभ्यो रुद्रो वि सृजत्विषिमध्यघघात्विनी ।
तास्ता हन्तु विद्युता वज्रेणानपराधिना ।
तासां त्वं शक्र मोच्छिष इन्द्र भण्वा: फलीकुरु: ।२।
कुमारानेका स्थवीरान् या अदन्ति प्रघातिनी: ।
ता इन्द्रो हन्तु वृत्रहा यो देवो विश्वाद्रक्षांसि सेधति ।३।
याश्च दासीरसुराणां मनुष्येभ्यश्च या: कृता: ।
उभयीस्ता: परा यन्तु परावती नवतिं नाव्या अति ।।४।।
यासां घोषाः संगतानां वृकाणामिव गङ्गण: ।
प्रचं कशामयिवारं प्रयच्छन्तीं प्रतिग्रहा नाशयाम: सदान्वा: ।। ५ ।
या निशां यथास्थामाद्रात्री यक्षाणी प्रेरते ।
अग्निष्ट्वा सर्वा साहन्त्यो विश्वाद्रक्षांसि सेधतु । ६ ।
या ऋक्षीका: कलिलान्ताप्सु जाता: पुरीकया: ।
गोपा आसामेको वेद यतो याता: सदान्वास्ता इतो नाशयामसि ।।७।।
गुरुछाया मूर्द्धार्यं शिशुमाकां प्रतिश्रुका ।
अति दुह्मा विचलन्तीं वितुलिमाम् ।
सर्वाश्चण्डसनप्त्यो नाशयाम: सदान्वा: ।।८।।
आवदन्तीं नामहूकां त्वं स्तनीकां वृङ्न्धपदीम।
उम्रिदन्तीमनामिकां नाशयाम: सदान्वा: ।।९।।
वावदाकामल्भगासां विजव्रां लवूं बव्रुम् ।
अरायीं वातमेजयान् नाशयाम: सदान्वा: ।।१०।।
(इति एकानृचनाम सप्तदशकाण्डे तृतीयो ऽनुवाकः)
१७-१६ 17.16
ददामीत्येव ब्रूयादनुचैनामभूत्सत।
वशां ब्रह्मभ्यो याचद्भ्यस्तत् प्रजावदपत्यवत् ।।१ ।।
प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।
य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।२ ।।
कुटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ।। ३ ।।
विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।
तथा वशाया: संविद्यं दुरदभ्ना ह्युच्यसे ।।४।।
यो अस्या: कर्णावास्कुनोत्या स देवेषु वृश्चते ।
लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ।।५।।
पदोरस्या अधिष्ठानाद् विक्लिन्दुर्नाम विन्दति।
अनामनात् सं शीर्यन्ते या मुखेनोपजिघ्रति।।६।।
यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।
ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः।।७।।
यदस्याः कस्मै चिद् भोगाय बालान् कश्चित् प्रकृन्तति ।
ततः कुमारा म्रियन्ते यक्ष्मश्चरत्यनामनात् ।।८ । ।
यदस्याः पल्पूलनाय शकृद् दासी समस्यति ।
ततो ऽपरूपं जायते तस्मादव्येष्यदेनस: ।२।
जायमानाभि जायते देवान् त्सब्राह्मणान् वशा।
तस्माद् ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ।१० ।।
17.17
य एनां वनिमायन्ति तेषां देवकृता वशा ।
ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ।१।
य एनां याचद्भ्यो आर्षेयेभ्यो न दित्सति ।
आा स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ।।२ । ।
यस्यान्यस्याद् वशाभोगो अन्यामिच्छेत तर्हि सः ।
हिंस्याददत्ता गोपतिं याचितां च न दित्सति ।३।
यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा।
तामेतदायन्ति यस्मिन् कस्मिंश्च जायते ।।४।।
स्वमेतदायन्ति यद् वशां ब्राह्मणा अभि ।
यथैतानन्यज्जिनीयादेवास्याः निरोधनम् ।।५।।
चरेदेवा त्रैहायनादविज्ञातगदा सती ।
वशां च विद्यान्नारद ब्राह्मणास्तर्ह्येष्या: ।।६।।
य एनामवशामाह देवानां निहितं निधिम् ।
उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ।॥७।।
दूरदभ्नैनमा शये याचितां च न दित्सति ।
नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ।।८।।
यो अस्या ऊधो न वेदाथो अस्या स्तनानुत ।
उभयेनैवास्मै दुहे दातुं चेदशकद् वशाम् ।।९।।
देवा वशां याचन्तिं मुखं कृत्वा ब्राह्मणम् ।
तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥१० ।।
17.18
हेडं पशूनां न्येति ब्राह्मणेभ्योददद् वशाम् ।
देवानां निहित भागं मर्त्यश्चेन्निप्रियायते ।।१।। -
यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।
अथैतां देवा अब्रुवन्नेवं ह विदुषो वशा ।२।
य एवं विदुषे दत्त्वाथान्यस्मै ददद् वशाम् ।
दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ।।३।।
देवा वशामयाचन् यस्मिन्नग्रे अजायत ।
तामेतां विद्यान्नारद: सह देवैरुदाजत ।४।।
अनपत्यमल्पपशुं वशा कृणोतु पुरुषम् ।
ब्राह्मणैश्च याचितामथैनान्निप्रियायते ।।५।
अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
तेभ्यो याचन्ति ब्राह्मणास्तेभ्यो आ वृश्चते ददत् ।।६।।
चरेदस्य तावद् गोषु नास्य श्रुत्वा गृहे स्यात् ।। ७ ।।
यो अस्या ऋचो उपश्रुत्याथ गोष्वचीचरत्।
आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ।। 1८ ।।
वशा चरन्ति बहुधा देवानां निहितो निधिः ।
आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ।।९।।
आविरात्मानं कृणुते यदा स्थाम जिघांसति।
अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मन: ।। १० ।।
17.19
मनसां सं कल्पयति तद्देवाङ् अपि गच्छति ।
अथो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ।।१ ।।
स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्य: ।
दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ।२।
वशा राजन्य ते माता तथा संभूतमग्रशः ।
तस्या आहुरनर्पणं यद् ब्रह्मभ्यः प्रदीयते ।।३।।
यदाज्यं प्रतिगृहीतमालुम्पेत् स्रुचो अग्नये ।
एवा ह ब्रह्मभ्यो वशामग्नये वृश्चतेददत् ।।४।।
पुरोडाशवत्सा सुदुघा लोके अस्योप तिष्ठति ।
सास्मै सर्वान् कामान् दुहे वशा प्रददुषे बहून।५।।
सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे।
अथाहुर्नारकं लोकं निरुन्थानस्य याचिताम् ।।६।।
प्रवीयमाना चरति कृद्धा गोपतये वशा।
वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ।।७ ।।
यो वेहतं मन्यमानो गृहेषु पचते वशाम् ।
अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ।। ८ ।।
महदेषाव तपति चरन्ती गोषु गौरपि ।
अथो ह गोपतये वशा ददुषे विषं दुहे ।।९।।
प्रियं पशूनां भवति यद् ब्रह्मभ्य: प्रदीयते ।
अथो वशायास्तत् प्रियं यद्देवत्रा हविः स्यात् ।। १० । ।
