पैप्पलादसंहिता/काण्डम् ०४

विकिस्रोतः तः
Jump to navigation Jump to search

४-१ 4.1
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । तुल. शौ.सं. ४.२
स दाधार पृथिवीं द्यामुतामुं तस्मै देवाय हविषा विधेम ।। १ ।। (पा.द्याम् उतेमां)
य ओजोदा बलदा यश्च विश्व उपासते प्रशिषं यस्य देवा: ।
यस्य च्छायामृतं यस्य मृत्युस्तस्मै देवाय हविषा विधेम । २ ।।
यः प्राणतो निमिषतो विधर्ता पतिर्विश्वस्य जगतो बभूव ।
य ईशे ऽस्य द्विपदो यश्चतुष्पदस्तस्मै देवाय हविषा विधेम ।।३।।
येन द्यौरुग्रा पृथिवी च दृढ़ा येन स्वः स्तभितं येन नाकः ।
यो अन्तरिक्षं विममे वरीयस्तस्मै देवाय हविषा विधेम ।।४।।
य इमे द्यावापृथिवी तस्तभानाधारयदवसा रेजमाने ।
यस्मिन्नधि वितत एति सूर्यस्तस्मै देवाय हविषा विधेम ।।५।।
यस्य विश्वे हिमवन्तो महित्वा समुद्रं यस्य रसया सहाहुः ।
दिशो यस्य प्रदिशः पञ्च देवीस्तस्मै देवाय हविषा विधेम ।। ६ ।।
आपो ह यस्य विश्वमायुर्दधाना गर्भं जनयन्त मातरः ।
तत्र देवानामधि देव आस्त एक स्थूणे विमिते दृढ़ उग्रे ।।७ ।।
आपो गर्भ जनयन्तीर्वत्समग्रे समैरयन्
तस्योत जायमानस्योल्ब आसीद्धिरण्यय: । ।८ । ।
हिरण्य उल्ब आसीद् योग्रे वत्सो अजायत ।
तं योन्योर्विद्रवन्त्योः पर्यपश्यद् दितिर्मही ।।९ । ।

४-२ 4.2
भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।
स ते मृत्युश्चरति राजसूयं स राजा राज्यमनु मन्यतामिदम्।। १ ।।
अभि प्रेहि वीरयस्वोग्रश्चेत्ता सपत्नहा ।
आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ।। २ ।।
आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियं वसानश्चरति स्वरोचिः ।
महत्तद् वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ।।३ ।।
एना व्याघ्रं परिषस्वजाना: सिंहं हिन्वन्ति महते सौभगाय ।
महिषं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्त : ।।४।।
व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।
विशास्त्वा सर्वा आयन्त्वापो दिव्या: पयस्वती: । !५ ।।
या आपो दिव्याः पयसा मदन्ति या अन्तरिक्ष उत पार्थिवा याः ।
तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ।। ६ ।।
अभि त्वा वर्चसा सिचं दिव्येन पयसा सह ।
यथासो मित्रवर्धनस्तथा त्वा सविता करत् ।।७।।

४-३
यत्ते चन्द्रं कश्यप रोचनावद् यत् संहितं पुष्कलं चित्रभानु ।
यस्मिन् सूर्या आर्पिताः सप्त साकं तस्मिन् राजानमधि विश्रयेमम्।।१।।
येभिः शिल्पैः पप्रथानामदृंहो येभिर्दिवमभ्यपिंशः प्रविद्वान् ।
येभिर्वाचं पुष्कलैरव्ययस्तेन माग्ने वर्चसा सं सृजेह ।।२।।
येभिः सूर्य आतपति प्रकेतुभिर्येभिरग्निर्ददृशे चित्रभानुः ।
येभिरापश्चन्द्रवर्णा अजिन्वन् तेन माग्ने वर्चसा सं सृजेह ।।३।।
आयं भातु प्रदिशः पञ्च देवीरिन्द्र इव ज्येष्ठो भवतु प्रजानाम् ।
अस्मिन् धेहि पुष्कलं चित्रभान्वयं पृणातु रजसोरुपस्थम् ।।४।।
अनु त्वेन्द्रोवत्वनु बृहस्पतिरनु त्वा सोमो अन्वग्निरावीत् ।
अनु त्वा विश्वे अवन्तु देवाः सप्त राजानो य उदाभिषिक्ताः ।।५ ।।
अनु त्वा मित्रावरुणेहावतामनु द्यावापृथिवी ओषधीभिः ।
सूर्योहोभिरनु त्वावतु चन्द्रमा नक्षत्रैरनु त्वेदमावीत् ।। ६ ।।
द्यौश्च त्वा पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणा त्वा पिपर्तु।
अनु स्वधा चिकितां सोमो अग्निः पूषा त्वावतु सविता सवेन ।।७ ।।

4.4
स्तुवानमग्न आा नय यातुधानं किमीदिनम् ।
त्वं हि देवान्तितो हन्ता दस्योर्बभूविथ ।१।
आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।
अग्ने तौलस्य प्राशान् यातुधानान् वि लापय ।२।
वि लपन्तु यातुधाना अत्रिणो ये किमीदिन: ।
अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ।। ३ ।।
अग्निः पुरस्तादा यच्छतु प्रेन्द्रो नुदतु बाहुमान् ।
ब्रवीतु सर्वो यातुमानयमस्मीत्येत्य ।।४।।
पश्यामि ते वीर्या जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्ष: ।
त्वया सर्वे परितप्ताः पुरस्तादा यन्तु प्रब्रुवाणा उपेदम्।५।।
आ रभस्व जातवेदो हृद: कामाय रन्धय ।
दूतो नो अग्निरुत्तिष्ठ यातुधानानिहानय।६।
त्वमग्ने यातुधानानुपबद्धानिहा नय ।
अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ।। ७ ।।
इदं हविर्यातुधानान्नदी फेनमिवा वहात् ।
यदीदं स्त्री पुमानकरिह स स्तुवतां जनः ।।८ । ।
यातुधानस्य सोमप जहि प्रजां नयस्व च ।
निष्टुवानस्य पातय परमक्ष्युतावरम् ।।९।।
अयं स्तुवान आगमत्तं स्मोत प्रति हर्यत ।
बृहस्पते वशे कृथा अग्नीषोमा वि विध्यतम् ।। १० । ।

