सामग्री पर जाएँ

पैप्पलादसंहिता/काण्डम् ०७

विकिस्रोतः तः

अथर्वण वेदः पैप्पलादसंहिता सप्तमः काण्डः

अथ दशर्चो नाम सप्तमकाण्ड

७- १
सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन्नसा।
दिप्सौषधे त्वं दिप्सन्तं प्रति कृत्याकृतो दह ।। १ ।।
प्रति दह यातुधानान् प्रति कृत्याकृतो दह ।
अथो यो अस्मान्दिप्सति तमु त्वं जह्योषधे ।। २ ।।
अग्ने पृतनाषाट्पृतना: सहस्व ।
प्रति कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ।।३ । ।
इष्वा ऋजीय: पततु द्यावापृथिवी तत्सुतात् ।
तत्तं मृग इव विध्यतु कृत्या कृत्याकृतं कृता ।।४।।
अघमस्त्वघकृते शपथा: शपथीव्ने । (पा. शपथश् शपथीयते)
प्रत्यक् प्रति प्र हिण्मसि यश्चकार तमृच्छतु ।।५ । ।
यस्त्वा कृत्ये प्रतिघाय विद्वाड् अविदुषो गृहम् ।
पुनस्त्वा तस्मा आ दध्मो यथा कृत्याकृतं हनत् ।।६।।
पुन: कृत्यां कृत्याकृतं हस्तगृह्य परा णय ।
समक्षमस्मा अा दध्मो यथा कृत्याकृतं हनत् ।।७। ।
पुत्र इव पितरं गच्छ स्वज इवाभिष्ठितो दश ।
तन्तुरिवावव्ययन्निहि कृत्ये कृत्याकृतं कृता ।।८।।
उदेणीव वारिण्यभिस्कन्दं मृगीव ।
कृत्या कर्तारमृच्छतु ।।९।।
ऋश्यस्येव परीशासं परिमाय परि त्वचः ।
दुर्हार्दे चक्रुषे कृत्यां ग्रीवासु प्रति मुञ्चत ।।१० ।।
या कृत्ये देवकृता या वा मनुष्यजा असि ।
तां त्वा प्रति प्र हिण्मसि प्रतीचीनेन ब्रह्मणा ।। ११ ।।
यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने ।
तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ।।१२।।
७-२
ओक्ते मे द्यावापृथिवी ओक्ता देवी सरस्वती । (पाठ-ओते)
ओक्तौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिमम् ।।१।।
अस्येन्द्र कुमारस्य क्रिमिं धनपते जहि ।
हता विश्वा अरातयो ऽनेन वचसा मम ।।२।। 1 ।।
यो ऽक्ष्यौ परिसर्पति यो नासे परिसर्पति ।
दतां यो मध्यं गच्छति तं क्रिमिं जम्भयामसि ।।३ ।।
विरूपौ द्वौ सरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ ।
बभ्रुश्च बभ्रुकर्णश्च गृध्राः कोकाश्च ते हृताः ।।४।। वभ्रु
ये क्रिमयः शितिकक्षा ये कृष्णा: शितिबाहव: ।
ये के च विश्वरूपास्तान् क्रिमीञ्जम्भयामसि ।।५।।
यो द्विशीर्षा चतुरक्षः क्रिमिः सारङ्गो अर्जुनः ।
शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ।। ६ ।।
उदसौ सूर्यो अगाद् विश्वदृष्टो अदृष्टहा ।
दृष्टांश्च घ्नन्नदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ।।७।।
येवाषास: कष्कषासो धूष्णास: शिपवित्नवः ।
दृष्टश्च हन्यतां क्रिमिरदृष्टश्चोत हन्यताम् ।।८ ।।
हतो येवाषो हतः शिपविर्हतो गङ्गणिवाङ् उत ।
हता विश्वा अरातय उग्रेण वचसा मम ।।९ । ।
सर्वेषां च क्रिमीणां सर्वासां च क्रिमीणाम् ।
भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ।। १० ।।
७-३
तिग्मेभिरग्ने अर्चिभि: शुक्रेण देव शोचिषा ।
आमादो नि वह त्वमन्यमासनि कृण्वताम् ।। १ ।।
शोचिषाग्ने अर्चिषा च निर्दहेतो अघायत: ।
सख्यमावं कृण्महे त्वं चामाद उप शं भुवन् ।।२ ।।
निरामादो नयामसि निष्क्रव्यादो गृहेभ्य: ।
सस्यादो नाम ये देव ते अग्ने मा दभन्त्वाम् ।।३ ।।
आमादश्च क्रव्यादश्च सस्यादश्चोभयान् सह ।
प्रजां ये चक्रिरे भागं तानितो निर्ण्णयामसि ।।४।।
य आमेष्वरमन्त न पक्वमुपदाधृषुः ।
ते यन्तु सर्वे संभूयान्यत्रेतो ऽघायवः ।।५ ।।
य एनस्वी दुष्कृतकृत्किल्विषकृतसाधी यः ।
पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ।।६६ ।।
अव रेणुमव रजो नेनिजे हस्त्यं मलम् ।
धाता नो भद्रया नेषत्स नो गोपायतु प्रजाम् ।।७।।
कृण्वे ऽहं रोदसी वर्म स्याम सवितुः सवे ।
माता नो भद्रया भूमिर्द्यौश्चास्मान् पात्वंहस : ।।८ ।।
यदसुराणामहन्यस्मान् पापा उपेथन ।
देवानां पयश्च दैव्यमापः शुन्धन्तु मामिमाः ।।९।।
आ ते पितर्मरुतां सुम्नमेमि मा नः सूर्यस्य संदृशो युवथाः।
अभि नो वीरो ऽर्वतीः क्षमेत प्र जायामहै रुद्र प्रजया ।। १० ।।
यो ऽवृद्धं हन्ति यो गर्भे अन्तर्यो जातं जनितव्यं च पूरुषम् ।
तस्मा ऋध्यासं हविषाहमद्य स नः प्रजां जरदष्टिं कृणोतु ।। ११ ।।
७.४
इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।
तौ योक्ष्ये प्रथमौ योग आगते याभ्यां जितमसुराणां स्वर्यत् ।।१।।
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
संक्रन्दनो ऽनिमिष एकवीरः शतं सेना जयतु साकमिन्द्रः ।।२।।
संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।
तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ।।३ ।।
स इषुहस्तै: स निषङ्गिभिर्वशी संस्रष्टा युध इन्द्रो गणेन ।
संसृष्टजित्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रतिहिताभिरस्तात् ।।४।।
बलविज्ञाय: स्थविर: प्रवीर: सहस्वान्वाजी सहमान उग्रः ।
अभिवीरो अभिषत्वा सहोजिज्जैत्रायेन्द्र रथमा तिष्ठ गोविदम्।।५ ।।
इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सत्वानो अनु सं रभध्वम् ।
ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।।६।।
अभि गोत्राणि सहसा गाहमानो अदाय उग्रः शतमन्युरिन्द्रः ।
दुश्च्यवनः पृतनाषाडयोध्यो अस्माकं सेना अवतु प्र युत्सु ।।७।।
बृहस्पते परि दीया रथेन रक्षोहामित्राङ् अपबाधमानः
प्रभञ्जञ्छत्रून् प्रमृणन्नमित्रानस्माकमेध्यविता तनूनाम् ।।८ ।।
इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ।।९ ।।
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्।।१० ।।
अस्माकमिन्द्र: समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
अस्माकं वीरा उत्तरे भवन्त्वस्मान्देवासो ऽवता हवेषु ।।११ ।।
७-५
वैश्वानरादरोचत जातो हिरण्ययो मणिः ।
तमाभरद्बृहस्पतिः कश्यपो वीर्याय कम् ।। १ ।।
बृहस्पतिस्तमकृणोन् मणिं वैश्वानरं सहः ।
सप्तर्षयो बलाय कं सं दधुष्ट्वा वयोधसः ।।२।
विश्वे देवास्त इन्द्रियं सप्तर्षयश्च सं दधुः ।
जातो हिरण्ययो मणिरग्नेर्वैश्वानरादधि ।। ३ ।।
अश्वत्थो जातः प्रथमो ऽग्नेः प्रियतमा तनूः ।
वैश्वानरस्य सृष्ट्या कृत्यादूषिः कृतो मणिः ।।४।।
कृत्यादूषिं त्वाविदं कृत्यादूषिं भरामि त्वा ।
कृत्यादूषिं कृणोमि त्वा कृत्यादूषिं वयोधसम् ।।५ ।।
पतत्री पक्षी बलवान् कृत्यादूषिः सपत्नहा ।
नितत्निर्विश्वभेषज उग्र आपतिको मणिः ।। ६ ।।
पतत्री ते बलाय कं नितत्निर्भेषजाय ते ।
जातो हिरण्ययो मणिरप रक्षांसि सेधतु ।।७।।
देवो मणिः सपत्नहा रक्षोहामीवचातनः ।
हिरण्ययोनिरंशुमान् कश्यपेनाभृतं सहः ।।८।।
वैश्वानरं तेजनमेकमाहुरग्नेर्योनेः सह चन्द्रेण जातम् ।
गयस्फानः प्रतरणो वयोधाः कृत्यादूषिर्बलगहास्युग्रः ।।९।।
यस्येदं भूम्यामधि निक्रान्तं पांसुरे पदम् ।
मृजानस्तन्वो यद्रपस्तस्य स्नाहि तनू अधि ।। १० ।।
दूष्यास्त्वा वधं वयं देवस्य सवितुः सवे ।
जीवातवे भरामसि मह्या अरिष्टतातये ।। ११ ।।
आच्छेदन: प्रच्छेदनो द्विषतस्तपनो मणि: ।
शत्रूञ्जयः सपत्नहा द्विषन्तमप बाधताम् ।। १२ ।।
(इति दशर्चोनाम सप्तमकाण्डे प्रथमो ऽनुवाकः)
7.6
सत्यस्य स्थूणा पृथिवी दाधारर्तन देवा अमृतमन्वविन्दन् ।
ध्रुवेण त्वा हविषा धारयाम्यभि तद्द्यावापृथिवी गृणीताम् ।। १ ।।
येभिर्होमैविश्वकर्मा दाधारेमां पृथिवीं मातरं नः ।
तेभिष्ट्वा होमैरिह धारयाम्यृतं सत्यमनु चरन्तु होमाः ।।२ ।।
इह ध्रियध्वं धरुणे पृथिव्या उशत्या मातुः सुभगाया उपस्थे ।
अपराणुत्ता महसा मोदमाना अस्मिन्वास्तौ सुप्रजसो भवाथ ।३।
सुप्रजसो महसा मोदमाना वर्ष्र्मन् पृथिव्या उपरि श्रयध्वम् ।
अस्यै शालायै शर्म यच्छन्तु देवा धाराभिरेनां पृथिवी पिपर्तुं ।।४।।
इमां शालां श्रेष्ठतमां वसूनामरिष्टवीरा अभि सं चरेम ।
दृढ़ा अस्या उपमितो भवन्तु स्थिरा वीरा उपसदो भवन्तु ।५।।
इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् ।
उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं दधातु ।।६।।
मानस्य पत्नि हविषो जुषस्व तीव्रान्तस्य बहुलमध्यमस्य ।
आ त्वा शिशुर्वाश्यतामा कुमार आ वाश्यन्तां धेनवो नित्यवत्साः ।।॥७ । ।
दृढास्ते स्थूणा भवन्तु भूम्यामधि दृढ़ा: पक्षासस्तव देवि शाले ।
स्थिरवीरानमित्रा न एधि शर्म नो यच्छ द्विपदे चतुष्पदे ।।८।।
शाला देवी गार्हपत्याय चाक्लृपे तृणं वसाना जगते सुशेवा ।
स्थिराङ्गां त्वा स्थिरपूरुषां मानस्य पत्नि स्थिरां त्वा वीरा अभि सं चरेम ।।९।।
वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो न एधि ।
यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह ।।१०।।

7.7
दर्भो अग्र ओषधीनां शतकाण्डो अजायत ।
स सहस्रवीर्य: परि ण: पातु विश्वतः || १||
यथा दर्भो जायमानस्त्वचं भिनत्ति भूम्याः ।
एवा स भिद्यतां जनो यो नः पापं चिकित्सति ।२।
अप नाडमप कृत्यामप रक्ष: सदान्वा: ।
अमीवाश्चातयामसि सर्वाश्च यातुधान्य: । । ३ ।।
अस्ति वै निवत उद्वनं न वै सर्वमनुप्लवम् ।
असि त्वं तस्य दूषणो यो नः पापं चिकित्सति ।। ४ ।।
परि सायं परि प्रात: परि मध्यंदिनं परि ।
दर्भो हिरण्यहस्तघ्नः परि णः पातु विश्वत ।।५ ।।
गिरौ जातः स्वरहासि साकं सोमेन बभ्रुणा ।
मा पापकृत्वनः शिषो मा पाक: पुरुषो रिषत् ।। ६ ।।
दिवो मूलमवततं पृथिव्यामोत आहितः ।
दर्भः सहस्रवीर्यः परि ण: पातु विश्वत: ! !७ ।
सहस्रकाण्डस्तविषस्तीक्ष्णवल्शो विषासहि: ।
दर्भेण सर्वा रक्षांस्यमीवाश्चाप दहामसि ।।८।।
अपदग्धं दुःष्वप्न्यमपदग्धा अरातयः ।
सर्वाश्च यातुधान्य: ! ।। ९ ।।
मा त्वा दभन् यातुधाना मा ब्रध्नः शकुनिः पतन् ।
दर्भो राजा समुद्रिय: परि णः पातु विश्वतः ।। १० ।।
7.8
यो नः पापेन वचसाघोषतो दुरुक्तं ब्रुवत् ।
आराच्छप्तमप्राप्यास्मानप तद्यातु सर्वत: ।१।
यन्न: शपादरणो यत्सपत्नः श्वश्रूर्वा यच्छ्वशुरो वा शपाति।
ज्यायस: शपथान्वयं यवेन यावयामसि ।२।
यान् समस्यन्ते शपथान्वाक्क्षम्यानृत्वियामधि ।
यवं त्वं बिभ्रद्बाह्वोः पूर्वः प्रति शृणीहि तान् ।। ३ ।।
ऋजुकेशो यवो बभ्रुर्मघवा नो ऽनुमाद्य: !
हिरण्यधन्वा शपथानुपेजतु ।। ४ ।।
त्वां पीत्वेन्द्रो वृत्रं शक्रो जघान वासवः । ।
स विषाही यथर्षभः सहस्व शपथान् यव । । ५ । ।
आराच्चरन्तु शपथा युता इतो जिह्वा उदिता अरसाः सन्तु सर्वे।
नामग्राहाद्वाचो हेडादीक्षिताद्घोरचक्षसः शर्म ते वर्म कृण्मसि ।।६।।
अपाञ्चो यन्तु शपथा जनेनास्ता अघायुना ।
यो नो दुरस्याज्जीवते स्वेनानागसे सते ।।७।।
परि मा पातु शपथादनृताद्दुरितादुत ।
परि मा ज्यायस: शंसाद्यवो रक्षतु मा रिषं ।।८ ।।
अनास्तिघ्यं शपथैरनतिव्याध्यं कृतं ।
बृहद् वर्म प्रति मुञ्चामि ते यवं ।। ९ ।।
तं वयांसीव पक्षिण आ विशन्तु पतत्रिण: ।
शप्तारं शपथाः पुन: ।। १० ! ।
7.9
आ नो दिश मा परि प्ठा अराते मा नो रक्षीर्दक्षिणां याचमानाम् ।
प्र ण: प्रदाता सविता च यच्छतां नमो वीर्त्साया असमृद्ध्यै च कृण्मः । ।१ । ।
यमराते पुरोधत्से पुरुषं परिरापिणम् ।
नमस्ते तस्मै कृण्मो मा वनिं मम विव्यथः ।२।
यमद्याभिप्रयुञ्जमहे मनसा हृदयेन च ।
अराते तं नो मा वीर्त्सीर्दित्सन्तं परिरापिणि ।३।
प्र णो वनिर्देवकृता दिवा नक्तं च सिध्यतु ।
अरातिमनुप्रेमो वयं नमो ऽस्त्वरातये ।। ४ ।।
उत नग्ना बोभुवती स्वप्नया सचसे जनम् ।
अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ।।५ ।।
परो ऽपेह्यसमृद्धे वि ते हेतिं नयामसि ।
यं द्विष्मस्तं सचस्व कन्या भूत्वा स्रग्विणी रुक्मिणी दृशे ।।६।।
नमस्ते ऽस्त्वसमृद्धे मा मां पुरोधिं कृणुथा: ।
वेद त्वाहं निमीवन्तीं नितुदन्तीमराते मर्त्यन्मर्त्येभ्यो अधि निर्वदन्तीम् ।।७।।
मा नो वनि मा वाचं मा वीर्त्सीरुग्राविन्द्राग्नी न आ भजतां वसूनि ।
सर्वे नो ऽद्य दित्सन्तो अरातिं प्रति हर्यत ।।८ ।।
सवितारमनुमतिं भगं यन्तो हवामहे ।
वाचं जुष्टां मधुमतीं वदानि देवानां देवहूतिषु ।।९।।
यं याचामि नकुल्या जिह्वयोष्ठापिधानया ।
श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा ।। १० ।।
7.10
ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि ।
तक्मानं सर्वं नाशयन् सर्वाश्च यातुधान्य: ।। १ ।।
त्रीणी ते कुष्ठ नामानि नघमारो नघारिषो नघायुषो न घायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा । ।२ । ।
जीवला नाम ते मात जीवन्तो नाम ते पिता
मारिषा नाम ते स्वसा न घायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ।। ३ ।।
उत्तमो ऽस्योषधीनामनड्वाञ्जगतामिव व्याघ्रः श्वपदामिव न घायं पुरुषो रिषत् ।
यस्मै परिब्रवीमि त्वा सायंप्राप्तरथो दिवा ।४।।
त्रिः शाम्बुभ्यो गिरेयेभ्यस्त्रिरादित्येभ्यस्परि ।
त्रिर्जातो विश्वदेवेभ्यः स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति।
तक्मानं सर्वं नाशयन् सर्वाश्च यातुधान्यः ।।५।।
अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
तत्रामृतस्य चक्षणं ततः कुष्ठो ऽजायत ।
स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
तक्मानं सर्वं नाशयन् सर्वाश्च यातुधान्यः ।।६।।
हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि । ।
तत्रामृतस्य चक्षणं ततः कुष्ठो ऽजायत ।
स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
तक्मानं सर्वं नाशयन् सर्वाश्च यातुधान्यः ।।७।।
यत्र नाव: प्रभ्रंशनं यत्र हिमवत: शिर: ।
तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
तक्मानं सर्वं नाशयन् सर्वाश्च यातुधान्यः ।।८ ।।
यं त्वा वेद पूर्व ऐक्ष्वाको यं वा त्वा कुष्ठ काश्य: ।
यं शावसो यं मात्स्यस्तेनासि विश्वभेषजः ।।९ । ।
शीर्षालाकं तृतीयकं सदन्दिर्यश्च हायन: ।
तक्मानं विश्वधावीर्याधराञ्चं परा सुव ।।१०।।
(इति दशर्चोनाम सप्तमकाण्डे द्वितीयोऽनुवाक:)
7.11
ये पर्वता: सोमपृष्ठा आप उत्तानशीवरी: ।
वात: पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ।।१।।
यस्ते हन्ति चराचरमुत्थास्यन्तं सरीसृपम् ।
गर्भं यो दशगमास्यं तमितो नाशयामसि । ।२ । ।
यदि घनन्त्यप्सरसो गन्धर्वा गेह्या उत ।
क्रव्यादो मूरदेविनस्तानितो नाशयामसि ।३।
यस्त ऊरू आरोहत्यसृक् ते रेहणाय कम् ।
आमादः क्रव्यादो रिपूंस्तानितो नाशयामसि ।। ४ ।।
यस्ते श्रोणी च्यावयत्यन्तरा दम्पती शये ।
योनिं यो अन्तरारेढ़ि तमिती नाशयामसि ।।५।।
यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
प्रजां यस्ते जिघत्सति तमितो नाशयामसि ।।६।।
यस्त्वा पत्यु: प्रतिरूपो जारो भूत्वा निपद्यते ।
अरायं कण्वं पाप्मानं तमितो नाशयामसि ।।७ । ।
हा है खर्व खलते नैगूरकर्ण तुण्डिल ।
इन्द्रस्य तिग्ममायुधं तेन त्वा नाशयामसि ।। ८ ।।
नमस्तण्डाय नमः कुसुमाय नमः प्रतिपाव्ने नमः क:स्वधेये ।
नमस्तुभ्यं निर्ऋते विश्ववारे जरेमं धापयतां विश्वरूपा ।२।
यावद्द्यौर्यावत्पृथिवी यावत्पर्येति सूर्यः ।
तावत्त्वमुग्र गुल्गुलो परीमां पाहि विश्वत: ।। १० ।।
7.12
एकराज्ञीमेकव्रतामेकस्थामेकलामिकाम् ।
पाटां सपत्नचातनीं जैत्रायाच्छा वदामसि ।१।
एकराज्ञ्येकव्रत एकस्थ एकलामिके ।
न त्वा सपत्नी सासाह गैरेयी च न वाह्या ।२।
उत्तराहमुत्तराभ्य उत्तरेदधराभ्यः ।
अध: सपत्नी मामक्यधरेदधराभ्यः । ।३ । ।
न सैन्धवस्य पुष्पस्य सूर्यो म्लापयति त्वचं ।
पाटे ऽम्लातया त्वया सपत्न्या वर्च आ ददे ।। ४ । ।
न वै पाटे पाटेवासि सुभगांकरणीदसि ।
पाटे भगस्य नो धेह्यथो मा महिषीं कृणु ।५।।
यत् पाटे अधि वृक्षे वातप्लवा महीयसे ।
तयाहं सपत्नीं साक्षीय महेन्द्रो दानवानिव ।।८।।
पाटा बिभर्त्यङ्कुशं हिरण्यवन्तमङ्किनम् ।
तेन सपत्न्या वर्च आा लुम्पामि ममेदसत् ।। ९ ।।
इमां खनाम्योषधिं वीरुधां बलवत्तमाम् ।
यया सपत्नीं बाधते कृणुते केवलं पतिम् ।।१०।।
7.13
यासामारादाघोषामो वातस्येव पृथग्यतः
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः।।१।।
या: पुरस्तादाचरन्ति साकं सूर्यस्य रश्मिभिः ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः । ।२ । ।
या वातमनुसंयन्त्यन्तरिक्षे अधो दिवः ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः । । ३ ।।
यासां प्रेङ्खो दिवि बद्धो अन्तरिक्षे हिरण्ययः।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।। ४ ।।
यास्तल्पाननुनृत्यन्त्यन्तरिक्षे हिरण्ययान् ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।।५ ।।
या: पतन्ति वातरथा उत्ताना: पादघातिनी: ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।। ६ ।।
या वृक्षं परिसर्पन्ति साच्यक्षी करिक्रतीः ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।।७ । ।
याश्चत्वरे संगच्छन्ते विकुम्भाश्चेलवासिनी: ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।। ८ ।।
यासां सिकतवापिषु गृहो मितो हिरण्ययः ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।। ९ ।।
या आरोकैः प्रपद्यन्ते पुष्करैरिव जामयः ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।। १० ।।
या नदी: प्रतिगाहन्ते संरभ्य कन्या इव।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।।११ ।।
यास्तीर्थानि विगाहन्ते ऽघ्नया: श्वसतीरिव ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।। १२ ।।
या: समुद्रादुच्चरन्त्युच्चैर्घोषान् करिक्रती: ।
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।। १३ ।।
या गच्छन्ति जनंजनमिच्छन्तीः प्रयुतं बहु । वहु
तासां श्वन्वतीनामिन्द्रो अपि कृतच्छिरः ।। १४ ।।
7.14
अग्निरायुष्मान् स वनस्पतिभिरायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु ।। १ ।।
वायुरायुष्मान् सो ऽन्तरिक्षेणायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु ।।२ ।।
सूर्य आयुष्मान् स दिवायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु । ।३ । ।
चन्द्र आयुष्मान् स नक्षत्रैरायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु ।।४।।
सोम आयुष्मान् स ओषधीभिरायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु ।।५।।
यज्ञ आयुष्मान् स दक्षिणाभिरायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु ।। ६ ।।
समुद्र आयुष्मान् स नदीभिरायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु ।।७।।
ब्रह्मायुष्मत्तद् ब्रह्मचारिभिरायुष्मत् ।
तन्मायुष्मदायुष्मन्तं कृणोतु ।।८ ।।
इन्द्र आयुष्मान् स वीर्येणायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु ।।९ ।।
देवा आयुष्मन्तस्ते ऽमृतेनायुष्मन्त: ।
ते मायुष्मन्त आयुष्मन्तं कृण्वन्तु ।। १० ।।
प्रजापतिरायुष्मान् स प्रजाभिरायुष्मान् ।
स मायुष्मानायुष्मन्तं कृणोतु ।। ११ ।।
7.15
दक्षिणा मा दक्षिणतो दक्षिणा पातु सव्यत: ।
पश्चादनुव्याधात्पातु सर्वस्या भवहेत्या: ।।१।।
पशुना त्वं पशुपते द्विपाद् दत्त्वा चतुष्पदा ।
आत्मन्वतीं दक्षिणां प्राणं दत्त्वा प्राणिहि ।। २ । ।
यां ददासि श्रद्दधानो दक्षिणां ब्राह्मणकृते ।
सा त्वा यक्ष्मात् पारयत्वग्ने: सन्तापाद् दिव्यस्य शोकात्।।३।।
ददासीमां दक्षिणां मा त आममच्छल्यान्
यक्ष्मान् वि वृहामो वयं ते।
कर्णशूलमुपहत्यारातिः सर्वे यक्ष्मा अप तिष्ठन्तु साकम्।।४।।
अन्नेन प्राणं वनुते तिरो धत्ते परिधानेन यक्ष्मम् ।
हिरण्यमश्वं गां ददत् कृणुते वर्म दक्षिणाम् ।। ५ । ।
उष्णीषं त्वा शीर्षक्त्या वासस्त्वा तन्वामयात् ।
चन्द्रं हिरण्यमन्ध्यात् कर्णाद्दत्तं शुक्रं
भ्राजद् बाधिर्यात् पातु दक्षिणा ।।६।। वाधि
उपबर्हणं त्वा ग्रीवामयान्मणयो यक्ष्माज्जत्रव्यात् ।
अङ्गरोगादभ्यञ्जनमन्नं त्वान्तष्ट्यामयात् ।।७।।
अधस्पदादामयत: पदो रोगादुपानहौ ।
दण्डस्त्वा दत्तः परि पातु सर्पाद्दक्षिणत: प्रयतो दक्षिणेन ।।८ ।।
सौमनसं दक्षिणां दक्षमाणा इषमूर्जं दक्षिणां संवसानाः
भगस्य धारामवसे प्रतीम: ।।९।।
सहस्राङ्गा शतं ज्योतींष्यस्या यज्ञस्य पप्रिरमृता स्वर्गा ।
आ नो एतु दक्षिणा विश्वरूपाहिंसन्तीं प्रति गृह्णीम एनाम् ।। १० ।।
(इति दशर्चोनाम सप्तमकाण्डे तृतीयोऽनुवाक:)
7.16
अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।।१ ।।
वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।।२ । ।
सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।।३।।
वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।।४।।
सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।।५।।
अपो मौषधीमतीरेतस्या दिश: पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि ।
ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा।।६।।
विश्वकर्मा मा सप्तर्षिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि । रुदि
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।।७।।
इन्द्रो मा मरुत्वानेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।।८।।
प्रजापतिर्मा प्रजननवान् सह प्रतिष्ठाया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि । धृवा
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।।॥९ ।।
बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं श्रये तां पुरं प्रैमि ।
स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ।। १० ।।
7.17
आग्निं ते वसुमन्तमृच्छन्तु ये माघायवः ।
प्राच्या दिशो ऽभिदासान् ।।१।।
वायुं ते ऽन्तरिक्षवन्तमृच्छन्तु ये माघायव एतस्या दिशो ऽभिदासान् ।।२ ।।
सोमं ते रुद्रवन्तमृच्छन्तु ये माघायवो दक्षिणाया दिशो ऽभिदासान् ।।॥३ ।।
वरुणं ते आदित्यवन्तमृच्छन्तु ये माघायव एतस्या दिशो ऽभिदासान् ।। ४ ।।
सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु ये माघायवः प्रतीच्या दिशो ऽभिदासान् ।। ५ ।।
अपस्त ओषधीमतीर्ऋच्छन्तु ये माघायव एतस्या दिशो ऽभिदासान् ।।६ ।।
विश्वकर्माणं ते सप्तर्षिवन्तमृच्छन्तु ये माघायव उदीच्या दिशो ऽभिदासान् ।।७।।
इन्द्रं ते मरुत्वन्तमृच्छन्तु ये माघायव एतस्या दिशो ऽभिदासान् ।।८ ।।
प्रजापतिं ते प्रजननवन्तमृच्छन्तु ये माघायवो ध्रुवाया दिशो ऽभिदासान् ।। ९ ।।
बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ।। १० । ।
7.18
वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह ।
अग्ने तानिह मादय सर्व आ यन्तु मे हवम् ।।१ । ।
इन्द्र आ याहि मे हवमिदं करिष्यामि तच्छृणु।
इम ऐन्द्रा अतिसरा आकूती: सं नमन्तु मे ।
तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ।।२ ।।
यदसावमुतो देवा अदेवः संश्चिकीर्षति ।
मा तस्याग्निर्हव्यं वाक्षीद्धवं देवाश्च मोप गुर्ममैव हवमेतन।।३।।
अति धावतातिसरा विश्वस्येशाना ओजसः ।
वृश्चतामुष्य जीवितमिन्द्रेण सह मेदिना ।। ४ । ।
अतिसृत्यातिसरा इन्द्रस्यौजसा हत ।
अविं वृक इव मथ्नीत ततो वो जीवन्मा मोचि प्राणामस्यापि नह्यत। ५ ।
यानसौ प्रतिसरानकश्चकार कृणवच्च यान् ।
त्वं तानिन्द्र वृत्रहन् प्रतीचः पुनरा कृधि
यथामुं तृणहञ्जनम् ।। ६ ।।
यममी पुरोदधिरे ब्रह्माणमुपभूतये ।
इन्द्रस्य ये अधस्पदं तं प्र यच्छामि मृत्यवे
क्रव्यादेनं शमयतु।।७।।
यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे । ।
तनूपानं परिपाणानि चक्रिरे सर्वं तदरसं कृधि ।८।।
अत्रैनमिन्द्र वृत्रहन्नुग्रो मर्मणि विध्य ।
अत्रैवैनमभि तिष्ठ शक्र मेद्यहं तव ।
अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ।।९।।
यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् ।
कृण्वे ऽमुमधरं तथा शश्वतीभ्य: समाभ्य: ।। १० ।।
7.19
आङ्गिरसो जन्मनासि तमु त्वाहुर्वनस्पते ।
स पीलो रक्षो बाधस्व साकमिन्द्रेण मेदिना । ।१ । ।
अप रक्षांसि बाधस्व बाधस्व परिरापिणः ।
पिशाचान् पीलो क्रव्यादो बाधस्व मूरदेविनः ।।२ ।।
ययाहुस्तृष्टं कटुकमपगूढं फले कुलम् ।
तस्यै हिरण्यकेश्यै नमः कृण्मो अरातये ।। ३ ।।
या महती महोन्माना सर्वा आशा व्यानशे ।
तस्यै हिरण्यकेश्यै नमः कृण्मो अरातये ।।४।।
यस्ते योनिं प्रतिरेढ्याण्डादो गर्भदूषण: ।
अरायं पुत्रं प्रापी यस्तं पीलुः सहतामितः ।।५ ।।
यदा पीलवाङ्गिरस पक्वो ऽतिष्ठो वनस्पते ।
अथाहुरिन्द्रं जज्ञानं शक्रं बर्जह्ये प्रति ।।६ ।।
यथा सेदिमबाधथा: पच्यमानो वनस्पते ।
एवा पीलो रक्षो बाधस्व साकमिन्द्रेण मेदिना ।।७।।
यत्पिशाचै: पुरुषस्य जग्धं भवत्यात्मन: ।
आ पीलो प्यायते पुनस्तव चाश्नाति पिप्पलम् ! १८ ।
पीलु त्वाहुः पीवं त्वाहुरथो त्वाहुर्वनस्पतिम् ।
सर्वा ते भद्रा नामानि तेभिर्न: पाह्यंहस: ।।९।।
रक्षोहणं वृत्रहणं पिलुं पिशाचजम्भनम् ।
जज्ञानमग्रे वृक्षाणां तं ते बध्नाम्यायुषे । १०
7.20
सगराय शत्रुहणे स्वाहा ।।१।।
शर्णीलाय शत्रुहणे स्वाहा।।२।।
समुद्राय शत्रुहणे स्वाहा।।३।।
सन्धसाय शत्रुहणे स्वाहा ।। ४ । ।
इषिराय शत्रुहणे स्वाहा ।।५।।
अवस्यवे शत्रुहणे स्वाहा ।।६।।
वायवे शत्रुहणे स्वाहा ।। ७ । ।
वाताय शत्रुहणे स्वाहा ।।८ !।
मातरिश्वने शत्रुहणे स्वाहा ।। ९ ।।
पवमानाय शत्रुहणे स्वाहा ।। १० । ।
(इति दशर्चोनाम सप्तमकाण्डे चतुर्थो अनुवाकः)
इत्यथर्ववेद पैप्पलाद संहितायां दशर्चोनाम सप्तमकाण्ड: समाप्त: