पैप्पलादसंहिता/काण्डम् १०

विकिस्रोतः तः

अथ त्रयोदशर्चोनाम दशमकाण्ड:

10.1
हा अम्ब तेजने धेनो लम्बनस्तनि ।
न तद्विदो यदिच्छसि यदु वित्तं न तद् घस: ।१।
पुत्रो यस्ते पृश्निबाहुस्तमु त्वं सामनं कृथि ।
अथो दुहितरं नप्त्नीमथो त्वं सामना भव ।। २ । ।
असामे कुरमे नैगुरस्य स्वस: ।
अराते निर्ऋते अमते स्नुहिते ।३।
परेत कस्तुपकं वः पुनर्ददामि ।
यो वो न वेद तं हत तस्यात्तु परि शिश्न्यम् ।।४।।
तस्यात्तु पुत्रान् भ्रातॄंश्च तस्य गोष्ठं वितावत ।
यश्च सतो नास्ति वाकी यश्चासावहविर्गृह: ।
दुर्णाम्नीस्तत्र गच्छत तत्र सर्वाः परेतन ।।५।।
परि धामान्यासामाशुर्गाष्ठामिवासरम् ।
अजैषं सर्वानाजीन् वो नश्यतेत: सदान्वा: ।।६।।
अन्तश्चरां कोशेचरामथो गोष्ठावचारिणीम् ।
अथो या: स्वप्ने पश्यामस्ता इतो नाशयामसि ।।७।।
कण्वा या गर्दभीव निभसत् सूकरीव ।
तस्यै प्रति प्र वर्तय तप्तमश्मानमासनि ।।८ ।।
यो मर्या अभिगच्छात् स्त्रियं कस्तुपस्तोपिनीम् ।
कस्तुपमस्या आच्छिद्याथैनां चातयातै परमां चित्परावतम् ।।९।।
या भद्रा या शिवा योर्जा पयसा सह ।
अग्निष्टा अस्माकं गृहे गार्हपत्यो नि यच्छतु ।। १० ।।
इदं वो देव: सवितेदं देवो बृहस्पतिः ।
इर्द वो विश्वे देवा अवसानमयुक्षत ।।११।।
परि प्रागात् देवो अग्नीरक्षोहामीवचातनः ।
सेधन् विश्वा अप द्विषो दहन् रक्षांसि विश्वहा ।१२।।
परीमे गामनेषत पर्यग्निमहृषत । परिमे
देवेष्वक्रत श्रव: क इमां आ दधर्षति ।। १३ ।।

10.2
त्वयीन्द्रियं त्वयि वर्चस्त्वं धर्मपतिर्भव ।
त्वमुत्तरो भ्रातृवेभ्यस्तव लक्ष्मीः पयस्वती ।। १ । । ।
तवैतामश्विना हवं तव राष्ट्रं दिवि श्रितम् ।
त्वमायुष्मान् सपत्नहोत्तरो द्विषतो भव ।।२ ।।
तीक्ष्णशृङ्ग ऋषभः समुद्र इवाक्षितोदकः ।
त्वं सहस्रवीर्यस्तव बाहू गवांपती ।३।
भ्रातृव्यश्च सपत्नश्च यस्त्वामित्रो जिघांसति ।
श्रियं त्वं सर्वेषां तेषामादायोग्रो वि धारय ।४।।
त्वं वशी सत्याकूतः सत्यधर्मा गवेषणः ।
नाष्ट्रास्त्वं सर्वास्तीर्त्वा भ्रातृव्याणां श्रियं वृह ।।१५।
तुभ्यं सं यन्तु बलयस्तुभ्यं शुल्क: प्र वीयताम् ।
तुभ्यं विराट् पयो दुहां त्वां वाञ्छन्तु विशो मही:।।६।।
वाञ्छतु त्वा बृहद्राष्ट्रं त्विषिस्ते मुख आहिता ।
त्वं देवानां भव प्रियस्त्वयि गावो अधि श्रिता: ।।७ ।।
त्वयीन्द्रियं त्वयि वर्चस्त्वयि यज्ञो अधि श्रित: ।
तवा यन्तु हवं देवास्त्वं प्रियो बृहस्पते: ।। ८ || !
अग्नीषोमा पवमानो विराड् देवी पयस्वती ।
अतन्द्रं सर्वे रक्षन्तु राष्ट्रं तेनपवाद्यम् ।।९ ।।
अग्निरिव तृणं प्र दहौघः कूलमिवा रुज ।
श्रियं भ्रातृव्याणामा दत्स्वाण्डीकमिवाधि पुष्करात् ।। १० ।।

10.3
अश्व इव रथमा दत्स्व सिंह इव पुरुषं हर ।
हस्तीव नड्वलान् भङ्धि भ्रातृव्याणां श्रियं वृह ।१।
उत्ते कृणोतु कश्यपो ब्रह्म देवैरभिष्टुतम् ।
आप्रीतमविराधुकम् ।।२ । ।
एतं खदिरमा हराथो तेजनमा हर ।
उतैतं पर्णमा हरा हरानडुहो बलम् ।। ३ ।।
इध्मां देवैः समाभृतांस्तांस्ते प्रादाद् बृहस्पतिः ।
ताना धेहि समाहितेऽग्नौ सूर्याभिचक्षणे ।।४।।
तेभिष्ट्वमुत्तरो भव भ्रातृव्याणां श्रियं वृह ।
अथो एषां पयो हर ।।५।।
आदित्या रुद्रा वसव ऋषयो भूतकृतश्च ये ।
श्रियं च क्षत्रमोजश्च तुभ्यं देवा असाविषुः ।।६।।
वसुरसीन्द्रनामायुष्मान्छतशारदः ।
स इन्द्र इव देवेषु त्विषीमान् विश आ वद ।।७।।

10.4
इदं राष्ट्रं प्रथतां गोभिरश्वैरिदं राष्ट्रमन्नेनेरया रसेन ।
अस्मै षडुर्वीरुप सं नमन्तु सप्तहोत्रा हत शत्रून् सचित्ताः ।। १ ।।
इमे राजान इषुभिर्घ्नन्तु शत्रूनिमे राजानः समित्यान्यान् वधेयुः ।
इमे राजानः पृतना: सहन्तामहं ब्रह्मा विमृधो हन्मि सर्वाः । ।२ । ।
इदं राष्ट्रं क्रतुमद्वीरवज्जिष्णुग्रमिदं राष्ट्रं गर्द्नुमच्चित्रघोषम् ।
अस्मै राष्ट्राय बलिमन्ये हरन्त्वहं देवेभ्यो हविषा विधेयम्।।३।।
यदि युद्धं यद्यृतितं वो अस्ति देवैनसाद् यदि वा पित्र्येण।
येनर्तीया धेनवो अस्तु तस्मा अहं देवेभ्यो हविषा जुहोमि ।।४।।
यद्वः क्रूरं मनसो यच्च वाचो देवैनसाद् यदि वा पित्र्येण।
आपो इव दुःस्वप्न्यमप तत् स्वपध्वमथानन्दिनः सुमनसः समेत।।५।।
अपामिव वेगः प्र शृणीत शत्रून् दिशोदिशो रभमाणाः समेत ।
एकव्रता वि धनं भजध्वं पुरोहितेन वो राष्ट्रं प्रथयन्तु देवाः ।।६।।
सम्यग्वो राष्ट्रं सह वो मनांसि समीचीनाः पशवो विश्वरूपाः। रुपाः
समीचीनानां वो अहमस्मि ब्रह्मा सम्यञ्चो देवा हवमा यन्तु म इमम् ।।॥७ ।।
यथाप: समुद्राय समीचीर्वहथ श्रियम् ।
एवा राष्ट्राय मे देवाः सम्यञ्चो वहत श्रियम् ।।८।।
संसृष्टं वो राष्ट्रं पशुभिर्गोभिरश्वै: संसृष्टमन्नेनेरया रसेन ।
मया ब्रह्मणा प्रथमानाश्वो वशीयांस: सदमुग्रा भवाथ ।।९।।
बहुर्युवा प्रमृणो धृष्णुरस्तु बहुः कुमारः प्रतिरूपः पितॄणाम्।
सत्यं वदन्तः समितिं चरन्तो मित्रं गृह्णाना जनसो यन्तु सख्यम्।।१०।।
इह क्षत्रं द्युम्नमुत राष्ट्रं समैत्विहेद्रियं पशुभिः संविदानम् ।
अवधुन्वाना अप्रियान् यांश्च द्विष्म इदं राष्ट्रं प्रथतां सर्वदैव।।११।।
इदं राष्ट्रमिषुमद्वीरवज्जिष्णूग्रमिदं राष्ट्रं पशुमद् ब्रह्मवृद्धम् ।
इदं राष्ट्रं हतशत्रु जिष्णु ।।१२।।
सपत्नसाहं प्रमृणमिदं राष्ट्रं दृढमुग्रम् ।
साढ़ामित्रमभिमातिषाहं सर्वा जिगाय पृतना अभिष्टि ।।१३।।