4.5
यां त्वा गन्धर्वो अखनद् वरुणाय मितभ्रजे । तु. शौ.सं. ४.४
तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ।।१।।
वृषणस्ते खनितारो वृषा त्वमस्योषधे ।
वृषासि वृष्ण्यावती वृषणे त्वा खनामसि ।२।
उदुषा उदु सूर्य उच्छुष्मा ओषधीनाम् ।
उदेजति प्रजापतिवृषा शुष्मेण वाजिना ।३।
ऊर्ध्वश्राणमिदं कृधि यथा स्म ते विरोहतो अभितप्तमिवानति।
ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ।।४।।
अपां रस ओषधीनामथो वनस्पतीनाम् ।
अथो सोमस्य भ्रातास्यार्श्यमसि वृष्ण्यम् ।।५।।
अश्वस्य ऋश्यस्य बस्तस्य पुरुषस्य च ।
य ऋषभस्य वाजस्तमस्मै देह्योषधे । । ६ ।।
सं वाजा ऋषभाणां सं शुष्मा ओषधीनाम् ।
सं पूषामिन्द्र वृष्ण्यमस्मै धेहि तनूबलम् ।।७ ।।
अद्याग्ने अद्य सवितरद्य देवि सरस्वति ।
अद्या मे ब्रह्मणस्पते धनुरिवा तानया पस: ।।८।।
ऊर्ध्वास्तिष्ठन्ति गिरय ऊर्ध्वा वाता उदीरते ।
ऊर्ध्वोयं मामको मयूख इवाधि भूम्याम् ।।९।।
उत्तिष्ठोग्र वि धूनुष्व वि तेघ्ना यन्तु नाड्यः ।
अतन्द्रो अश्वपा इव नावग्लायो ऽधि मुष्कयो: ।। १० ।।
(ढ्रति सप्तर्चोनामचतुर्थकाण्डे प्रथमोऽनुवाकः)

4.6
हिरण्यश्रृङ्गो वृषभो यः समुद्रादुदाचरत् । तु. शौ.सं. ४.५
तेना सहस्येना वयं नि जनान्त्स्वापयामसि ।१।
न भूमिं वातो ऽति वाति नाति तपति सूर्यः ।
जनांश्च सर्वान् स्वापय शुनश्चेन्द्रसखा चरन् ।।२ ।।
वह्येशया: प्रोष्ठेशया नारीर्यास्तल्पशीवरी: ।
स्त्रियो याः पुण्यगन्धास्ता: सर्वाः स्वापयामसि ।। ३ ।।
एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।
अङ्गान्यग्रभं सर्वा रात्रीणामतिशर्वरे ।।४।।
य आस्ते यश्च चरति यश्च तिष्ठन् विपश्यति ।
तेषां सं दध्मो अक्षाणि यथेदं हर्म्यं तथा ।। ५ ।।
स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।
स्वपन्तु सर्वे ज्ञातय: सर्वं नि ष्वापया जनम् ।। ६ ।।
स्वप्न स्वप्नाभिकरणेन सर्वं नि ष्वापया जनम् ।
ओत्सूर्यमन्यान् स्वापयाव्युषं चरतादहमिन्द्र इवारिष्टो अक्षितः ।।५७।।

4.7
अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यामास्यादुत । तु. शौ.सं. २.३३
यक्ष्मं शीर्षण्यं मस्तिष्काल्ललाटाद् वि वृहामसि ।। १ । ।
ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
यक्ष्मं दोषण्यमंसाभ्यामुरस्तो वि वृहामसि ।। २ ।।
क्लोम्नस्ते हृदयाभ्यो हलीक्ष्णात् पार्श्वाभ्याम् ।
यक्ष्मं मतस्नाभ्यां प्लीह्वो यक्नस्ते वि वृहामसि ।३।
आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादुत ।
यक्ष्मं पाण्योरङ्गुलिभ्यो नखेभ्यो वि वृहामसि ।।४।।
अस्थिभ्यस्ते मांसेभ्य: स्नावभ्यो धमनिभ्य: ।
यक्ष्मं पृष्टिभ्यो मज्जभ्यो नाभ्या वि वृहामसि ।।५।।
ऊरुभ्यां ते अष्ठीवद्भ्यां पार्णिभ्यां प्रपदाभ्याम् ।
यक्ष्मं भसद्यं श्रोणिभ्यां भंससी वि वृहामसि ।।६।।
अङ्गादङ्गाल्लोम्नोलोम्नो बद्धं पर्वणिपर्वणि ।
यक्ष्मं त्वचस्यन्ते वयं विष्वञ्चं वि वृहामसि ।।॥७ ।।
अङ्गादङ्गादहं तव परुष: परुषस्परि ।
कश्यपस्य विवृहेण यक्षमन्ते वि वृहामसि ।।८।।

4.8
अग्नी रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हरामः।।१।।
इन्द्रो रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः।
अपाघशंसं नुदता सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रतिहरामः।।२।।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हराम: ।। ३ ।।
वरुणो रक्षोहा तिग्मस्तिग्मशूङ्ग ऋषिरार्षेय: कवि: कवितम: ।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हरामः ।। ४ । ।
वायू रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेय: कविः कवितमः ।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हराम: ।। ५ ।
त्वष्टा रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः ।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हराम: ।।६।।
धाता रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः ।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हराम: ।। ७ ।।
सविता रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हराम:।।८।।
सूर्यो रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कवि: कवितमः ।
प्रतिहरणेनाघायते ऽघं प्रति हरामः ।। ९ ।।
चन्द्रमा रक्षोहा तिग्मस्तिग्मशूङ्ग ऋषिरार्षय: कवि: कवितम: ।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनघायते ऽघं प्रति हराम: ।। । १० । ।
बृहस्पती रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः ।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हराम: ।। ११ । ।
प्रजापती रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कविः कवितमः ।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हरामः ।। १२ ।।
परमेष्ठी रक्षोहा तिग्मस्तिग्मशृङ्ग ऋषिरार्षेयः कवि: कवितमः।
अपाघशंसं नुदतां सहतामरातिं प्रत्यक्
प्रतिहरणेनाघायते ऽघं प्रति हराम: ।।१३।।

4.9
संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः । तु. शौ.सं. ७.१०९
तस्मै त इन्द्रो हविषा विधेम वयं स्याम पतयो रयीणाम् ।।१।।
इदमुग्राय बभ्रवे यो ऽक्षेषु तनूवशी ।
कृतेन कलिं शिक्षाणि स नो मृड़ातीदृशे ।। २ ।।
घृतमग्ने अप्सराभ्यो वह त्वं पांशूनक्षेभ्यः सिकता अपश्च ।
यथाभगं हव्यदातिं जुषाणा मदन्तु देवा उभयानि हव्या ।।३।।
यो नो देवो धनमिदं दिदेश यो अक्षाणां ग्रहणं शेषण्णञ्च ।
स नोवतु हविरिदं जुषाणो गन्धर्वैः सधमादं मदेम ।।४।।
या अप्सरसः सधमादं मदन्त्यन्तरा हविर्धानं सूर्यं च ।
ता नो हस्तौ कृतेन सं सृजन्तु सपत्नं न: कितवं रन्धयन्तु।।५ ।।
यद् देवान्नाथितो हुवे ब्रह्मचर्यं यदूषिम ।
अक्षां यद् बभ्रूनालभे ते नो मृड़न्त्वीदृशे ।।६।।
आदिनवं प्रतिदीव्ने कृतेनास्माङ् अभि क्षर ।
वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ।।७।।