17.20
या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।
तासां विलिप्त्यं भीमामुदाकुरुत नारद:।।१।।
तां देवा अमीमांसन्त वशेयामवशेति ।
तामब्रवीन्नारद एषा वशानां वशतमा ।२।
कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।
कतमासां भीमतमा कस्या नाश्नीयादब्राह्मण: ।३।
विलिप्त्या बृहस्पते या च सूतवशा वशा।
तासां नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ।।४।।
नमस्ते अस्तु नारदानुष्ठु विदुषे वशा।
कतमासां भीमतमा यामदत्त्वा पराभवेत् ।।५।।
विलिप्त्या बृहस्पते या च सूतवशा वशा।
याः प्र यच्छेद् ब्रह्मभ्यः य आशंसेत भूत्याम् ।। ६ । ।
त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा।
ताः प्र यच्छेद् ब्रह्मभ्य: सोनाव्रस्क: प्रजापतौ ।।७।।
एतद् वो ब्राह्मणा हविरिति मन्वीत याचितः ।
वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ।।८।।
देवा वशामुपावदन् नोदादिति हीडिता: ।
एताभिर्ऋग्भिर्भेदस्य तस्माद् वै स पराभवत् ।।९।।
उतैतां भेदो नाददाद् वशामिन्द्रेण याचित: ।
तस्मात् तं देवा एनसोवृश्चन्नहमुत्तरे ।। १० ।।
ये वशाया अदानाय वदन्ति परिरापिण: ।
इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ।। ११ ।।
ये गोपतिं पराणीयाथाहुर्मा ददा इति ।
रुद्रस्यास्तां हेतिं ते परि यन्त्यचेतस: ।। । १२ ।
यदि हुतां यद्यहुताममा च पचते वशाम् ।
देवान् सब्राह्मणानृत्वा जिह्मो लोकान्निर्ऋच्छति ।।१३।।
(ह्रति एकानृचनामसप्तदशकाण्डे चतुर्थो ऽनुवाकः)
17.21
असृङ्मांसं त्वचं पेष्ट्रं संभरणमंसान् शरीरम् ।
अग्निः क्रव्यादत्त्वमुष्यामुष्यायणस्यामुष्याः पुत्रस्य । । १ ।।
प्रातर्यावद्भ्योः देवेभ्यः सायं यावद्भ्यो देवेभ्यो विश्वदानी यावद्भ्यो देवेभ्यः ।
अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।।२।।
वैश्वानराय क्षिप्रधन्वने अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।। ३ ।।
क्षिप्रधन्वनः क्षिप्रहस्तामुमामुष्यायणममुष्याः पुत्रस्य हृदयं यकृन्मातस्थे प्रविध्य ।।४।।
इन्द्राग्निभ्यां प्रजापतये परमेष्ठिने सोमाय राज्ञे वरुणाय राज्ञे।
पूष्णे धात्रे सवित्रे त्वष्ट्रे अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि।॥५।।
उषसे अह्ने रात्रये सुर्यायामुमामुष्यायणममुष्याः पुत्रमा वृश्चामि।।६।।
वीरुद्भ्यो ओषधीभ्यो वनस्पतिभ्यो वानस्पत्येभ्यो अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।।७।।
अद्भ्योः मातरिश्वने द्यावापृथिवीभ्यां अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।।८ ।।
इदावत्सराय परिवत्सराय संवत्सराय बृहते विश्वरूपायामुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।।९।।
माद्भ्यः संवत्सरायामुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।। १० ।।
17.22
दिग्भ्यो अन्तर्देशेभ्य आशाभ्य आशापालेभ्यमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।। १ ।।
ऋतुभ्यो आर्तवेभ्यो अधिपतिभ्य आधिपत्येभ्योमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।। २ । ।
ऋषिभ्य आर्षेयेभ्यो अङ्गिरोभ्य अङ्गिरसेभ्यो ऽथर्वेभ्य आथर्वणेभ्यमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि। । ३ ।।
वसुभ्यो रुद्रेभ्य: अदित्येभ्य: साध्येभ्य आप्तेभ्योमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।। ४ ।।
मरुद्भ्योश्विभ्यां ब्रह्मणे ब्रह्मणस्पत्येमुमामुष्यायणममुष्या: पुत्रमा वृश्चामि ।॥५ ।।
ये अम्भश्चक्रुर्ये अम्बरजिष्णवस्तेभ्यः स्वकृद्भ्यः स्वकारेभ्योः अमुमामुष्यायणममुष्या: पुत्रमा वृश्चामि ।
ते स्वकृतः स्वकारा अमुमामुष्यायणममुष्याः पुत्रं परा भावयन्तु ।।६ । ।
ये तपश्चक्रुर्ये तपोजिष्णवस्तेभ्यः तपस्कृद्भ्यः तपस्कारेभ्यो अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।
ते तपस्कृतस्तपस्कारा अमुमामुष्यायणमुष्या: ।
पुत्र परा भावयन्तु ।। ७ ।।
ये ब्रह्मचक्रुर्य ब्रह्मजिष्ववः तेभ्यो ब्रह्मकृद्भ्यो ।
ब्रह्मकारेभ्यो अमुमामुष्यायणममुष्याः पुत्रमा वृश्चामि ।
ते ब्रह्मकृतो ब्रह्मकारा अमुमामुष्यायणममुष्याः पुत्रं परा भावयन्तु ।।८ ।।
अघारिणीममूमघविद्धां विकेशीमुप प्रतिमा सोक्तान् देवमनुष्याः पश्यन्तु अमुमामुष्यायणममुष्या: पुत्रं रु रुदुषीम् ।। ९ ।।
अलिक्लवा गृध्राः कङ्काः सुवर्णाः श्वापदाः पतत्रिणः ।
वयांसि शकुनयो ऽमुमामुष्यायणस्यामुष्याः पुत्रस्यादहने चरन्तु ।। १० ।।
17.23
एतदापः प्र वहतावद्यं च मलं च यत् ।
यद् दुष्वप्न्यमारिमा यदृचा नृतमूदिम ।
आपः सप्त स्रवन्तीस्ता नो मुञ्चन्त्वंहसः ।। १ ।।
मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्वीषाद् विश्वस्माद्येव दुष्कृतात् ।।२ ।।
यामिशंसाद दुष्वप्न्याद् द्रुहो मा मुञ्चन्तु वरुणाय पाशात् ।
मह्यमिन्द्रो वरुणो बृहस्पति: सविता वर्चो आदधन् ।। ३ ।।
भ्रातृव्यहं सपत्नहमसौ मे भ्रातृव्योसौ सपत्न: ।
तं हन्मि तं दुष्वप्नेन विध्यामि तं उना इष्टायावेन विध्यामि तं क्षीतायवेन विध्यामि तमधराञ्च मृत्युपथ अभ्यपनुदामि।।४।।
17.24
विद्म ते स्वप्न जनित्रं पाप्मनः पुत्रो अस्य भूत्या अधिजातो यमस्य करणः।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्म: ।। १ ।।
तमस्मै गमयामस्तेनैनं विध्यामो भूत्यैनं विध्यामो निर्भूत्यैनं
विध्याम: पराभूत्यैनं विध्यामो ग्राह्यैनं विध्यामस्तमस्यैनं विध्यामोग्निनैनं क्रव्यादा वृश्चामो देवानामेनं घोरैः क्रूरैः प्रेष्यैरभिप्रेष्यामो वैश्वानरस्यैनं दंष्ट्रयोरपिदध्मः ।। २ । ।
विद्म ते स्वप्न जनित्रं ग्राह्या पुत्रो ऽसि निर्ऋत्या अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्म: । ॥४ ।।
विद्मते स्वप्न जनित्रं वरुणस्य पुत्रो ऽसि वरुणान्या
अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म !
यो ऽभद्रः स्वप्नः स्वप्नमय: पापस्तं द्विषते प्र हिण्म: ।। ५ ।।
विद्म ते स्वप्न जनित्रमह्नः पुत्रो ऽसि रात्र्या
अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्न: स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ।।६ ।।
विद्मते स्वप्न जनित्रं दिवस्पुत्रो ऽसि भूम्या अधिजातो यमस्य करणः ।
त त्वा स्वप्न तथा विदा ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्म: ।। ७ । ।
विद्म ते स्वप्न जनित्रं वनस्पतीनां पुत्रो ऽस्योषधिभ्योधिजातो यमस्य करणः ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्र: स्वप्न: स्वप्नमय: पापस्तं द्विषते प्र हिण्म: ।। ८ । ।
विद्म ते स्वप्न जनित्रं वानस्पत्यानां पुत्रो ऽसि वीरुद्भ्यो अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ।। ९ । ।
विद्म ते स्वप्न जनित्रं तन्द्रिया: पुत्रो ऽसि कोट्यया अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्र: स्वप्न: स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ।। १० ।।
विद्म ते स्वप्न जनित्रं रक्षसां पुत्रो ऽस्युद्भवेभ्यो अधिजातो यमस्य करण: ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ।।११ ।।
विद्म ते स्वप्न जनित्रं गन्धर्वाणा पुत्रो ऽस्यप्सरोभ्यो अधिजातो यमस्य करणः ।
तं त्वा स्वप्न तथा विद्म ।
यो ऽभद्रः स्वप्नः स्वप्नमयः पापस्तं द्विषते प्र हिण्मः ।। १२ । ।
तं त्वा स्वप्नेति त्रीणि ।
तमस्मै गमयामस्तेनैनं विध्यामो निर्भूत्यैनं विध्यामः पराभूत्यैनं विध्यामो ग्राह्यैनं
विध्यामोग्निनैनं क्रव्यादा वृश्चामो देवानामेनं घोरैः क्रूरैः प्रेष्यैरभिप्रेष्यामो वैश्वानरस्यैनं दंष्ट्रयोरपिदध्मः ।। १३ ।।
17.25
द्यावापृथिवी अहोरात्रे नक्षत्र एषः !
इदमहममुष्मिन्नामुष्यायणेमुष्याः पुत्रे दुष्वप्न्यं व्रजेत् ।
यदस्मास्वित्याष्टादशकी ।१।
मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
मान्तः स्थुर्नो अरातयः । ।२ ।।
यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
तमाहुतमशीमहि ।।३।।
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत ।
दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ।।४।।
सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च तत्र ततनन्नहानि च ।
विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्य ।५।।
न ते अदेवः प्रदिवो वि वासति यदेतशेभिः प्रतरै रथर्यसि ।
प्राचीनमन्यदनुवर्तते रज उदन्येन ज्योतिषा यासि सूर्य ।६।
येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमभियर्षि भानुना ।
तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्वप्न्यं सुव ।।७।।
विश्वामनिराममीवामनाहुतिममुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः।।८।।
17.26
द्यावापृथिवी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ।। १ ।।
वाता पवमानौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः । । २ । ।
इन्द्राग्नी वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। ३ ।।
मित्रावरुणौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। ४ ।। ।
भवाशर्वौ वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। ५ ।।
देवाश्विना वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ।। ६ ।।
देवा मरुतो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। ७ ।।
देवाः पितरो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। ८ । ।
देव सूर्य वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। ९ ।।
देव चन्द्रमो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। १० ।।
देवा नक्षत्राणि वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः ।। ११ ।।
देवीरापो वहत दुष्वप्न्यं परा वहत दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्म: । । १२ ।।
देव विष्णो वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः । । १३ ।।
देव त्वष्टर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। १४ ।।
देव धातर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। १५ ।।
देव सवितर्वह दुष्वप्न्यं परा वह दुष्वप्न्यम् । ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्म: ।। १६ । ।
देव पूषन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः ।। १७ । ।
देव बृहस्पते वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्याः पुत्राय प्रहिण्मः । । १८ ।।
देव प्रजापते वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः । । १९ ।।