10.5
औदुम्बरेण मणिना पुष्टिकामाय वेधसा । तु. शौ.सं. १९.३१
पशूनां सर्वेषां स्फातिं गोष्ठे मे सविता करत् ।।१।।
यो नोऽग्निर्गार्हपत्यः पशूनामधिपा असत् ।
औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या।।२।।
करीषिणीं फलवतीं स्वधामिरां च नो गृहे।
औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे।।३।।
यद् द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसा: ।
गृह्णे ऽहं तेषां भूमानं बिभ्रदौदुम्बरं मणिम् ।।४।।
पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम्।
पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नियच्छात्।।५।।
अहं पशूनामधिपा असानि मयि पुष्टं पुष्टिपतिर्दधातु । पुष्ट
महामौदुम्बरो मणिर्द्रविणानि नि यच्छतु ।६।
उप मौदुम्बरो मणिः प्रजया च धनेन च ।
इन्द्रेण जिन्वतो मणिरा मागन् सह वर्चसा ।।७।।
देवो मणिः सपत्नहा धनसा धनसातये ।
पशोरन्नस्य भूमानं गवां स्फातिं नि यच्छतु ।।८ ।।
यथाग्रे त्वं वनस्पते पुष्ट्या सह जज्ञिषे ।
एवा धनस्य मे स्फातिमा दधातु सरस्वती ।।९।।
आा मे धनं सरस्वती पयस्फातिं च धान्यम् ।
सिनीवाल्युता वहादयं चौदुम्बरो मणिः ।।१०।।
त्वं मणीनामधिपा वृषासि त्वयि पुष्टं पुष्टिपतिर्जजान । पुष्ट
त्वयीमे वाजा द्रविणानि सर्वौदुम्बर स त्वमस्मत् सहस्वारादरातिममतिं क्षुधं च ।।११ ।।
ग्रामणीरसि ग्रामणीरुत्थाया अभिषिक्तो अभि मा सिञ्च वर्चसा । ग्रामनीथ्याया
तेजो ऽसि तेज मयि धारयाधि रयिरसि रयिं मयि धेहि ।।१२।।
पुष्टिरसि पुष्ट्या मा समङ्धि गृहमेधी गृहपतिं मा कृणु ।
औदुम्बर स त्वमस्मासु रयिं सर्ववीरं नि यच्छ
रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ।।१३।।
अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।
स नः सनीं मधुमतीं कृणोतु
रयिं च नः सर्ववीरं नियच्छात् ।।१४।।
(इति त्रयोदशर्चोनामदशमकाण्डे प्रथमो ऽनुवाकः)