४-१ 4.10
भगस्त्वेतो नयतु हस्तगृह्य बृहस्पतिः पुर एता ते अस्तु । तु. शौ.सं. १४.१.२०
देवस्त्वा सविता सत्यधर्मोपसद्यां नमस्यां कृणोतु ।। १ ।।
यामश्विना मधुकशां देवा अग्रे अजनयन् ।
तया त्वा पत्यामोतां कृण्मो मधुमतीं वयम् ।। २ ।।
उत्तरा श्वश्रुवा भव ननान्दुरुपशिक्षया ।
यशस्त्वा पत्यां कृण्मो भवा देवृषु प्रिया ।।३।।
अद्भिरात्मानं तन्वं शुम्भमाना गृहान् प्रेहि महिषी भवासि ।
तत्र त्वादुर्गार्हपत्याय देवाः प्रजावती जरदष्टिर्यथास: ।।४ ।।
उदुत्तरमारोहन्ती व्यस्यन्ती पृतन्यतः ।
अभ्यष्टाः शत्रोर्मूर्धानं सहपुत्रा विराड् भव ।।५ ।।
श्वश्रूणां श्वशुराणां गृहाणाञ्च भगस्य च ।
वि राज पत्यां देवृषु सजातानां विराड् भव ।।६।।
यद् गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।
येनाक्षा अभ्यषिच्यन्त तेनाहमस्या मूर्धानमभि षिञ्चामि नार्याः ।।७।।
यद वचों गवि कल्याणे यद् वा सूयवसे तृणे ।
अभ्यञ्जनस्य यद् वर्चस्तेन मानज्मि वर्चसा ।। ८ ।।
(झति सप्तर्चोनामचतुर्थकाण्डे द्वितीयो ऽनुवाकः)

4.11
येनाचरदुशना काव्योग्रे विद्वान् क्रतूनामुत देवतानाम् ।
सहृदयेन हविषा जुहोमि सध्रीचीनं वो मनो ऽस्तूग्रम् ।॥१ ।।
महत् सत्यं महद्धविरुशना काव्यो महान् ।
देवानामुग्राणां सतां हृदयानि सहाकरम् ।।२।।
अहं सत्येन सयुजा चराम्यहं देवीमनुमतिं प्र वेद ।
इन्द्रो देवानां हृदयं वो अस्तु सध्रीचीनं वो मनो ऽस्तूग्रम्।। ३ ।।
त्वष्टा वायुः कश्यप इन्द्रमग्निर्मनसान्वायन् हविषस्पदेन ।
अविन्दञ्छक्रं रजसि प्रविष्टं सध्रीचीनं वो मनो ऽस्तूग्रम् ।।४।।
येनेमे द्यावापृथिवी विचष्कभुर्येनाभवदन्तरिक्षं स्वर्यत् ।
मनसा विद्वान् हविषा जुहोमि सध्रीचीनं वो मनो ऽस्तूग्रम्।।५।।
द्यावापृथिवी हृदयं ससूवतुर्येनेदं त्वष्टा विकृणोति धीर: ।
तस्योशना क्रतुभिः संविदानश्चित्तं विवेद मनसि प्रविष्टम् ।।६।।
चित्तं चैतदाकृतिश्च येन देवा विषेहिरे ।
एतत् सत्यस्य श्रद्धव्य ऋषयः सप्त जुह्वति ।।७।।

४- १२ 4.12
त्वया मन्यो सरथमारुजन्तो हर्षमाणासो हृषिता मरुत्वन् । तु. शौ.सं. ४.३१
तीक्षणेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ।। १ ।।
अग्निरिव मन्यो तरसा सहस्व सेनानीर्नः सहुरे हूत एधि ।
जित्वाय शत्रून् वि भजासि वेद ओजो मिमानो वि मृधो नुदस्व ।२ ।।
सहस्व मन्यो अभिमातिमस्मे रुजन् मृणन् प्रमृणन्नेहि शत्रून् ।
उग्रं ते शर्धो नन्वा रुरुन्ध्र वशी वशं नयासा एकज त्वम्।।३।।
एको बहूनामसि मन्यवीड़िता पशून्पशून् युद्धाय सं शिशाधि।
अकृत्तरुक् त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे।। ४ ।।
विजेषकृदिन्द्र इवानवब्रवो ऽस्माकं मन्यो अधिपा भवेह । वव्रवो
प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूविथ ।।५।।
आभूत्या सहसा वज्र सायक सही बिभर्ष्यभिभूत उत्तरम् ।
क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ।।६।।
संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तं वरुणश्च मन्यो ।
भियो दधाना हृदयेषु शत्रवः पराजिता यन्तु परमां परावतम् ।।७।।

4.13
शं नो देवी पृश्निपर्ण्यशं निर्ऋतये करत्। तु. शौ.सं. २.२५
उग्रा हि कण्वजम्भनी तां त्वाहार्षं सहस्वतीम ।१।
सदान्वाघ्नी प्रथमा पृश्निपर्ण्यजायत ।
तया कण्वस्याहं शिरश्छिनद्मि शकुनेरिव ।२।
ऊर्जभृतं प्राणभृतं प्रजानामुत तर्पणीम् ।
सर्वास्ताः पृश्निपर्णीत: कण्वामा अनीनशत् ।। ३ ।।
समाकृत्यैना निरज तीक्ष्णशृङ्ग इव ऋषभः ।
अरायं कण्वं पाप्मानं पृश्निपर्णि सहस्वति ।। ४ । ।
त्वमग्रे पृश्निपर्ण्यग्निरिव प्रदहन्निहि कण्वा जीवितयोपनी ।
गिरिमेना आ वेशय तमसि यत्र गच्छांस्तत् पापीरपि पादय।५।।
अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।
गर्भादं कण्वं नाशय पृश्निपर्णि सहस्वति ।।६।।
या नो गा या नो गृहां या नः स्फातिमुपाहरान्।
ता उग्रे पृश्निपर्णि त्वं कण्वामा नीनश इत: ।।७।।

