सामग्री पर जाएँ

पैप्पलादसंहिता/काण्डम् ०३

विकिस्रोतः तः

अथ षडृचोनाम तृतीयकाण्डः

३-१ 3.1
आ त्वा गन् राष्ट्र सह वर्चसोदिहि प्राङ् विशां पतिरेकराट् त्वं वि राज। तु. शौ.सं. ३.४
सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ।। १ ।।
त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्वातो वसूनि वि भजास्युग्रः ।।२।।
अच्छ त्वा यन्तु हविन: सजाता अग्निर्दूतो अजिरः सन्तुराति: ।
जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ।। ३ ।।
अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।
सजातानां मध्यमेष्ठेयमस्या: स्वे क्षेत्रे सवितेव वि राज ।।४।।
आा प्र द्रव परमस्या: परावत: विश्वे ते द्यावापृथिवी अभूताम् ।
तदयं राजा वरुणस्तथाह स त्वायमह्वत् स इहेदमेहि ।।५ ।।
इन्द्रेन्द्रं मनुष्यः परेहि सं यज्ञियास्त्वा वरुणेन संविदानः ।
स त्वायमह्नत् स्वे सधस्थे स देवान् यक्षत् स उ कल्पयाद्विशः ।।६ ।।
पथ्या रेवतीर्बहुधा विरूपाः सर्वाः सङ्गत्य वरिवस्ते अक्रन् ।
तास्त्वा सर्वा: संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ।।७।।
यदजिरेण हविषाव त्वा गमयामसि ।
अत्रात इन्द्रः केवलीर्विशो बलिहृतस्करत् ।।८ ।।

३-२ 3.2
हरिणस्य रघुष्यदो ऽधि शीर्षणि भेषजम् । तु. शौ.सं. ३.७
सुक्षेत्रियं विषाणयाद् विषूचीनमनीनशत् ।। १ ।।
अनु त्वा हरिणो वृषा पद्धिश्चतुर्भिरक्रमीत् ।
विषाणे वि ष्य गुष्पितं यत् किञ्च क्षेत्रियं हृदि ।।२।।
अदो यदवरोचते चतुष्पक्षमिव च्छदिः ।
तेन ते सर्वे क्षेत्रियमङ्गेभ्यो नाशयामसि ।।३।।
उदगातां भगवती विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ।।४।।
यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे ।
वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि ते ।।५ ।।
अपवासे नक्षत्राणामपवास उतोषसाम् ।
अपास्मत् सर्वमामयदप क्षेत्रियमक्रमीत् ।।६।।
आप इद् वा उ भेषजीरापो अमीवचातनी: ।
आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात् ।।७।।

3.3
पुमान् पुंस: परिजातो ऽश्वत्थ: खदिरादधि । तु. शौ.सं. ३.६
स हन्तु शत्रून् मामकान् यांश्चाहं द्वेष्मि ये च माम् ।।१ ।।
तानश्वत्थ निः शृणीहि शत्रून् वैबाध दोधतः ।
इन्द्रेण वृत्रघ्ना मेह्यग्निना वरुणेन च । ।२ । ।
यथाश्वत्थ निः शृणासि पूर्वान् जातानुतापरान् ।
एवा पृतन्यतस्त्वमभि तिष्ठ सहस्व च ।। ३ ।।
यथाश्वत्थ विभिनत्स्यन्तर्महत्यर्णवे ।
एवा मे शत्रोश्चित्तानि विष्वग् भिन्धि सहस्व च ।।४।।
य: सहमानश्चरसि सासहान इवर्षभ:
तेनाश्वत्थ त्वया वयं सपत्नान् सहिषीमहि ।५ ।।
सिनात्वेनान् निर्ऋतिर्मृत्योः पाशैरमोक्यैः ।
अश्वत्थ शत्रून् मामकान् यांश्चाहं द्वेष्मि ये च माम्।।६ ।।
अधराञ्च: प्र प्लवन्तां छिन्ना नौरिव बन्धनात् । वन्धनात्
न निर्बाधप्रणुत्तानां पुनरस्ति निवर्तनम् ।।७।।
प्रैणान्नुदामि मनसा प्र चित्तेन प्र ब्रह्मणा ।
प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामसि ।।८।।

3.4
यदद: संप्रयतीरहावनदता हते । तु. शौ.सं. ३.१३
तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धव: ।।१ ।
यत् प्रेषिता वरुणेनाच्छीभं समवल्गत ।
तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठनः ।।२ ।।
अपकामं स्यन्दमाना अवीवरत वो हिकम् ।
इन्द्रो वः शक्तिभिर्देवीस्तस्माद् वार्णाम वो हिकम् । ।३ । ।
एको वो देव उपातिष्ठत् स्यन्दमाना उपेत्य ।
उदानिषुर्महीरिति तस्मादुदकमुच्यध्वे ।।४।।
आपो देवीर्घृतमिदाप आहुरग्नीषोमौ बिभ्रत्याप इत्ता: ।
तीव्रो रसो मधुपृचामरङ्गम आ मा प्राणेन सह वर्चसा गन् ।।५।।
आदित् पश्याम्युत वा शृणोम्या मा घोषो गच्छति वाङ्मासाम्।
मेने भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदापः ।। ६ ।।

3.5
अग्निर्नो दूतः प्रत्येतु शत्रून् प्रतिदहन्नभिशस्तिमरातिम् । तु. शौ.सं. ३.१
स चित्तानि मोहयतु परेषां निहस्तांश्च कृणवज्जातवेदाः ।।१ ।।
अयमग्निरमूमुहद् यानि चित्तानि वो हृदि ।
वि वो धमात्योकस: प्र वो धमाति सर्वतः ।।२ । ।
इन्द्र चित्तानि मोहयार्वागाकूत्या अधि ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ।।३।।
व्येषामाकूतय इताथो चित्तानि मुह्यत ।
अथो यदद्यैषां हृदि तदेषां परि निर्जहि ।। ४ ।।
अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।
अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ।। ५ ।।
असौ या सेना मरुतः परेषामस्मानभ्यैत्योजसा स्पर्धमाना ।
तां गुहत तमसापव्रतेन यथैषामन्यो अन्यं न जानात् ।।६।।
(इति षडृचोनामतृतीयकाण्डे प्रथमोऽनुवाक:)

3.6
अग्निर्नो विद्वान् प्रत्येतु शत्रून् प्रतिदहन्नभिशस्तिमरातिम् । तु. शौ.सं. ३.२
स सेनां मोहयतु परेषां निहस्तांश्च कृणवज्जातवेदा: ।। १ ।।
यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृडत सहध्वम् ।
अमीमृडन् वसवो नाथितेभ्यो ऽग्निर्ह्येषां विद्वान् प्रत्येतु शत्रून् ।।२ ।।
अमित्रसेनां मघवन्नस्माञ्छत्रूयतामभि ।
युवं तानिन्द्र वृत्रहन्नग्निश्च दहतं प्रति ।। ३ ।।
प्रसूत इन्द्रः प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् ।
जहि प्रतीचो अनूचः पराचो विश्वं हि रिष्टं कृणुहि सत्यमेषाम् ।।४।।
सेनामोहनं कृण्विन्द्रामित्रेभ्यस्त्वम् ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ।। ५ ।।
इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
चक्षूंष्यग्निरा दत्तां पुनरेतु पराजिताम् ।।६।।

3.7
एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु । तु. शौ.सं. ३.९
तेषान्तु सर्वेषामिदमस्तु विष्कन्धदूषणम् ।।१।।
कर्षफस्य विषफस्य द्यौष्पिता पृथिवी माता ।
यताभिचक्र देवास्तथापि कृणुता पुन: ।२।
अश्लेष्माणो ऽधारयन् तथा तन् मनुना कृतम् ।
कृष्णोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ।३।
सूत्रे पिशङ्गे खृगलं यदाबध्नन्ति वेधसः ।
श्रवस्यं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ।।४।।
येना श्रवस्यो चरथ देवा इवासुरमायया ।
शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ।।५।।
दुष्ट्यै हि त्वा भन्त्स्यामि दूषयित्वा काबवम् ।
उदाशवो रथा इव शपथेभिः सरिष्यथ ।। ६ । ।

3.8
यमस्य लोकादध्या बभूविथ प्रमदा मर्तान् प्र युनक्षुधीरः । तु. शौ.सं. १९.५६
एकाकिना सरथं यासि विद्वान् स्वप्न मिमानो असुरस्य योनौ ।१।
बम्बस्त्वाग्रे विश्ववयावपश्यत् पुरा रात्र्या जनितोरेके अह्नि ।
ततः स्वप्नेदमध्या बभूविथ विष्वङ्वरूपमपगूहमानः ।।२ । ।
बृहन् ग्रावासुरेभ्यो ऽधि देवानुपाववर्त महिमानमिच्छन् ।
तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशास: स्वरानशानाः ।। ३ ।।
नैतां विदुः पितरो नोत देवा यैषा जल्पिश्चरत्यन्तरेदम्।
त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ।। ४ । ।
व्यस्य क्रूरमभि यन्तु दुष्कृतोस्वप्नेन सुकृतः पुण्यमायुः ।
स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोधि जज्ञिषे ।।५।।
विद्म ते सर्वाः परिजाः पुरस्ताद् विद्म स्वप्न यो अधिपा इहो ते ।
यशस्विनो नो यशसेह पाह्याराद् द्विषेभिरप याहि दूरम्।६।

3.9
अम्बाः सुमुखाः सृजत पद्वत् सृजत सत्यज्ञेयम् ।
सूजाम्यहं दूतानस्मै विषाय हन्तवे ।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् । ।१ । ।
इन्द्रमहमिह हुवे सोमपामुभयाविनमस्मै विषाय हन्तवे ।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ।।२ ।।
वरुणमहमिह हुव उग्रं राजन्यैः सहास्मै विषाय हन्तवे ।
वारुग्रमरस विषमाहेयमरसं विषं निर्विषम् ।३।
अदितिमहमिह हुवे सूरपुत्रां कनीनिकामस्मै विषाय हन्तवे।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ।।।।४ ।।
बृहस्पतिमहमिह हुवे यो देवानां पुरोहितो ऽस्मै विषाय हन्तवे।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ।।५।।
आणाश्चाणाश्चाण्डामर्का अस्मै विषाय हन्तवे ।
वारुग्रमरसं विषमाहेयमरसं विषं निर्विषम् ।।६ ।।
नवानां नवतीनां विषस्य रोपुषीणाम् ।
सर्वासामग्रभं नाम वीतापेतारसं विषम् ।।७ ।।

3.10
मृत्युरेको यम एकः शर्व एक: शरुर्भवः ।
ते नः कृण्वन्तु भेषजं देवसेनाभ्यस्परि ।। १ ।।
पुनर्नो यम: पितृभिर्ददातु पुनर्मित्रावरुणा वातो अग्निः ।
अघमारो अघशंस: पुनर्दात् पुनर्नो देवी निर्ऋतिर्ददातु ।२।
या देवैः प्रहितेषुः पतात्तपसे वा महसे वावसृष्टा ।
सोमस्त्चामस्मद् यावयतु विद्वान् पितरो वा देवहूता नृचक्षसः ।। ३ ।।
सहस्राक्षो अमर्त्यः पुरुरूप इहावतु ।
सख्ये त उग्र मा रिषं सहगुः सहपूरुषः । । ४ ।।
यस्ते मन्युः सहस्राक्ष विषेण परिषिच्यते ।
तेन त्वमस्मभ्यं मृड़ शिवो नः शम्भुरा चर ।। ५ ।।
मा ते मन्यौ सहस्राक्ष भामे भून्मामकं जगत् ।
यो नो द्वेष्टि तं गच्छ यं द्विष्मस्तं जहि ।।६।।
(इति षडृचोनामतृतीयकाण्डे द्वितीयोऽनुवाक:)

3.11
ये स्थास्यां प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषव:। तु. शौ.सं. ३.२६
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ।। १ ।।
ये स्थास्यां दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां व आप इषवः ।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ।।२ । ।
ये स्थास्यां प्रतीच्यां दिशि विराजो नाम देवास्तेषां वः काम इषवः ।
ते नो मृडत ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्य: स्वाहा ।। ३ ।।
ये स्थास्यामुदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः ।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा ।॥४ ।।
ये स्थास्यां ध्रुवायां दिशि विलिम्पा नाम देवास्तेषां वो ऽन्नमिषव:।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्य: स्वाहा ।।५ ।।
ये स्थास्यामूर्ध्वायां दिश्यविष्यन्तो नाम देवास्तेषां वो वर्षमिषवः ।
ते नो मृड़त ते नो ऽधि ब्रूत तेभ्यो नमस्तेभ्यः स्वाहा । । ६ । ।

