पैप्पलादसंहिता/काण्डम् ०६

विकिस्रोतः तः
Jump to navigation Jump to search


अथ नवर्चंनाम षष्ठकाण्ड:
6.1
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमा: ।।१।।
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु । ।२ । ।
त्वे क्रतुमपि पृञ्चन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ।। ३ ।।
इति चिद्धि त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्दुरेवा यातुधानाः ।।४।।
त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ।।५।।
स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् ।
आा दर्शते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ।।६।।
नि तद्वधिषे ऽवरं परं च यस्मिन्नाविथावसा दुरोणे ।
आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ।।७।।
इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ।।८ ।।
एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ।।९।।
6.2
ऋधङमन्द्रयोनिनोविभावा अमृतासुः सुजन्मा वर्धमानः ।
अदब्धासुर्भ्राजमानो ऽहेव त्रितो दाधार त्रीणि ।१।

नि यो धर्मणि प्रथमः ससादातो वपूंषि कृणुते पुरूणि ।
धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकाय ।२।
यस्ते शोकस्तन्व आरिरेच क्षरद्धिरण्यं शुचयो ऽनु स्वाः ।
अत्रा दधिषे अमृतानि नामास्मे वस्त्राणीष एरयन्त ।३।
प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।
कविः शुषस्य मातरा रिहाणे जामिर्वधुर्युः प्रतिमानिमीत ।।४ । ।
तदू षु ते महा पृथुर्यमन्नमः कविः काव्येनाकृणोत् ।
यत्सम्यञ्चो ऽभियन्तो ऽभि क्षामधा मही रोधचक्रा ववर्ध ।। ५ ।।
सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात् । ।
उतामृतासुर्व्रत एषि कृण्वन्नसुर आप्तः स्वधया समद् गुः ।।६।।
उतायुर्ज्येष्ठो रत्ना दधात्यूर्जा वा यं सचते कविर्दाः । ।
पुत्रो वा यत्पितरा क्षत्रमीर्ते ज्येष्ठं मर्यादमह्वयन् स्वस्ति ।।७।।
दर्शन्नु तान्वरुण ये त इष्टावावर्वृतत: कृणवो वपूंषि ।
अर्धमर्धेन शवसा पृणक्ष्यर्धेन शुष्मं वर्धसे ऽमूर ।।८।।
अवीवृधाम शग्मयं सखायं वरुणं पुत्रमदितेरिषिरम् ।
कविशस्तान्यस्मै वचांस्यवोचाम रोदसी सत्यवाचौ ।।९।।
6.3
को वः पश्चात् प्राविच्छायत्कः पुरः प्राखनत्पथः।
यदैत त्वरमाणा वरुणप्रसूता आपः ।॥१ ।।
प्रजापतिरसृजत स पुरः प्राखनत्पथः ।
स उ नो अन्ववासृजत् तेन सृष्टाः क्षरामसि ।। २ ।।
पुनाना आपो बहुधा श्रवन्तीमांश्च लोकान् प्रदिशश्च सर्वा: ।
पुनन्त्वस्मान्दुरितादवद्यान् मुञ्चन्तु मृत्योर्निर्ऋतेरुपस्थात् ।।३।।
अपो अस्मान्मातर: सूदयन्तु घृतेन नो घृतपुव: पुनन्तु ।
विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्य: शुचिरा पूत एमि।।४।।
आपो देवीर्मातरः सूदयिष्णवो घृतच्युतो मधुना सं पपृच्रे ।
ता अस्मभ्यं सूरयो विश्वमायुः क्षप उस्रा वरिवस्यन्तु शुभ्राः।। ५ । ।
उदकस्योदकतमा रेवत्तमा रेवतीनाम् ।
शुन्धन्तामापः शुन्धन्त्वस्मान् ।।६ ।।
यूयमापो वीरश्रियो यूयं सूदयथा शुचीन् ।
युष्माकमिद्दिशो महीरीयन्ते प्रदिशः पृथक् ।।७।।
यूयं मित्रस्य वरुणस्य योनिर्यूयं सोमस्य धेनवो मधिष्ठा: ।
युष्मान्देवीर्देव आ क्षियतीन्दुर्यूयं जिन्वत ब्रह्मक्षत्रमापः ।।८ ।।
शश्वदाभि: शाशदाना: शमनान्वयामसि ।
आपो विश्वस्य सूदनीर्या देवा मनवे दधुः ।।९।।
यद्धावन्ति पुनते तदापो यत्तिष्ठन्ति शुद्धा इत्तद्भवन्ति ।
नासामवद्यमविदं न रिप्रं सनादेव मधुना सं प्रपृच्रे ।।१०।।
हिरण्यवर्णाः शुचयः पावका: प्र चक्रमुर्हित्वावद्यमापः ।
शतं च वः प्रस्रवणेषु देवीः सहस्रं च पवितारः पुनन्ति ।। ११ ।।
तास्तादृशीर्ब्रह्माणं सूदयन्त्यङ्गोष्ठ्या स्तोत्र्या जीवधन्या:।
या विश्वस्य शुचिकृतो अयातोर्गाव इव पयसा स्था सुजाता:।१२।।
विश्वाद्रिप्रान्मुञ्चत सिन्धवो नो यान्येनांसि चकृमा तनूभिः ।
इन्द्रप्रशिष्टा वरुणप्रसूता आ सिञ्चतापो मध्वा समुद्रे ।। १३ ।।
6.4
रात्री माता नभः पितार्यमा ते पितामहः ।
शिलाची नाम वा असि सा देवानामसि स्वसा ।१।
यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् । वति
धर्त्री च शश्वतामसि शश्वतां च न्यञ्जनी । ।२ । ।
यद् दण्डेन यदिष्वा यदरुर्हरसा कृतम् ।
तस्य त्वमसि भेषजी निष्कृतिर्नाम वा असि । ।३ । ।
भद्रा प्लक्षे नि तिष्ठस्यश्वत्थे खदिरे धवे ।
भद्रा न्यग्रोधे पर्णे सा न एह्यरुन्धति ।।४।।
वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।
जयन्ती प्रत्यातिष्ठन्ती संजया नाम वा असि । ५ ।
हिरण्यवर्णे युवते शुष्मे लोमशवक्षणे ।
अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ।।६।।
हिरण्यवाहो सुभगे सूर्यवर्णे वपुष्टमे ।
रुतं गच्छति निष्कृति: सेमं निष्कृधि पूरुषं ।। ७ ।।
घृताची नाम कानीनो ऽजबभ्रु पिता तव । वभ्रु
अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ।।८ ।।
अश्वस्यास्न: संपतिता सा पर्णमभि षिष्यदः ।
सरा पतत्रिण्यसि सा न एह्यरुन्धति ।।९ ।।
घृताचिके वातरथे विद्युत्पर्णे अरुन्धति ।
आतुरं गमिष्ठासि त्वमङ्ग निष्करीयसी ।। १० ।।
यत्ते जग्धं पिशाचैस्तत्त आ प्यायतां पुनः ।
लाक्षा त्वा विश्वभेषजी देवेभिस्त्रायतां सह ।। १ १ || !
6.5
यथा द्यौश्च पृथिवी च न विभीतो न रिष्यतः ।
एवा मे प्राण मा बिभेरेवा मे ऽपान मा रिष: 1१ ।विभे
यथा वायुश्चान्तरिक्षं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।२।
यथा सूर्यश्च चन्द्रमाश्च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।३।
यथाहश्च रात्री च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिषः ।।४।।
यथा धेनुश्चानड्वांश्च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।।५।।
यथा मित्रश्च वरुणश्च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।।६।।
यथा ब्रह्म च क्षत्रं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।।७।।
यथेन्द्रश्चेन्द्रियं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।।८।।
यथा वीरश्च वीर्यं च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिषः ।।९।।
यथा प्राणश्चापानश्च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।।१०।।
यथा मृत्युश्चामृतं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।।११।।
यथा सत्यं चानृतं च न विभीतो न रिष्यतः ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।।१२।।
यथा भूतं च भव्यं च न विभीतो न रिष्यत: ।
एवा मे प्राण मा विभेरेवा मे ऽपान मा रिष: ।।१३।।
(ढ्रति नवर्चोनाम षष्ठकाण्डे प्रथमो ऽनुवाकः)
6.6
मधुमन्मे निक्रमणं मधुमन्मे परायणम्।
वाचा मधुमदुद्यासमक्ष्यौ मे मधुसन्दृशी।।१।।
मामनु प्रसारयन्मम पत्तो निपेदिवान् ।
अथो मे पुनरायतो अक्ष्यौ कामेन शुष्यताम् ।।२ ।।
वशा मधुघ ते मातोक्षा भ्रातर्षभः पिता ।
धेन्वा अधि प्रजातो ऽसि राजा सन्मधुमत्तमः ।। ३ ।।
वृषाणं वृष्ण्यावन्तं सोमपृष्ठं दिवि श्रितम् ।
इन्द्राण्यग्र आभरन् मधुघ भगाय कम् ॥। ॥४ ।।
पितुभोजनो मधुघः शौष्कास्यो हृदयाय कम् ।
स मा मधुनानक्तु यथाहं कामये तथा ।।५।।
सिन्धुप्रजानो मधुघो अश्व इव नीयते जनाङ् अनु ।
स मा मधुनानक्तु यथाहं कामये तथा ।।६।।
मधुमती सिनीवाली मधुना मा समुक्षतु ।
सा मा मधुनानक्तु यथाहं कामये तथा ।।७।।
यथा मधु मधुकृतो न्यञ्जन्ति मधावधि ।
एवा न्यनज्मि ते मनो अध्यस्यां मामकी तनू ।८ ।
यते मन: परागतं यद् बद्धमिह वेह वा । वद्ध
तत्त आ वर्तयामसि मयि बध्नामि ते मनः ।। ९ । ।
6.7
कश्यपश्च सुपर्णश्च यन् मरीच्यामतिष्ठताम् ।
सुपर्ण: पर्यवापश्यत्समुद्रे भूमिमावृताम् ।।१।।
यां सुपर्णः पर्यपश्यदन्तर्महत्यर्णवे ।
तां सूकर त्वं मायया त्रि: समुद्रादुदाभर: ।२।
यं समुद्रादुदभरो भूमिं सूकर मायया ।
सैषा विषस्य दूषण्यस्मै भवतु भेषजी ।। ३ ।।
अच्युता हिरण्येन या सत्ये अधितिष्ठति ।
तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ।। ४ । ।
यस्या: कुलायं सलिले अन्तर्महत्यर्णवे ।
तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ।।५ ।।
यस्या भूम्या उपजीका गृहं कृण्वत आत्मने ।
तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ।।६।।
यस्त्वा भूमे ऽन्वविन्दद्यस्त्वा भूम उदाभरत् ।
तयोः सहस्रधामन्नहं नामानि जग्रभ ।।७ ।।
यानि त इन्द्रो अकृणोद्भूमे नामानि वृत्रहा ।
तानि ते बभ्रो: सं विद्म सेहैधि विषदूषणी ।८।। वभ्रोः
यानि ते मरुतश्चक्रुर्यानि सप्तर्षयो विदुः ।
विश्व आदित्या यां विदुः सा भूमिर्विषदूषणी ।।९।।
6.8
सहस्व यातुधानान् सहस्व यातुधान्य: ।
सहस्व सर्वा रक्षांसि सहमानास्योषधे ।१।
सहमाने सहस्वति सहन्त्यहमुत्तरे ।
उताहमस्मि सासहि: सासहे व: सदान्वा: ।।२।।
या सहमाना चरसि सासहान इवर्षभः ।
सदान्वाघ्नी रक्षोघ्नी सा त्वमुग्रास्योषधे ।।३।।
खेले है लम्बनस्तनि नश्येत: प्रामुत: पत । म्वन
न त्वामविव्यचदिहोक्षेव शृङ्गवच्छिरः ।।४।।
असुवाने बहुपुत्रे अनन्तर्वे महोदरि । वहु
पथास्मत्सत्वरे त्वं शर्करा वस्पती चर ।।५।।
ये ऽरायाश्चरथ पाकस्येछन्त आसुतिम् ।
तानग्ने कृष्णवर्तने तीक्ष्णशृङ्गोदृशन्निहि ।।६।।
अदो यद् दारु प्लवते सिन्धोर्मध्ये अपूरुषम् ।
तदा रभस्व दुर्हणो तेन याहि परस्तरम् ।।७।।
यस्या जनित्रमिष्टर्गा अदृष्टाः क्रिमयः प्लुषयः ।
तस्यै बलासपत्न्यै नमस्कृणोमि कुष्ठ्यै ।।८ ।।
शर्वपुत्रे भवपत्नि यातुभ्रात्रि सदान्वे।
तस्याद्धि पुत्रान् भ्रातॄंश्च यत्र त्वापनयामसि ।।९।।
6.9
वृषायमंशुर्वृषभाय गृह्यते वृषायमुग्रो नृचक्षसे ।
दिव्यो नर्यो ऽचिक्रदन्महन्नामर्षभस्य यत्ककुत् ।। १ ।।
विषुवान्विष्णो भव त्वं यो नृपतिर्मम ।
अथो इन्द्र इव देवेभ्यो वि ब्रवीतु जनेभ्य: ।।२ । ।
मनुष्येभ्यो वि ब्रवीतु सजूरिन्द्रेण मेदिना ।
अग्निश्च तुभ्यं साहन्त्यो राष्ट्रं वैश्वानरो दधत् ।३।
यस्यायं भागर्षभ इन्द्राय परिणीयते ।
स हन्तु शत्रूनायतो अथो हन्तु परायतः ।। ४ ।।
स हन्ता शत्रोर्भवतु हन्ता भवतु दोधताम् ।
विशामह प्रणीरयदग्रमुद्भिन्दतामसत् ।।५।।
आयुष्मन्तं वर्चस्वन्तमथो अधिपतिं विशाम् ।
अस्याः पृथिव्याश्चेत्तारमिममिन्द्रर्षभं कृणु ।। ६ । ।
यः सुशृङ्गः सुककुदुः कल्याणो बर्हिरासदत्। वर्हि
कार्षीवणप्रजानेनर्षभेण यजामहे।।७।।
ऋषभेण यजमाना अक्रूरेणेव सर्पिषा।
मृधश्च सर्वा इन्द्रेण पृतनाश्च सहामहे ।।८ ।।
यं तुभ्यं भागमृषभं देवा: केवल्यं ददुः ।
तेन वृत्राणि जङ्घनः शत्रूंश्च जह्याहवे ।। ९ ।।
जहि शत्रून्वि मृधो नुदस्व कृष्याः संभूतो असि वीर्यावान् ।
इन्द्राय भागं परि त्वा नयाम उरुर्नो लोको अपृतन्यो अस्तु ।। १० । ।
घृतवृद्ध घृताहुत सहस्रशृङ्ग सुष्टुत ।
घृताहवन दीदिहि ।।११ । ।
यो घृतेनाभिघारित उग्रो जैत्राय तिष्ठसि ।
स नः सङ्कासु पारय पृतनासाह्येषु च । १२ ।
6.10
कर्की सुभागर्षभस्य पत्नी प्रजाकामा वशिनी वाशिता गौः ।
तां सहस्रमेकमुखा ददाति गर्भं दधानामृतुना चरन्तीम् ।।१।।
गर्भं दधाना पय इद्दुहाना अग्निहोत्रं वैश्वदेवी दुहाना ।
गौर्णो मा हिंसीद्वरुणस्य पत्नी ।२।
कर्क्या योनिं संमनसो ऽभि गाव: प्रजां धित्सन्तो वृषणश्चरन्ति।
सा न ऐत्वदितिर्विश्वरूपाभि क्रन्दन्ति भुवनान्येनाम् ।३।
प्रजापतिनेषितामृत्वियावतीमैनां प्रजाया ऋषभाः श्रयन्ते ।
वृषण्यन्तीं वृषण: सप्तनाम्नीं हिंकृण्वन्तो अभि नुदन्तु वाशिताम्।। ४ ।।
सा प्रत्यदशर्युषसा सुवर्णा शुक्रां वसाना वरुणस्य निर्णिजम्।
वैश्वदेवी स्वधामाभरन्ती प्रजां दाता पुष्यतु गोपतिष्टे ।।५ ।।
स्वयंस्थावर्यृषभाय तिष्ठसि प्रतीची सोमं प्रति सूर्यमग्निम् ।
अहिंसन्ती वाशिते मामुपेहि पशून्दाता पुष्यतु गोपतिष्टे।६।
वशी दाता भवतु वाशिताया अग्नेर्भागमुस्त्रियां यो ददाति ।
प्रियं धाम हृदयं सोम्यं मधु वाजिनीं त्वा वाजिनो वाजयन्तु ।७।
यो वाशितायां गव्यन्तरग्निर्यदस्यां नृम्णं महिमा बभूव ।
नमस्तस्मै प्रतिगृह्णन् कृणोमि स्योना मे अस्तु तन्वे सुशेवा ।।८ ।।
एयमगन्वाशिता तां प्रतीम: पुंसां व्रातेन सह पुष्ट्या गौ: ।
ऊर्जं दधाना घृतमिद्दुहाना सहस्रपोषाय मे अस्तु दात्रे ।।९।।
6.11
ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि षीमत: सुरुचो वेन आवः ।
स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ।। १ ।।
अनाप्ता ये व: प्रथमा यानि कर्माणि चक्रिरे ।
वीरान्नो अत्र मा दभन्तद्व एतत्पुरो दधे ।।२।।
प्रत्नान्मानात्परि ये संबभूवुः श्लोकवन्तः सौमनसस्य वन्तवः ।
अपानक्षासो बधिरा अहासतर्तस्य पन्थां न तरन्ति दुष्कृतः ! ।। ३ । ।
वधिरा सहस्रधारमभि ते समस्वरन्दिवो नाके मधुजिह्वा असश्चत: । ज्विहा
तस्य स्पशो न नि मिषन्ति भूर्णय: पदेपदे पाशिनः सन्तु सेतवे।। ४ ।।
पर्यु षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।
दिवस्तदर्णवाङ् अन्वीयसे सनिस्रसो नामासि त्रयोदशो मासः ।।५।।
इन्द्रस्य गृहो ऽसीन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथमसि ।
व्येतेनावैतेनापैतेनारात्सीरसौ स्वाहा ।।६।।
तिग्मायुधौ तिग्महेती सुशेवावग्नीषोमाविह सु मृडतं न: ।
मुमुक्तमस्मान् गृभीतानवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तं स्वाहा ।।७।।
चक्षुषो हेते मनसो हेते ब्रह्मणो हेते मेन्यामेनिरसि।
अमेनयस्ते सन्तु ये ऽस्मानभ्यघायन्ति स्वाहा।।८।।
यो ऽस्मान् चक्षुषा मनसा यश्च वाचाकूत्या चित्त्या ब्रह्मणाघायुरभिदासात् ।
तमग्ने त्वं मेन्यामेनिं कृणु स्वाहा ।।९।।
उदायुरुत्कृतमुद्बलमुन्मनीषोदिन्द्रियं नृम्णमस्मासु धेहि स्वाहा । । १० ।। द्बल
६-१२ 6.12
आयुष्कृतायुष्मती स्वधावन्तौ गोपा मे स्थो गोपायतं मा ।
आत्मसदौ मे स्तं तन्वे सुशेवौ मा मा हिंसिष्टं स्वाहा ।१।
इन्द्रस्य गृहो ऽसीन्द्रस्य शर्मासीन्द्रस्य वर्मासीन्द्रस्य वरूथमसि।
तं त्वा प्र विशामि सर्वाङ्ग: सर्वात्मा सर्वगुः सर्वपूरुषः सह यन् मे ऽस्ति तेन ।।२।।
अस्तृतो नामाहमयमस्मि स आत्मानं परि दधे द्यावापृथिवीभ्याम् ।
गोपीथाय प्र हूयसे ।३।
अस्तृतो नाम प्राजापत्यो देवो मासस्त्रयोदशः ।
सर्वगुः सर्वपूरुषः प्रागां देवपुरा अहं । ४ । ।
अन्त: प्रागां देवपुरा: सहग्राम: स्वस्तये ।
संवत्सरस्य मध्यत: सर्वै: सोदर्यै: सह ।। ५ । ।
प्राहमगां देवपुरा य एवास्मि स एव सन् ।
यो मा कश्चाभिदासति स प्रजापतिमृच्छतु । । ६ ।।
अश्मासि प्रतिस्पशः पाहि रिषः पाहि द्विषः ।
पाहि दैव्याभिशस्त्या: स म इह तन्वं पाहि ।।७।।
यो ऽस्मान् प्राच्या दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु ।।८ ।।
यो ऽस्मान्दक्षिणाया दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु ।। ९ ।।
यो ऽस्मान् प्रतीच्या दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु । । १० । ।
6.13
यो ऽस्मानुदीच्या दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु । ।१ । ।
यो ऽस्मान्ध्रुवाया दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादशमवर्म नो ऽस्तु । ।२ । ।
यो ऽस्मानूर्ध्वाया दिशो ऽघायुरभिदासात् ।
एतत्सर्च्छादश्मवर्म नो ऽस्तु । ।३ । ।
प्राच्यै दिशे स्वाहा ।।४।।
दक्षिणायै दिशे स्वाहा ।।५।।
प्रतीच्यै दिशे स्वाहा ।।६।।
उदीच्यै दिशे स्वाहा ।।७।।
ध्रुवायै दिशे स्वाहा ।।८ ।।
ऊर्ध्वायै दिशे स्वाहा ।। ९ । ।
दिवे स्वाहा । १० ।
अन्तरिक्षाय स्वाहा ।११।।
पृथिव्यै स्वाहा ।। १२ ।।
पृथिव्यै स्वाहा ।। १३ ।।
अन्तरिक्षाय स्वाहा ।१४।।
दिवे स्वाहा । १५ । ।
6.14
महाकण्ठं करीषजमूवध्यादमनाहुतिम्
ओष्ठः कोकमुखश्च यस्तानितो नाशयामसि।।१।।
रामदन्तमवदलं प्रहालमहिनासिकम्।
उपवर्तं बलाहकं खेलं गर्दभनादिनं गृध्रं हस्त्यायनं तानितो नाशयामसि । ।२ । ।
प्रमृश्यादिनमभ्यमं भीमहस्तं मरीमृशं।
त्रस्ताक्षं मृद्वङ्गुलिं नखोग्रं दन्तवीर्यं तानितो नाशयामसि ।। ३ । ।
पर्यन्यमभिपापदं जिगीषमाणं रूपकम्।
अथो शलल्यं शेवलं तानितो नाशयामसि ।। ४ । ।
तण्डमग्रेतुण्डिकमलिंशमुत वत्सपं
दामग्रन्थिं सनिस्रसमरण्येयं चार्म्येयं तानित नाशयामसि।।५।।
इदं यज्जानुकेशवं रक्षश्चरत्यासुरं बहिः प्रयुतमिच्छति।
अंसून् पांस्यूंश्च केश्यानरायाञ्छ्वकिष्किणस्तानितो नाशयामसि।।६।।
यः कुमाराञ्जनस्यात्ति तरुणान्दास आसुरः।
अरायः केश्यखलो यो जनान् हन्त्यत्ति च
तमितो नाशयामसि।।७।।
हिराक्षो नाम गेह्यो ऽरायानामसूर्तहा।
तमितो नाशयामसि ।।८।।
वितूलं भस्वमाखिदं वनक्रोशं च रोरुहं ।
आमादं प्रयुतैषणं पर्यून्दानं परिद्रवं
वृकस्य न्यंचं गङ्गणं तानितो नाशयामसि ।। ९ ।।
6.15
यश्च भूमा या च स्फातिर्योर्जा यो रसश्च ते।
हरामि शक्र ताङ् अहं त्वया प्रत्तां शचीपते ।१।
क्षेत्रात्क्षेत्रादा हरामि स्फातिं सर्वां शचीपते।
त्वयाहं वृत्रहन् प्रत्तमा हरामि गृहाङ् उप।।२।।
यस्ते सीताभगः क्षेत्रे या राद्धिर्यच्च शीयते।
अथो या निष्ठा ते क्षेत्रे तां त आदिषि ब्रह्मणा ।३।
यत्खले यन्मयारे यद्गोष्ठे यच्च शेवधौ।
अथो यत्कुम्भ्यां शये तस्य ते रसमा ददे ।।४।।
ऊर्जा या ते निरुप्तस्योर्जा यावहतस्य ते ।
ऊर्जा ते पिष्यमाणस्योजी पिष्टात्त आ ददे।५।।
ऊर्जा या ते निरुप्तस्योर्जा यावहतस्य ते ।
ऊर्जा ते पच्यमानस्योर्जा पक्वात्ते आ ददे ।।६।।
ऊर्जा या ते प्रणद्धस्योर्जा या मथितस्य ते ।
ऊर्जा ते दुह्यमानस्योर्जा दुग्धात्त आ ददे ।।७।।
आ ते ददे गवामूर्जामूर्जामविभ्य आ ददे ।
अजाभ्य ऊर्जामादाया त एकशफाद्ददे ।।८।।
ऊर्जा या ते पुरुषेषूर्जा वित्ते च वेद्ये ।
ऊर्जा ते सर्वेषामहं गृहाणां ब्रह्मणा ददे ।।९।
6.16
पितुं नु स्तोषं महो धर्माणं तविषीं ।
यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ।। १ ।।
स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
अस्माकमविता भव । २ । ।
उप नः पितवा गहि शिवः शिवाभिरूतिभिः ।
मयोभूरद्विषेण्यः सखा सुशेव एधि नः ।। ३ ।।
तव त्ये पितो रसा रजांस्यनु विष्ठिताः ।
दिवि वाता इव श्रिताः ।। ४ । ।
तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो ।
प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ।।५।।
त्वे पितो महानां देवानां मनो हितं ।
अकारि चारु केतुना तवाहिमवसावधीत् ।।६।।
यदद: पितो अजगन्विवस्व पर्वतानां ।
अत्रा चिन्नो मधो पितो ऽरं भक्षाय गम्या: ।। ७ । ।
यत्ते सोम गवाशिरो यवाशिरो भजामहे ।
वातापे पीव इद्भव ।।८।।
यदपामोषधीनां परिंशमारिशामहे ।
वातापे पीव इद्भव ।।९।।
करम्भ ओषधे भव पीवो वृक्क उदारथि: ।
वातापे पीव इद्भव । १० ! !
तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम !
अस्मभ्यं त्वा सधमादं देवेभ्यस्त्वा सधमादं ।। ११ ।।
6.17
प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।
मरुद्धिरग्न आ गहि । १ ।
नहि देवो न मर्त्यो महस्तव क्रतुं परः ।
मरुद्भिरग्न आ गहि । २ । ।
ये महो रजसो विदुर्विश्वे देवासो अदुहः ।
मरुद्भिरग्न आ गहि ।३ ।
ये शुभ्रा घोरवर्पस: सुक्षत्रासो रिशादस: ।
मरुद्भिरग्न आ गहि ।।४।।
य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ।
मरुद्भिरग्न आ गहि । ५ ।
ये नाकस्याधि रोचने दिवि देवास आसते ।
मरुद्भिरग्न आ गहि । ६ ।
य ईङ्खयन्ति पर्वतान्तिर: समुद्रमोजसा ।
मरुद्भिरग्न आ गहि ।।७।।
आ ये तन्वन्ति रश्मिभिस्तिर: समुद्रमर्णवं ।
मरुद्भिरग्न आ गहि ।।८।।
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु।
मरुद्भिरग्न आ गहि । २ । ।
आा यन्तु मरुतो गणै स्तुता दधतु नो रयिं ।
मरुद्भिरग्न आ गहि । १० ।
आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
मरुद्भिरग्न आ गहि । १ १ ।
(इति नवर्चनाम षष्ठकाण्डे तृतीयो ऽनुवाकः)
6.18
सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः ।
सं मायमग्नि: सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ।१।
सं मा सिञ्चन्त्वादित्या: सं मा सिञ्चन्त्वग्नयः ।
इन्द्र: समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ।। २ ।।
सं मा सिञ्चन्त्वरुषा: समर्का ऋषयश्च ये ।
पूषा समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ।।३ । ।
सं मा सिञ्चन्तु गन्धर्वाप्सरसः सं मा सिञ्चन्तु देवता: ।
भगः समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ।।४।।
सं मा सिञ्जन्तु पृथिवीः सं मा सिञ्चन्तु या दिवः ।
अन्तरिक्षं समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे।।५ । ।
सं मा सिञ्चन्तु प्रदिशः सं मा सिञ्चन्तु या दिशः ।
आशा समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे।।६।।
सं मा सिञ्चन्तु नद्य: सं मा सिञ्चन्तु सिन्धवः ।
समुद्रः समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे।। ७ ।।
सं मा सिञ्चन्तु कृषयः सं मा सिञ्चन्त्वोषधीः ।
सोमः समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ।।८ ।।
सं मा सिञ्चन्तु या आपः सं मा सिञ्चन्तु बृष्टयः ।
सरस्वती समस्मान् सिञ्चतु प्रजया च धनेन च दीर्घमायुष्कृणोतु मे ।। ९ ।।
6.19
सं भगो वर्चसा माग्ने सं विष्णुः पुष्ट्या सिञ्चत् । ।
क्षत्रं समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ।। १ ।।
सं विराड्वर्चसा माग्ने सं देष्ट्री पुष्ट्या सिचत् ।
इडा समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा । ।२ । ।
सं धाता वर्चसा माग्ने सं सिक्तिः पुष्ट्या सिचत् ।
सं देवो अस्मानर्यमा प्रजया च धनेन चायुष्मन्तं कृणोतु मा ।।३ । ।
समंशो वर्चसा माग्ने सं वायुः पुष्ट्या सिचत् ।
वात: समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ।। ४ ।।
सं सभा वर्चसा माग्ने सं सुरा पुष्ट्या सिचत् ।
सूर्या समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ।५ ! ।। •
सं सविता वर्चसा माग्ने सं सूर्यः पुष्ट्या सिचत् ।
चन्द्रः समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ।। ६ ।।
सं पशवो वर्चसा माग्ने सं यज्ञः पुष्ट्या सिचत् ।
दक्षिणा समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ।।७।। • ।
सं मा सिञ्चतु द्रविणं सं मा सिञ्चत्विन्द्रियम् ।
तेजः समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ।।८ ।।
सं मा सिञ्चन्तु वर्चांसि सं मा सिञ्चन्तु भूतय: ।
सत्यं समस्मान् सिञ्चतु प्रजया च धनेन चायुष्मन्तं कृणोतु मा ।। ९ । ।
6.20
आा रात्रि पार्थिवं रजः पितुरप्रायि धामभिः।
दिव सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ।।१ ।। वृहती
न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति ।
अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ।।२।।
ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव ।
अशीति: सन्त्यष्टा उतो ते सप्त सप्तति: ।३।
षष्टिश्च षट् च रेवति पञ्चाशत्पञ्च सुम्नयि ।
चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ।। ४ । ।
द्वा च विंशतिश्च ते रात्र्येकादशावमाः ।
तेभिर्नो ऽद्य पायुभिर्नि पाहि दुहितर्दिव: ।। ५ ।।
रक्षा माकिर्ण्णो अघशंस ईशत मा नो दु:शंस ईशत ।६।
मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ।
माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ।।७ । ।
परमेभिः पथिभि स्तेनो धावतु तस्करः ।
परेण दत्वती रज्जुः परेणाघायुरर्षतु ।।८ । ।
अन्धं रात्रि तिष्ठधूममशीर्षाणामहिं कृणु ।
हनू वृकस्य जम्भया स्तेनं दुपदे जहि ।।९।। बृक
त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।
गोभ्यो नः शर्म यच्छाश्वेभ्यः पुरुषेभ्य: ।। १० ।।
६- २१ 6.21
अथो यानि च वस्महे यानि चान्त: परीणहि ।
तानि ते परि दद्मसि । १ ।।
रात्रि मातरुषसे न: परि देहि ।
उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ।२।
यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।
यात्किं च पद्वदासन्वत्तस्मात्त्वं रात्रि पाहि नः ।।३ 1 ।।
सा पश्चात्पाहि सा पुर: सोत्तरादधरादुत ।
गोपाय नो विभावरि स्तोतारस्त इह स्मसि । । ४ ।।
ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।
पशून् ये सर्वान्रक्षन्ति ते न आत्मसु जाग्रतु ते न: पशुषु जाग्रतु । ५ ।
वेद वै रात्रि ते नाम घृताची नाम वा असि ।
तां त्वा भरद्वाजो वेद सा नो वित्ते ऽधि जागृहि ।।६।।
6.22
ब्रह्मास्य शिरो बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य ।
छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी यज्ञस्तपसो ऽधि जातः ।। १ ।।
अनस्थाः शुद्धाः पवनेन पूताः शुचय: शुचीनपि यन्ति लोकान् ।
विष्टारिणमोदनं ये पचन्ति नैषां शिश्नं प्र दहति जातवेदा: ।। २ ।।
नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ।
नैनान् यम: परि मुष्णाति रेत: ।। ३ ।।
आस्ते यम उप याति देवान् सं गन्धर्वैर्मदति सोम्यैः ।
विष्टारिणामोदनं ये पचन्ति नैनानवर्तिः सचते कुतश्चन ।। ४ ।।
रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वापि दिवं समेति ।
एष यज्ञो विततो वहिष्ठो विष्टारी पक्वो दिवमा ससाद ।। 1५ ।।
चतुर: कुम्भांश्चतुर्धा ददाति क्षीरेण पूर्णानुदकेन दध्ना ।
एतास्त्वा कुल्या उप यन्तु विश्वत: स्वर्गे लोके स्वधया पिन्वमाना: ।। ६ । ।
घृतहृदा मधुकूला: सुरोदका क्षीरेण पूर्णा उदकेन दध्ना ।
एतास्त्वा कुल्या उप यन्तु विश्वहा स्वर्गे लोके स्वधया मादयन्ती: ।। ७ । ।
पुण्डरीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली । विसं
स्वर्गे लोके स्वधया पिन्वमाना उप मा तिष्ठन्तु पुष्करिणीः समक्ताः ॥ ८ ॥ !
यमोदनं पचामि श्रद्दधानो विष्टारिणं लोकजितं स्वर्गम् ।
स मे मा क्षेष्ट सदमश्यमानो विश्वरूपा कामदुघाधेनुरस्तु मे।।९।।
वृषभं सन्तं सह सूनृतया स्वर्गे लोके अमृतं दुहानम् ।
ये मे पुत्रा: पितरश्च सन्ति ते त्वा विष्टारिन्नुप सर्वे सदेयु:।।१०।।
य इमान् यज्ञानभि वितष्टार यस्येमे लोकाः स्वधया समक्ताः ।
ये मे पौत्रा उत ये पितामहास्तेभ्यो विष्टारिन्नमृतानि धुक्ष्व।।११।।
यदि पृथिवीं यद्यन्तरिक्षं यदि दिवं देवता वा जगन्थ । ।
ये मे प्रपौत्राः प्रपितामहाश्च ते त्वा विष्टारिन्ननु प्र ज्ञेषुरत्र ।।१२।।
स्वर्गे लोके अप्सरस एनाञ्जाया भूत्वोप शेरते ।
विष्टारिणमोदनं ये पचन्त्यस्मिंल्लोके दक्षिणया परिष्कृतम् ।।१३।।
6.23
निर्ण्णुदैनां प्रणुदैनां स्वान्निपदनादधि ।
विभ्रंशमस्यै कृण्मो वि गृहैर्भ्रंशतामसौ ।।१।।
अपाञ्चं पतिमा कुर्वधराचीं स्त्रियं नय।
अतीमान्दश पर्वतानतीमा नाव्या दश ।२।
अधराचीमवाचीमथो अकुशलां दिशम् ।
विभ्रंशमस्यै कृण्मस्तेनैनां प्र दहामसि ।। ३ ।।
आाज निरज बिलं बिलादरण्यमा कुर्वरण्यादरणं जनम् ।
मृगाङ् अनु प्र पातय वातस्यैनां शिखां कुरु ।।४।।
वाताग्रे अस्या हृदयं मनो रेष्मणि दध्मसि ।
विभ्रंशमस्यै कृण्मो विध्वंशमासक्तं दमे ।।५।।
सर्वमनु परि प्लवतामन्तरा द्यावापृथिवी उभे ।
यथानवधृता चराद् वृषतूलमिवोपरि ।।६।।
अशमस्यै वातो वात्वशं तपतु सूर्यः ।
अथो यदन्नमश्नाति तदस्यै विषवत्तरम् ।।७।।
सिंहस्ते अस्तु चक्षुष व्याघ्रः परिष्वञ्जने । .."
अग्निर्वामस्त्वन्तरा यथा वां न सहासति ।।८ । ।
एष वामग्निरन्तरा स विष्वञ्चौ व्यस्यतु ।
यथा वां न सहासत्युत्तरस्मिंश्चनायुषि ।। ९ ।।
उत्पातय शिमिदावति प्र पातय शिमिदावति ।
इमौ व्यस्य दम्पती पक्वं मांसमिवासिना । १० । ।
मेयमस्मिन् पतौ रंस्त मोस्मिं शयने स्वे ।
जहातु वसनं स्वमहिर्जीणमिव त्वचम् ।। ११ ।।
यथा मृताश्च जीवाश्चास्मिंल्लोके व्योकस: ।
एवेमौ दम्पती स्तामस्मिंल्लोके व्योकसौ ।।१२।।
(इति नवर्चोनाम षष्ठकाण्डे चतुर्थो ऽनुवाकः)
इत्यथर्ववेदपैद प