4.14
यस्मिन्नाशीः प्रतिहित इदं तच्छल्यो वेणुर्वेष्टनं तेजनं च ।
सूनुर्जनित्रीं जनयेहि शूण्वन्नयं त आत्मेत इत प्रहितः ।१।
अस्थि भित्त्वा यदि मज्ज्ञः प्रपाथ यदि वासि रत: पुरुषन्तिकामे ।
उर्वी गव्यूतिमभ्येह्यर्वाङ् पश्चा रश्मीनुद्यतः सूर्यस्य ।।२।।
मातरिश्वा पवमानस्त्वायं सूर्य आाभ्राजन् तन्वा दृशे ऽक: ।
अस्नो गन्धात् पुवसः प्र च्यवस्व वि मुच्यस्व योन्या या ते अत्र।। ३ ।।
प्र च्यवस्वातो अध्येह्यर्वाङ अर्थास्ते विद्म बहुधा बहिर्थे ।
इमा: स्वसारो अयमित् पिता त इयं ते मातेममेहि बन्धुम् ।।॥४ ।।
अमित्रैरस्ता यदि वासि मित्रैर्देवैर्वा देवि प्रहितावसृष्टा ।
विद्वान् शृङ्गं पुरुषे जहाथ वाणः शृङ्गः शिखरः सं सतामितः।।५।।
सिखासु सक्तो यदि वास्यग्रे यदि वासि सक्तः पुरुषस्य मांसे ।
दधिर्न पाशाङ् अपवृह्य मुक्त्वाक्षिशल्यः कृणुतामायनाय ।। ६ ।।
हस्ताद्धस्तं समयो भ्रियमाणो बहिष्ट्वा पश्यां वीरुधां बलेन ।
अद्भिः प्रणिक्तः शयासा अभ्यक्तः कोशे जामीनां निहितो अहिंसः ।। ७।।
षष्टिरात्रे षष्टिकस्य शल्यस्य परिधिष्कृतः ।
इतस्तमद्य ते वयमास्थानाच्च्यावयामसि ।। ८ । ।

4.15
सं मज्जा मज्ज्ञा भवतु समु ते पुरुषा परुः । तु. शौ.सं. ४.१२
सं ते राष्ट्रस्य विस्रस्तं सं स्नाव समु पर्व ते ।१।
मज्जा मज्ज्ञा सं धीयतामस्थ्नास्थ्यपि रोहतु ।
स्नाव ते सं दध्मः स्नाव्ना चर्मणा चर्म रोहतु ।।२।।
लोम लोम्ना सं धीयतां त्वचा सं कल्पया त्वचम्।
असृक्ते अस्ना रोहतु मांसं मांसेन रोहतु ।३।
रोहिणी संरोहिण्यस्थ्न: शीर्णस्य रोहिणी ।
रोहिण्यामह्नि जातासि रोहिण्यस्योषधे ।।४।।
यदि शीर्णं यदि द्युत्तमस्ति पेष्ट्रं त आत्मनः ।
धाता तत् सर्वं कल्पयात् सं दधत् परुषा परुः ।।५।।
यदि वज्रो विसृष्टस्त्वार काटात् पतित्वा यदि वा विरिष्टम्।
वृक्षाद् वा यदवसद्दशशीर्ष ऋभू रथस्येव सं दधामि ते परुः ।।६।।
उत्तिष्ठ प्रेहि समिधाय ते परुः सं ते धाता दधातु तन्वो विरिष्टम् ।
रथः सुचक्रः सुपविर्यथैति सुखः सुनाभिः प्रति तिष्ठ एवम् ।।७ ।।
(ड्रति सप्तर्चोनाम चतुर्थकाण्डे तृतीयो ऽनुवाकः)

4.16
उद्यन्नादित्यो घुणान् हन्तु सूर्यो निम्रोचन्रश्मिभिर्हन्तु ।
तावन्नो अधि संहितम् ।।१।।
अप्सरा मूलमखनद् गन्धर्वः पर्यब्रवीत् ।
तेन वो वृत्रहां सूर्यो नि जम्भ्यां अमुचद् घुणान् ।२।
घुणान् हन्त्वायती घुणान् हन्तु परायती ।
घुणानवघ्नती हन्तु घुणान् पिनष्टु पिंषती ॥३ ।।
घुणा न किञ्चनेह वः प्रतिबुद्धा अभूतन ।
प्रदोषं तस्करा इव ॥४ ।।
घुणानामद्यतो ज्येष्ठः कनिष्ठ उत मध्यमः ।
हता वः सर्वे ज्ञातयो हता माता हतः पिता ।।५ ।।
यथा फेन उदकेन ददृशानो निजस्यति ।
एवा वयं घुणान् सर्वान् साकं वाचा नि जासयामसि ।।६।।
नि गावो गोष्ठे असदन्नि मृगासो अविक्षत ।
नित्यमादित्य रश्मिभिर्घुणान् सर्वानजीजसः ।।७।।
उद्यन् रश्मीना तनुष्व वाणवद्भिः समर्पय ।
घुणांस्त्वं सर्वानादित्य घोरया तन्वा तप ।।८।।

4.17
य आनतः पराणतो दारोरिवापतक्षणम् । ।
शर्कोटो नाम वा असि कुतस्त्वं विषवानसः ।। १ ।।
य उभयेन प्रहरसि पुच्छेन चास्येन च ।।
आस्ये च न ते विषं कुतस्ते पुच्छधावसत् । ।२ । ।
विदुत्सुरस्य दानवस्य तस्य त्वं नपादसि ।
तस्याग्रेरसं विषं ततस्तुवारसं विषम् ।। ३ ।।
अरसारसं त्वाकरं वध्रे वध्रिं त्वाकरम् ।
वध्रिं त्वा चक्रुर्देवा अमृतास आसुरम् ।।४।।
इयत्तकः कुसुम्भकस्तकं भिनद्मि शम्यया । तु. ऋ.१.१९१.११
ततो विषं परासिचमपाचीमनु संवतम् ।।५।।
इमाः पश्चा मयूर्यः सप्त स्वसारो अग्रुवः।
तास्ते विषं वि जह्रिर उदकं कुम्भिनीरिव कूपात् कुलजनीरिव।।६।।
नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासामग्रभं नाम वीतापेतारसं विषम् ।।७।।

