पैप्पलादसंहिता/काण्डम् १३

विकिस्रोतः तः
Jump to navigation Jump to search

अथ षोडशर्चोनाम त्रयोदशकाण्ड:

13.1
अन्तहिंत मे बृहदन्तरिक्षमन्तर्हिता: पर्वता अग्नयो मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि । १ ।।
तप:श्रमावन्तरौ मत् परीतं ब्रह्मयज्ञमन्तरं मद् दधामि ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।२ ।।
अग्नीषोमावन्तरौ मद् भवाथो दिवं वर्म पृथिवीं च कृण्मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।। ३ ।।
अन्तर्हितं मे साम प्रस्तुतमन्तर्हित: परमेष्ठी प्रजापतिः ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि । ४ ।।
अन्तर्हिता सर्पराज्ञी विराण् मे ऽन्तर्हितः पुरुषो मेध्यो मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।।५।।
अन्तर्हिता मे षडुर्वी: सध्रीचीरन्तर्हिता: साध्या आप्त्या मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।। ६ ।।
अन्तर्हिता महर्षय: प्रचेतसो ऽन्तर्हितः सूर्यो मातरिश्वा ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ! ॥७ ।।
अन्तर्हिता मे नद्य: स्यन्दमाना अन्तर्हिता ओषधी: पुष्पिणीर्मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।।८ ।।
अन्तर्हिता: पशव: कक्ष्या मे ऽन्तर्हितं वयो यत् पतत्रि ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।। ९ ।।
अन्तर्हिता म इषवो ब्राह्मणानामन्तर्हिता वनस्पतयः समूला: ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।। १० ।।

13.2
अन्तर्हिता देवतल्पा: पुरो मे ऽन्तर्हिता जगती छन्दसां मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।। 1१ ।।
अन्तर्हिता मे समुद्रा द्वादशा अन्तर्हिता उसषि तारका मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।२ ।।
अन्तर्हिता अग्नयो धिष्ण्या मे ऽन्तर्हिता ऋतव आर्तवा मे ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।। ३ ।।
अन्तर्हिता मे प्रदिशश्चतस्रो ऽन्तर्भूतमुत भव्यं दधेऽहम् ।
मैषां राध्यभिचार एष प्रत्यगेनान् प्रतिसरेण हन्मि ।४।।
हन्मि तेऽहं कृतं हविर्यो मे घोरमचीक्लृपः ।
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।।५।।
अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।
अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविर्यो मे घोरमचीक्लृपः।।६।।

13.3
उदितः शतयोजनमिन्द्रो वर्तयते रथम् ।
सायकं क्षुरवर्तमानमहेर्जातानि जम्भयन् ।।१।।
दृढास आसन्नहयो हता उदरसर्पिणः ।
पुच्छमिद्वेष्यायन्त श्वापिण्डमदन्निव ।२।
पापक पापरूपक किं मे सखायमातुद: ।
न मामपश्य आगतं सतीनं विषदूषणम् ।। ३ ।।
अहिजम्भाश्चरामसि मुष्कावरुहो गवामिव ।
पीलू उप स्वज हन्म उपस्तम्भे पृदाक्वम् ।।४।।
ये के चेदमुपासौषुर्वातस्येव पृथग्यत: ।
अङ्गो नु सर्वे ब्रूताहेयमरसं विषम् ।। ५ ।।
त्रिन्धिसि त निषदनं त्रिपुषि पाप ते गृह: ।
अच्छन्नं त्वा वातो हन्त्यच्छन्नमभि वर्षति ।।६ ।।
नाकुलेन भेषजेन तेनाहीन् जम्भयामसि ।
मश्चतुर्नाम वृक्षक: स एनान् अरसान् अकः ।।७।।
असिताहेरहं विषमुभयोः शितस्य च ।
अभिक्रन्दस्य या रोपीस्ता इतोऽप नयामसि ।।८।।
इदं पैद्वो अजायतेदमस्य पिपर्तनम् ।
इदं कनिक्रदो मृगो विषमेति पराभवन् ।। ९ । ।
विषूचीना वाता वान्तु विष्वग्वर्षन्तु वृष्टयः ।
विष्वग्विष प्र मेह त्वं शतधार इवावट: ।। १० । ।
 