देव परमेष्ठिन् वह दुष्वप्न्यं परा वह दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्मः ।। २० ।।
अहोरात्रे वहतं दुष्वप्न्यं परा वहतं दुष्वप्न्यम् ।
अमुष्यामुष्यायणायामुष्या: पुत्राय प्रहिण्म: ।। २१ ।।
(इति एकानृचनाम सप्तदशकाण्डे पञ्चमो ऽनुवाको )
17.27
इन्द्रो वज्रमसिञ्चत वृत्राय हन्तवे ।
त्वष्टा वज्रमसिञ्चत वृत्राय हन्तवे । । १ । ।
यो वज्रः सो विश्वानरो यत् ते अग्नेर्वीर्यं स विश्वाषाड् यन्ति आरम्भणं
स वैश्वानर: ।। २ ।।
एतद् वा इदं सर्वं यत् एतानि त्रीणि ।। ३ ।।
विश्वानरो वैश्वानरो विश्वाषाट्। ४ ।।
सर्वाण्येव पुण्याल्लोकानवरुन्द्धे सर्वाश्व देवता य एवं विद्वाननडुहो व्रतं बिभर्ति । ५ । ।
17.28
तमादत्त तमुदैङ्गयत् तमुपामिमीत प्र भराणीति ।
सोम्यहस्तादमुच्यत दैवो वज्रः क्षुर: पविः सहस्रपृष्टिर्दिवस्पृशः ।२ ।।
स संसिजानोतिष्ठद्धरुहरा भवन्नेतदिच्छन् । । ३ ।।
स समुद्रं प्राविशत् स समुद्रमदहत् । ४ ।।
तस्मात् समुद्रो दुर्गरपि व वैश्वानरेण हि दग्धः ।। ५ ।।
स शक्र उदक्रामत् सोध्यायदसौ वज्रै: आसुरैः सपद्यदेवासुरक्षति व्रतं चराणीति स व्रतमचरत् । ६ ।
सो ऽणु: कृशो भवति तस्मादणु: कृशो व्रतचारी भवत्यवडुयि कृशो भूत्वेन्द्रो असुरानुपावृङक्त । ७ ।
स परमेष्ठिन् उपाधावत् ।
स प्रजापतिम् उपाधावत् ।
स विष्णुम् उपाधावत् ।
स गृहपतिम् उपाधावत् ।
स विराजम् उपाधावत् ।
स स्वराजम् उपाधावत् ।
स सम्राजम् उपाधावत् ।
सो ऽहरात्रे उपाधावत् ।
सो ऽर्धमासान् उपाधावत् ।
स मासान् उपाधावत् ।
स ऋतून् उपाधावत् ।
स आर्त्तवान् उपाधावत् ।
स ऋषीन् उपाधावत् ।
स आर्षेयान् उपाधावत् ।
सो ऽङ्गिरसान् उपाधावत् ।
सो आङ्गिरसान् उपाधावत् ।
सो अथर्वणम् उपाधावत् ।
सो आथर्वणान् उपाधावत् ।।८ ।।
विश्वान्देवान् मरुद्गणान् तमन्दसान्दवं स्तोम प्रथमोथेन्द्राग्नी ।
तमुपामन्त्रयेते पुण्यया वाचा क्रूरया वाचा हहिष्या वाचा स सावित्न्यन् ।
अथैषा मोपचामे निष्यसीति ।
स उपशाम्यत् ।
तस्माद् यो ब्रह्म वेदोतापस्स तं शमयति दोहयत् एवैनाम् ।।९।।
तमृक्सामाभ्यां उतभितो यजुषा यज्ञेन गायत्रेण वामदैव्येन च।।१०।।
एतद् वा इदं सर्वं यद् ऋक्सामौ एताविन्द्रस्य बाहू ।
तमादत्त तं परूंष्या धत्ते ।
प्रजा वै समृद्धिमक्षतिं पशवः परूंषि ।
प्रजामेव समृद्धिमक्षतिमव रुन्द्धे य एवं वेद ।। ११ ।।
17.29
स दिक्षु प्रत्यतिष्ठत् ।। १ ।।
दिश एवानु प्रति तिष्ठति य एवं वेद । २ ।।
17.30
स विश्वामाह्यक्रमात ।
एष वै विश्वाषाड्यौरेवासी । १ ।।
एते वै सर्वे पुण्यलोकाः सर्वाश्च देवताः स नाधारयत् ।। २ ।।
सर्वानेव पुण्याल्लोकानवरुन्द्धे । ३ ।।
सर्वाश्च देवता य एवं वेद । ४ ।।
17.31
स विश्वानरे ऽक्रमत । १ ।।
एष वै विश्वानरो यदन्तरिक्षं समुद्रः । २ ।।
एते वै पथयो देवयानान् यः सूर्यस्य रश्मयः ।। ३ । ।
सः पथिषु देवयानेषु ध्रीयते
प्र पथो देवयानान् जानाति य एवं वेद । ४ ।।
17.32
स वैश्वानरे ऽक्रमत । १ ।।
एष वै वैश्वानर उदयन् पवमानः ।। २ ।।
एते वै सर्वानुप्रसारो द्रुह्यते ।
स नाधारयत् । ३ ।।
ध्रियन्ते ऽस्मिन् प्राणा य एवं वेद ।। ४ ।।
17.33
स वृत्रे ऽक्रमत । १ ।।
तस्य वृत्रस्याङ्गा पर्वाणि शरीराण्यभिद्यन्त।
एतानि वै वृत्रस्याङ्गाः पर्वाणि शरीराणि यदीमे पर्वताः।।२।।
स यत्र हृदा मनसा कामयेति इह मे राध्यन्ते
तदस्मै राध्यते । ३ ।।
अस्यामेव प्रतिष्ठामायतनं विन्दते य एवं वेद । ४ ।।
17.34
स देवानागच्छत्तं देवा अब्रुवन्नाशं . सामेक्तन्मे तद् व्रतम् ।
आ हिरण्येषु पशुषु ग्राम्येष्वत्येति । १ ।।
सो ऽनड्वाहम् उपाधावत् । ।
तमनड्वानब्रवीत् किं मे प्रतीवाहो भविष्यसीति वरं वृणीष्वेति स वरं अवृणीत । २ ।।
बुध्नलोको ऽसानि बुध्नस्य विष्टपे श्रिया इति । ३ ।।
षोडशो वा इत ऊर्ध्वो लोको ऽयद् बुध्नस्य विष्टप:।।४।।
बुध्नोलोको भवति बुध्नस्य विष्टपे श्रीयते य एवं वेद।५।
17.35
अथाहीन आश्वत्थादब्रवीत् । १ ।।
न अब्राह्मण निद्यानि यादेनमश्रृणुन् ये जुष्टपूर्तेनं व्यभवानीति कृता वा एषा मनुष्येषु तरति यदनड्वान् यदनड्व्रतीन् ।।२ । ।
य एवं विदुषो साधुकीर्तयतीष्टमेवास्य पूर्तिमायां सं वृङ्क्ते।।३।।
इन्द्रो वाग्रे ऽसुरेष्वनडवान्व्रतमचरत्वेषामिष्टपूर्तिमायां सं
वृक्तानिन्द्र ह्येनम् । ४ ।।
सो ऽनडुहोवहेक्रमत सर्वांल्लोकान् प्राजानात् ।। ५ ।।
यावस्य पूर्वपादौ तौ पूर्वपक्षौ यावपरपादौ तावपरपक्षौ ।६।
यावस्यौष्ठौ तो पुरोडाशौ ये नासिके तौ स्नुवौ ये अस्याक्षौ तो सूर्याचन्द्रमसौ ये निमेषस्तावहोरात्रे यानि वक्ष्णानि ते सूर्यस्य रश्मय: स: ।। ७ । ।
द्रोणकलशः शिरः सोमो राजा मस्तिष्क: ।।८ ।।