4.18
व्रातमहमपक्ष्णानां व्रातं मुण्डीयसामुत । तुल. शौ.सं. १९.३४
व्रातं मुण्डिव्लानामहं प्र ध्वाङ्क्षाङ् इव चातये ।।१ ।।
प्रवक्ता प्रमादैता निद्रातन्द्रीस्तृतीयकः ।
तान् जङ्गिड़स्याग्निना सर्वान् प्रति दहामसि ।२।
अशुद्धान्नः परि पाहि रक्षोभ्य उत जङ्गिड ।
यातुधानात् किमीदिनस्तस्मान्नः पाहि जङ्गिड़ ।। ३ ।।
अप्सराभ्यो गन्धर्वेभ्यो देवेभ्यो असुरेभ्यः ।
अथो सर्वस्मात् पाप्मनस्तस्मान्नः पाहि जङ्गिड़ ।। ४ ।
नि ते शत्रून् दहति देवो अग्निर्निररातिममतिं यातुधानान् ।
आ याहि शत्रून् दुरितापघ्नञ्छतान्नो यक्ष्मेभ्यः परि पाहि जङ्गिड़।५ ।।
अकर्माग्निमधिपामस्य देवमन्वारप्सि सहसा दैव्येन ।
सहस्वान्नः सहसा पातु जङ्गिड़ो यथा जयेम पृतनाज्येषु ।।६।।
सत्यो अग्नि: सत्या आप: सत्येमे द्यावापृथिवी विश्वसंभुवौ।
सत्यमिदं ब्रह्मास्माकं कृतमस्तु यमबध्नादुशनेन्द्राय तं ते बध्नामि जङ्गिड़म् ।।७।।

४-१९ 4.19
इयत्तिका शकुन्तिका सका जघास ते विषम् । तु. ऋ.१.१९१.११
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ।।१।।
सूर्ये विषमा सृजामि दृतिं सुरावतो गृहे ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ।।२ ।।
त्रिषप्ता विस्फुलिङ्गका विषस्य पुष्पमक्षन् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ।।३।।
आल्वन्तरुटं विषं विदारी करम्भो अरसं विषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ।।४।।
वारुग्रमरसं विषमग्निश्व विषचर्षणिम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ।।५।।
शकुन्तिका मे अब्रवीद विषपुष्पं धयन्तिका ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ।।६।।
न रोपयति न मादयति न विषं हन्ति पुरुषम् ।
माहं मृषि मो असौ पुरुषो मृत ।
स च न मरति मा वयं मराम ।
आरे अस्य योजनं हरिष्ठा मधु त्वा मधुला करत् ।।७।।
नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासामग्रभं नाम वीतापेतारसं विषम् ।। ८ ।।

४-२० 4.20
मधुमती पत्ये अस्मि जाराय मधुमत्तरा ।
अथो मधव्यं मे भंसो मधु निपदने अहम् ।।१।।
मधुना मा सं सृजामि मासरेण सुरा इव।
वाङ्म इयं मधुना संसृष्टाक्षौ मे मधुसंदृशी ।२।
मधु द्यौर्मधु पृथिवी मध्विन्द्रो मधु सूर्यः ।
स्त्रियो या जज्ञिरे मधु ताभ्योहं मधुमत्तरा ।।३।।
मधुमतीरोषधय आपो मधुमतीरुत । ।
गावो या जज्ञिरे मधु ताभ्योहं मधुमत्तरा ।।४।।
मधोर्जातो मधुघो वीरुधां बलवत्तमः ।
तेनाहं सर्वस्मै पुंसे कृण्वे निकरण हृदि।५।।
यथाश्व बन्धनेष्ठो वड़वामभिधावति ।
एवा त्वमुग्र ओषधेमुं कनिक्रदतमा नय।६।
अङ्गो नु मोदिव श्वसो अङ्गो नु मोदिव स्तनः ।
अन्या विवित्स मा नो अन्याः परा जिघांसन् ।
मामनु प्र ते मनश्छाया यन्तुमिवान्वयत् ।।७।।
(इति सप्तर्चोनामचतुर्थकाण्डे चतुर्थो ऽनुवाकः)

4.21
खनन्ति त्वा तैमाता दासा अरसबाहवः ।
दास्यसि प्रक्रीरस्युत्खातमरसं विषम् ।। १ ।।
अदन्ति त्वा कक्कटासः कुरुङ्गा अधि सानुषु ।
पापी जग्धप्रसूरस्यभ्रिखाते न रुरुपः ॥।२ ।।
अव ज्यामिव धन्वनः शुष्मं तिरामि ते विष ।
प्र रोपीरस्य पातय सूर्यः पूर्वा इवोषसः ।। ३ । ।
सिन्धुः पश्चात् परिहितः सूर्यस्योदयनं पुरः ।
ततो यदन्तरा वनं तत् सर्वं विषदूषणम् ।।४।।
मधु त्वा मधुकृत् कृणोतु पितुं त्वा पितुकृत् कृणोतु ।
उतो निषद्य पातवे अथो ऊर्ध्वाय तिष्ठते ।। ५ ।।
जघास त्वा लोमकर्णस्तन्यासपरुरुष्णियाम्।
तद्भैमीश्चक्रिरे स्रजः सर्वं महिषदो विषम् ।। ६ ।।
उर्व्या उरुक्षितस्तुराया आतुरस्य च ।
भूम्या हि जग्रभं नाम विषं वारयतामिति विषं दूषयतादिति ।।७। ।

4.22
अहं वा इन्द्रमातरमिन्द्रीजामिन्द्रभ्रातरम् ।
इन्द्राधिवक्त्रां वीरुधमाहार्षं विषदूषणीम् ।। १ ।।
यत् किञ्च पद्वच्छफवद् यत् काण्डि यच्च पुष्पवत् ।
यदेजति प्रजापतिः सर्वं तद्विषदूषणम् ।।२ । ।
सिन्धुः पश्चाद्धरुणः सूर्यस्योदयनं पुरः ।
ततो यदन्तरा विषं तद् वाचा दूषयामसि ।३।
यावत् सूर्यो वितपति यावच्चाभि विपश्यति ।
तावद् विषस्य दूषणं वचो निर्मन्त्रयामहे ।।४।।
जिह्वा मे मधुसंस्रावा जिह्वा मे मदुवादिनी ।
जिह्वे वर्चस्वती भव माप ते पुरुषो रिषत् ।।५।।
हा है कल्याणि सुभगे पृश्निपर्ण्यनातुरे ।
इमं मे अद्य पूरुषं दीर्घायुत्वायोन्नय ।। ६ ।।
याभ्यो वर्षन्ति वृष्टयो याभिर्जीवन्त्यघ्न्याः ।
ता मे विषस्य दूषणीः सविता व्यकाशयत् ।।७ ।।

4.23
प्रजापतिष्टवा बध्नात् प्रथममस्तृतं वीर्याय कम्। तुल. शौ.सं. १९.४६
तं ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु।। १ ।।
ऊर्ध्वस्तिष्ठ रक्षन्नप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।
इन्द्र इव दस्यूनव धूनुष्व पृतन्यत: सर्वाञ्छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ।।२।।
शतं च नः प्रहरन्तो ऽभिघ्नन्तो न तस्तिरे ।
तस्मिन्निन्द्रः पर्यधत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ।। ३ ।।
इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।
पुरस्त्वा देवाः प्र णयन्तु सर्वे ऽस्तृतस्त्वाभि रक्षतु ।।४।।
अस्मिन्मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्नस्तृते ।
पृतन्यादधरः सोऽस्त्वस्तृतस्त्वाभि रक्षतु ।।५।।
घृतादुलप्तो मधुमान् पयस्वान् सहस्रं प्राणः शतयोनिर्वयोधाः ।
शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ।।६।।
यथा त्वमुत्तरो असो असपत्नः सपत्नहा।
सजातानामसो वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ।।७।।

