३४० वीरमित्रोदयस्य श्राद्धप्रकाशे- सर्वेषामिति= अस्य मन्त्रस्य तात्पर्यार्थः । एकादशाद्याः क्रमशो ज्येष्ठस्य विधिवत् क्रियाः । कुर्युनैकैकशः श्राद्धमाब्दिकं तु पृथक् पृथक् ॥ इति प्रचेतोवचनैकवाक्यतया ज्येष्ठेनैव एकादशाहादिसपिण्डी. करणान्तानि श्राद्धानि कार्याणि । कनिष्ठेन तु तत्र अनुमतिद्रव्यार्पणे एव विधेये, एवं च प्रयोगानुष्ठातृत्वरूपं साक्षात्कर्तृत्वं ज्येष्ठस्यैव, अनुमतत्व रूपमनुग्राहकत्वरूपं वा कर्तृत्वं कनिष्ठस्य इत्यभिप्रायेणोक्तं सर्वैरेव कृतं भवेदिति । एतेन यत्र वैदेश्यादिवशात्कनिष्ठस्यानुमतत्वद्रव्य संश्लेषयोरभावः, सत्र ( १ ) तेन पृथगेव तच्छ्राद्धमनुष्ठेयम् । अन्यथा तस्य प्रत्यवायप- रिहारो न स्यादिति यच्छूलपाणिनोकं तश्चिन्त्यम् | तस्यानुमतिद्व व्यार्पणयोरेवाधिकारस्य वाचनिकत्वान्न तु साक्षादनुष्ठाने, एवं च देशादागत्य तेन ज्येष्ठाय द्रव्यार्पणमात्रं विधेयम्, शक्यत्वात्, तावतैव स न प्रत्यक्षैति । अत एव "ज्येष्ठेनैव " इत्यत्र "पृथक् नैव सुताः कुर्यु:" इत्यत्र च एवकारौ कनिष्ठस्य साक्षात् कर्तृत्वनिषेधार्थी, एवं च ज्येष्ठासान्निध्ये कनिष्ठस्य अग्निदातृत्वे तेन दशाहकृत्यमेव कर्त व्यम्, "यस्त्वग्निदाता प्रेतस्य स दशाहं समापयेत्” इति वचनात् । न वैकादशाहादिकमपि, ज्येष्ठष्यैव साक्षात् कर्तृत्वबोधनात् । यदि च शास्त्रार्थभ्रान्त्यादिना कनिष्ठेनैकादशाहादिक मनुष्ठितं तथापि ज्येष्ठेन पुनः कर्तव्यमेव, तस्यैव साक्षादनुष्ठानविधानात् । न च पृथ क्करणनिषेधात् तेन कथमनुष्ठेयमिति वाच्यम् | कनिष्ठकृतश्राद्धस्थानधिकारिकृतत्वेनाकृतकल्पतया तत्र पृथक्करणा-[णनिषेधा] भावादिति बहवः । वस्तुतस्तु "बहवः स्युर्यदा पुत्रा:" इत्यादि मरीचिवाक्य एकत्र वासिन इत्यस्य एकदेशावस्थिता इत्यर्थः, तथा च बहूनां पु त्राणा सान्निध्ये ज्येष्ठेन प्रयोगोऽनुष्ठेयः साधारणधनेन, कनिष्ठे स्तु अनुमतिद्रव्यार्पणमात्रं विधेयम् । ज्येष्ठासान्निध्ये तु कनिष्ठेन षोडशश्राद्धानि यथाकालं यथा क्रमं संवत्सरपर्यन्तं कर्तव्यानि, पूर्ण संवत्सरे ज्येष्ठासन्निधाने सपिण्डीकरणमपि तदा कर्तव्य मेव "ग्रमतस्य पितुः पुत्रैः श्राद्धे देयं प्रयत्नतः” इति बृहस्पतिवाक्ये ( १ ) कनिष्ठेनेस्यर्थः ।
पृष्ठम्:Viramitrodaya shraddha prakasha.djvu/३५०
दिखावट