ये ऽस्य श्रृङ्गे तद् ऋतं सत्यम् ।। ९ ।।
ध्रुवं वा ऋतं सत्यम् ।। १० ।।
तस्माद् एते ध्रुवे ।। ११ । ।
ध्रुवमेव ऋतं सत्यमनु प्रति तिष्ठति य एवं वेद ।। १२ ।।
17.36
यावस्य कर्णौ सा श्रद्धा । १ ।।
चरा ऽचरा वै श्रद्धा तस्मात्कर्णौ मुहुर्वरीवर्जयति । २ ।।
श्रद्द्धते ऽस्मै श्रद्धानी यो भवति य एवं वेद । ३ ।।
17.37
यास्य दक्षिणा हनुः सा जुहूर्या ददर्यासम् ।। १ ।।
या सव्या सोपभृद य: कण्ठ: सा धुवा । २ ।।
अग्निरास्यं विद्युज्जिह्वा मरुतो दन्ताः पवमानः प्राणः । ।३ । ।
एषा वै मायामाहुर्वसोर्धारेति यदन्त्रगुदम् ।
वसोरेव धारां समृद्धिमक्षतिमवरुन्द्धे य एवं वेद । ४ ।।
17.38
यदस्य चर्म तदभ्रं यानि लोमानि तानि नक्षत्राणि । १ ।।
स्वेदो वर्षमूष्माणि ह्वारो यदोषधयश्च वनस्पतयश्चोवध्वम्।।२ । । ह्रारो
यो ऽस्य दक्षिणोर्धोस्तौ शारदौ मासौ याः सव्यास्तौ हैमन्तौ ।। ३ ।।
यो ऽस्य जघनार्ध: तौ शैशिरौ मासौ य: पूर्वार्धस्तौ वासन्तौ ।।४।।
यदस्य पृष्ठं तौ ग्रैष्मौ मासौ यन्मध्यं तौ वार्षिकौ ।। ५ ।।
संवत्सरो वा एष संभूतो येनानड्वान् येननडद्वतीन् ।।६।।
कल्पन्ते अस्मा ऋतवो नर्तुष्वा वृश्चत ऋतूनां प्रिय भवति य एवं वेद ।।७।।
17.39
तपश्च वरश्च महश्च यशश्च
यदस्मिन्नन्तर्ऋचः सामानि यजूंषि ब्राह्मणं । । १ ।।
ब्रह्म चैव लोकं चावरुन्द्धे
ब्राह्मणवर्चसी भवति य एवं वेद ।। २ ।।
17.40
अथ यदस्मिन्नन्त: ।
शतं श्राद्धा: शतं दीक्षा शतं यज्ञा: शतं दक्षिणा: ।। १ । ।
शतं भूतय: शतं पुष्टयः शतं प्रभूतय: शतं समृद्धयः ।। २ ।।
शतं अभूतयः शतं निर्भूतयः शतं पराभूतयः शतमसमृद्धयः ।। ३ ।।
शतं सिन्ध्यानि शतं अब्गणानि शतं तमांसि शतं रुधिराणि ।। ४ । ।
य एवं विदुषो साधुकीर्तयत्येतैरेवैनं तमोभिः प्रोर्णोति ।। ५ ।।
यदस्य प्राचीनं नाभ्यास्तेन द्विषन्तमाविशति । ६ ।
अथ यदस्य प्रतीचीन नाभ्यास्तेन मृत्युं नाष्ट्रामवर्तं तरति प्र पथो देवयानां जानाति य एवं वेद । ७ ।।
17.41
यथ यदस्मिन्नन्त: ।
शतमर्धमासाः शतं मासा: शतमृतव: शतं आर्तवा: ।। १ । ।
शतमिदावत्सराः शतमनुवत्सराः शतं परिवत्सराः शतं संवत्सराः।। २ ।।
शतं ब्रह्माणि शतं कर्माणि शतं ज्योतींषि शतममृतानि । । ३ । ।
शतं प्राणा: शतमपाना: शतं व्याना: शतं समाना: ।। ४ । ।
ज्योग् जीवति सर्वमायुरेति न पुरा जरसः प्र मीयते य एवं वेद।।५।
17.42
अथ यदस्मिन्नन्त: ।१ ।
शतं गायत्रा: शतं साह्ना: शतं त्रिरात्रा: शतं अतिरात्रा: ।। २ ।।
शतं अग्निष्टोमाः शतं द्वादशाहाः शतं षडशिनः गतं सर्वपृष्टाः ।३।
शतं राजसूया: शतं वाजपेया: शतं कामप्रा: सहस्रं सत्रायणानि ।। ४ । ।
एष बा अनड्वान् सर्वाङ्गः सर्वात्मा सर्वपरुः सर्वपान् मध्यतः प्रत्यतिष्ठात् ।। ५ ।।
ऋक्सामभ्यामुत्तभितो यजुषा यज्ञेन गायत्रेण ब्रह्मणा प्रथत उपरिष्ठात्।
प्रथते प्रजया पशुभिर्गृहैर्धनेन य एवं वेद । ७ ।।
17.43
इन्द्रो बलेनासि परमेष्ठी व्रतेन येन गौस्तेन वैश्वदेव: ।। १ ।।
यो ऽस्माद्द्वेष्टी यं च वयं द्विष्मस्तस्य प्राणान् सं बर्ह तस्य प्राणान् वि बर्ह ।२।
इन्द्रोसीन्द्रस्य रूपमसि प्रजापतिरसि परमेष्ठिरसि ।
स्वरसि स्वर्गोसि स्वर्गोलोकोसि स्वर्गं मा लोकं गमय।
येनास्यवहस्तेन यज्ञो येन वहन्ति तेन लोक: ।३।
येनैनं पश्यति तेन विश्वो येनैनं गमयति तेन सर्व: ।।४।।
ये ऽस्य पादा: सा प्रतिष्ठा ।
प्रति तिष्ठसि प्रजया पशुभिगृहैर्धनेन
य एवं विद्वाननडुहो व्रतं बिभर्ति । ५ ।
(इति एकनृचनाम सप्तदशकाण्डे षष्ठोऽनुवाको)
17.44
नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।
यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ् परेहि ।। १ ।।
अघशंसदु:शंसौ करेणानुकरेण च ।
मृत्युंश्च सर्वांस्तेनेतो यक्ष्मांश्च निरजामसि ।। २ ।।
निरितो मृत्युं निर्ऋतिं निर्यक्ष्ममजामसि ।
यो नो द्वेष्टि तमद्ध्यग्ने: ऽक्रव्याद् यं द्विष्मस्तं ते प्रसुवामः ।। ६ ।।
यद्यग्निः क्रव्याद् यदि वा व्याघ्र इमं गोष्ठमन्योका आ विवेश ।
तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोप्यग्नीन् ।। ४ ।।
यत् त्वा क्रुद्धा: प्रचक्रुर्मन्युना पुरुषे मृते ।
सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि । ५ ।
पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रहा वसुनीतिरग्ने ।
पुनस्त्वा ब्रह्मणस्पतिराधाद् दीर्घायुत्वाय शतशारदाय ।। ६ 1 ।।
यो अग्निः क्रव्यात् प्रविवेश नो गृहमिमं पश्यन्नितरं जातवेदसम् ।
तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ।। ७ ।।
क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ।।८ ।।
क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।
नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोके अपि भागो अस्य ।।९।। ।
क्रव्यादमग्निं शशमानमुक्थं प्र हिणोमि पथिभिः पितृयाणैः ।
मा देवयानैः पथिभिरा गा अत्रैवैधि पितृषु जागृहि त्वम् ।। १० ।।
17.45
समिन्धते संकसुकं स्वस्तये शुद्धा भवन्त: शुचय: पावकाः ।
जहाति रिप्रमत्येन एति समिद्धो अग्नि: सुपुना पुनातु ।१।
देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत् ।
मुच्यमानो निरंहसो मोह्यस्माङ् अशस्त्या: ।। २ ।।
अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।
अभूम यज्ञिया: शुद्धा: प्र ण आयूंषि तारिषत् ।। ३ ।।
संकसुको विकसुको निर्ऋथो यश्च निस्वरः ।
ते ते यक्ष्मं सवेदसो दूराद दूरमुचुच्युवु: ।। ४ ।।
अन्येभ्यस्त्वा पुरुषेभ्यः गोभ्यो अश्वेभ्यस्त्वा ।
क्रव्यादं निर्णुदामस्यग्निं जीवितयोपनम् । ५ ।
यो नो अश्वेषु वीरेषु यो गोषु यो अजाविषु ।
क्रव्यादं निर्णुदामस्यग्निर्यो जनयोपन: ।। ६ ।
समिद्धो अग्नि आहुत स नो माभ्यपक्रमीः ।
अत्रैव दीदिहि द्यवि ज्योक् च सूर्याय दृशे । । ७ ।।
यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।
तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ।। ८ ।।
सीसे मृड्ढ्वं नडे मृड्ढवमग्निः संकसुकश्च यः ।
अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे । ९ ।
सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।
अव्यामसिक्न्यां मृष्टवा शुद्धा भवन्तु यज्ञिया: ।। १० ।
17.46
परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु । १ । ।
इमे जीवा वि मृतैराववृत्रन्नभूद् भद्रा देवहूतिर्नो अद्य ।
प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ।। २ ।।
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
ज्योग्जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ।। ३ । ।
यथाहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति साकम् ।
यथा नु पूर्वमपरो जहात्येवा त्वष्टरायूंषि कल्पयैषाम् । ४ ।।
आ रोहतायुर्जरसं वृणाना अनुपूर्वं यजमाना यति स्थ ।
तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ।। ५ ।।
अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखाय: ।
अत्रा जहीत ये असन्दुरेवा अनमीवानुत्तरेमाभि वाजान् । ६ ।
उत्तिष्ठता प्र तरता सखायोश्मन्वती स्यन्दते नदीयम् ।
अत्रा जहीत ये असन्नशिवा: शिवान् स्योनानुत्तरेमाभि वाजान् । ७ ।।
वैश्वदेवीं सूनुतामा रभध्वं शुद्धा भवन्त: शुचय: पावका: ॥
अतिक्रामन्तो दुरितानि विश्वा शतं हिमा: सर्ववीरा मदेम। ८ ।
उदीचीनै: पथिभिर्वायुमद्भिरतिक्रामन्तोवरान् परेभि: ।
त्रिः सप्तः कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन।।९।।
मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः ।
आसीना मृत्युं नुदता सधस्थे ऽथ जीवासो विदथमा वदेम ।। १० ।।
17.47
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु ।
अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे । १ ।।
इमे वीरा अविधवाः सुजानय आञ्जनेन सर्पिषा सं स्पृशंताम् ।
अनश्रवोऽनमीवाः सुरत्नाः स्योनाद्योनेरधि तल्पं रुहेयुः ।। २ ।।
व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि ।
स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्सृजामि ।३।
यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु ।
मय्यहं तं प्ररि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम्।। ४ ।।
अपावृत्याग्निं गार्हपत्यं क्रव्यादा: प्रेत दक्षिणा: ।
प्रियं पितृभ्य आत्मने ब्रह्मणे कृणुत प्रियम् ।। ५ । ।
द्विभागधनमादाय प्र क्षिणात्यवर्त्या ।
अग्नि: पुत्रस्य ज्येष्ठस्य य: क्रव्यादनिराहितः । ६ ।
यत् कृषते यद् वनुते यच्च वस्नेन विन्दते ।
सर्व मत्र्यस्य तन्नास्ति क्रव्याच्चेदनिराहितः । । ७ ।।
अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे।
छिनत्ति कृषिं गां धनं यं क्रव्यादनुवर्त्तते।।८।।
मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य च।
क्रव्यादमग्निरन्तिकादनुविद्वान् वितावति । ९ ।
ग्राह्या गृहाः सं सृज्यन्ते यत् स्त्रिया म्रियते पतिः ।
ब्रह्मैव विद्वानेष्यो यः क्रव्यादं निरादधत् ।। १० ।।
17.48
यद् रिप्रं दुरितं चकृम यच्च दुष्कृतम् । ।
आपो मा तस्माच्छुन्धन्त्वग्नेः संकसुकाच्च यत् । । १ ।।
ता अधरादुदीचीराववृत्रन् प्रजानतीः पथिभिर्देवयानैः ।
पर्वतस्य ऋषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ।
अग्ने अक्रव्यान् निष्क्रव्यादं नुदा: देवयजनं वह । २ ।।
इमं क्रव्यात् प्रविवेशायं क्रव्यादमन्वगात् ।