4.24
अपश्च रपश्चोष्मा च बाष्पश्च ।
शोकश्चाभीशोकश्च तृतीयेकश्च परेपरश्च ते तक्मान इतो नश्यत ।१।
वेद वै ते तक्मन्नामाग्निष्टं नामासि ।
तं त्वेतोप नयाम: शनि तक्मा ।२।
वृत्रस्य हरोसि नभसो नपात् ।
द्यौश्चास्मत् पृथिवी च तक्मानं नाशयतामितः ।॥३ ।।
पञ्चप्सिनिर्नाम ते माता स उ एकप्सिनिरुच्यसे ।
तस्याहं वेद ते नाम स तक्मन् निरतो द्रव ।।४।।
औदुम्बलश्च नामासि प्रियातिथिश्च ।
तं त्वेतो नाशयामसि ब्रह्मणा वीर्यावता । ५ ।
यो ऽसि जल्पश्च लपंश्चावां च तपश्च ।
तृतीयेकश्च मौञ्जिगलश्च ते तक्मान इतो नश्यत ।६।
विकिलीत विलोहित विकाशक्रंदरज्जन ।
गिरिं गच्छ धूमकेतो हृषे नमांसि सन्तु ते ।।७।।
बृहत् त्वमग्ने रक्षो अधमं जहि मध्यमं न्युत्तमं शृणीहि ।
शं नो अग्निर्ज्योतिरनीको अस्तु शं द्यावापृथिवी अनेहसा।।८।।
मातेव पितेवाभि रक्षतैनं मुञ्चतैनं पर्यंहसः ।॥९ ।।

4.25
वाताज्जातो अन्तरिक्षाद् विद्युतो ज्योतिषस्परि । तु. शौ.सं. ४.१०
स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ।। १ ।।
हिरण्यानामेकोसि सोमादधि जज्ञिषे ।
रथेसि दार्शत इषुधौ रोचनस्त्वम् ।। २ ।।
यो अग्रतो रोचनावान् समुद्रादधि जज्ञिषे ।
शङ्खेन हत्वा रक्षांस्यत्रिणो वि षहामहे ।३।
ये अत्रिणो यातुधाना रक्षसो ये किमीदिन: ।
सर्वां छङ्ख त्वया वयं विषूचो वि षहामहे ।।४।।
शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः ।
शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ।।५।।
दिवि जातः समुद्रतः सिन्धुतस्पर्याभृतः ।
स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः।।६।।
देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः।
तं ते बध्नाम्यायुषे वर्चस ओजसे च बलाय च कार्शनस्त्वाभि रक्षतु ।।७।।
(इति सप्तर्चोनामचतुर्थकाण्डे पञ्चमो ऽनुवाकः)

4.26
कन्या वारवायती सोममपि श्रुताविदत् । तुल. ऋ. ८.९१
अस्तं भरन्त्यब्रवीदिन्द्राय सुनोमि त्वा शक्राय सुनोमि त्वा ।।१ ।। ।
असौ य एष वीरको गृहंगृहं विचाकशत् ।
इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम्।।२ । ।
कुविच्छकत् कुवित् करत् कुविन्नो वस्यसस्करत् ।
कुवित् पतिद्वितो यतीरिन्द्रेण सङ्गमामहै ।॥३ ।।
आ चन त्वा चिकित्सामोधि चन त्वा नेमसि ।
शनैरिव शनकैरिवेन्द्रायेन्द्रो परि स्रव ।।४।।
इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
शिरस्ततस्योर्वरामादिदं म उपोदरे ॥५ ।।
असौ च या न उर्वरादिमां तन्वं मम ।
अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ।।६।।
खे रथस्य खे ऽनस: खे युगस्य शतक्रतो ।
अपालामिन्द्र त्रिष्पूत्व्यकृणो: सूर्यत्वचम् ।।७।।

4.27
दिवस्पृष्ठे मधुपृचः सुपर्णाः पञ्चाशत्ते भुवनस्य गोपाः ।
आनुजावरमनुरक्षन्त उग्रा येषामिन्द्रं वीर्यायैरयन्त।१।
पुरोहितः परमेष्ठी स्वराड् ज्यायाभीवर्धमस्मा अकृणोद् बृहस्पतिः।
तेन सपत्नानधरान् कृणुष्व क्षेमे पशून् बहुलान् वर्धयित्वा जैत्रायोद्यातु रथवाहनं ते ।२।
गोभाजमंसं तव ये समाना: सर्वे समग्रा दधृगा भरन्त ।
अभि वर्धस्व भ्रातृव्यानभि ये त्वा पृतन्यत:।।३।।
नि पिण्ढि सर्वान् धूर्वतो ऽभीवर्धो यथाससि ।
अभीवर्धमभीभवमभीषेणं महागणम् ।
विशस्त्वा सर्वा आयन्त्वापो दिव्याः पयस्वतीः ।। ४ । ।
अभि वर्धस्व प्रजया वावृधानो ऽभ्यनीकैः पशुभिर्भवाति ॥
ब्रह्म राजन्यैर्विश्वैर्वावृधानः शूद्रैरतीहि सभया पृतन्यतः ।। ५ ।।
वर्धस्व क्षेत्रैः प्रथस्व प्रजया वर्धस्व वीरैः पशुभिर्बहुर्भव ।
श्रिया शुक्लैर्यतमस्त्वा पृतन्यादाप्तस्तुभ्यं स बलिहृत्याय तिष्ठतु ।।६।

4.28
इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे ।
रथं न दुर्गाद् वसव: सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन।१।
त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु संभुव: ।
रथं न दुर्गाद् वसव: सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन।२।
अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ।। ३ ।।
नराशंसं वाजिनं वाजयन्तं क्षयद्वीरं पूषणं सुम्नैरीमहे ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ।।४।।
बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ।। ५ ।।
इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाढ़ ऋषिरह्वदूतये । निवाढ
रथं न दुर्गाद् वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ।।६।।
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता ब्रायतामप्रयुच्छन् ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ।।७।।