३ - १२ 3.12
यो अप्स्वन्तर्यो वृत्रे अन्तर्यः पुरुषे यो अश्मनि । तु. शौ.सं. ३.२१
य आविवेशौषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ।।१ ।।
य: सोमे अन्तर्य उ गोष्वन्तर्य आविष्टो वयसि यो मृगेषु ।
य आविवेश द्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्।।२।।
य इन्द्रेण सरथं संबभूव वैश्वानर उत विश्वदाव्य: !
यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्।। ३ ।।
यो देवो विश्वाद् यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।
यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ।। ४ । ।
यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः
वर्चोधसे यशसे सूनुतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ।।५।।
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
वैश्वानरस्य ज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ।।६।।
दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।
ये दिक्ष्वन्तर्य उ वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् ॥७।।
बृहस्पतिं वरुणं मित्रमग्निं हिरण्यपाणिं सवितारमिन्द्रम् ।
विश्वान् देवानङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ।।८।।
शान्तो अग्निः क्रव्यादथो पुरुषरेषण: ।
अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ।।९।।

३- १३ 3.13
आायमगन् पर्णमणिर्बली बलेन प्रमृणं सपत्नान् । । तु. शौ.सं. ३.५
ओजो देवानां पय ओषधीनां मयि राष्ट्रं जिन्वत्वप्रयुच्छन्।१।
मयि राष्ट्रं पर्णमणे मयि धारया श्रियम् ।
अहं राष्ट्रस्याभीवर्गे युजा भूयासमुत्तरः ।।२ । ।
यं निदधुर्वनस्पतौ वाजं देवा: प्रियं निधिम् ।
तं म इन्द्र: सहायुषा मणिं दधातु भर्तवे ।३।
सोमस्य पर्णः सह उग्रमागन्निन्द्रेण दत्तो वरुणेन सख्या ।
तमहं बिभर्मि बहु रोचमानो दीर्घायुत्वाय शतशारदाय ।।४।।
आा मा रुक्षत् पर्णमणिर्मह्या अरिष्टतातये ।
यथाहमुत्तरोसानि मानुष्या अधि सम्पदः ।।५ । ।
पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च ।
पुनरग्नयो धिष्ण्यासो यथास्थाम कल्पयन्तामिहैव ।।६।।
ये तक्षाणो रथकारा: कर्मारा ये मनीषिणः ।
सर्वांस्तान् पर्ण रन्धयोपस्तिं कृणु मे जनम् ।।७।।
उपस्तिरस्तु वैश्य उत शूद्र उतार्यः ।
सर्वांस्तान् पर्ण रन्धयोपस्तिं कृणु मे जनम् ।।८ ।।

3.14
येन वेहद् बभूविथ नाशयामसि तद् वयम्। तु. शौ.सं. ३.२३
इदं तदन्यत्र त्वदप दूरे नि दध्मसि ।। १ ।।
आ ते गर्भो योनिमेतु पुमान् वाण इवेषुधिम् ।
आ वीरो ऽत्र जायतां पुत्रस्ते दशमास्यः ।। २ ।।
पुमांसं पुत्रं जनय तं पुमाननु जायताम् ।
भवासि पुत्राणां माता जातानां जनयासि च ।। ३ ।।
यानि भद्राणि बीजान्यृषभा जनयन्ति ।
तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धनुका भव ।।४।।
कृणोमि ते प्राजापत्यमा गर्भो योनिमेतु ते ।
विन्दस्व पुत्र नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भवा ।।५।।
यासां पिता पर्जन्यो भूमिर्माता बभूव ।
तास्त्वा पुत्रविद्याय देवीः प्रावन्त्वोषधीः ।। ६ । ।
यस्ते योनिमुदिङ्गयादृषभो रेतसा सह ।
स त आ सिञ्चतु प्रजां दीर्घायुं शतशारदाम् ।।७।।

3.15
यां त्वा वातोवरयदार्द्रनाभा महर्षभः ।
तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ।१।
यां त्वा वराहो अखनदेकस्मिन्नधि पुष्करे ।
तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ।।२ । ।
यां त्वादितिरवपद बीजवापमधि पुष्करे ।
तस्यास्ते विश्वधायसो विषदूषणमुद्धरे ।३।
यस्याः कुलायं सलिले अन्तर्महत्यर्णवे ।
तस्यास्ते विश्वधायसो विषदूषणमुद्भरे ।। ४ । ।
उत्ते भर उत्तमाया अधमायास्त उद्धरे ।
उन् मध्यमान्मध्यमे तद्विषदूषणमुद्भरे ।। ५ ।।
अग्रभं समग्रभमुभावन्तौ समग्रभम् ।
दिवश्च पृथिव्याश्च विषदूषणमुद्भरे ।। ६ ।।
(इति षडृचोनामतृतीयाकण्डे तृतीयोऽनुवाक:)

3.16
पैद्वोसि पृतनायुः स्वाहा ।। १ ।।
सोममहिंसी: सोमहिंसितोसि स्वाहा ।२।
ब्राह्मणमहिंसीर्ब्रह्महिंसितोसि स्वाहा ।३।
नाभूदहिर्भ्रूणमारदहिरद्रिमरसावधीत् ।
विषस्य ब्रह्मणामासीत् ततो जीवन्न मोक्षसे ।।४।।
उष्टोहि: समुष्टो हि निर्धीतो अरस: कृत: ।
विषस्य ब्रह्मणामासीत् ततो जीवन्न मोक्षसे ।। ५ ।।
पुनर्ददामि ते विषं पूर्वपद्यमिदारिथ।
मां ददश्वान् मन्यसे मया दष्टो न मोक्षसे ।।६।।

3.17
एकशतं भेषजानि तेषां मातास्योषथे । तु. शौ.सं. ६.९६
समुद्रमव गच्छसि पृथिव्यामधि निष्ठिता ।१।
तस्यां वेदाधि भेषजं दशशीर्षो दशजिह्वः ।
यस्ते प्रथम आददे शं श्वावन्त ओषधे यमदाद्वीरयुग् भिषक्।।२।।
पुनश्चक्षुः पुनः प्राणं पुनरायुर्न आगमत् ।
निष्ट्वाकरं निष्कृत्या निष्ट्वा निष्कृत्याकरम् ।३।
मुञ्चामि त्वा शपथ्यादथो वरुण्यादुत ।
अथो यमस्य पड्वीशाद्विश्वस्माद् देवकिल्बिषात् ।।४।।
सं ते शीर्ष्णः कपालानि हृदयस्य च यो विदुः ।
उद्यन् सूर्य अदित्यो अङ्गद्योतमनीनशत् ।।५ ।।
हिमवतः प्र स्रवथ सिन्धौ समह सङ्गमः ।
ता आपः सर्वाः सङ्गत्य चक्षुः प्राणञ्च धत्त नः ।। ६ । ।

3.18
हस्तिवर्चसं प्रथतां बृहत् यशो अदित्या यत्तन्वः संबभूव । तु. शौ.सं. ३.२२
तत् सर्वे सवितुर्मह्यमेतद् विश्वे देवासो अदितिः सजोषाः।। १ ।।
मित्रश्च वरुणश्चेन्द्रो रुद्रश्च वेधतु ।
देवासो विश्वधायसस्तेन माञ्जन्तु वर्चसा ।।२ ।।
यत् ते वर्चो जातवेदो बृहद्भवत्याहुते ।
तेन मामद्य वर्चसा अग्ने वर्चस्विनं कृधि ।। ३ ।।
येन हस्ती वर्चसा संबभूव येन राजा मनुष्येष्वन्त: ।
येन देवा ज्योतिषा द्यामुदायन्तेन माग्ने वर्चसा सं सृजेह।।४।।
यावद् वर्चः सूर्यस्यासुरस्य च हस्तिनः ।
तावन् मे अश्विना वर्चः कृणुतं पुष्करस्रजा ।।५।।
यावच्चतस्रः प्रदिशश्चक्षुर्यावत् समश्नुते ।
तावत् समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ।।६ ।।

3.19
संशितं म इदं ब्रह्म संशितं वीर्य मम । तु. शौ.सं. ३.१९
संशितं क्षत्रं मे जिष्णु येषामस्मि पुरोहित: । १ ।।
समहमेषां राष्ट्रं श्यामि समोजो वीर्यं बलम् ।
वृश्चामि शत्रूणां बाहू सं श्यामि स्वानहन् ।२।
तेक्षणीयांस: पर्शोरग्नेतस्तीक्ष्णतरा उत ।
इन्द्रस्य वज्रात् तेक्ष्णीयांसो येषामस्मि पुरोहितः ।३।
अधस्पद्यन्तामधरे भवन्तु ये न इन्द्रं मघवानं पृतन्यान् ।
क्षणामि ब्रह्मणामित्रानुन्नयामि स्वानहम् ।।४।।
एषामहमायुधा सं श्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।
एषां क्षत्रमजरमस्तु जिष्णूग्रमेषां चित्तं विश्वेवन्तु देवाः ।।५।।
अभि प्रेत जयत प्रसूता: सं व श्यामि नर आयुधानि ।
तीक्ष्णेषवोबलधन्वनो हतोग्रायुधा अबलानुग्रबाहव:।।६।।

3.20
इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा । तु. शौ.सं. ३.१२
तां त्वा शाले सर्ववीरा: सुवीरा अरिष्टवीरा अभि सञ्चरेम।।१।।
इहैव ध्रुवा प्रति तिष्ठ शाले अश्वावती गोमती सूनृतावती।
ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय।२ ।।
धरुण्यसि शाले बृहच्छन्दा: पूतिधान्या ।
आ त्वा वत्सो मीमयदा कुमार आ धेनवः सायमा स्यन्दमानाः।।३।।
इमां शालां सविता वायुरग्निस्त्वष्टा होता नि मिनोतु प्रजानन्।
उक्षन्तूध्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ।। ४ ।।
मानस्य पत्नी शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।
तृणं वसाना सुमना असस्त्वं रयिं नो धेहि सुभगे सुवीरम्।।५।।
आ त्वा कुमारस्तरुण आ वत्सो जगता सह ।
आा त्वा परिश्रुतः कुम्भ आा दध्न: कलश्ययत् ।।६ । ।
(इति षडृचोनामतृतीयकाण्डे चतुर्थो ऽनुवाकः)

3.21
इममिन्द्र वर्धय क्षत्रियं म इमं विशामेकवृषं कृणु त्वम् । तु. शौ.सं.४.२२
निरमित्रानक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ।।१।।
अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा।
अस्मिन्निन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य । ।२ ।।
एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो ऽमित्रो अस्य ।
वर्ष्मत् क्षत्राणामयमस्तु राजेन्द्र शत्रूं रन्धय सर्वमस्मै ।। ३ ।।
अस्मै द्यवापृथिवी भूरि वामं सं दुहातां घर्मदुघे इव धेनुं ।
अयं राजा प्रिय इन्द्रस्य भूयात् प्रियो गवामोषधीनामुतापाम्।।४।।
युनज्मि त उत्तरावन्तमिन्द्र येन जयन्ति न पराजयन्ते ।
यस्त्वा करदेकवृषं जनानामुत राजन्नुत्तमं मानवानाम्।। ५ । ।
उत्तरस्त्वमधरे सन्त्वन्ये ये के च राजन् प्रतिशत्रवस्ते ।
एकवृष इन्द्रसखा जिगीवां छत्रूयतामभि तिष्ठा महांसि।६।

3.22
विषाणास्याङ्गिरसी देवजाः प्रतिचक्षणी । तु. शौ.सं. ६.१००
दिवस्पृथिव्याः संभूता सहस्राक्षीहैधि नः । ।१ ।।
सहस्राक्षी या तु गृभाति पश्यास्योषधे ।
सदान्वाघ्नी रक्षोघ्नी भवेह प्रतिचक्षणी ।२।
ये हरन्त्यासुतेयं पयस्फातिं चौषधे ।
तांस्त्वं सहस्रचक्षो गृभाय कृतवीर्ये ।३।
य आतुरं रन्धयन्ते ऽर्ष्मन्तं च विहृतम्।
तांस्त्वं सहस्रचक्षो गृभाय कृतवीर्ये।।४।।
यथाश्वा चतुरक्षो रात्रिंनक्तातिपश्यति ।
एवा सहस्रचक्षो त्वं प्रति पश्यास्यायतः ।। ५ ।।
गोभिरश्वैर्वसुभिरपक्रीतास्योषधे ।
श्यावस्याश्वस्य चक्षुषा प्रति पश्य किमीदिनः ।।६।।

3.23
सं सचध्वं सं पिबध्वमन्नं वो मधुमत् सह । तु. शौ.सं. ६.६४
व्रतं वः सर्वं सध्र्यक् समानं चेतो अस्तु वः ।। १ ।।
सं जानीध्वमिन्द्रश्चेत्ता वो ऽस्त्वयं वो ऽग्निर्नि हर: शमयाति ।
यद्वैरहत्यमुत भीममासीद्विश्वे देवा अप तत् प्लावयन्तु ।।२ ।।
शं वः स्यास्तु बृहस्पतिः शं द्यावापृथिवी उभे ।
शमन्तरिक्षमुत वो मरुत्वान् शं वः स्यास्त्वदितिर्देवपुत्रा ।। ३ ।।
कल्पेतां द्यावापृथिवी कल्पन्तामाप ओषधी: ।
कल्पन्तामग्नय: सर्वे ऽस्मै श्रैष्ठ्याय सव्रताः ।। ४ ।।
सं वः सृजामि हृदयं संसृष्टं मनो अस्तु वः ।
संसृष्टा वस्तन्वः सन्तु संसृष्टः प्राणो अस्तु वः ।। ५ ।।
सं वः पशूनां हृदयं सृजामि सं पुत्राणामुत या दुहितरो वः ।
सं वो जायानां मनसा मनांसि सं पतीनामुत चक्षुः सृजामि ।।६।।

3.24
प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः । तु. शौ.सं. ३.२७
तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु।। १ । ।
दक्षिणा दिगिन्द्रो ऽधिपतिस्तिरश्चिराजी रक्षिता वसव इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु।२ ।।
प्रतीची दिग् वरुणो ऽधिपतिः पृदाकू रक्षिता मित्र इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु।।३।।
उदीची दिक् सोमो ऽधिपतिः स्वजो रक्षिता वात इषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु।। ४ ।।
ध्रुवा दिग् विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषव: ।
तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु ।।५।।
ऊर्ध्वा दिग् बृहस्पतिरधिपतिश्चित्रो रक्षिताशनिरिषवः ।
तेभ्यो नमो ऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नमो वो ऽस्तु ।
यो ऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मस्तमु प्राणो जहातु।।६ ।।

3.25
अनड्वान् दाधार पृथिवीं द्यामुतामूमनड्वान् दाधारोर्वन्तरिक्षम् ।
अनड्वान् दाधार प्रदिश: षडुर्वीरनड्वानिदं विश्वं भुवनमा विवेश।१।
अनड्वान् दुहे सुकृतस्य लोक ऐनं प्यायेत पवमान: पुरस्तात् ।
पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ।२ ।।
अनड्वानिन्द्रः स पशुभ्यो वि चष्टे त्रयांछक्रोप मिमीते अध्वन: ।
स भूतं भविष्यद्भुवनं दुहानः सर्वा देवानां बिभ्रच्चरति व्रतानि। ३ ।।
यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।
यो विश्वभृद् विश्वकर्मा धर्मं नो ब्रूत यतमश्चतुष्पात् ।।४।।
इन्द्र एष मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः । र्धर्म
सुप्रजा असत् स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन्।।५।।
येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य धाम ।
तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन यशसा तपस्यया।।६।।
द्वादशैता रात्रीर्व्रत्या आहु: प्रजापते: ।।
तत्रापि ब्रह्मणो व्रतं तत्राप्यनडुहो बलम्।।७।।
यास्त आहुः प्रजापतेर्व्रत्या रात्रीर्द्वादश।
तत्रापि ब्रह्म यो वेद तद् वा अनडुहो बलम्।।८।।
दुहे वा अनड्वान् सायं दुहे प्रातर्दुहे दिवा।
दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः।।९।।
यो वेदानडुहो दोहान् सप्तानुपदस्वतः ।
प्रजां च लोकं चाप्नोति तथा सप्तर्षयो विदुः ।। १० ।।
मध्यमेतदनडुहो यत्रैष वह आहितः ।
एतावदस्य प्राचीनं यावान् प्रत्यङ् समाहितः।। ११ ।।
पद्भिः सेदिमवक्रामन्निरां जङ्घाभिरुत्खिदन् ।
श्रमेणानड्वान् कीलालं कीनाशश्चाभि गच्छतः ।।१२ ।।
इन्द्र एष मनुष्येष्वनड्वानित्युच्यते ।
शफासो अस्य मा रिषन् सर्वा याश्चास्य कुष्ठिकाः ।।१३।।
इन्द्रो बलेनासि परमेष्ठी व्रतेन येन गौस्तेन वैश्वदेव: ।
यो अस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य प्राणान् सं बृहत्तस्य प्राणान् वि वृह ।।१४ ।।
(इति षडृचोनामतृतीयकाण्डे पञ्चमो ऽनुवाकः)

3.26
गृहानैमि मनसा मोदमान ऊर्जं बिभ्रद् वसुमनिः सुमेधाः । तु. शौ.सं. ७.६०
अघोरेण चक्षुषा मित्रियेण गृहाणां पश्यन् पय उत्तरामि।।१।।
इमे गृहा मयोभुव ऊर्जस्वन्त: पयस्वन्त: ।
पूर्णा वामस्य तिष्ठन्तस्ते नो जानन्तु जानत: ।२ ।।
सूनुतावन्त: सुभगा इरावन्तो हसामुदाः ।
अक्षुध्या अतृष्यासो गृहा मास्मद् बिभीतन ।। ३ ।।
येषामध्येति प्रवसन् येषु सौमनसो बहुः ।
गृहानुपं ह्वयामहे ते नो जानन्त्वायत: ।।४।।
उपहूता इह गाव उपहूता अजावय: ।
अथो अन्नस्य कीलाल उपहूतो गृहेषु नः ।।५ ।।
उपहूता भूरिधनाः सखायः स्वादुसंमुद: ।
अरिष्टा: सर्वपूरुषा गृहा न: सन्तु सर्वदा ।। ६ ।।