13.4
निरितो हरितस्रजमिन्द्रो वर्तयते रथम् ।
तेनापिलिह्र इयते निपिसंनहिनामन: ।१।
येनेन्द्र दस्यूनमृणोर्येन वृत्रं पराभिनः ।
तेना शतक्रतो त्वमहेर्जातानि जम्भय । २ ।।
प्रत्यमोदत पृथिवी प्रति द्यौः प्रति सूर्यः ।
पैद्वो यदश्वमाता क्रन्देनाहीनपावपत् ।३।
यदा पैद्वोऽश्माता क्रन्देनाहीनपावपत् ।
रज्जू ष्म दत्वती शेरे पूयन्तीं पृथिवीमनु ।।४।।
नापो जीर्यन्ति नामृतं नेन्द्राणी अविधवाभवत् ।
न त्वामास्तेभिषद्विषमश्मानमिव सायकम् ।।५ ।।
इन्द्राग्नी मित्रावरुणा त्वष्टारमदितिं भगम् ।
हुवे ऽहमर्वन्तं पैद्वं म्यामेयं पुरुषो रिषत् ।।६।।
सद्यो जातोऽकनिष्क्रदत् सोल्वो व्यधूनुत ।
क्रन्देनाश्वस्य वाजिनोऽहन्यन्ताहयः पृथक् ।।७ ।।
(इति षोडशर्चोनाम त्रयोदश्याकाण्डे प्रथमो ऽनुवाकः)

13.5
इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि न: प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ।१।
यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ।२।
भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् ।
जीवातवे प्रतरं साधया धियो ऽग्ने सख्ये मा रिषामा वयं तव ।। ३ । ।
शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।
त्वमादित्याङ आा वह तान्ह्यूष्मस्यग्ने सख्ये मा रिषामा वयं तव ।।४।। 1
त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
विश्वा विद्वाङ आर्त्विज्या धिर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव।५।।
दिशां गोपा अस्य चरन्ति जन्तवो द्विपाच्च यदुत चतुष्पदक्तुभिः ।
चित्र: प्रकेत उषसो महाङ अस्यग्ने सख्ये मा रिषामा वयं तव ।।६।।
यो विश्वत: सुप्रतीक: सदृडङ्सि दूरे चित् सन् तड़िदिवाति रोचसे !
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ।।७।।
पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव।।८ ।।
वधैर्दुःशंसाङ् अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिण: ।
अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ।।९।।
यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ।।१०।।

13.6
अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् । (पा. विभ्युः)
सुगं तत्ते तावकेभ्यो रथेभ्यो ऽग्ने सख्ये मा रिषामा वयं तव।।१।।
त्वं मित्रस्य वरुणस्य धास्यवयातां मरुतां हेड़ो अद्भुत: ।
मृडा सु नो भूत्वेषां मन: पुनरग्ने सख्ये मा रिषामा वयं तव।२।
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
शर्मन्त् स्याम तव सप्रथस्तन ऽग्ने सख्ये मा रिषामा वयं तव ।। ३ ।।
तत्ते भद्रं यत् समिद्धः स्वे दमे सोमाहुतो जरसे मृडयत्तम: ।
दधासि रत्नं द्रविणं च दाशुषे ऽग्ने सख्ये मा रिषामा वयं तव ।।४।।
यस्मै त्वं सुद्रविणो ददाशो ऽनागास्त्वमदिते सर्वताता ।
यं भद्रेण शवसा चोदयासि प्रजावन्तो राधसा ते स्याम ।।५।।
स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ।। १६ ।।