4.29
अप नः शोशुचदघम् । अग्ने शुशुग्ध्या रयिम् ।।१ ।। तु. शौ.सं. ४.३३
अप नः शोशुचदघम् ।
प्र यद् भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।। ३ ।।
अप नः शोशुचदघम् ।
प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।।४।।
अप नः शोशुचदघम् ।
प्र यदग्ने: सहस्वतो विश्वतो यन्ति भानवः ।। ५ । ।
अप नः शोशुचदघम् ।
त्वं हि विश्वतोमुख विश्वत: परिभूरसि ।।६।।
अप नः शोशुचदघम् ।
द्विषो नो विश्वतोमुखाति नावेव पारय । ७ ।

४ – ३० 4.30
देवाः शरणकृतः शरणा मे भवत प्राच्या दिशो ऽग्निना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत । । १ । ।
देवाः शरणकृतः शरणा मे भवत दक्षिणाया दिश इन्द्रेण राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत । । २ । ।
देवाः शरणकृतः शरणा मे भवत प्रतीच्या दिशो वरुणेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत । । ३ । ।
देवाः शरणकृतः शरणा मे भवतोदीच्या दिशः सोमेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चास्मन्नादं परा द्विषन्तं शृणीत । । ४ । ।
देवाः शरणकृतः शरणा मे भवत ध्रुवाया दिशो विष्णुना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत । । ५ । ।
देवाः शरणकृतः शरणा मे भवतोर्ध्वाया दिशो बृहस्पतिना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत । । ६ । ।
देवाः शरणकृतः शरणा मे भवतोत्तमाया दिशः प्रजापतिना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत । ।७ । ।
देवाः शरणकृतः शरणा मे भवत परमाया दिशः परमेष्ठिना राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत । । ८ । ।
देवाः शरणकृतः शरणा मे भवत सर्वाभ्यो दिग्भ्य ईशानेन राज्ञाध्यक्षेण ।
यशा भूयासं यशसं मा कृणुत चारुमन्नादं परा द्विषन्तं शृणीत । । ९ । ।
(इति सप्तर्चोनामचतुर्थकाण्डे षष्ठो ऽनुवाकः)

४ – ३१ 4.31
प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना । तु. शौ.सं. ३.१६
प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम । । १ । ।
प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
आध्रश्चिद् यं मन्यमानस्तुरश्चिद् राजा चिद् यं भगं भक्षीत्याह ।।२।।
भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददत्र:।
भग प्र णो जनय गोभिरश्चैर्भग प्र नृभिर्नृवन्तः स्याम ।। ३ ।।
उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
उतोदिते मघवन् सूर्ये वयं देवानां सुमतौ स्याम ।।४।।
भग एव भगवाङ् अस्तु देवास्तेन वयं भगवन्तः स्याम ।
तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह।।५।।
समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
अर्वाचीनं वसुविर्द भगं नो रथमिवाश्वा वाजिन आ वहन्तु।।६।।
अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ।।७।।

4.32
यस्ते मन्यो ऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् । तुल. शौ.सं. ४.३२
साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहीयसा।१ । ।
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
मन्युर्विश ईड़ते मानुषीर्या: पाहि नो मन्यो तपसा सजोषा:।२।
अभीहि मन्यो तपसस्तवीयान् तपसा युजा वि जहि शत्रून् ।
अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं न:।।३।।
त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभीमातिषाहः ।
विश्वचर्षणिः सहुरिः सहीयाङ् अस्मास्वोजः पृतनासु धेहि ।।४।।
अभाग: सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेत: ।
तं त्वा मन्यो अक्रतुर्जिहीड़ाहं स्वा तनूर्बलदावा न एहि।५।।
अयं ते अस्म्युप न एह्यर्वाङ् प्रतीचीनः सहुरे विश्वदावन् ।
मन्यो वज्रिन्नुप न आ ववृत्स्व हनाव दस्यूँरुत बोध्यापे ।।६।।
अभि प्रेहि दक्षिणतो भवा नो अधा वृत्राणि जङ्गनाव भूरि ।
जुहोमि ते धरुणो मध्वो अग्रमुभा उपांशु प्रथमा पिबेव ।।७।।

4.33
अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते । वहुधा तु. शौ.सं. ४.२३
विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः।। १ ।।
सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।
हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ।२ ।।
यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन्।
एवा देवेभ्यः सुमतिं ह्यावह स नो मुञ्चत्वंहसः ।। ३ ।।
यामन्यामन्नुपयुक्तं वहिष्ठं कर्मन् कर्मन्नाभगम् ।
अग्निमीडे रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ।। ४ । ।
येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।
येनाग्निना पणीनिन्द्रो जिगाय स नो मुञ्चत्वंहसः ।।५ ।।
येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।
येनेदं स्वराभरन् स नो मुञ्चत्वंहसः ।।६ ।।
यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यञ्च केवलम् ।
स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ।।७।।

4.34
वायो: सवितुर्विदथानि मन्महे यावात्मन्वद्विदथो यौ च रक्षथ: । तु. शौ.सं. ४.२५
यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ।। १ ।।
ययो: संख्याता वरिमाणि पार्थिवा याभ्यां रजो गुपितमन्तरिक्षम् ।
ययो: प्रयां नानु कश्चनानशे तौ नो मुञ्चतमंहसः ।।२ ।।
तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो ।
युवं वायुः सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ।।३।।
प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयेथाम् ।
अर्वाग्वामस्य प्रवता नि यच्छथस्तौ नो मुञ्चतमंहसः ।।४।।
रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् ।
अयक्ष्मतां महो अस्मासु धत्तं तौ नो मुञ्चतमंहसः ।।५।।
अपेतो वायुः सविता च दुष्कृतमप यक्ष्मं शिमिदां सेधतं परः॥
सं ह्यूर्जा: सृजथः सं बलेन तौ नो मुञ्चतमंहसः ।।६ ।।
उप श्रेष्ठा न आशिषो देवयोर्धामन्नस्थिरन् ।
स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चतमंहसः ।।॥७।।

4.35
मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाता अवन्तु। तु. शौ.सं. ४.२७
आशूनिव सुयमां ह्व ऊतये ते नो मुञ्चन्त्वंहसः ।। १ ।।
उत्समक्षितं व्यचन्ति ये सदा ये वा सिञ्चन्तु रसमोषधीषु ।
पुरो दधे मरुतः पृश्निमातृंस्ते नो मुञ्चन्त्वंहसः ।२ ।।
पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ ।
शग्मा भवन्तु मरुतः स्योनास्ते नो मुञ्चन्त्वंहसः।। ३ ।।
अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति ।
ये ऽद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ।।४।।
ये कीलालैस्तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।
य ईशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ।। ५ ।।
यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार ।
यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ।। ६ ।। युय
तिग्ममनीकं विदितं सहस्वन्मारुतं शर्धः पृतनासूग्रम् ।
स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ।।७।।
(ड़ति सप्तर्चोनामचतुर्थकाण्डे सप्तमो ऽनुवाकः)