3.27
हन्तायमस्त्वप्रतिघात्य: सासह्वां इन्द्र: पृतना अभिष्टि: ।
प्रजापतिरदधादोजो अस्मै बृहद्धविर्हविषा वर्धनेन । ।१ ।।
प्रजापते हविषा वर्धनेन हन्तारमिन्द्रमकृणोरघात्यम् ।
तस्मै विशो देवकृता नमन्त स हि हन्ता स हि हव्यो बभूव ।। २ ।।
प्रजापते अभि नो नेष वस्य ऊर्वीं गव्यूतिमभिमातिषाह:।
वर्धयन्निन्द्रं बृहते रणाय देवं देवेन हविषा वर्धनेन । । ३ । ।
यथा विश्वा: पृतनाः संजयासि यथा शत्रून् सहमानः सहासै ।
यथास: सम्राट् सुसम्राडेवा त्वेन्द्रो ऽप्रतिवधं कृणोतु ।।४।।
अयं वीरो ऽप्रति हन्तु शत्रून् विश्ले देवा अप सदस्कराथ ।
मास्य प्रजां रीरिषन् मोत वीरानिममिन्द्रोऽप्रतिवधं कृणोतु ।।५।।
जहि शत्रून् प्रति रन्धयस्वाग्निष्टे गोपा अधिपा वसिष्ठः ।।
शर्म ते राजा वरुणो नियच्छादेवा त्वेन्द्रोऽप्रतिवधं कृणोतु ।।६।।

3.28
सं स्पृशेथां तनूभ्यां सं मुखाभ्यां समात्मना ।
सं वां ब्रह्मणस्पतिः सोमः सं स्पर्शयाति वाम् ।। १ ।।
अभ्यस्य नाम वाचा दधामि नाह मोक्ष्यते ।
ममेदहैनं कामे लभै कृष्णमिवाखरे ।२।
यः प्रेमा प्रेण्यामासीद् दत्त: सोमेन बभ्रुणा ।
तस्मादधि श्रुतं मम मय्यस्य मन आहितम् ।
यं पुमांसं कामयसे यस्मिन् वा भगमिच्छसे ।३।
हृच्छोकमस्मिन्ना दध्मो यथा शुष्याति त्वामनु ।
यथास्य हृदयं शुष्यादपिच्छिन्नेव शंगुणी ।।४।।
चक्षुराकास्यं भीमं मांपश्यमभिरोरुदम् ।
प्रियंकरणमुत्तमं मधुघेन तदाभृतम् ।। ५ ।।
त्वं हासि वर्चस्यो ऽथो हासि सुमङ्गलः ।
अथो सर्वासां वीरुधां प्रियंकरणमुच्यसे ।।६।।

3.29
प्रतीची सोममस्योषधे प्रतीच्युत सूर्यम् । तु. शौ.सं. ७.३८
प्रतीची विश्वान् देवांस्तथा त्वाच्छावदामसि ।१।
इमां खनाम्योषधिं नितत्नीमनुतन्तमाम् ।
आयतः प्रतिनन्दनीं परायतो निवर्तनीम् ।।२ ।।
अमुष्याहं परायत आयतो मनो अग्रभम् ।
अग्रभं हस्त्यं मनो ऽथो हृदय्यं मन: ।। ३ । ।
मयि ते मन आहितं मयि चित्तं मयि व्रतम् ।
ममेदपि क्रतावसो मम चित्ते सचावहै ।।४।।
अहं वदानि मा त्वं सभायां घ त्वं वद ।
ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन । ५ ।
यदि वासि तिरोजनं यदि वा नद्यास्तिर: ।
इयं त्वा मह्ममोषधिर्बद्ध्वेव न्यानयात् ।।६।।

3.30
यथा कलां यथा शफं यथर्णं संनयन्ति । तु. शौ.सं. १९.५७
एवाह दुष्वप्न्यं सर्वमप्रिये सं नयामसि ।१।
सं राजानो ऽगुः समृणान्यगुः सं कुष्ठा अगुः सं कला अगुः ।
समस्मासु सुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवामः । ।२ ।।
देवानां पत्नीनां गर्भ यमस्य करण: ।
यो भद्र: स्वप्नः स मम य: पापस्तं द्विषते प्र हिण्मः । । ३ ।।
तृष्णामा नामासि कृष्णशकुनेर्मुखं निर्ऋतेर्मुखम् ।
तं त्वा स्वप्न तथा विद्म ।४।।
स त्वं स्वप्नाश्व इवाकायमश्व इव नीनाहम् ।
अनास्माकं देवपीयुं पियारुं वप्सः ।। ५ ।।
यदस्मासु दुष्वप्न्यं यद् गोषु यच्च नो गृहे ।
अनास्माकस्तद् देवपीयुः पीयारुं निष्कमिव प्रति मुञ्चताम्।। ६ ।।
नवारत्नीनवमायास्माकं तन्वस्परि ।
दुष्वप्न्यं सर्वं दुर्भूतं द्विषते निर्दिशामसि ।।७।।
(इति षडृचोनामतृतीयकाण्डे षष्ठो ऽनुवाकः)

3.31
देवा मरुतः पृश्निमातरो ऽपो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ।१।
देवा अग्न इन्द्र सूर्यापो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ।२।
देवा: सयुजो मित्र वरुणार्यमन्नपो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ।३ ! !
देवा: पितरो ऽवमा आयवः क्राव्य अपो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ।।४।।
देवाप्सुषदो ऽपां नपात्तनूनपान्नराशंसापो दत्तोदधिं भिन्त ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ।।५।।
देव बृहस्पते ऽपो धेह्युदधिं भिन्धि ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ।।६।।
देव प्रजापते ऽपो धेह्युदधिं भिन्धि ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्य: प्रजाभ्य आभ्य ओषधीभ्य: स्वाहा ।।७।।
देव परमेष्ठिन्नपो धेह्युद्युदधिं भिन्धि ।
दिवस्पृथिव्या उरोरन्तरिक्षादस्मै क्षत्रायानेन ब्रह्मणाभ्यः प्रजाभ्य आभ्य ओषधीभ्यः स्वाहा ।।८ ।।

३- ३२ 3.32
प्रजापतेर्जायमानाः प्रजा जाताश्च या इमाः ।
ता अस्मै प्रति वेदय चिकित्वाङ् अनु मन्यताम् ।।१।।
येषामीशे पशुपतिः पशूनां चतुष्पदामुत वा ये द्विपाद: ।
निष्क्रीतास्ते यज्ञिया यन्ति लोकं रायस्पोषाय यजमानं सचन्ताम्।।२ ।।
प्रमुञ्चन्तो भुवनस्य गोपा गातुं देवा यजमानाय धत्त ।
उपाकृतं शशमानं यदस्थात् प्रियं देवानामप्येतु पाथः ।। ३ ।।
ये बध्यमानमनु दीध्यानां अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष्टानग्रे प्र मुमुक्त देवः प्रजापति: प्रजया संविदानः ।।४।।
येषां प्राणा अन्वबध्नन्त बद्धं गवां पशूनामुत पूरुषाणाम् ।
इन्द्रस्तानग्रे प्र मुमुक्त देवः प्रजापतिः प्रजया संविदानः ।।५ ।।
य आरण्याः पशवो विश्वरूपा ये विश्वरूपा उतैकरूपाः ।
वायुष्टानग्रे प्र मुमुक्त देव: प्रजापति: प्रजया संविदान: ।।६।।
प्रजानन्त: प्रति गृह्णन्तु देवाः प्राणमङ्गेभ्यस्पर्याचरन्तम् ।
द्यां गच्छ प्रति तिष्ठा: शरीरै: स्वर्गं याहि पथिभि: शिवेभि: ।। ७ । ।

3.33
समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सर ऋषयो यानि सत्या । तु. शौ.सं. २.६
सं द्युम्नेन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशश्चतस्त्र:।।१।।
सं चेध्यस्वाग्ने प्र च बोधयैनमुच्च तिष्ठ महते सौभगाय ।
मा ते रिषन्नुपसत्तारो अत्र ब्राह्मणास्ते यशसः सन्तु मान्ये ।। 1२ ।।
त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने प्रतरणो न एधि ।
सपत्नहाग्ने अभिमातिजिद् भव स्वे क्षये दीदिह्यप्रयुच्छन् ।३।
इहैवाग्ने अधि धारया रयिं मा त्वा दभन् पूर्वचित्ता निकारिणः । पुर्व
क्षत्रमग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्ट्टत: ।। ४ ।। पा. अनिष्कृतः
क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधेयं यतस्व ।
सजातानां मध्यमेष्ठेयमस्या राज्ञामग्ने विहव्यो दीदिहीह।५।।
अति निहो अति निर्ऋतीरत्यरातीरति द्विष: ।
विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दा: ।।६।।
अनाधृष्यो जातवेदा अनिष्ट्टतो विराडग्ने क्षत्रभिर्दीदिहीह ।
व्यमीवाः प्रमुञ्चन्मानुषेभ्यः शिवेभिरद्य परि पाहि नो गयै: ।। १७ ।।

3.34
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथा: । तु. शौ.सं. ३.२
तं जानन्नग्न आ रोहाथा नो वर्धया रयिम् ।।१।।
प्रदातारं हवामहे अग्निमुग्रमूतये ।
शुचिर्यो वृत्रहन्तमः । । २ ।।
अग्ने अच्छा वदेह न: प्रत्यङ् नः सुमना भव ।
प्र णो यच्छ विशां पते धनदा असि नस्त्वम् । ।३ । ।
प्र णो यच्छत्वर्यमा प्र भग: प्र बृहस्पति: ।
प्र पूषा प्रोत सूनृता रयिं देवी दधातु न: ।। ४ ।।
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।
वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ।।५।।
सोमं राजानमवसे ऽग्निं गीर्भिहवामहे ।
आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ।। ६ ।।
इन्द्रवायू बृहस्पति: सुहवेह हवामहे ।
यथा न: सर्वमिज्जगत् सङ्गत्यां सुमना असत् ।।७ ।।
त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
त्वं नो देव दातवे रयिं दानाय चोदय ।८ ! !
वाजस्येदं प्रसवे सं बभूव मेमा च विश्वा भुवनान्यन्तः ।
उतादित्सन्तं दापयति प्रजानन् रयिं च नः सर्ववीरं नि यच्छात् ।।९।।
दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम् ।
प्रापेयं सर्वामाकूतिं मनसा हदयेन च ।।१०।।
गोसनिं वाचमुदेयं वर्चसा माभ्यूर्णुहि ।
आा रुन्धां सर्वतो वायुस्त्वष्टा पोषाय ध्रियताम् ।। ११ । ।

3.35
यत इन्द्र भयामहे ततो नो अभयं कृधि । तु. शौ.सं. १९.१५
मघवञ्छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ।। १ ।।
इन्द्रं वयमनूराधं हवामहे ऽनु राध्यास्म द्विपदा चतुष्पदा।
मा नः सेना अररुषीरुप गुर्विषूचीरिन्द्र दुहो वि नाशय ।।२ ।।
इन्द्रस्त्रातोत वृत्रहा परस्पा नो वरेण्यः ।
स रक्षिता चरमतः स मध्यतः स पश्चात् स पुरस्तान्नो अस्तु।। ३ ।।
उरुं नो लोकमनु नेषि विद्वान् स्वर्यज्ज्योतिरभयं स्वस्ति।
उग्रा त इन्द्र स्थविरस्य बाहू उप क्षियेम शरणा बृहन्ता ।।४।।
अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे ।
अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ।।५ ।।
अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः । ।
अभयं नक्तमभयं दिवा न: सर्वा आशा मम मित्रं भवन्तु ।।६ 1 ।।
(इति षडृचोनामतृतीयकाण्डे सप्तमो ऽनुवाकः)

3.36
जय प्रेहि माप क्रामः शत्रूणां वेद आ खिद ।
इन्द्रः सपत्नहा भीम: सञ्जयस्ते समानृधत् । ।१ । ।
त्वं जयासि न परा जयासा अर्भेष्वाजौ मघवन् महत्सु च ।
उग्रं चित् त्वामवसे सं शिशीमहे स त्वं न इन्द्र हवनेषु मृड़।२।
गोजिता बाहू असमक्रतू युधि कर्मन्कर्मञ्छतमूती खजङ्करा ।
अकल्प इन्द्रो ऽप्रतिमानमोजः स त्वं न इन्द्र हवनेषु मृड़ । ।३ । ।
वेदाहमैन्द्रं प्रियमस्य शेवधिं यदस्य नाम गुह्यं समीके ।
स इज्जयाति मघवा ममासत्यस्माकं युध्मो विहवे हवं गमत्।।४।।
वयं जयेम त्वायुजा भृतो अस्माकमंशमुदवा भरेभरे ।
अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ।।५ ।।
त्वां देवेषु प्रथमं हवामहे त्वं बभूविथ पृतनासु सासहिः ।
सेमं न: कारुमुपमन्युमुद्भिदमिन्द्र करासि प्रसवे रथं पुर: ।।६।।

