पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रशस्तब्राह्मणनिरूपणम् । ब्राह्मणा दैवतं भूमौ ब्राह्मणा दिवि दैवतम् । ब्राह्मणेभ्यः परं नास्ति भूतं किञ्चिजगत्त्रये ॥ अदैवं दैवतं कुर्युः कुर्युदैवमदैवतम् । ब्राह्मणा हि महाभागाः पूज्यन्ते सततं द्विजाः ॥ ब्राह्मणेभ्यः समुत्पन्ना देवाः पूर्वमिति श्रुतिः । ब्राह्मणेभ्यो जगत्सर्व तस्मात् पूज्यतमाः स्मृताः । येषामश्नन्ति वक्रेण देवताः पितरस्तथा । ऋषयश्च तथा नागाः किम्भूतमधिकं ततः ॥ इति ब्राह्मणप्रशंसा | तत्र श्राद्धीय प्रशस्ता ब्राह्मणाः । तत्र श्रोत्रियस्य प्रशस्तत्वमाह - वशिष्ठः, श्रोत्रियायैव देयानि हव्यकव्यानि नित्यशः । अश्रोत्रियाय दत्तं हि नाईन्ति पितृदेवताः । श्रोत्रियलक्षणमाह - देवलः, एकां शाखां सकल्पां वा षड्‌भिरङ्गैरधीत्य वा । षट्कर्मनिरतो विप्रः श्रोत्रियो नाम धर्मवित् || षट् कर्माणि यजनयाजनाध्ययनाध्यापनप्रतिग्रहदानानि । ब्रह्मवैवर्तेऽपि, ५९ जन्मना ब्राह्मणो शेयः संस्कारोर्द्वज उच्यते । विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ॥ अत्रानुस्यूतत्वात् सर्वत्र स्वशाखाध्ययनमेव श्रोत्रियपदप्रवृत्ति निमित्तम्, इतरन्तु प्राशस्त्यार्थमिति बोध्यम् । “श्रोत्रियश्छन्दोऽधीते" (पा० ५/२/८४) इति स्मृत्या कर्मानुष्ठानाद्यनपेक्ष्यैव छन्दोऽध्येतर्येव श्रोत्रियेति निपातनाथ | हव्यानि = देवोदेशेन दत्तानि हवींषि | कव्यानि= पितॄनुद्दिश्य दत्तानि । श्रोत्रियेष्वपि विशेषमाह - मनुः, ज्ञानोत्कृष्टेषु देयानि कव्यानि च हवींषि च । न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुद्धतः ॥ इति । ( अ० ३ श्लो० १३२ ) ज्ञानोत्कृष्टा=विद्योत्वष्टाः । दिग्धो लिप्तौ । तथा च स एव श्रो.