4.36
मन्वे वां द्यावापृथिवी सुभोजसौ ये अप्रथेथाममिता योजनानि । तु. शौ.सं. ४.२६
प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः । ।१ ।।
प्रतिष्ठे हि बभूवथुर्वसूनां प्रवृद्धे देवी सुभगे उरूची ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः।। २ ।।
ये स्रोत्या बिभृथो ये मनुष्यां ये अमृतं बिभृथो ये हवींषि ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः । । ३ । ।
ये उस्त्रिया बिभृथो ये वनस्पतीनं ययोर्वाँ विश्वा भुवनान्यन्त:।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ।।४।।
ये कीलालैस्तर्पयथो ये घृतेन याभ्यां नर्ते किञ्चन शक्नुवन्ति।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ।। ५ ।।
असन्तापे सुतपसा हुवे वामुर्वी गभीरे कविभिर्नमस्ये ।
द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः।। ६ ।।
यन्मेदमभिशोचति येन वा येन वा कृतं पौरुषेयं न दैव्यम् ।
स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ।।७।।

4.37
भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वाँ विश्वं यदिदं वितिष्ठते । तु. शौ.सं. ४.२८
यावीशाते अस्य द्विपदो यश्चतुष्पदस्तौ नो मुञ्चतमंहस:।।१।।
ययोरभ्यध्व उत यद् दूरे चिद् यौ विदिताविषुभृतामसिष्ठौ ।
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहस: ।२।
ययोर्वधान्नापपद्यते किञ्चनान्तर्देवेषूत मानुषेषु ।
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ।। ३ ।।
यावारेभाते बहु साकमुग्रौ प्र चेदस्राष्ट्रमभिभां जनेषु । वहु
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ।। ४ ।।
सहस्राक्षौ वृत्रहणा हुवे वां दूरेहेती स्वनेमी उग्रौ ।
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ।।५।।
यः कृत्याकृद्यातुधानो महालो नि तस्मिन् हतमधि वज्रमुग्रौ ।
भवाशर्वौ भवतं मे स्योनौ तौ नो मुञ्चतमंहसः ।।६।।
अधि मे ब्रूतं पृतनासूग्रौ सं वज़ेण सृजतं यत् किमीदि ।
स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ।।७।।

4.38
मन्वे वां मित्रावरुणावृतावृधौ सत्यौजसौ द्रुह्वाणं यौ नुदेथे । तु. शौ.सं. ४.२९
यौ सत्यावानमवथो हवेषु तौ नो मुञ्चतमंहसः।। १ ।।
सत्यौजसौ द्रुह्वाणं यौ नुदेथे प्र सत्यावानमवथो हवेषु ।
यौ गच्छथो नृचक्षसा बभ्रुणा सुतं तौ नो मुञ्चतमंहसः।। २ ।।
यावङ्गिरसो ऽवथो यावगस्तिं मित्रावरुणा जमदग्निमत्रिम् ।
यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ।। ३ ।।
यौ भरद्वाजमवथो वध्र्यश्वं विश्वामित्रं वरुण मित्र कुत्सम् ।
यौ कक्षीवन्तमवथ: प्रोत कण्वं तौ नो मुञ्चतमंहसः ।।४।।
यौ श्यावाक्षमवथो यौ गविष्ठिरं मित्रावरुणा पुरुमीढ़मत्रिम्।
यौ विमदमवथः सप्तवध्रिं तौ नो मुञ्चतमंहसः ।।५।।
यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणा उशनं काव्यं यौ।
यौ मुद्गलमवथो गोतमं च तौ नो मुञ्चतमंहसः।। ६ ।।
ययो रथः सत्यवर्त्मर्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।
स्तौमि मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ।।७।।

4.39
इन्द्रस्य मन्वे शश्वद्यस्य मन्विरे वृत्रघ्न स्तोमा उप मेममागुः । तु. शौ.सं. ४.२४
यो दाशुष: सुकृतो हवमेता स नो मुञ्चत्वंहसः ।। १ ।।
यश्चर्षणिप्रो वृषभः स्वर्विद् यस्य ग्रावाणः प्रवदन्ति नृम्णे ।
यस्याध्वर: सप्तहोता मदच्युत् स नो मुञ्चत्वंहसः ।। २ ।।
य उग्राणामुग्रबाहुर्यजुर्यो दानवानां बलमाससाद ।
येन जिताः सिन्धवो येन गाव: स नो मुञ्चत्वंहसः ।। ३ । ।
यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे।
यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ।।४ ।।
यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुवन्तं गविष्टौ ।
यस्मिन्नर्क: शिश्रिये यस्मिन्नोजः स नो मुञ्चत्वंहसः ।।५।।
य उत्तमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबद्धम् ।
येनोद्यतो वज्रोभ्यायताहिं स नो मुञ्चत्वंहसः ।।६।।
यः संग्रामान्नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।
स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ।।७ ।।

4.40
शुनं वत्सानपा करोमि शुनं बध्नामि तन्त्याम् ।
आग्रयणं ब्रह्मणां हविस्तस्मिन् जागार कश्यपः ।। १ ।।
बाहुं वत्समुपनयन् पात्रे गां दुहन्नब्रवीत् ।
अरिष्टं ब्रह्मभ्यो हविः शिवं कृणोतु कश्यपः ।।२ । ।
त्रयस्तिष्ठन्ति सुकृतस्य लोके त्रयो ऽतीकाशास्त्रीणि शीर्षाण्येषाम् ।
त्रयस्तिष्ठन्ति परिगृह्य कुम्भीं यथा हविः कश्यप न व्यथातै ।३।
सत्यात् सम्भूतो वदति तण्डुलान् क्षीर आवपन् ।
ऋषिर्ब्रह्मभ्य आग्रयणं नि वेदयतु कश्यपः ।।४।।
ऋतुमुखे चन्द्रभाग: पात्र ओदनमुद्धरात् ।
प्राश्नन्तु ब्रह्माणो हविर्यथा वेदेन कश्यपः ।।५ ।।
ये भूतान्यसृजन्त ये भूतान्यकल्पयन् ।
सर्वस्य विद्वानध्वर्युः षण्णां भवतु कश्यप: ।। ६ ।।
शिवा आपो वत्सेभ्यः शिवा भवन्त्वोषधीः ।
वातो वत्सेभ्य: कश्यप: शिव: शिवं तपतु सूर्यः ।।७।।
(इति सप्तर्चोनामचतुर्थकाण्डेऽष्टमो ऽनुवाकः)
ड़्त्यथर्ववेदे पैप्पलादसंहितायां सप्तर्चोनाम चतुर्थ: काण्डः समाप्तः |