3.37
स्मर स्मरो ऽसि देवैर्दत्तो ऽसि स्मर ।
अमुष्य मन आ स्मर यथाहं कामये तथा । १ ।
शोचयास्य हृदयं काम गच्छाङ्गज्वरो दहतु शोचतु त्मना ।
सङ्कल्पा अस्य समरन्ताधीभिरियमेवास्य दिगमहन्यन्याः।।२ ।।
निरानन्दाः प्रमुच्छदो मनोमुहोनयुवो नष्टकृत्वा अरण्यवः ।
आवेशिनीः प्रद्रुपो रोपयिष्णुरेत आस्ताध्य: प्र हिणोमि ब्रह्मणा ।। ३ ।।
हृत्कर्तनी ऋतुदा ग्रामान्नाशनीः स्वप्नच्छिद उघ्ननीघ्ना मनोमुह: ।
आवेशिनीः प्रद्रुपो रोपयिष्णुरेत आस्ताध्यः प्र हिणोमि ब्रह्मणा ।।४।।
इन्द्राग्नी मित्रावरुणा ते अद्योभे च द्यावापृथिवी मातरिश्वा ।
अश्विना देवः सविता भगश्च मनस्त उघ्नन्तु न रमासा अत्र ।। ५ ।।
त्रयस्त्रिंशत्त्वा उत घ्नन्तु देवा आध्यश्चित्तमुप ते भरन्ताम् ।
भरद्वाजस्य मतयस्त ईशतां छिन्नेव नौर्बन्धनात् प्र प्लवस्व ।।६।।
एताः एतन्त्याध्यो वार्षिकीरिव विद्युत: ।
तासां प्रतिग्रहो भव सायं गोष्ठे गवामिव ।।७।।
नि शीर्षतो नि पातित आध्यो वेशयामि ते ।
तास्त्वा समुत्तुदन्तीर्बाधयन्तीरुपासताम् ।।८ ।।
एतास्त आध्य: प्र हिणोमि ब्रह्मणा तृप्रा अश्रीपुरोगवाः ।
तास्त्वा तृणमिव शोषयानथो त्वा रोदयान् बहु ।९।

3.38
अजो ह्यग्नेरजनिष्ट शोकात् सोऽपश्यज्जनितारमग्रे । तु. शौ.सं. ४.१४
तेन देवा देवतामग्र आयन् तेन रोहानरोहन्नुप मेधीयांसः ।।१ । ।
क्रमध्वमग्निभिर्नाकमुख्यां हस्तेषु बिभ्रतः ।
दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ।। २ । ।
अग्ने प्रेहि प्रथमो देवयतां चक्षुर्देवानामुत मर्त्यनाम् ।
इयक्षमाणा भृगुभिः सजोषसः स्वर्यन्तु यजमानाः स्वस्ति ।। ३ ।।
स्वर्यन्तो नापेक्षन्त आा द्यां रोहन्तु राधसः ।
यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ।।४।।
ओदनमनज्मि शवसा घृतेन दिव्यं समुद्रं पयसं बृहन्तम् ।
तेन गेष्म सुकृतस्य लोकं सरो रुहाणा अधि नाकमुत्तमम् ।।५ ।।
यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन ।।
ताभ्यां पत्यास्म सुकृतस्य लोकं यत्रर्षय: प्रथमजाः पुराणाः ।।६।।
यतस्तिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन ।
अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ।।७ ।।
पृष्ठात् पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम्।
दिवो नाकस्य पृष्ठात् स्वर्ज्योतिरगामहम्।।८।।
अजो ऽस्यज स्वर्गोसि त्वया लोकमङ्गिरसः प्र जानन्।
तं लोकमनु प्र ज्ञेष्म।।९।।
येना सहस्रं वहसि येन वा सर्ववेदसम् ।
तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे।।१०।।
अजं च पचत पञ्च चौदनान्।
अजं पञ्चौदनं पक्त्वा देवा लोकान् समानशुः।।११।।

3.39
या ते प्रजापिहिता पुराभूद् ध्रुवेणाश्विनापतं भरामि । तु. शौ.सं. १४.२.३९
अग्निष्टे तामाद् यमः पुनर्दाद्वैश्वानर: परमस्माद् व्योम्नः ।। १ ।।
त्वं पतिः शिवो ऽग्नेद्वितीयो ऽस्यै प्रजां जरदष्टिं सृजस्व ।
मुञ्चैनां ग्रह्या निर्ऋतिर्यद्बन्धाग्ने प्रजां प्रजाकामायै धेहि।२।
त्वामग्ने वृषभं वाशितेयमाच्य जानु पुत्रकामा सपर्यति ।
तामारोह सुमनस्यमानः प्रजापते: प्रजया सं सृजैनाम् ।। ३ ।।
तुभ्यं नारी पुत्रकामेयमग्ने शुद्धं पूतं घृतमा जुहोति ।
तामधिस्कन्द वीरयस्व रेतोधा उग्रः प्रजया सं सृजैनाम्।। ४ ।।
पर्वताद् दिवो योनेर्गात्राद्गात्रात् समाशृतम् ।
रेतो देवस्यदेवस्य त्सरौ पर्णमिवा धाम् ।।५ । ।
इन्द्रस्य जातस्य प्र पपात नाभिस्तामेको देवः प्रति जग्राह कामी।
त्वया वयं ब्राह्मणाः सोमपाः सूपयाम उत या न सूते।।६ ।।

3.40
तेजनात् त्यजनं जातं तेजनं जायते शरात् ।
न येषति न शोचति यस्त्वा बिभर्ति तेजन ।।१ ।।
परुत्नमसि तेजन परुत्नन्ते प्रभञ्जनम् ।
परुत्नो अस्तु स कामो येनामून् कामयामहे ।।२ । ।
यावदोषः शरो अस्त्वोजनेभ्यः कृणवद्भयम् ।
तावदोषस्त्वन्तेजन त्यजनं भवतादिह । ।३ । ।
त्यजनं म आापो दधन् त्यजनं मरुतो दधन् ।
त्यजनं मे विश्वे देवास्त्यजनं पितरो दधन् ।।४।।
तेनाहमन्येषां स्त्रियो अत्याक्षं विद्विषः पुरा ।
पुरा द्विषो अत्याक्षं पुरा मध्यन्दिनादुत ।
पुरा सायत्वादत्याक्षं तेजने हि महद्बलम् ।।५ । ।
अस्थाद्द्यौरस्थात् पृथिव्यस्थाद्विश्वमिदं जगत् ।
अस्थादवहृदेवात्तिष्ठात् कामो अयं तव ।।६।।
(ढ़ति षडृचोनामतृतीयकाण्डेऽष्टमो ऽनुवाकः)
इत्यथर्ववेदे पैप्पलाद संहितायां षडृचोनामतृतीयः काण्डः समाप्तः