पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्राह्याग्राह्यक्षीरनिर्णयः । अत्रेयं व्यवस्था श्राद्धप्रकरणे यद् द्रव्यं फलविशेषार्थमुपान्तं तत् फलविशेषार्थिना देयं, यस्य तु फलसंयोगोनास्ति केवलं श्राद्धप्रक रणे विधानं तस्य श्राद्धस्वरूप सम्पादकत्वेन श्रद्धाङ्गत्वम् । तदलाभे तु अविहिताप्रतिषिद्धं विहितसदृशं देयम् । यस्य तु प्रकरणे निषेधः तत् प्रतिनिधित्वेनापि नादेयम् | यस्य तु श्राद्धप्रकरणे विधिप्रतिषेधौ, यथा बहुपुत्रापनसचीणाकतण्डुलीयचुक्रिकाज्येष्ठीमधुहिङ्गुकोविदारकुस्तुम्बरनारिकेलबीजपुरकादौ । तत्र प्रहणाग्रहणवद् विकल्पः । इति वर्ज्यानि मूलफलानि । अथ प्राह्याणि क्षीराणि । अनं च सदधिक्षीरं गोघृतं शर्करान्वितम् । मास प्रीणाति वै सर्वान् पितॄनित्यब्रवीदजः || पद्मपुराणे- पयोदधि घृतं चैव गवां श्राद्धेषु पावनम्। महिषाणां घृतं प्राहुः श्रेष्ठं न तु घृतं हितम्।। इति क्षीराणि ग्राह्याणि। मनुः संवत्सरं तु गव्येन पयसा पायसेन च । पायसेन= परमानेन | सुमन्तुः । पयोदधि घृतं चैव गवां श्राद्धेषु पावनम् । महिषाणां घृतं प्राहुः श्रेष्ठं न तु पयः क्वचित् ॥ देवलः - अजाविमहिषीणान्तु पयः श्राद्धेषु वर्जयेत् । विकारान् पयसश्चैव माहिषं तु घृतं हितम् ॥ इति क्षीराणि प्राध्याणि । अथ वर्ज्यानि । भविष्यत् पुराण - श्राद्धे तु महिषीक्षीरं अजाक्षीरं च वर्जयेत् । गवां चानिर्दशाहानां सन्धिनीनां पयस्त्यजेत् ॥ या कालद्वये प्राप्तदोहा एकदैव दुह्यते सा सन्धिनी । यद्वा वृषेण सन्धिं प्राप्ता सा सन्धिनी । मृतवत्सा वा वत्सान्तरेण सन्धीयमाना | मार्कण्डेये- मार्गमाविक मौष्ट्रं च सर्वमैकशफं च यत् । माहिषं चापरं चैव घेन्वा गोश्चाप्यनिर्दशम् || वर्जनीयं सदा सद्भिः तत् पयः श्राद्धकर्मणि । ७ वी० मि०