13.7
किमिन्द्रस्य परिहितं किमग्ने: किं विष्णोस्त्वष्टुर्वरुणस्य वासः ।
बृहस्पतेरुत सोमस्य राज्ञः किं वसाना मरुतो वर्षयन्तु ।।१ । ।
धातूरुद्रस्य किं वायोर्वाजिनां वसनं महत् ।
किं पूषा ब्रह्मणस्पतिर्विश्वे देवाश्च बिभ्रति ।२।
क्व रात्री नि विशते क्वाहः कवेदमभ्रं भवति यत्समेति व्येति च । ।३ ।।
कतमेनापो दिवमुद्वहन्ति क: समेनोदयनेन नेता ।
वातस्य त्वा विद्युतां स्तनयित्नुरपां पृच्छाम्ययनान्यग्नेः ।। ४ ।।
पृच्छामि त्वा पृषतीं रोहिणीं च वत्सं पृच्छामि सहमातरं त्वा ।
इन्द्रं त्वानु पृच्छामि साक्षात् सभानां च सभापतिम् ।।५।।
को वयसामदधान्नामानि क: पशूनां कः सर्पाणां देवजना य आसन् ।
को ऽस्य जन्तोरदधाद् ब्रूहि नस्तत् ।।६।।
कति रोहाः स्वरा रोहयन्ति येभी रोहितो दिवमारुरोह ।
राष्ट्रभृतः क्षत्रभृतो वसुभृतो वसुदानवो वसुयवः ।। ७ । ।
कश्चतुर्धा वि क्रमते महित्वा कं रक्षन्ति कवयोऽप्रमादम् ।
पुरुषं त्वानु पृच्छामि साक्षान्मृत्योरङ्गानि कति तानि वेत्थ ।।८।।
यं सिषेव वृषभश्चर्षणीनामिन्द्रो वज्रमहिना स्पर्धमानः ।
येन वृत्रं मघवा संपिपेश तं नः प्र बूहि यदि तं प्रवेत्थ ।।९।।
क: पर्वतानामदधान्नामानि को वनस्पतीनामदधादोषधीनाम् ।
पृच्छामि त्वा भुवनस्य नाभिं गां त्वा पृच्छामि कतमानि साक्षात् ।। १० ।।

13.8
देवतल्पा देवकशा: क्वेह तान्नः प्र बूहि यदि तान् प्रवेत्थ ।
पृच्छामि त्वा गरगिरः कियन्तो येभ्योऽग्निर्हव्यं वहति प्रजानन् हुतं मर्त्यैरमृतोमतर्त्येभ्यः । ।१ ।।
स्वप्ने य एकस्तमसा सहैत्यङ्गानि गृह्णन् पुरुषस्य चक्षुः ।
स प्रातरेति तमसा पुन: सहाज्योतिरेति क्व सददेति ।२।
व्रतपतिमधिपतिं मधुकृता मधुपतिम् ।
देवांस्त्वा सर्वान् पृच्छाम्यहुतादश्च ते कति ।।३।।
को ऽन्तरिक्षात् परि पश्यतीदं यस्मादग्र इन्द्रियं संबभूव ।
महत् स कस्मादभयं बिभाय कस्ययुक्तस्यास्यास्रक्वाल्लोहितं परापतत्तत् क्वेह ।।४।।
इत्थमेके प्र व्रजन्तीत्थमेके दक्षिणा: प्रत्यञ्च उदञ्चः प्राञ्चोऽभि व्रजन्त्येके ।
तेषां सर्वेषामिह सङ्गतिः साकं स एको भूतश्चरति प्रजानन्।।५।।

13.9
मरीचिरासीत्सा मनसः समभवत् ।
सा प्रावीयत सा गर्भमधत्त ।
स गर्भो ऽवर्धत स वृद्धो ऽब्रवीज्जाया इति ।
तस्यै प्रजापतिरजुहोत्स्वधिष्ठाना चेति स्वधिचरणा चेति ।
प्रजापते स्वसुर्ज्यो कपाले वि जिहीथां मामासन्ताप्तं महान्तं लोकमभिपश्यमाने ।
सो ऽजायत तस्य जातस्य द्यावापृथिवी पार्श्व आस्तां समुद्रौ कुक्षी सूर्याचन्द्रमसावक्षी विराट् शिरः ।
तस्माज्जातात् सर्वे पाण्मानो विजन्ते सर्वे अस्मात् पाप्मानो विजन्ते य एवं वेद । १ ।।
(हृति षोडशर्चोनाम त्रयोदशाकाण्डे द्वितीयोऽनुवाक:)
इत्यथर्ववेद ऐंग्लाद संहितायां षोडशचनमत्रयोदशकाण्डः:समाप्तः