10.6
भगस्य राज्ञ: सुमतिं गमेम यं हवन्ते बहुधा मानुषास: ।
कर्म कृण्वानो भगमा वृणीते स नो जनेषु सुभगां कृणोतु।॥१ ।।
भगं पुरस्तात् प्रतिबुध्यमानाः पश्येम देवीमुषसं विभातीम् ।
प्रतीची शुभ्रा द्रविणेन साकं भगं वहन्त्यदितिर्न ऐतु।२।
भगो नो अद्य स्विते दधातु देवानां पन्थामभि नो नयेह ।
अर्वाची भद्रा सुमतिर्न ऐत्वधा भगेन समिधो नो अस्तु ।। ३ ।।
भगेन वाचमिषितां वदानि सरस्वतीं मधुमतिं सुवर्चा: ।
भगेन दत्तमुप मेदमागन् यथा वर्चस्वान् समितिमावदानि।।४।।
भगो मा गोष्ववतु भगो मावतु धान्ये ।
अक्षेषु स्त्रीषु मा भगो भगो मावतु वर्चषा ।। ५ ।।
भगो मा सायमवतु भगो मावतु रात्र्या ।
भगो निपद्यमानेषु प्रातर्मा भग आ गमत् ।। ६ ।।
भगो मा प्रातरवतु भगो माध्यन्दिनं परि ।
अपराह्णे वयं भगं वास इव परि दध्महे ।।७।।
भगं देवेभ्यस्परि भगं मनुषेभ्यः ।
दिवस्पृथिव्या अहमन्तरिक्षाद् भगं वृणे ।
सो अग्ने रमता मयि स मा प्रावतु वर्चसा ।।८ ।।
भगं वृणाना वध्वं वहन्ति वनिं प्रयन्तो भगमिद्धवन्ते ।
भगेन दत्तमुप मेदमागन् विश्व सुभूतं द्रविणानि भद्रा ।९।
भगेन देवाः समगन्महि य इमा विश्वा भुवनाभिवस्ते ।
प्रयच्छन्नेति बहुधा वसूनि स नो दधातु यतमद्वसिष्ठम् ।। १० ।।
वातो भगो वरुणो वायुरग्निः क्षेत्रस्य पत्नी सुहवा नो अस्तु ।
हिरण्याक्षो अतिपश्यो नृचक्षाः सर्वैः साकं सचमानो न एहि ।।११ ।।
उदेहि देव सूर्य सह सौभाग्येन । सौभाम्येन
सहर्षभस्य वाजेन सहावतंकरणेन ।१२ ।।
हिरणययेन चक्रेण भगस्यापिहितो गृहः ।
तं व्युब्जामि ब्रह्मणा तस्य मे दत्तमश्विना दत्तं मे पुष्करस्रजा ।।१३ ।।

10.7
गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।
वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियै: ।१।
सोमस्त्वा पात्वौषधीभिर्नक्षत्रैः पातु सूर्यः ।
माद्भिष्ट्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ।२ ।।
तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।
त्रिवृतं स्तोमं त्रिवृत अपि आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भि: ।। ३ । ।
त्रीन्नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।
त्रीन्मातरिश्वनस्त्रीन् सूर्यान् गोप्तॄन् कल्पयामि ते ।। ४ । ।
घृतेन त्वा समुक्षाम्यग्न आज्येन वर्धयन् ।
अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ।।५ ।।
मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।
भ्राजन्तो विश्ववेदसो देवा दैव्येन मावत ।६।
प्राणेनाग्निं सं दधति वातः प्राणेन संहितः ।
प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ।।७ ।। सुर्यं
आयुषायुष्कृतां जीवायुष्मां जीव मा मृथाः ।
प्रणेनात्मन्वतां जीव मा मृत्योरुप गा वशम्॥८॥
देवानां निहितं निधिं यमिन्द्रान्वविन्दन् पथिभिर्देवयानैः।
आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः।।९।।
त्रयस्त्रिंशद् देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः।
अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद् वीर्याणि ॥१० ।।

10.8
ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम्।।१।। तु. शौ.सं. १९.२७.११
ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम्।।२।।
ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ।।३।।
असपत्नं पुरस्तात् पश्चान्नोऽभयं कृतम् ।
सविता मा दक्षिणत उत्तरान्मा शचीपति: ।। ४ । ।
दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।
इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।
तिरश्चीनघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ।। ५ ।।

10.9
येऽप्स्वन्तरग्नय: प्रविष्टा म्रोको मनोहा खनो निर्दाह
आत्मदूषिस्तनदूषिः।
इदं तानतिसृजामि निरेनो निरनृतं सृजामि ।१।
अभूत्यासत्वाय निर्दुःषप्न्यं सृजामि ।
वसिष्ठारुन्धती मा पातां प्रजापतेः प्रस्तरो बृहस्पतेः केशाः।।२।।
अदब्धं चक्षुः सुश्रुतौ कर्णावक्षितौ मे प्राणापानौ ।
हृदया जरसं मा मा हासीर्मध्य मा रिषम् ।३।
आपो मा शुन्धन्तु दुष्कृतात् दुरिता यानि चकृम ।
अयाम शुद्धा उदितस्तनूभिः ।।॥४ ।।
वैश्वानरो रश्मिभिर्न: पुनातु वातः प्राणेनेषिरो नमोभि: ।
द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये मा पुनीताम् ।।५।।
पुनन्तु माग्नयो गार्हपत्या: पुनन्तु मा धृष्णिया देवहूताः ।
पुनन्तु मा शक्वरीः सोमपृष्ठा: पवमानासो अज्रिणः । । ६ ।।
यः पोता स पुनातु मा बृहद्भिर्देव सवितः ।
वर्षिष्ठैर्द्यामिवोपरि ।।७।।
ब्रह्मसवैः पुनातु मा राजसवैः पुनातु मा ।
शतं पवित्रा वितता तिरश्चा तेभिर्मा देवः सविता पुनातु ॥८ ।।
शतं च मा पवितारः पुनन्तु सहस्रं च प्रस्रवणेष्वापः ।
आप इव पूतोऽस्यग्निरिव सुवर्चाः सूर्य इव सुचक्षाः ।। ९ ।।
उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनाङ् अनु ।
तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ।। १० । ।

10.10
अगन्म देवा: स्व: स्वरगन्मागन्म ज्योतिर्ज्योतिरगन्म ।
महेन्द्रोसि परमेष्ठी सुमित्र विश्वतोमुख मा ते युयोम संदृश:।।१।।
उद्यन्नद्य चित्रमहः सपत्नान् मेव जहि ।
दिवैनान् रश्मिभिर्जहि रात्र्यैनांस्तमसा वधीस्ते यन्त्वधमं तमः । ।२ । ।
सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।
अग्नेस्तेजसा तेजस्वी भूयासमिन्द्रस्येन्द्रियेणेन्द्रियावान् भूयासम्।।३।।
इदमहमग्नेस्तेजसेन्द्रस्येन्द्रियेण सोमस्य द्युम्नेन विश्वेषां देवानां क्रतूनाम् ।
अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेज इन्द्रियं प्राणमायुर्नि वेष्टयामि ।। ४ ।।
इदमहमग्नेस्तेजसेन्द्रस्येन्द्रियेण सोमस्य द्युम्नेन विश्वेषां देवानां क्रतूनाम् ।
अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेज इन्द्रियं प्राणमायुर्नि यच्छेत् ।।५।।
इदमहमग्नेस्तेजसेन्द्रस्येन्द्रियेण सोमस्य द्युम्नेन विश्वेषां देवानां क्रतूनाम् ।
अमुष्यामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेज इन्द्रियं प्राणमायुरादाय ।। ६ ।।
अभूत्या एनं पाशे सित्वा दु:ष्वप्न्येन संसृज्य मृत्योर्व्यात्त आसन्नपि दधामि ।। ७ ।।

10.11
यो न: स्वो यो अरणी भ्रातृव्यश्च जिघांसति ।
इन्द्रश्च तस्याग्निश्च मर्म स्कन्धेषु विन्दताम् ।। १ ।।
यो मा शयानं जाग्रतं यश्च सुप्तं जिघांसति ।
इन्द्रश्च तस्याग्निश्च बाहू मर्मणि वृश्चताम् ।। २ ।।
यो मा चरन्तं तिष्ठन्तमासीनं च जिघांसति ।
इन्द्रश्च तस्मिन्नग्निश्च दुरितं प्रति मुञ्चताम् ।।॥३ ।।
यो मा चक्षुषा मनसा यश्च वाचा जिघांसति ।
इन्द्रश्च तस्मा अग्निश्चैनांसि वहतामितः ।।॥४ ।।
यः पिशाचो यातुधानः क्रव्याद् यो मा जिघांसति ।
इन्द्रश्च तस्याग्निश्च मूर्धानं प्रति विध्यताम् ।।५ ।।
यो मा ब्रह्मणा तपसा यश्च यजैर्जिघांसति ।
इन्द्रश्च तस्याग्निश्च हृदये ऽधि नि विध्यताम् ।। ६ ।।
यो मे ब्रह्म यो मे तपो बलं श्रेष्ठं जिघांसति ।
इन्द्रश्च तस्मा अग्निश्च क्रुद्धौ दिग्धाभिरस्यताम् ।।७।।
यो मे अन्नं यो मे रसं वाचं श्रेष्ठां जिघांसति ।
इन्द्रश्च तस्मा अग्निश्चाच्छम्बट्कारमस्यताम् ।।८ ।। (पाठभेदः)
यो मे तन्तुं यो मे प्रजां चक्षुः श्रोत्रं जिघांसति ।
इन्द्रश्च तस्मा अग्निश्च हेतिं देवेषु विन्दताम् ।।९ ।।
यो मे गोभ्य इरस्यत्यश्वेभ्यः पुरुषेभ्यः ।
इन्द्रश्च तस्मा अग्निश्च ज्यानिं देवेषु विन्दताम् ।। १० ।।

10.12
यो मे भूतिमनामयद्वित्तमायुर्जिघाँसति ।
इन्द्रश्च तस्मा अग्निश्च दिवो अश्मानमस्यताम् ।। १ ।।
यो मे वेश्म यो मे सभां श्रियं श्रेष्ठां जिघांसति ।
इन्द्रश्च तस्याग्निश्च कृत्यां वि तनुतां गृहे ।।२ ।।
यो मे मृत्युमसमृद्धिमह्ना रात्र्या चेच्छति ।
इन्द्रश्च तस्याग्निश्चार्चिषा दहतां स्वम् । ।३ । ।
यो मे प्राणं यो मे ऽपानं व्यानं श्रेष्ठ जिघांसति ।
इन्द्रश्च तस्याग्निश्च प्राणं प्राणहनौ हताम् ।।४।।
यो मा देवजनैः सपैर्विद्युता ब्रह्मणाभ्यमात् ।
अगस्त्येन मेदिनेन्द्रश्चाग्निश्च तं हताम् ।। ५ ।।
तं सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।
यो मा दुरस्यन्नीक्षातै यश्च दिप्सति विद्वलः ।।६।।
यो मा दिप्साददिप्सन्तं यश्च दिप्सति दिप्स तम ।
वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ।।७।।
अभि तं द्यावापृथिवी सं तपतां तप्ते घर्मे न्युच्यताम् । धर्मे
निर्ऋत्या वध्यतां पाशे यो नः पापं चिकित्सति ।८ । ।
प्रत्यग्वधेन प्रच्युतान् भ्रातृव्यान् घोरचक्षसः ।
इन्द्राग्नी एनान् वृश्चतां मैषामुच्छेषि कश्चन ।।९ ।।
प्रत्यग्वध प्रत्यग् जहि भ्रातृव्यान् द्विषतो मम ।
अपानान् प्राणां संछिद्य द्विषतस्पातयाधरान् ।। १० ।।
अग्ने ये मा जिघांसन्त्यग्ने ये च द्विषन्ति मा ।
अग्ने ये मपतप्यन्ते तेषां प्रियतमं जहि ।।११।।
एतं द्विषन्तमवधिषमन्धेन तमसावृतम् ।
एतं मृत्यो ऽभि पद्यस्व मा ते मोचि महोदरः ।। १२ ।।

10.13
द्यावापृथिवी सं नह्येथां मम राष्ट्राय जयन्ती अमित्रेभ्यो हेतिमस्यन्ती।।१।।
वातापवमानौ सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ।।२।।
इन्द्राग्नी सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ।।३।।
मित्रावरुणा सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ।।४।।
भवाशर्वौ सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ।।५।।
अश्विना सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ।।६।।
मरुत: सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः ।।७ । ।
पितरः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्त: ।। ८ । ।
सूर्याचन्द्रमसौ सं नह्येथां मम राष्ट्राय जयन्तावमित्रेभ्यो हेतिमस्यन्तौ ।। ९ ।।
अहोरात्रे सं नह्येथां मम राष्ट्राय जयन्ती अमित्रेभ्यो हेतिमस्यन्ती ।। १० ।।

10.14
गन्धर्वाप्सरसः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः ।। १ ।।
सर्पपुण्यजनाः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः ।।२ ।।
वनस्पतयः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः । ।३ । ।
वानस्पत्याः सं नह्यध्वं मम राष्ट्राय जयन्तो ऽमित्रेभ्यो हेतिमस्यन्तः । । ४ ।।
ओषधय: सं नह्यध्वं मम राष्ट्राय जयन्त्यो ऽमित्रेभ्यो हेतिमस्यन्तः ।।५ ।।
वीरुधः सं नह्यध्वं मम राष्ट्राय जयन्त्यो ऽमित्रेभ्यो हेतिमस्यन्त्यः ।।६।।
बृहस्पते सं नह्यस्व मम राष्ट्राय जयन्नमित्रेभ्यो हेतिमस्यन् ।।७।।
प्रजापते सं नह्यस्व मम राष्ट्राय जयन्नमित्रेभ्यो हेतिमस्यन् ।।८ ।।
परमेष्ठिन् सं नह्यस्व मम राष्ट्राय जयन्नमित्रेभ्यो हेतिमस्यन् ।।९।।
उदारा उदीर्ध्वं विश्वानि भूतानि सं नह्यध्वं मम राष्ट्राय जयन्त्यमित्रेभ्यो हेतिमस्यन्ति । । १० ।।

10.15
अग्नी रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।१।
इन्द्रो रक्षिता स इमां सेनां रक्षतु ।।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।२।
सोमो रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।३।
वरुणो रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।४।।
वायू रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।५।।
त्वष्टा रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।६।।
धाता रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।७।।
सविता रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।८।।
सूर्यो रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।९ ।
चन्द्रमा रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।१०।।

10.16
अहा रक्षितृ तदिमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।१।
रात्री रक्षित्री सेमां सेनां रक्षतु ।
अनुष्ठात्र्यनु तिष्ठ सर्वे वीरा भवन्तु मे ।२।
इन्द्राणी रक्षित्री सेमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।३।
वरुणानी रक्षित्री सेमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।४।।
सिनीवाली रक्षित्री सेमां सेनां रक्षतु ।
अनुष्ठात्र्यनु तिष्ठ सर्वे वीरा भवन्तु मे ।।५।।
समुद्र रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।६।।
पर्यन्यो रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।७।।
बृहस्पती रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।८।।
प्रजापती रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे ।।९।।
परमेष्ठी रक्षिता स इमां सेनां रक्षतु ।
अनुष्ठातरनु तिष्ठ सर्वे वीरा भवन्तु मे । १० ।
विश्वे देवा रक्षितारस्त इमां सेनां रक्षन्तु।
अनुष्ठातारो अनु तिष्ठत सर्वे वीरा भवन्तु मे।।११।।
(इति त्रयोदशर्चोनामदशमकाण्डे तृतीयो ऽनुवाकः)
इत्यथर्ववेद पैप्पलाद संहितायां त्रयोदशर्चोनाम दशमकाण्डः समाप्त:

[सम्पाद्यताम्]

१०.११.८ पाठभेदः

यो मे अन्नं यो मे रसं वाचं श्रेष्ठां जिघांसति । इन्द्रश्च तस्मा अग्निश् चास्त्रं हिंकारम् अस्यताम् ।।८ ।।