व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् । ३ ।।
अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयानन्तरा श्रित: ।
जीवानामग्ने प्र तिर दीर्घमायुः पितॄणां लोकमुपयन्तु ये मृताः ।। ४ ।।
सुगार्हपत्यो वितपन्नरातीरुषामुषा श्रेयसीं श्रेयसी दधत् ।
सर्वानग्ने सहमान: सपत्नानैषामूर्जं रयिमस्मासु धेहि ।। ५ ।
इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्विद्वान् विजहाति मृत्युम् ।
तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ।। ६ ।।
अहोरात्रे अन्वेषि बिभ्रत् क्षेम्यस्तिष्ठन् प्रतरण: सुवीरः ।
अनातुरा: सुमनसस्तल्प बिभ्रज्ज्योगेव न: पुरुषगन्धिरेधि । ७ ।।
ते देवेष्वा वृश्चन्ते पापं जीवन्ति सर्वदा ।
क्रव्याद् यमग्निरन्तिकादनुविद्वान्वितावति।।८।।
प्रेव मनसा पतति मुहुरा वर्तते पुनः।
क्रव्याद्यमग्निरान्तिकादश्व इवानुवपते नडम्।।९।।
17.49
ये ऽश्रद्धया धनकाम्या क्रव्यादा समासते ।
ते वा अन्येषां कुम्भीं पर्यादधतु सर्वदा । १ ।। पर्जा
इषीकां जरतीं इष्ट्वा तिल्पिञ्जं दण्डनं नडम्।
तानिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ । २ ।।
अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादुत चन्द्रं त आहुः ।
माषा: पिष्टा भागधेयं हव्यं ते अरण्यान्या गह्वरं सचस्व । ३ ।।
प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याचकार ।
परामीषामसून् दिदेश दीर्घेणायुषा समधादिहेमाम् । ४ ।।
अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद् दुरितादवद्यात् ।
आ रोहत सवितुर्नावं हिरण्यैः षड्भिरुर्वीभिरमतिं तरेम ।। ५ । ।
गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वान् ।
वयं राजान: प्रथमा धनानामरिष्टासो वृजनीभिस्तरेम ।। ६ । ।
पूर्णं नारि प्र हराभि कुम्भमपां रसमोषधीनां घृतस्य ।
इमान् पातॄनमृतेना समङ्गधि स्थिरा वीराः सुमनसो भवन्तु ।। ७ ।।
(इति एकानृचनाम सप्तदशकाण्डे सप्तमो ऽनुवाकः)
17.50
पुमान् पुंसो अधि तिष्ठ चर्म तत्र ह्वयस्व यतमा प्रिया ते ।
यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ।। १ ।।
तावद्वां तेजस्तति वीर्याणि तावच्चक्षुस्ततिधा वाजिनानि ।
अग्नि: शरीरं सचते यदैधो अधा पक्वान् मिथुना सं भवाथः ।। २ ।।
समस्मिल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु ।
पूतौ पवित्रैरुप तदु ह्वयेथां यद्यद्रेतो अधि वां संबभूव । ३ ।।
आपः पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य ।
तासां भजध्वममृतं यमाहुर्यमोदनं पचति वो जनित्री ।। ४ । ।
यं वः पिता पचति यं च माता रिप्रान्निर्मुक्त्यै शमलाच्च वाच: ।।
स ओदनः शतधार: स्वर्ग उभे व्याप नभसी महित्वा ।। ५ ।।
उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः ।
तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम्।।६।।
प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधाना: सचन्ते । प्रदीश
मिमाथां पात्रं तद्वां पूर्णमस्तु स वां पक्वः पितृयाणेन्यायत् ।। ७ 1।।
दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत् ।
तस्मै वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यच्छात्।।८ ।।
प्रतीची दिशामियमिद् वरं वां यस्यां सोमो अधिपा मृडिता च ।
तस्यां मिमाथां सुकृत: परेथामधा पक्वेन सह सं भवेम । ९ ।
उत्तरं राष्ट्रं प्रजयोत्तरावद् दिशामुदीची कृणवन्नो अग्रम् ।
पाङ्क्तं छन्द: परुषो बभूव विश्वैर्विश्वाङ्गै: सह सं भवेम ।। १० ।।
17.51
ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु ।।
सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ।।१ । ।
पितेव पुत्राङ् अभिसं स्वजस्व नः शिवा नो वाता उप वान्तु शग्माः ।
यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु । २ । ।
यद्यत् कृष्ण: शकुन एह गत्वा त्सरं विषक्तं बिल आससाद ।
दासी वा यदार्द्रहस्ता त्समङ्क्त अलूखलं मुसलं शुन्धतापः ।।३ ।।
अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्ष: ।
आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ।।४।।
वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचाङ् अपबाधमानः । वाध
स उच्छ्रयातैः प्र वदाति वाचं तेन लोकाङ् अभि सर्वान् जयेम ।।५।।
सप्त मेधान् पशवः पर्यगृह्णन् य एषां मेधस्वानुतयश्चकर्श ।
त्रयस्त्रिंशद् देवतास्तान् सचन्ते स नः स्वर्गमभि नेष लोकम्।।६ ।। ।
स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम । ।
गृह्णामि हस्तमन्वैत्वत्र मा नस्तारीन्निर्ऋतिर्मो अरातिः ।। ७ । ।
ग्राहिं पाप्मानमति ताङ् अयाम तमो व्यस्य प्र वदासि वल्गु । .
वानस्पत्यः उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम्।।८ ।।
विश्वव्यचा घृतपृष्ठो भविष्यन् सयोनिर्लोकमुप याहि विद्वान् । ।
वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावान् अपि तद् विनक्तु ।। ९ ।।
त्रयो लोकाः संमिता ब्रह्मणेन द्योरेवासौ पृथिव्यन्तरिक्षम् । ।
अंशून् गृभीत्वानु संरभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ।। १० ।।
 17.52
पृथग्रूपाणि बहुधा पशूनामेकरूपो भवति सं समृद्ध्या ।
एतां त्वचं लोहिनीं तां नुदेथां ग्रावा शुन्धाति मलग इव वस्त्रा।।१।।
जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या ।
उखा: कुम्भीर्वेद्यां सं चरन्तां यज्ञायुधैराज्येनातिषक्ता । २ ।।
भूम्यां त्वा भूमिमधिधारयामि तनूः समानी विकृता त एषा ।
यद्यद् द्युत्तं लिखितमर्पणं च तेन मा सुस्त्रोरपि तद् वपामि।।३।।
अग्नि: पचन् रक्षतु त्वा पुरस्तादिन्द्रो अस्माद् दक्षिणतो मरुत्वान् ।
सोमस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा वरुण: सं ददातै । ४ ।।
आ यन्तु दिवः पृथिवी सचन्ते भूम्याः सचन्ते उर्वन्तरिक्षम् ।
शुद्धाः सतीस्ता उत शुन्द्धन्त एव ता नः स्वर्गमभि लोकं नयन्तु।।५।।
पूताः पवित्रैः पवन्ते अभ्राद् दिवं च यन्ति पृथिवीं च लोकान् ।
ता जीवला जीवधन्याः प्रतिष्ठा: पात्र आसीक्ताः पर्यग्निरेनाम्।। ६ ।।
उतेव प्रभ्वीरुत संमितास उत शुक्रा: शुचयश्चामृतास: ॥
ता ओदनं दंपतिभ्यां प्रशिष्टा आप: शिक्षन्ती: प्रवता सुनाथा:।।७।।
उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलाञ्च बिन्दून् ।
योषेव दृष्ट्वा पतिमृत्वियायै तैस्तण्डुलैर्भवता समाप: । ८ ।
संख्याता स्तोका: पृथिवीं सचन्ते प्राणापानै: संमिता ओषधीभि:।
असंख्याता ओोप्यमानाः सुवर्णा: सर्वं समापं शुचयः शुचित्वम्।।९।।
उत्थापय सीदतो बुध्न एनानद्भिरात्मानमपि सं सृजन्ताम् ।
अमासि पात्रैरुदकं यदेतन्मितास्तण्डुलाः प्रदिशो यदीमाः ।। १० ।।
17.53
प्र यच्छ पर्शुं त्वरया हरन्चहिंसन्त ओषधीर्दान्तु पर्वन् ।
सोमो यासां परि राज्यं बभूवामन्युता वीरुधो मे भवन्तु । १ ।।
नवं बर्हिरोदनाय त्स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु । वर्हि
तत्र देवा: सह दैवीर्विशन्त्विमं प्राश्नन्तु दक्षिणतो निषद्य ।।२ । ।
वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोमैः संमितो देवताभिः।
त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ।। ३ ।।
धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु ।
तं दंपती जीवन्तौ जीवपुत्रौ उद्वासयातः पर्यग्निधानात् ।। ४ ।।
षष्ठ्या शरद्भिः परि दध्म एतं स्वः पक्वेनाभ्यश्नवातैः ।
उपैनं पुत्रा पितरश्च सीदानिमं स्वर्गं गमयान्तमग्ने: ।। ५ ।
सर्वान् समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान्।
वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम्।।६।।
उप स्तृणीहि प्रथया पुरस्ताद् घृतेन पात्रमभि धारयेदम् ।
वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिंकराथ । ७ ।।
उपास्तरीरकरो लोकमेतमुरु: प्रथतामसमः स्वर्ग: ।
तस्मिन् सुपर्णो महिषच्छ्रयातै देवा एनं देवताभ्यः प्र यच्छान् ।। ८ ।।
यद्यज्जाया पचति त्वत् पर: पर: पतिर्वा जाये त्वत् तिर: ।
सं तत् सृजेथां सह वां तदस्तु संराधयन्तौ सह लोकमेतम्।।९।।
यावन्तो अस्याः पृथिवीं सचन्ते अस्मत् पुत्राः परि ये संबभूवुः ।
सर्वांस्तान् उप पात्रे ह्वयेथां नाभिं जानाना: शिशव: समायान्।। १० ।।
 17.54
वसोर्या धारा मधुना समक्ता घृतेन मिश्रा अमृतस्य नाभयः ।
सर्वास्ता अव रुन्धे स्वर्गः षष्ठ्यां शरत्सु निधिपा अभीच्छात् ।। १ ।।
निधिं निधिपा अभ्येनमिच्छादनीश्वरा अभित: सन्त्वन्ये ।
अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्स्वर्गानरुक्षत् ।। २ ।।
अग्नी रक्षस्तपतु यद् विदेवं क्रव्यात् पिशाच इह मा प्र पास्त ।
नुदाम एनमव रुध्मो अस्मदादित्या नो अङ्गिरसः सचन्ताम् ।। ३ ।।
आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयाम: ।
शुद्धहस्तौ ब्राह्मणस्यानिहत्यैनं स्वर्गं सुकृतामयैनम् । ४ ।।
इर्द काण्डमुत्तमं प्रापमस्य यस्माल्लोकात् परमेष्ठी समाप ।
आ सिञ्च सर्पिर्घृतवत् समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र।।५।। ।
सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दध्म एतम् ।
भी नो द्युतेव गान्मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत्। ६ ।
न किल्बिषमत्र नाधारो अस्ति न यन्मित्रैः समममान एति ।
पक्तारं पक्वः पुनरा विशास्यनूनं पात्रं निहितं न अस्तु ।। ७ ।।
अहं पचाम्यहमिद्ददामि ममेदु कर्मन् करुणेषि जायाः ।
कौमारो लोको अजनिष्ट पुत्रोन्वारभेथां वय उत्तरावत् ।। ८ ।।
प्रियं प्रियाणां कृणवाम या तत् तमस्ते यन्तु यतमे द्विषन्ति ।
धेनुरनड्वान् वयो आयदन्यत् पौरुषेयमप मृत्युं नुदन्तु । ९ ।
समग्नयो विदुरन्यो अन्यं य ओषधीः सचते यध सिन्धून् ।
यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिर्दधतो बभूव ।। १० ।। योति
17.55
एषा त्वचां पुरुषे सं बभूवानग्ना: सर्वे पशवो ये अन्ये ।
क्षत्रेणात्मानं परि धापयाथोमोतं वासो मुखमोदनस्य । १ ।।
यदक्षेषु वदति यत् समित्यां यद्वा धने अनृतं वित्तकाम्या ।
समानं तन्तुं सह संविदानौ तस्मिन् सर्वं शमलं सादयाथः ।२ ।।
वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि ।
विश्वव्यचा विश्वकर्मा स्वर्ग: सयोनिर्लोकमुप याह्येतम् । ३ ।।
तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्नन्यवर्णाम् ।
अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि।।४।।
प्राच्यै दिशे अग्नयेधिपतयेसिताय रक्षित्र आदित्यायेषुमते एतं परि दध्म: ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम । ५ ।
दक्षिणायै दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे वसुभ्य इषुमद्भ्य एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम । ६ ।
प्रतीच्यै दिशे वरुणायाधिपतये पृदाकवे रक्षित्रे मित्रायेषुमत एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम । ७ ।।
उदीच्यै दिशे सोमायाधिपतये स्वजाय रक्षित्रे वातायेषुमत एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वथा पक्वेन सह सं भवेम । ८ ।
ध्रुवायै दिशे विष्णवेधिपतये कल्माषग्रीवाय रक्षित्रे वीरुद्भ्य इषुमद्भ्य एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम । ९ ।
ऊर्ध्वायै दिशे बृहस्पतयेधिपतये श्वित्राय रक्षित्रे अशनिभ्य इषुमतीभ्य एतं परि दध्मः ।
तं नो गोपायन्त्वास्माकमैतोः दिष्टं नो अत्र जरसे नि नेषत् ।
जरा मृत्यवे परि णो दधात्वधा पक्वेन सह सं भवेम । । १० ।।
(इति एकानृचनाम सप्तदशकाण्डे अष्टमो ऽनुवाकः)
इत्यथर्ववेदे पैप्पलादसंहितायां एकानृचनाम सप्तदशकाण्ड: समाप्त: