पैप्पलादसंहिता/काण्डम् ११

विकिस्रोतः तः

अथ चतुर्दशर्चोनाम एकादशकाण्ड:

११-१ 11.1
वृषा ते ऽहं वृषण्यन्त्यै गर्भं दधामि योन्याम् ।
यदि देवपरिष्ठिता प्रजां स्तोकं न विन्दसे ।१।
धाता ते तं सिनीवाली वरुणानी प्र यच्छतु ।
पुमांसं पुत्रमिन्द्राणी शतदायं दधातु ते । ।२ । ।
संवृतस्ते वक्षणासु गर्भः पुंसा पुमान् कृतः ।
सर्वाङ्गस्तन्वोर्जायतामग्निरिवारण्यरधि ।३।
धत्स्व वीरं कर्मण्यं प्रस्वं त्वावधिमवशां कृणोमि ।
आत्मनस्ते लोहिताद्भर्भः सं वर्ततां वृषा ।। ४ ।।
त्वष्टां पिंशतु ते प्रजां धाता तोकं दधातु ते ।
राका सीव्यतु सूच्या भूतस्येशाना भुवनस्य देवी । ५ ।
सिनीवालीमनुमतिं राकां गुङ्गुं सरस्वतीम्।
देवानां पत्नीर्या देवीरिन्द्राणीमवसे हुवे ।।६।।
अभिन्नाण्डा वृद्धगर्भारिष्टा वीरसूरियम् ।
वि जायतां प्र जायतां बह्वी भवतु पुत्रिणी ।।७।।
परि सृज गर्भं धेहि माशा: प्र च्योष्ट लोहितम् ।
अनूनः पूर्णो जायतामश्रामोरन्वो अपिशाचधीतः ।।८ ।।
त्वं दधासि द्विपदे चतुष्पदे गर्भं प्रजामेजते विश्वरूपाम् ।
कनिक्रदद् वृषभो वीडुशेपाः प्रजापते तन्वां धेहि गर्भम् ।।९।।
अभिक्रन्दं स्तनयन् धेहि गर्भं विद्योतमानः पवमानो वीरुद्भि:।
पर्यन्येमां पृथिवी रेतसावतापां रसैरोषधीनां पशूनाम् ।। १० ।।
आा ते नयामि वृषणं यः प्रजानां प्रजापति: ।
स ते दथात्वृत्वियं गर्भं योन्यां विजां प्रजाम् ।।११।।
ये वृषाणो गर्भकृत ऋत्वियानां समेनस: ।
तांस्ते ह्वयामि तदु ते समृध्यताम् ।।१२ ।।
अग्नेष्टे त्वष्टुर्वरुणादिन्द्रात् सोमाद् बृहस्पतेः ।
पुत्रं ते पुत्रकामायै देवेभ्यो निर्ममे प्रजाम् ।। १३ ।।
अङ्गादङ्गात्सं स्रवतु तद् योनौ प्रति तिष्ठतु ।
प्रजा ते वक्षणाशया तत्ते बीजं वि रोहतु ।।१४।।
11.2
अत्ससो यमनंससोऽभूतिर्यक्ष्ममजीजनत् ।
इमं सहस्रभागिन्द्रो विशरं नाशयाति ते । ।१ । ।
यः कार्यो यश्च कृत: स्वयंजा उत हार्यः ।
देवा इन्द्रज्येष्ठा विशरं नाशयन्तु ते ।२। नास
विशरस्य विजृम्भस्येषुर्माता धनुष्पिता ।
अदित्याः पुत्रा आदित्या विशरं नाशयन्तु ते ।।३।।
धन्वनो ज्याया इष्वा अपस्कम्भस्य बाह्वोः ।
अपाष्ठाच्छृङ्गात् कुर्मलाद्विशरं नाशयामि ते ।।४।।
अलवती रुरुशीर्ष्ण्यथो यस्यायो मुखम् ।
देव्यै पर्जन्यरेतस इषवे कृणुता नमः ।।५ ।।
यामत्रयो अङ्गिरसो गोतमा वीरुधं विदुः ।
तया भरद्वाज: कण्वो विशरं नाशयाति ते ।।६।।
यस्त्वा स्त्रैणादपसरो यः पुंसो अध्यारुहत् ।
आक्लान्तं संक्लान्तं स्नाव तदु ते कल्पयामसि ।।७।।
वात इवाभ्रं च्यावयामि यक्ष्मं ते तन्वस्परि ।
वाचा यच्चक्रुस्ते गुरु तदृचा लघु कृण्मसि ।
तेनाहमृतोद्येन विशरं नाशयामि ते ।।८।।
यथा न सत्यं पुरुष: सदा वदितुमर्हति ।
विष्कन्धं त्वदपशरं विशरं पृष्ट्यामयम् ।
जम्भं हनुग्राभं शङ्खं तानजेना अजामसि ।।९।।
शुनमिद्व ओषधयो वि दधे भेषजाय कम् ।
धनायुवः सनायुव: पुरुषं पारयिष्णव: l l Ro ! !
आत्मत्राणि देवजुता वीरुधायुष्या कृता ।
तयाहमिन्द्रदत्तया विशरं नाशयामि ते ।।११।।
अलस्य व्यञ्जनस्य वेष्टनस्योत पर्णधे ।
ग्रन्थेज्याया इष्वा विशरं नाशयामि ते ।।१२।।
साकं विष्कन्ध प्र पत चाषेण किकिदीव्या ।
साकं वातस्य ध्राज्या सह नश्य निहाकया । १३ ।
11.3
जङ्गिडो ऽसि जङ्गिडो रक्षितासि जङ्गिडः ।
द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिडः ।। १ ।।
या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।
सर्वान् विनक्ततेजसोऽरसान् जङ्गिडस्करत् ।।२ ।।
अरसं कृत्रिमं नाडमरसा: सप्त विस्रस: ।
अपेतो जङ्गिडामतिमिषुमस्तेव साधय ।। ३ ।।
कृत्यादूषण एवायमथो अरातिदूषणः ।
अथो सहस्वां जङ्गिड: प्र ण आयूंषि तारिषत् ।।४।।
स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।
विष्कन्धं येन सासाह संस्कन्धमोज ओजसा ।।५।।
तृष्ट्वा देवा अजनयन्निष्ठितं भूम्यामधि ।
तमु त्वाङ्गिरा इति ब्रह्माण: पूर्व्या विदुः ।।६।।
न त्वा पूर्वा ओषधयो न त्वा तरन्तु या नवाः ।
विबाध उग्रो जङ्गिड: परिपाण: सुमङ्गलः ।।७।।
अश्वोपदान भगवो जङ्गिडामितवीर्य ।
पुरा त उग्राय सत उपेन्द्रो वीर्यं ददौ ।।८ ।।
उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।
अमीवाः सर्वाश्चातयञ्जहि रक्षांस्योषधे ।। ९ ।।
आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।
तक्मानं विश्वशारदमरसं जङ्गिडस्करत् | ॥१० ॥ ।
१ १-४ 11.4
इन्द्रस्य नाम गृह्णन्त ऋषया जङ्गिडं ददुः ।
देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ।।१ ।।
स न रक्षतु जङ्गिडो धनपालो धनेव ।
देवा यं चक्रुर्ब्राह्मणाः परिपाणमराहितम् ।।२ ।।
दुर्हार्दसं घोरचक्षुं पापकृत्वानमागतम् ।
तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय
परिपाणोऽसि जङ्गिडः ।।३ ।।
परि मा दिवः परि मा पृथिव्याः
पर्यन्तरिक्षात् परि मा वीरुद्भ्यः।
परि. मा भूतात् परि मोत भव्याद्
दिशोदिशो जङ्गिडः पात्वस्मान्।।४।।
य ऋष्णवो देवकृता य उचोबभृतेन्याः ।
सर्वांस्तान्विश्वभेषजो अरसान् जङ्गिडस्करत् | |५ । ।
11.5
प्रति गृहाण पृथिवीनीतमेदतदाज्यस्य मथितं शरीरम् ।
इमां धेनुमस्य दातुस्त्वं रक्ष बर्हिष्या यथासत् ।।१।।
उत त्वाहुर्वरुणस्य पत्नीमथो त्वाहुरदितिं विश्वरूपाम् ।
अधिजरायुमाघारे हव्यवाहमग्नावस्या महिमानं जुहोमि ।।२ । ।
स साहस्रं तन्तुमन्वा ततान सो अग्निष्टोमां दशतं समाप ।
अधिजरायुं सवत्सां यो ददाति तं वै देवाः स्वरा रोहयन्ति । ३ ।।
अधिजरायुः स्वरा रोहयन्त्यनेन दत्ता सुदुघा वयोधाः ।
सास्मै दुहां शतधारमक्षितं यमस्य लोके परमे व्योमन् ! ४ ।।
पूर्ववत्सेन सह वत्सिनी गौर्योऽस्या वत्सो अपरो जरायु तत् ।
तृतीयं मांसं परिनिर्मितं यत्तस्माद्देवा अधिजरायुमाहुः ।।५ ।।
आा धावय शवसा वावृधानोत्तराव श्रव आ धेह्यस्मै ।
इममिन्द्र महतामेन रक्ष सं प्रजया तन्वा सं बलेन ।।६।।
दुर्वेदावस्ताद् बहुधा परस्ताद् विश्वे देवाः प्रति पश्यन्त्वायतीम् ।
या भद्रा या सर्वत: समीची सेदाहुतिर्भवतु मेतराज्या ।।७।।
गृष्टिं धेनुमधिजरायुं स्वधां कृण्वानः प्र ददाति ब्रह्मणे ।
सास्मै दुहां शतधारमक्षितममुष्मिल् लोके युग उत्तरस्मिन् ।।८ ।।
वत्सं जरायु प्रतिधुक् पीयूषं यो नो ददाति सुदुघामधेनुम् ।
तस्य देवा: प्र तिरन्त्वायुः स आ रोहतु सुकृतामु लोकम्।।९।।
परिवालामधिजरायुं युधाजीवो अददादग्र एताम् ।
स्योना न: शग्मा शिवा विशेह मानो हिंसीर्हरसा दैव्येन ।।१०।।
भद्रकृतं सुकृतमादु शंभुवमारंभुवं प्रति गृह्णाम्यायतीम् ।
घृतश्रियं नभसी संवसानां देवान् मनुष्याङ असुरानुतर्षीन् ।।११ ।।
पञ्च देवाः प्र पिबन्त एतामिन्द्रस्त्वष्टा वरुणो मित्रो अग्नि: ।
ते सर्वे समदुर्मह्यमेतां तयेह जीवन् प्र तिरस्वायुः ।। १२ ।।
कश्यपो ऽयं जमदग्निर्वसिष्ठ ऋषयो नः ससनुरग्र एताम् ।
भरद्वाजो गोतमो अत्रिर्नः स्योनां विश्वामित्रो ददुषः प्र तिरात्यायु।।१३ ।।
ऊर्ज देवेभ्यः सुभग ऊर्जं मनुषेभ्यः ।
ऊर्ज पितृभ्यो अघ्न्य ऊर्जा ददतमा विश ।। १४ । ।
11.6
या जाता ओषधयो देवेभ्यस्त्रियुगं पुरा ।
मन्ये नु बभ्रूणामहं शतं धामानि सप्त च ।। १ ।।
शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
अधा शतकृत्वो यूयमिमं मे अगदं कृत ।२।
पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।
अश्वा इव स्थ जित्वरीर्वीरुधः पारयिष्णवः ।। ३ ।।
ओषधीरिति मातरो यद्वो देवीरपब्रुवे ।
रपांसि विघ्नतीरित रक्षश्चातयमानाः ।। ४ ।।
निष्कृतिर्नाम वो माता निष्कृतिर्नाम वः पिता ।
सरा: पतत्रिणी स्थ यदामयति निष्कृतः ।। ५ । ।
अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
गोभाज इत् किलासथं यत्सनवथ पूरुषम् ।।६।।
यदहं वाजयन्निमा ओषधीर्हस्त आदधे ।
आत्मा यक्ष्मस्य नश्यतु पुरा जीवगृभो यथा ।।७।। "
उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
धनं सनिष्यन्तीनामात्मानं तव पूरुषः ।।८ ।।
यदोषधय: समग्वत राजान: समिताविव ।
विप्र स: उच्यते भिषग् रक्षोहामीवचातनः ।।९।।
अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् ।
आवित्सि सर्वा ओषधीरितो मा पारयानिति ।।१०।।
11.7
अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमीत् ।
ओषधयः प्राचुच्यवुर्यत् किं च तन्वो रपः ।। १ ।।
यस्यौषधयः प्रसर्पथाङ्गमङ्ग परुष्परुः ।। परष्परुः
तस्माद्यक्ष्मं वि बाधध्वमुग्रो मध्यमशीरिव ।। २ ।।
अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
ओषधय: संविदाना इदं मे प्रावता वच: ।३। बचः
अवपतन्तीरपदं दिव ओषधयस्परि ।
यं जीवमश्नवामहै न स रिष्याति पूरुषः ।।४।।
या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ।। ५ । ।
याः फलिनीर्या अफला अकोशा याश्च केशिनीः।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ।। ६ । ।
जीवलां नघारिषामा ते बध्नाम्योषधिम्।
या त आयुरुपाहरादप रक्षांसि चातयात् ।।७।।
11.8
कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेता: ।
तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा।। १ ।।
सप्त चक्रान्वहति कालो एष सप्तास्य नाभीरमृतं न्वक्षः ।
स इमा विश्वा भुवनान्यञ्जन् कालः स ईयते प्रथमो नु देवः ।।२ ।।
पूर्णः कुम्भो अधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।
स इमा विश्वा भुवनानि प्रत्यङ् कालं तमाहुः परमे व्योमन् ।।३।।
स एव सन्भुवनान्याभरत् स एव सन् भुवनानि पर्यैत् ।
पिता सन्नभवत् पुत्र एषां तस्माद्वै नान्यत् परमस्ति तेजः ।।४।।
कालो ऽमूं दिवमजनयत् काल इमां पृथिवीमुत ।
कालेन भूतं भव्यं चेषितं ह वि तिष्ठते ।। ५ । ।
कालो भूतिमसृजत् काले तपति सूर्यः ।
कालो ह विश्वा भूतानि काले चक्षुर्वि पश्यति ।।६।।
काले मनः काले प्राणः काले नाम समाहितम्।
कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ।।७।।
काले तप: काले ज्येष्ठं काले ब्रह्म समाहितम्।
कालो ह सर्वस्येश्वरो यः पितासीत् प्रजापतेः ।।८ ।।
तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।
कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ।।९।।
काल: प्रजामसृजत कालो अग्रे प्रजापतिम् ।
स्वयम्भूः कश्यपः कालात्तपः कालादजायत ।। १० ।।
11.9
कालादापः समभवन् कालाद् ब्रह्म तपो दिशः ।
कालेनोदेति सूर्य: काले नि विशते पुन: ।१।
कालेन वात: पवते कालेन पृथिवी मही
द्यौर्मही काल आहिता ।
कालो ह भूतं भव्यं च पुत्रो अजनयत् पुरः ।।२।।
कालादृचः समभवन् यजुष्कालादजायत ।
कालो यज्ञं समैरयद् देवेभ्यो भागमक्षितम् ।। ३ । ।
काले गन्धर्वाप्सरस: काले लोकाः समाहिता: ।
काले ऽयमङ्गिरा देवो अथर्वा चाधि तिष्ठतः ।।४।।
इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्या: ।
सर्वाल्लोकानभिजित्य ब्रह्मणा काल: स ईयते परमो नु देवः ।।५।।
११- १o 11.10
सप्तैतं सप्तऋषयः शल्यकर्ता द्वादश ।
आविद्धं शल्यं चाक्रतुरिन्द्रराशिं महोदरम् ।।१।।
इन्द्रराशिं मित्रावरुणावाविद्धं निरकृन्ततम् ।
प्रसूतमिन्द्रेणोग्रेणो ब्राह्मणानामसत् पितुः ।।२ ।।
नैनमश्नीयादब्राह्मणो न गृहान् प्र हरेत् स्वान् ।
तृष्टं विषमिव तैमातमिन्द्रराशिः खले शये ।। ३ ।।
अयं शये तन्वं रक्षमाणे यो अश्नात्यविचक्षाण एतम् ।
मध्ये खलस्य निर्मित इन्द्रराशिर्महोदरः ।। ४ ।।
उतैष यक्ष्मं भवतीन्द्रराशिर्महोदर: ।
भीमो अन्नस्य संकाशे अश्व इवात्ति सिनी नडम् ।। ५ ।।
य इन्द्रराशिं निर्वपाद्वर्धयात् खलमान्याः ।
स्फातिं च खल्यां गृह्णातु गवां च बहु पुष्यतु ।।६।।
यमुवाह शुनःशेपो यमिन्द्रो ब्रह्मणस्पतिः ।
तं चक्रुः शिवमस्मभ्यमृषयो जीवनाय कम् ।।७।।
तृढ़ं शाकं तमशयद् दत्तमासीच्छ्वापदम् । ।
पन्द्रा स्म रुप्यन्तः शेरे य आदन्वहुतं हविः ।। ८ ।।
अनडुहां पृश्निशफानां वहतां वहरापिणाम् ।
कीनाशस्य श्रमात् स्वेदादिन्द्रशिरजायत ।९।
यत् कीनाशस्य स्वेद एति संतप्तस्तन्वस्परि ।
अपां गाव इव तृष्यन्तीरिन्द्रराशिं सो अश्नुते ।।१०।।
11.11
यत् कीनाशं सीरपतिर्दण्डेन हन्ति मन्युतः ।
यत् किंच खल्यं सादान्ववमिन्द्रराशौ तदाहितम् ।।१।।
उलूखलमुसलं तानि चोदय सूर्यं नार्यपविचे कृणुष्व।
वाहाय पुत्राय गोतम इन्द्रराशिं मधुमन्तं कृणोतु ।२ । ।
एतत् सूर्यं जरितराहरोलूखलमुसलं कुम्भ्या गहि ।
पुत्रा नो अद्य सुदिनत्वे अह्नि पित्तमश्नन्त मधुमन्तमंशुम् ॥३ ।।
अग्निर्नो दूतः प्रहितो ऽयमागन् स नः सर्वमन्नमविषं कृणोतु ।
निराविद्धमकृतं ब्रह्मणेतो ऽदोमधं पित्तमत्त प्रसूताः ।।४।।
स्वादो पितो मधो पितो उप नः पितवा गहि ।
शिवः शिवाभिरूतिभि: ।।५ ।
सिंहो भूत्वा गामृणात्यग्निर्भूत्वा धान्यम् ।
इन्द्रराशिरनिर्मितो मयारं चाव गच्छति ।।६।।
11.12
शतकाण्डो द्युश्चवन: सहस्रपर्ण उत्तिरः ।
दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ।।१ । ।
नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।
यस्मा अच्छिन्नपर्णेन दर्भण शर्म यच्छति ।२।
दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।
त्वया सहस्रकाण्डेनायुष्प्र वर्धयामहे ।।३।।
तिस्रो दिवो अत्यतृणस्तिस्र इमाः पृथिवीरुत ।
तयाहं सर्वान् दुर्हार्दो जिह्वां नि तृणद्मि वचांसि च ।।४।।
त्वमसि सहमानो अहमस्मि सहस्वान् ।
उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ।। ५ ।।
सहस्व नो अभिमातिं सहस्व पृतनायतः ।
सहस्व सर्वां दुर्हार्दो सुहार्दो मे बहून कृधि ।६।
दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित् ।
तेनाहं सस्वतो जनाङ असनं सनवानि च ।। ७ ।।
प्रियं मा दर्भं कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।
यस्मै च कामयामहे सर्वस्मै च विपश्यते ।।८।।
यो जायमानः पृथिवीमदृंहद् यो अस्तभ्नादन्तरिक्षं दिवं च ।
यं बिभ्रतं ननु पाप्मा विवेद स नो ऽयं दर्भो धरुणो दिवा कः ।। ९ । ।
सपत्नहा शतकाण्ड: सहस्वानोषधीनां प्रथम: सं बभूव । वभू
स नो ऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ।। १० ।।
११-१३ 11.13
सहस्रार्घ: शतकाण्डः पयस्वानपामग्निर्वीरुधां राजसूयम् ।
स नो ऽयं दर्भः परि पातु विश्वतो दैवो मणिरायुषा सं सृजाति न: ।। 1१ ।। घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहो अच्युतश्च्यावयिष्णुः ।
नुदन् सपत्नानधरांश्च कृण्वन् दर्भारोह महतामहेन्द्रियेण ।२ ।।
त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।
त्वां पवित्रमृषयो ऽभरन्त त्वं पुनीहि दुरितान्यस्मत् ।।३।।
तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणि: ।
ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ।।४।।
दर्भेण त्वं कृणु वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।
अतिष्ठायो वर्चसैध्वन्यान् सूर्येवाभाहि प्रदिशश्चतस्रः ।।५।।
11.14
उदीरतां पृथिवी जीरदानुः शीत एनामन्तर्वाननु वातु वातः ।
ऋत्वियावती पृथिवी प्रति गृह्णातु बीजं सहस्रवल्लिशं सुरुहा रोहयन्ती।१।
इन्द्र एनां हर्यश्वो अग्निर्वा रोहिताश्वः ।
अश्विना रासभाश्वा कृषिं देवीमप्यूयुजन् ।२।
शुनं वरत्रामा यच्छ शुनमष्ट्रामुदिङ्गय ।
शुनं तोतप्यतां फालः शुनं वहतु लाङ्गलम् ।। ३ ।।
युनक्त वाहान् वि युगा तनोत कृते क्षेत्रे वपतेह बीजम् । वीजम्
तथा धाता तथा भगस्तथा कृष्णुतामश्विना
तथा देवी सरस्वती ।।४।।
सुपिप्पला ओषधयो नाहीना अपक्षत ।
तदिन्द्रो वरुणो वायुरश्विनेदं मे प्र तिरता वचः ।।५।।
धाता पूषा बृहस्पतिर्भूत्याः समजीगमन् ॥
कृषिं देवा: स्वर्विद: ।। ६ ।।
कल्याणी सुभगेव या संस्थायां वपुषेण्या ।
सा नस्तिराति मधुमन्तमंशुम् ।।७।।
अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् |
तीव्रा वर्षन्तु वृष्टयो भूतये महसे वृधे ।।८ ।।
पिन्वान: पर्यन्यस्तिष्ठतु सह पृष्ठयोदेति सूर्यः ।
आनन्दं जनयन् यवः सर्वा अरातीरपबाधमानः ।।९।।
वि जिहीष्व पृथिवीमह्युर्विपक्षमृद्वी भव ।
भद्रं रोहतु धान्यम् ।। १० ।।
11.15
उत्सेध सेध गा अजन् विन्देहेरां महस्कृधि ।
मा वो रिषात् कूटग्राहो मा व आ शारि लाङ्गलम् ।।१।।
मोऽस्माकमुग्रा: संरब्धास्तन्वः किं चनाममत् । ।
रायस्पोषं शुनासीरा अथो सीताभगश्च यः ।।२ । ।
देष्ट्री समुद्रः सिनीवाली कृषिं नो अभि हिन्वत ।
इमा याः पञ्च प्रदिशोस्ता वातो अभि हिन्वत ।
वलीके सत्वतामिव तीव्रा वर्षन्तु वृष्टयः । ।३ ।।
शुनं कीनाशो अन्वेतु वाहाञ्छुनं फालो विनुदन्नेतु भूमिम् ।
शुनासीरा हविषा वावृधाना शुनं धान्यानि कृणुतं युवं नः ।।४।।
या न: पीपरदश्विना ज्योतिष्मती तमस्तिर: ।
तामस्मे रासेतामिषम् ।।५।।
11.16
ऊर्ध्वश्रितो वै नामैता अपो यदोषधयश्च वनस्पतयश्च
तासामग्निरधिपतिः ।
यो वा एता ऊर्ध्वश्चित आपो वेदाग्निमधीपतिम्।
यथैतमेता ऊर्ध्वा उपतिष्ठन्त्ये वैनमूर्ध्वा उपतिष्ठन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।। १ ।।
प्रस्कद्वरीर्वै नामैता आपो यत्पृष्वास्तासामादित्योऽधिपतिः।
यो वा एताः प्रस्कद्वरीरापो वेदादित्यमधिपतिम् ।
यथैता एतस्मिन्नुद्यति प्रस्कन्दन्त्येवास्मिन्नायति प्रस्कन्दन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।२ ।।
तक्वरीर्वै नामैता आपो याः सूदय तासां पृथिव्यधिपत्नी ।
यो वा एतास्तक्वरीरापो वेद पृथिवीमधिपत्नीम् ।
यथैता एतस्यां प्रणुतास्तकन्तीर्यन्त्येवैनेन द्विषन्तः प्रणुता यन्त्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।। ३ ।।
वशिनीर्वै नामैता आपो या: स्यन्दन्ते तासां वरुणो ऽधिपति:।
यो वा एता वशिनीरापो वेद वरुणमधिपतिम् ।
यथैतमेतासां स्यन्दमानानां वशमादत्त एवा द्विषतां वशमादत्ते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।४।।
ऊर्जो वै नामैता आपो यद्गावस्तासां त्वष्टाधिपति: ।
यो वा एता ऊर्ज आपो वेद त्वष्टारमधिपतिम् ।
ऊर्जस्वी तेजस्वी भवति प्र साहस्रान् पशूनाप्नोत्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।।५।।
वर्चा वै नामैता आपो यद् घृतं
तासां पूषा अधिपतिः ।
यो वा एता वर्च आपो वेद पूषणमधिपतिम् ।
वर्चस्वी तेजस्वी भवत्युतास्यानभ्यक्तस्य मुखं रोचते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।६।
ओजो वै नामैता आपो यन्मधु तासामिन्द्रो ऽधिपतिः ।
यो वा एता ओज आपो वेदेन्द्रमधिपतिम् ।
ओजस्वी वीर्यावानिन्द्रियावी भवति प्र राजसभायां मधुपर्कमाप्नोत्यधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।।७।।
उग्रा वै नामैता आपो यद्ध्रादुनयस्तासां मरुतो ऽधिपतय:।
यो वा एता उग्रा आपो वेद मरुतो ऽधिपतीन् ।
उग्रो बलवान् भवति मारुतं शर्ध इत्येनमाहुरधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।८।।
महो वै नामैता आपो यद्वर्षं तासां पर्यन्यो ऽधिपति:।
यो वा एता मह आपो वेद पर्यन्यमधिपतिम् ।
महस्वी मित्रवाहो भवत्युतैनेन स्वा नन्दत्यस्माकमयमिति तस्मात् सर्वो वृष्टे महीयते ऽधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।।९।।
अतिमन्या वै नामैता आपो यत् सुरा तासामश्विनाधिपती ।
यो वा एता अतिमन्या आपो वेदाश्विनाधिपती ।
अतिमन्यते भ्रातृव्यान्नैनं भ्रातृव्या अतिमन्यन्ते तस्मान्मत्तो मत्तमतिमन्यते ऽधिपतिः भवति स्वानां चान्येषां च य एवं वेद । ॥१० । ।
परिचितो वै नामैता आपो या: कर्ष्वाँ तासां यमो ऽधिपति:।
यो वा एताः परिचित आपो वेद यममधिपतिम् ।
पर्येनं स्वाश्च विश्याश्चावश्यन्त्यधिपति: भवति स्वानां चान्येषां च य एवं वेद । ।१ १ ।।
रन्तयो वै नामैता आपो यत स्त्रियस्तासां कामो ऽधिपतिः।
यो वा एता रन्तीरापो वेद काममधिपतिम् ।
रमन्ते अस्मिन् रमणीयो भवति काम इव स्त्रीणामधिपतिः भवति स्वानां चान्येषां च य एवं वेद ।। १२ । ।
विश्वभृतो वै नामैता आपो यत्पुरुषस्तासां मृत्युरधिपतिः ।
यो वा एता विश्वभृत आपो वेद मृत्युमधिपतिम् ।
विश्वस्य भर्ता भवति विश्वमेनं बिभर्त्यास्य त्रयो ऽग्नयो गृहे धीयन्ते दक्षिणाग्निर्गार्हपत्य आहवनीयः ।
ऐनं चत्वारि वामानि गच्छन्ति निष्कः कंसो ऽश्वतरो हस्त्यधिपतिः भवति स्वानां चान्येषां च य एवं वेद ।।१३।।
तासां वा एतासामपां हिमवानूधः सोमो वत्सः परमेष्ठ्यधिपतिः।
यो वा एतासामपां हिमवन्तमूध: सोमं वत्सं परमेष्ठिनमधिपतिं वेद ।
परमेष्ठी भवति गच्छति परमेष्ठितामधिपतिर्भवति स्वानां चान्येषां च य एवं वेद ।।१४।।
इत्यथर्ववेद पैप्पलाद संहितायां चतुर्दशर्चोनाम एकादशकाण्डः समाप्तः